भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.5.21

2.5.21.1

सनत्कुमार उवाच ॥
ते गणाधिपतीन्दृष्ट्वा नन्दीभमुखषण्मुखान्॥
अमर्षादभ्यधावंत द्वंद्वयुद्धाय दानवाः

2.5.21.2

नन्दिनं कालनेमिश्च शुंभो लंबोदरं तथा ॥
निशुंभः षण्मुखं देवमभ्यधावत शंकितः

2.5.21.3

निशुंभः कार्तिकेयस्य मयूरं पंचभिश्शरैः ॥
हृदि विव्याध वेगेन मूर्छितस्स पपात ह

2.5.21.4

ततः शक्तिधरः क्रुद्धो बाणैः पंचभिरेव च ॥
विव्याध स्यंदने तस्य हयान्यन्तारमेव च

2.5.21.5

शरेणान्येन तीक्ष्णेन निशुंभं देववैरिणम् ॥
जघान तरसा वीरो जगर्ज रणदुर्मदः

2.5.21.6

असुरोऽपि निशुंभाख्यो महावीरोऽतिवीर्यवान् ॥
जघान कार्तिकेयं तं गर्जंतं स्वेषुणा रणे

2.5.21.7

ततश्शक्तिं कार्तिकेयो यावजग्राह रोषतः ॥
तावन्निशुंभो वेगेन स्वशक्त्या तमपातयत्

2.5.21.8

एवं बभूव तत्रैव कार्तिकेयनिशुंभयोः ॥
आहवो हि महान्व्यास वीरशब्दं प्रगर्जतोः

2.5.21.9

ततो नन्दीश्वरो बाणैः कालनेमिमविध्यत ॥
सप्तभिश्च हयान्केतुं रथं सारथिमाच्छिनत्

2.5.21.2.5.21.10

कालनेमिश्च संकुद्धो धनुश्चिच्छेद नंदिनः ॥
स्वशरासननिर्मुक्तैर्महातीक्ष्णैश्शिलीमुखैः

2.5.21.11

अथ नन्दीश्वरो वीरः कालनेमिं महासुरम् ॥
तमपास्य च शूलेन वक्षस्यभ्यहनद्दृढम्

2.5.21.12

स शूलभिन्नहृदयो हताश्वो हतसारथिः ॥
अद्रेः शिखरमुत्पाट्य नन्दिनं समताडयत्

2.5.21.13

अथ शुंभो गणेशश्च रथमूषक वाहनौ ॥
युध्यमानौ शरव्रातैः परस्परमविध्यताम्

2.5.21.14

गणेशस्तु तदा शुंभं हृदि विव्याध पत्रिणा ॥
सारथिं च त्रिभिर्बाणैः पातयामास भूतले

2.5.21.15

ततोऽतिक्रुद्धश्शुंभोऽपि बाणदृष्ट्या गणाधिपम् ॥
मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः

2.5.21.16

मूषकश्शरभिन्नाङ्गश्चचाल दृढवेदनः ॥
लम्बोदरश्च पतितः पदातिरभवत्स हि

2.5.21.17

ततो लम्बोदरश्शुंभं हत्वा परशुना हृदि ॥
अपातयत्तदा भूमौ मूषकं चारुरोह सः

2.5.21.18

समरायोद्यतश्चाभूत्पुनर्गजमुखो विभुः ॥
प्रहस्य जघ्नतुः क्रोधात्तोत्रेणैव महाद्विपम्

2.5.21.19

कालनेमिर्निशुंभश्च ह्युभौ लंबोदरं शरैः ॥
युगपच्चख्नतुः क्रोधादाशीविषसमैर्द्रुतम्

2.5.21.2.5.21.20

तं पीड्यमानमालोक्य वीरभद्रो महाबलः ॥
अभ्यधावत वेगेन कोटिभूतयुतस्तथा

2.5.21.21

कूष्मांडा भैरवाश्चापि वेताला योगिनीगणाः ॥
पिशाचा डाकिनीसंघा गणाश्चापि समं ययुः

2.5.21.22

ततः किलकिला शब्दैस्सिंहनादैश्सघर्घरैः ॥
विनादिता डमरुकैः पृथिवी समकंपत

2.5.21.23

ततो भूताः प्रधावंतो भक्षयंति स्म दानवान् ॥
उत्पत्य पातयंति स्म ननृतुश्च रणांगणे

2.5.21.24

एतस्मिन्नंतरे व्यासाभूतां नन्दीगुहश्च तौ॥
उत्थितावाप्तसंज्ञौ हि जगर्जतुरलं रणे

2.5.21.26

स नन्दी कार्तिकेयश्च समायातौ त्वरान्वितौ॥
जघ्नतुश्च रणे दैत्यान्निरंतरशरव्रजैः॥
छिन्नैर्भिन्नैर्हतैर्दैत्यैः पतितैर्भक्षितैस्तथा ॥
व्याकुला साभवत्सेना विषण्णवदना तदा

2.5.21.27

एवं नन्दी कार्तिकेयो विकटश्च प्रतापवान् ॥
वीरभद्रो गणाश्चान्ये जगर्जुस्समरेऽधिकम्

2.5.21.28

निशुंभशुंभौ सेनान्यौ सिन्धुपुत्रस्य तौ तथा ॥
कालनेमिर्महादैत्योऽसुराश्चान्ये पराजिताः

2.5.21.29

प्रविध्वस्तां ततस्सेनां दृष्ट्वा सागरनन्दनः ॥
रथेनातिपताकेन गणानभिययौ बली

2.5.21.2.5.21.30

ततः पराजिता दैत्या अप्यभूवन्महोत्सवाः ॥
जगर्जुरधिकं व्यास समरायोद्यतास्तदा

2.5.21.31

सर्वे रुद्रगणाश्चापि जगर्जुर्जयशालिनः ॥
नन्दिकार्तिकदंत्यास्यवीरभद्रादिका मुने

2.5.21.32

हस्त्यश्वरथसंह्रादश्शंखभेरीरवस्तथा ॥
अभवत्सिंहनादश्च सेनयोरुभयोस्तथा

2.5.21.33

जलंधरशरव्रातैर्नीहारपटलैरिव ॥
द्यावापृथिव्योराच्छन्नमंतरं समपद्यत

2.5.21.34

शैलादिं पंचभिर्विद्ध्वा गणेशं पंचभिश्शरैः ॥
वीरभद्रं च विंशत्या ननाद जलदस्वनः

2.5.21.35

कार्तिकेयस्ततो दैत्यं शक्त्या विव्याध सत्वरम् ॥
जलंधरं महावीरो रुद्रपुत्रो ननाद च

2.5.21.36

स पूर्णनयनो दैत्यः शक्तिनिर्भिन्नदेहकः ॥
पपात भूमौ त्वरितमुदतिष्ठन्महाबलः

2.5.21.37

ततः क्रोधपरीतात्मा कार्तिकेयं जलंधरः ॥
गदया ताडयामास हृदये दैत्यपुंगवः

2.5.21.38

गदाप्रभावं सफलं दर्शयन्शंकरात्मजः ॥
विधिदत्तवराद्व्यास स तूर्णं भूतलेऽपतत्

2.5.21.39

तथैव नंदी ह्यपतद्भूतले गदया हतः ॥
महावीरोऽपि रिपुहा किंचिद्व्याकुलमानसः

2.5.21.2.5.21.40

ततो गणेश्वरः क्रुद्धस्स्मृत्वा शिवपदाम्बुजम् ॥
संप्राप्यातिबलो दैत्य गदां परशुनाच्छिनत्

2.5.21.41

वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम् ॥
सप्तभिश्च हयान्केतुं धनुश्छत्रं च चिच्छिदे

2.5.21.42

ततोऽतिक्रुद्धो दैत्येन्द्रश्शक्तिमुद्यम्य दारुणाम् ॥
गणेशं पातयामास रथमन्यं समारुहत्

2.5.21.43

अभ्यगादथ वेगेन स दैत्येन्द्रो महाबलः ॥
विगणय्य हृदा तं वै वीरभद्रं रुषान्वितः

2.5.21.44

वीरभद्रं जघानाशु तीक्ष्णेनाशीविषेण तम् ॥
ननाद च महावीरो दैत्यराजो जलंधरः

2.5.21.45

वीरभद्रोऽपि संकुद्धस्सितधारेण चेषुणा ॥
चिच्छेद तच्छरं चैव विव्याध महेषुणा

2.5.21.46

ततस्तौ सूर्यसंकाशौ युयुधाते परस्परम् ॥
नानाशस्त्रैस्तथास्त्रैश्च चिरं वीरवरोत्तमौ

2.5.21.47

वीरभद्रस्ततस्तस्य हयान्बाणैरपातयत् ॥
धनुश्चिच्छेद रथिनः पताकां चापि वेगतः

2.5.21.48

अथो स दैत्यराजो हि पुप्लुवे परिघायुधः ॥
वीरभद्रोपकठं स द्रुतमाप महाबलः

2.5.21.49

परिघेनातिमहता वीरभद्रं जघान ह ॥
सबलोऽब्धितनयो मूर्ध्नि वीरो जगर्ज च

2.5.21.2.5.21.50

परिघेनातिमहता भिन्नमूर्द्धा गणाधिपः ॥
वीरभद्रः पपातोर्व्यां मुमोच रुधिरं बहु

2.5.21.51

पतितं वीरभद्रं तु दृष्ट्वा रुद्रगणा भयात् ॥
अपागच्छन्रणं हित्वा क्रोशमाना महेश्वरम्

2.5.21.52

अथ कोलाहलं श्रुत्वा गणानां चन्द्रशेखरः ॥
निजपार्श्वस्थितान् वीरानपृच्छद्गणसत्तमान्

2.5.21.53

शंकर उवाच ॥
किमर्थं मद्गणानां हि महाकोलाहलोऽभवत् ॥
विचार्यतां महावीराश्शांतिः कार्या मया ध्रुवम्

2.5.21.54

यावत्स देवेशो गणान्पप्रच्छ सादरम् ॥
तावद्गणवरास्ते हि समायाताः प्रभुं प्रति

2.5.21.55

तान्दृष्ट्वा विकलान्रुद्रः पप्रच्छ इति कुशलं प्रभुः ॥
यथावत्ते गणा वृत्तं समाचख्युश्च विस्तरात्

2.5.21.56

तच्छ्रुत्वा भगवानुद्रो महालीलाकरः प्रभुः ॥
अभयं दत्तवांस्तेभ्यो महोत्साहं प्रवर्द्धयन्

2.5.21.21

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे जलंधरोपाख्याने विशे षयुद्धवर्णनं नामैकविंशतितमोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc