भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.5.16

2.5.16.1

॥ सनत्कुमार उवाच ॥
पुनर्दैत्यं समायांतं दृष्ट्वा देवास्सवासवाः ॥
भयात्प्रकंपितास्सर्वे सहैवादुद्रुवुर्द्रुतम्

2.5.16.2

वैकुंठं प्रययुस्सर्वे पुरस्कृत्य प्रजापतिम् ॥
तुष्टुवुस्ते सुरा नत्वा सप्रजापतयोऽखिलाः

2.5.16.3

देवा ऊचुः ॥
हृषीकेश महाबाहो भगवन् मधुसूदन ॥
नमस्ते देवदेवेश सर्वदैत्यविनाशक

2.5.16.4

मत्स्यरूपाय ते विष्णो वेदान्नीतवते नमः ॥
सत्यव्रतेन सद्राज्ञा प्रलयाब्धिविहारिणे

2.5.16.5

कुर्वाणानां सुराणां च मथनायोद्यमं भृशम्॥
बिभ्रते मंदरगिरिं कूर्मरूपाय ते नमः

2.5.16.6

नमस्ते भगवन्नाथ क्रतवे सूकरात्मने॥
वसुंधरां जनाधारां मूद्धतो बिभ्रते नमः

2.5.16.7

वामनाय नमस्तुभ्यमुप्रेन्द्राख्याय विष्णवे ॥
विप्ररूपेण दैत्येन्द्रं बलिं छलयते विभो

2.5.16.8

नमः परशुरामाय क्षत्रनिःक्षत्रकारिणे ॥
मातुर्हितकृते तुभ्यं कुपितायासतां द्रुहे

2.5.16.9

रामाय लोकरामाय मर्यादापुरुषाय ते॥
रावणांतकरायाशु सीतायाः पतये नमः

2.5.16.2.5.16.10

नमस्ते ज्ञानगूढाय कृष्णाय परमात्मन ॥
राधाविहारशीलाय नानालीलाकराय च

2.5.16.11

नमस्ते गूढदेहाय वेदनिंदाकराय च ॥
योगाचार्याय जैनाय वौद्धरूपाय मापते

2.5.16.13

नमस्ते कल्किरूपाय म्लेच्छानामंतकारिणे॥
अनन्तशक्तिरूपाय सद्धर्मस्थापनाय च ॥१२
नमस्ते कपिलरूपाय देवहूत्यै महात्मने ॥
वदते सांख्ययोगं च सांख्याचार्याय वै प्रभो

2.5.16.14

नमः परमहंसाय ज्ञानं संवदते परम् ॥
विधात्रे ज्ञानरूपाय येनात्मा संप्रसीदति

2.5.16.15

वेदव्यासाय वेदानां विभागं कुर्वते नमः ॥
हिताय सर्वलोकानां पुराणरचनाय च

2.5.16.16

एवं मत्स्यादितनुभिर्भक्तकार्योद्यताय ते ॥
सर्गस्थितिध्वंसकर्त्रे नमस्ते ब्रह्मणे प्रभो

2.5.16.17

आर्तिहंत्रे स्वदासानां सुखदाय शुभाय च ॥
पीताम्बराय हरये तार्क्ष्ययानाय ते नमः॥
सर्वक्रियायैककर्त्रे शरण्याय नमोनमः

2.5.16.18

दैत्यसंतापितामर्त्य दुःखादिध्वंसवज्रक ॥
शेषतल्पशयायार्कचन्द्रनेत्राय ते नमः

2.5.16.19

कृपासिन्धो रमानाथ पाहि नश्शरणागतान् ॥
जलंधरेण देवाश्च स्वर्गात्सर्वे निराकृताः

2.5.16.2.5.16.20

सूर्यो निस्सारितः स्थानाच्चन्द्रो वह्निस्तथैव च ॥
पातालान्नागराजश्च धर्मराजो निराकृतः

2.5.16.21

विचरंति यथा मर्त्याश्शोभंते नैव ते सुराः ॥
शरणं ते वयं प्राप्ता वधस्तस्य विचिंत्यताम्

2.5.16.22

॥ सनत्कुमार उवाच ॥
इति दीनवचश्श्रुत्वा देवानां मधुसूदनः ॥
जगाद करुणासिन्धुर्मे घनिर्ह्रादया गिरा

2.5.16.23

॥ विष्णुरुवाच ॥
भयं त्यजत हे देवा गमिष्याम्यहमाहवम्॥
जलंधरेण दैत्येन करिष्यामि पराक्रमम्

2.5.16.24

इत्युक्त्वा सहसोत्थाय दैत्यारिः खिन्नमानसः ॥
आरोहद्गरुडं वेगात्कृपया भक्तवत्सलः

2.5.16.25

गच्छन्तं वल्लभं दृष्ट्वा देवैस्सार्द्धं समुद्रजा ॥
सांजलिर्बाष्पनयना लक्ष्मीर्वचनमब्रवीत्

2.5.16.26

लक्ष्म्युवाच॥
अहं ते वल्लभा नाथ भक्ता यदि च सर्वदा॥
तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे

2.5.16.27

विष्णुरुवाच ॥
जलंधरेण दैत्येन करिष्यामि पराक्रमम्॥
तैस्संस्तुतो गमिष्यामि युद्धाय त्वरितान्वितः

2.5.16.28

रुद्रांशसंभवत्वाच्च ब्रह्मणो वचनादपि ॥
प्रीत्या च तव नैवायं मम वध्यो जलंधरः

2.5.16.29

सनत्कुमार उवाच ॥
इत्युक्त्वा गरुडारूढश्शंखचक्रगदासिभृत्॥
विष्णुर्वेगाद्ययौ योद्धुं देवैश्शक्रादिभिस्सह

2.5.16.2.5.16.30

द्रुतं स प्राप तत्रैव यत्र दैत्यो जलंधरः॥
कुर्वन् सिंहरवं देवैर्ज्वलद्भिर्विष्णुतेजसा

2.5.16.31

अथारुणानुजजवपक्षवातप्रपीडिताः ॥
वात्याविवर्तिता दैत्या बभ्रमुः खे यथा घनाः

2.5.16.32

ततो जलंधरो दृष्ट्वा दैत्यान् वात्याप्रपीडितान्॥
उद्धृत्य वचनं क्रोधाद्द्रुतं विष्णुं समभ्यगात्

2.5.16.33

एतस्मिन्नंतरे देवाश्चक्रुर्युद्धं प्रहर्षिताः ॥
तेजसा च हरेः पुष्टा महाबलसमन्विताः

2.5.16.34

युद्धोद्यतं समालोक्य देवसैन्यमुपस्थितम्॥
दैत्यानाज्ञापयामास समरे चातिदुर्मदान्

2.5.16.35

जलंधर उवाच ॥
भोभो दैत्यवरा यूयं युद्धं कुरुत दुस्तरम्॥
शक्राद्यैरमरैरद्य प्रबलैः कातरैस्सदा

2.5.16.36

मौर्यास्तु लक्षसंख्याता धौम्रा हि शतसंख्यकाः॥
असुराः कोटिसंख्याताः कालकेयास्तथैव च

2.5.16.37

कालकानां दौर्हृदानां कंकानां लक्षसंख्यया ॥
अन्येऽपि स्वबलैर्युक्ता विनिर्यांतु ममाज्ञया

2.5.16.38

सर्वे सज्जा विनिर्यात बहुसेनाभिसंयुताः ॥
नानाशस्त्रास्त्रसंयुक्ता निर्भयाः गतसंशयाः

2.5.16.39

भोभो शुंभनिशुंभौ च देवान्समरकातरान् ॥
क्षणेन सुमहावीर्यौ तुच्छान्नाशयतं युवाम्

2.5.16.2.5.16.40

सनत्कुमार उवाच ॥
दैत्या जलंधराज्ञप्ता इत्थं युद्धविशारदाः॥
युयुधुस्ते सुरास्सर्वे चतुरंगबलान्विताः

2.5.16.41

गदाभिस्तीक्ष्णबाणैश्च शूलपट्टिशतोमरैः ॥
केचित्परशुशूलैश्च निजघ्नुस्ते परस्परम्

2.5.16.42

नानायुधैश्च परैस्तत्र निजघ्नुस्ते बलान्विता ॥
देवास्तथा महावीरा हृषीकेशबलान्विताः ॥
युयुधुस्तीक्ष्णबाणाश्च क्षिपंतस्सिंहवद्रवाः

2.5.16.43

केचिद्बाणैस्तु तीक्ष्णैश्च केचिन्मुसलतोमरैः ॥
केचित्परशुशूलैश्च निजघ्नुस्ते परस्परम्

2.5.16.44

इत्थं सुराणां दैत्यानां संग्रामस्समभून्महान्॥
अत्युल्बणो मुनीनां हि सिद्धानां भय कारकः

2.5.16.16

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवयुद्धवर्णनं नाम षोडशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc