भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.5.15

2.5.15.1

॥ सनत्कुमार उवाच ॥
एकदा वारिधिसुतो वृन्दापति रुदारधीः॥
सभार्य्यस्संस्थितो वीरोऽसुरैस्सर्वैः समन्वितः

2.5.15.2

तत्राजगाम सुप्रीतस्सुवर्चास्त्वथ भार्गवः॥
तेजः पुंजो मूर्त इव भासयन्सकला दिशः

2.5.15.3

तं दृष्ट्वा गुरुमायान्तमसुरास्तेऽखिला द्रुतम् ॥
प्रणेमुः प्रीतमनसस्सिंधुपुत्रोऽपि सादरम्

2.5.15.4

दत्त्वाशीर्वचनं तेभ्यो भार्गवस्तेजसां निधिः ॥
निषसादासने रम्ये संतस्थुस्तेऽपि पूर्ववत्

2.5.15.5

अथ सिंध्वात्मजो वीरो दृष्ट्वा प्रीत्या निजां सभाम् ॥
जलंधरः प्रसन्नोऽभूदनष्टवरशासनः

2.5.15.6

तत्स्थितं छिन्नशिरसं दृष्ट्वा राहुं स दैत्यराट् ॥
पप्रच्छ भार्गवं शीघ्रमिदं सागरनन्दनः

2.5.15.7

जलंधर उवाच ॥
केनेदं विहितं राहोश्शिरच्छेदनकं प्रभो ॥
तद्ब्रूहि निखिलं वृत्तं यथावत्तत्त्वतो गुरो

2.5.15.8

सनत्कुमार उवाच ॥
इत्याकर्ण्य वचस्तस्य सिन्धुपुत्रस्य भार्गवः ॥
स्मृत्वा शिवपदांभोजं प्रत्युवाच यथार्थवत्

2.5.15.9

शुक्र उवाच॥
जलंधर महावीर सर्वासुरसहायक ॥
शृणु वृत्तांतमखिलं यथावत्कथयामि ते

2.5.15.2.5.15.10

पुराभवद्बलिर्वीरो विरोचनसुतो बली ॥
हिरण्यकशिपोश्चैव प्रपौत्रो धर्मवित्तमः

2.5.15.11

पराजितास्सुरास्तेन रमेशं शरणं ययुः ॥
सवासवास्स्ववृत्तांतमाचख्युः स्वार्थसाधकाः

2.5.15.12

तदाज्ञया सुरैः सार्द्धं चक्रुस्संधिमथो सुराः ॥
स्वकार्यसिद्धये तातच्छलकर्मविचक्षणाः

2.5.15.13

अथामृतार्थे सिंधोश्च मंथनं चक्रुरादरात् ॥
विष्णोस्सहायिनस्ते हि सुरास्सर्वेऽसुरैस्सह

2.5.15.14

ततो रत्नोपहरणमकार्षुर्दैत्यशत्रवः ॥
जगृहुर्यत्नतो देवाः पपुरप्यमृतं छलात्

2.5.15.15

ततः पराभवं चक्रुरसुराणां सहायतः ॥
विष्णोस्सुरास्सचक्रास्तेऽमृतापानाद्बलान्विताः

2.5.15.16

शिरश्छेदं चकारासौ पिबतश्चामृतं हरिः ॥
राहोर्देवसभां हि पक्षपाती हरेस्सदा

2.5.15.17

सनत्कुम्रार उवाच ॥
एवं कविस्तस्य शिरश्छेदं राहोश्शशंस च ॥
अमृतार्थे समुद्रस्य मंथनं देवकारितम्

2.5.15.18

रत्नोपहरणं चैव दैत्यानां च पराभवम् ॥
देवैरमृतपानं च कृतं सर्वं च विस्तरात्

2.5.15.19

तदाकर्ण्य महावीरोम्बुधिबालः प्रतापवान् ॥
चुक्रोध क्रोधरक्ताक्षस्स्वपितुर्मंथनं तदा

2.5.15.2.5.15.20

अथ दूतं समाहूय घस्मराभिधमुत्तमम् ॥
सर्वं शशंस चरितं यदाह गुरुरात्मवान्

2.5.15.21

अथ तं प्रेषयामास स्वदूतं शक्रसन्निधौ॥
संमान्य बहुशः प्रीत्याऽभयं दत्त्वा विशारदम्

2.5.15.22

दूतस्त्रिविष्टपं तस्य जगामारमलं सुधीः ॥
घस्मरोंऽबुधिबालस्य सर्वदेवसमन्वितम्

2.5.15.23

तत्र गत्वा स दूतस्तु सुधर्मां प्राप्य सत्वरम् ॥
गर्वादखर्वमौलिर्हि देवेन्द्रं वाक्यमब्रवीत्

2.5.15.24

घस्मर उवाच ॥
जलंधरोऽब्धि तनयस्सर्वदैत्यजनेश्वरः ॥
सुप्रतापी महावीरस्स्वयं कविसहायवान्

2.5.15.25

दूतोऽहं तस्य वीरस्य घस्मराख्यो न घस्मरः ॥
प्रेषितस्तेन वीरेण त्वत्सकाशमिहागतः

2.5.15.26

अव्याहताज्ञस्वर्वत्र जलंधर उदग्रधीः ॥
निर्जिताखिलदैत्यारिस्स यदाह शृणुष्व तत्

2.5.15.27

जलंधर उवाच ॥
कस्मात्त्वया मम पिता मथितस्सागरोऽद्रिणा ॥
नीतानि सर्वरत्नानि पितुर्मे देवताधम

2.5.15.28

उचितं न कृतं तेऽद्य तानि शीघ्रं प्रयच्छ मे ॥
ममायाहि विचार्येत्थं शरणं दैवतैस्सह

2.5.15.29

अन्यथा ते भयं भूरि भविष्यति सुराधम ॥
राज्यविध्वंसनं चैव सत्यमेतद्ब्रवीम्यहम्

2.5.15.2.5.15.30

सनत्कुमार उवाच ॥
इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः ॥
उवाच तं स्मरन्निन्द्रो भयरोषसमन्वितः

2.5.15.31

अद्रयो मद्भयात्त्रस्तास्स्वकुक्षिस्था यतः कृताः ॥
अन्येऽपि मद्द्विषस्तेन रक्षिता दितिजाः पुरा

2.5.15.32

तस्मात्तद्रत्नजातं तु मया सर्वं हृतं किल ॥
न तिष्ठति मम द्रोही सुखं सत्यं ब्रवीम्यहम्

2.5.15.33

शंखोप्येव पुरा दैत्यो मां द्विषन्सागरात्मजः ॥
अभवन्मूढचित्तस्तु साधुसंगात्समुज्झित

2.5.15.34

ममानुजेन हरिणा निहतस्य हि पापधीः ॥
हिंसकस्साधुसंधस्य पापिष्ठस्सागरोदरे

2.5.15.35

तद्गच्छ दूत शीघ्रं त्वं कथयस्वास्य तत्त्वतः ॥
अब्धिपुत्रस्य सर्वं हि सिंधोर्मंथनकारणम्

2.5.15.36

सनत्कुमार उवाच ॥
इत्थं विसर्जितो दूतो घस्मराख्यस्सुबुद्धिमान् ॥
तदेन्द्रेणागमत्तूर्ण्णं यत्र वीरो जलंधरः

2.5.15.37

तदिदं वचनं दैत्यराजो हि तेन धीमता ॥
कथितो निखिलं शक्रप्रोक्तं दूतेन वै तदा

2.5.15.38

तन्निशम्य ततो दैत्यो रोषात्प्रस्फुरिताधरः ॥
उद्योगमकरोत्तूर्णं सर्वदेवजिगीषया

2.5.15.39

तदोद्योगेऽसुरेन्द्रस्य दिग्भ्यः पातालतस्तथा ॥
दितिजाः प्रत्यपद्यंत कोटिशःकोटिशस्तथा

2.5.15.2.5.15.40

अथ शुंभनिशुंभाद्यै बलाधिपतिकोटिभिः ॥
निर्जगाम महावीरः सिन्धुपुत्रः प्रतापवान्

2.5.15.41

प्राप त्रिविष्टपं सद्यः सर्वसैन्यसमावृतः ॥
दध्मौ शंखं जलधिजो नेदुर्वीराश्च सर्वतः

2.5.15.42

गत्वा त्रिविष्टपं दैत्यो नन्दनाधिष्ठितोऽभवत् ॥
सर्व सैन्यं समावृत्य कुर्वाणः सिंहवद्रवम्

2.5.15.43

पुरमावृत्य तिष्ठत्तद्दृष्ट्वा सैन्यबलं महत्॥
निर्ययुस्त्वमरावत्या देवा युद्धाय दंशिताः ॥

2.5.15.44

ततस्समभवद्युद्धं देवदानवसेनयोः ॥
मुसलैः परिघैर्बाणैर्गदापरशुशक्तिभिः

2.5.15.45

तेऽन्योन्यं समधावेतां जघ्नतुश्च परस्परम् ॥
क्षणेनाभवतां सेने रुधिरौघपरिप्लुते

2.5.15.46

पतितैः पात्यमानैश्च गजाश्वरथपत्तिभिः ॥
व्यराजत रणे भूमिस्संध्याभ्रपटलैरिव

2.5.15.47

तत्र युद्धे मृतान्दैत्यान्भार्गवस्तानजीवयत् ॥
विद्ययामृतजीविन्या मंत्रितैस्तोयबिन्दुभिः

2.5.15.48

देवानपि तथा युद्धे तत्राजीवयदंगिराः ॥
दिव्यौषधैस्समानीय द्रोणाद्रेस्स पुनःपुनः

2.5.15.49

दृष्टवान्स तथा युद्धे पुनरेव समुत्थितान् ॥
जलंधरः क्रोधवशो भार्गवं वाक्यमब्रवीत्

2.5.15.2.5.15.50

जलंधर उवाच ॥
मया देवा हता युद्धे उत्तिष्ठंति कथं पुनः ॥
ततः संजीविनी विद्या नैवान्यत्रेति वै श्रुता

2.5.15.51

सनत्कुमार उवाच॥
इत्याकर्ण्य वचस्तस्य सिन्धुपुत्रस्य भार्गवः ॥
प्रत्युवाच प्रसन्नात्मा गुरुश्शुक्रो जलंधरम्

2.5.15.52

शुक्र उवाच ॥
दिव्यौषधीस्समानीय द्रोणाद्रेरंगिरास्सुरान् ॥
जीवयत्येष वै तात सत्यं जानीहि मे वचः

2.5.15.53

जयमिच्छसि चेत्तात शृणु मे वचनं शुभम् ॥
ततः सोऽरं भुजाभ्यां त्वं द्रोणमब्धावुपाहर

2.5.15.54

॥सनत्कुमार उवाच ॥
इत्युक्तस्स तु दैत्येन्द्रो गुरुणा भार्गवेण ह ॥
द्रुतं जगाम यत्रासावास्ते चैवाद्रिराट् च सः

2.5.15.55

भुजाभ्यां तरसा दैत्यो नीत्वा द्रोणं च तं तदा॥
प्राक्षिपत्सागरे तूर्णं चित्रं न हरतेजसि

2.5.15.56

पुनरायान्महावीरस्सिन्धुपुत्रो महाहवम्॥
जघानास्त्रैश्च विविधैस्सुरान्कृत्वा बलं महत्

2.5.15.57

अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः ॥
तावत्तत्र गिरीद्रं तं न ददर्श सुरार्चितः

2.5.15.58

ज्ञात्वा दैत्यहृतं द्रोणं धिषणो भयविह्वलः ॥
आगत्य देवान्प्रोवाच जीवो व्याकुलमानसः

2.5.15.59

गुरुरुवाच ॥
पलायध्वं सुरास्सर्वे द्रोणो नास्ति गिरिर्महान् ॥
ध्रुवं ध्वस्तश्च दैत्येन पाथोधितनयेन हि

2.5.15.2.5.15.60

जलंधरो महादैत्यो नायं जेतुं क्षमो यतः ॥
रुद्रांशसंभवो ह्येष सर्वामरविमर्दनः

2.5.15.61

मया ज्ञातः प्रभावोऽस्य यथोत्पन्नः स्वयं सुराः ॥
शिवापमानकृच्छक्रचेष्टितं स्मरताखिलम्

2.5.15.62

सनत्कुमार उवाच ॥
श्रुत्वा तद्वचनं देवास्सुराचार्यप्रकीर्तितम्॥
जयाशां त्यक्तवंतस्ते भयविह्वलितास्तथा

2.5.15.63

दैत्यराजेन तेनातिहन्यमानास्समंततः ॥
धैर्यं त्यक्त्वा पलायंत दिशो दश सवासवाः

2.5.15.64

देवान्विद्रावितान्दृष्ट्वा दैत्यस्सागरनंदनः ॥
शंखभेरी जयरवैः प्रविवेशामरावतीम्

2.5.15.65

प्रविष्टे नगरीं दैत्ये देवाः शक्रपुरोगमाः ॥
सुवर्णाद्रिगुहां प्राप्ता न्यवसन्दैत्यतापिताः

2.5.15.66

तदैव सर्वेष्वसुरोऽधिकारेष्विन्द्रादिकानां विनिवेश्य सम्यक्॥
शुंभादिकान्दैत्यवरान् पृथक्पृथक्स्वयं सुवर्णादिगुहां व्यगान्मुने

2.5.15.15

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने देवजलंधरयुद्धवर्णनं नाम पंचदशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc