भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.5.1

2.5.1.1

॥ श्रीगणेशाय नमः ॥
॥ श्रीगौरीशंकराभ्यां नमः ॥
॥ नारद उवाच ॥
श्रुतमस्माभिरानंदप्रदं चरितमुत्तमम् ॥
गृहस्थस्यैव शंभोश्च गणस्कंदादिसत्कथम्

2.5.1.2

इदानीं ब्रूहि सुप्रीत्या चरितं वरमुत्तमम् ॥
शंकरो हि यथा रुद्रो जघान विहरन्खलान्

2.5.1.3

कथं ददाह भगवान्नगराणि सुरद्विषाम् ॥
त्रीण्येकेन च बाणेन युगपत्केन वीर्यवान्

2.5.1.4

एतत्सर्वं समाचक्ष्व चरितं शशिमौलिनः ॥
देवर्षिसुखदं शश्वन्मायाविहरतः प्रभोः

2.5.1.5

॥ ब्रह्मोवाच ॥
एवमेतत्पुरा पृष्टो व्यासेन ऋषिसत्तमः ॥
सनत्कुमारं प्रोवाच तदेव कथयाम्यहम्

2.5.1.6

सनत्कुमार उवाच ॥
शृणु व्यास महाप्राज्ञ चरितं शशिमौलिनः ॥
यथा ददाह त्रिपुरं बाणेनैकेन विश्व हृत्

2.5.1.7

शिवात्मजेन स्कन्देन निहते तारकासुरे॥
तत्पुत्रास्तु त्रयो दैत्याः पर्यतप्यन्मुनीश्वर

2.5.1.8

तारकाख्यस्तु तज्जेष्ठो विद्युन्माली च मध्यमः ॥
कमलाक्षः कनीयांश्च सर्वे तुल्यबलास्सदा

2.5.1.9

जितेन्द्रियास्ससन्नद्धास्संयतास्सत्यवादिनः ॥
दृढचित्ता महावीरा देवद्रोहिण एव च

2.5.1.2.5.1.10

ते तु मेरुगुहां गत्वा तपश्चक्रुर्महाद्भुतम् ॥
त्रयस्सर्वान्सुभोगांश्च विहाय सुमनोहरान्

2.5.1.11

वसंते सर्वकामांश्च गीतवादित्रनिस्स्वनम् ॥
विहाय सोत्सवं तेपुस्त्रयस्ते तारकात्मजाः

2.5.1.12

ग्रीष्मे सूर्यप्रभां जित्वा दिक्षु प्रज्वाल्य पावकम् ॥
तन्मध्यसंस्थाः सिद्ध्यर्थं जुहुवुर्हव्यमादरात्

2.5.1.13

महाप्रतापपतितास्सर्वेप्यासन् सुमूर्छिताः ॥
वर्षासु गतसंत्रासा वृष्टिं मूर्द्धन्यधारयन्

2.5.1.14

शरत्काले प्रसूतं तु भोजनं तु बुभुक्षिताः ॥
रम्यं स्निग्धं स्थिरं हृद्यं फलं मूलमनुत्तमम्

2.5.1.15

संयमात्क्षुत्तृषो जित्वा पानान्युच्चावचान्यपि ॥
बुभुक्षितेभ्यो दत्त्वा तु बुभूवुरुपला इव

2.5.1.16

संस्थितास्ते महात्मानो निराधाराश्चतुर्दिशम् ॥
हेमंते गिरिमाश्रित्य धैर्येण परमेण तु

2.5.1.17

तुषारदेहसंछन्ना जलक्लिन्नेन वाससा ॥
आसाद्य देहं क्षौमेण शिशिरे तोयमध्यगाः

2.5.1.18

अनिर्विण्णास्ततस्सर्वे क्रमशोऽवर्द्धयंस्तपः ॥
तेपुस्त्रयस्ते तत्पुत्रा विधिमुद्दिश्य सत्तमाः

2.5.1.19

तप उग्रं समास्थाय नियमे परमे स्थिता ॥
तपसा कर्षयामासुर्देहान् स्वान् दानवोत्तमाः

2.5.1.2.5.1.20

वर्षाणां शतकं चैव पदमेकं निधाय च ॥
भूमौ स्थित्वा परं तत्र तेपुस्ते बलवत्तराः

2.5.1.21

ते सहस्रं तु वर्षाणां वातभक्षास्सुदारुणाः ॥
तपस्तेपुर्दुरात्मानः परं तापमुपागताः

2.5.1.22

वर्षाणां तु सहस्रं वै मस्तकेनास्थितास्तथा ॥
वर्षाणां तु शतेनैव ऊर्द्ध्वबाहव आसिताः

2.5.1.23

एवं दुःखं परं प्राप्ता दुराग्रहपरा इमे ॥
ईदृक्ते संस्थिता दैत्या दिवारात्रमतंद्रिता

2.5.1.24

एवं तेषां गतः कालो महान् सुतपतां मुने ॥
ब्रह्मात्मनां तारकाणां धर्मेणेति मतिर्मम

2.5.1.25

प्रादुरासीत्ततो ब्रह्मा सुरासुरगुरुर्महान् ॥
संतुष्टस्तपसा तेषां वरं दातुं महायशाः

2.5.1.25

मुनिदेवासुरैस्सार्द्धं सांत्वपूर्वमिदं वचः ॥
ततस्तानब्रवीत्सर्वान् सर्वभूतपितामहः

2.5.1.27

ब्रह्मोवाच ॥
प्रसन्नोऽस्मि महादैत्या युष्माकं तपसा मुने ॥
सर्वं दास्यामि युष्मभ्यं वरं ब्रूत यदीप्सितम्

2.5.1.28

किमर्थं सुतपस्तप्तं कथयध्वं सुरद्विषां ॥
सर्वेषां तपसो दाता सर्वकर्तास्मि सर्वदा

2.5.1.29

सनत्कुमार उवाच ॥
तस्य तद्वचनं श्रुत्वा शनैस्ते स्वात्मनो गतम् ॥
ऊचुः प्रांजलयस्सर्वे प्रणिपत्य पितामहम्

2.5.1.2.5.1.30

दैत्या ऊचुः ॥
यदि प्रसन्नो देवेश यदि देयो वरस्त्वया ॥
अवध्यत्वं च सर्वेषां सर्वभूतेषु देहिनः

2.5.1.31

स्थिरान् कुरु जगन्नाथ पांतु नः परिपंथिनः ॥
जरारोगादयस्सर्वे नास्मान्मृत्युरगात् क्वचित्

2.5.1.32

अजराश्चामरास्सर्वे भवाम इति नो मतम् ॥
समृत्यवः करिष्यामस्सर्वानन्यांस्त्रिलोकके

2.5.1.33

लक्ष्म्या किं तद्विपुलया किं कार्यं हि पुरोत्तमैः ॥
अन्यैश्च विपुलैर्भोगैस्स्थानैश्वर्येण वा पुनः

2.5.1.34

यत्रैव मृत्युना ग्रस्तो नियतं पंचभिर्दिनैः ॥
व्यर्थं तस्याखिलं ब्रह्मन् निश्चितं न इतीव हि

2.5.1.35

सनत्कुमार उवाच ॥
इति श्रुत्वा वचस्तेषां दैत्यानां च तपस्विनाम् ॥
प्रत्युवाच शिवं स्मृत्वा स्वप्रभुं गिरिशं विधिः

2.5.1.36

ब्रह्मोवाच ॥
नास्ति सर्वामरत्वं च निवर्तध्वमतोऽसुराः ॥
अन्यं वरं वृणीध्वं वै यादृशो वो हि रोचते

2.5.1.37

जातो जनिष्यते नूनं जंतुः कोप्यसुराः क्वचित् ॥
अजरश्चामरो लोके न भविष्यति भूतले

2.5.1.38

ऋते तु खंडपरशोः कालकालाद्धरेस्तथा ॥
तौ धर्माधर्मपरमावव्यक्तौ व्यक्तरूपिणौ

2.5.1.39

संपीडनाय जगतो यदि स क्रियते तपः ॥
सफलं तद्गतं वेद्यं तस्मात्सुविहितं तपः

2.5.1.2.5.1.40

तद्विचार्य स्वयं बुद्ध्या न शक्यं यत्सुरासुरैः ॥
दुर्लभं वा सुदुस्साध्यं मृत्युं वंचयतानघाः

2.5.1.41

तत्किंचिन्मरणे हेतुं वृणीध्वं सत्त्वमाश्रिताः ॥
येन मृत्युर्नैव वृतो रक्षतस्तत्पृथक् पृथक्

2.5.1.42

सनत्कुमार उवाच ॥
एतद्विधिवचः श्रुत्वा मुहूर्त्तं ध्यानमास्थिताः ॥
प्रोचुस्ते चिंतयित्वाथ सर्वलोकपितामहम्

2.5.1.43

दैत्या ऊचुः॥
भगवन्नास्ति नो वेश्म पराक्रमवतामपि ॥
अधृष्याः शात्रवानां तु यन्न वत्स्यामहे सुखम्

2.5.1.44

पुराणि त्रीणि नो देहि निर्मायात्यद्भुतानि हि ॥
सर्वसंपत्समृद्धान्य प्रधृष्याणि दिवौकसाम्

2.5.1.45

वयं पुराणि त्रीण्येव समास्थाय महीमिमाम्॥
चरिष्यामो हि लोकेश त्वत्प्रसादाज्जगद्गुरो

2.5.1.46

तारकाक्षस्ततः प्राह यदभेद्यं सुरैरपि ॥
करोति विश्वकर्मा तन्मम हेममयं पुरम्

2.5.1.47

ययाचे कमलाक्षस्तु राजतं सुमहत्पुरम् ॥
विद्युन्माली च संहृष्टो वज्रायसमयं महत्

2.5.1.48

पुरेष्वेतेषु भो ब्रह्मन्नेकस्थानस्थितेषु च ॥
मध्याह्नाभिजिते काले शीतांशौ पुष्प संस्थिते

2.5.1.49

उपर्युपर्यदृष्टेषु व्योम्नि लीलाभ्रसंस्थिते ॥
वर्षत्सु कालमेघेषु पुष्करावर्तनामसु

2.5.1.2.5.1.50

तथा वर्षसहस्राते समेष्यामः परस्परम् ॥
एकीभावं गमिष्यंति पुराण्येतानि नान्यथा

2.5.1.51

सर्वदेवमयो देवस्सर्वेषां मे कुहेलया॥
असंभवे रथे तिष्ठन् सर्वोपस्करणान्विते

2.5.1.53

असंभाव्यैककांडेन भिनत्तु नगराणि नः ॥
निर्वैरः कृत्तिवासास्तु योस्माकमिति नित्यशः ॥ ५२ ।
वंद्यः पूज्योभिवाद्यश्च सोस्माकं निर्दहेत्कथम् ॥
इति चेतसि संधाय तादृशो भुवि दुर्लभः

2.5.1.54

सनत्कुमार उवाच ॥
एतच्छ्रुत्वा वचस्तेषां ब्रह्मा लोकपितामहः ॥
एवमस्तीति तान् प्राह सृष्टिकर्ता स्मरञ्शिवम्

2.5.1.55

आज्ञां ददौ मयस्यापि कुत्र त्वं नगरत्रयम् ॥
कांचनं राजतं चैव आयसं चेति भो मय

2.5.1.56

इत्यादिश्य मयं ब्रह्मा प्रत्यक्षं प्राविशद्दिवम् ॥
तेषां तारकपुत्राणां पश्यतां निजधाम हि

2.5.1.57

ततो मयश्च तपसा चक्रे धीरः पुराण्यथ ॥
कांचनं तारकाक्षस्य कमलाक्षस्य राजतम्

2.5.1.58

विद्युन्माल्यायसं चैव त्रिविधं दुर्गमुत्तमम् ॥
स्वर्गे व्योम्नि च भूमौ च क्रमाज्ज्ञेयानि तानि वै

2.5.1.59

दत्वा तेभ्यो सुरेभ्यश्च पुराणि त्रीणि वै मयः ॥
प्रविवेश स्वयं तत्र हितकामपरायणः

2.5.1.2.5.1.60

एवं पुत्रत्रयं प्राप्य प्रविष्टास्तारकात्मजाः ॥
बुभुजुस्सकलान्भोगान्महाबलपराक्रमाः

2.5.1.61

कल्पद्रुमैश्च संकीर्णं गजवाजिसमाकुलम् ॥
नानाप्रासादसंकीर्णं मणिजालसमा वृतम्

2.5.1.62

॥
सूर्यमण्डलसंकाशैर्विमानैस्सर्वतोमुखैः ॥
पद्मरागमयैश्चैव शोभितं चन्द्रसन्निभैः

2.5.1.63

प्रासादैर्गोपुरैर्दिव्यैः कैलासशिखरोपमैः ॥
दिव्यस्त्रीजनसंकीर्णैर्गंधर्वैस्सिद्धचारणैः

2.5.1.64

रुद्रालयैः प्रतिगृहमग्निहोत्रैः प्रतिष्ठितैः ॥
द्विजोत्तमैश्शास्त्र ज्ञैश्शिवभक्तिरतैस्सदा

2.5.1.65

वापीकूपतडागैश्च दीर्घिकाभिस्सुशोभितम् ॥
उद्यानवनवृक्षैश्च स्वर्गच्युत गुणोत्तमैः

2.5.1.66

नदीनदसरिन्मुख्यपुष्करैः शोभितं सदा ॥
सर्वकामफलाद्यैश्चानेकैर्वृक्षैर्मनोहरम्

2.5.1.67

मत्तमातंगयूथैश्च तुरंगैश्च सुशोभनैः ॥
रथैश्च विविधाकारैश्शिबिकाभिरलंकृतम्

2.5.1.68

समयादिशिकैश्चैव क्रीडास्थानैः पृथक्पृथक् ॥
वेदाध्ययनशालाभिर्विविधाभिः पृथक्पृथक्

2.5.1.69

अदृष्टं मनसा वाचा पापान्वितनरैस्सदा ॥
महात्मभिश्शुभाचारैः पुण्यवद्भिः प्रवीक्ष्यते

2.5.1.2.5.1.70

पतिव्रताभिः सर्वत्र पावितं स्थलमुत्तमम् ॥
पतिसेवनशीलाभिर्विमुखाभिः कुधर्मतः

2.5.1.71

दैत्यशूरैर्महाभागैस्सदारैस्ससुतैर्द्विजैः ॥
श्रौतस्मार्तार्थतत्त्वज्ञैस्स्वधर्मनिरतैर्युतम्

2.5.1.72

व्यूढोरस्कैर्वृषस्कंधैस्सामयुद्धधरैस्सदा॥
प्रशांतैः कुपितैश्चैव कुब्जैर्वामनकैस्तथा

2.5.1.73

नीलोत्पलदलप्रख्यैर्नीलकुंचितमूर्द्धजैः ॥
मयेन रक्षितैस्सर्वैश्शिक्षितैर्युद्धलालसैः

2.5.1.74

वरसमररतैर्युतं समंतादजशिवपूजनया विशुद्धवीर्यैः ॥
रविमरुतमहेन्द्रसंनिकाशैस्सुरमथनैस्सुदृढैस्सुसेवितं यत्

2.5.1.75

शास्त्रवेदपुराणेषु येये धर्माः प्रकीर्तिताः ॥
शिवप्रियास्सदा देवास्ते धर्मास्तत्र सर्वतः

2.5.1.76

एवं लब्धवरास्ते तु दैतेयास्तारकात्मजाः ॥
शैवं मयमुपाश्रित्य निवसंति स्म तत्र ह

2.5.1.77

सर्वं त्रैलोक्यमुत्सार्य प्रविश्य नगराणि ते ॥
कुर्वंति स्म महद्राज्यं शिवमार्गरतास्सदा

2.5.1.78

ततो महान् गतः कालो वसतां पुण्यकर्मणाम् ॥
यथासुखं यथाजोषं सद्राज्यं कुर्वतां मुने

2.5.1.1

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे त्रिपुरवधोपाख्याने त्रिपुरवर्णनं नाम प्रथमोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc