भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.5.2

2.5.2.1

॥ व्यास उवाच ॥
ब्रह्मपुत्र महाप्राज्ञ वद मे वदतां वर ॥
ततः किमभवद्देवाः कथं च सुखिनोऽभवन्

2.5.2.2

॥ ब्रह्मोवाच ॥
इत्याकर्ण्य वचस्तस्य व्यासस्यामितधीमतः ॥
सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम्

2.5.2.3

सनत्कुमार उवाच ॥
अथ तत्प्रभया दग्धा देवा हीन्द्रादयस्तथा ॥
संमंत्र्य दुःखितास्सर्वे ब्रह्माणं शरणं ययुः

2.5.2.4

नत्वा पितामहं प्रीत्या परिक्षिप्ताखिलास्सुराः ॥
दुःखं विज्ञापयामासुर्विलोक्यावसरं ततः

2.5.2.5

देवा ऊचुः ॥
धातस्त्रिपुरनाथेन सतारकसुतेन हि ॥
सर्वे प्रतापिता नूनं मयेन त्रिदिवौकसः

2.5.2.6

अतस्ते शरणं याता दुःखिता हि विधे वयम् ॥
कुरु त्वं तद्वधोपायं सुखिनस्स्याम तद्यथा

2.5.2.7

॥ सनत्कुमार उवाच ॥
इति विज्ञापितो देवैर्विहस्य भवकृद्विधिः ॥
प्रत्युवाचाथ तान्सर्वान्मयतो भीतमानसान्

2.5.2.8

ब्रह्मोवाच ॥
न भेतव्यं सुरास्तेभ्यो दानवेभ्यो विशेषतः ॥
आचक्षे तद्वधोपायं शिवं शर्वः करिष्यति

2.5.2.9

मत्तो विवर्धितो दैत्यो वधं मत्तो न चार्हति ॥
तथापि पुण्यं वर्द्धैत नगरे त्रिपुरे पुनः

2.5.2.2.5.2.10

शिवं च प्रार्थयध्वं वै सर्वे देवास्सवासवाः ॥
सर्वाधीशः प्रसन्नश्चेत्स वः कार्यं करिष्यति

2.5.2.11

सनत्कुमार उवाच ॥
इत्याकर्ण्य विधेर्वाणीं सर्वे देवास्सवासवाः ॥
दुखितास्ते ययुस्तत्र यत्रास्ते वृषभध्वजः

2.5.2.12

प्रणम्य भक्त्या देवेशं सर्वे प्रांजलयस्तदा ॥
तुष्टुवुर्विनतस्कंधाश्शंकरं लोकशंकरम्

2.5.2.13

॥ देवा ऊचुः ॥
नमो हिरण्यगर्भाय सर्वसृष्टि विधायिने ॥
नमः स्थितिकृते तुभ्यं विष्णवे प्रभविष्णवे

2.5.2.14

नमो हरस्वरूपाय भूतसंहारकारिणे ॥
निर्गुणाय नमस्तुभ्यं शिवायामित तेजसे

2.5.2.15

अवस्थारहितायाथ निर्विकाराय वर्चसे॥
महाभूतात्मभूताय निर्लिप्ताय महात्मने

2.5.2.16

नमस्ते भूतपतये महाभारसहिष्णवे ॥
तृष्णाहराय निर्वैराकृतये भूरितेजसे

2.5.2.17

महादैत्यमहारण्यनाशिने दाववह्नये ॥
दैत्यद्रुमकुठाराय नमस्ते शूलपाणये

2.5.2.18

महादनुजनाशाय नमस्ते परमेश्वर ॥
अम्बिकापतये तुभ्यं नमस्सर्वास्त्रधारक

2.5.2.19

नमस्ते पार्वतीनाथ परमात्मन्महेश्वर ॥
नीलकंठाय रुद्राय नमस्ते रुद्ररूपिणे

2.5.2.2.5.2.20

नमो वेदान्तवेद्याय मार्गातीताय ते नमः ॥
नमोगुणस्वरूपाय गुणिने गुणवर्जिते

2.5.2.21

महादेव नमस्तुभ्यं त्रिलोकीनन्दनाय च ॥
प्रद्युम्नायानिरुद्धाय वासुदेवाय ते नमः

2.5.2.22

संकर्षणाय देवाय नमस्ते कंसनाशिने ॥
चाणूरमर्दिने तुभ्यं दामोदर विषादिने

2.5.2.23

हृषीकेशाच्युत विभो मृड शंकर ते नमः ॥
अधोक्षज गजाराते कामारे विषभक्षणः

2.5.2.24

नारायणाय देवाय नारायणपराय च ॥
नारायणस्वरूपाय नाराणयतनूद्भव

2.5.2.25

नमस्ते सर्वरूपाय महानरकहारिणे ॥
पापापहारिणे तुभ्यं नमो वृषभवाहन

2.5.2.26

क्षणादिकालरूपाय स्वभक्तबलदायिने ॥
नानारूपाय रूपाय दैत्यचक्रविमर्दिने

2.5.2.27

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ॥
सहस्रमूर्त्तये तुभ्यं सहस्रावयवाय च

2.5.2.28

धर्मरूपाय सत्त्वाय नमस्सत्त्वात्मने हर ॥
वेदवेद्यस्वरूपाय नमो वेदप्रियाय च ॥

2.5.2.29

नमो वेदस्वरूपाय वेदवक्त्रे नमो नमः ॥
सदाचाराध्वगम्याय सदाचाराध्वगामिने

2.5.2.2.5.2.30

विष्टरश्रवसे तुभ्यं नमस्सत्यमयाय च ॥
सत्यप्रियाय सत्याय सत्यगम्याय ते नमः

2.5.2.31

नमस्ते मायिने तुभ्यं मायाधीशाय वै नमः ॥
ब्रह्मगाय नमस्तुभ्यं ब्रह्मणे ब्रह्मजाय च

2.5.2.32

तपसे ते नमस्त्वीश तपसा फलदायिने ॥
स्तुत्याय स्तुतये नित्यं स्तुतिसंप्रीतचेतसे

2.5.2.33

श्रुत्याचारप्रसन्नाय स्तुत्याचारप्रियाय च ॥
चतुर्विधस्वरूपाय जलस्थलजरूपिणे

2.5.2.34

सर्वे देवादयो नाथ श्रेष्ठत्वेन विभूतयः ॥
देवानामिन्द्ररूपोऽसि ग्रहाणां त्वं रविर्मतः

2.5.2.35

सत्यलोकोऽसि लोकानां सरितां द्युसरिद्भवान् ॥
श्वेतवर्णोऽसि वर्णानां सरसां मानसं सरः

2.5.2.36

शैलानां गिरिजातातः कामधुक्त्वं च गोषु ह ॥
क्षीरोदधिस्तु सिन्धूनां धातूनां हाटको भवान्

2.5.2.37

वर्णानां ब्राह्मणोऽसि त्वं नृणां राजासि शंकर ॥
मुक्तिक्षेत्रेषु काशी त्वं तीर्थानां तीर्थराड् भवान्

2.5.2.38

उपलेषु समस्तेषु स्फटिकस्त्वं महेश्वर ॥
कमलस्त्वं प्रसूनेषु शैलेषु हिमवांस्तथा

2.5.2.39

भवान्वाग्व्यवहारेषु भार्गवस्त्वं कविष्वपि ॥
पक्षिष्वेवासि शरभः सिंहो हिंस्रेषु संमतः

2.5.2.2.5.2.40

शालग्रामशिला च त्वं शिलासु वृषभध्वज॥
पूज्य रूपेषु सर्वेषु नर्मदालिंगमेव हि

2.5.2.41

नन्दीश्वरोऽसि पशुषु वृषभः परमेश्वर ॥
वेदेषूपनिषद्रूपी यज्वनां शीतभानुमान्

2.5.2.42

प्रतापिनां पावकस्त्वं शैवानामच्युतो भवान् ॥
भारतं त्वं पुराणानां मकारोऽस्यक्षरेषु च

2.5.2.43

प्रणवो बीजमंत्राणां दारुणानां विषं भवान् ॥
व्योमव्यप्तिमतां त्वं वै परमात्मासि चात्मनाम्

2.5.2.44

इन्द्रियाणां मनश्च त्वं दानानामभयं भवान् ॥
पावनानां जलं चासि जीवनानां तथामृतम्

2.5.2.45

लाभानां पुत्रलाभोऽसि वायुर्वेगवतामसि ॥
नित्यकर्मसु सर्वेषु संध्योपास्तिर्भवान्मता

2.5.2.46

क्रतूनामश्वमेधोऽसि युगानां प्रथमो युगः ॥
पुष्यस्त्वं सर्वधिण्यानाममावास्या तिथिष्वसि

2.5.2.47

सर्वर्तुषु वसंतस्त्वं सर्वपर्वसु संक्रमः ॥
कुशोऽसि तृणजातीनां स्थूलवृक्षेषु वै वटः

2.5.2.48

योगेषु च व्यतीपातस्सोमवल्ली लतासु च ॥
बुद्धीनां धर्मबुद्धिस्त्वं कलत्रं सुहृदां भवान्

2.5.2.49

साधकानां शुचीनां त्वं प्राणायामो महेश्वर ॥
ज्योतिर्लिंगेषु सर्वेषु भवान् विश्वे श्वरो मतः

2.5.2.2.5.2.50

धर्मस्त्वं सर्वबंधूनामाश्रमाणां परो भवान् ॥
मोक्षस्त्वं सर्ववर्णेषु रुद्राणां नीललोहितः

2.5.2.51

आदित्यानां वासुदेवो हनूमान्वानरेषु च ॥
यज्ञानां जपयज्ञोऽसि रामः शस्त्रभृतां भवान्

2.5.2.52

गंधर्वाणां चित्ररथो वसूनां पावको ध्रुवम् ॥
मासानामधिमासस्त्वं व्रतानां त्वं चतुर्दशी

2.5.2.53

ऐरावतो गजेन्द्राणां सिद्धानां कपिलो मतः ॥
अनंतस्त्वं हि नागानां पितॄणामर्यमा भवान्

2.5.2.54

कालः कलयतां च त्वं दैत्यानां बलिरेव च ॥
किं बहूक्तेन देवेश सर्वं विष्टभ्य वै जगत्

2.5.2.55

एकांशेन स्थितस्त्वं हि बहिःस्थोऽन्वित एव च

2.5.2.56

सनत्कुमार उवाच ॥
इति स्तुत्वा सुरास्सर्वे महादेवं वृषध्वजम् ॥
स्तोत्रैर्नानाविधैदिंव्यैः शूलिनं परमेश्वरम्

2.5.2.57

प्रत्यूचुः प्रस्तुतं दीनास्स्वार्थं स्वार्थविचक्षणाः ॥
वासवाद्या नतस्कधाः कृताञ्जलि पुटा मुने

2.5.2.58

देवा ऊचुः ॥
पराजिता महादेव भ्रातृभ्यां सहितेन तु ॥
भगवंस्तारकोत्पन्नैः सर्वे देवास्सवासवाः

2.5.2.59

त्रैलोक्यं स्ववशं नीतं तथा च मुनिसत्तमाः ॥
विध्वस्तास्सर्वसंसिद्धास्सर्वमुत्सादितं जगत्

2.5.2.2.5.2.60

यज्ञभागान्समग्राँस्तु स्वयं गृह्णाति दारुणः ॥
प्रवर्तितो ह्यधर्मस्तैरृषीणां च निवारितः

2.5.2.61

अवध्यास्सर्वभूतानां नियतं तारकात्मजाः ॥
तदिच्छया प्रकुर्वन्ति सर्वे कर्माणि शंकर

2.5.2.62

यावन्न क्षीयते दैत्यैर्घोरैस्त्रिपुरवासिभिः ॥
तावद्विधीयतां नीतिर्यया संरक्ष्यते जगत्

2.5.2.63

॥ सनत्कुमार उवाच ॥
इत्याकर्ण्य वचस्तेषामिन्द्रादीनां दिवौकसाम् ॥
शिवः संभाषमाणानां प्रतिवाक्यमुवाच सः

2.5.2.2

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवस्तुतिर्नाम द्वितीयोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc