भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.3.5

2.3.5.1

नारद उवाच ॥
अन्तर्हितायान्देव्यां तु दुर्गायां स्वगृहेषु च ॥
गतेष्वमरवृन्देषु किमभूत्तदनन्तरम्

2.3.5.2

कथं मेनागिरीशौ च तेपाते परमन्तपः ॥
कथं सुताऽभवत्तस्य मेनायान्तात तद्वद

2.3.5.3

॥ ब्रह्मोवाच ॥
विप्रवर्य सुतश्रेष्ठ शृणु तच्चरितं महत् ॥
प्रणम्य शंकरं भक्त्या वच्मि भक्तिविवर्द्धनम्

2.3.5.4

उपदिश्य गते तात सुरवृन्दे गिरीश्वरः ॥
हर्यादौ मेनका चापि तेपाते परमन्तपः॥

2.3.5.5

अहर्निशं शिवां शम्भुं चिन्तयन्तौ च दम्पती ॥
सम्यगारेधतुर्नित्यं भक्तियुक्तेन चेतसा

2.3.5.6

गिरिप्रियातीव मुदानर्च देवीं शिवेन सा ॥
दानन्ददौ द्विजेभ्यश्च सदा तत्तोषहेतवे

2.3.5.7

चैत्रमासं समारभ्य सप्तविंशतिवत्सरान् ॥
शिवां सम्पूजयामासापत्त्यार्थिन्यन्वहं रता

2.3.5.8

अष्टम्यामुपवासन्तु कृत्वादान्नवमीतिथौ ॥
मोदकैर्बलिपिष्टैश्च पायसैर्गन्धपुष्पकैः

2.3.5.9

गङ्गायामौषधिप्रस्थे कृत्वा मूर्तिं महीमयीम् ॥
उमायाः पूजयामास नानावस्तुसमर्पणैः

2.3.5.2.3.5.10

कदाचित्सा निराहारा कदाचित्सा धृतव्रता ॥
कदाचित्पवनाहारा कदाचिज्जलभुघ्यभूत्

2.3.5.11

शिवाविन्यस्तचेतस्का सप्तविंशतिवत्सरान् ॥
निनाय मेनका प्रीत्या परं सा मृष्टवर्चसा

2.3.5.12

सप्तविंशतिवर्षान्ते जगन्माता जगन्मयी ॥
सुप्रीताभवदत्यर्थमुमा शंकरकामिनी

2.3.5.13

अनुग्रहाय मेनायाः पुरतः परमेश्वरी ॥
आविर्बभूव सा देवी सन्तुष्टा तत्सुभक्तितः

2.3.5.14

दिव्यावयवसंयुक्ता तेजोमण्डलमध्यगा॥
उवाच विहसन्ती सा मेनां प्रत्यक्षतां गता

2.3.5.15

देव्युवाच ॥ वरं ब्रूहि महासाध्वि यत्ते मनसि वर्तते ॥
सुप्रसन्ना च तपसा तवाहं गिरिकामिनि

2.3.5.16

यत्प्रार्थितं त्वया मेने तपोव्रतसमाधिना ॥
दास्ये तेऽहं च तत्सर्वं वाञ्छितं यद्यदा भवेत्

2.3.5.17

ततस्सा मेनका देवीं प्रत्यक्षां कालिकान्तदा ॥
दृष्ट्वा च प्रणनामाथ वचनं चेदमब्रवीत्

2.3.5.18

मेनोवाच ॥
देवि प्रत्यक्षतो रूपन्दृष्टन्तव मयाऽधुना ॥
त्वामहं स्तोतुमिच्छामि प्रसन्ना भव कालिके

2.3.5.19

॥ ब्रह्मोवाच ॥
अथ सा मेनयेत्युक्ता कालिका सर्वमोहिनी ॥
बाहुभ्यां सुप्रसन्नात्मा मेनकां परिषस्वजे

2.3.5.2.3.5.20

ततः प्राप्तमहाज्ञाना मेनका कालिकां शिवम् ॥
तुष्टाव वाग्भि रिष्टाभिर्भक्त्या प्रत्यक्षतां गताम्

2.3.5.21

मेनोवाच ॥
महामायां जगद्धात्रीं चण्डिकां लोकधारिणीम् ॥
प्रणमामि महादेवीं सर्वकामार्थदायिनीम्

2.3.5.22

नित्यानन्दकरीं मायां योगनिद्रां जगत्प्रसूम् ॥
प्रणमामि सदासिद्धां शुभसारसमालिनीम्

2.3.5.23

मातामहीं सदानन्दां भक्तशोकविनाशिनीम् ॥
आकल्पं वनितानां च प्राणिनां बुद्धिरूपिणीम्

2.3.5.24

सा त्वं बंधच्छेदहेतुर्यतीनां कस्ते गेयो मादृशीभिः प्रभावः ॥
हिंसाया वाथर्ववेदस्य सा त्वं नित्यं कामं त्वं ममेष्टं विधेहि

2.3.5.25

नित्यानित्यैर्भावहीनैः परास्तैस्तत्तन्मात्रैर्योज्यते भूतवर्गः ॥
तेषां शक्तिस्त्वं सदा नित्यरूपा काले योषा योगयुक्ता समर्था

2.3.5.26

योनिर्धरित्री जगतां त्वमेव त्वमेव नित्या प्रकृतिः परस्तात् ॥
यथा वशं क्रियते ब्रह्मरूपं सा त्वं नित्या मे प्रसीदाद्य मातः

2.3.5.27

त्वं जातवेदोगतशक्तिरुग्रा त्वं दाहिका सूर्यकरस्य शक्तिः ॥
आह्लादिका त्वं बहुचन्द्रिका या तान्त्वामहं स्तौमि नमामि चण्डीम्

2.3.5.28

योषाणां सत्प्रिया च त्वं नित्या त्वं चोर्ध्वरेतसाम् ॥
वांछा त्वं सर्वजगतां धाया च त्वं यथा हरेः

2.3.5.29

या चेष्टरूपाणि विधाय देवी सृष्टिस्थितानाशमयी च कर्त्री ॥
ब्रह्माच्युतस्थाणुशरीरहेतुस्सा त्वं प्रसीदाद्य पुनर्नमस्ते

2.3.5.2.3.5.30

ब्रह्मोवाच ॥
तत इत्थं स्तुता दुर्गा कालिका पुनरेव हि ॥
उवाच मेनकां देवीं वांछितं वरयेत्युत

2.3.5.31

॥ उमोवाच ॥
प्राणप्रिया मम त्वं हि हिमाचलविलासिनी ॥
यदिच्छसि ध्रुवन्दास्ये नादेयं विद्यते मम

2.3.5.32

इति श्रुत्वा महेशान्याः पीयूषसदृशं वचः ॥
उवाच परितुष्टा सा मेनका गिरिकामिनी

2.3.5.33

मेनोवाच ॥
शिवे जयजय प्राज्ञे महेश्वरि भवाम्बिके ॥
वरयोग्यास्महं चेत्ते वृणे भूयो वरं वरम्

2.3.5.34

प्रथमं शतपुत्रा मे भवन्तु जगदम्बिके ॥
बह्वायुषो वीर्यवन्त ऋद्धिसिद्धिसमन्विताः

2.3.5.35

पश्चात्तथैका तनया स्वरूपगुणशालिनी ॥
कुलद्वयानंदकरी भुवनत्रयपूजिता

2.3.5.36

सुता भव मम शिवे देवकार्यार्थमेव हि ॥
रुद्रपत्नी भव तथा लीलां कुरु भवाम्बिके

2.3.5.37

॥ ब्रह्मोवाच ॥
तच्छ्रुत्वा मेनकोक्तं हि प्राह देवी प्रसन्नधीः ॥
स्मितपूर्वं वचस्तस्याः पूरयन्ती मनोरथम्

2.3.5.38

॥ देव्युवाच ॥
शतपुत्रास्सं भवन्तु भवत्या वीर्यसंयुताः ॥
तत्रैको बलवान्मुख्यः प्रधमं संभविष्यति ॥

2.3.5.39

सुताहं संभविष्यामि सन्तुष्टा तव भक्तितः ॥
देव कार्यं करिष्यामि सेविता निखिलैस्सुरैः

2.3.5.2.3.5.40

ब्रह्मोवाच ॥
एवमुक्त्वा जगद्धात्री कालिका परमेश्वरी ॥
पश्यन्त्या मेनकायास्तु तत्रैवान्तर्दधे शिवा

2.3.5.41

मेनकापि वरं लब्ध्वा महेशान्या अभी प्सितम् ॥
मुदं प्रापामितां तात तपःक्लेशोप्यनश्यत

2.3.5.42

दिशि तस्यां नमस्कृत्य सुप्रहृष्टमनास्सती ॥
जयशब्दं प्रोच्चरंती स्वस्थानम्प्रविवेश ह

2.3.5.43

अथ तस्मै स्वपतये शशंस सुवरं च तम् ॥
स्वचिह्नबुद्धमिव वै सुवाचा पुनरुक्तया

2.3.5.44

श्रुत्वा शैलपतिर्हृष्टोऽभवन्मेनावचो हि तत् ॥
प्रशशंस प्रियां प्रीत्या शिवाभक्तिरतां च ताम्

2.3.5.45

कालक्रमेणाऽथ तयोः प्रवृत्ते सुरते मुने ॥
गर्भो बभूव मेनाया ववृधे प्रत्यहं च सः

2.3.5.46

असूत सा नागवधूपभोग्यं सुतमुत्तमम् ॥
समुद्रबद्धसत्सख्यं मैनाकाभिधमद्भुतम्

2.3.5.47

वृत्रशत्रावपि क्रुद्धे वेदनाशं सपक्षकम् ॥
पविक्षतानां देवर्षे पक्षच्छिदि वराङ्गकम्

2.3.5.48

प्रवरं शतपुत्राणां महाबलपराक्रमम् ॥
स्वोद्भवानां महीध्राणां पर्वतेन्द्रैकधिष्ठितम्

2.3.5.49

आसीन्महोत्सवस्तत्र हिमाचलपुरेऽद्भुतः ॥
दम्पत्योः प्रमुदाधिक्यं बभूव क्लेशसंक्षयः

2.3.5.2.3.5.50

दानन्ददौ द्विजातिभ्योऽन्येभ्यश्च प्रददौ धनम् ॥
शिवाशिवपदद्वन्द्वे स्नेहोऽभूदधिकस्तयोः

2.3.5.5

इति श्रीशिवमहापुराणे द्वितीयायां रु० सं० तृतीये पार्वतीखंडे मेनावरलाभवर्णनो नाम पंचमोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc