भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.3.4

2.3.4.1

ब्रह्मोवाच ॥
इत्थं देवैः स्तुता देवी दुर्गा दुर्गार्तिनाशिनी ॥
आविर्बभूव देवानां पुरतो जगदंबिका

2.3.4.2

रथे रत्नमये दिव्ये संस्थिता परमाद्भुते ॥
किंकिणीजालसंयुक्ते मृदुसंस्तरणे वरे

2.3.4.3

कोटिसूर्याधिकाभास रम्यावयवभासिनी॥
स्वतेजोराशिमध्यस्था वररूपा समच्छवि

2.3.4.4

अनूपमा महामाया सदाशिवविलासिनी ॥
त्रिगुणा निर्गुणा नित्या शिवलोकनिवासिनी

2.3.4.5

त्रिदेवजननी चण्डी शिवा सर्वार्तिनाशिनी॥
सर्वमाता महानिद्रा सर्वस्वजनतारिणी

2.3.4.6

तेजोराशेः प्रभावात्तु सा तु दृष्ट्वा सुरैश्शिवा ॥
तुष्टुवुस्तां पुनस्ते वै सुरा दर्शनकांक्षिणः

2.3.4.7

अथ देवगणास्सर्वे विष्ण्वाद्या दर्शनेप्सवः ॥
ददृशुर्जगदम्बां तां तत्कृपां प्राप्य तत्र हि

2.3.4.8

बभूवानन्दसन्दोहस्सर्वेषां त्रिदिवौकसाम्॥
पुनः पुनः प्रणेमुस्तां तुष्टुवुश्च विशेषतः

2.3.4.9

देवा ऊचुः ॥
शिवे शर्वाणि कल्याणि जगदम्ब महेश्वरि ॥
त्वां नतास्सर्वथा देवा वयं सर्वार्तिनाशिनीम्

2.3.4.2.3.4.10

।
न हि जानन्ति देवेशि वेदश्शास्त्राणि कृत्स्नशः ॥
अतीतो महिमा ध्यानं तव वाङ्मनसोश्शिवे

2.3.4.11

अतद्व्यावृत्तितस्तां वै चकितं चकितं सदा ॥
अभिधत्ते श्रुतिरपि परेषां का कथा मता

2.3.4.12

जानन्ति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः ॥
शरणागतभक्तानां न कुत्रापि भयादिकम्

2.3.4.13

विज्ञप्तिं शृणु सुप्रीता यस्या दासास्सदाम्बिके ॥
तव देवि महादेवि हीनतो वर्णयामहे

2.3.4.14

पुरा दक्षसुता भूत्वा संजाता हरवल्लभा ॥
ब्रह्मणश्च परेषां वा नाशयत्वमकंमहत्

2.3.4.15

पितृतोऽनादरं प्राप्यात्यजः पणवशात्तनुम् ॥
स्वलोकमगमस्त्वं वालभद्दुःखं हरोऽपि हि

2.3.4.16

न हि जातम्प्रपूर्णं तद्देवकार्यं महेश्वरि॥
व्याकुला मुनयो देवाश्शरणन्त्वां गता वयम्

2.3.4.17

पूर्णं कुरु महेशानि निर्जराणां मनोरथम् ॥
सनत्कुमारवचनं सफलं स्याद्यथा शिवे

2.3.4.18

अवतीर्य क्षितौ देवि रुद्रपत्नी पुनर्भव॥
लीलां कुरु यथायोग्यं प्राप्नुयुर्निर्जरास्सुखम्

2.3.4.19

सुखी स्याद्देवि रुद्रोऽपि कैलासाचलसंस्थितः ॥
सर्वे भवन्तु सुखिनो दुःखं नश्यतु कृत्स्नशः

2.3.4.2.3.4.20

॥ ब्रह्मोवाच ॥
इति प्रोच्यामरास्सर्वे विष्ण्वाद्याः प्रेमसंकुलाः ॥
मौनमास्थाय संतस्थुर्भक्तिनम्रा त्ममूर्तयः

2.3.4.21

शिवापि सुप्रसन्नाभूदाकर्ण्यामरसंस्तुतिम् ॥
आकलय्याथ तद्धेतुं संस्मृत्य स्वप्रभुं शिवम्

2.3.4.22

उवाचोमा तदा देवी सम्बोध्य विबुधांश्च तान् ॥
विहस्य मापतिमुखान्सदया भक्तवत्सला

2.3.4.23

उमोवाच ॥
हे हरे हे विधे देवा मुनयश्च गतव्यथाः ॥
सर्वे शृणुत मद्वाक्यं प्रसन्नाहं न संशयः

2.3.4.24

चरितं मम सर्वत्र त्रैलोक्यस्य सुखावहम् ॥
कृतं मयैवं सकलं दक्षमोहादिकं च तत्

2.3.4.25

अवतारं करिष्यामि क्षितौ पूर्णं न संशयः ॥
बहवो हेतवोऽप्यत्र तद्वदामि महादरात्

2.3.4.26

पुरा हिमाचलो देवा मेना चातिसुभक्तितः ॥
सेवां मे चक्रतुस्तात जननीवत्सतीतनोः

2.3.4.27

इदानीं कुरुतस्सेवां सुभक्त्या मम नित्यशः ॥
मेना विशेषतस्तत्र सुतात्वेनात्र संशयः

2.3.4.28

रुद्रो गच्छतु यूयं चावतारं हिमवद्गृहे ॥
अतश्चावतरिष्यामि दुःखनाशो भविष्यति

2.3.4.29

सर्वे गच्छत धाम स्वं स्वं सुखं लभतां चिरम् ॥
अवतीर्य सुता भूत्वा मेनाया दास्य उत्सुखम्॥

2.3.4.2.3.4.30

हरपत्नी भविष्यामि सुगुप्तं मतमात्मनः ॥
अद्भुता शिवलीला हि ज्ञानिनामपि मोहिनी

2.3.4.31

यावत्प्रभृति मे त्यक्ता स्वतनुर्दक्षजा सुराः ॥
पितृतोऽनादरं दृष्ट्वा स्वामिनस्तत्क्रतौ गता

2.3.4.32

तदाप्रभृति स स्वामी रुद्रः कालाग्निसंज्ञकः ॥
दिगम्बरो बभूवाशु मच्चिन्तनपरायणः

2.3.4.33

मम रोषं क्रतौ दृष्ट्वा पितुस्तत्र गता सती ॥
अत्यजत्स्वतनुं प्रीत्या धर्मज्ञेति विचारतः॥

2.3.4.34

योग्यभूत्सदनं त्यक्त्वा कृत्वा वेषमलौकिकम् ॥
न सेहे विरहं सत्या मद्रूपाया महेश्वरः

2.3.4.35

मम हेतोर्महादुःखी स बभूव कुवेषभृत् ॥
अत्यजत्स तदारभ्य कामजं सुखमुत्तमम्

2.3.4.36

अन्यच्छृणुत हे विष्णो हे विधे मुनयः सुराः ॥
महाप्रभोर्महेशस्य लीलां भुवनपालिनीम्

2.3.4.37

विधाय मालां सुप्रीत्या ममास्थ्नां विरहाकुलः ॥
न शान्तिं प्राप कुत्रापि प्रबुद्धो ऽप्येक एव सः

2.3.4.38

इतस्ततो रुरोदोच्चैरनीश इव स प्रभुः ॥
योग्यायोग्यं न बुबुधे भ्रमन्सर्वत्र सर्वदा

2.3.4.39

इत्थं लीलां हरोऽकार्षीद्दर्शयन्कामिनां प्रभुः ॥
ऊचे कामुकवद्वाणीं विरहव्याकुलामिव

2.3.4.2.3.4.40

वस्तुतोऽविकृतोऽदीनोऽस्त्यजितः परमेश्वरः ॥
परिपूर्णः शिवः स्वामी मायाधीशोऽखिलेश्वरः

2.3.4.41

अन्यथा मोहतस्तस्य किं कामाच्च प्रयोजनम् ॥
विकारेणापि केनाशु मायालिप्तो न स प्रभुः

2.3.4.42

रुद्रोऽतीवेच्छति विभुस्स मे कर्तुं करग्रहम् ॥
अवतारं क्षितौ मेनाहिमाचलगृहे सुराः

2.3.4.43

अतश्चावतरिष्यामि रुद्रसन्तोषहेतवे ॥
हिमागपत्न्यां मेनाया लौकिकीं गतिमाश्रिता

2.3.4.44

भक्ता रुद्रप्रिया भूत्वा तपः कृत्वा सुदुस्सहम् ॥
देवकार्यं करिष्यामि सत्यं सत्यं न संशयः

2.3.4.45

गच्छत स्वगृहं सर्वे भव भजत नित्यशः ॥
तत्कृपातोऽखिलं दुःखं विनश्यति न संशयः

2.3.4.46

भविष्यति कृपालोस्तु कृपया मंगलं सदा ॥
वन्द्या पूज्या त्रिलोकेऽहं तज्जायेति च हेतुतः

2.3.4.47

॥ ब्रह्मोवाच ॥
इत्युक्त्वा जगदम्बा सा देवानां पश्यतान्तदा ॥
अन्तर्दधे शिवा तात स्वं लोकम्प्राप वै द्रुतम् ।

2.3.4.48

विष्ण्वादयस्सुरास्सर्वे मुनयश्च मुदान्विताः॥
कृत्वा तद्दिशि संनामं स्वस्वधामानि संययुः

2.3.4.49

इत्थं दुर्गासुचरितं वर्णितं ते मुनीश्वर ॥
सर्वदा सुखदं नॄणां भुक्तिमुक्तिप्रदायकम्

2.3.4.2.3.4.50

य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ॥
पठेद्वा पाठयेद्वापि सर्वान्कामान वाप्नुयात्

2.3.4.4

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे देवसान्त्वनं नाम चतुर्थोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc