भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.3.27

2.3.27.1

पार्वत्युवाच ॥
शृणु द्विजेन्द्र जटिल मद्वृत्तं निखिलं खलु ॥
सख्युक्तं मेऽद्य यत्सत्यं तत्तथैव न चान्यथा

2.3.27.2

मनसा वचसा साक्षात्कर्म्मणा पतिभावतः ॥
सत्यं ब्रवीमि नोऽसत्यं वृतो वै शंकरो या

2.3.27.3

जानामि दुर्ल्लभं वस्तु कथम्प्राप्यं मया भवेत् ॥
तथापि मन औत्सुक्यात्तप्यतेऽद्य तपो मया

2.3.27.4

॥ ब्रह्मोवाच ॥
इत्युक्त्वा वचनन्तस्मै स्थिता सा गिरिजा तदा ॥
उवाच ब्राह्मणस्तत्र तच्छ्रुत्वा पार्वतीवचः

2.3.27.5

ब्राह्मण उवाच ॥
एतावत्कालपर्य्यन्तम्ममेच्छा महती ह्यभूत् ॥
किं वस्तु कांक्षती देवी कुरुते सुमहत्तपः

2.3.27.6

तज्ज्ञात्वा निखिलं देवि श्रुत्वा त्वन्मुखपंकजात् ॥
इतो गच्छाम्यहं स्थानाद्यथेच्छसि तथा कुरु

2.3.27.7

न कथ्यते त्वया मह्यं मित्रत्वं निष्फलम्भवेत् ॥
यथा कार्य्यं तथा भावि कथनीयं सुखेन च

2.3.27.8

॥ ब्रह्मोवाच ॥
इत्युक्त्वा वचनं तस्य यावद्गन्तुमियेष सः ॥
तावच्च पार्वती देवी प्रणम्योवाच तं द्विजम्

2.3.27.9

॥ पार्वत्युवाच ॥
किं गमिष्यसि विप्रेन्द्र स्थितो भव हितं वद ॥
इत्युक्ते च तया तत्र स्थित्वोवाच स दण्डधृक्

2.3.27.2.3.27.10

द्विज उवाच ॥
यदि श्रोतुमना देवि मां स्थापयसि भक्तितः ॥
वदामि तत्त्वं तत्सर्वं येन ते वयुनम्भवेत्

2.3.27.11

जानाम्यहं महादेवं सर्वथा गुरुधर्म्मतः ॥
प्रवदामि यथार्थं हि सावधानतया शृणु

2.3.27.12

वृषध्वजो महादेवो भस्मदिग्धो जटाधरः ॥
व्याघ्रचर्म्मांबरधरः संवीतो गजकृत्तिना

2.3.27.13

कपालधारी सर्पौघैस्सर्वगात्रेषु वेष्टितः ॥
विषदिग्धोऽभक्ष्यभक्षो विरूपाक्षो विभीषणः

2.3.27.14

अव्यक्तजन्मा सततं गृहभोगविवर्जितः ॥
दिगंबरो दशभुजो भूत प्रेतान्वितस्सदा

2.3.27.15

केन कारणेन त्वं तं भर्तारं समीहसे ॥
क्व ज्ञानं ते गतं देवि तद्वदाद्य विचारतः

2.3.27.16

पूर्वं श्रुतं मया चैव व्रतन्तस्य भयंकरम् ॥
शृणु ते निगदाम्यद्य यदि ते श्रवणे रुचिः

2.3.27.17

दक्षस्य दुहिता साध्वी सती वृषभवाहनम्॥
वव्रे पतिं पुरा दैवात्तत्संभोगः परिश्रुतः

2.3.27.18

कपालिजायेति सती दक्षेण परिवर्जिता ॥
यज्ञे भागप्रदानाय शंभुश्चापि विवर्जितः

2.3.27.19

सा तथैवापमानेन भृशं कोपाकुला सती ॥
तत्याजासून्प्रियांस्तत्र तया त्यक्तश्च शंकरः

2.3.27.2.3.27.20

त्वं स्त्रीरत्नं तव पिता राजा निखिल भूभृताम् ॥
तथाविधं पतिं कस्मादुग्रेण तपसेहसे

2.3.27.21

दत्त्वा सुवर्णमुद्रां च ग्रहीतुं काचमिच्छसि ॥
हित्वा च चंदनं शुभ्रं कर्दमं लेप्तुमिच्छसि

2.3.27.22

सूर्य्यतेजः परित्यज्य खद्योतद्युतिमिच्छसि ॥
चीनांशुकं विहायैव चर्म्मांबरमिहेच्छसि

2.3.27.23

गृहवासम्परित्यज्य वनवासं समीहसे ॥
लोहमिच्छसि देवेश त्यक्त्वा शेवधिमुत्तमम्

2.3.27.24

इन्द्रादिलोकपालांश्च हित्वा शिवमनु व्रता ॥
नैतत्सूक्तं हि लोकेषु विरुद्धं दृश्यतेऽधुना

2.3.27.25

क्व त्वं कमलपत्राक्षी क्वासौ वै त्रिविलोचनः ॥
शशांकवदना त्वं च पंचवक्त्रः शिवस्स्मृतः

2.3.27.26

वेणी शिरसि ते दिव्या सर्पिणीव विभासिता ॥
जटाजूटं शिवस्येव प्रसिद्धम्परिचक्षते

2.3.27.27

चंदनं च त्वदीयांगे चिताभस्म शिवस्य च ॥
क्व दुकूलं त्वदीयं वै शांकरं क्व गजाजिनम्

2.3.27.28

भूषणानि दिव्यानि क्व सर्पाश्शंकरस्य च ॥
क्व चरा देवतास्सर्वाः क्व च भूतबलिप्रियः

2.3.27.29

क्व वा मृदंगवादश्च क्व च तड्डमरुस्तथा ॥
क्व च भेरीकलापश्च क्व च शृंगरवोऽशुभः

2.3.27.2.3.27.30

क्व च ढक्कामयः शब्दो गलनादः क्व चाशुभः ॥
भवत्याश्च शिवस्यैव न युक्तं रूपमुत्तमम्

2.3.27.31

यदि द्रव्यं भवेत्तस्य कथं स्यात्स दिगम्बरः ॥
वाहनं च बलीवर्दस्सामग्री कापि तस्य न

2.3.27.32

वरेषु ये गुणाः प्रोक्ता नारीणां सुखदायकाः ॥
तन्मध्ये हि विरूपाक्षे एकोपि न गुणः स्मृतः

2.3.27.33

तवापि कामो दयितो दग्धस्तेन हरेण च ॥
अनादरस्तदा दृष्टो हित्वा त्वामन्यतो गतः

2.3.27.34

जातिर्न दृश्यते तस्य विद्याज्ञानं तथैव च ॥
सहायाश्च पिशाचा हि विषं कण्ठे हि दृश्यते

2.3.27.35

एकाकी च सदा नित्यं विरागी च विशेषतः ॥
तस्मात्त्वं हि हरे नैव मनो योक्तुं तु चार्हसि

2.3.27.36

क्व च हारस्त्वदीयो वै क्व च तन्मुण्डमालिका ॥
अंगरागः क्व ते दिव्यः चिताभस्म क्व तत्तनौ

2.3.27.37

सर्वं विरुद्धं रूपादि तव देवि हरस्य च ॥
मह्यं न रोचते ह्येतद्यदिच्छसि तथा कुरु

2.3.27.38

असद्वस्तु च यत्किंचित् तत्सर्वं स्वयमीहसे ॥
निर्वर्तय मनस्तस्मान्नोचेदिच्छसि तत्कुरु

2.3.27.39

ब्रह्मोवाच ॥
इत्येवं वचनं श्रुत्वा तस्य विप्रस्य पार्वती ॥
उवाच क्रुद्धमनसा शिवनिन्दापरं द्विजम्

2.3.27.27

इतिश्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे ब्रह्मचारिप्रतारणवाक्यवर्णनं नाम सप्तविंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc