शिव पुराण · अध्याय 2.3.26
॥ ब्रह्मोवाच ॥
गतेषु तेषु मुनिषु स्वं लोकं शंकरः स्वयम् ॥
परीक्षितुं तपो देव्या ऐच्छत्सूतिकरः प्रभुः
परीक्षा छद्मना शंभुर्द्रष्टुं तां तुष्टमानसः॥
जाटिलं रूपमास्थाय स ययौ पार्वतीवनम्
अतीव स्थविरो विप्रदेहधारी स्वतेजसा ॥
प्रज्वलन्मनसा हृष्टो दंडी छत्री बभूव सः
तत्रापश्यत्स्थितां देवीं सखीभिः परिवारिताम् ॥
वेदिकोपरि शुद्धां तां शिवामिव विधोः कलाम्
शंभु निरीक्ष्य तां देवीं ब्रह्मचारिस्वरूपवान् ॥
उपकंठं ययौ प्रीत्या तदाऽसौ भक्तवत्सलः
आगतं तं तदा दृष्ट्वा ब्राह्मणं तेजसाद्भुतम् ॥
अपूजयच्छिवा देवी सर्वपूजोपहारकैः
सुसत्कृतं संविधाभिः पूजितं परया मुदा ॥
पार्वती कुशलं प्रीत्या पप्रच्छ द्विजमादरात
॥ पार्वत्युवाच ॥
ब्रह्मचारिस्वरूपेण कस्त्वं हि कुत आगतः ॥
इदं वनं भासयसे वद वेदविदां वर
॥ विप्र उवाच ॥
अहमिच्छाभिगामी च वृद्धो विप्रतनुस्सुधीः ॥
तपस्वी सुखदोऽन्येषामुपकारी न संशयः
का त्वं कस्यासि तनया किमर्थ विजने वने ॥
तपश्चरसि दुर्धर्षं मुनिभिः प्रपदैरपि
न बाला न च वृद्धासि तरुणी भासि शोभना ॥
कथं पतिं विना तीक्ष्णं तपश्चरसि वै वने
कि त्वं तपस्विनी भद्रे कस्यचित्सहचारिणी ॥
तपस्वी स न पुष्णाति देवि त्वां च गतोऽन्यतः
वद कस्य कुले जाता कः पिता तव का विधा ॥
महासौभाग्यरूपा त्वं वृथा तव तपोरतिः
किं त्वं वेदप्रसूर्लक्ष्मीः किं सुरूपा सरस्वती ॥
एतासु मध्ये का वा त्वं नाहं तर्कितुमुत्सहे
॥ पार्वत्युवाच ॥
नाहं वेदप्रसूर्विप्र न लक्ष्मीश्च सरस्वती ॥
अहं हिमाचलसुता सांप्रतं नाम पार्वती
पुरा दक्षसुता जाता सती नामान्यजन्मनि ॥
योगेन त्यक्तदेहाऽहं यत्पित्रा निन्दितः पतिः
अत्र जन्मनि संप्राप्तश्शिवोऽपि विधिवैभवात् ॥
मां त्यक्त्वा भस्मसात्कृत्य मन्मथं स जगाम ह
प्रयाते शंकरे तापोद्विजिताहं पितुर्गृहात् ॥
आगता तपसे विप्र सुदृढा स्वर्णदीतटे
कृत्वा तपः कठोरं च सुचिरं प्राणवल्लभम् ॥
न प्राप्याग्नौ विविक्षन्ती त्वं दृष्ट्वा संस्थिता क्षणम्
गच्छ त्वं प्रविशाम्यग्नौ शिवेनांगीकृता न हि ॥
यत्र यत्र जनुर्लप्स्ये वरिष्यामि शिवं वरम्
ब्रह्मोवाच ॥
इत्युक्त्वा पार्वती वह्नौ तत्पुरः प्रविवेश सा ॥
निषिध्यमाना पुरतो ब्राह्मणेन पुनः पुनः
वह्निप्रवेशं कुर्वत्याः पार्वत्यास्तत्प्रभावतः॥
बभूव तत्क्षणं सद्यो वह्नि श्चंदनपंकवत्
क्षणं तदंतरे स्थित्वा ह्युत्पतंती दिवं द्विजः ॥
पुनः पप्रच्छ सहसा विहसन्सुतनुं शिवः
द्विज उवाच ॥
अहो तपस्ते किं भद्रे न बुद्धं किंचिदेव हि ॥
न दग्धो वह्निना देहो न च प्राप्तं मनीषितम्
अतस्सत्यं निकामं वै वद देवि मनोरथम् ॥
ममाग्रे विप्रवर्यस्य सर्वानंदप्रदस्य हि
यथाविधि त्वया देवि कीर्त्यतां सर्वथात्मना ॥
तस्मान्मैत्री च संजाता कार्य्यं गोप्यं त्वया न हि
किमिच्छसि वरं देवि प्रष्टुमिच्छाम्यतः परम् ॥
त्वय्येव तदसौ देवि फलं सर्वं प्रदृश्यते
परार्थे च तपश्चेद्वै तिष्ठेत्तु तप एव तत् ॥
रत्नं हस्ते समादाय हित्वा काचस्तु संचितः
ईदृशं तव सौंदर्यं कथं व्यर्थीकृतं त्वया ॥
हित्वा वस्त्राण्यनेकानि चर्मादि च धृतं त्वया
तत्सर्वं कारणं ब्रूहि तपसस्त्वस्य सत्यतः ॥
तच्छ्रुत्वा विप्रवर्योऽहं यथा हर्षमावाप्नुयाम्
ब्रह्मोवाच ॥
इति पृष्टा तदा तेन सखीं प्रैरयताम्बिका ॥
तन्मुखेनैव तत्सर्वं कथयामास सुव्रता
तया च प्रेरिता तत्र पार्वत्या विजयाभिधा ॥
प्राणप्रिया सुव्रतज्ञा सखी जटिलमब्रवीत्
सख्युवाच ॥
शृणु साधो प्रवक्ष्यामि पार्वतीचरितं परम् ॥
हेतुं च तपसस्सर्वं यदि त्वं श्रोतुमिच्छसि
सखा मे गिरिराजस्य सुतेयं हिमभूभृतः ॥
ख्याता वै पार्वती नाम्ना सा कालीति च मेनका
ऊढेयं न च केनापि न वाञ्छति शिवात्परम् ॥
त्रीणि वर्षसहस्राणि तपश्चरणसाधिनी
तदर्थं मेऽनया सख्या प्रारब्धं तप ईदृशम् ॥
तदत्र कारणं वक्ष्ये शृणु साधो द्विजोत्तम
हित्वेन्द्रप्रमुखान्देवान् हरिं ब्रह्माणमेव च ॥
पतिं पिनाकपाणिं वै प्राप्नुमिच्छति पार्वती
इयं सखी मदीया वै वृक्षानारोप यत्पुरा ॥
तेषु सर्वेषु संजातं फलपुष्पादिकं द्विज
रूपसार्थाय जनककुलालंकरणाय च ॥
समुद्दिश्य महेशानं कामस्यानुग्रहाय च
मत्सखी नारदोपदेशात्तपस्तपति दारुणम् ॥
मनोरथः कुतस्तस्या न फलिष्यति तापस
यत्ते पृष्टं द्विजश्रेष्ठ मत्सख्या मनसीप्सितम् ॥
मया ख्यातं च तत्प्रीत्या किमन्यच्छ्रोतुमिच्छसि
ब्रह्मोवाच ॥
इत्येवं वचनं श्रुत्वा विजयाया यथार्थतः ॥
मुने स जटिलो रुद्रो विहसन्वाक्यमब्रवीत्
जटिल उवाच ॥
सख्येदं कथितं तत्र परिहासोनुमीयते ॥
यथार्थं चेत्तदा देवी स्वमुखेनाभिभाषताम्
॥ ब्रह्मोवाच ॥
इत्युक्ते च तदा तेन जटिलेन द्विजन्मना ॥
उवाच पार्वती देवी स्वमुखेनैव तं द्विजम्
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाजटिलसंवादो नाम षड्विंशोध्यायः
मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0