भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.2.4

2.2.4.1

नारद उवाच॥
विष्णुशिष्य महाप्राज्ञ विधे लोककर प्रभो ॥
अद्भुतेयं कथा प्रोक्ता शिवलीलामृतान्विता

2.2.4.2

ततः किमभवत्तात चरितं तद्वदाधुना ॥
अहं श्रद्धान्वितः श्रोतुं यदि शम्भुकथाश्रयम्

2.2.4.3

॥
ब्रह्मोवाच ॥
शंभौ गते निजस्थाने वेधस्यंतर्हिते मयि ॥
दक्ष प्राहाथ कंदर्पं संस्मरन् मम तद्वचः ॥

2.2.4.4

॥
दक्ष उवाच ॥
मद्देहजेयं कंदर्प सद्रूपगुणसंयुता ॥
एनां गृह्णीष्व भार्यार्थं भवतस्सदृशीं गुणैः

2.2.4.5

एषा तव महा तेजास्सर्वदा सहचारिणी ॥
भविष्यति यथाकामं धर्मतो वशवर्तिनी

2.2.4.6

ब्रह्मोवाच ॥
इत्युक्त्वा प्रददौ तस्यै देहस्वेदांबुसम्भवाम् ॥
कंदर्प्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम्

2.2.4.7

विवाह्य तां स्मरस्सोपि मुमोदातीव नारद ॥
दक्षजां तनयां रम्यां मुनीनामपि मोहिनीम्

2.2.4.8

अथ तां वीक्ष्य मदनो रत्याख्यां स्वस्त्रियं शुभाम् ॥
आत्मा गुणेन विद्धोसौ मुमोह रतिरंजितः

2.2.4.9

क्षणप्रदाऽभवत्कांता गौरी मृगदृशी मुदा ॥
लोलापांग्यथ तस्यैव भार्या च सदृशी रतौ

2.2.4.2.2.4.10

तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोकरोत् ॥
उत्सादनं मत्कोदण्डं विधात्रास्यां निवेशितम्

2.2.4.11

कटाक्षाणामाशुगतिं दृष्ट्वा तस्या द्विजोत्तम॥
आशु गन्तुं निजास्त्राणां श्रद्दधे न च चारुताम्

2.2.4.13

तस्याः स्वभावसुरभिधीरश्वासानिलं तथा ॥
आघ्राय मदनः श्रद्धां त्यक्तवान् मलयांतिके ॥ १२ ।
पूर्णेन्दुसदृशं वक्त्रं दृष्ट्वा लक्ष्मसुलक्षितम् ॥
न निश्चिकाय मदनो भेदं तन्मुखचन्द्रयोः

2.2.4.14

सुवर्ण पद्मकलिकातुल्यं तस्याः कुचद्वयम् ॥
रेजे चूचुकयुग्मेन भ्रमरेणेव वेष्टितम्

2.2.4.15

दृढपीनोन्नतं तस्यास्तनमध्यं विलंबिनीम् ॥
आनाभिप्रतलं मालां तन्वीं चन्द्रायितां शुभाम्

2.2.4.16

ज्यां पुष्पधनुषः कामः षट्पदावलिसंभ्रमाम् ॥
विसस्मार च यस्मात्तां विसृज्यैनां निरीक्षते

2.2.4.17

गम्भीरनाभिरंध्रांतश्चतुःपार्श्वत्वगादृतम् ॥
आननाब्जेऽक्षणद्वंद्वमारक्तकफलं यथा

2.2.4.18

मध्येन वपुषा निसर्गाष्टापदप्रभा ॥
रुक्मवेदीव ददृशे कामेन रमणी हि सा

2.2.4.19

रंभास्तंभायतं स्निग्धं यदूरुयुगलं मृदु ॥
निजशक्तिसमं कामो वीक्षांचक्रे मनोहरम्

2.2.4.2.2.4.20

आरक्तपार्ष्णिपादाग्रप्रांतभागं पदद्वयम् ॥
अनुरागमिवाऽनेन मित्रं तस्या मनोभवः

2.2.4.21

तस्याः करयुगं रक्तं नखरैः किंशुकोपमैः ॥
वृत्ताभिरंगुलीभिश्च सूक्ष्माग्राभिर्मनोहरम्

2.2.4.22

तद्बाहुयुगुलं कांतं मृणालयुगलायतम् ॥
मृदु स्निग्धं चिरं राजत्कांतिलोहप्रवालवत्

2.2.4.23

नीलनीरदसंकाशः केशपाशो मनोहरः ॥
चमरीवाल भरवद्विभाति स्म स्मरप्रियः

2.2.4.24

एतादृशीं रतिं नाम्ना प्रालेयाद्रिसमुद्भवाम्॥
गंगामिव महादेवो जग्राहोत्फुल्ललोचनः

2.2.4.25

चक्रपद्मां चारुबाहुं मृणालशकलान्विताम् ॥
भ्रूयुग्मविभ्रमव्राततनूर्मिपरिराजिताम्

2.2.4.26

कटाक्षपाततुंगौघां स्वीयनेत्रोत्पलान्विताम् ॥
तनुलोमांबुशैवालां मनोद्रुमविलासिनीम्

2.2.4.27

निम्ननाभिह्रदां क्षामां सर्वांगरमणीयिकाम् ॥
सर्वलावण्यसदनां शोभमानां रमामिव

2.2.4.28

द्वादशाभरणैर्युक्तां शृंगारैः षोडशैर्युताम् ॥
मोहनीं सर्वलोकानां भासयंतीं दिशो दश

2.2.4.29

इति तां मदनो वीक्ष्य रतिं जग्राह सोत्सुकः ॥
रागादुपस्थितां लक्ष्मीं हृषीकेश इवोत्तमाम्

2.2.4.2.2.4.30

नोवाच च तदा दक्षं कामो मोदभवात्ततः ॥
विस्मृत्य दारुणं शापं विधिदत्तं विमोहितः

2.2.4.31

तदा महोत्सवस्तात बभूव सुखवर्द्धनः ॥
दक्षः प्रीततरश्चासीन्मुमुदे तनया मम

2.2.4.32

कामोतीव सुखं प्राप्य सर्वदुःखक्षयं गतः ॥
दक्षजापि रतिः कामं प्राप्य चापि जहर्ष ह

2.2.4.33

रराज चेतयासार्द्धं भिन्नश्चारुवचः स्मरः ॥
जीमूत इव संध्यायां सौदामन्या मनोज्ञया

2.2.4.34

इति रतिपतिरुच्चैर्मोहयुक्तो रतिं तां हृदुपरि जगृहे वै योगदर्शीव विद्याम् ॥
रतिरपि पतिमग्र्यं प्राप्य सा चापि रेजे हरिमिव कमला वै पूर्णचन्द्रोपमास्या

2.2.4.4

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्विती- स० कामविवाहवर्णनं नाम चतुर्थोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc