शिव पुराण · अध्याय 2.2.3
ब्रह्मोवाच ॥
ततस्ते मुनयः सर्वे तदाभिप्रायवेदिनः ॥
चक्रुस्तदुचितं नाम मरीचिप्रमुखास्सुताः
मुखावलोकनादेव ज्ञात्वा वृत्तांतमन्यतः ॥
दक्षादयश्च स्रष्टारः स्थानं पत्नीं च ते ददुः
ततो निश्चित्य नामानि मरीचिप्रमुखा द्विजाः ॥
ऊचुस्संगतमेतस्मै पुरुषाय ममात्मजाः
ऋषय ऊचुः ॥
यस्मात्प्रमथसे तत्त्वं जातोस्माकं यथा विधेः ॥
तस्मान्मन्मथनामा त्वं लोके ख्यातो भविष्यसि
जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते॥
अतस्त्वं कामनामापि ख्यातो भव मनोभव
मदनान्मदनाख्यस्त्वं जातो दर्पात्सदर्पकः ॥
तस्मात्कंदर्पनामापि लोके ख्यातो भविष्यसि
त्वत्समं सर्वदेवानां यद्वीर्यं न भविष्यति ॥
ततः स्थानानि सर्वाणि सर्वव्यापी भवांस्ततः
दक्षोयं भवते पत्नी स्वयं दास्यति कामिनीम् ॥
आद्यः प्रजापतिर्यो हि यथेष्टं पुरुषोत्तमः
एषा च कन्यका चारुरूपा ब्रह्ममनोभवा ॥
संध्या नाम्नेति विख्याता सर्वलोके भविष्यति
ब्रह्मणो ध्यायतो यस्मात्सम्यग्जाता वरांगना ॥
अतस्संध्येति विख्याता क्रांताभा तुल्यमल्लिका
॥ ब्रह्मोवाच ॥
कौसुमानि तथास्त्राणि पंचादाय मनोभवः ॥
प्रच्छन्नरूपी तत्रैव चिंतयामास निश्चयम्
हर्षणं रोचनाख्यं च मोहनं शोषणं तथा ॥
मारणं चेति प्रोक्तानि मुनेर्मोहकराण्यपि
ब्रह्मणा मम यत्कर्म समुद्दिष्टं सनातनम् ॥
तदिहैव करिष्यामि मुनीनां सन्निधौ विधे
तिष्ठंति मुनयश्चात्र स्वयं चापि प्रजापतिः ॥
एतेषां साक्षिभूतं मे भविष्यंत्यद्य निश्चयम्
संध्यापि ब्रह्मणा प्रोक्ता चेदानीं प्रेषयेद्वचः ॥
इह कर्म परीक्ष्यैव प्रयोगान्मोहयाम्यहम्
ब्रह्मोवाच ॥
इति संचित्य मनसा निश्चित्य च मनोभवः ॥
पुष्पजं पुष्पजातस्य योजयामास मार्गणैः
आलीढस्थानमासाद्य धनुराकृष्य यत्नतः ॥
चकार वलयाकारं कामो धन्विवरस्तदा
संहिते तेन कोदंडे मारुताश्च सुगंधयः ॥
ववुस्तत्र मुनिश्रेष्ठ सम्यगाह्लादकारिणः
ततस्तानपि धात्रादीन् सर्वानेव च मानसान् ॥
पृथक् पुष्पशरैस्तीक्ष्णैर्मोहयामास मोहनः
ततस्ते मुनयस्सर्वे मोहिताश्चाप्यहं मुने ॥
सहितो मनसा कंचिद्विकारं प्रापुरादितः
संध्यां सर्वे निरीक्षंतस्सविकारं मुहुर्मुहुः ॥
आसन् प्रवृद्धमदनाः स्त्री यस्मान्मदनैधिनी
ततः सर्वान्स मदनो मोहयित्वा पुनःपुनः ॥
यथेन्द्रियविकारं त प्रापुस्तानकरोत्तथा
उदीरितेंद्रियो धाता वीक्ष्याहं स यदा च ताम् ॥
तदैव चोनपंचाशद्भावा जाताश्शरीरतः
सापि तैर्वीक्ष्यमाणाथ कंदर्पशरपातनात् ॥
चक्रे मुहुर्मुहुर्भावान्कटाक्षावरणादिकान्
निसर्गसुंदरी संध्या तान्भावान् मानसोद्भवान् ॥
कुर्वंत्यतितरां रेजे स्वर्णदीव तनूर्मिभिः
अथ भावयुतां संध्यां वीक्ष्याकार्षं प्रजापतिः ॥
धर्माभिपूरित तनुरभिलाषमहं मुने
ततस्ते मुनयस्सर्वे मरीच्यत्रिमुखा अपि ॥
दक्षाद्याश्च द्विजश्रेष्ठ प्रापुर्वेकारिकेन्द्रियम्
दृष्ट्वा तथाविधा दक्षमरीचिप्रमुखाश्च माम् ॥
संध्यां च कर्मणि निजे श्रद्दधे मदनस्तदा
यदिदं ब्रह्मणा कर्म ममोद्दिष्टं मयापि तत् ॥
कर्तुं शक्यमिति ह्यद्धा भावितं स्वभुवा तदा
इत्थं पापगतिं वीक्ष्य भ्रातॄणां च पितुस्तथा ॥
धर्मस्सस्मार शंभुं वै तदा धर्मावनं प्रभुम्
संस्मरन्मनसा धर्मं शंकरं धर्मपालकम् ॥
तुष्टाव विविधैर्वाक्यैर्दीनो भूत्वाजसंभवः
धर्म उवाच ॥
देवदेव महादेव धर्मपाल नमोस्तु ते ॥
सृष्टिस्थितिविनाशानां कर्ता शंभो त्वमेव हि
सृष्टौ ब्रह्मा स्थितौ विष्णुः प्रलये हररूपधृक् ॥
रजस्सत्त्वतमोभिश्च त्रिगुणैरगुणः प्रभो
निस्त्रैगुण्यः शिवः साक्षात्तुर्यश्च प्रकृतेः परः ॥
निर्गुणो निर्विकारी त्वं नानालीलाविशारदः
रक्षरक्ष महादेव पापान्मां दुस्तरादितः ॥
मत्पितायं तथा चेमे भ्रातरः पापबुद्धयः
ब्रह्मोवाच॥
इति स्तुतो महेशानो धर्मेणैव परः प्रभुः ॥
तत्राजगाम शीघ्रं वै रक्षितुं धर्ममात्मभूः
जातो वियद्गतश्शंभुर्विधिं दृष्ट्वा तथाविधम्॥
मां दक्षाद्यांश्च मनसा जहासोपजहास च
स साधुवादं तान् सर्वान्विहस्य च पुनः पुनः ॥
उवाचेदं मुनिश्रेष्ठ लज्जयन् वृषभध्वजः
शिव उवाच ॥
अहो ब्रह्मंस्तव कथं कामभावस्समुद्गतः ॥
दृष्ट्वा च तनयां नैव योग्यं वेदानुसारिणाम्
यथा माता च भगिनी भ्रातृपत्नी तथा सुता ॥
एतः कुदृष्ट्या द्रष्टव्या न कदापि विपश्चिता
एष वै वेदमार्गस्य निश्चयस्त्वन्मुखे स्थितः ॥
कथं तु काममात्रेण स ते विस्मारितो विधे
धैर्ये जागरितं ब्रह्मन्मनस्ते चतुरानन ॥
कथं क्षुद्रेण कामेन रंतुं विगटितं विधे ॥ । ४२ ॥
एकांतयोगिनस्तस्मात्सर्वदादित्यदर्शिनः ॥
कथं दक्षमरीच्याद्या लोलुपाः स्त्रीषु मानसाः
कथं कामोपि मंदात्मा प्राबल्यात्सोधुनैव हि ॥
विकृतान्बाणैः कृतवानकालज्ञोल्पचेतनः
धिक्तं श्रुतं सदा तस्य यस्य कांता मनोहरत् ॥
धैर्यादाकृष्य लौल्येषु मज्जयत्यपि मानसम्
ब्रह्मोवाच ॥
इति तस्य वचः श्रुत्वा लोके सोहं शिवस्य च ॥
व्रीडया द्विगुणीभूतस्स्वेदार्द्रस्त्वभवं क्षणात्
ततो निगृह्यैंद्रियकं विकारं चात्यजं मुने ॥
जिघृक्षुरपि तद्भीत्या तां संध्यां कामरूपिणीम्
मच्छरीरात्तु घर्मांभो यत्पपात द्विजोत्तम ॥ धर्मांभो
अग्निष्वात्ताः पितृगणा जाताः पितृगणास्ततः
भिन्नांजननिभास्सर्वे फुल्लराजीवलोचनाः ॥
नितांतयतयः पुण्यास्संसारविमुखाः परे
सहस्राणां चतुःषष्टिरग्निष्वात्ताः प्रकीर्तिता ॥
षडशीतिसहस्राणि तथा बर्हिषदो मुने
घर्मांभः पतितं भूमौ तदा दक्षशरीरतः ॥
समस्तगुणसंपन्ना तस्माज्जाता वरांगना
तन्वंगी सममध्या च तनुरोमावली श्रुता ॥
मृद्वंगी चारुदशना नवकांचनसुप्रभा
सर्वावयवरम्या च पूर्णचन्द्राननाम्बुजा ॥
नाम्ना रतिरिति ख्याता मुनीनामपि मोहिनी
मरीचिप्रमुखा षड् वै निगृहीतेन्द्रियक्रियाः ॥
ऋते क्रतुं वसिष्ठं च पुलस्त्यांगिरसौ तथा ॥
क्रत्वादीनां चतुर्णां च बीजं भूमौ पपात च ॥
तेभ्यः पितृगणा जाता अपरे मुनिसत्तम
सोमपा आज्यपा नाम्ना तथैवान्ये सुकालिनः ॥
हविष्मंतस्तु तास्सर्वे कव्यवाहाः प्रकीर्तिताः
क्रतोस्तु सोमपाः पुत्रा वसिष्ठात्कालिनस्तथा ॥
आज्यपाख्याः पुलस्त्यस्य हविष्मंतोंगिरस्सुताः
जातेषु तेषु विप्रेन्द्र अग्निष्वात्तादिकेष्वथ॥
लोकानां पितृवर्गेषु कव्यवाह स समंततः
संध्या पितृप्रसूर्भूत्वा तदुद्देशयुताऽभवत् ॥
निर्दोषा शंभुसंदृष्टा धर्मकर्मपरायणा
एतस्मिन्नंतरे शम्भुरनुगृह्याखिलान्द्विजान् ॥
धर्मं संरक्ष्य विधिवदंतर्धानं गतो द्रुतम्
अथ शंकरवाक्येन लज्जितोहं पितामहः ॥
कंदर्प्पायाकोपिंत हि भ्रुकुटीकुटिलाननः
दृष्ट्वा मुखमभिप्रायं विदित्वा सोपि मन्मथः ॥
स्वबाणान्संजहाराशु भीतः पशुपतेर्मुने
ततः कोपसमायुक्तः पद्मयोनिरहं मुने ॥
अज्वलं चातिबलवान् दिधक्षुरिव पावकः
भवनेत्राग्निनिर्दग्धः कंदर्पो दर्पमोहितः ॥
भविष्यति महादेवे कृत्वा कर्मं सुदुष्करम्
इति वेधास्त्वहं काममक्षयं द्विजसत्तम ॥
समक्षं पितृसंघस्य मुनीनां च यतात्मनाम्
इति भीतो रतिपतिस्तत्क्षणात्त्यक्तमार्गणः ॥
प्रादुर्बभूव प्रत्यक्षं शापं श्रुत्वातिदारुणम्
ब्रह्माणं मामुवाचेदं स दक्षादिसुतं मुने ॥
शृण्वतां पितृसंघानां संध्यायाश्च विगर्वधीः
काम उवाच ॥
किमर्थं भवता ब्रह्मञ् शप्तोहमिति दारुणम् ॥
अनागास्तव लोकेश न्याय्यमार्गानुसारिणः
त्वया चोक्तं नु मत्कर्म यत्तद्ब्रह्मन् कृतं मया ॥
तत्र योग्यो न शापो मे यतो नान्यत्कृतं मया
अहं विष्णुस्तथा शंभुः सर्वे त्वच्छ रगोचराः ॥
इति यद्भवता प्रोक्तं तन्मयापि परीक्षितम्
नापराधो ममाप्यत्र ब्रह्मन् मयि निरागसि ॥
दारुणः समयश्चैव शापो देव जगत्पते
ब्रह्मोवाच॥
इति तस्य वचः श्रुत्वा ब्रह्माहं जगतां पतिः ॥
प्रत्यवोचं यतात्मानं मदनं दमयन्मुहुः॥
ब्रह्मोवाच ॥
आत्मजा मम संध्येयं यस्मादेतत्स कामतः ॥
लक्ष्यीकृतोहं भवता ततश्शापो मया कृतः
अधुना शांतरोषोहं त्वां वदामि मनोभव ॥
शृणुष्व गतसंदेहस्सुखी भव भयं त्यज
त्वं भस्म भूत्वा मदन भर्गलोचनवह्निना ॥
तथैवाशु समं पश्चाच्छरीरं प्रापयिष्यसि
यदा करिष्यति हरोंजसा दारपरिग्रहम् ॥
तदा स एव भवतश्शरीरं प्रापयिष्यति
ब्रह्मोवाच ॥
एवमुक्त्वाथ मदनमहं लोकपितामहः ॥
अंतर्गतो मुनीन्द्राणां मानसानां प्रपश्यताम्
इत्येवं मे वचश्श्रुत्वा मदनस्तेपि मानसाः ॥
संबभूवुस्सुतास्सर्वे सुखिनोऽरं गृहं गताः
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कामशापानुग्रहो नाम तृतीयोऽध्यायः
मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0