भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.2.35

2.2.35.1

दक्ष उवाच ॥
देवदेव हरे विष्णो दीनबंधो कृपानिधे ॥
मम रक्षा विधातव्या भवता साध्वरस्य च

2.2.35.2

रक्षकस्त्वं मखस्यैव मखकर्मा मखात्मकः ॥
कृपा विधेया यज्ञस्य भंगो भवतु न प्रभो

2.2.35.3

॥ ब्रह्मोवाच ॥
इत्थं बहुविधां दक्षः कृत्वा विज्ञप्तिमादरात् ॥
पपात पादयोस्तस्य भयव्याकुलमानसः

2.2.35.4

उत्थाप्य तं ततो विष्णुर्दक्षं विक्लिन्नमानसम् ॥
श्रुत्वा च तस्य तद्वाक्यं कुमतेरस्मरच्छिवम्

2.2.35.5

स्मृत्वा शिवं महेशानं स्वप्रभुं परमेश्वरम् ॥
अवदच्छिवतत्त्वज्ञो दक्षं सबोधयन्हरिः

2.2.35.6

हरिरुवाच ॥
शृणु दक्ष प्रवक्ष्यामि तत्त्वतः शृणु मे वचः ॥
सर्वथा ते हितकरं महामंत्रसुखप्रदम्

2.2.35.7

अवज्ञा हि कृता दक्ष त्वया तत्त्वमजानता ॥
सकलाधीश्वरस्यैव शंकरस्य परात्मनः

2.2.35.8

ईश्वरावज्ञया सर्वं कार्यं भवति सर्वथा ॥
विफलं केवलं नैव विपत्तिश्च पदेपदे

2.2.35.9

अपूज्या यत्र पूज्यंते पूजनीयो न पूज्यते ॥
त्रीणि तत्र भविष्यंति दारिद्र्यं मरणं भयम्

2.2.35.2.2.35.10

तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः ॥
अमानितान्महेशाच्च महद्भयमुपस्थितम्

2.2.35.11

अद्यापि न वयं सर्वे प्रभवः प्रभवामहे ॥
भवतो दुर्नयेनैव मया सत्यमुदीर्य्यते

2.2.35.12

ब्रह्मोवाच ॥
विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिंतापरोऽभवत् ॥
विवर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः

2.2.35.13

एतस्मिन्नंतरे वीरभद्रः सैन्यसमन्वितः ॥
अगच्छदध्वरं रुद्रप्रेरितो गणनायकः

2.2.35.14

पृष्ठे केचित्समायाता गगने केचिदागताः॥
दिशश्च विदिशः सर्वे समावृत्य तथापरे॥

2.2.35.15

शर्वाज्ञया गणाः शूरा निर्भया रुद्रविक्रमाः ॥
असंख्याः सिंहनादान्वै कुर्वंतो वीरसत्तमाः

2.2.35.16

तेन नादेन महता नादितं भुवनत्रयम् ॥
रजसा चावृतं व्योम तमसा चावृता दिशः

2.2.35.17

सप्तद्वीपान्विता पृथ्वी चचालाति भयाकुला ॥
सशैलकानना तत्र चुक्षुभुस्सकलाब्धयः

2.2.35.18

एवंभूतं च तत्सैन्यं लोकक्षयकरं महत् ॥
दृष्ट्वा च विस्मितास्सर्वे बभूवुरमरादयः

2.2.35.19

सैन्योद्योगमथालोक्य दक्षश्चासृङ्मुखाकुलः ॥
दंडवत्पतितो विष्णुं सकलत्रोऽभ्यभाषत

2.2.35.2.2.35.20

॥ दक्ष उवाच ॥
भवद्बलेनैव मया यज्ञः प्रारंभितो महान् ॥
सत्कर्मसिद्धये विष्णो प्रमाणं त्वं महाप्रभो

2.2.35.21

विष्णो त्वं कर्मणां साक्षी यज्ञानां प्रतिपालकः ॥
धर्मस्य वेदगर्भस्य ब्रह्मणस्त्वं महाप्रभो

2.2.35.22

तस्माद्रक्षा विधातव्या यज्ञस्यास्य मम प्रभो ॥
त्वदन्यः यस्समर्थोस्ति यतस्त्वं सकलप्रभुः

2.2.35.23

।
॥ ब्रह्मोवाच ॥
दक्षस्य वचनं श्रुत्वा विष्णुर्दीनतरं तदा ॥
अवोचद्बोधयंस्तं वै शिवतत्त्वपराङ्मुखम्

2.2.35.24

विष्णुरुवाच ॥
मया रक्षा विधातव्या तव यज्ञस्य दक्ष वै ॥
ख्यातो मम पणः सत्यो धर्मस्य परिपालनम्

2.2.35.25

तत्सत्यं तु त्वयोक्तं हि किं तत्तस्य व्यतिक्रमः ॥
शृणु त्वं वच्म्यहं दक्ष क्रूरबुद्धिं त्यजाऽधुना

2.2.35.26

नैमिषे निमिषक्षेत्रे यज्जातं वृत्तमद्भुतम् ॥
तत्किं न स्मर्यते दक्ष विस्मृतं किं कुबुद्धिना

2.2.35.27

रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव ॥
न यस्याभिमतं दक्ष यस्त्वां रक्षति दुर्मतिः

2.2.35.28

किं कर्म किमकर्मेति तत्र पश्यसि दुर्मते ॥
समर्थं केवलं कर्म न भविष्यति सर्वदा

2.2.35.29

स्वकर्मविद्धि तद्येन समर्थत्वेन जायते ॥
न त्वन्यः कर्मणो दाता शं भवेदीश्वरं विना

2.2.35.2.2.35.30

ईश्वरस्य च यो भक्त्या शांतस्तद्गतमानसः ॥
कर्मणो हि फलं तस्य प्रयच्छति तदा शिवः

2.2.35.31

केवलं ज्ञानमाश्रित्य निरीश्वरपरा नराः ॥
निरयं ते च गच्छंति कल्पकोटिशतानि च

2.2.35.32

पुनः कर्ममयैः पाशैर्वद्धा जन्मनि जन्मनि ॥
निरयेषु प्रपच्यंते केवलं कर्मरूपिणः

2.2.35.33

अयं रुद्रगणाधीशो वीरभद्रोऽरि मर्दनः ॥
रुद्रकोपाग्निसंभूतः समायातोध्वरांगणे

2.2.35.34

अयमस्मद्विनाशार्थमागतोस्ति न संशयः ॥
अशक्यमस्य नास्त्येव किमप्यस्तु तु वस्तुतः

2.2.35.35

प्रज्वाल्यास्मानयं सर्वान् ध्रुवमेव महाप्रभुः ॥
ततः प्रशांतहृदयो भविष्यति न संशयः

2.2.35.36

श्रीमहादेवशपथं समुल्लंघ्य भ्रमान्मया ॥
यतः स्थितं ततः प्राप्यं मया दुःखं त्वया सह

2.2.35.37

शक्तिर्मम तु नास्त्येव दक्षाद्यैतन्निवारणे ॥
शपथोल्लंघनादेव शिवद्रोही यतोस्म्यहम्

2.2.35.38

कालत्रयेपि न यतो महेशद्रोहिणां सुखम् ॥
ततोऽवश्यं मया प्राप्तं दुःखमद्य त्वया सह

2.2.35.39

सुदर्शनाभिधं चक्रमेतस्मिन्न लगिष्यति ॥
शैवचक्रमिदं यस्मादशैवलयकारणम्

2.2.35.2.2.35.40

विनापि वीरभद्रेण नामैतच्चक्रमैश्वरम् ॥
हत्वा गमिष्यत्यधुना सत्वरं हरसन्निधौ

2.2.35.41

शैवं शपथमुल्लंघ्य स्थितं मां चक्रमीदृशम् ॥
असंहत्यैव सहसा कृपयैव स्थिरं परम्

2.2.35.42

अतः परमिदं चक्रमपि न स्थास्यति ध्रुवम्
गमिष्यत्यधुना शीघ्रं ज्वालामालासमाकुलम्

2.2.35.43

वीरभद्रः पूजितोपि शीघ्रमस्माभिरादरात् ॥
महाक्रोधसमाक्रांतो नास्मान्संरक्षयिष्यति

2.2.35.44

अकांडप्रलयोऽस्माकमागतोद्य हि हा हहा ॥
हा हा बत तवेदानीं नाशोस्माकमुपस्थितः

2.2.35.45

शरण्योऽस्माकमधुना नास्त्येव हि जगत्त्रये ॥
शंकरद्रोहिणो लोके कश्शरण्यो भविष्यति

2.2.35.46

तनुनाशेपि संप्राप्यास्तैश्चापि यमयातनाः ॥
तानैव शक्यते सोढुं बहुदुःखप्रदायिनीः

2.2.35.47

शिवद्रोहिणमालोक्य दष्टदंतो यमः स्वयम् ॥
तप्ततैलकटाहेषु पातयत्येव नान्यथा

2.2.35.48

गन्तुमेवाहमुद्युक्तं सर्वथा शपथोत्तरम् ॥
तथापि न गतश्शीघ्रं दुष्टसंसर्गपापतः

2.2.35.49

यदद्य क्रियतेस्माभिः पलायनमितस्तदा ॥
शार्वो ना कर्षकश्शस्त्रैरस्मानाकर्षयिष्यति

2.2.35.2.2.35.50

स्वर्गे वा भुवि पाताले यत्र कुत्रापि वा यतः ॥
श्रीवीरभद्रशस्त्राणां गमनं न हि दुर्ल भम्

2.2.35.51

यावतश्च गणास्संति श्रीरुद्रस्य त्रिशूलिनः ॥
तावतामपि सर्वेषां शक्तिरेतादृशी धुवम्

2.2.35.52

श्रीकालभैरवः काश्यां नखाग्रेणैव लीलया ॥
पुरा शिरश्च चिच्छेद पंचमं ब्रह्मणो ध्रुवम्

2.2.35.53

एतदुक्त्वा स्थितो विष्णुरतित्रस्तमुखाम्बुजः ॥
वीरभद्रोपि संप्राप तदैवाऽध्वरमंडपम्

2.2.35.54

एवं ब्रुवति गोविन्द आगतं सैन्यसागरम् ॥
वीरभद्रेण सहितं ददृशुश्च सुरादया

2.2.35.35

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सत्युपाख्याने विष्णुवाक्यवर्णनं नाम पंचत्रिंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc