भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.1.8

2.1.8.1

ब्रह्मोवाच ॥
एवं तयोर्मुनिश्रेष्ठ दर्शनं कांक्षमाणयोः ॥
विगर्वयोश्च सुरयोः सदा नौ स्थितयोर्मुने

2.1.8.2

दयालुरभवच्छंभुर्दीनानां प्रतिपालकः ॥
गर्विणां गर्वहर्ता च सवेषां प्रभुरव्ययः

2.1.8.3

तदा समभवत्तत्र नादो वै शब्दलक्षणः ॥
ओमोमिति सुरश्रेष्ठात्सुव्यक्तः प्लुतलक्षणः

2.1.8.4

किमिदं त्विति संचिंत्य मया तिष्ठन्महास्वनः ॥
विष्णुस्सर्वसुराराध्यो निर्वैरस्तुष्टचेतसा

2.1.8.5

लिंगस्य दक्षिणे भागे तथापश्यत्सनातनम् ॥
आद्यं वर्णमकाराख्यमुकारं चोत्तरं ततः

2.1.8.6

मकारं मध्यतश्चैव नादमंतेऽस्य चोमिति ॥
सूर्यमंडलवद्दृष्ट्वा वर्णमाद्यं तु दक्षिणे

2.1.8.7

उत्तरे पावकप्रख्यमुकारमृषि सत्तम ॥
शीतांशुमण्डलप्रख्यं मकारं तस्य मध्यतः

2.1.8.8

तस्योपरि तदाऽपश्यच्छुद्धस्फटिकसुप्रभम् ॥
तुरीयातीतममलं निष्कलं निरुपद्रवम्

2.1.8.9

निर्द्वंद्वं केवलं शून्यं बाह्याभ्यंतरवर्जितम् ॥
स बाह्यभ्यंतरे चैव बाह्याभ्यंतरसंस्थितम्

2.1.8.2.1.8.10

आदिमध्यांतरहितमानंदस्यापिकारणम् ॥
सत्यमानन्दममृतं परं ब्रह्मपरायणम्

2.1.8.11

कुत एवात्र संभूतः परीक्षावोऽग्निसंभवम् ॥
अधोगमिष्याम्यनलस्तंभस्यानुपमस्य च

2.1.8.12

वेदशब्दोभयावेशं विश्वात्मानं व्यचिंतयत् ॥
तदाऽभवदृषिस्तत्र ऋषेस्सारतमं स्मृतम्

2.1.8.13

तेनैव ऋषिणा विष्णुर्ज्ञातवान्परमेश्वरम् ॥
महादेवं परं ब्रह्म शब्दब्रह्मतनुं परम्

2.1.8.14

चिंतया रहितो रुद्रो वाचो यन्मनसा सह ॥
अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः

2.1.8.15

एकाक्षरेण तद्वाक्यमृतं परमकारणम् ॥
सत्यमानन्दममृतं परं ब्रह्म परात्परम्

2.1.8.16

एकाक्षरादकाराख्याद्भगवान्बीजकोण्डजः ॥
एकाक्षरादुकाराख्याद्धरिः परमकारणम्

2.1.8.17

एकाक्षरान्मकाराख्याद्भगवान्नीललोहितः ॥
सर्गकर्ता त्वकाराख्यो ह्युकाराख्यस्तु मोहकः

2.1.8.18

मकाराख्यस्तु यो नित्यमनुग्रहकरोऽभवत्॥
मकाराख्यो विभुर्बीजी ह्यकारो बीज उच्यते

2.1.8.19

उकाराख्यो हरिर्योनिः प्रधानपुरुषेश्वरः ॥
बीजी च बीजं तद्योनिर्नादाख्यश्च महेश्वरः

2.1.8.2.1.8.20

बीजी विभज्य चात्मानं स्वेच्छया तु व्यवस्थितः ॥
अस्य लिंगादभूद्बीजमकारो बीजिनः प्रभोः

2.1.8.21

उकारयोनौ निःक्षिप्तमवर्द्धत समंततः॥
सौवर्णमभवच्चांडमावेद्य तदलक्षणम्

2.1.8.22

अनेकाब्दं तथा चाप्सु दिव्यमंडं व्यवस्थितम्॥
ततो वर्षसहस्रांते द्विधाकृतमजोद्भवम्

2.1.8.23

अंडमप्सु स्थितं साक्षाद्व्याघातेनेश्वरेण तु ॥
तथास्य सुशुभं हैमं कपालं चोर्द्ध्वसंस्थितम्

2.1.8.24

जज्ञे सा द्यौस्तदपरं पृथिवी पंचलक्षणा ॥
तस्मादंडाद्भवो जज्ञे ककाराख्यश्चतुर्मुखः

2.1.8.25

स स्रष्टा सर्वलोकानां स एव त्रिविधः प्रभुः ॥
एवमोमोमिति प्रोक्तमित्याहुर्यजुषां वराः

2.1.8.26

यजुषां वचनं श्रुत्वा ऋचः समानि सादरम् ॥
एवमेव हरे ब्रह्मन्नित्याहुश्चावयोस्तदा

2.1.8.27

ततो विज्ञाय देवेशं यथावच्छक्तिसंभवैः ॥
मंत्रं महेश्वरं देवं तुष्टाव सुमहोदयम्

2.1.8.28

एतस्मिन्नंतरेऽन्यच्च रूपमद्भुतसुन्दरम् ॥
ददर्श च मया सार्द्धं भगवान्विश्वपालकः

2.1.8.29

पंचवक्त्रं दशभुजं गौरकर्पूरवन्मुने ॥
नानाकांति समायुक्तं नानाभूषणभूषितम्

2.1.8.2.1.8.30

महोदारं महावीर्यं महापुरुषलणम् ॥
तं दृष्ट्वा परमं रूपं कृतार्थोऽभून्मया हरिः

2.1.8.31

अथ प्रसन्नो भगवान्महेशः परमेश्वरः ॥
दिव्यं शब्दमयं रूपमाख्याय प्रहसन्स्थितः

2.1.8.32

अकारस्तस्य मूर्द्धा हि ललाटो दीर्घ उच्यते ॥
इकारो दक्षिणं नेत्रमीकारो वामलोचनम्

2.1.8.33

॥
उकारो दक्षिणं श्रोत्रमूकारो वाम उच्यते ॥
ऋकारो दक्षिणं तस्य कपोलं परमेष्ठिनः

2.1.8.34

वामं कपोलमूकारो लृ लॄ नासापुटे उभे॥
एकारश्चोष्ठ ऊर्द्ध्वश्च ह्यैकारस्त्वधरो विभोः

2.1.8.35

ओकारश्च तथौकारो दन्तपंक्तिद्वयं क्रमात् ॥
अमस्तु तालुनी तस्य देवदेवस्य शूलिनः

2.1.8.36

कादिपंचाक्षराण्यस्य पञ्च हस्ताश्च दक्षिणे ॥
चादिपंचाक्षराण्येवं पंच हस्तास्तु वामतः

2.1.8.37

टादिपंचाक्षरं पादास्तादिपंचाक्षरं तथा ॥
पकार उदरं तस्य फकारः पार्श्व उच्यते

2.1.8.38

बकारो वामपार्श्वस्तु भकारः स्कंध उच्यते ॥
मकारो हृदयं शंभोर्महादेवस्य योगिनः

2.1.8.39

यकारादिसकारान्ता विभोर्वै सप्तधातवः ॥
हकारो नाभिरूपो हि क्षकारो घ्राण उच्यते

2.1.8.2.1.8.40

एवं शब्दमयं रूपमगुणस्य गुणात्मनः॥
दृष्ट्वा तमुमया सार्द्धं कृतार्थोऽभून्मया हरिः

2.1.8.41

एवं दृष्ट्वा महेशानं शब्दब्रह्मतनुं शिवम् ॥
प्रणम्य च मया विष्णुः पुनश्चापश्यदूर्द्ध्वतः

2.1.8.42

ॐकारप्रभवं मंत्रं कलापंचकसंयुतम् ॥
शुद्धस्फटिकसंकाशं शुभाष्टत्रिंशदक्षरम्

2.1.8.43

मेधाकारमभूद्भूयस्सर्वधर्मार्थसाधकम् ॥
गायत्रीप्रभवं मंत्रं सहितं वश्यकारकम्

2.1.8.44

चतुर्विंशतिवर्णाढ्यं चतुष्कालमनुत्तमम् ॥
अथ पंचसितं मंत्रं कलाष्टक समायुतम्

2.1.8.45

आभिचारिकमत्यर्थं प्रायस्त्रिंशच्छुभाक्षरम् ॥
यजुर्वेदसमायुक्तं पञ्चविंशच्छुभाक्षरम्

2.1.8.46

कलाष्टकसमा युक्तं सुश्वेतं शांतिकं तथा ॥
त्रयोदशकलायुक्तं बालाद्यैस्सह लोहितम्

2.1.8.47

बभूवुरस्य चोत्पत्तिवृद्धिसंहारकारणम् ॥
वर्णा एकाधिकाः षष्टिरस्य मंत्रवरस्य तु

2.1.8.48

पुनर्मृत्युंजयं मन्त्रं पञ्चाक्षरमतः परम् ॥
चिंतामणिं तथा मंत्रं दक्षिणामूर्ति संज्ञकम्

2.1.8.49

ततस्तत्त्वमसीत्युक्तं महावाक्यं हरस्य च ॥
पञ्चमंत्रांस्तथा लब्ध्वा जजाप भगवान्हरिः

2.1.8.2.1.8.50

अथ दृष्ट्वा कलावर्णमृग्यजुस्सामरूपिणम् ॥
ईशानमीशमुकुटं पुरुषाख्यं पुरातनम्

2.1.8.51

अघोरहृदयं हृद्यं सर्वगुह्यं सदाशिवम् ॥
वामपादं महादेवं महाभोगीन्द्रभूषणम्

2.1.8.52

विश्वतः पादवन्तं तं विश्वतोक्षिकरं शिवम् ॥
ब्रह्मणोऽधिपति सर्गस्थितिसंहारकारणम्

2.1.8.53

तुष्टाव वाग्भिरिष्टाभिस्साम्बं वरदमीश्वरम् ॥
मया च सहितो विष्णुर्भगवांस्तुष्टचेतसा

2.1.8.8

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शब्दब्रह्मतनुवर्णनो नामाष्टमोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc