शिव पुराण · अध्याय 2.1.4
ऋषय ऊचुः ॥
सूत सूत महाप्राज्ञ वर्णिता ह्यद्भुता कथा ॥
धन्या तु शांभवी माया तदधीनं चराचरम्
गतयोर्गणयोश्शंभोस्स्वयमात्मेच्छया विभोः॥
किं चकार मुनिः क्रुद्धो नारदः स्मरविह्वलः
सूत उवाच ॥
विमोहितो मुनिर्दत्त्वा तयोश्शापं यथोचितम् ॥
जले मुखं निरीक्ष्याथ स्वरूपं गिरिशेच्छया
शिवेच्छया न प्रबुद्धः स्मृत्वा हरिकृतच्छलम् ॥
क्रोधं दुर्विषहं कृत्वा विष्णुलोकं जगाम ह
उवाच वचनं कुद्धस्समिद्ध इव पावकः ॥
दुरुक्तिगर्भितं व्यङ्गः नष्टज्ञानश्शिवेच्छया
नारद उवाच ॥
हे हरे त्वं महादुष्टः कपटी विश्वमोहनः ॥
परोत्साहं न सहसे मायावी मलिनाशयः
मोहिनीरूपमादाय कपटं कृतवान्पुरा ॥
असुरेभ्योऽपाययस्त्वं वारुणीममृतं न हि
चेत्पिबेन्न विषं रुद्रो दयां कृत्वा महेश्वरः ॥
भवेन्नष्टाऽखिला माया तव व्याजरते हरे
गतिस्स कपटा तेऽतिप्रिया विष्णो विशेषतः ॥
साधुस्वभावो न भवान्स्वतंत्रः प्रभुणा कृतः
कृतं समुचितन्नैव शिवेन परमात्मना॥
तत्प्रभावबलं ध्यात्वा स्वतंत्रकृतिकारकः॥2.1.4.१ ० ॥
त्वद्गतिं सुसमाज्ञाय पश्चात्तापमवाप सः ॥
विप्रं सर्वोपरि प्राह स्वोक्तवेद प्रमाणकृत्
तज्ज्ञात्वाहं हरे त्वाद्य शिक्षयिष्यामि तद्बलात् ॥
यथा न कुर्याः कुत्रापीदृशं कर्म कदाचन
अद्यापि निर्भयस्त्वं हि संगं नापस्तरस्विना ॥
इदानीं लप्स्यसे विष्णो फलं स्वकृतकर्मणः
इत्थमुक्त्वा हरिं सोथ मुनिर्माया विमोहितः ॥
शशाप क्रोधनिर्विण्णो ब्रह्मतेजः प्रदर्शयन्
स्त्रीकृते व्याकुलं विष्णो मामकार्षीर्विमोहकः ॥
अन्वकार्षीस्स्वरूपेण येन कापट्यकार्यकृत्
तद्रूपेण मनुष्यस्त्वं भव तद्दुःखभुग्घरे ॥
यन्मुखं कृतवान्मे त्वं ते भवंतु सहायिनः
त्वं स्त्रीवियोगजं दुःखं लभस्व परदुःखदः ॥
मनुष्यगतिकः प्रायो भवाज्ञानविमोहितः
इति शप्त्वा हरिं मोहान्नारदोऽज्ञानमोहितः ॥
विष्णुर्जग्राह तं शापं प्रशंसञ्शांभवीमजाम्
अथ शंभुर्महालीलो निश्चकर्ष विमोहिनीम ॥
स्वमायां मोहितो ज्ञानी नारदोप्यभवद्यया
अंतर्हितायां मायायां पूर्ववन्मतिमानभूत् ॥
नारदो विस्मितमनाः प्राप्तबोधो निराकुलः
पश्चात्तापमवाप्याति निनिन्द स्वं मुहुर्मुहुः ॥
प्रशशंस तदा मायां शांभवीं ज्ञानिमोहिनीम्
अथ ज्ञात्वा मुनिस्सर्वं मायाविभ्रममात्मनः ॥
अपतत्पादयोर्विष्णोर्नारदो वैष्णवोत्तमः
हर्य्युपस्थापितः प्राह वचनं नष्ट दुर्मतिः ॥
मया दुरक्तयः प्रोक्ता मोहितेन कुबुद्धिना
दत्तश्शापोऽपि तेनाथ वितथं कुरु तं प्रभो ॥
महत्पापमकार्षं हि यास्यामि निरयं धुवम्
कमुपायं हरे कुर्यां दासोऽहं ते तमादिश ॥
येन पापकुलं नश्येन्निरयो न भवेन्मम
इत्युक्त्वा स पुनर्विष्णोः पादयोर्मुनिसत्तमः ॥
पपात सुमतिर्भक्त्या पश्चात्तापमुपागतः
अथ विष्णुस्तमुत्थाप्य बभाषे सूनृतं वचः ॥
विष्णुरुवाच ॥
न खेदं कुरु मे भक्त वरस्त्वं नात्र संशयः
शृणु तात प्रवक्ष्यामि सुहितं तव निश्चयात् ॥१।
निरयस्ते न भविता शिवश्शं ते विधास्यति
यदकार्षीश्शिववचो वितथं मदमोहितः ॥
स दत्तवानीदृशं ते फलं कर्म फलप्रदः
शिवेच्छाऽखिलं जातं कुर्वित्थं निश्चितां मतिम् ॥
गर्वापहर्ता स स्वामी शंकरः परमेश्वरः
।
परं ब्रह्म परात्मा स सच्चिदानंदबोधनः ॥
निर्गुणो निर्विकारो च रजस्सत्वतमःपर
स एवमादाय मायां स्वां त्रिधा भवति रूपतः ॥
ब्रह्मविष्णुमहेशात्मा निर्गुणोऽनिर्गुणोऽपि सः
निर्गुणत्वे शिवाह्वो हि परमात्मा महेश्वरः ॥
परं ब्रह्माव्ययोऽनंतो महादेवेति गीयते
तत्सेवया विधिस्स्रष्टा पालको जगतामहम् ॥
स्वयं सर्वस्य संहारी रुद्ररूपेण सर्वदा
साक्षी शिवस्वरूपेण मायाभिन्नस्स निर्गुणः ॥
स्वेच्छाचारी संविहारी भक्तानुग्रहकारकः
शृणु त्वं नारद मुने सदुपायं सुखप्रदम् ॥
सर्वपापापहर्त्तारं भुक्तिमुक्तिप्रदं सदा
इत्युक्त्वास्त्वसंशयं सर्वं शंकरसद्यशः ॥
शतनामशिवस्तोत्रं सदानन्यमतिर्जप
यज्जपित्वा द्रुतं सर्वं तव पापं विनश्यति ॥
इत्युक्त्वा नारदं विष्णुः पुनः प्राह दयान्वितः
मुने न कुरु शोकं त्वं त्वया किंचित्कृतं नहि ॥
स्वेच्छया कृतवान्शंभुरिदं सर्वं न संशयः
अहार्षित्त्वन्मतिं दिव्यां काम क्लेशमदात्स ते॥
त्वन्मुखाद्दापयांचक्रे शापं मे स महेश्वरः
इत्थं स्वचरितं लोके प्रकटीकृतवान् स्वयम् ॥
मृत्युंजयः कालकालो भक्तोद्धारपरायणः
न मे शिवसमानोस्ति प्रियः स्वामी सुखप्रदः ॥
सर्वशक्तिप्रदो मेऽस्ति स एव परमेश्वरः
तस्योपास्यां कुरु मुने तमेव सततं भज ॥
तद्यशः शृणु गाय त्वं कुरु नित्यं तदर्चनम्
कायेन मनसा वाचा यश्शंकरमुपैति भो ॥
स पण्डित इति ज्ञेयस्स जीवन्मुक्त उच्यते
शिवेति नामदावाग्नेर्महापातकप र्वताः ॥
भस्मीभवन्त्यनायासात्सत्यं सत्यं न संशयः
पापमूलानि दुःखानि विविधान्यपि तान्यतः ॥
शिवार्चनैकनश्यानि नान्य नश्यानि सर्वथा
स वैदिकस्य पुण्यात्मा स धन्यस्स बुधो मुने ॥
यस्सदा कायवाक्चित्तैश्शरणं याति शंकरम्
भवंति विविधा धर्मा येषां सद्यःफलोन्मुखाः ॥
तेषां भवति विश्वासस्त्रिपुरांतकपूजने
पातकानि विनश्यंति यावंति शिवपूजया ॥
भुवि तावंति पापानि न संत्येव महामुने
ब्रह्महत्यादिपापानां राशयोप्यमिता मुने ॥
शिवस्मृत्या विनश्यंति सत्यंसत्यं वदाम्यहम्
शिवनामतरीं प्राप्य संसाराब्धिं तरंति ते॥
संसारमूलपापानि तस्य नश्यंत्यसंशयम्
संसारमूलभूतानां पातकानां महामुने ॥
शिवनामकुठारेण विनाशो जायते ध्रुवम्
शिवनामामृतं पेयं पापदावानलार्दितैः ॥
पापदावाग्नितप्तानां शांतिस्तेन विना न हि
शिवेति नामपीयूषवर्षधारापरिप्लुतः ॥
संसारदवमध्यपि न शोचति न संशयः
न भक्तिश्शंकरे पुंसां रागद्वेषरतात्मनाम् ॥
तद्विधानां हि सहसा मुक्तिर्भवति सर्वथा
अनंतजन्मभिर्येन तपस्तप्तं भविष्यति॥
तस्यैव भक्तिर्भवति भवानी प्राणवल्लभे
जातापि शंकरे भक्तिरन्यसाधारणी वृथा॥
परं त्वव्यभिचारेण शिवभक्तिरपेक्षिता
यस्या साधारणी शंभौ भक्तिरव्यभिचारिणी॥
तस्यैव मोक्षस्सुलभो नास्येतिन्य मतिर्मम
कृत्वाप्यनंतपापानि यदि भक्तिर्महेश्वरे ॥
सर्वपापविनिर्मुक्तो भवत्येव न संशयः
भवंति भस्मसाद्वृक्षादवदग्धा यथा वने ॥
तथा भवंति दग्धानि शांकराणामघान्यपि
यो नित्यं भस्मपूतांगो शिवपूजोन्मुखो भवेत्॥
स तरत्येव संसारमपारमतिदारुणम्
ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् ॥
लिप्यते नरः पापैर्विरूपाक्षस्य सेवकः
विलोक्य वेदानखिलाञ्छिवस्यैवार्चनम्परम् ॥
संसारनाशनोपाय इति पूर्वैर्विनिश्चितम्
अद्यप्रभृति यत्नेन सावधानो यथाविधि॥
साम्बं सदाशिवं भक्त्या भज नित्यं महेश्वरम्
आपादमस्तकं सम्यक् भस्मनोद्धूल्य सादरम् ॥
सर्वश्रुतिश्रुतं शैवम्मंत्रञ्जप षडक्षरम्
सवार्ङ्गेषु प्रयत्नेन रुद्राक्षाञ्छिववल्लभान्॥
धारयस्वातिसद्भक्त्या समन्त्रम्विधिपूर्वकम्
शृणु शैवीं कथां नित्यं वद शैवीं कथां सदा ॥
पूजयस्वातियत्नेन शिवभक्तान्पुनः पुनः
अप्रमादेन सततं शिवैकशरणो भव ॥
शिवार्चनेन सततमानन्दः प्राप्यते यतः
उरस्याधाय विशदे शिवस्य चरणाम्बुजौ ॥
शिवतीर्थानि विचर प्रथमं मुनिसत्तम
पश्यन्माहात्म्यमतुलं शंकरस्य परात्मनः ॥
गच्छानन्दवनं पश्चाच्छंभुप्रियतमं मुने
तत्र विश्वेश्वरं दृष्ट्वा पूजनं कुरु भक्तितः ॥
नत्वा स्तुत्वा विशेषेण निर्विकल्पो भविष्यसि
ततश्च भवता नूनं विधेयं गमनं मुने ॥
ब्रह्मलोके स्वकामार्थं शासनान्मम भक्तितः
नत्वा स्तुत्वा विशेषेण विधिं स्वजनकं मुने ॥
प्रष्टव्यं शिवमाहात्म्यं बहुशः प्रीतचेतसा
स शैवप्रवरो ब्रह्मा माहात्म्यं शंकरस्य ते ॥
श्रावयिष्यति सुप्रीत्या शतनामस्तवं च हि
अद्यतस्त्वं भव मुने शैवश्शिवपरायणः ॥
मुक्तिभागी विशेषेण शिवस्ते शं विधास्यति
इत्थं विष्णुर्मुनिं प्रीत्या ह्युपदिश्य प्रसन्नधीः ॥
स्मृत्वा नुत्वा शिवं स्तुत्वा ततस्त्वंतरधीयत
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदस्य विष्णूपदेशवर्णनो नाम चतुर्थोऽध्यायः
मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0