भाषा

ENहिગુ
ग्रंथ पाठ

शिव गीता · अध्याय 3

3.1

अगस्त्य उवाच ।
न गृह्णाति वचः पथ्यं कामक्रोधादिपीडितः ॥
हितं न रोचते तस्य मुमूर्षोरिव भेषजम्

3.2

मध्येसमुद्रं या नीता सीता दैत्येन मायिना ।
आयास्यति नरश्रेष्ठ सा कथं तव संनिधिम्

3.3

,
बध्यन्ते देवताः सर्वा द्वारि मर्कटयूथवत् ॥
किंच चामरधारिण्यो यस्य सन्ति सुराङ्गनाः

3.4

भुङ्क्ते त्रिलोकीमखिलां यः शंभुवरदर्पितः ॥
निष्कण्टकं तस्य जयः कथं तव भविष्यति

3.5

इन्द्रजिन्नाम पुत्रो यस्तस्यास्तीशवरोद्धतः ॥
तस्याग्रे सङ्गरे देवा बहुवारं पलायिताः

3.6

कुम्भकर्णाह्वयो भ्राता यस्यास्ति सुरसूदनः ।
अन्यो दिव्यास्त्रसंयुक्तश्चिरंजीवी विभीषणः

3.7

दुर्गं यस्यास्ति लङ्काख्यं दुर्जयं देवदानवैः ।
चतुरङ्गबलं यस्य वर्तते कोटिसंख्यया

3.8

एकाकिना त्वया जेयः स कथं नृपनन्दन ।
आकाङ्क्षते करे धर्तुं बालश्चन्द्रमसं यथा

3.9

तथा त्वं काममोहेन जयं तस्याभिवाञ्छसि

3.10

श्रीराम उवाच ।
क्षत्रियोऽहं मुनिश्रेष्ठ भार्या मे रक्षसा हृता ।
यदि तं न निहन्म्याशु जीवने मेऽस्ति किं फलम्

3.11

अतस्ते तत्त्वबोधेन न मे किंचित्प्रयोजनम् ।
कामक्रोधादयः सर्वे दह्यते तैस्तनुर्मम

3.12

अहंकारोऽपि मे नित्यं जीवनं हन्तुमुद्यतः

3.13

हृतायां निजकान्तायां शत्रुणाऽवमतस्य वा ॥
यस्य तत्त्वबुभुत्सा स्यात्स लोके पुरुषाधमः

3.14

तस्मात्तस्य वधोपायं लङ्घयित्वाम्बुधिं रणे ॥
ब्रूहि मे मुनिशार्दूल त्वत्तो नान्योऽस्ति मे गुरुः

3.15

अगस्त्य उवाच ।
एवं चेच्छरणं याहि पार्वतीपतिमव्ययम् ।
स चेत्प्रसन्नो भगवान्वाञ्छितार्थं प्रयच्छति

3.16

देवैरजेयः शक्राद्यैर्हरिणा ब्रह्मणापि वा ।
स ते वध्यः कथं वा स्याच्छंकरानुग्रहं विना

3.17

अतस्त्वां दीक्षयिष्यामि विरजागममाश्रितः ।
तेन मार्गेण मर्त्यत्वं हित्वा तेजोमयो भव

3.18

येन हत्वा रणे शत्रून्सर्वान्कामानवाप्स्यति ।
भुक्त्वा भूमण्डलं चान्ते शिवसायुज्यमाप्स्यसि

3.19

सूत उवाच ।
अथ प्रणम्य रामस्तं दण्डवन्मुनिसत्तमम् ।
उवाच दुःखनिर्मुक्तः प्रहृष्टेनान्तरात्मना

3.20

श्रीराम उवाच ।
कृतार्थोऽहं मुने जातो वाञ्छितार्थो ममागतः ॥
पीताम्बुधिः प्रसन्नस्त्वं यदि मे किमु दुर्लभम् ।
अतस्त्वं विरजादीक्षां ब्रूहि मे मुनिसत्तम

3.21


अगस्त्य उवाच ।
शुक्लपक्षे चतुर्दश्यामष्टम्यां वा विशेषतः ।
एकादश्यां सोमवारे आर्द्रायां वा समारभेत्

3.22

यं वाममाहुर्यं रुद्रं शाश्वतं परमेश्वरम् ।
परात्परं परं चाहुः परात्परतरं शिवम् ।
ब्रह्मणो जनकं विष्णोर्वह्नेर्वायोः सदाशिवम्

3.23

ध्यात्वाग्निनावसथ्याग्निं विशोध्य च पृथक्पृथक् ।
पञ्चभूतानि संयम्य दग्ध्वा गुणविधिक्रमात्

3.24

मात्राः पञ्च चतस्रश्च त्रिमात्रा द्विस्ततः परम् ।
एकमात्रममात्रं च द्वादशान्तव्यवस्थितम्

3.25

स्थित्यां स्थाप्यामृतो भूत्वा व्रतं पाशुपतं चरेत्

3.26

इदं व्रतं पाशुपतं कथयिष्ये समासतः ।
प्रातरेव तु संकल्प्य निधायाग्निं स्वशाखया

3.27

उपोषितः शुचिः स्नातः शुक्लाम्बरधरः स्वयम् ।
शुक्लयज्ञोपवीतश्च शुक्लमाल्यानुलेपनः

3.28

जुहुयाद्विरजोमन्त्रैः प्राणापानादिभिस्ततः ॥
अनुवाकान्तमेकाग्रः समिदाज्यचरून्पृथक्

3.29

आत्मन्यग्निं समारोप्य याते अग्नेति मन्त्रतः ॥
भस्मादायाग्निरित्याद्यैर्विमृज्याङ्गानि संस्पृशेत्

3.30

भस्मच्छन्नो द्विजो विद्वान्महापातकसंभवैः ॥
पाषैर्विमुच्यते नित्यं मुच्यते न च संशयः

3.31

अग्निवीर्यं यतो भस्म वीर्यवान्भस्मसंयुतः ॥
भस्मस्नानरतो विप्रो भस्मशायी जितेन्द्रियः

3.32

सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात्।
एवं कुरु महाराज शिवनामसहस्रकम्

3.33

इदं तु संप्रदास्यामि तेन सर्वमवाप्स्यसि

3.34

सूत उवाच ।
इत्युक्त्वा प्रददौ तस्मै शिवनामसहस्रकम् ॥
वेदसाराभिधं नित्यं शिवप्रत्यक्षकारकम्

3.35

उक्तं च तेन राम त्वं जप नित्यं दिवानिशम् ।
ततः प्रसन्नो भगवान्महापाशुपतास्त्रकम् ।
तुभ्यं दास्यति तेन त्वं शत्रून्हत्वाप्स्यसि प्रियाम्

3.36

तस्यैवास्त्रस्य माहात्म्यात्समुद्रं शोषयिष्यसि ।
संहारकाले जगतामस्त्रं तत्पार्वतीपतेः

3.37

तदलाभे दानवानां जयस्तव सुदुर्लभः ॥
तस्माल्लब्धुं तदेवास्त्रं शरणं याहि शंकरम्

मूल पाठ: śivagītā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc