भाषा

ENहिગુ
ग्रंथ पाठ

शिव गीता · अध्याय 2

2.1

ऋषय ऊचुः ।
किमर्थमागतोऽगस्त्यो रामचन्द्रस्य संनिधिम् ।
कथं वा विरजां दीक्षां कारयामास राघवम्

2.2

ततः किमाप्तवान्-रामः फलं तद्वक्त्तुमर्हसि ।
सूत उवाच ।
रावणेन यदा सीतापहृता जनकात्मजा ॥
तदा वियोगदु:खेन विलपन्नास राघवः

2.3

निर्निद्रो निरहंकारो निराहारो दिवानिशम् ।
मोक्तुमैच्छत्ततः प्राणान्सानुजो रघुनन्दनः

2.4

लोपामुद्रापतिर्ज्ञात्वा तस्य संनिधिमागमत् ॥
अथ तं बोधयामास संसारासारतां मुनिः

2.5

किं विषीदसि राजेन्द्र कान्ता कस्य विचार्यताम्।
जडः किं नु विजानाति देहोऽयं पाञ्चभौतिकः

2.6

निर्लेपः परिपूर्णश्च सच्चिदानन्दविग्रहः ।
आत्मा न जायते नैव म्रियते न च दुःखभाक्

2.7

सूर्योऽसौ सर्वलोकस्य चक्षुष्ट्वेन व्यवस्थितः ।
तथापि चाक्षुषैर्दोषैर्न कदाचिद्विलिप्यते

2.8

सर्वभूतान्तरात्मापि तद्वद्दु:खैर्न लिप्यते ।
देहोऽपि मलपिण्डोऽयमुक्तजीवो जडात्मकः

2.9

दह्यते वह्निना काष्ठैः शवाद्यैर्भक्ष्यतेऽपि वा ॥
तथापि नैव जानाति विरहे तस्य का व्यथा

2.10

सुवर्णगौरी दूर्वाया दर्लंवच्छ्यामलापि वा ।
पीनोत्तुङ्गस्तनाभोगभुग्नसूक्ष्मावलग्नका

2.11

बृहन्नितम्बजघना रक्तपादसरोरुहा ।
राकाचन्द्रमुखी बिम्बप्रतिबिम्बरदच्छदा

2.12

नीलेन्दीवरनीकाशनयनद्वयशोभिता ।
मत्तकोकिलसंल्लापा मत्तद्विरदगामिनी

2.13

कटाक्षैरनुगृह्णाति मां पञ्चेषुशरोत्तमैः ।
इति यां मन्यते मूर्खः स च पञ्चेषुशासितः

2.14

तस्या विवेकं वक्ष्यामि श्रृणुष्वावहितो नृप ।
नच स्त्री न पुमानेष न चैवायं नपुंसकः ॥
अमूर्तः पुरुषः पूर्णो द्रष्टा साक्षी सजीवनः

2.15

या तन्वङ्गी मृदुर्बाला मलपिण्डात्मिका जडा ।
सा न पश्यति यत्किंचिन्न शृणोति न जिघ्रति

2.16

चर्ममात्रा तनुस्तस्या बुद्ध्या वीक्षस्व राधव ॥
या प्राणादधिका सैव हन्त ते स्याद्धृणास्पदम्

2.17

जायन्ते यदि भूतेभ्यो देहिनः पाञ्चभौतिकाः ।
आत्मा यदेकलस्तेषु परिपूर्णः सनातनः

2.18

का कान्ता तत्र कः कान्तः सर्व एव सहोदराः

2.19

निर्मितायां गृहावल्यां तदवच्छिन्नतां गतम् ।
नभस्तस्यां तु दग्धायां न कांचित्क्षतिमृच्छति

2.20

तद्वदात्मापि देहेषु परिपूर्णः सनातनः ॥
हन्यमानेषु तेष्वेव स्वयं नैव विहन्यते

2.21

हन्ता चेन्मन्यते हन्तुर्हतश्चेन्मन्यते हतम् ।
तावुभौ न विजानीतो नायं हन्ति न हन्यते

2.23

अस्मान्नृपातिदुःखेन किं खेदस्यास्ति कारणम् ।
ऽस्वस्वरूपं विदित्वेदं दुःखं त्यक्त्वा सुखी भव । २२ ॥
श्रीराम उवाच ।
मुने देहस्य नो दुःखं नैव चेत्परमात्मनः ।
सीतावियोगदुःखाग्निर्मां भस्मीकुरुते कथम्

2.24

सदानुभूयते योऽर्थः स नास्तीति त्वयेरितः ।
जायतां तत्र विश्वासः कथं मे मुनिपुंगव

2.25

अन्योऽस्ति नास्ति को भोक्ता येन जन्तुः प्रतप्यते ॥
सुखस्य वापि दुःखस्य तद्ब्रूहि मुनिसत्तम

2.26

अगस्त्य उवाच ।
दुर्ज्ञेया शांभवी माया तया संमोह्यते जगत् ।
मायां तु प्रकृतिं विद्धि मायिनं तु महेश्वरम् ॥
तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्

2.27

सत्यज्ञानात्मकोऽनन्तो विभुरात्मा महेश्वरः ॥
तस्यैवांशो जीवलोके हृदये प्राणिनां स्थितः

2.28

विस्फुलिङ्गा यथा वह्नेर्जायन्ते काष्ठयोगतः ।
अनादिकर्मसंबद्धास्तद्वदंशा महेशितुः ।
अनादिवासनायुक्ताः क्षेत्रज्ञा इति ते स्मृताः

2.29

मनोबुद्धिरहंकारश्चित्तं चेति चतुष्टयम् ॥
अन्तःकरणमित्याहुस्तत्र ते प्रतिबिम्बिताः

2.30

जीवत्वं प्राप्नुयुः कर्मफलभोक्तार एव ते ॥
ततो वैषयिकं तेषां सुखं वा दुःखमेव वा

2.31

त एव भुञ्जते भोगायतनेऽस्मिञ्छरीरके

2.32

स्थावरं जंगमं चेति द्विविधं वपुरुच्यते ।
स्थावरास्तत्र देहाः स्युः सूक्ष्मा गुल्मलतादयः

2.33

अण्डजाः स्वेदजास्तद्वदुद्भिज्जा इति जंगमाः

2.34

योनिमन्ये प्रपद्यन्ते शरीरत्वात्र्य देहिनः ।
स्थाणुमन्ये प्रपद्यन्ते यथाकर्म यथाश्रुतम्

2.35

सुख्यहं दुःख्यहं चेति जीव एवाभिमन्यते ।
निर्लेपोऽपि परं ज्योतिर्मोहितः शंभुमायया

2.36

कामः क्रोधस्तथा लोभो मदो मात्सर्यमेव च ।
मोहश्चेत्यरिषड्वर्गमहंकारगतं विदुः

2.37

स एव बध्यते जीवः स्वप्नजाग्रदवस्थयोः ।
सुषुप्तौ तदभावाच्च जीवः शंकरतां गतः

2.38

स एव मायया स्पृष्टः कारणं सुखदुःखयोः ।
शुक्तौ रजतवद्विश्वं मायया दृश्यते शिवे

2.39

ततो विवेकज्ञानेन न कोऽप्यत्रास्ति दु:खभाक् ।
ततो विरम दुःखात्त्वं किं मुधा परितप्यसे

2.40

श्रीराम उवाच ।
मुने सर्वमिदं सत्यं यन्मदग्रे त्वयेरितम् ॥
तथापि न जहात्येतत्प्रारब्धादृष्टमुल्बणम्

2.41

मत्तं कुर्याद्यथा मद्यं नष्टाविद्यमपि द्विजम् ।
तद्वत्प्रारब्धभोगोऽपि न जहाति विवेकिनम्

2.42

ततः किं बहुनोक्तेन प्रारब्धः स शिवः स्मरः ॥
बाधते मां दिवारात्रमहंकारोऽपि तादृशः

2.43

अत्यन्तपीडितो जीवः स्थूलदेहं विमुञ्चति ।
तस्माज्जीवाप्तये मह्यमुपायः क्रियतां द्विज

मूल पाठ: śivagītā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc