सेकोद्देश · श्लोक 81-100
विविधं रमणं नाभौ गुह्यपद्मे यदागतम् ।
गुह्याद्वज्रमणिं यावत् सहजानन्दमच्युतम्
अप्रतिष्ठितनिर्वाणं महारागो ऽक्षरः प्रभुः ।
विरागाद्यच्च्युतं सौख्यं तन्निर्वाणं प्रतिष्ठितम्
शुक्रेन्दूदय उष्णीषे पूर्णा गुह्ये सरोरुहे ।
कला षोडशमा या सा मणिपद्मे वज्रमूर्धगा
तदूर्ध्वं च्युतिकालः स्यात् कृष्णप्रतिपदागमे ।
रविस्तूर्णापदं याति अमावस्यां विरागतः
कला षोडशमा तस्य उष्णीषकमले गता ।
नष्टचन्द्र इहाख्यातो विरक्ती रागसौख्यतः
अधश्चन्द्रामृतं याति मरणे सर्वदेहिनाम् ।
ऊर्ध्वे सूर्यरजो राहुविज्ञानं भावलक्षणे
अतश्चन्द्रामृतस्योर्ध्वे कर्तव्यं गमनं नृप ।
अधो ऽर्करजसो राहुविज्ञानस्याक्षरे सुखे
ऊर्ण्णाब्जे सर्वबुद्धानां चन्द्रामृतस्य पूर्णिमा ।
अमार्करजसो गुह्ये कलोष्णीषे मणौ तयोः
इति वज्रपदं शास्तुर्विपरीतं सर्वदेहिनाम् ।
अप्रतिष्ठितनिर्वाणाद्विपरीतं यान्ति धातवः
मणौ चित्तं च गुह्ये वाक्कायो नाभौ महासुखात् ।
धर्मसम्भोगनिर्माणाः शुद्धकायात् स्फरन्त्यमी
अधोपायस्य राजेन्द्र प्रज्ञा या ऊर्ध्वतो भवेत् ।
ललाटे कायवज्रमस्या ग्रीवहृन्नाभिपङ्कजे
वाक्चित्तज्ञानवज्राणि निर्माणाद्यात् स्फरन्त्यमी ।
स्फरणं स्कन्धधातूनां निरावरणतः सुखात्
कर्ममुद्रासमापत्त्या ज्ञानमुद्रावलम्बनैः ।
महामुद्रैकयोगेन वृद्धिं याति तदक्षरम्
वृद्धस्य न च स्यात् वृद्धिः क्षीणस्य क्षीणता न च ।
अस्तंगतस्य नास्तमनमुदितस्योदयं न हि
न प्रकाशः प्रकाशस्य पिहितं पिहितस्य न ।
जातस्यैव न जन्म स्यान् मृतस्य मरणं न च
मुक्तस्य न च मुक्तिः स्यादस्थितस्य च चास्थितिः ।
अभावो न ह्यभावस्य भावो भावस्य नैव च
क्षरस्यापि क्षरो न स्यादक्षरस्य न चाक्षरः ।
स्वभावाभावधर्माणां मायोत्पादः क्षयस्तथा
न क्षयं यान्ति भूतानि न जायन्ते स्वभावतः ।
निःस्वभावमिदं विश्वं भावाभावैकलक्षणम्
स्वप्रज्ञालिङ्गितं चित्तं पद्मे वज्रमणौ गतम् ।
तत्र चन्द्रगतस्पन्दो निःस्पन्दाक्षरभावना
कायवाक्चित्तनाडीषु कायवाक्चित्तभावना ।
समाहारस्त्रिवज्राणां शङ्खिन्यां ज्ञानभावना
मूल पाठ: Sekoddeśa · Edition: Raniero Gnoli in: Orofino, Giacomella: Sekoddeśa : a critical edition of the Tibetan translations, with an appendix by Raniero Gnoli "On the Sanskrit text". Roma : Ist. Italiano per il Medio ed Estremo Oriente, 1994 (Serie orientale Roma, 72) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0