भाषा

ENहिગુ
ग्रंथ पाठ

सेकोद्देश · श्लोक 101-120

101

प्रज्ञारागद्रुतानां च बिन्दूनां शिरसः क्रमात् ।
पूर्णापदं प्रविष्टानां बन्धनं परमार्थतः

102

यथोदितः क्रमाच्चन्द्रः कलाभिर्याति पूर्णताम् ।
वासनाहरणं पूर्णा न चन्द्रच्छेदो न पूरणम्

103

तथोदितं क्रमाज्ज्ञानं भूमिभिर्याति पूर्णताम् ।
क्लेशाद्याहरणं पूर्णा न ज्ञानच्छेदो न पूरणम्

104

यथा मध्यशशाङ्केन पूर्णायां न स्थिरः शशी ।
संसारवासनाङ्केन तथा चित्तं सुखे ऽक्षरे

105

उत्पत्तिः प्रलयः पक्षः शुक्लः कृष्णः प्रतिष्ठितः ।
तयोर्मध्ये तु या पूर्णा सा पूर्णा न प्रतिष्ठिता

106

एकक्षणाभिसम्बुद्धं पूर्णायां निश्चलं भवेत् ।
यदा वज्रमणौ चितं तत् सर्वक्षणपूरकम्

107

न स्थितिः शुक्लपक्षे ऽस्य गमनं नासिते क्वचित् ।
पक्षद्वयस्य मध्यस्थं पूर्णायां गतमद्वयम्

108

उष्णीषादुदयं तस्य पूर्णा वज्रमणौ भवेत् ।
सविरागात् कलाहानि र् वज्राद्धानेः प्रपूर्णता

109

उष्णीसे ह्युदयो भूयः पूर्णा वज्रमणौ पुनः ।
सविरागात् कलाहानिर्ज्ञानहानिर्न देहिनाम्

110

महासुखस्वभावो ऽ स्य पूर्णाशब्देन गीयते ।
अन्यभावान्तरं सर्वं सृष्टिसंहारहेतुकम्

111

भवाद्गच्छति निर्वाणं तस्मादेति पुनर्भवम् ।
स्वपक्षाभ्यां यथां चन्द्रो ऽयनाभ्यां भास्करो यथा

112

पूर्णायां निश्चलस्यास्य भूमिभिः परिपूर्णता ।
द्व्ययुतद्व्यष्टशतैः श्वासैरक्षरक्षणभक्षितैः

113

पक्षद्वयं व्यतिक्रम्य भूमिभिः परिपूरितम् ।
द्वादशाकारसत्यार्थं षोडशाकारमक्षरम्

114

भूमिभिर्द्वादशाकारं पूरितं परमाद्वयम् ।
कलाभिः पूरितं चित्तं षोडशाकारमक्षरम्

115

एकार्थमद्वयं धर्मं परमार्थमविनश्वरम् ।
पूर्णावस्थां गतं चित्तं आसमन्तात् प्रपूरितम्

116

विरागादिमहारागं वज्रानङ्गं महाक्षरम् ।
परिपूर्णमसंक्लिष्टं पक्षद्वय स्य वासनैः

117

यथा नद्युदकं विष्टं समुद्रे तत्पयःसमम् ।
तथा भावसमूहो ऽयमक्षरे तत्समो ऽ क्षरः

118

यथा धातुसमूहो ऽ यं रसत्वं याति भक्षितः ।
बीजैर्बीजस्व भावं च फलकाले मानवर्जितम्

119

एवं भावसमूहो ऽपि परमाक्षरभक्षितः ।
परमाक्षरतां याति सर्वाकारस्वरूपधृक्

120

न दंशे वेदनां वेत्ति नान्यत्र चापि दष्टकः ।
न विषयानिन्द्रियद्वारैः पूर्णावस्थां विषे गते

मूल पाठ: Sekoddeśa · Edition: Raniero Gnoli in: Orofino, Giacomella: Sekoddeśa : a critical edition of the Tibetan translations, with an appendix by Raniero Gnoli "On the Sanskrit text". Roma : Ist. Italiano per il Medio ed Estremo Oriente, 1994 (Serie orientale Roma, 72) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc