भाषा

ENहिગુ
ग्रंथ पाठ

सेकोद्देश · श्लोक 61-80

61

षष्टि नाड्यो दिवारात्रं मण्डलानीति देहतः ।
दलमध्ये ततः पूर्वे सव्ये वामे ऽपरे क्रमात्

62

आकाशाद्यं सदा वामे भूम्याद्यं दक्षिणे ऽपरात् ।
विज्ञानादिभवो वामे संहारः क्ष्मादि दक्षिणे

63

अपरे पूर्वे धरा वायुः प्रज्ञोपायः परस्परम् ।
अङ्गुष्ठानामिकाद्वाभ्यां यतो वक्त्रे ऽभिषिञ्चनम्

64

सव्ये वामे हविस्तोयं प्रज्ञोपायः परस्परम् ।
मध्यमातर्जनीद्वाभ्यां यतः खड्गो भविष्यति

65

अर्धचन्द्राकृतिर्मुद्रा दंष्ट्रा कर्ती कनीयसी ।
शून्यमक्षरमूर्ध्वाधः प्रज्ञोपायः परस्परम्

66

दशमण्डलसंयोगे अङ्गुलीनां परस्परम् ।
करतले पुटिते मूर्ध्नि एकशूकं सकर्तिकम्

67

विषुवत्तन्मध्ये नाड्यां सृष्टिसंहारकारकम् ।
स्कन्धधातुत्रिवज्राणामेकत्वं मध्यमागतौ

68

चन्द्रार्कनाडिकारुद्धे रुद्धा विण्मूत्रनाडिकाः ।
राहुनाडीवि(नि)रुद्धे स्याद्रुद्धाधः शुक्रवाहिनी

69

मुक्ते मुक्ता भवन्त्येताः सृष्टिसंहारकारिकाः ।
संचार एष नाडीनां प्राणापानत्रिमार्गतः

70

वामायां दक्षिणायां वा प्रवहत्यधिको ऽ निलः ।
एकरात्रं तथा पञ्च त्रिवर्षैर्मर णं ततः

71

पञ्च दिक्तिथयो विंशति तत्त्वान्येकोत्तरं क्रमात् ।
त्रयस्त्रिंशद्दिनारोहः अरिष्टं दक्षिणे रवौ

72

त्रिद्व्येकसमकैर्मासैः षट्त्रियुग्मेन्दुभिर्दिनैः ।
तिथिदिक्पञ्चगुणद्व्येकैरायुर्गच्छति देहिनाम्

73

मूलादेकोत्तरेण स्याद्वामे चन्द्रस्य रोहणम् ।
दिनैर्मासैर्दिनैर्मासैस् त्रिदिनानि द्विमासकौ

74

दिने ऽरिष्टं शुभे मासे वृद्धिहानिस्ततस्तयोः ।
मध्यमारोहणं मृत्योः शताब्दपरिपूर्णतः

75

समविषमदिनैस्तस्य जन्मजातो ऽथ मण्डलैः ।
रोहणं सव्यवामे च पक्षद्वयविनाशनात्

76

अन्यथा मरणं न स्या त् पक्षद्वयस्य संस्थितेः ।
सव्यावसव्यसंचारा त पञ्चमण्डलवाहतः

77

अरिष्टलक्षणं ज्ञात्वा प्राणं बिन्दौ निवेशयेत् ।
अवधूतीपदमाश्रित्य भावयेत् परमाक्षरम्

78

वज्रोत्थानं सदा कुर्याच्चन्द्रार्कगतिभञ्जनात् ।
अन्यथा नावधूत्यङ्गे विशति प्राणमारुतः

79

अपानो ऽधश्च शङ्खिन्यां मरणं तदवेशतः ।
अरिष्टवञ्चनं ह्येतदानन्दैर्योगिनां भवेत्

80

शुक्रागमनमानन्दमुष्णीषादूर्ण्णापङ्कजे ।
कण्ठे हृदि परमानन्दं विरमानन्दं ततो भवेत्

मूल पाठ: Sekoddeśa · Edition: Raniero Gnoli in: Orofino, Giacomella: Sekoddeśa : a critical edition of the Tibetan translations, with an appendix by Raniero Gnoli "On the Sanskrit text". Roma : Ist. Italiano per il Medio ed Estremo Oriente, 1994 (Serie orientale Roma, 72) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc