सेकोद्देश · श्लोक 41-60
अरिष्टं कायवाङ्नाड्योरूर्ध्वा धो ऽ धिकमारुतैः ।
तमिनीशुक्रवाहिन्योरुत्पत्तिमरणस्थितिः
उत्पादे मृत्युकाले च मैथुने शुक्रवाहिनी ।
तमिनी च वहत्यूर्ध्वे संक्रान्तौ विषुवे रवेः
लग्नोदयाभिसंधौ च विषुवं वहति मध्ये ।
षट्पञ्चाशत् सपादञ्च श्वासोच्छ्वासं नराधिप
अधिकान् पञ्चसप्तत्या षट्शतांश्च दिवानिशम् ।
एकविंशत्सहस्रांश्च षट्शतैरधिकांश्च यान्
वामा च दक्षिणा नाडी वहत्यूनाननेन तान् ।
सत्रिपक्षित्रिवर्षाणि शतवर्षे हि मध्यमा
वामा सव्योर्ध्वे चन्द्रार्कौ ललनेडा पिङ्गलापरा ।
तोयतेजःस्वभाविन्यौ पद्मधृग्रत्नधृङ्मते
अधो विण्मूत्रवाहिन्यौ पृथ्वीवायुस्वरूपके ।
मध्यनाडी च वामा च चक्रधृक् खड्गधृङ्मते
ऊर्ध्वाधो मध्यमा सव्या राहुशुक्रप्रवाहिनी ।
शून्य ज्ञानस्वभा विन्यौ वज्रधृग्वज्रधृङ्मते
विण्नाडी चन्द्रमार्गेण रविणा मूत्रवाहिनी ।
जातौ मृत्यौ विषुवे रागे राहुणा शुक्रवाहिनी
या नाभ्यूर्ध्वे ऽवधूती सा सुषुम्ना तमोवाहिनी ।
याधः खगमुखा सा च शङ्खिनी शुक्रवाहिनी
नाभ्यब्जे हृदये कण्ठे ललाटोष्णीषपङ्कजे ।
भूतोयाग्निमरुच्छून्यं संहारेण प्रवाहिनी
निर्गच्छन्ती विशन्ती सा सृष्टिना विशति क्षितौ ।
कर्णिकात् कर्णिकामध्ये ऽवधूत्या गतिरागतिः
नाभौ गुह्ये च मण्यब्जे कायवाक्चित्तवाहिनी ।
निर्गच्छन्ती विशन्ती सा संहारसृष्टिरूपिणी
शङ्खिनी सर्वजन्तूनामपानानिलवाहिका ।
एषा स्त्रीणां सुखाच्छुक्रं ऋतौ रक्तप्रवाहिनी
प्रज्ञोपायाङ्गभावेन ऊर्ध्वे सव्यावसव्ययोः ।
अधो विण्मूत्रवाहस्य रजःशुक्र प्रवाहयोः
चण्डाली रजसो वाहात् खगमुखा शुक्रवाहतः ।
ऊध्वे ऋतौ स्मृ ता स्त्रीणां डोम्बी पुं सो ऽवधूतिका
विज्ञानाद्यं सदा वामे नाड्यां मण्डल पञ्चकम् ।
भूम्यादि दक्षिणे नाड्यां मध्ये वहति षष्ठमम्
नाभिपद्मदले षष्टि मण्डलानि यथाक्रमम् ।
वामे च दक्षिणे लग्ने मेषाद्ये वृषभादिके
मूले व् आमे ततः सव्य ऊर्ध्वे मध्ये ऽ निलः क्रमात् ।
एकैकमण्डलं दण्डाद्भूम्याद्यं नासरन्ध्रयोः
नाडिका वहति श्वासान् सषष्टित्रिशतान् क्रमात् ।
अष्टादशशतश्वासान्नाड्यः पञ्च वहन्ति तान्
मूल पाठ: Sekoddeśa · Edition: Raniero Gnoli in: Orofino, Giacomella: Sekoddeśa : a critical edition of the Tibetan translations, with an appendix by Raniero Gnoli "On the Sanskrit text". Roma : Ist. Italiano per il Medio ed Estremo Oriente, 1994 (Serie orientale Roma, 72) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0