सेकोद्देश · श्लोक 21-40
महामुद्रानुरागाद्यज्जातं निःस्पन्दतः सुखम् ।
महाप्रज्ञाभिषिक्तः स यतो निःस्पन्दतां गतः
प्रजापतिः स विज्ञेयो जनकः सर्वतायिनाम् ।
वज्रसत्त्वो महासत्त्वो बोधिसत्त्वो ऽद्वयो ऽक्षरः
असौ समयसत्त्वः स्याद्वज्रयोगश्चतुर्विधः ।
कालचक्र इह ख्यातो योगिनां मुक्तिदायकः
अस्यैव साधनं कुर्यात् प्रतिभासैरचिन्तितैः ।
धूमादिभिर्निमित्तैस्तैः प्रज्ञाबिम्बैर्नभःसमैः
अस्तिनास्तिव्यतिक्रान्तैः प्रत्ययार्थैः स्वचेतसः ।
परमाणुरजःसंदोहैः सर्वतः परिवर्जितैः
धूममरीचिखद्योतदीपज्वालेन्दुभास्करैः ।
तमः कला महाबिन्दुर्विश्वबिम्बं प्रभास्वरम्
पिहितापिहितनेत्राभ्यां शून्ये यन्नानुकल्पितम् ।
दृश्यते स्वप्नवद् बिम्बं तद् बिम्बं भावयेत् सदा
अभावे भावना बिम्बे योगिनां सा न भावना ।
भावो ऽभावो न चित्तस्य बिम्बे ऽकल्पितदर्शनात्
प्रतिसेनां यथादर्शे कुमारी पश्येदवस्तुजाम् ।
अतीतानागतं धर्मं तत्त्वयोग्यम्बरे तथा
अस्या भावो न भावः स्याद्वस्तुशून्यार्थदर्शनात् ।
वस्तुनो ऽभावतो ऽर्थो ऽस्ति मायास्वप्नेन्द्रजालवत्
असति धर्मिणि ह्येष धर्मोत्पादः प्रदृश्यते ।
चिन्तामणिरिवानन्तसत्त्वाशापरिपूरकः
अदृष्टं प्रतिसेनायां कुमारी चौरादि पश्यति ।
तत् प्रादेशिकनेत्राभ्यां गत्वा पश्यन्ति साधकाः
यदि पश्यति सद्रूपं स्वमुखं किं न पश्यति ।
यदि पश्यत्यसद्रूपं शशशृङ्गं कथं न च
न पश्यत्यन्यचक्षुर्भ्यां स्वचक्षुर्भ्यां न पश्यति ।
दृश्यमानमजातं तत् कुमार्या जातकं यथा
दृष्टे बिम्बे ततः कुर्यात् प्राणायामं निरन्तरम् ।
उर्ध्वाधस्त्रिषु नाडीषु कायवाक्चित्तरोधनात्
चन्द्रार्कराहुविण्मूत्रशुक्रमार्गप्रवाहिषु ।
तोयाग्निशून्यभूवायुज्ञानधातुकजातिषु
चन्द्रसूर्यतमिन्यो याः कायवाक्चित्तनाडिकाः ।
विण्मूत्रशुक्रवाहिन्यः प्राणे ऽपाने क्रमेण ताः
चन्द्रः काय उपायस्य प्रज्ञाया वाग्दिवाकरः ।
प्रज्ञाकायस्तु विण् नाडी विर्भोर्वाङ्मूत्रवा हिनी
उर्ध्वाधश्चित्तनाड्यौ द्वे तमिनीशुक्रवाहिन्यौ ।
तमिनी चित्तमुपायस्य प्रज्ञायाः शुक्रवाहिनी
ऊर्ध्वाधः षट्कुलं ह्येतत् कायवाक्चित्तयोगतः ।
प्रज्ञोपायाङ्गभावेन संस्थितं सर्वदेहिनाम्
मूल पाठ: Sekoddeśa · Edition: Raniero Gnoli in: Orofino, Giacomella: Sekoddeśa : a critical edition of the Tibetan translations, with an appendix by Raniero Gnoli "On the Sanskrit text". Roma : Ist. Italiano per il Medio ed Estremo Oriente, 1994 (Serie orientale Roma, 72) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0