भाषा

ENहिગુ
ग्रंथ पाठ

सेकोद्देश · श्लोक 1-20

1

सेकोद्देशः
ओम् नमः कालचक्राय
सुचन्द्र आह -
सेकः सप्तविधः शास्तस्त्रिविधो ऽनुत्तरस्तथा ।
लौकिकोत्तरसिद्ध्यर्थं संक्षेपात् कथयस्व मे

2

भगवानाह -
शृणु सुचन्द्र सेकार्थं सप्तधा त्रिविधं परम् ।
नाडीसंचारमायाममुद्देशात् कथयामि ते

3

उद्देशस्त्रिविधस्तन्त्रे निर्देशस्त्रिविधो भवेत् ।
प्रत्युद्देशो महोद्देशः प्रतिनिर्देशको ऽपरः

4

उद्देश एव निर्देशस्तन्त्रसंगीतिरुच्यते ।
प्रत्युद्देशश्च निर्देशः पञ्जिका पदभञ्जिका

5

महोद्देशश्च निर्देशष्टीका सर्वार्थसूचिका ।
अभिज्ञालाभिभिः सा तु कर्तव्या नैव पण्डितैः

6

एवं षट्कोटिभिः शुद्धं वज्रयोगैश्चतुर्विधैः ।
चतुःसम्बोधिभिः स्कन्धधात्वायतनषट्कुलैः

7

पटलैः पञ्चभिः शुद्धं लोकधात्वादिकैर्मतैः ।
सत्याभ्यामादिबुद्धं स्यात् कालचक्राभिधानकम्

8

आदौ सप्ताभिषेको यो बालानामवतारणम् ।
त्रिविधो लोकसंवृत्या चतुर्थः परमार्थतः

9

सत्यद्वयेन धर्माणां देशना वज्रिणो मम ।
लोकसंवृतिसत्येन सत्येन परमार्थतः

10

उदकं मुकुटः पट्टो वज्रघण्टा महाव्रतम् ।
नामानुज्ञासमायुक्तः सेकः सप्तविधो नृप

11

कायवाक्चित्तसंशुद्धिरभिषेकद्वयं द्वयम् ।
अनुज्ञा ज्ञानशुद्धिः स्यादन्या धात्वादिशुद्धितः

12

उदकं धातुसंशुद्धिर्मौली स्कन्धविशोधनम् ।
पट्टः पारमिताशुद्धिर्वज्रघण्टा महाक्षरम्

13

बुद्धभाषा न विच्छिन्ना अर्केन्द्वेकत्रशोधनम् ।
विषयेन्द्रियसंशुद्धिः स्याद्वज्रव्रतमच्युतम्

14

नाम मैत्र्यादिशुद्धिः स्यादनुज्ञा बुद्धशोधनम् ।
एते सप्त सेका देया वर्तयित्वा तु मण्डलम्

15

कुम्भो गुह्याभिषेकश्च प्रज्ञाज्ञानाभिधानकः ।
पुनरेव महाप्रज्ञा तस्या ज्ञानाभिधानकः

16

क्षरः क्षरस्ततः स्पन्दो निःस्पन्दश्च ततो ऽपरः ।
कायवाक्चित्तसंशुद्ध्या अभिषेकत्रयं क्रमात्

17

चतुर्थो ज्ञानसंशुद्धिः कायवाक्चित्तशोधकः ।
बालः प्रौढस्तथा वृद्धश्चतुर्थस्तु प्रजापतिः

18

प्रज्ञास्तनाङ्गसंस्पर्शाद् बोधिचित्तच्युतं सुखम् ।
पयोधराभिषिक्तः स बालः प्राप्तं यतः सुखम्

19

गुह्यास्फालाच्चिराज्जातं बोधिचित्तच्युतं सुखम् ।
प्रौढो गुह्याभिषिक्तः स गुह्यात् प्राप्तं यतः सुखम्

20

गुह्यास्फालाच्चिराज्जातं वज्राग्रे स्पन्दतः सुखम् ।
प्रज्ञाज्ञानाभिषिक्तः स वृद्धः स्पन्दं गतो यतः

मूल पाठ: Sekoddeśa · Edition: Raniero Gnoli in: Orofino, Giacomella: Sekoddeśa : a critical edition of the Tibetan translations, with an appendix by Raniero Gnoli "On the Sanskrit text". Roma : Ist. Italiano per il Medio ed Estremo Oriente, 1994 (Serie orientale Roma, 72) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc