सेकोद्देश · श्लोक 141-160
तस्मात् सर्वप्रयत्नेन च्युतिरागं विवर्जयेत् ।
येनाक्षरसुखं याति योगी संसारबन्धनात्
कामुको ऽपि विरागान्न कामशास्त्रं समीहते ।
मयोक्ते किं पुनस्तन्त्रे योगी दुःखं समीहते
शुक्राक्षरस्वभावेन साधयेत् परमाक्षरम् ।
आधारे च्युतिमापन्ने आधेयस्य विरागता
आधाराधेयसंबन्धो यावन्नाक्षरतां व्रजेत् ।
चित्तमक्षरताप्राप्तं नाधाराधेयलक्षणम्
अक्षरोद्भवकायस्य ऊर्ण्णाचक्रगतस्य तु ।
आलिकालिसमायोगो हूंकारो नेष्यते नृप
बिम्बं शून्योद्भवं हेतुः फलमक्षरजं सुखम् ।
फलेन मुद्रितो हेतुर्हेतुना मुद्रितं फलम्
शून्यता बिम्बधृग्घेतुः करुणाक्षरधृक् फलम् ।
शून्यताकरुणाभिन्नं बोधिचित्तं तदच्युतम्
निर्वाणरहितं बिम्बं संसारातीतमक्षरम् ।
शाश्चतोच्छेदनिर्मुत्तस्ततोर्योगो ऽद्वयो ऽपरः
अभावो नास्ति बिम्बस्य अभावोद्भूतलक्षणात् ।
भावो नास्त्यक्षरस्यापि भावसम्भूतलक्षणात्
भावाभावसमायोगो वज्रयोगो ऽद्वयो ऽपरः ।
रूपारूपविनिर्मुक्तः प्रतिसेनेव दर्पणे
बिम्बं न भवमायाति नापि निर्वाणमक्षरम् ।
अन्योन्यालिङ्गितं शान्तं नपुंसकपदं परम्
प्रज्ञाहेतोरजातत्वात् प्रज्ञाहेतूद्भवं फलम् ।
प्रज्ञाहेतोरजातत्वात् प्रज्ञाजातं न हेतुजम्
अतो न हेतुजं ज्ञानं प्रज्ञाज्ञानमनुत्तरम् ।
फलेन हेतुनान्योन्यं न परस्परमुद्रणम्
हेतुः फलं च यत् सर्वं तत् प्रतीत्यसमुद्भवम् ।
अन्योन्यमुद्रितं बिम्बं नोत्पन्नं न च निर्वृतम्
प्रज्ञा चात्यन्तनिर्वृता उत्पन्नश्च परो ऽक्षरः ।
हेतुफलविनिर्मुक्तिर्न परस्परमुद्रणम्
अजातस्यानिरुद्धस्य यज्ज्ञेयस्येह दर्शनम् ।
तत् स्वचित्तस्य नान्यस्य बाह्यज्ञेयविभागतः
अतो न चात्मनात्मानं मुद्रितुं शक्यते क्वचित् ।
किं छिनत्ति महाखड्ग आत्मानमात्मधारया
बन्ध्यादुहितृसंगेन स्वप्ने सौख्यं यथा भवेत् ।
गगनोद्भवबिम्बेन सेवितेन तथात्मनः
न प्रज्ञा नाप्युपायो ऽसौ सहजः प्रज्ञया सह ।
आपूर्णश्चैव सौख्येन सर्वावरणवर्जितः
आकाशवन्निरावरणो विषयेन्द्रियवर्जितः ।
सर्वतः सर्वभूतस्थ अच्छेद्यो भेदवर्जितः
मूल पाठ: Sekoddeśa · Edition: Raniero Gnoli in: Orofino, Giacomella: Sekoddeśa : a critical edition of the Tibetan translations, with an appendix by Raniero Gnoli "On the Sanskrit text". Roma : Ist. Italiano per il Medio ed Estremo Oriente, 1994 (Serie orientale Roma, 72) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0