भाषा

ENहिગુ
ग्रंथ पाठ

सेकोद्देश · श्लोक 161-174

161

स्वयम्भूर्वज्रसत्त्वो ऽसौ महार्थः परमाक्षरः ।
महारागो महासत्त्वः सर्वसत्त्वरतिंकरः

162

बोधिसत्त्वो महाद्वेषः क्लेशक्षयी महारिपुः ।
समयसत्त्वो महामोहो मूढधीमोहसूदनः

163

वज्रयोगो महाक्रोधः क्रुद्धमारमहारिपुः ।
कालचक्रो महालोभः क्षरलोभनिषूदनः

164

वज्रमभेद्यमित्याह महार्थं भगवानिह ।
सत्त्वं त्रिभवस्यैकता तदुक्तं परमाक्षरम्

165

परमाक्षरसुखापूर्णो भूमिभिः परिपूरितः ।
महारागो महासत्त्वः सर्वसत्त्वरतिंकरः

166

बोधौ व्यवस्थितः सत्त्वो बोधिसत्त्वस्ततो ऽचलः ।
क्लेशादिद्वेषसंघानां महाद्वेषो महारिपुः

167

समयश्चन्द्रामृतं शुक्रमच्युतिस्तस्य भक्षणम् ।
समयसत्त्वो ऽनया वृत्त्या मूढधीमोहसूदनः

168

एकत्वं सर्ववज्राणां प्रज्ञाकायाक्षरैः सह ।
महाक्रोधो महाशत्रुर्माराणां क्रोधरूपिणाम्

169

महाक्षरसुखोपायात् सत्त्वार्थं न त्यजेत् क्वचित् ।
सत्त्वान् मोक्तुं महालोभः क्षरलोभनिषूदनः

170

एते ह्युक्ताः षडाकारा अक्षरज्ञानवेदना ।
विज्ञानरूपसंस्कारसंज्ञाः स्कन्धकुलानि ते

171

ज्ञानाग्न्यम्बरपृथिवीवायूदका यथाक्रमम् ।
मनश्चक्षुःश्रुतिकायनासजिह्वास्तथैव च

172

शब्दरसधर्मधातुकगन्धस्प्रष्टव्यरूपिणः ।
क्रोधराट् षण्मुखो भीमः षट्कुलैः परिशोधितः

173

कायगुह्येन्द्रियचित्तं त्रिविधं मण्डलं सदा ।
प्रज्ञोपायत्रिवज्राणां जायते वज्रसत्त्वता

174

इदं सेकस्य साधनं परमाक्षरसाधनम् ।
नाडीकुलसमायुक्तमुद्देशाच्चन्द्र भाषितम्

मूल पाठ: Sekoddeśa · Edition: Raniero Gnoli in: Orofino, Giacomella: Sekoddeśa : a critical edition of the Tibetan translations, with an appendix by Raniero Gnoli "On the Sanskrit text". Roma : Ist. Italiano per il Medio ed Estremo Oriente, 1994 (Serie orientale Roma, 72) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc