भाषा

ENहिગુ
ग्रंथ पाठ

सेकोद्देश · श्लोक 121-140

121

एवं न च मणौ योगी नान्यत्र वेत्ति सत्सुखम् ।
न विषयानिन्द्रियद्वारैश्चित्ते पूर्णकलां गते

122

यथा लोहैकदेशे ऽपि संस्थितो हि महारसः ।
लोहं तीव्राग्निसंतप्तं वेधयेदासमन्ततः

123

तेथैवैकप्रदेशे ऽपि संस्थितं सुखमक्षरम् ।
चित्तं कामाग्निसंतप्तं वेधयेदासमन्ततः

124

यथा च विद्धलोहानां नैव मलो भवेत् क्वचित् ।
तथा च विद्धचित्तानां न वासना भवेत् क्वचित्

125

हेमत्वं हि गतं लोहमग्निना निर्मलं भवेत् ।
भूयो भूयस्तथा चित्तं निर्मलं रागवह्निना

126

यथा महामणिस्पर्शाद्याति शीला प्रदीप्तताम् ।
तथाक्षरसुखस्पर्शात् सुखतां चित्तमेति वै

127

किमत्र बहुनोक्तेन लोकसंवृतिसत्यतः ।
अवितर्क्यो रससद्भावो लोहस्यावेधनं प्रति

128

वितर्क्यो ज्ञानसद्भावः किं पुनः परमार्थतः ।
मलागन्तुकलिप्तस्य चित्तस्यावेधनं प्रति

129

नागन्तुको मलश्चित्ते न चित्ताच्चिरकालिकः ।
न चित्तेन विना जातो न चित्ते संस्थितो ऽव्ययः

130

यद्यागन्तुक एव स्याच्चित्तं प्रागमलं तदा ।
चिरकाली यदा चित्तात्तस्यैव सम्भवः कुतः

131

यदि चित्तं विना जातस्तदा खकुसुमं यथा ।
यदि स्थितः सदा चित्ते न नश्येत् सर्वतस्तदा

132

ताम्रस्य कालिमा यद्वद्रसयोगेन नश्यति ।
न तस्य सत्त्वता नश्येन्निर्मलत्वेन या स्थिता

133

तद्वच्चित्तमलः शून्यतायोगेन प्रणश्यति ।
न तस्य ज्ञानता नश्येन्निर्मलत्वेन या स्थिता

134

रसविद्धो यथा लोहो न पुनर्लोहतां व्रजेत् ।
सुखविद्धं तथा चित्तं न पुनर्दुःखतां व्रजेत्

135

न विरागात् परं पापं न पुण्यं सुखतः परम् ।
अतो ऽक्षरसुखे चित्तं वेशनीयं सदा नृप

136

वक्तुं न शक्यते सौख्यं कुमार्या सुरतं विना ।
यौवने सुरतं प्राप्य स्वतो वेत्ति महासुखम्

137

एवं न शक्यते वक्तुं समाधिरहितैः सुखम् ।
समाधावक्षरं प्राप्य स्वतो विन्दन्ति योगिनः

138

अक्षरजसुखज्ञाने सर्वज्ञैरपि शंक्यते ।
तथा क्वचिन्न कर्तव्यो विरागो मनसो ऽसुखात्

139

च्युतेर्विरागसंभूतिर्विरागाद्दुःखसंभवः ।
दुःखाद्धातुक्षयः पुंसां क्षयान् मृत्युरिति स्मृतः

140

मृत्योः पुनर्भवस्तेषां भवान् मृत्युश्च्युतिः पुनः ।
एवं विरागसंभूतेः सत्त्वानां नान्यथा भवः

मूल पाठ: Sekoddeśa · Edition: Raniero Gnoli in: Orofino, Giacomella: Sekoddeśa : a critical edition of the Tibetan translations, with an appendix by Raniero Gnoli "On the Sanskrit text". Roma : Ist. Italiano per il Medio ed Estremo Oriente, 1994 (Serie orientale Roma, 72) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc