सौन्दर्यलहरी · श्लोक 81-100
गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजान् नितम्बाद् आच्छिद्य त्वयि हरणरूपेण निदधे
अतस् ते विस्तीर्णो गुरुर् अयम् अशेषां वसुमतीं नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च ॥
करीन्द्राणां शुण्डाः कनककदलीकाण्डपटलीम् उभाभ्याम् ऊरुभ्याम् उभयम् अपि निर्जित्य भवती
सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते विजिग्ये जानुभ्यां विबुधकरिकुम्भद्वयम् अपि ॥
पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते निषङ्गौ जङ्घे ते विषमविशिखो बाढम् अकृत
यदग्रे दृश्यन्ते दशशरफलाः पादयुगली नखाग्रच्छद्मानः सुरमुकुटशाणैकनिशिताः ॥
श्रुतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्य् एतौ मातः शिरसि दयया धेहि चरणौ
ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी ययोर् लाक्षालक्ष्मीर् अरुणहरिचूडामणिरुचिः ॥
नमोवाकं ब्रूमो नयनरमणीयाय पदयोस् तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते
असूयत्य् अत्यन्तं यद् अभिहननाय स्पृहयते पशूनाम् ईशानः प्रमदवनकङ्केलितरवे ॥
मृषा कृत्वा गोत्रस्खलनम् अथ वैलक्ष्यनमितं ललाटे भर्तारं चरणकमले ताडयति ते
चिराद् अन्तःशल्यं दहनकृतम् उन्मूलितवता तुलाकोटिक्वाणैः किलिकिलितम् ईशानरिपुणा ॥
हिमानीहन्तव्यं हिमगिरितटाक्रान्तिचतुरौ निशायां निद्राणां निशि च परभागे च विशदौ
परं लक्ष्मीपात्रं श्रियम् अतिसृजन्तौ समयिनां सरोजं त्वत्पादौ जननि जयतश् चित्रम् इह किम् ॥
पदं ते कान्तीनां प्रपदम् अपदं देवि विपदां कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम्
कथं वा बाहुभ्याम् उपयमनकाले पुरभिदा यद् आदाय न्यस्तं दृषदि दयमानेन मनसा ॥
नखैर् नाकस्त्रीणां करकमलसंकोचशशिभिस् तरूणां दिव्यानां हसत इव ते चण्डि चरणौ
फलानि स्वस्थेभ्यः किसलयकराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रियम् अनिशम् अह्नाय ददतौ ॥
कदा काले मातः कथय कलितालक्तकरसं पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम्
प्रकृत्या मूकानाम् अपि च कविताकारणतया यद् आधत्ते वाणीमुखकमलताम्बूलरसताम् ॥
पदन्यासक्रीडापरिचयम् इवारब्धुमनसश् चरन्तस् ते खेलं भवनकलहंसा न जहति
सुविक्षेपे शिक्षां सुभगमणिमञ्जीररणित च्छलाद् आचक्षाणं चरणकमलं चारुचरिते ॥
अराला केशेषु प्रकृतिसरला मन्दहसिते शिरीषाभा चित्ते दृषद् इव कठोरा कुचतटे
भृशं तन्वी मध्ये पृथुर् उरसिजारोहविषये जगत् त्रातुं शंभोर् जयति करुणा का चिद् अरुणा ॥
पुरारातेर् अन्तःपुरम् असि ततस् त्वच्चरणयोः सपर्यामर्यादा तरलकरणानाम् असुलभा
तथा ह्य् एते नीताः शतमखमुखाः सिद्धिम् अतुलां तव द्वारोपान्तस्थितिभिर् अणिमाद्याभिर् अमराः ॥
गतास् ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः
त्वदीयानां भासां प्रतिफलनलाभारुणतया शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥
कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं कलाभिः कर्पूरैर् मरकतकरण्डं निबिडितम्
अतस् त्वद्भोगेन प्रतिदिनम् इदं रिक्तकुहरं विधिर् भूयोभूयो निबिडयति नूनं तव कृते ॥
स्वदेहोद्भूताभिर् घृणिभिर् अणिमाद्याभिर् अभितो निषेव्ये नित्ये त्वाम् अहम् इति सदा भावयति यः
किम् आश्चर्यं तस्य त्रिनयन्समृद्धिं तृणयतो महासंवर्ताग्निर् विरचयति नीराजनविधिम् ॥
कलत्रं वैधात्रं कतिकति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पतिः कैर् अपि धनैः
महादेवं हित्वा तव सति सतीनाम् अचरमे कुचाभ्याम् आसङ्गः कुरवकतरोर् अप्य् असुलभः ॥
गिराम् आहुर् देवीं द्रुहिणगृहिणीम् आगमविदो हरेः पत्नीं पद्मां हरसहचारीम् अद्रितनयाम्
तुरीया कापि त्वं दुरधिगमनिःसीममहिमा महामाये विश्वं भ्रमयसि परब्रह्ममहिषि ॥
सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा
चिरं जीवन्न् एष क्षपितपशुपाशव्यतिकरः परब्रह्माभिख्यं रसयति रसं त्वद्भजनवान् ॥
प्रदीपज्वालाभिर् दिवसकरनीराजनविधिः सुधासूतेश् चन्द्रोपलजललवैर् अर्घ्यघटना
स्वकीयैर् अम्भोभिः सलिलनिधिसौहित्यकरणं त्वदीयाभिर् वाग्भिस् तव जननि वाचां स्तुतिर् इयम् ॥
मूल पाठ: Saundaryalaharī · Edition: W. Norman Brown, Cambridge MA 1958 (Harvard Oriental Series, 43) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0