सौन्दर्यलहरी · श्लोक 61-80
असौ नासावंशस् तुहिनगिरिवंशध्वजपटि त्वदीयो नेदीयः फलतु फलम् अस्माकम् उचितम्
वहन्न् अन्तर् मुक्ताः शिशिरतरनिश्वासघटिताः समृद्ध्या यस् तासां बहिर् अपि च मुक्तामणिधरः ॥
प्रकृत्या रक्तायास् तव सुदति दन्तच्छदरुचेः प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता
न बिम्बं तद्बिम्बप्रतिफलनलाभाद् अरुणितं तुलाम् अध्यारोढुं कथम् इव विलज्जेत कलया ॥
स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां चकोराणाम् आसीद् अतिरसतया चञ्चुजडिमा
अतस् ते शीतांशोर् अमृतलहरीम् अम्लरुचयः पिबन्ति स्वच्छन्दं निशिनिशि भृशं काञ्चिकधिया ॥
अविश्रान्तं पत्युर् गुणगणकथाम्रेडनजपा जपापुष्पच्छाया तव जननि जिह्वा जयति सा
यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥
रणे जित्वा दैत्यान् अपहृतशिरस्त्रैः कवचिभिर् निवृत्तैश् चण्डांशुत्रिपुरहरनिर्माल्यविमुखैः
विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला विलीयन्ते मातस् तव वदनताम्बूलकबलाः ॥
विपञ्च्या गायन्ती विविधम् अवदानं पशुपतेस् त्वयारब्धे वक्तुं चलितशिरसा साधुवचने
त्वदीयैर् माधुर्यैर् अपलपिततन्त्रीकलरवां निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥
कराग्रेण स्पष्टं तुहिनगिरिणा वत्सलतया गिरीशेनोदस्तं मुहुर् अधरपानाकुलतया
करग्राह्यं शंभोर् मुखमुकुरवृन्तं गिरिसुते कथंकारं ब्रूमस् तव चिबुकम् औपम्यरहितम् ॥
भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती तव ग्रीवा धत्ते मुखकमलनालश्रियम् इयम्
स्वतः श्वेता कालागरुबहलजम्बालमलिना मृणालीलालित्यम् वहति यदधो हारलतिका ॥
गले रेखास् तिस्रो गतिगमकगीतैकनिपुणे विवाहव्यानद्धत्रिगुणगुणसंख्याप्रतिभुवः
विराजन्ते नानाविधमधुररागाकरभुवां त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥
मृणालीमृद्वीनां तव भुजलतानां चतसृणां चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः
नखेभ्यः संत्रस्यन् प्रथममथनाद् अन्धकरिपोश् चतुर्णां शीर्षाणां समम् अभयहस्तार्पणधिया ॥
नखानाम् उद्द्योतैर् नवनलिनरागं विहसतां कराणां ते कान्तिं कथय कथयामः कथम् उमे
कया चिद् वा साम्यं भजतु कलया हन्त कमलं यदि क्रीडल्लक्ष्मीचरणतललाक्षारुणदलम् ॥
समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम्
यद् आलोक्याशङ्काकुलितहृदयो हासजनकः स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झटिति ॥
अमू ते वक्षोजाव् अमृतरसमाणिक्यकुतुपौ न संदेहस्पन्दो नगपतिपताके मनसि नः
पिबन्तौ तौ यस्माद् अविदितवधूसंगमरसौ कुमाराव् अद्यापि द्विरदवदनक्रौञ्चदलनौ ॥
वहत्य् अम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः समारब्धां मुक्तामणिभिर् अमलां हारलतिकाम्
कुचाभोगो बिम्बाधररुचिभिर् अन्तः शबलितां प्रतापव्यामिश्रां पुरविजयिनः कीर्तिम् इव ते ॥
तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयःपारावारः परिवहति सारस्वत इव
दयावत्या दत्तं द्रविडशिशुर् आस्वाद्य तव यत् कवीनां प्रौढानाम् अजनि कमनियः कवयिता ॥
हरक्रोधज्वालावलिभिर् अवलीढेन वपुषा गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः
समुत्तस्थौ तस्माद् अचलतनये धूमलतिका जनस् तां जानीते जननि तव रोमावलिर् इति ॥
यद् एतत् कालिन्दीतनुतरतरङ्गाकृति शिवे कृशे मध्ये किं चिज् जननि तव तद् भाति सुधियाम्
विमर्दाद् अन्योअन्यं कुचकलशयोर् अन्तरगतं तनूभूतं व्योम प्रविशद् इव नाभीकुहरिणीम् ॥
स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता कलावालं कुण्डं कुसुमशरतेजोहुतभुजः
रतेर् लीलागारं किम् अपि तव नाभीति गिरिजे बिलद्वारं सिद्धेर् गिरिशनयनानां विजयते ॥
निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो नमन्मूर्तेर् नाभौ बलिषु शनकैस् त्रुट्यतए इव
चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥
कुचौ सद्यः स्विद्यत्तटघटितकूर्पासभिदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयता
तव त्रातुं भङ्गाद् अलम् इति विलग्नं तनुभुवा त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिर् इव ॥
मूल पाठ: Saundaryalaharī · Edition: W. Norman Brown, Cambridge MA 1958 (Harvard Oriental Series, 43) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0