सौन्दर्यलहरी · श्लोक 101-103
समानीतः पद्भ्यां मणिमुकुरताम् अम्बरमणिर् भयाद् अन्तर्बद्धस्तिमितकिरणश्रेणिमसृणः
दधाति त्वद्वक्त्रं प्रतिफलितम् अश्रान्तिविकचं निरातङ्कं चन्द्रान् निजहृदयपङ्केरुहम् इव ॥
समुद्भूतस्थूलस्तनभरम् उरश् चारु हसितं कटाक्षे कन्दर्पः कुसुमितकदम्बद्युतिवपुः
हरस्य त्वद्भ्रान्तिं मनसि जनयाम् आस मदनो भवत्या ये भक्ताः परिणतिर् अमीषाम् इयम् उमे ॥
निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे निराघातज्ञाने नियमपरचित्तैकनिलये
नियत्या निर्मुक्ते निखिलनिगमान्तस्तुतिपदे निरातङ्के नित्ये निगमय ममापि स्तुतिम् इमाम् ॥
मूल पाठ: Saundaryalaharī · Edition: W. Norman Brown, Cambridge MA 1958 (Harvard Oriental Series, 43) · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0