भाषा

ENहिગુ
ग्रंथ पाठ

सौन्दरानन्द · अध्याय 8

8.1

सौन्दरनन्द महाकाव्ये नन्दिव्लापो नाम सप्तमः सर्गः ।
चन्तो विइइ
अथ नन्दम् अधीरलोचनं गृहयानोत्सुकम् उत्सुकोतुस्कम् ।
अभिगम्य शिवेन चक्षुषा श्रमणः कश् चिद् उवाच मैत्रया

8.2

किम् इदं मुखम् अश्रुदुरिनं हृदयस्थं विवृणोति ते तमः ।
धृतिम् एहि नियच्छ विक्रियां न हि बाष्पश् च शमश् च शोभते

8.3

द्विविधा समुदेति वेदना नियतं चेतसि देह एव च ।
श्रुतविध्युपचारकोविदा द्विविधा एव तयोश् चिकित्सकाः

8.4

तद् इयं यदि कायिकी रुजा भिषजे तूर्णम् अनूनम् उच्यताम् ।
विनिगुह्य हि रोगम् आतुरो नचिरात् तीव्रम् अनर्थम् ऋच्छति

8.5

अथ दुःखम् इदं मनोमयं वद वक्ष्यामि यद् अत्र भेषजम् ।
मनसो हि रजस्तमस्विनो भिषजो ऽध्यात्मविदः परीक्षकाः

8.6

निखिलेन च सत्यम् उच्यतां यदि वाच्यं मयि सौम्य मन्यस्ते ।
गतयो विविधा हि चेतसां बहुगुह्यानि मदाकुलानि च

8.7

इति तेन स चोदितस् तदा व्यवसायं प्रविवक्षुर् आत्मनः ।
अवलम्ब्य करे करेण तं प्रविवक्षुर् आत्मनः

8.8

अथ तत्र शुचौ लतागृहे कुसुमोद्गारिणि तौ निषेदतुः ।
मृदुभिर् मृदुमारुतेरितैर् उपगूधाव् इव बालपल्लवैः

8.9

स जगाद ततश् चिकीषितम् घननिश्वासगृहीतम् अन्तरा ।
श्रुतवाग्विशदाय भिक्षवे विदुषा प्रव्रजितेन दुर्वचम्

8.10

सदृशं यदि धर्मचारिणः सततं प्राणिषु मैत्रचेतसः ।
अधृतौ यद् इयं हितैषिता मयि ते स्यात् करुणात्मनः सतः

8.11

अत एव च मे विशेषतः प्रविवक्षा क्षमवादिनि त्वयि ।
न हि भावम् इमं चलात्मने कथयेयं ब्रुवते ऽप्य् असाधवे

8.12

तद् इदं शृणु मे समासतो न रमे धरविधाव् ऋते प्रियाम् ।
गिरिसानुषु कामिनीम् ऋते कृतरेता इव किंनरश् चरन्

8.13

वनवाससुखात् पराङ्मुखः प्रयियासा गृहम् एव येन मे ।
न हि शर्म लभे तया विना नृपतिर् हीन इवोत्तमश्रिया

8.14

अथ तस्य निशम्य तद्वचः प्रियभार्याभिमुखस्य शोचतः ।
श्रमणः स शिरः प्रकम्पयन् निजगादात्मगतं शनैर् इदम्

8.15

कृपणं बत यूथलालसो महतो व्याधभयाद् विनिःसृतः ।
प्रविविक्षति वागुरां मृगश् चपलो गीतरवेण वञ्चितः

8.16

विहगः खलु जालसंवृतो हितकामेन जनेन मोक्षितः ।
विचरन् फलपुष्पवद्वनं प्रविविक्षुः स्वयम् एव पञ्जरम्

8.17

कलभः करिणा खलूद्धृतो बहुपङ्काद् विषमान् नदीतलात् ।
जलतर्षवशेन तां पुनः सरितं ग्राहवती तितीर्षति

8.18

शरणे सभुजङ्गमे स्वपन् प्रतिबुद्धेन परेञ बोधितः ।
तरुणः खलु जातविभ्रमः स्वयम् उग्रं भुजगं जिघृक्षति

8.19

महता खलु जातवेदसा ज्वलिताद् उत्पतितो वनद्रुमात् ।
पुनर् इच्छति नीडतृष्णया पतितुं तत्र गतव्यथो द्विजः

8.20

अवशः खलु काममूर्छया प्रियया श्येनभयाद् विनाकृतः ।
न धृतिं समुपैति न ह्रियं करुणं जीवति जीवजीवकः

8.21

अकृतात्मतया तृषान्वितो घृणया चैव धिया च वर्जितः ।
अशनं खलु वान्तम् आत्मना कृपञः श्वा पुनर् अत्तुम् इच्छति

8.22

इति मन्मथशोककर्षितं तम् अनुध्याय मुहुर् निरीक्ष्य च ।
श्रमणः स हिताभिकाङ्क्षया गुणवद्वाक्यम् उवाच विप्रियम्

8.23

अविचारयतः शुभाशुभं विषयेष्व् एव निविष्टचेतसः ।
उपपन्नम् अलब्धचकुसुषो न रतिः श्रेयसि चेद् भवेत् तव

8.24

श्रवणे ग्रहणे ऽथ धारणे परमार्थावगमे मनःशमे ।
अविषक्तमतेश् चलात्मनो न हि धर्मे ऽभिरतिर् विधीयते

8.25

विषयेषु तु दोषदर्शिनः परितुष्टस्य शुचेर् अमानिनः ।
शमकर्मसु युक्तचेतसः कृतबुद्धेर् न रतिर् न विद्यते

8.26

रमते तृषितो धनश्रिया रमते कामसुखेन् बालिशः ।
रमते प्रशमेन सज्जनः परिभोगान् परिभूय विद्यया

8.27

अपि च प्रथितस्य धीमतः कुलजस्यार्चितलिङ्गधारिणः ।
सदृशी न गृहाय चेतना प्रणतिर् वायुवशाद् गिरेर् इव

8.28

स्पृह्येत् परसंश्रिताय यः परिभूयात्मवशां स्वतन्त्रताम् ।
उपशान्तिपथे शिवे स्थितः स्पृहयेद् दोषवते गृहाय सः

8.29

व्यसनाभिहतो यथा विशेत् पर्मुक्तः पुनर् एव बन्धनम् ।
समुपेत्य वनं तथा पुनर् गृहसंज्ञं मृगयेत बन्धनम्

8.30

पुरुषश् च विहाय यः कलिं पुनर् इच्छेत् कलिम् एव सेवितुम् ।
स विहाय भजेत बालिषः कलिभूताम् अजितेन्द्रियः प्रियाम्

8.31

सविषा इव संश्रिता लताः परिमृष्टा इव सोरगा गुहाः ।
विवृता इव चासयो धृता व्यसनान्ता हि भवन्ति योषितः

8.32

प्रमदाः समदा मदप्रदाः प्रमदा वीतमदा भयप्रदाः ।
इति दोषभयावहाश् च ताः कथम् अर्हन्ति निषेवनं नु ताः

8.33

स्वजनः स्वजनेन भिद्यते सुहृदश् चापि सुहृज्जनेन यत् ।
परदोषविक्षणाः शठास् तदनार्याः प्रचरन्ति योषितः

8.34

कुलजाः कृपणीभवन्ति यद् यद् अयुक्तं प्रचरन्ति साहसम् ।
प्रविशन्ति च यच् चमूमुखं रभसास् तत्र निमित्तम् अङ्गनाः

8.35

वचनेन हरनति वल्गुना निशितेन प्रहरन्ति चेतसा ।
मधु तिष्ठति वाचि योषितां हृदये हालहलं महद्विषम्

8.36

प्रदहन् दहनो ऽपि गृह्यते विशरीरः पवनो ऽपि गृह्यते ।
कुपितो भुजगो ऽपि गृह्यते प्रदानां तु मनो न गृह्यते

8.37

न वपुर् विमृशन्ति न श्रियं न मतिं नापि कुलं न विक्रमम् ।
प्रहरन्त्य् अविशेषतः स्त्रियः सरितो ग्राहकुलाकुला इव

8.38

न वचो मधुरं न लालनं स्मरति स्त्री न च सुअहृदं क्व चित् ।
कलिता वनितैव चञ्चला तद् इहारिष्व् इव नावलम्ब्यते

8.39

अददत्सु भवन्ति नर्मदाः प्रददत्सु प्रविशन्ति विभ्रमम् ।
प्रणतेषु भवन्ति गर्विताः प्रमदास् तृप्ततराश् च मानिषु

8.40

गुणवत्सु चरन्ति भर्तृवद् गुणहीनेषु चरन्ति पुत्रवत् ।
धनवत्सु चरन्ति तृष्णया धनहीनेषु चरन्त्य् अवज्ञया

8.41

विषयाद् विषयान्तरं गता प्रचरत्य् एव यथा हृतापि गौः ।
अनवेक्षितपूर्वसौहृदा रमते ऽन्यत्र गता तथाङ्गना

8.42

प्रविशन्त्य् अपि हि स्त्रियश् चिताम् अनुभध्नन्त्य् अपि मुक्तजीव्ताः ।
अपि बिभ्रति नैव यन्त्रणा न तु भावेन वहन्ति साहृदम्

8.43

रमयन्ति पतीन् कथं चन प्रमदा याः पतिदेवताः क्व चित् ।
चलचित्ततया सहस्रशो रमयन्ते हृदयं स्वन् एव ताः

8.44

श्वपचं किल सेनजित्सुता चकमे मीनरिपुं कुमुद्वती ।
मृगराजम् अथो बृहद्रथा प्रमदानाम् अगतिर् न विद्यते

8.45

कुरुहैहयवृष्णिवंशजा बहुमायाकवचो ऽथ शम्बरः ।
मुनिर् उग्रतपाश् च गौतमः समवापुर् वनितोद्धतं रजः

8.46

अकृतज्ञम् अनार्यम् अस्थिरं वनितानाम् इद ईदृशं मनः ।
कथम् अर्हति तासु पण्डितो हृदयं सञ्जयितुं चलात्मसु

8.47

अथ सूक्ष्ममति द्वयाशिवं लघु तासां हृदयं न पश्यसि ।
किमु कायम् असद्गृहं स्रवद् वैन्तानाम् अशुचिं न पश्यसि

8.48

अनुलेपनम् अञ्जनं स्रजो मणिमुक्तातपनीयम् अंशुकम् ।
यद् अहन्य् अहनि प्रधावनैर् वसनैश् चाभरणैश् च संस्कृतम् ।
अशुभं तमसावृतेक्षणः शुभतो गच्छसि नावगच्छसि

8.49

अथ वा समवैषि तत्तनूम् अशुभां त्वं न तु संविद् अस्ति ते ।
सुरभिं विदधासि हि क्रियाम् अशुचेस् तत्प्रभवस्य शान्तये

8.50

मलपञ्कधरा दिगम्बरा प्रकृतिस्थैर् नखदन्तरोमभिः ।
यदि साधु किम् अत्र योषितां सहजं तासु विचीयतां शुचि

8.51

मलपङ्कधरा दिगम्बरा प्रकृतिस्थैर् नखदन्तरोमभिः ।
यदि सा तव सुन्दरी भवेन् नियतं ते ऽद्य न सुन्दरी भवेत्

8.52

स्रवतीम् अशुचिं स्पृशेच् च कः सघुणो जर्जरभाण्डवत् स्त्रियम् ।
यदि केवलया त्वचावृता न भवेन् मक्षिकपत्त्रमात्रया

8.53

त्वचवेष्ठितम् अस्तिपञ्जरं यदि कायं समवैषि योषिताम् ।
मदनेन च कृष्यसे बलाद् अघृणः कायं सम्वैषि योषिताम्

8.54

शुभताम् अशुभेषु कल्पयन् नखदन्तत्वचकेशरोमसु ।
अविचक्षण किं न पश्यसि प्रकृतिं च प्रभवं च योषिताम्

8.55

तद् अवेत्य मनःशरीरयोर् वनिता दोषवतीर् विशेषतः ।
चपलं भवनोत्सुकं मनः प्रतिसंख्यानबलेन वार्यताम्

8.56

श्रुतवान् मतिमान् कुलोद्गतः परमस्य प्रशमस्य भाजनम् ।
उपगम्य यथा तथा पुनर् न हि बेह्त्तुं नियमं त्वम् अर्हसि

8.57

अभिजनमहतो मनस्विनः प्रिययशसो बहुमानम् इच्छतः ।
निधनम् अपि वरं स्थिरात्मनश् च्युतविनयस्य न चैव जीवितम्

8.58

बद्ध्वा यथा हि कवचं प्रगृहीतचापो निन्द्यो भवत्य् अपसृतः समराद् रथस्थः ।
भैक्षाकम् अभ्युपगतः परिगृह्य लिङ्गं निन्द्यस् तथा भवति कामर्हृतेन्द्रियाश्वः

8.59

हास्यो यथा च परमाभरणाम्बरस्रग् भैक्षं चरन् धृतधनुश् चलचित्रमौलिः ।
वैरूप्यम् अभ्युपगतः परैण्डभोजी हास्यस् तथा गृहसुखाभिमुखः सतृष्णः

8.60

यथा स्वन्नं भुक्त्वा परमश्यनीये ऽपि शयितो वराहो निर्मुक्तः पुनर् अशुचि धावेत् परिचितम् ।
तथा श्रेयः शृण्वन् प्रशमसुखम् आस्वाद्य गुणवद् वनं शान्तं हित्वा गृहम् अभिलषेत् कामतृषितः

8.61

यथोल्का हस्तस्था दहति पवनप्रेरितशिखा यथा पादाक्रान्तो दशति भुजगः क्रोधरभसः ।
यथा हन्ति व्याघ्रः शिशुर् अपि गृहीतो गृहगतः तथा स्त्रीसंसर्गो भुविधम् अनर्थाय भवति

8.62

तद् विज्ञाय मनःशरीरनियतान् नारिषु दोषान् इमान् मत्वा कामसुखं नदीजलचलं क्लेशाय शोकाय च ।
दृष्ट्वा दुर्बलम् आमपत्रसदृशं मृत्यूपसृष्टं जगन् निर्मोक्षाय कुरुष्व बुद्धिम् अतुलाम् उत्कण्ठितुं नार्हसि

मूल पाठ: Saundarānanda · Edition: Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980. · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc