सौन्दरानन्द · अध्याय 7
सौन्दरनन्दे महाकाव्ये भार्याविलापो नाम षष्टः सर्गह् ॥
चन्तो विइ
लिङ्गं ततः शास्तृविधिप्रदिष्टं गात्रेण बिभ्रन् न तु चेतसा तत् ।
भार्यागतैर् एव मनोवितकैर् जेह्रीयमाणो न ननन्द नन्दः
स पुष्पमासस्य च पुष्पलक्ष्म्या सर्वाभिसारेण च पुष्पकेतोः ।
यानीयभावेन च यौवनस्य विहारसंस्थो न शमं जगाम
स्थितः स दीनः सहकारवीथ्याम् आलीनसंमूर्छितषत्पदायाम् ।
भृशं जजृम्भे युगदीर्घबाहुर् ध्यात्वा प्रियां चापम् इवाचकर्ष
स पितक्षोदम् इव प्रतीच्छन् चूतद्रुम्भेयस् तनुपुष्पवर्षम् ।
दीर्घं निशश्वास विचिन्त्य भार्यां नवग्रहो नाग इवावरुद्धः
शोकस्य हर्ता शरणागतानां शोकस्य कर्ता प्रतिगर्वितानाम् ।
अशोकम् आलम्ब्य स जातशोकः प्रियां प्रियाशोकवनां शुशोच
प्रियां प्रियायाः प्रतनुं प्रियण्गुं निशाम्य भीताम् इव निष्पतन्तिम् ।
सस्मार ताम् अश्रुमुखीं सबाष्पः प्रियां प्रियङ्गुप्रसवावदाताम्
पुष्पावनद्धे तिलकद्रुमस्य दृष्ट्वान्यपुष्टां शिखरे निविष्टाम् ।
संकल्पयाम् आस शिखां प्रियायाः शुक्लांशुके ऽट्टालम् अपास्रितायाः
लतां प्रफुल्लाम् अतिमुक्तकस्य चूतस्य पार्श्वे परिरभ्य जाताम् ।
निशाम्य चिन्ताम् अगमत् तदैवं श्लिष्टाभवन् माम् अपि सुन्दरीति
पुष्पोत्कराला अपि नागवृक्षा दान्तैः समुद्गैर् इव हेमगर्भैः ।
कान्तारवृक्षा इव दुःखितस्य न चक्षुर् आचिक्षिपुर् अस्य तत्र
गन्धं वसन्तो ऽपि च गन्धपर्णा गन्धर्ववेष्या इव गन्धपूर्णाः ।
तस्यान्यचित्तस्य शुगात्मकस्य घ्राणं न जह्रुर् हृदयं प्रतेपुः
संरक्तकण्ठैश् च विनीलकण्ठैस् तुष्टैः प्रहृष्टैर् अपि चान्यपुष्टैः ।
लेलिह्यमानैश् च मधु द्विरेपैः स्वनद्वनं तस्य मनो नुनोद
स तत्र भार्यारणिसंभवेन वितर्कधूमेन तमःशिखेन ।
कामाग्निनान्तर्हृदि दह्यमानो विहाय धैर्यं विललाप तत् तत्
अद्यावगच्छामि सुदुष्करं ते चक्रुः करिष्यन्ति च कुर्वते च ।
त्यक्त्वा प्रियाम् अश्रुमुखीं तपो ये चेरुश् चरिष्यन्ति चरन्ति चैव
तावद् दृढं बन्धनम् अस्ति लोके न दारवं तान्तवम् आयसं वा ।
यावद् दृढं बन्धनम् एतद् एव मुखं चल्श्क्षं ललितं च वाक्यम्
छित्त्वा च भित्त्वा च हि यान्ति तानि स्वपौरुषाच् चैव सुहृद्बलाच् च ।
ज्ञानाच् च रौक्ष्याच् च विना विमोक्तुं न शक्यते स्नेहमयस् तु पाशः
ज्ञानं न मे तच् च शमाय यत् स्यान् न चास्ति रौक्ष्यं करुणात्मको ऽस्मि ।
कामात्मकश् चास्मि गुरुश् च बुद्धः स्थितो ऽन्तरे चक्रगतेर् इवास्मि
अहं गृहीत्वापि हि भिक्षुलिङ्गं भ्रातॄषिणा द्विर्गुरुणानुशिष्टः ।
सर्वास्व् अवस्थासु लभे न शान्तिं प्रियावियोगाद् इव चक्रवाकः
अद्यापि तन् मे हृदि वर्तते च यद् दर्पणे व्याकुलिते मया सा ।
कृतानृतक्रोधकम् अब्रवीन् मां कथं कृतो ऽसीति शठं हसन्ती
यथैष्य् अनाश्यानविशेषकायां मयीति यन् माम् अवदच् च साश्रु ।
पारिप्लवाक्षेण मुखेन बाला तन् मे वचो ऽद्यापि मनो रुणद्धि
बद्ध्वासनं पर्वतनिर्झरस्थः स्वस्थो यथा ध्यायति भिक्षुर् एषः ।
सक्तः क्व चिन् नाहम् इवैष नूनं शान्तस् तथा तृप्त इवोपविष्टः
पुंस्कोकिलानाम् अविचिन्त्य घोषं वसन्तलक्ष्म्याम् अविचार्य चक्षुः ।
शास्त्रं यथाभ्यस्यति चैष युक्तः शङ्के प्रियाकर्षति नास्य चेतः
अस्मै नमो ऽस्तु स्थिरनिश्चयाय निवृत्तकौतूहलविस्मयाय ।
शान्तात्मने ऽन्तर्गतमानसाय चङ्क्रम्यमाणाय निरुत्सुकाय
निरीक्षमाणाय जलं सपद्मं वनं च फुल्लं परपुष्टजुष्टम् ।
कस्यास्ति धैर्यं नवयौवनस्य मासे मधौ धर्मसपत्नभूते
भावेन गर्वेण गतेन लक्ष्म्या स्मितेन कोपेन मदेन वाग्भिः ।
जह्रुः स्त्रियो देवनृपर्षिसंघान् कस्माद् धि नास्मद्विधम् आषिपेयुः
कामाभिभूतो हि हिरण्यरेताः स्वाहां सिषेवे मघवान् अहल्याम् ।
सत्त्वेन सर्गेञ च तेन हीनः स्त्रीनिर्जितः किं बत मानुषो ऽहम्
सूर्यः सरण्यूं प्रति जातरागस् तत्प्रीतये तष्ट इति श्रुतं नः ।
याम् अश्वभूतो ऽश्ववधुं समेत्य यतो ऽश्विनौ तौ जनयां बभूव
स्त्रीकारणं वैरविषक्तबुद्ध्योर् वैवस्वताग्न्योश् चलितात्मधृत्योः ।
बहूनि वर्षाणि बभूव युद्धं कः स्त्रीनिमित्तं न चलेद् इहान्यः
भेजे श्वपाकीं मुनिर् अक्षमालां कामाद् वैष्ठश् च स सद्वरिष्टः ।
यस्यां विवस्वान् इव भूजलादः सुतः प्रसूतो ऽस्य कपिञ्जलादः
पराशः शापशरस् तहर्षिः कालीं सिषेवे झषगर्भयोनिम् ।
सुतो ऽस्य यस्यां सुषुवे महात्मा द्वैपायनो वेदविभागकर्ता
द्वैपायनो धर्मपरायञश् च रेमे समं काशिषु वेश्यवध्व ।
यया हतो ऽभूच् चलनूपुरेञ पादेन विद्युल्लतयेव मेघः
तथाञ्गिरा रागपरीतचेताः सरस्वतीं ब्रह्मसुतः सिषेवे ।
सारस्वतो यत्र सुतो ऽस्य जज्ञे नष्टस्य वेदस्य पुनःप्रवक्ता
तथा नृपर्षेर् दिलिपस्य यज्ञे स्वर्गस्त्रियां काश्यप आगतास्थः ।
स्रुचं गृहीत्वा स्रवद् आत्मतेजश् चिक्षेप वह्नाव् असितो यतो ऽभूत्
तथाङ्गदो ऽन्तं तपसो ऽपि गत्वा कामाभिभूतो यमुनाम् अगच्छत् ।
धीमत्तरं यत्र रहीतरं स सारङ्गजुष्टं जनयां बभूव
निशाम्य शान्तां नरदेवकन्यां वने ऽपि शान्ते ऽपि च वर्तमानः ।
चचाल धैर्यान् मुनिर् ऋष्यषृङ्गः शैलो महीकम्प इवोच्चशृङ्गः
ब्रह्मर्षिभावार्थम् अपास्य राज्यं भेजे वनं यो विषयेष्व् अनास्थः ।
स गाधिजश् चापहृतो घृताच्या समा दशैकं दिवसं विवेद
तथैव कन्दर्पशराभिमृष्टो रम्भां प्रति स्तुःइलशिरा मुमूर्छ ।
यः कामरोषात्मतयानपेक्षः शशाप ताम् अप्रतिगृह्यमाणः
प्रमद्वरायां च रुरुः प्रियायां भुजङ्गमेनापहृतेन्द्रियायाम् ।
संदृश्य संदृश्य जघान सर्पान् प्रियं न रोषेण तपो ररक्ष
नप्ता शशाङ्कस्य यशोगुणाङ्को बुधस्य सूनुर् विभुधप्रभावः ।
तथोर्वशीम् अप्सरसं विचिन्त्य राजर्षिर् उन्मादम् अगच्छद् ऐडः
रक्तो गिरेर् मूर्धनि मेनकायां कामात्मकत्वाच् च स ताल्जङ्घः ।
पादेन विश्वावसुना सरोषं वज्रेण हिन्ताल इवाभिजघ्ने
नाशं गतायां परमाङ्गनायां गङ्गाजले ऽनङ्गपरीतचेताः ।
जह्नुश् च गङ्गां नृपतिर् भुजाभ्यां रुरोध मैनाक इवाचलेन्द्रः
नृपश् च गङ्गाविरहाज् जुघूर्ण गङ्गाम्भसा साल इवात्तमूलः ।
कुलप्रदीपः प्रतिपस्य सूनुः श्रीमत्तनुः शन्तनुर् अस्वतन्त्रः
हृतां च सौनन्दकिनानुशोचन् प्राप्ताम् इन्वोर्वीं स्त्रियम् उर्वशीं ताम् ।
सद्वृत्तवर्मा किल सोमवर्मा बभ्राम चित्तोधवभिन्नवर्मा
भार्यां मृतां चानुममार राजा भीमप्रभावो भुवि भीमकः सः ।
बलेन सेनाक इति प्रकाशः सेनापतिर् देव इवात्तसेनः
स्वर्गं गते भर्तरि शन्तनौ च कालीं जिहिर्षन् जनमेजयः सः ।
अवाप भीष्मात् समवेत्य मृत्युं न तद्गतं मन्म्हथम् उत्ससर्जे
शप्तश् च पाण्डुर् मदनेन नूनं स्त्रीणां वशं कामवशेन जग्मुः ।
जगाम माद्रीं न महर्षिशापाद् असेव्यसेवी विममर्श मृत्युम्
एवंविधा देवनृपर्षिसङ्घः स्त्रीणां वशं कामवशेन जग्मुः ।
धिया च सारेण च दुर्बलः सन् प्रियाम् अपश्यन् किमु विक्लवो ऽहम्
यास्यामि तस्माद् गृहम् एव भूयः कामं करिष्ये विधिवत् सकामम् ।
न ह्य् अन्यचित्तस्य चलेन्द्रियस्य लिङ्गं क्षमं धर्मपथाच् च्युतस्य
पाणौ कपालम् अवधाय विधाय मौण्ड्यं मान निधाय विकृतं परिधाय वासः ।
यस्योयोद्धवो न धृतिर् अस्ति न शान्ति अस्ति चित्रप्रदीप इव सो ऽस्ति च नास्ति चैव
यो निःसृतश् च न च निःसृतकामरागः काषायम् उद्वहति यो न च निष्कसायः ।
पात्रं बिभर्ति च गुणैर् न च पात्रभूतो किङ्गं वहन्न् अपि स नैव गृही न भिक्षुः
न न्याय्यम् अन्वयवतः परिगृह्य लिङ्गं भूयो विमोक्तुम् इति यो ऽपि हि मे विचारः ।
सो ऽपि प्रणश्यति विचिन्त्य नृपप्रवीरांस् तान् ये तपोवनं अपास्य गृहाण्य् अतीयुः
शाल्वाधिपो हि ससुतो ऽपि तथाम्बरीषो रामो ऽन्ध्व एव स च सांकृतिर् अन्तिदेवः ।
चीराण्य् अपास्य दधिरे पुनर् अंशुकानि छित्त्वा जटाष् च कुटिला मुकुटानि बभ्रुः
तस्माद् भिक्षार्थं मम गुरुर् इतो यावद् एव प्रयातस् त्यक्त्वा काषायं गृहम् अहम् इतस् तावद् एव प्रयास्ये ।
पूज्यं लिङ्गं हि स्कलितमनसो बिभ्रतः क्लिष्टबुद्धेर् नामुत्रार्थः स्याद् उपहतमतेर् नाप्य् अयं जीवलोकः
मूल पाठ: Saundarānanda · Edition: Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980. · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0