भाषा

ENहिગુ
ग्रंथ पाठ

सौन्दरानन्द · अध्याय 18

18.1

महाकाव्ये सौन्दरनन्दे ऽमृताधिगमो नाम सप्तदशः सर्गः ।
चन्तो xविइइ
अथ द्विजो बाल इवाप्तवेदः क्षिप्रं वणिक् प्राप्त इवाप्तलाभः ।
जित्वा च राजन्य इवार्सैन्यं नन्दः कृतार्थो गुरुम् अभ्यगच्छत्

18.2

द्रष्टुं सुखं ज्ञानसमाप्तिकाले गुरुर् हि शिष्यस्य गुरोश् च शिष्यः ।
परिश्रमस् ते सफलो मयीति यतो दिदृक्षास्य मुनौ बभूव

18.3

यतो हि येनाधिगतो विशेषस् तस्योत्तमाङ्गे ऽर्हति कर्तुमिड्याम् ।
आर्यः सरागो ऽपि कृतज्ञभावात् प्रक्षीणमानः किमु वीतरागः

18.4

यस्यार्थकामप्रभवा हि भक्तिस् ततो ऽस्य सा तिष्ठति रूढमूला ।
धर्मान्वयो यस्य तु भक्तिरागस् तस्य प्रसादो हृदयावगाढः

18.5

काषायवासाः कनकावदातस् ततः स मूर्ध्ना गुरवे प्रणेमे ।
वातेरितः पल्लवताम्ररागः पुष्पोज्ज्वलश्रीर् इव कर्णिकारः

18.6

अथात्मनः शिष्यगुणस्य चैव महामुनेः शास्तृगुणस्य चैव ।
संदर्शनार्थं स न मानहेतोः स्वां कार्यसिद्धिं कथयां बभूव

18.7

या दृष्टिशल्यो हृदयावगाढः प्रभो भृशं माम् अतुदत् सुतीक्ष्णः ।
त्वद्वाक्यसंदंशमुखेन मे स समुद्धृतः शल्यहृतेव शल्यः

18.8

कथङ्कथाभावगतो ऽस्मि येन छिन्नः स निःसंशय संशयो मे ।
त्वच्छासनात् सत्पथम् आगतो ऽस्मि सुदेशिकस्येव पथि प्रनष्टः

18.9

यत् पीतम् आस्वादवशेन्द्रियेण दर्पेण कन्दर्पविषं मयासीत् ।
तन् मे हतं त्वद्वचनागदेन विषं विनाशीव महागदेन

18.10

क्षयं गतं जन्म निरस्तजन्मन् सद्धर्मचर्याम् उषितो ऽस्मि सम्यक् ।
कृत्स्नं कृतं मे कृतकार्य कार्यं लोकेषु भूतो ऽस्मि न लोकधर्मा

18.11

मैत्रीस्तनीं व्यञ्जनचारुसास्नां सद्धर्मदुग्धां प्रतिभानशृङ्गाम् ।
तवास्मि गां साधु निपीय तृप्तस् तृषेव गाम् उत्तमवत्सवर्णः

18.12

यत् पश्यतश् चाधिगमो ममायं तन् मे समासेन मुने निबोध ।
सर्वज्ञ कामं विदितम् तवैतत् स्वं तूपचरां प्रविवक्षुर् अस्मि

18.13

अन्ये ऽपि सन्तो विमुमुक्षवो हि श्रुत्व विमोक्षाय नयं परस्य ।
मुक्तस्य रोगाद् इव रोगवन्तस् तेनैव मार्गेण सुखं घटान्ते

18.14

उर्व्यादिकान् जन्मनि वेद्मि धातून् नात्मानम् उर्व्यादिषु तेषु किं चित् ।
यस्माद् अतस् तेषु न मे ऽस्ति सक्तिर् बहिश् च कायेन समा मतिर् मे

18.15

स्कन्धांश् च रूपप्रभृतीन् दशार्धान् पश्यामि यस्माच् चपलान् असारान् ।
अनात्मकांश् चैव वधात्मकांश् च तस्माद् विमुक्तो ऽस्म्य् अशिवेभ्य एभ्यः

18.16

यस्माच् च पश्याम्य् उदयं व्ययं च सर्वास्व् अवस्थास्व् अहम् इन्द्रियाणाम् ।
तस्माद् अनित्येषु निरात्मकेषु दुःखेषु मे तेष्व् अपि नास्ति संगः

18.17

यतश् च लोकं सम्जन्मनिष्ठं पश्यामि निःसारम् असच् च सर्वम् ।
अतो धिया मे मनसा विबद्धम् अस्मीति मे नेञ्जितम् अस्ति येन

18.18

चतुर्विधे नैकविधप्रसंगे यतो ऽहम् आहारवैधाव् असक्तः ।
अमूर्छितश् चाग्रथितश् च तत्र त्रिभ्यो विमुक्तो ऽस्मि ततो भवेभ्यः

18.19

अनिश्रितश् चाप्रतिबद्धचित्तो दृष्टशुतादौ व्यवहारधर्मे ।
यस्मात् समात्मानुगतश् च तत्र तस्माद् विसंयोगगतो ऽस्मि मुक्तः

18.20

इत्य् एवम् उक्त्वा गुरुबाहुमान्यात् सर्वेण कायेन स गां निपन्नः ।
प्रवेरितो लोहितचन्दनाक्तो हैमो महास्तम्भ इवाभासे

18.21

ततः प्रमादात् प्रसृतस्य पूर्वं श्रुत्वा धृतिं व्याकरणं च तस्य ।
धर्मान्वयं चानुगतं प्रसादं मेघस्वरस् तं मुनिर् आबभाषे

18.22

उत्तिष्ठ धर्मे स्थित शिष्यजुष्टे किं पादयोर् मे पतितो ऽसि मूर्ध्ना ।
अभ्यर्चनं मे न तथा प्रणामो धर्मे यथैषा प्रतिपत्तिर् एव

18.23

अद्यासि सुप्रव्रजितो जितात्मन्न् ऐश्वर्यम् अप्य् आत्मनि येन लब्धम् ।
जितात्मनः प्रव्रजनं हि साधु चलात्मनो न त्व् अजितेन्द्रियस्य

18.24

अद्यासि शौचेन परेण युक्तो वाक्कायचेतांसि शुचीनि यत् ते ।
अतः पुनश् चाप्रयताम् असौम्यां यत् सौम्य नो वेक्ष्यसि गर्भशय्याम्

18.25

अद्यार्थवत् ते श्रुतवच् छ्रुतं तच् छ्रुतानुरूपं प्रतिपद्य धर्मम् ।
कृतश्रुतो विप्रतिपद्यमानो निन्द्यो हि निर्वीर्य इवात्तशस्त्रः

18.26

अहो धृतिस् ते ऽविषयात्मकस्य यत् त्वं मतिं मोक्षविधाव् अकार्षीः ।
यास्यामि निष्ठाम् इति बालिशो हि जन्मक्षयात् त्रासम् इहाभ्युपैति

18.27

दिष्ट्या दुरापः क्षणसंनिपातो नायं कृतो मोहवशेन मोघः ।
उदेति दुःखेन गतो ह्य् अधस्तात् कूर्मो युगच्छिद्र इवार्ञवस्थः

18.28

निर्जित्य मारं युधि दुर्निवारम् अद्यासि लोके रणशीर्षूरः ।
शूरो ऽप्य् आसूरः स हि वेदितव्यो दोषैर् अमित्रैर् इव हन्यते यः

18.29

निर्वाप्य रागाग्निम् उदीर्णम् अद्यासि लोके रणशीर्षशूरः ।
दुःखं हि शेते शयने ऽप्य् उदारे क्लेशाग्निना चेतसि धयमानः

18.30

अभ्युच्छ्रितो द्रव्यमदेन पूर्वम् अद्यासि तृष्नोपरमात् समृद्धः ।
यावत् सतर्षः पुरुषो हि लोके तावत् समृद्धो ऽपि सदा दरिद्रः

18.31

अद्यापदेष्टुं तव युक्तरूपं शुद्धोधनो मे नृपतिः पितेति ।
भ्रष्टस्य धर्मात् पितृभिर् निपाताद् अश्लाघनियो हि कुलापदेशः

18.32

दिष्ट्यासि शान्तिं परमाम् उपेतो निस्तीर्णकान्तार इवाप्तसारः ।
सर्वो हि संसारगतो भयार्तो यथैव कान्तारगतस् तथैव

18.33

आरण्यकं क्भैक्षचरं विनीतं द्क्रष्यामि नन्दं निभृतं कदेति ।
आसीत् पुरस्तात् त्वयि मे दिदृक्षा तथासि दिष्ट्या मम दर्शनीयः

18.34

भवत्य् अरूपो ऽपि हि दर्शनीयः स्वलङ्कृतः श्रेष्ठतमैर् गुणैः स्वैः ।
दोषैः परीतो मलिनीकरैस् तु सुदर्शनीयो ऽपि विरूप एव

18.35

अद्य प्रकृष्ता तव बुद्धिमत्ता कृत्स्नं यया ते कृतम् आत्मकार्यम् ।
श्रुतोन्नतस्यापि हि नास्ति बुद्धिर् नोत्पद्यते श्रेयसि यस्य बुद्धिः

18.36

उन्मीलितस्यापि जनस्य मध्ये निमीलितस्यापि तथैव चक्षुः ।
प्रज्ञामयं यस्य हि नास्ति चक्षुश् चक्षुर् न तस्यास्ति सचक्षुषो ऽपि

18.37

दुःखप्रतीकारनिमित्तम् आर्तः कृष्यादिभिः खेदम् उपैति लोकः ।
अजस्रम् आगच्छति तच् च भूयो ज्ञानेन यस्याद्य कृतस् त्वयान्तः

18.38

दुःखं न मे स्यात् सुखम् एव मे स्याद् इति प्रवृत्तः स्ततं हि लोकः ।
न वेत्ति तच् चैव तथा यथा स्यात् प्राप्तं त्वयाद्यासुलभं यतावत्

18.39

इत्य् एवमादि स्थिरबुद्धिचित्तस् तथागतेनाभिहितो हिताय ।
स्तवेषु निन्दासु च निर्व्यपेक्षः कृताञ्जलिर् वाक्यम् उवाच नन्दः

18.40

अहो विशेषेण विषेषदर्शिंस् त्वयानुकम्पा मयि दर्षितेयम् ।
यत् कामपण्के भगवन् निमग्नस् त्रातो ऽस्मि संसारभयाद् अकामः

18.41

भ्रात्रा त्वया श्रेयसि दैशिकेन पित्रा फलस्थेन ततैव मात्रा ।
हतो ऽभविष्यं यदि न व्यमोक्ष्यं सार्थात् परिभ्रष्ट इवाकृतार्थः

18.42

शान्तस्य तुष्टस्य सुखो विवेको विज्ञातत्त्वस्य परीक्षकस्य ।
प्रहीणमानस्य च निर्मदस्य सुखं विरागत्वम् असक्तबुद्धेः

18.43

अतो हि तत्त्वं परिगम्य सम्यञ् निर्धूय दोषान् अधिगम्य शान्तिम् ।
स्वं नाश्रयं संप्रति चिन्तयामि न तं जनं नाप्सरसो न देवान्

18.44

इदं हि भुक्त्वा सुचि शामिकं सुखं न मे मनः कांषति काम्जं सुखम् ।
महार्हम् अप्य् अन्नम् अदैवाहृतं दिवौकसो भुक्तवतः सुधाम् इव

18.45

अहो ऽन्धविज्ञाननिमीलितं जगत् पटान्तरे पश्यति नोत्तमं सुखम् ।
सुधीरम् अध्यात्मसुखं व्यपास्य हि श्रमं तथा कामसुखार्थम् ऋच्छति

18.46

यथा हि रत्नाकरम् एत्य दुर्मतिर् विहाय रत्नान्य् असतो मणिन् हरेत् ।
अपास्य संबोधिसुखं तहोत्तमं श्रमं व्रजेत् कामसुखोपअब्धये

18.47

अहो हि सत्तेष्व् अतिमैत्रचेतसस् तथागतस्यानुजिघृक्षुता परा ।
अपास्य यद् ध्यानसुखं मुने परं परस्य दुःखोपरमाय खिद्यसे

18.48

मया न शक्यं प्रतिकर्तुम् अद्य किं गुरौ हितैषिण्य् अनुकम्पके त्वयि ।
समुद्धृतो येन भवार्णवाद् अहं महार्णवाच् चूर्णितनौर् इवोर्मिभिः

18.49

ततो मुनिस् तस्य निशम्य हेतुमत् प्रहीणसर्वास्रवसूचकं वचः ।
इदं बभाषे वदताम् अनुत्तमो यद् अर्हति श्रीघन एव भाषितुम्

18.50

इदं कृतार्थः परमार्थवित् कृती त्वम् एव धीमन्न् अभिधातुम् अर्हसि ।
अतीत्य कान्तारम् अवाप्तसाधनः सुदैशिकस्येव कृतं महावणिक्

18.51

अवैति बुद्धं नरदम्यसार्थिं कृती यथार्हन्न् उप्शान्तमानसः ।
न दृष्टसत्यो ऽपि तथावबुध्यते पृथग्जनः किं बत बुद्धिमान् अपि

18.52

रजस्तमोभ्यां परिमुक्तचेतसस् तवैव चेयं सदृसी कृतज्ञता ।
रजःप्रकर्षेण जगत्य् अवस्थिते कृतज्ञभावो हि कृतज्ञ दुर्लभः

18.53

अतो ऽस्ति भूयस् त्वयि मे विवक्षितं नतो हि भक्तश् च नियोगम् अर्हसि

18.54

अवाप्तकार्यो ऽसि परां गतिं गतो न ते ऽस्ति किं चित् करणीयम् अण्व् अपि ।
अतःपरं सौम्य चरानुकम्पया विमोक्षयन् कृच्छ्रगतान् परान् अपि

18.55

इहार्थम् एवारभते नरो ऽधमो विमध्यमस् तूभयलौकिकीं क्रियाम् ।
क्रियाम् अमुत्रैव फलाय मध्यमो विशिष्टधर्मा पुनर् अप्रवृत्तये

18.56

इहोत्तमेभ्यो ऽपि मतः स तूत्तमो य उत्तमं धर्मम् अवाप्य नैष्ठिकम् ।
अचिन्तयित्वात्मगतं परिश्रमं शमं परेभ्यो ऽप्य् उपदेष्टुम् इच्छति

18.57

विहाय तस्माद् इह कार्यम् आत्मनः कुरु स्थिरात्मन् परकार्यम् अप्य् अथो ।
भ्रमत्सु सत्त्वेषु तमोवृतात्मसु श्रुतप्रदीपो निशि धार्यताम् अयम्

18.58

ब्रवीतु तावत् पुरि विस्मितो जनस् त्वयि स्थिते कुर्वति धर्मदेशनाः ।
अहो बताश्चर्यम् इदं विमुक्तये करोति रागी यद् अयम् कथाम् इति

18.59

ध्रुवं हि संश्रुत्य तव स्थिरं मनो निवृत्तनानाविषयैर् मनोरथैः ।
वधूर् गृहे सापि तवानुकुर्वती करिष्यते स्त्रीषु विरागिणीः कथाः

18.60

त्वयि परमधृतौ निविष्टतत्त्वे भवनगता न हि रंस्यते ध्रुवं सा ।
मनसि शमदमात्मैके विविक्ते मतिर् इव कामसुखैः परीक्षकस्य

18.61

इत्य् अर्हतः परमकारुणिकस्य शास्तुर् मूर्ध्ना वचश् च चरणौ च समं गृहीत्वा ।
स्वस्थः प्रशान्तहृदयो विनिवृत्तकार्यः पार्श्वान् मुनेः प्रतिययौ विमदः करीव

18.62

भिक्षर्थं समये विवेश स पुरं दृष्टीर् जनस्याक्षिपन् लाभालाभसुखासुखादिषु समः स्वस्थेन्द्रियो निःस्पृहः ।
निर्मोक्षाय चकार तत्र च कथां काले जनायार्थिने नैवोन्मार्गगतान् परान् परिभवन् नात्मानम् उत्कर्षयन्

18.63

इत्य् एषा व्युपशान्तये न रतये मोक्षार्थगर्भा कृतिः श्रोतॄणां ग्रहणार्थम् अन्यमनसां काव्योपचारात् कृता ।
यन् मोक्षात् कृतम् अन्यद् अत्र हि मया तत् काव्यधर्मात् कृतं पातुं तिक्तम् इवौषधं मधुयुतं हृद्यं कथं स्याद् इति

18.64

प्रायेणालोक्य लोकं विषयरतिपरं मो क्षात् प्रतिहतं काव्यवाजेन तत्त्वं कथितम् इह मया मोक्षः परम् इति ।
तद् बुद्ध्वा शामिकं यत् तद् अवहितम् इतो ग्राह्यं न ललितं पांसुभ्यो धातुजेभ्यो नियतम् उपकरं चामीकरम् इति

मूल पाठ: Saundarānanda · Edition: Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980. · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc