भाषा

ENहिગુ
ग्रंथ पाठ

सौन्दरानन्द · अध्याय 17

17.1

सौन्दरननदे महाकाव्य आर्यसत्यव्याख्यानो नाम षोडशः सर्गः ।
चन्तो xविइ
अथैवम् आदेसिततत्त्वमार्गो नन्दस् तदा प्राप्तविमोक्षमार्गः ।
सर्वेण भावेन गुरौ प्रणम्य क्लेशप्रहाणाय वनं जगाम

17.2

तत्रावकाशं मृदुनीलशष्पं ददर्श सान्तं तरुषण्डवन्तम् ।
निःशब्दया निम्नगयोपगूढं वैडूर्यनीलोदकया वहन्त्या

17.3

स पादयोस् तत्र विधाय शौचं शुचौ शिवे श्रीमति वृक्षमूले ।
मोक्षाय बद्ध्वा व्यवसायकषां पर्यङ्कम् अङ्कावहितम् बबन्ध

17.4

ऋजुं समग्रं प्रणिधाय कायं कावे स्मृतिं चाभिमुखीं विधाय ।
सर्वेन्द्रियाण्य् आत्मनि संनिधाय स तत्र योगं प्र्यतः प्रपेदे

17.5

ततः स तत्त्वं निखिलं चिकीषुर् मोक्षानुकूलांश् च विधींश् चिकीर्षन् ।
ज्ञानेन लोक्येन शमेन चैव चचार चेतःपरिकर्मभूमौ

17.6

संधाय धैर्यं प्रणिधाय वीर्यं व्यपोह्य सक्तिं परिगृह्य शक्तिम् ।
प्रशान्तचेता नियमस्थचेताः स्वस्थस् ततो ऽभूद् विषयेष्व् अनास्थः

17.7

आतप्तबुद्धेः प्रहितात्मनो ऽपि स्वभ्यस्तभावाद् अथ कामसंज्ञा ।
पर्याकुलं तस्य मनश् चकार प्रावृट्सु विद्युज् अलम् आगतेव

17.8

स पर्यवस्थानम् अवेत्य सद्यश् चिक्षेप तां धर्मविघात्गकर्त्रीम् ।
प्रियाम् अपि क्रोधपारितचेता नारीम् इवोद्वृत्तगुणां मनस्वी

17.9

आरब्धवीर्यस्य मनःशमाय भूयस् तु तस्याकुशलो वितर्कः ।
व्याधिप्रणाशाय निविष्टबुद्धेर् उपद्रवो घोर इवाजगाम

17.10

स तद्विघाताय निमित्तम् अन्यद् योगानुकूलं कुशलं प्रपेदे ।
आर्तायनं स्क्षीणबलो बल्स्थं निरस्यमानो बलिनारिणेव

17.11

पुरं विधायानुविधाय दण्डं मित्राणि संगृह्य रिपून् विघृह्य ।
राजा यथाप्नोति हि गाम् अपूर्वां नीतिर् मुकुक्षोर् अपि सैव योगे

17.12

विमोक्षकामस्य हि योगिनो ऽपि मनः पुरं ज्णानविधिश् च दण्डः ।
गुणाश् च मित्राण्य् अरयश् च दोषा भूमिर् विमुक्तिर् यतते यदर्थम्

17.13

स दुःखजालान् महतो मुकुक्षुर् विमोक्षमार्गाधिगमे विविक्षुः ।
पन्थानम् आर्यं परमं दिदृक्षुः शमं ययौ किं चिद् उपात्तचक्षुः

17.14

यः स्यान् निकेतस् तमसो ऽनिकेतः श्रुत्वापि तत्त्वं स भवेत् प्रमत्तः ।
यस्मात् तु मोक्षाय स पात्रभूतस् तस्मान् मनः स्वात्मनि संजहार

17.15

संभारतः प्रत्ययतः स्वभावाद् आस्वादतो दोषविशेषतश् च ।
अथात्मवान् निःसरणात्मतश् च धर्मेषु चक्रे विधिवत् परीक्षाम्

17.16

स रूपिणं कृत्स्नम् अरूपिणं च सारं दिदृक्षुर् विचिकाय कायम् ।
अथाशुचिं दुःखम् अनित्यम् अस्वं निरात्मकं चैव चिकाय कायम्

17.17

अनित्यतस् तत्र हि शून्यतश् च निरात्मतो दुःखत एव चापि ।
मार्गप्रवेकेण स लौकिकेन क्लेशद्रुमं संचलयां चकार

17.18

यस्माद् अभूत्वा भवतीह सर्वं भूत्वा च भूयो न भवत्य् अवश्यम् ।
सहेकुतं च क्षयिहेतुमच् च तस्माद् अनित्यं जगद् इत्य् अविन्दत्

17.19

यतः प्रसूतस्य च कर्मयोगः प्रसज्यते बन्धविघातहेतुः ।
दुःखप्रतीकारविधौ सुखाख्ये ततो भवं दुःखम् इति व्यपश्यत्

17.20

यतश् च संस्करागतं विविक्तं न कारकः कश् चन वेदको वा ।
सामग्र्यथः संभवति प्रवृत्तिः शून्यं ततो लोकम् इमं ददर्श

17.21

यस्मान् निरीहं जगद् अस्वतन्त्रं नैश्वर्यम् एकः कुरुते क्रियासु ।
तत् तत् प्रतीत्य प्रभवन्ति भावा निरात्मकं तेन विवेद लोकम्

17.22

ततः स वातं व्यजनाद् इवोष्णे काष्ठाश्रितं निर्मथनाद् इवाग्निम् ।
अन्तःक्षितिस्थं खननाद् इवाम्भो लोकत्तरं वर्तिम दुरापम् आप

17.23

सज्ज्ञानचापः स्मृतिवर्म बद्ध्वा विशुद्धशीलव्रतवाहनस्थः ।
क्लेशारिभिश् चित्तरणाजिरस्थैः सार्धं युयुस्त्सुर् विजयाय तस्थौ

17.24

ततः स बोध्यङ्गशितात्तशस्त्रः सम्यक्प्रधानोत्तमवाहनस्थः ।
मार्गाङ्गमातङ्गवता बलेन शनैः शनैः क्लेशचुमूं जगाहे

17.25

स स्मृत्युपस्थानमयैः पृषत्कैः शत्रून् विपर्यासमयान् क्षणेन ।
दुःखस्य हेतूंश् चतुरश् चतुर्भिः स्वैः स्वैः प्रचारायतनैर् ददार

17.26

आर्यैर् बलैः पञ्चभिर् एव पञ्च चेतःखिलान्य् अप्रतिमैर् बभञ्ज ।
मिथ्याञ्गनागांश् च तथाङ्गनागैर् विनिर्दुधावाष्टभिर् एव सो ऽष्टौ

17.27

अथात्मदृष्टिं सकलां विधूय चतुर्षु सत्येष्व् अकथं कथः सन् ।
विशुद्धशीलव्रतदृष्टधर्मा धर्मस्य पूर्वां फलभूमिम् आप

17.28

स दर्शनाद् आर्यचतुष्टयस्य क्लेशैकदेशस्य च विप्रयोगात् ।
प्रत्यात्मिकाच् चापि विशेषलाभात् प्रत्यक्षतो ज्ञानिसुखस्य चैव

17.29

दार्ढ्यात् प्रसादस्य धृतेः स्थिरत्वात् सत्येष्व् असंमूढतया चतुर्षु ।
शीलस्य चाच्छिद्रतयोत्तमस्य निःसंशयो धर्मविधौ बभूव

17.30

कुदृष्टिजालेन स विप्रयुक्तो लोकं तथाभूतम् अवेक्षमाणः ।
ज्ञानाश्रयां प्रीतिम् उपाजगाम भूयः प्रसादं च गुराव् इयाय

17.32

यो हि प्रवृत्तिं नियताम् अवैति नैवान्यहेतोर् इह नाप्य् अहेतोः ।
प्रतीत्य तत् तत् समवैति तत् तत् स नैष्ठिकं पश्यति यश् च धर्मम् ।
तस्योपदेष्टारम् अथार्यवर्यं स प्रेक्षते बुद्धम् अवाप्तचक्षुङ्

17.33

यथोपदेशेन शिवेन मुक्तो रोगाद् अरोगो भिषजं कृतज्ञः ।
अनुस्मरन् पश्यति चित्तदृष्ट्या मैत्र्या च शास्त्रज्ञतया च तुष्टः

17.34

आर्येण मार्गेण तथैव मुक्तस् तथागतं तत्त्वविद् आर्यतत्त्वः ।
अनुस्मरन् पश्यति कायसाक्षी मैत्र्या च सर्वज्ञतया च तुष्टः

17.35

स नाशकैर् दृष्टिगतैर् विमुक्तः पर्यन्तम् आलोक्य पुनर्भवस्य ।
भक्त्वा घृणां क्लेशविजृम्भितेषु मृत्योर् न तत्रास न दुर्गतिभ्यः

17.36

त्वक्स्नायुमेदोर्दुहिरास्थिमांसकेशादिनामेध्यगणेन पूर्णम् ।
ततः स कायं समवेक्षमाणः सारं विचिन्त्याण्व् अपि नोपलेभे

17.37

स कामरागप्रतिघौ स्थिरात्मा तेनैव योगेन तनू चकार ।
कृत्वा महोरस्कतनुस् तनू तौ प्राप द्वितीयं फलम् आर्यधर्मे

17.38

स लोभचापं परिकल्पबाणं रागं महावैरिणम् अल्पशेषम् ।
कायस्वभावाधिगतैर् बिभेद योगायुधास्त्रैर् अशुभापृषत्कैः

17.39

द्वेषायुधं क्रोधविकीर्णबाणं व्यापादम् अन्तःप्रसवं सपत्नम् ।
मैत्रीपृषत्कैर् धृतितूणसंस्थैः क्षमाधनुर्ज्याविसृतैर् जघान

17.40

मूलान्य् अथ त्रीण्य् आसुधस्य वीरस् त्रिभिर् विमोक्षायतनैश् चकर्त ।
चमूमुखस्थान् धृतकार्मुकांस् त्रीन् अरीन् इवारिस् त्रिभिर् आयसाग्रैः

17.41

स कामधातोः सम्तिक्रमाय पार्ष्णिग्रहांस् तान् अभिभूय शत्रून् ।
योगाद् अनागामिफलं प्रपद्य द्वारीव निर्वाञपुरस्य तस्थौ

17.42

कामैर् विकितं मलिनैश् च धर्मैर् वितर्कवच् चापि विचारवच् च ।
विवेकजं प्रीतिसुखोपपन्नं ध्यानं ततः स प्रथमं प्रपेदे

17.43

कामाग्निधाहेन स विप्रमुक्तो ह्लादं परं ध्यानसुखाद् अवाप ।
सुखं विगाह्याप्स्व् इव घर्मखिन्नः प्राप्येव चार्थं चिपुलं दरिद्रः

17.44

तत्रापि तद्धर्मगतान् वितर्कान् गुणागुणे च प्रसृतान् विचारान् ।
बुद्ध्वा मनःक्षोभकरान् अशान्तांस् तद्विप्रयोगाय मतिं चकार

17.45

क्षोभं प्रकुर्वन्ति यथोर्मयो हि धीरप्रसन्नाम्बुवहस्य सिन्धोः ।
एकाग्रभूतस्य तह्तोर्मिभूताश् चित्ताम्भसः क्षोभकरा वितर्काः

17.46

खिन्नस्य सुप्तस्य च निर्वृतस्य बाधं यथा संजनयन्ति शब्दाः ।
अध्यात्मम् ऐकाग्र्यम् उपागतस्य भवन्ति बाधाय तथा वितर्काः

17.47

अथावितर्कं क्रमशो ऽविचारम् एकाग्रभावान् मनसः प्रसन्नम् ।
समाधिजं प्रीत्सुखं द्वितीयं ध्यानं तद् आध्यात्मशिवं स दध्यौ

17.48

तद् ध्यानम् आगम्य च चित्तमौनं लेभे परां प्रीतिम् अलब्धपूर्वाम् ।
प्रीतौ तु तत्रापि स दोषदर्शी यथा वितर्केष्व् अभवत् तथैव

17.49

प्रीतिः परा वस्तुनि यत्र यस्य विपर्ययात् तस्य हि तर दुःखम् ।
प्रीताव् अतः प्रेक्ष्य स तत्र दोषान् प्रीतिक्षये योगम् उपारुरोह

17.50

प्रीतेद्र् विरागात् सुखम् आर्यजुष्टं कायेन विन्दन्न् अथ संप्रजानन् ।
उपेक्षकः स स्मृतिमान् व्यहार्षीद् ध्यानं तृतीयं प्रतिलभ्य धीरः

17.51

यस्मात् परं तत्र सुखं सुखेभ्यस् ततः परं नास्ति सुखप्रवृत्तिः ।
तस्माद् बभाषे शुभकृत्स्नभूमिं परापरज्ञः परमेति मैत्र्या

17.52

ध्याने ऽपि तत्राथ ददर्श दोषं मेने परं शान्तम् अनिञ्जम् एव ।
आभोगतो ऽपीञ्जयति स्म तस्य चित्तं प्रवृत्तं सुखम् इत्य् अजस्रम्

17.53

यत्रेञ्जितं स्पन्दितम् अस्ति तत्र यत्रास्ति च स्पन्दितम् अस्ति दुःखम् ।
यस्माद् अतस् तत् सुखम् इञ्जकत्वात् प्रशान्तिकामा यतयस् त्यजन्ति

17.54

अथ प्रहाणात् सुखदुःखयोश् च मनोविकारस्य च पूर्वम् एव ।
दध्याव् उपेक्षामृतिमद् विशुद्धं ध्यानं तथादुःखसुखं चतुर्थम्

17.55

यस्मात् तु तस्मिन् न सुखं न दुःखं ज्ञानं च तत्रास्ति तद् अर्थचारि ।
तस्माद् उपेक्षास्मृतिपारिशुद्धिर् निरुच्यते ध्यानविधौ चतुर्थे

17.56

ध्यानं स निश्रित्य ततश् चतुर्थम् अर्हत्त्वलाभाय मतिं चकार ।
संधाय मैत्रं बलवन्तम् आर्यं राजेव देशान् अजितान् जिगीषुः

17.57

चिच्छेद कार्त्स्न्येन ततः स पञ्च प्रज्ञासिना भावनयेरितेन ।
ऊर्ध्वङ्गमान्य् उत्तमबन्धनानि संयोजनान्य् उत्तमबन्धनानि

17.58

बोध्यङ्गनागैर् अपि सप्तभिः स सप्तैव चित्तानुशयान् ममर्द ।
द्वीपान् इवोपस्थितविप्रणाशान् कालो ग्रहैः सप्तभिर् एव सप्त

17.59

अग्निद्रुमाज्याम्बुषु या हि वृत्तिः कवन्धवाव्यग्निदिवाकराणाम् ।
दोषेषु तां वृत्तिम् इयाय नन्दो निर्वापणोत्पाटनदाहशोषैः

17.60

इति त्रिवेगं त्रिझषं त्रिवीचम् एकाम्भसं पञ्चरयं द्विकूलम् ।
द्विग्राहम् अष्टाङ्गवता प्लवेन दुःखार्णवं चुस्तरम् उत्ततार

17.61

अर्हत्त्वम् आसाद्य स सत्क्रियार्हो निरुत्सुको निष्प्रणयो निराशः ।
विभीर् विषुग् वीतमदो विरागः स एव धृत्यान्य इवाबभासे

17.62

भ्रातुश् च शास्तुश् च तयानुशिष्ट्या नन्दस् ततः स्वेन च विक्रमेण ।
प्रशान्तचेताः परिपूर्णकार्यो वाणीम् इमाम् आत्मगतां जगाद

17.63

नमो ऽस्तु तस्मै सुगताय येन हितैषिणा मे करुणत्मकेन ।
बहूनि दुःखान्य् अपवर्तितानि सुखानि भूयांस्य् उपसंहृतानि

17.64

अहं ह्य् अनार्येण शरीरजेन दुःखात्मके वर्त्मनि कृष्यमाणः ।
निवर्तितस् तद्वचनाङ्कुषेन दर्पान्वितो नाग इवाङ्कुशेन

17.65

तस्याज्ञया कारुणिकस्य शास्तुर् हृदिस्थम् उत्पाट्य हि रागशल्यम् ।
अद्यैव तावत् सुमहत् सुखं मे सर्वक्षये किं बत निर्वृतस्य

17.66

निर्वाप्य कामाग्निम् अहं हि दीप्तं धृत्यम्बुना पावकम् अम्बुनेव ।
ह्लादं परं सांप्रतम् आगतो ऽस्मि शीतं ह्रदं घर्म इवावतीर्णः

17.67

न मे प्रियं किं चन नाप्रियं मे न मे ऽनुरोधो ऽस्ति कुतो विरोधः ।
तयोर् अभावात् सुखितो ऽस्मि सद्यो हिमातपाभ्याम् इव विप्रमुक्तः

17.68

महाभयात् क्षेमम् इवोपलभ्य महावरोधाद् इव विप्रमोक्षम् ।
महार्णवात् पारम् इवाप्लवः सन् भीमान्धकाराद् इव च प्रकाशम्

17.69

रोगाद् इवारोग्यम् असह्यरूपाद् ऋणाद् इवानृण्यम् अनन्तसंख्यात् ।
द्विषत्सकाशद् इव चापयानं दुर्छिक्षयोगाच् च यथा सुभिक्षम्

17.70

तद्वत् परां शान्तिम् उपागतो ऽहं यस्यानुभावेन विनायकस्य ।
करोमि ब्ःऊयः पुनर् उक्तम् अस्मै नमो नमो ऽर्हाय तथागताय

17.71

येनाहं गिरिम् उपनीय रुक्मशृङ्गं स्वर्गं च प्लवगवधूनिदर्शनेन ।
कामात्मा त्रिदिवचरीभिर् अङ्गनाभिर् निष्कृष्टो युवतिमये कलौ निमग्नः

17.72

तस्माच् च व्यसनपराद् अनर्थपङ्काद् उत्कृष्य क्रमशिथिलः करीव पङ्कात् ।
शान्ते ऽस्मिन् विरजसि विज्वरे विशोके सद्धर्मे वितमसि नैष्ठिके विमुक्तः

17.73

तं वन्दे परम् अनुकम्पकं महर्षिं मूर्ध्नाहं प्रकृतिगुणज्ञम् आशयज्ञम् ।
संबुद्धं दशबलिनं भिषक्प्रधानं त्रातारं पुनर् अपि चास्मि संनतस् तम्

मूल पाठ: Saundarānanda · Edition: Seiren Matsunami. Memyo: Tanseinaru Nanda. Tokyo 1980. · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc