सत्यसिद्धिशास्त्रम् · भाग 4148
(पृ) कथं मरणसंज्ञां भावयेत् । (उ) सर्वमनित्यमिति पूर्वं सामान्यत उक्तम् । इदानीन्तु कायो ऽनित्य इति मात्रं भावयेत् । स्कन्धानां सन्तानसमुच्छेदो मरण संज्ञेत्युच्यते । कायो ऽयं बाह्यवस्त्वपेक्षयाप्यनित्यतरः । तद्यथा मृण्मये घटे ऽध्रुवलक्षणम् । तदप्यतिक्रान्तो ऽयं काय इति योगी भावयति । कस्मात् । मृण्मयो ऽयं घटो यदि [सम्यक्] प्रयोगपालितः कदाचित् चिरं तिष्ठेत् । अयं कायस्तु चिरतमं तिष्ठमानो न वत्सरशतमतिक्रामति । अध्रुवत्वान्मरणसंज्ञामनुस्मरेत् । किञ्चायं कायः परिपन्थिधर्मैः सम्बहुलः यदुताशिशस्त्रगदावधकचोरप्रपातपानभोजनापरिपाचनातिशीतातिघर्मवातव्याधयः । संक्षेपतः सर्वे सत्त्वा असत्त्वाश्च कायस्य परिपन्थिनो धर्मा द्रष्टव्याः । अतो भावयेन्मरणसंज्ञाम् ।
किञ्च योगी पश्यति कायः क्षणिकनित्यो विपरिणामलक्षणो नैकं क्षणमप्यारक्ष्य इति । अतो मरणसंज्ञां भावयति । योगी दृष्टधर्मे च पश्यति बाल्ययौवनवार्धक्यानि सव्याधीनि निर्व्याधीनि वा न मरणपरिहारीणीति । एवं कायेनापि भवितव्यमित्यनुस्मृत्य मरणसंज्ञां भावयति । किञ्च योगी पश्यति अनियतविपाकं कर्म । न सर्वकर्माणि क्षीयन्ते आयुर्वर्षशतैरपि । कर्मणो ऽनियतत्वान्मरणमप्यनियतं इति । अतो मरणसंज्ञामनुस्मरेत् । अनादौ च संसारे ऽस्ति कर्माप्रमाणम । अस्ति किञ्चित्कर्म अन्यकर्मणो वरणकम् । ममापि भवेदकालिकमरणकर्म । इति कथमस्मिन्नायुषि[योगी] श्रद्दधीत । किञ्च योगी पश्यति मरणमतिप्रभविष्णु, न सान्त्ववचनेनोल्लापनीयं धनेनानुनेयं विग्रहेण वा मोचनीयम् । यथा महति शैले चतुर्भ्यो दिग्भ्य आगते नास्ति पलायनस्थानम् ।
(पृ) यदि कश्चिद्यमं सन्तपर्यति । तदा मरणान्मुच्यते । (उ) अयं बालो मूढ[एवं] वदति । यमः प्राणिनामुत्पादने वधे चास्वतन्त्रबलः । केवलं परामृशति किं कुशलचारी किं वाकुशलचारीति । विपाकवेदनायां क्षीयमाणायां हिंस्रककायप्रत्ययं म्रियते । अतो योगी कायो ऽनिश्रयो ऽशरणो मरणवर्त्मगत इति पश्यन् मरणसंज्ञामनुस्मरति । किञ्च योगी सदा पश्यति कायो ऽयं जराव्याधिपरिपीडितो ऽध्रुवस्वभावः प्रतिक्षणमुत्पन्नविनाशी ( स्स्स्_443 ) विज्ञानसन्तानविनष्ट इत्यतो मरणसंज्ञां भावयति । किञ्चायं योगी पश्यति मरणं नियतं जीवितमनियतम् । अनियतान्नियतं विशिष्यत इत्यतो मरणसंज्ञां भावयति ।
(पृ) कस्मात् जराव्याध्यादिसंज्ञा अनुक्त्वा मरणसंज्ञामात्रमुच्यते । (उ) जराव्याध्यभिभूतः पुरुषो न परिक्षीयते । व्याधिर्बलं हरति जरा यौवनं हरति । ज्ञातिसालोहितो धनमन्यच्च[हरति] । कायस्तु तथापि तिष्ठति । मरणं पुनः सर्वमपहरति । जराव्याध्यादि च मरणस्य प्रत्ययः । अतो न पृथगुच्यते । उक्तञ्च सूत्रे- मरणं नाम महातामस्त्रम् अरश्मिकमरक्षणम् असहायकमनुपस्थापकं परमभयस्थानं इति । अतो मरणसंज्ञामनुस्मरेत् । किञ्च सत्त्वा मरणप्रत्ययं परलोकाद्विभ्यति । त्रैधातुके सर्वस्यास्ति मरणं न तथा जरा व्याधिश्च ।
(पृ) यदि सत्त्वान् विहाय नास्ति मरणसंज्ञा । सत्त्वा एव प्रज्ञप्तिसन्तः । योगी कस्मादिमां संज्ञां भावयति । (उ) विनश्वरसत्त्वलक्षण[ज्ञान]विहीनो मरणाद्विभेति । यो मरणसंज्ञां भावयति । न स बिभेति । अतो भावयेत् । अनित्यसंज्ञादयो मार्गस्य प्रत्यासन्नाः । अशुभाहारे प्रतिकूलमरणसंज्ञादयो मार्गविप्रकृष्टाः । मार्गप्रतिलाभी ईदृशसंज्ञया चित्तं प्रगृह्णाति ।
मरणसंज्ञावर्ग एकोनाशीत्त्युत्तरशततमः ।
180 अन्तिमसंज्ञात्रितयवर्गः
प्रहाणसंज्ञेति । यथा चतुर्षु सम्यक्प्रधानेषूक्तम्- उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय [छन्दं जनयति व्यायमति]वीर्यमारभते । [चित्तं प्रगृह्णाति प्रदधाति] इति । इमे च पापका अकुशला धर्मा नरकादिदुःखक्लेशानां प्रत्ययाः । पापकीर्तिशब्दानां चित्तपरितापादिदुःखानाञ्च मूलम् । तस्मात्प्रजह्यात् ।
(पृ) कथं प्रजहाति । (उ) धर्माणामकरणं प्रतिब्धस्तस्मिन् समये प्रजहाति । अयोनिशो मनस्कारः कामरागादीनां क्लेशानां प्रत्ययः । तन्मनस्कारप्रहाणात् ते धर्माः प्रहीयन्ते । (पृ) इमां प्रहाणसंज्ञां भावयन् किं हितं विदन्ते । (उ) तां संज्ञां भावयन् सदा न पापकान् धर्माननुवर्तते । कर्तव्य[मेव] करोति । अष्टावक्षणांश्च वर्जयति । पुरुषस्यात्महितं यदुतक्लेशानां प्रहाणम् । क्लेशप्रहाणाभिरति धर्मची वरसंवृतलिङ्गस्य प्रव्रजितस्य हितम् तया नोचेत् स्वकायमेव मन्येत । यदि योगी प्रहाणसंज्ञाभावनायामभिरतः, तदा बुद्धे धर्मपूजां करोति ।
विरागसंज्ञा निरोधसंज्ञा इति । रागे चात्यन्तानुत्पन्ने विरागो भवति । तद्विरागानुस्मरणमेव विरागसंज्ञा । (पृ) प्रहाणसंज्ञैव विरागसंज्ञेति मतम् । कस्मात्पुनरुच्यते । (उ) प्रहाणाल्लभ्यते विरागम् । प्रहाणं नाम कामरागस्यापनयनम् । यथोक्तं सूत्रे- कामरागस्य प्रहाणात् पञ्चस्कन्धाः प्रहीयन्ते इति । प्रहाणसंज्ञा च विरागसंज्ञा । कस्मात् । तस्मिन् समये नास्ति कामः, तस्य धर्मस्य प्रहाणं भवति । अतो विरागसंज्ञालाभिनो दुःखक्लेशाः निरुध्यन्ते । यथोक्तं सूत्रे- वीतरागो विमुच्यते इति । विमुक्तिलाभ एव प्रहाणम् । अनुपधिशेष[निर्वाणं] प्रविष्ठस्य निरोधो भवति । उक्तञ्च सूत्रे- त्रयः स्वभावाः प्रहाणस्वभावो विरागस्वभावो निरोधस्वभाव इति । यदुच्यते प्रहाणस्वभावो विरागस्वभाव इति तदर्हत एव भवति । स हि प्रहीणसर्वक्लेशस्त्रैधातुकविरक्तः सोषधिशेषनिर्वाणे तिष्ठति । यदुच्यते निरोधस्वभाव इति तदायुषो ऽन्ते जीवितव्यपगमे प्रहीणसन्तानस्य । निरुपधिशेषनिर्वाणं समापन्नस्यैव भवति ।
अस्ति च द्विधा विमुक्तिः प्रज्ञाविमुक्तिश्चेतोविमुक्तिरिति । यदभिहितं प्रहाणमिति तत् अविद्यां प्रजहातीति प्रज्ञा विमुच्यते । यद्विराग इति तत् तृष्णां विवर्जयतीति चेतो विमुच्यते । द्वयोर्विमुक्तयोः फलं निरोधो भवति । यत्प्रहाणसंज्ञेत्यभिधानं तदेवाविद्यास्रवप्रहाणस्याभिधानं यन्निरोधसंज्ञेति तदनयोर्द्वयोः फलम् । यथोक्तं सूत्रे- सर्वसंस्काराणां प्रहाणात् प्रहाणम् । सर्वसंस्कारेषु विरागाद्विरागः । सर्वसंस्काराणां निरोधात् निरोध इति । तथा चेमे त्रय एकस्यैव नामान्तरम् । यो ऽनित्यसंज्ञां ( स्स्स्_445 ) यावन्निरोधसंज्ञां भावयति स कृतसर्वकृत्यो निरुद्धसर्वक्लेशः प्रहीणस्कन्धसंयोजनसन्ततिर्निरुपधिशेषनिर्वाणं समापद्यते ।
अन्तिमसंज्ञात्रितयवर्गो ऽशीत्युत्तरशततमः ।
181 समाधिपरिष्कारेषु आद्यपञ्चसमाधिपरिष्कारवर्गः
(पृ) पूर्वमुक्तं भवता- मार्गसत्यं [द्विविधं] यत् समाधिः तत्परिष्कारश्चेति । तत्र समाधिरुक्तः । समाधिपरिष्कार इदानीं वक्तव्यः । यस्मात् सति समाधिपरिष्कारे समाधिः सिध्यति न त्वसति । (उ) समाधिपरिष्कारा य एकादशधर्माः- (1) परिशुद्धशीलता, (2) अभिसम्बोधिप्रतिलाभः, (3) इन्द्रिये गुप्तद्वारता, (4) भोजने मात्रज्ञता, (5) रात्र्या आद्यान्तिमभागे जागरणता, (6) कुशलवितर्कसम्पन्नता, (7) कल्याणाधिमुक्तिसम्पन्नता, (8) प्रधानीयाङ्गसम्पन्नता, (9) विमुक्त्यायतनसम्पन्नता, (10) अनावरणता, (11) अनासङ्गिता इति ।
परिशुद्धशीलतेति । अकुशलकर्मणो विरतिः शीलम् । अकुशलकर्माणि यानि प्राणातिपातादत्तादानकाममिथ्याचाराणि त्रीणि कायिककर्माणि । मृषावाद पिशुनवाचा परुषवाचा सम्प्रलाप इतीमे चत्वारि वाचिककर्माणि । एभ्यः पापकेभ्यो विरतिः शीलम् । वन्दनप्रत्युद्गमनानुव्रजनपूजादिसद्धर्माचरणमपि शीलमित्युच्यते । शीलं समाधिहेतुं करोतीति समादीयते । तथा हि तद्यथा सुवर्णकारः पूर्वं स्थूलमलमपनयति । एवं प्रथमतः शीलसमादानेन स्थूलान् शीलदोषानपनयति । पश्चात्समाध्यादिना अन्यान् सूक्ष्मदोषानपनयति । यस्मादसति शीलसमादाने ध्यानसमाधिर्न भवति । शीलसमादान प्रत्ययात्तु ध्यानसमाधिः सुलभो भवति । यथोक्तं सूत्रे- शीले मार्गस्य मूलं ( स्स्स्_446 ) सोपानञ्चेति । किञ्चाह- शील प्रथमरथ[विनीत]म् इति । प्रथमं रथ[विनीत]मनभिरुह्य द्वितीयं रथ[विनीतं]कथमभिरोहति । अपि चाह- शीलं समा भूमिः । इमां समां भूमिं व्यवस्थाप्य चत्वारि सत्यानि पश्यति इति । आह च- द्वे बले । [कतमे द्वे ।] प्रतिसंख्याबलं भावनाबलञ्चेति । प्रतिसंख्याबलं शीलसमादानमेव । भावनाबलं मार्गः । पूर्व शीलभेदापत्तिं शीलसमादानहितञ्च प्रतिसंख्यया विचार्य शीलं समादत्ते । पश्चात् प्रतिलब्धमार्गः पापकात्प्रकृत्या विरमति । किञ्चाह- शीलं बोधिवृक्षस्य मूलमिति । असति मूले नास्ति वृक्षः । अतः परिशुद्धशीलावश्यकी ।
धर्म[ता] च तथैव स्यात् । असति शीलसमादाने न भवति ध्यानसमाधिः । तद्यथा व्याधिचिकित्साया औषधमपेक्ष्यते । तथा क्लेशव्याधिचिकित्साया असति शीले न सम्पद्यत औषधम् । आह च- परिशुद्धशीलस्य चित्तं नानुतप्यति । यावद्विरक्तचित्तो विमुच्यत इति । इमे सर्वे गुणाः शीलसमादानाधीनाः । अतः समाधिपरिष्कार इत्युच्यते ।
अस्ति च कर्मावरणं, क्लेशावरणं, अनयोर्द्वयोः फलं विपाकावरणम् । परिशुद्धशीलस्येमानि त्रीण्यावरणानि न भवन्ति । अनावृतचित्तस्य समाधिः सिध्यति । परिशुद्धशीलो न विक्षिपतीत्यतो नियमेन निर्वाणमधिगच्छति गङ्गास्रोतसि दारुस्कन्धवत् । परिशुद्धशीलसमादानात् व्यवस्थां करोति । शीलसमादानं कायिकं वाचिकमकुशलं कर्म प्रतिषेधयति । ध्यानसमापत्तिर्मानसमकुशलं कर्म प्रतिषेधयति । एवं क्लेशानां प्रतिषेधे प्रतिलब्धतत्त्वज्ञानस्यात्यन्तिकप्रहाणं भवति ।
मार्गवर्गे ऽसकृद्दर्शितं शीलं स्तम्भभूतमिति । ध्यानसमाधिचित्तनगरस्य शीलं परिघा भवति । संसारौघतरणस्य शीलं सेतुः । सज्जनपरिषदि प्रवेशस्य शीलं मुद्रा । अष्टाङ्गिकार्यक्षेत्रस्य शीलं पारभूतम् । यथा पाररहिते क्षेत्रे जलं न तिष्ठति । एवं परिशुद्धशीले ऽसति समाधिजलं न तिष्ठति । (पृ) कः परिशुद्धशीलः । (उ) यो गोगी पापक्रियानभिरताध्याशयः परलोकपरिवादादिभ्यो बिभ्यति । [स] परिशुद्धशील इत्युच्यते । किञ्च योगी चित्तविशुद्धये परिशुद्धशीलो भवति । यथोक्तं सप्तमैथुनरागसूत्रे- काये ऽनापत्तिके ऽपि चित्तमपरिशुद्धमित्यतः शीलमप्यपरिशुद्धमिति । शीलभेदप्रत्ययाः ( स्स्स्_447 ) सर्वे क्लेशाः । तेषां प्रग्रहे परिशुद्धशीलो भवति । श्रावकाणां शीलं निर्वाणार्थमेव । तथागतमार्गार्थी महाकरुणाचित्तेन सर्वसत्त्वानां कृते न शीललक्षणं समादत्ते । शीलमिदं [तथा] करोति यथा बोधिस्वभावो भवति । ईदृशं शीलं परिशुद्धमित्युच्यते ।
अभिसम्बोधिरिति । उक्तं हि सूत्रे- द्वौ खल्वायुष्मन् प्रत्ययौ सम्यक्दृष्टेरुत्पादाय परतो घोषो योनिशो मनस्कार इति । परतो घोष एवाभिसम्बोधिः । (पृ) तथा चेत् अभिसम्बोधिमात्रमुच्यते । (उ) उक्तं हि सूत्रे- [अन्यतरो] ऽर्हन् भगवन्तं पृच्छति स्म एकान्ते निषण्णस्य मम एवमभवत्- अभिसम्बोधिसम्पदा तु मार्गप्रतिलाभस्य विकलः प्रत्यय इति । भगवानवोचत् । मैवं वोचः याभिसंबोधिः सा तु मार्गस्य प्रतिलाभस्य सकलः प्रत्ययः । कस्मात् । जातिजराव्याधिमरणाः सत्त्वा आत्मनो ऽभिसम्बोधिं लभमाना हि जातिजराव्याधिमरणेभ्यो विमुच्यन्ते इति । सत्त्वाः सम्बोधिमुपादाय शीलादीन् पञ्चधर्मात् विपुलयन्ति । तद्यथा सालवृक्षो हिमवन्तमुपादाय पञ्च वस्तूनि वर्धयति । भगवान् स्वयमेव सम्बोध्यभिरतः । यथा प्रथममार्गलब्धस्यैवमभवत्- यदि कश्चिदगुरः, तदा सो ऽपरित्रासो ऽसत्कारचित्तः सदा अकुशलधर्मविपर्यस्तो ऽनुपशमचर्यश्च भवति । केनाचार्यवान् स्याम् । कमुपनिश्रित्य तिष्ठामि । एवं चिन्तयन् सर्वान् मत्तो ऽविशिष्ठानद्राक्षम् । तदैव स्मृतिरुदपादि प्रतिलब्धो मया धर्मः यमुपादायाभिसम्बुद्धः तमेव धर्ममुपनिश्रयिष्य इति । ब्रह्मादयो देव अपि प्राशंसन् नास्ति कश्चित् बुद्धाद्विशिष्टः, सर्वे बुद्धाः सद्धर्मगुरुका इति । अभिसम्बोधिश्च प्रदीपसदृशा । ( स्स्स्_448 ) यथा कश्चित् सचक्षुष्को ऽपि प्रदीपं विना न पश्यति । तथा योगिनः पुण्यगुणतीक्ष्णेन्द्रियताप्रत्यये सत्यपि अभिसम्बोधिं विना न भवति कश्चनोपकारः । (पृ) का नामाभिसम्बोधिः । (उ) येन पुरुषः सद्धर्मान् वर्धयति साभिसम्बोधिः । सर्वे च सज्जनाः सद्धर्मे प्रतितिष्ठन्ति [इति सा] सर्वा देवमनुष्यलोकेष्वभिसम्बोधिः ।
(3) इन्द्रियेषु गुप्तद्वारतेति या सम्यक् स्मृतिः । योगी स्वात्मानमनारक्ष्य न पश्यति । एकाग्रचित्तः सम्यक् स्मृतिं पुरस्कृत्यैव पश्येत् । संप्रजन्यमिति च [तस्य] नाम । अनेन सम्प्रजन्येन पुरोतमालम्बनं पर्यादाति । तत्पर्यादानान्न निमित्तमुद्गृह्णाति । निमित्तानुद्ग्रहणात् न प्रज्ञप्तिमनुसरति । इन्द्रियाणामगोपने निमित्तोद्ग्रहणात् क्लेशाः पञ्चेन्द्रियाणि स्त्रोतोवत् प्रवर्तयन्ति । तदैव शीलादीन् सद्धर्मान् विनाशयति । य इन्द्रियेषु गुप्तद्वारो भवति तस्य शीलादयः सुदृढा भवन्ति ।
(4) भोजने च मात्रज्ञतेति । न रूपबलाय [न] मैथुनाय [न] कामानामास्वादाय भोजनम् । [यावदेवास्य] कायस्य यापनाय । (पृ) योगी कस्मात्काययापनं करोति । (उ) सद्धर्मस्य भावनायै । यः सद्धर्मादुपरमते तस्य मार्गो न भवति । असति मार्गे दुःखाद्विसंयोगो न भवति । यदि कश्चित् कुशलस्य भावनायै न भुनक्ति । तदा [स] वधकं चोरमेव पुष्णाति । दानपतेः पुण्यञ्च विनाशयति । जनानां सत्कारञ्च मोधयति । एवं न भुञ्ज्यात् जनानां भोजनम् । (पृ) भोजने च का मात्रा । (उ) यथा कायं यापयति । सा मात्रा । (पृ) किं भोजनं भुञ्ज्यात् । (उ) यत् भोजनं शीतोष्णादि व्याधिं कामक्रोधाद्याधिञ्च न वर्धयति । तत् भुञ्ज्यात् । तदपि भोजनं यथाकालं भुञ्ज्यात् । भोजनमिदमस्मिन् काले शीतोष्णकामक्रोधाधिव्याधिं वर्धयतीति प्रजानन् न भुञ्ज्यात् ।
(पृ) तीर्थिका वदन्ति- यः परिशुद्धमाहारं भुङ्क्ते स परिशुद्धं पुण्यं विन्दते । यत् यथेष्ठमभिमतरूपरसगन्धस्पर्शवत् अप्प्रोक्षितमभिनिमन्त्रितं भुञ्ज्यते तत् परिशुद्धमित्युच्यते । कथमिदम् । (उ) भोजने नास्ति प्रतिनियता परिशुद्धिः । कस्मात् । यदि ( स्स्स्_449 ) परिभोगेनाहारो ऽपरिशुद्धो भवति । सर्व आहारा नापरिभोज्याः । यथा स्तन्यं वत्सपरिभुक्तम् । मधु मक्षिकापरिभुक्तम् । आपः क्रिमिपरिभुक्ताः । कुसुमं भ्रमपरिभुक्तम् । फलं पक्षिपरिभुक्तम् इत्यादि । किञ्चायं कायो ऽशुचिसम्भूतः । कायस्वभावो ऽशुचिः अशुचिपरिपूर्णः । आहारः पूर्वमेवाशुचिः पश्चादपि कायं प्रविष्टो नैकधाशुचिर्भवति । दोषविपर्ययेण परं शुचिरिति मिथ्या वदन्ति । (पृ) यद्यत्यन्तमशुचिः [कायः] । तदा चण्डालादिभिः को विशेषः । (उ) प्राणातिपाताद्विरतिरदत्तादानाद्विरतिर्मिथ्या जीवाद्विरतिरित्यादिना अनुरूपमाहारं लब्ध्वा आहारे च प्रतिकूलसंज्ञां दृष्ट्वा प्रज्ञाजलप्रोक्षितमथ तावद्भुङ्क्ते । न केवलं जलप्रोक्षितं पुनः शुचिर्भवति ।
(5) रात्र्य आद्यान्तिमभागे जागरणतेति । योगी प्रजानाति व्यवसायाधीना कार्यसिद्धिरिति । अतो न निद्राति । पश्यति न मिद्धं वृथा, नानेन किञ्चिल्लभ्यत इति । यदि भवान् मिद्धं सुखं मन्यते । तत् सुखमत्यल्पं दृष्टञ्च अपार्यप्रवचनम् । किञ्च योगी क्लेशैः सममेकत्र नाभिरमते । यथा कश्चिच्चोरैः सह वासे नाभिरमते । कथं कश्चित् लोके चोराणां रणभूमौ निद्रास्यति । अतो न निद्राति ।
(पृ) मिद्धं गाढमागतं कथं निरुणद्धि । (उ) अयं भगवच्छासनास्वादने ऽधिचित्तं प्रीतिञ्च लब्ध्वा निरुणद्धि । संसारे च जराव्याधिमरणदोषाननुस्मरतश्चित्तं बिभ्यति । अतो न निद्राति । किञ्च योगी पश्यति- मनुष्यकायो लब्धः समग्राणीन्द्रियाणि, प्राप्तं बुद्धशासनमनर्घम्, साध्वसाधुविवेको ऽतिदुष्करः, इदानीं तरणं नान्विष्यामि, कदा विमोक्षिष्य इति । अतो मिद्धं तिरस्कर्तुं वीर्यमारभते ।
समाधिपरिष्कारेषु आद्यपञ्चसमाधिपरिष्कारवर्ग एकाशीत्युत्तरशततमः ।
182 अकुशलवितर्कवर्गः
कुशलवितर्कसम्पन्नतेति । यदि कश्चिदनिद्रन्नपि अकुशलवितर्कानुत्पादयति यदुत कामवितर्को व्यापादवितर्को विहिंसावितर्को जातिवितर्को जनपदवितर्को ऽमरणवितर्कः परानुग्रहवितर्कः परावमन्यनावितर्क इत्यादयः । वरं मिद्धम्, नैषामकुशलानां वितर्काणामुत्पादः । नैष्क्रम्यादिकुशलवितर्कान् सम्यगनुस्मरेत् यदुत नैष्क्रम्यविर्तर्को ऽव्यापादाविहिंसावितर्को ऽष्टमहापुरुषवितर्कः ।
कामवितर्क इति । यत् कामं निश्रित्य पञ्चकामगुणेषूत्पन्नवितर्कः पश्यति हितं सुखमिति । अयं कामवितर्कः । सत्त्वानां विहिंसार्थो[वितर्को] व्यापादवितर्को विहिंसावितर्कः । योगी नानुस्मरेदिमांस्त्रीन् वितर्कान् । कस्मात् । ताननुस्मरन् हि गुरुतरं पापं विन्दते । पूर्वमुक्त एव कामादीनामादीनवः । तेषामादीनवत्वान्नानुस्मरेत् ।
(पृ) मोहवितर्कः कस्मान्नोक्तः । (उ) इमे त्रयो ऽकुशलवितर्काः क्रमिकाः । अन्ये क्लेशास्तु नैवं भवन्ति । योगी कदाचित्पञ्चकामगुणानुस्मरणात्कामवितर्कमुत्पादयति । कामितालाभाव्द्यापादो भवति । व्यापादसंसिद्धा विहिंसा । अतो नोक्तो मोहादिः । मोहसंसिद्धमेव फलं यदुत व्यापादः । यदि व्यापादादकुशलः कर्मान्तो भवति । ते त्रयो वितर्का अकुशलकर्महेतवो भवन्ति । यथोक्तं सूत्रे- अयं वल्मीको रात्रौ धूमायति । दिवा प्रज्वलति । [यत्खलु भिक्षो दिवा कर्मान्तानारभ्य रात्रा]वनुवितर्कयति [अनुविचारयति] इदं [रात्रौ] धूमायनम् । [यत्खलु भिक्षो रात्रावनुवितर्कयित्वा दिवा] कर्मान्तान् [प्रयोजयति कायेन वाचा मनसा । इदं [दिवा] प्रज्वलनम् ।
ज्ञातिवितर्क इति । ज्ञातिवशादुत्पद्यन्ते ऽनुस्मरणानि । ज्ञातिः क्षेमखुखं विन्दतु ( स्स्स्_451 ) इतीच्छति । तस्य विनाशविहिंसामनुस्मरतः शोक उत्पद्यते । यत् ज्ञातिभिरेककार्याण्यनुस्मरति [अयं] ज्ञातिवितर्कः । योगी नानुस्मरेदिमं वितर्कम् । कस्मात् । पूर्वमेव हि प्रव्रज्याकाले ज्ञातीन् त्यक्तवान् । इदानीं तद्विकर्माश्रयणं नानुरूपं भवति । यदि प्रव्रजितः इमं ज्ञातिवितर्कमनुस्मरति । तदा गृहपरिवारपरित्यागो वृथाकिञ्चित्साधनः । ज्ञातिस्नेहादध्यवसानं भवति । अध्यवसानादारक्षा । आरक्षाप्रत्ययं दण्डादानशस्त्रादानादिकर्मानुक्रमं प्रवर्तते । अतो नोत्पादयेत् ज्ञातिवितर्कम् । ज्ञातिसमागमे च कुशलधर्मं न वर्धयति । योगिना स्मर्तव्यं सर्वेषु सत्त्वेषु जननमरणप्रवाहप्रवृत्तेषु नास्ति ज्ञातिरज्ञातिः । कस्मात् पर्यासज्यते इति । संसारे ज्ञात्यर्थमेव शोककरुणपरिदेवाश्रूणि महासागरनिर्वर्तनानि भवन्ति । इदानीं पुनरध्यवसाने दुःखमनवस्थमेव । सत्त्वाश्च कार्यनिमित्तं हि मिथः स्निह्यन्ति । नास्ति तु कुत्रचित् स्नेहनैयत्यम् । ज्ञातीनामनुस्मरणमिदं मोहलक्षणम् । लौकिका मूढाः स्वहितविहीनाः परहितं कामयन्ते । ज्ञातिमनुस्मरतः स्वहितमत्यल्पं भवति । इत्येभिः [कारणैः] योगी न ज्ञातिवितर्कमुत्पादयेत् ।
जनपदवितर्क इति । योगी [कश्चित्] चिन्तयति- अमुको जनपदः सुखः क्षेमः शिवः, तत्र गत्वा निभृतं सुखं लप्स्य इति । चित्तञ्च चपलं सर्वत्र भ्रमणदर्शनकांक्षीति । योगी नेदृशं वितर्कमुत्पादयेत् । कस्मात् । सर्वेषु हि जनपदेषु अस्ति कश्चिद्दोषः । कश्चिज्जनपदो ऽतिशीतः । कश्चिदत्युष्णः । कश्चित् क्षामबहलः । कश्चिच्चोरबहुलः । एवमादयो विविधा दोषाः सन्तीत्यतो न चिन्तयेत् । यश्चपलः स ध्यानसमाधेः परिहीयते । यत्राभिरतः कुशलधर्मं वर्धयति अयं रमणीय इत्युच्यते । क उपयोगो जनपदानां पर्यालोकनेन । सर्वो जनपदो दूरत एव श्राव्यो नावश्यं गत्वा श्लाघनीयः । लौकिका बहुधा दुष्टा इति वचनात् । जनपदेषु भ्रमणी नानादुःखान्यनुभवति । कायो ऽयं दुःखहेतुः । दुःखहेतुमिमं कायं धृत्वा यत्र यत्र गच्छति तत्र तत्र दुःखान्यनुभवति । सुखदुःखवेदना कर्मकारणाधीना । सुदूरं गच्छतो ऽपि नास्ति कश्चनोपकारः । अतो न जनपदवितर्कमुत्पादयेत् ।
अमरणवितर्क इति । योगी चिन्तयत्येवम्- मार्गो मया पश्चाद्भावयितव्यः । आदौ सूत्रविनयाभिधर्मक्षुद्रकपिटकबोधिसत्त्वपिटकान्यध्येतव्यानि । बाह्यग्रन्थाश्च सुविस्तरमभ्यसितव्याः । बहवः शिष्या आर्जयितव्याः । कल्याणमित्रमुपस्थाय चतुरस्तूपान् वन्दित्वा जनान महादानं कर्तुं प्रोत्साह्य च पश्चान्मार्गो भावयितव्य इति । [अय]ममरणवितर्कः । नैवं चिन्तयेत् योगी । कस्मात् । न हि मरणकालो नियतः । न पूर्वमेव ज्ञेयः । वृत्त्यन्तरेषु व्यापृतेन न मार्गो भावितुं शक्यः । पश्चान्मरणकाले समुपस्थिते चित्तं कौकृत्येन पीड्यते । मयायं कायो वृथा पोषितः न किञ्चिल्लब्धम् । पशुभिः समं म्रियत इति । यथोक्तं सूत्रे- पृथग्जनो विंशतिधा स्वचित्तं निगृह्येवं चिन्तयेत्- विभिन्नाकारवेषमात्रं मम वृथा [सर्वं] न किञ्चिल्लब्धम्, यावदामरणमदान्तो भविष्यामीति । पण्डितो न करोत्यकार्यम् । यथोक्तं धर्मपदे-
[येषाञ्च सुसमारब्धा नित्यं कायगता स्मृतिः]
अकृत्यं ते न सेवन्ते नित्यं सातत्यकारिणः ।
स्मृतानां सम्प्रजानानामस्तं गच्छन्ति चास्रवाः ॥ इति ।
अपि चोक्तं सूत्रे-
चतुस्सत्येष्वलाभी [यः] कामान् लब्धुमुपायतः ।
यत्नेन वीर्यमातिष्ठेत् भृशं तत्परिपालने ॥ इति ।
अतो नामरणवितर्कमुत्पादयेत् । अमरणवितर्कश्च मूढस्य प्राणितम् । को ज्ञानी तृणाग्रे ऽवश्यायबिन्दुवत् जीवितमध्रुवं ज्ञात्वा क्षणमेकं जीवेयमिति [मन्येत] । उक्तञ्च सूत्रे- भगवानवोचत् कथं पूनर्यूयं भिक्षवो भावयथ मरणस्मृतिम् । [अन्यतरो ( स्स्स्_453 ) भिक्षु]र्भगवन्तमवोचत्- [इह ममैवं भवति- अहो वत] अहं सप्त वर्षाणि न जीवेयमिति । एवमपचयो ऽभूत यावन्मुहूर्तं न [जीवेय]मिति । अन्य[तरो भिक्षुर्भगवन्तमेतदवोचत्] अहं षड् वर्षाणि न जीवेयमिति । एवमपचयो ऽभूत्- यावन्मुहूतमपि [न जीवेय]मिति । एवमुक्ते भगवान् तान् भिक्षूनेतदवोचत्- यूयं भिक्षवः प्रमत्ता [विहरथ, दन्धा]मरणस्मृतिं भावयथ इति । अन्यतरो भिक्षु [र्भगवन्त]मुपेत्यावोचत्[ममैवं भवति अहो बत] अहं [तदन्तरं] न जीवेयं यदन्तरं आश्वसित्वा प्रश्वसामि प्रश्वसित्वा वाश्वसामि इति । भगवानवोचत्- साधु साधु त्वं [खलु भिक्षो] भावयसि मरणस्मृतिम् इति । अतो नोत्पादयेदमरणसंज्ञाम् ।
परानुग्रहवितर्क इति [यद्]बन्धावनुग्रहप्रापणमिच्छति । यद्येवं चिन्तयति- अमुकं धनमानसुखानां दानमाचरयामि । अमुकस्तु नोपैति इति । योगी नेदृशं वितर्कमुत्पादयेत् । कस्मात् । नानया स्मृत्या परस्य सुखं दुखं वा प्रापयति । किन्तु समाहितं चित्तमेव विक्षिपति । (पृ) परस्यानुग्रहचिकीर्षा किं करुणाचित्तं ननु । (उ) योगी मार्गमर्थयन् चिन्तयेत्पारमार्थिकं हितं यदुत अनित्यतादि । यद्यप्यत्र किञ्चित्पुण्यमस्ति तथापि मार्गप्रतिरोधकस्य हितमल्पं, दोषस्तु बहुलः । समाहितचित्तस्य विक्षेपात् । यो व्यग्रचित्ततया परस्य हितमनुस्मरति । स कामासक्त्या नादीनवं पश्यति । अतो नानुचिन्तयेत् ।
परावमन्यनावितर्क इति । यद्योगी चिन्तयति- गोत्रवंशाकृतिरूपधनमाननैपुण्येषु शीलतीक्ष्णेन्द्रियत्वध्यानसमाधिप्रज्ञादिषु च नायं मत्सम इति । नेदृशं योगी वितर्कमुत्पादयेत् । कस्मात् । सर्वेषां वस्तुनामनित्यत्वात् । य उत्तमो ऽधम इति । तेषु को विशेषो ऽस्ति । एषां कायकेशरोमनखदन्तं सर्वमशुचि, समं भवति न विषमम् । जराव्याधिमरणादिविपदपि समा । सर्वेषां सत्त्वानामध्यात्मं बहिर्धा च दुःखविहिंसापि समा न ( स्स्स्_454 ) विषमा । पृथग्जनानां धनसमृद्धिः पापप्रत्यया । धनसमृद्धिश्च न दीर्घकालिकी । [अतः] पुनर्दरिद्रो भवति । अतो न परावमन्यनावितर्कमुत्पादयेत् । अयं मानो ऽविद्याङ्गम् । विद्वान् कथमिमं वितर्कमुत्पादयिष्यति ॥
अकुशलवितर्कवर्गो द्व्यशीत्युत्तरशततमः ।
183 कुशलवितर्कवर्गः ।
नैष्क्रम्यवितर्क इति प्रविवेकाभिलाषिचित्तता । यत् पञ्चकामगुणेभ्यो रूपारूप्यधातुभ्यश्च प्रविवेकः । अस्मिन् प्रविवेके ऽभिलाषो नैष्क्रम्यवितर्कः । प्रविवेकाभिलाषादस्मा द्दुःखानामसम्भवात् । कामासक्तिवशाद्धि दुःखं भवति । असत्यां कामासक्तौ सुखं भवति ।
वितर्केषु द्वौ वितर्कौ सुखं यदुताव्यापदवितर्को ऽविहिंसावितर्कः । कस्मात् । द्वौ हीमौ वितर्कौ क्षेमवितर्कौ । यथोक्तं तथागतवर्गे- तथागतस्य खलु द्वौ वितर्कौ नित्यमुपतिष्ठतो यदुत योगक्षेमवितर्कः प्रविवेकवितर्कश्च इति । योगक्षेमवितर्कः अव्यापादाविहिंसावितर्क एव । प्रविवेकवितर्को नैष्क्रम्यवितर्कः । त्रीनिमान् वितर्कयतः पुण्यं वर्धते । समाहितचित्तत्तापि सिध्यति । चित्तं विशुध्यते च । त्रीनिमान् वितर्कान् वितर्कयन् पर्युत्थानानि प्रतिहन्ति । पर्युत्थानानां समुच्छेदात् प्रहाणं साक्षात्करोति । किञ्च योगी प्रविवेकामिलाषया बहूनां कुशलधर्माणामुपचयादाशु विमुच्यते ।
अष्टमहापुरुषवितर्क इति अल्पेच्छस्यायं धर्मो ना[यं धर्मो] महेच्छस्य । सन्तुष्टस्या[यं धर्मो नायं धर्मो ऽसन्तुष्टस्य] । प्रविविक्तस्य [अयं धर्मो नायं धर्मः ( स्स्स्_455 ) सङ्गणिकारामस्य] । आरब्धवीर्यस्य [अयं धर्मो नायं धर्मः कुसीदस्य] । उपस्थितस्मृतिकस्य [अयं धर्मो नायं धर्मो मुष्टस्मृतिकस्य] । समाहितस्य [अयं धर्मो नायं धर्मो ऽसमाहितस्य] । प्रज्ञावतो [ऽयं धर्मो नायं धर्मो दुष्प्रज्ञस्य] । निष्प्रपञ्चारामस्यायं धर्मो नायं धर्मः प्रपञ्चारामस्य इतीमे ऽष्टौ ।
अल्पेच्छो योगी यो मार्गं भावयितुमपेक्षितमिच्छति । न बहु प्रार्थयते अन्यदनुपयुक्तम् । अयमल्पेच्छः । सन्तुष्ट इति । कश्चित् [केनचित्] कारणेन वा शीलाय वा परस्य चित्तप्रसादनाय वाल्पं गृह्णाति न तु सन्तुष्टचित्तो भवति । यो ऽल्पं गृहीत्वा सन्तुष्टचित्तो भवति । अयं सन्तुष्टः । कश्चिदल्पं गृहीत्वापि रमणीयं कामयते । अयमल्पेच्छो न सन्तुष्टः । यो ऽल्पलाभेन तृप्यति स सन्तुष्टः । (पृ) यद्यपेक्षितग्राही अल्पेच्छ इति । सर्वे सत्त्वा अल्पेच्छा भवेयुः । एषां प्रत्येकमपेक्षितत्वात् । (उ) योगी अनासक्तत्तित्ततया गृह्णाति उपयोगार्थमात्रं, न बहु गृह्णाति । न तु यथा लौकिका यशोमण्डनवर्धनाय बहु गृह्णान्ति । (पृ) योगी कस्मादल्पेच्छयः सन्तुष्टो भवति । (उ) [स] हि परिपालनादावादीनवं पश्यति । अनुपयुक्तद्रव्यसङ्ग्रहः सम्मूढस्य लक्षणम् । प्रव्रजितो न बहु सञ्चिन्वन्नवदातवसनैः समो भवेत् । तादृशदोषसत्त्वादल्पेच्छः सन्तुष्टो भवति । योगी यदि नाल्पेच्छः सन्तुष्टः, तदा कामचित्तं क्रमशो वर्धेत । धनलाभित्वादप्रार्थनीयं प्रार्थयीत । धनलाभाभिलाषश्च नैव संशाम्यति । [तत्र] अध्यवसायित्वात् । प्रविवेकसुखाय प्रव्रजितो धनकामितया तत्करणीयं विस्मरति । क्लेशानपि न प्रजहाति । कस्मात् । बाह्यपदार्थानेव न प्रजहाति । कः पुनर्वाद आध्यात्मिकान् धर्मान् प्रजहातीति । लाभदृष्टिर्विपत्तिविहिंसाहेतुः । यथा करकवृष्टिः सस्यानि विनाशयति । अतः सततमल्पेच्छसन्तुष्टतां भावयेत् ।
दृश्यते च देयस्य पदार्थस्य प्रत्यर्पणं दुष्करम् । यठा ऋणी [ऋण]मप्रत्यर्पयन् पश्चात्तद्दुःखं व्यथामनुभवति इति । लाभसत्कारदृष्टिः बुद्धादिभिः सज्जानैस्त्यक्ता । ( स्स्स्_456 ) यथाह भगवान्- नाहं लाभसत्कारमनुप्राप्नोमि मा लाभसत्कारो मामनुप्राप्नोत्विति । अयञ्च योगी सद्धर्मसन्तुष्टत्वाल्लाभसत्कारं प्रजहाति । यथाह भगवान्- देवा न प्रतिलभन्ते नैष्क्रम्यसुखं प्रविवेकसुखमुपशमसुखं यथा मया प्रतिलब्धम् । अतो लाभसत्कारं प्रजहामि इति । यथाह शारिपुत्रः-
अनिमित्तं भावयित्वा चाहं शून्यसमाधिना ।
समीक्षे सर्ववस्तूनि खेटपिण्डान् यथा बहिः ॥ इति ।
किञ्च योगी पश्यति न कामोपभोगेन तृप्तिर्भवति । यथा लवणोदकं पिबन् न तर्षणमपनयति इति प्रज्ञां प्रर्थयानस्तृप्तो भवति ।
महेच्छः सदा प्रार्थनामुत्पादयन् बहु प्रार्थयित्वाल्पं विन्दते । अतः सदा खिद्यते । पश्यामश्च भिक्षार्थी जनैरवमन्यते न सत्क्रियते यथाल्पेच्छः । प्रव्रजितो महत्प्रार्थयत इत्यकार्यमेतत् । जनैर्दत्तस्याग्रहणन्तु युक्तरूपम् । अतो ऽल्पेच्छासन्तुष्टिमाचरेत् ।
प्रविविक्त इति यत् गृहस्थप्रव्रजितयोः कायिकप्रविवेकसमाचारः क्लेशेषु मानसप्रविवेकसमाचारः अयं प्रविवेकः । (पृ) योगी कस्मात्प्रविविक्तो भवति । (उ) प्रव्रजिता अप्रतिलब्धमार्गा अपि प्रविवेकारामा भवन्ति । अवदातवसनादयः तत्स्थानगतस्त्रीरूपविक्षेपावकृष्टा न तत्र कदाचित्सुखिनो भवन्ति । प्रविवेके तु चित्तं सूपशमं भवति । यथा सलिलमनाविलं प्रकृतितः स्वच्छम् । अतः प्रविवेके चरति । प्रविवेकधर्मो ऽयं गङ्गानदीवालुकासमैर्बुद्धैरभिसंस्तुतः । केनेदं ज्ञायते । भगवान् ग्रामोपकण्ठे निषण्णं भिक्षुं दृष्ट्वा अप्रीतमनस्को भवति । शून्यायतने च शयानं भिक्षुं दृष्ट्वा भगवान् प्रीतमनस्को भवति । तत्कस्य हेतोः । ग्रामोपकण्ठे निष्षण्णस्य भिक्षोर्बहुभिः कारणैः समाहितचित्तविक्षेपे लब्धव्यं न लभ्यते साक्षात्कर्तव्यं न साक्षात्क्रियते । शून्यायतने शयानस्य किञ्चित्कौसीद्ये सत्यपि समाध्याशासम्भवे चित्तं परिगृह्यते । परिगृहीतं चित्तं विमुच्यते । निमित्तोद्ग्रहमुपादाय च कामादयः क्लेशाः समुद्भवन्ति । शून्यायतने न रूपादीनि निमित्तानि सन्तीति क्लेशाः सुप्रहाणाः । यथाग्निरसतीन्धने स्वतः शाम्यति । उक्तञ्चसूत्रे- यो भिक्षुः सङ्गणिकाविहाररतः सम्भाष्यरतः [स] गणादविविक्त इत्यतः सामयिकीमेव विमुक्तिं न ( स्स्स्_457 ) प्रतिलभते । कः पुनर्वादः अकोप्यां विमुक्तिं प्रतिलभत इति । प्रविविक्तविहारी पुनरुभयं साक्षात्कुरुते । इति । यथा प्रदीपो वातविविक्तः प्रकाशते । एवं योगी प्रविवेकविहारितया तत्त्वज्ञानं विन्दते ।
आरब्धवीर्य इति । योगी यदि सम्यक्प्रधानमाचरन् अकुशलधर्मान् प्रजहाति कुशलधर्मांश्च सञ्चिनोति । [तदा] तत्र सम्यक्प्रधानामाचरतीति आरब्धवीर्य इत्युच्यते । एवञ्च भगवच्छासने हितं प्रतिलभते । तत्कस्य हेतोः । [स हि] कुशलधर्मसञ्चयेन प्रतिदिनमभिवर्धते । यथोत्पलपद्मादीनि यथासलिलमभिवर्धन्ते । कौसीद्यचारी पुनः काष्ठमुसलवत् प्रथमाभिनिर्वर्तनादारभ्य प्रतिदीनमपचीयते । आरब्धवीर्यस्य अर्थप्रतिलाभितया चित्तं सदा प्रमुद्यते । कौसीद्यचारी तु अकुशलधर्मनिवृत्तचित्तः सततं दुःखोपद्रवमनुबध्नाति । आरब्धवीर्यस्य च क्षणे क्षणे कुशलधर्मो नित्यमभिवर्धते, नापचीयते । वीर्यप्रकृष्टमाचरन्नाप्नोति प्रकृष्टं स्थानं यदुत बुद्धानां गतिम् । यथोक्तं सूत्रे भगवता आनन्दं प्रति प्रकृष्टं वीर्यमभ्यसन् बुद्धगतिं यातीति । आरब्धवीर्यस्य चित्तसमाधीः सुलभः । मन्देन्द्रिय आरब्धवीर्यः संसारादेवाशु मुच्यते । तीष्णेन्द्रियः कुसीदस्तु न विमुच्यते । यदस्ति किञ्चिदैहिकमामुष्मिकं लौकिकं लोकोत्तरं हितं, तत् सर्वं वीर्यमुपादाय भवति । सर्वेषां लोकानां यदस्ति अलाभव्यसनं, तत् सर्वं कौसीद्यमुपादाय भवति । एवं कुसीदस्य दोषमारब्धवीर्यस्य गुणं दृष्ट्वा वीर्यमनुस्मरति ।
उपस्थितस्मृतिक इति । कायवेदनाचित्तधर्मेषु सदा स्मृतिं समुपस्थापयति । (पृ) एषां चतुर्णां धर्माणां स्मृत्या कीदृशं हितं विन्दते । (उ) पापका अकुशला धर्मा न चित्तमागच्छन्ति । यथा सुरक्षिते न पापकः पुरुषो ऽवतरति । यथा च घटः पूर्णो न पुनरुदकमादत्ते । एवमस्य पुरुषस्य कुशलधर्मसम्पूर्णस्य न पापकानि प्रसज्यन्ते । यो भावितसम्यक्स्मृतिकः स विमुक्तिभागीयान् सर्वान् कुशलधर्मान् सङ्गृह्णाति । यथा समुद्राम्बुपायिनः सर्वाणि स्त्रोतांसि पीतानि भवन्ति । सर्वेषामुदकानां समुद्रवर्तित्वात् । अस्याः स्मृतेर्भावयिता स्वतन्त्रचर्यास्थाने विहरतीत्युच्यते । क्लेशमारो न किञ्चिदाकोपयति काकोलूकदृष्टान्तवत् । अस्य च चित्तं सुप्रतिष्ठितं दुष्कम्पनं भवति । यथा वृत्तो ( स्स्स्_458 ) घटःशिक्यमधिनिविश्यते । स चाचिरमेवार्थं लप्स्यते । यथोक्तं भिक्षुणीसूत्रे- भिक्षुण्य आनन्दमेतदवोचन्- इह भदन्त [आनन्द] वयं चतृषु स्मृत्युपस्थानेषु सुप्रतिष्ठितचित्ता विहरन्त्य [उदारं] पूर्वेणापरं विशेषं सम्प्रजानाम इति । आनन्दो ऽवोचत्- एवमेतत् भगिन्य एवमेतत् भगिन्य इति ।
समाहित इति । चित्तसमाधिं भावयतः प्रवरो ऽर्थो भवति । यथोक्तं सूत्रे- समाहितो यथाभूतं प्रजानाति इति । अनेन मनुष्यकायेनातिमानुषधर्मो भवति यदुत कायेनोदकर्ममग्निञ्चा[वगाह्य] निर्गच्छति । विहायसा गमने च स्वतन्त्र इत्यादि । किञ्चास्य सुखं भवति यत् यावद्देवाः सहांपतिब्रह्मादयो ऽपि नाप्नुवन्ति । अयं यत् कर्तव्यं तत् करोतीत्युच्यते । यदकर्तव्यं न तत् करोति । समाहितस्य सद्धर्मः सदा वर्धते समाहितस्य चित्तं नानुतप्यते । अयंप्रव्रज्याफलभाग्भवति तथागतशासनानुयायी च । नान्यपुरुषवत् वृथा सत्कारं स्वीकरोति । अयमेव दानपुण्यं विपाचयति नान्ये । अयञ्च समाहितधर्मो बुद्धैरार्यैश्च निषेवितः । सर्वेषां कुशलधर्माणां समार्जनाय योग्यश्च भवति । यदि समाहितस्य सिद्धिर्भवति तदा आर्यमार्गस्य प्रतिलाभो भवति । यदि न सिद्धिः, तदा शुभदेवेषूपपद्यते यदुत रूपारूप्यधातौ । तत्कस्य हेतोः । न हि दानादिना ईदृशं कार्यं प्रतिलभते यदेकान्ततः पापकानामकरणम् । यथोक्तं सूत्रे- यो दहरो युवा आजन्म मैत्रीं भावयति । स किं पापकं चित्तमुत्पादयेत् । पापकं वा चिन्तयेत् । नो हीदं भगवन् । [तत्कस्य हेतोः] [तत्समाधिप्रभाव एषः । इति । चित्तसमाधिश्च तत्त्वज्ञानस्य प्रत्ययः । तत्त्वप्रज्ञा सर्वान् संस्कारान् क्षपयति । संस्काराणां क्षयात् सर्वे दुःखोपायासाः शाम्यन्ति । योगी सर्वाणि लौकिकानि लोकोत्तराणि स्मरन्नेव कुर्यात् न क्लमथेन कार्यं प्रयोजयन् । अन्ये पुद्गलास्तेन लब्धं प्रमातुं चित्तमेव नोत्पादयन्ति । अत आह- समाहितो ऽर्थमाप्नोतीति ।
प्रज्ञावानिति । प्रज्ञावतश्चित्ते क्लेशा न सम्भवन्ति । यदि सम्भवन्ति, तदैव निरुध्यन्ते यथा तप्तायःपात्रे पतिता जलकणिका । प्रज्ञावतश्चित्ते संज्ञा नाविर्भवन्ति । यद्याविर्भवन्ति, तदैव निरुध्यन्ते यथा तृणाग्रे ऽवश्यायबिन्दुः सूर्य उदितमात्रे शुष्यति । यः प्रज्ञाचक्षुष्कः स बुद्धधर्मं पश्यति । यथा चक्षुष्मतः सूर्य उपयोगाय कल्पते । प्रज्ञावान् बुद्धस्य धर्मदायभागित्युच्यते । यथा जातः पुत्रः पित्रोर्धनभाग्भवति । प्रज्ञावानेव स जीव इत्युच्यते । अन्ये मृता इति । प्रज्ञावान् तत्त्वमार्गिकः, मार्गस्य परिज्ञानात् । प्रज्ञावानेव भगवतः शासना[मृत]रसं वेत्ति । यथा अविपरिणतजिह्वेन्द्रियः पञ्चरसान् विवेचयति । प्रज्ञावान् भगवच्छासने समाहितो न कम्पते तद्यथा शैलो न वायुना कम्प्यते । प्रज्ञावान् श्राद्ध इत्युच्यते । चतुः श्रद्धालाभितया पराननुयायितत्वात् । आर्यप्रज्ञेन्द्रियप्रतिलाभी जिनौरसो भवति । अन्ये बाह्याः पृथग्जनाः । अत उच्यते प्रज्ञावानर्थं विन्दत इति ।
निष्प्रपञ्चाराम इति । यदेकानेकत्ववादः स प्रपञ्चः । यथा आनन्दः शारिपुत्रं पृच्छति- षण्णाम् [आयुष्मन्] स्पर्शायतनानामशेषविरागनिरोधादस्ति अन्यत्किञ्चित् । शारिपुत्रः प्रत्याह[मा ह्येवमायुष्मन्] । षण्णा[मायुष्मन्] स्पर्शायतनानामशेषविरागनिरोधादस्त्यन्यत्किञ्चिदिति ( स्स्स्_460 ) वदन् अप्रपञ्चं प्रपञ्चयसि । नास्ति किञ्चिदिति, अस्ति च नास्ति चान्यदिति, नैवास्ति नो च नैवास्त्यन्यदिति च प्रश्ने प्रतिवचनमपि तथा स्यात् ।
(पृ) कस्मादिदमप्रपञ्चम् । (उ) अयं वस्तुत आत्मधर्मप्रश्नः यद्येकः यदि वानेक इति । अतो न प्रत्युवाच । आत्मा च न नियतः । पञ्चस्कन्धेषु केवलं प्रज्ञप्त्याभिधीयते । यद्यस्ति किञ्चिदिति । यदि वा नास्ति किञ्चिदिति प्रतिब्रूयात्, तदा शाश्वतोच्छेदपातः स्यात् । यत् प्रतीत्यसमुदेनात्मव्यवहारः स निष्प्रपञ्चः । यदि पश्यति सत्त्वं शून्यं धर्माश्च शून्या इति स निष्प्रपञ्चारामः । अतो निष्प्रपञ्चारामा भगवच्छासने ऽर्थं विन्दन्ते । इयं कुशलवितर्कसम्पदा ।
कुशलवितर्कवर्गस्त्र्यशीत्युत्तरशततमः ।
184 अन्तिमपञ्चसमाधिपरिष्कारवर्गः
(7) कल्याणाधिमुक्तिसम्पदिति । योगी यत् निर्वाणे ऽभिरमणः संसारं विद्वेषयति । इयं कल्याणाधिमुक्तिः । एवमधिमुक्तः क्षिप्रं विमुक्तिभाग्भवति । निर्वाणाभिरतस्य चित्तं न कुत्रचिदभिनिविशते । निर्वाणाभिरतस्य नास्ति भयम् । यदि पृथग्जनस्य चित्तं निर्वाणमनुस्मरति । तदैव सन्त्रासो भवति- अहमत्यन्तं नक्ष्यामीति ।
(पृ) केन प्रत्ययेन निर्वाणे ऽधिमुच्यते । (उ) योगी लोकमनित्यं दुःखं शून्यमनात्मकं दृष्ट्वा निर्वाणे उपशमसंज्ञामुत्पादयति । पुद्गलो ऽयं स्वाभाविकक्लेशप्रतनुभूतो निर्वाणभाणकं शृणोति । तदा [तस्य] चित्तं तत्राधिमुच्यते । यदि वा कल्याणमित्रात् यदि वा सूत्राध्ययनात् संसार आदीनवं शृणोति । यथा अनवराग्रसूत्रे पञ्चदेवदूतसूत्रे चोक्तम् । तदा संसारान्निर्विण्णो निर्वाणे ऽधिमुच्यते ।
(8) प्रधानीयाङ्गसम्पदिति । यथोक्तं सूत्रे- पञ्च प्रधानीयाङ्गानि । ( स्स्स्_461 ) कतमानि [पञ्च] । इह [भिक्षवो] भिक्षुः श्राद्धो भवति । अशठो भवति । अल्पाबाधो भवति । आरब्धवीर्यो भवति । प्रज्ञावान् भवतीति । श्रद्धावान् नाम[यः] त्रिषु रत्नेषु चतुर्षु सत्येषु च विगतविचिकित्सो भवति । विगतविचिकित्सत्वात् क्षिप्रं समाधिः सिध्यति । श्रद्धावतः प्रीतिबहुलत्वाच्च क्षिप्रं समाधिः सिध्यति । श्रद्धावान् सुसमाहितो दान्तश्च भवति । अतो ऽपि सहसा समाधिं विन्दते । (पृ) यदि समाधिना प्रज्ञोत्पद्यते । अथ विचिकित्सां प्रजहाति । कथमिदानीं समाधेः पूर्वमेवोच्यते विगतविचिकित्स इति । (उ) बहुश्रुतत्वात् किञ्चिद्विचिकित्सां प्रजहाति । न समाधिलाभात् । अधिमुक्तकुलोत्पन्नः श्राद्धेन सहवृत्तिकः सदाधिमुक्तिचित्तं भावयन् अप्रतिलब्धसमाधिरपि विचिकित्सां न करोति । एवमादि ।
अशठ इति । ऋजुचित्तस्य नास्ति किञ्चिद्गोपनीयम् । सदपि सुतीर्णं भवति । यथा कश्चिद्भिषजमुपेत्य व्याधिस्वरूपमुक्त्वा सुचिकित्सो भवति । अल्पाबाध इति । स पूर्वरात्रे ऽपररात्रे च व्यवस्यति, न विरमति । यद्याबाधाबहुलः, तन्मार्गचर्याया अन्तरायो भवति । आरब्धवीर्य इति । मार्गार्थित्वात् सदा विर्यमारभते । अतो ऽग्निं मन्थानो न विरममाणो सहसाग्निं विन्दते । प्रज्ञावानिति । प्रज्ञावत्त्वेन चतुर्णामङ्गानां फलं भवति यदुत मार्गफलम् ।
(पृ) स्मृत्युपस्थानधर्मा अपि प्रधानीयाङ्गानि । कस्मात् केवलमेते पञ्च धर्मा उक्ताः । (उ) यद्यपि सकलमङ्गम् । तथापीमे धर्मा मुख्यतमाः योगिभिरप्यपेक्ष्यन्ते । अत इमे केवलमुक्ताः । सर्वेषां पापकानां परिवर्जनं सर्वेषां कुशलानां सञ्चयश्च योगिनो ऽङ्गम् । यथा......... सूत्रे वर्णितम् ।
(9) विमुक्त्यायतनसम्पदिति यत् पञ्चविमुक्त्यायतनानि । इहशास्ता [अन्यतरो वा] गुरुस्थानीयः [स ब्रह्मचारी] भिक्षूनां धर्मं देशयति । यथा यथा धर्मं देशयति । तथा तथा [तस्मिन् धर्मे] अर्थप्रतिसंवेदी च धर्मप्रतिसंवेदी च भवति । [तस्यार्थ]प्रतिसंवेदिनो ( स्स्स्_462 ) धर्मप्रतिसंवेदिनः प्रीतिर्जायते । प्रीतमनसः कायः प्रश्रभ्यते । प्रश्रब्धकायः सुखं वेदयते । सुखिनश्चित्तं समाधीयते । इदं प्रथमं विमुक्त्यायतनम् । यत्र भिक्षो[रप्रमत्तस्यातापिनः] प्रहितात्मनो विहरतो [ऽविमुक्तं] चित्तं विमुच्यते । [अपरिक्षीणा] वा आस्रवाः परिक्षयं गच्छन्ति । [अननुप्राप्तं] वा अनुत्तरं योगक्षेममनुप्राप्नोति । द्वितीयं [विमुक्त्यायतनं] विस्तरेण सूत्राध्ययनम् । तृतीयं परेषां धर्मदेशना । चतुर्थं विमुक्ते स्थाने धर्माणामनुवितर्कः अनुविचारः । पञ्चमं समाधिनिमित्तस्य सुग्रहणं यदुत नवनिमित्तादीनि यथापूर्वमुक्तानि ।
(पृ) शास्ता [अन्यतरो] वा गुरुस्थानीयः सब्रह्मचारी कस्मात् भिक्षूणां धर्मं देशयति । (उ) धर्मसमापादानेन महान्तमर्थमाप्नोति । इत्यतो देशनां करोति । सब्रह्मचार्ययः शास्तारमुपादाय प्रव्रजितः । इन्द्रियाणां परिपाचनाय धर्मं देशयति । गुरुस्थानीयः सब्रह्मचारी समानकर्मत्वाच्च धर्मदेशनां करोति । भिक्षवो ऽवश्यं धर्मं शृण्वन्तीत्यतश्च [धर्म]देशनां करोति । इमे पुद्गला विशुद्धशीलादिगुणसम्पन्नाः तद्यथा सुभाजनं समृद्धिं समादातुं भव्यम् इत्यतो धर्मदेशनां करोति ।
इमास्तिस्रः प्रज्ञाः धर्मप्रतिसंवेदो बहुश्रुतमयी प्रज्ञा । अर्थप्रतिसंवेदश्चिन्तामयी प्रज्ञा । अभाभ्यामुभाभ्यां जायते प्रीतिः यावत्समाहितस्य यथाभूतज्ञानं जायते । इयं भावनामयी प्रज्ञा । आसां त्रिसृणां प्रज्ञानां त्रीणि फलानि भवन्ति यदुत निर्वेदो वैराग्यं विमुक्तिः । धर्मं श्रुत्वाधीत्य च परेषां धर्मं देशयति । इयं बहुश्रुतमयी प्रज्ञा । धर्माननुवितर्कयति अनुविचारयति । इयं चिन्तामयी प्रज्ञा । समाधिनिमित्तं सुगृह्णाति । इयं भावनामयी प्रज्ञा ।
(पृ) या चित्तविमुक्तिः [यश्च] आश्रवक्षयः । अनयोः को भेदः । (उ) समाधिना क्लेशानां व्यावृत्तिश्चित्तविमुक्तिः । क्लेशानामत्यन्तप्रहाणमास्रवक्षयः । (पृ) शीलादयो धर्मा अपि विमुक्त्यायतनम् । यथोक्तं- शीलवतश्चित्तं न विप्रतिसरति । अविप्रतिसारिणः प्रीतिर्जायत इत्यादि । कदाचित् दानदिहेतोरपि विमुक्तिर्भवति । कस्मादिमे पञ्चैव धर्मा उक्ताः । (उ)प्राधान्यात्त एवोक्ताः । (पृ) एषां धर्माणां किं प्राधान्यम् । (उ) विमुक्तेः सन्निकृष्टो हेतुः । शीलादयस्तु विप्रकृष्टाः । (पृ) कथं ज्ञायते सन्निकृष्टो हेतुरिति । (उ) योगी धर्मं श्रुत्वा प्रजानाति स्कन्धायतनधातून् । तद्धर्मकलापमात्रे नास्त्यात्मेति । अतः प्रज्ञप्तिर्भज्यते । तत्प्रज्ञप्तिभङ्ग एव विमुक्तिरित्याख्यायते । अतः सन्निकृष्टो हेतुः । उक्तञ्च सूत्रे- बहुश्रुतस्यानिशंसा यदुत परशासनं नानुवर्तते, चित्तं सुसमाधीयते इत्यादि । अनेनापि ज्ञायते सन्निकृष्टो हेतुरिति । तथागतशासने महान् लाभो ऽस्ति, क्लेशान् निरोधयति, निर्वाणञ्च यातीत्यादि । अस्मिन्नुपशमधर्मे श्रोता वा अध्येता वा अनुविचिन्तयिता वा क्षिप्रं विमुच्यते । अतः सन्निकृष्टो हेतुः । दानेन महत्पुण्यं विन्दते । शीलेन गौरवम् । बाहुश्रुत्येन प्रज्ञाम् । प्रज्ञया आस्रवाणां क्षयं विन्दते न पुण्यं गौरवं वा । अतो ज्ञायते सन्निकृष्टो हेतुरिति । शारिपुत्रादयो महाप्राज्ञा इति कीर्त्यन्ते । [तत्] सर्वं बहुश्रुत्यात् ।
(पृ) यदि बाहुश्रुत्येन चित्तं सुसमाधीयते । आनन्दः कस्मात् प्रथमे ऽन्तिमे च यामे विमुक्तिं नालभत । (उ) आनन्दो न यावन्मस्तकमुपधाने न्यधत्त तावदेव विमुक्तिमलभत । अतो ऽसदद्भुतधर्मे ऽवर्तत । कस्मान्न क्षिप्रम् । आनन्दस्यतस्मिन् समये वीर्यं किञ्चिद्दुष्टमासीत् । अतिमात्रक्लान्तत्वान्नालभत विमुक्तिम् । आनन्दो ऽस्मिन् याम आस्रवाणां क्षयमनुप्राप्नोमीति प्रणिदध्यौ । यथा च बोधिसत्त्वो बोधिमण्डे प्रणिहितवान् । कस्तादृशबलो यथा आनन्दः । सर्वमिदं बाहुश्रुत्यबलम् ।
(10) अनावरणतेति- यानि त्रीण्यावरणानि कर्मावरणं, विपाकावरणं क्लेशावरणमिति । यस्येमान्यावरणानि न सन्ति । न स दुःस्थाने पतति । यो ऽक्षणेभ्योमुक्तः स मार्गं समादातुं भव्यो भवति । स चतुर्भिश्चक्रैः सम्पन्न इत्युच्यते । [तानि] प्रतिरूपदेशवासः सत्पुरुषोपाश्रयः आत्मसम्यक्प्रणिधिः पूर्वे च कृतपुण्यता इति । [स] चत्वारि स्रोतआपत्त्यङ्गानि च साधयति यदुत सत्पुरुषसंवासः सद्धर्मश्रवणं, योनिशोमनस्कारो धर्मानुधर्मप्रतिपत्तिः । रागादीन् त्रीन् धर्मानपि समुत्सृजति । यथोक्तं सूत्रे- त्रीन् धर्मानप्रहाय न जराव्याधिमरणानि सन्तरति । इति ।
(11) अनासक्ततेति । "नावरतीरमुपगच्छति । न पारतीरमुपगच्छति । न मध्ये संसीदति । न स्थल उत्सीदिष्यति । न मनुष्यग्राहो भविष्यति । नामनुष्यग्राहो भविष्यति । नावर्तग्राहो भविष्यति । नान्तःपूती भविष्यति" । अवरतीरमिति षण्णामाध्यात्मिकानामायतनामधिवचनम् । पारतीरमीति षण्णां बाह्यानामायतनानामधिवचनम् । मध्ये संसीदति इति नन्दिरागस्याधिवचनम् । स्थल उत्साद इति अस्मिमानस्याधिवचनम् । कतमो मनुष्यग्राहः । [इह] भिक्षुर्गृहिसंसृष्टो विहरति । [कतमो] ऽमनुष्यग्राहः । [इह भिक्षुरेकत्य एकत्यो] ऽन्यतरं देवनिकायं प्रणिधाय ब्रह्मचर्यं चरति । अयमुच्यते ऽमनुष्यग्राह इति । आवर्तग्राह इति पञ्चानां कामगुणानमधिवचनम् । [कतमश्च] अन्तःपूतिभावः । इह भिक्षुरेकत्यो दुश्शीलो भवति । पापधर्मा अशुचिः शङ्कास्मरसमाचारो ऽब्रह्मचारी । अयमुच्यते ऽन्तःपूतिभाव इति ।
यस्यास्ति आध्यात्मिकायतनेषु आत्मग्रहः । तस्य बाह्यायतनेषु आत्मियग्रहः । आध्यात्मिकबाह्यायतनेभ्यो नन्दिरागो भवति । अतस्तत्रैव निमज्जते । तेभ्यस्तु अहङ्कारो जायते । कस्मात् । यदि कश्चित्कायासक्तः सुखी भवतीत्यतो [ऽपरः] कश्चिदागत्य लघु ( स्स्स्_465 ) निन्दति । तदा [तस्य]मानो जायते । एवमात्मीयनन्दिरागाहङ्कारास्तच्चित्तं विक्षेपयन्तो ऽन्यानपि निर्वर्तयन्ति ।
(पृ) दृष्टान्ते ऽस्मिन् किं स्त्रोतो भवति । यद्यार्यो ऽष्टाङ्गिकमार्गः स्रोतः । तदा षडाध्यात्मिकबाह्यायतनानि पारौ न स्युः । नन्दिरागादयो मध्यौघ आवर्तः पूतिभावो ऽपि च न स्युः । यदि कामतृष्णा स्रोतः । कथमिमाननुवर्त्य निर्वाणमनुप्राप्नोति । (उ) आर्यो ऽष्टाङ्गिकमार्ग एव स्रोतः । दृष्टान्तो नावश्यं सर्वाकारैः समानो भवति । यथायं दारुस्कन्धो ऽष्टाक्षणविनिर्मुक्तो महार्णवं गच्छति । एवं भिक्षुरोघो ऽक्षणैर्विनिर्मुक्त आर्याष्टाङ्गिकमार्गं स्त्रोतो ऽनुवर्त्यं निर्वाण[महार्णव]मवतरति । यथा कुम्भसदृशं स्तनमिति वचनं तदाकारमात्रं गृह्णाति न काठिन्यं मार्दवं वा । यथा च चन्द्रोपमं वदनमिति वचनं शोभा पौष्कल्यं गृह्णाति न तदाकारम् । किञ्च योगी आर्यमार्गनिर्गतो ऽध्यात्मबहिर्धायतनेष्वासज्यते । न तु यथायं दारुस्कन्धः स्त्रोतोमध्यगतस्तस्मिन् पारे ऽस्मिन् वा आसज्यते पूतीभवति वा । इत्यादि ।
शास्त्राचार्य आह- यथा गङ्गास्त्रोतो नियमेन महार्णवं प्राप्नोति । एवमार्याष्टाङ्गिकमार्गस्त्रोतो नियमेन निर्वाणं प्राप्नोति ।
एवं संक्षिप्यैकादशमाधिपरिष्कारा उक्ताः, येषु सत्सु नियमेन समाधिर्लभ्यते ॥
अन्तिमपञ्चसमाधिपरिष्कारवर्गश्चतुरशीत्युत्तरशततमः
185 आनापानवर्गः
आनापानस्य षोडशाकारा यदुत सस्मृत एवाश्वसिति स्मृत एव प्रश्वसिति । दीर्घं वा आश्वसन् दीर्घमाश्वसिमीति प्रजानाति दीर्घं वा प्रश्वसन् दीर्घं प्रश्वसिमीति प्रजानाति ॥ ह्रस्वं वा आश्वसन् ह्रस्वमाश्वसिमीति प्रजानाति । ह्रस्वं प्रश्वसन् ह्रस्वं प्रश्वसिमीति ( स्स्स्_466 ) प्रजानाति ॥ सर्वकायप्रतिसंवेदी आश्वसिष्यामीति शिक्षते ॥ सर्वकायप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ प्रश्रम्भयन् कायसंस्कारमाश्वसिष्यामीति शिक्षते । प्रश्रम्भयन् कायसंस्कारं प्रश्वसिष्यमीति शिक्षते ॥ प्रीतिप्रतिसंवेदी आश्वसिष्यामीति शिक्षते । प्रीतिप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ सुखप्रतिसंवेदी आश्वसिष्यामीति शिक्षते । सुखप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ चित्तसंस्कारप्रतिसंवेदी आश्वसिष्यामीति शिक्षते । चित्तसंस्कारप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ प्रस्रम्भयन् चित्तसंस्कारमाश्वसिष्यामिति शिक्षते । प्रश्रम्भयन् चित्तसंस्कारं प्रश्वसिष्यामीति शिक्षते ॥ चित्तप्रतिसंवेदी आश्वसिष्यामीति शिक्षते । चित्तप्रतिसंवेदी प्रश्वसिष्यामीति शिक्षते ॥ अभिप्रमोदयन् चित्तमाश्वसिष्यामीति शिक्षते । अभिप्रमोदयन् चित्तं प्रश्वसिष्यामीति शिक्षते ॥ समादधन् चित्तमाश्वसिष्यामीति शिक्षते । समादधन् चित्तं प्रश्वसिष्यामीति शिक्षते ॥ विमोचयन् चित्तमाश्वसिष्यामीति शिक्षते । विमोचयन् चित्तं प्रश्वसिष्यामीति शिक्षते ॥ अनित्यानुदर्शी आश्वसिष्यामीति शिक्षते । अनित्यानुदर्शी प्रश्वसिष्यामीति शिक्षते ॥ विरागानुदर्शी आश्वसिष्यामीति शिक्षते । विरागानुदर्शी प्रश्वसिष्यामीति शिक्षते ॥ निरोधानुदर्शी आश्वसिष्यामीति शिक्षते । निरोधानुदर्शी प्रश्वसिष्यामीति शिक्षते ॥ प्रतिनिस्सर्गानुदर्शी आश्वसिष्यामीति शिक्षते । प्रतिनिस्सर्गानुदर्शी प्रश्वसिष्यामीति शिक्षते ।
(पृ) कथमानापानस्य दीर्घं ह्रस्वं वा भवति । (उ) यथा कश्चित्पर्वतमारोहति । यदि वा [वा] भारं वहति । [तदा] क्लान्तः ह्रस्वं श्वसति । तथा योग्यपि औदारिके चित्ते प्रवृत्ते ह्रस्वं [श्वसति] । औदारिकचित्तमिति चपलं रोगविक्षिप्तं चित्तम् । दीर्घं श्वसतीति यदि योगी सूक्ष्मचित्ते स्थितः, [तदा] तस्याश्वासप्रश्वासा दीर्घा भवन्ति । कस्मात् । सूक्ष्मचित्तानुवर्तिन आश्वासप्रश्वासा अपि सूक्ष्मा अनुपतन्ति । यथा तस्यैव क्लान्तस्य विश्रान्तस्य आश्रासप्रश्वासा सूक्ष्मा अनुपतन्ति । तस्मिन् समये दीर्घा अश्वास प्रश्वासा भवन्ति ।
सर्वकाय[प्रतिसंवेदी]ति । योगी काये तुच्छाधिमुक्तः सर्वरोमकूपेषु वायुमन्तर्बहिश्चारिणं पश्यति । प्रश्रम्भयन् कायसंस्कारमिति । धातुबललाभिनो व्युपशान्तचित्तस्य योगिन औदारिका आश्वासप्रश्वासा व्युपशान्ता भवन्ति । तदा योगी कायम्मृत्युपस्थानसमन्वितो भवति । प्रीतिप्रतिसंवेदीति । अस्मात्समाधिधर्मादस्य चित्ते महती प्रीतिर्भवति । प्रकृतितो विद्यमानापि नैवं भवति । अस्मिन् समये प्रीतिप्रतिसंवेदीत्याख्यायते । सुखप्रतिसंवेदीति । प्रीतेः सुखं जायते । कस्मात् । प्रीतमनसः कायः प्रश्रभ्यते, प्रश्रब्धकायः सुखं विन्दते । यथोक्तं सूत्रे- प्रीतमनसः कायः प्रश्रम्यते । प्रश्रब्धकायः सुखं वेदयते । इति ।
चित्तसंस्कारप्रतिसंवेदीति । योगी प्रीतावादीनवं पश्यति । रागजनकत्वात् । रागो ऽयं चित्तसंस्कारः चित्तादुत्पन्नत्वात् । वेदनायां रागो जायत इत्यतो वेदनां चित्तसंस्कारं पश्यति । प्रश्रम्भयन् चित्तसंस्कारमिति । योगी पश्यति वेदनातो रागो जायते । तत् प्रश्रम्भयतश्चित्तमुपशाम्यति । औदारिकवेदनामपि प्रश्रम्भयतीति प्रश्रम्भयन् चित्तसंस्कारमित्युच्यते । चित्तप्रतिसंवेदीति । योगी प्रश्रम्भयन् वेदनास्वादं पश्यति चित्तं शान्तं न लीनं नोद्धतम् । चित्तमिदं कस्मिंश्चित्समये पुनर्लीनं भवति । तस्मिन् समये ऽभिप्रमोदयति । यदि पुनरुद्धतम् । तस्मिन् समये समादधाति । यद्युभयधर्मविनिर्मुक्तम् । तस्मिन् समये समुत्सृजेत् । अत उच्यते विमोचयन् चित्तमिति । एवं योगी समाहितो ऽनित्याकारमुत्पादयति । अनित्याकारेण क्लेशान् प्रजहाति । अयं निरोधाकरः । क्लेशानां प्रहाणाच्चित्तं निर्विद्यते । अयं विरागाकारः । विरक्तचित्ततया सर्वेषां प्रतिनिस्सर्गमनुप्राप्नोति । अयं प्रति निस्सर्गाकारः । एवमनुपूर्वं विमुक्तिमनुप्राप्नोतीति षोडशाकारा आनापानस्मृतेर्भवन्ति ।
(पृ) कस्मादानापानस्मृतिरार्यविहार इति दिव्यविहार इति ब्रह्मविहार इति शैक्षविहार इति अशैक्षविहार इति चोच्यते । (उ) वायुराकाशे विहरति । आकाशलक्षणं रूपलक्षणं प्रकटयति । रूपलक्षणमिदं शून्यमेव । शून्यतैवार्यविहार इत्यार्यविहारो ( स्स्स्_468 ) भवति । शुभदेवेषूत्पत्यर्थत्वात् दिव्यविहारः । उपशमप्रापणार्थत्वात् ब्रह्मविहारः । शैक्षधर्मप्रतिलाभार्थत्वात् शैक्षविहारः । अशैक्षार्थत्वादशैक्षविहारः ।
(पृ) यद्यशुभभावनया कायाद्विरक्तो विमुक्तिमनुप्राप्नोति । क उपयोग एभिः षोडशभिराकारैः । (उ) अशुभभावनया अलब्धवैराग्यस्य आत्मदुर्विण्णस्य कायचित्ते व्यामोहिते स्याताम् । यथा दुष्टमौषधं सेवमानस्य व्याधिः पुनर्भवति । एवमशुभभावनया दुर्निवेदो भवति । यथा वल्गुमुत्तितीर्षया भिक्षवो ऽशुभभावनया अतीव निर्विण्णा विषपानभृगुपतनादिभिर्विविधैरात्मानं ध्नन्ति स्म । न तथा इमे षोडशाकारा वैराग्यप्रापका अपि न दुर्निवेदजनका भवन्तीत्यतो विशिष्यन्ते । किञ्च अयमाकारः सुलभः स्वकायावलम्बित्वात् । अशुभा[कारस्तु] सुविनाशः । अयमाकारः सूक्ष्मः स्वकायविपरिणामकत्वात् । अशुभाकार औदारिकः । अस्थिकङ्कालविपरिणामदुष्टः । अयमाकारः सर्वेषां क्लेशानां भेदकः । अशुभाकारस्तु मैथुनरागमात्रस्य कस्मात् । सर्वे हि क्लेशा वितर्कं प्रतीत्य जायन्ते । आनापानस्मृतेश्च सर्ववितर्कोपच्छेदार्थत्वात् ।
(पृ) अनापानं किं कायानुबन्धि किं चित्तानुबन्धि । (उ) कायानुबन्धि चित्तानुबन्धि च । कस्मात् । गर्भाशयगतस्याभावात् ज्ञायते कायाधीनमिति । चतुर्थध्यानादिकस्याचित्तकस्य चाभावात् ज्ञायते चित्तानुबन्धीति । (पृ) आश्वासप्रश्वासो ऽभूत्वोत्पन्नश्चित्ताधीनो न स्यात् । कस्मात् । स न मनसो वशादुत्पद्यते । यथा अन्यद्वस्तु स्मरति चित्ते सदा आश्वासप्रश्वासा भवन्ति । यथा [भुक्त] आहारः स्वयं परिपच्यते । यथा च प्रतिबिम्बं स्वयं प्रवर्तते न पुरुषः करोति ।
(उ) आश्वासप्रश्वासो ऽभूत्वोत्पद्यते न स्मृतिवशात् । किन्तु प्रत्ययसामग्र्योत्पद्यते । सचित्तस्यास्ति अचित्तकस्य पुनर्नास्ति । अतो ज्ञायते चित्ताधीन इति । यथाचित्तञ्च भिद्यते । औदारिकचित्तस्य ह्रस्वः । सूक्ष्मचित्तस्य दीर्घः । आनापानं भूम्यधीनं चित्ताधीनम् । आनापान(भूमि)गतस्य आनापानभूमिरप्यस्ति । [तस्य] तस्मिन् समये चित्तमप्यस्ति । आनापानभूमिर्नाम कामधातु स्त्रीणि ध्यानानि च । य ( स्स्स्_469 ) आनापानभूमिगतः [तस्य] अस्ति तु आनापानभूमि- चित्तम् । अचित्तकस्य तस्मिन् समये [तद्भूमि]चित्तमपि नास्ति । आनापानविहीनभूमिगतस्य तस्मिन् समये [तद्भूमिश्चित्त]मपि नास्ति ।
(पृ) श्वास उत्पद्यमान किं पूर्वमाश्वसति । किं वा पूर्वं प्रश्वसति । (उ) उपपत्तिकाले पूर्वमाश्वसति । मरणकाले ऽन्ते प्रश्वसति । एवं चतुर्थध्याने निर्गमनप्रवेशावपि । (पृ) आनापानस्मृतिरियं कथं परिपूर्णा भवति । (उ) योगी यदि षोडशाकारान् प्रतिलभते । तस्मिन् समये परिपूर्णा भवति । केचिच्छास्ताचार्या वदन्ति- षडिभः प्रत्ययैः परिपूर्णेति । [षट् प्रत्यया] यदुत गणना अनुबन्धना शमथो विपश्यना विवर्तनं परिशुद्धिः । गणना आनापानगणना एकत आरभ्य यावद्दश । त्रिप्रकारा गणना समा वा अतिरिक्ता वा न्यूना वा । समा नाम दशसु सत्सु दशेति गणयति । अतिरिक्ता नाम एकादशसु दशेति गणयति । न्यूना नाम नवसु दशेति गणयति । अनुबन्धनं नाम योगिनश्चित्तमानापानमनुबध्नाति । विपश्यना नाम योगी आश्वासप्रश्वासान् कायानुबद्धान् मणिषु सूत्रवत्पश्यति । शमथो नाम चित्तस्यानापाने प्रतिष्ठापनम् । विवर्तनं नाम चित्तं प्रतीत्य कायस्य प्रवृत्तिः, चित्तं प्रतीत्य च वेदनायाः । प्रत्युत्पन्नचित्तधर्मो ऽप्येवम् । परिशुद्धिर्नाम योगिनि सर्वक्लेशैः सर्वाक्षणैश्च विमुक्ते चित्तं परिशुध्यति ।
नेमे ऽवश्यनियताः । कस्मात् । आकारेषु गणानुबन्धनरूपयो द्वयोधर्मयोर्नावश्यमुपयोगो भवति । यतो योगी केवलमानापाने चित्तं प्रतिष्ठापयन् सर्वान् वितर्कानुपच्छेदयति । यः षोडशविधमाचरितुं समर्थः स परिपूर्ण इत्युच्यते । इदं परिपूर्णलक्षणञ्चानियतम् । मृद्विन्द्रियाचरितं तीक्ष्णेन्द्रियस्यापरिपूर्णम् ।
(पृ) आनापानसूत्रे ऽस्मिन् कस्मादुक्तम्- आहाराय भवतीति । (उ) आनापानस्तिमितस्य कायः सुखी भवति । यथा मधुरान्नभुजः कायः प्रह्लाद्यते । अतः आहाराय भवतीत्युच्यते । (पृ) एषु षोडशाकारेषु किमानापानं संस्मरति । (उ) अस्य पुरुषेण ( स्स्स्_470 ) पञ्चस्कन्धान् निराकर्तुमुपाय इत्याख्या । पञ्चस्कन्धेषु निराकृतेषु प्रज्ञप्तिर्निराकृतेति कः पुनरुपयोग आनापानस्मृत्या । इदमेव कायानुस्मृतिरित्युच्यते । चतुर्धा कायमनुस्मरतीति कायानुस्मृतिः ।
(पृ) स्मृतिरतीतालम्बना । आश्वासप्रश्वासाः प्रत्युत्पन्नाः । कस्मात् तत् स्मृतिर्भवति । (उ) इदं प्रज्ञप्तिभेदकं ज्ञानमनुस्मृतिनाम्नोच्यते । चैतसिकधर्माणामन्योन्यं नाम भवति । यथा दशसंज्ञादयः स्मृतिपूर्वं क्रियमाणत्वात् अनुस्मृतिरित्युच्यते । दीर्घह्रस्वादीनां नार्यविहार इत्यभिधानम् । कथं विहारविर्हीनं स्मृत्युपस्थानमित्याख्यायते । उक्तञ्च सूत्रे योगी आनापानं शिक्षमाणः दीर्घ[माश्वसन्] वा [शिक्षते] ह्रस्वं वा सर्वकायप्रतिसंवेदी वा प्रश्रम्भयन् कायसंस्कारं वा [शिक्षते] । तस्मिन् समये कायस्मृत्युपस्थानं भवति ।
अयमाद्य उपायमार्गः । विशुद्धये भवतीत्यतो ऽन्ते प्रहाणमार्र्ग इत्युच्यते । अत्र अनित्याद्याकारो ऽस्ति । अस्मिन्सूत्रे परं नोक्तम् । अन्यस्मिन् सूत्रेतूक्तम्- योगी आनापाने [स्थितः] काये समुदयधर्मानुदर्शी व्ययधर्मानुदर्शी, समुदयव्ययधर्मानुदर्शी विहरतीति । आह- कायमनित्यं पश्यतीत्यादि । चतुर्थे परमनित्याद्याकारः परिपूर्णत्वादुक्तः ॥
आनापानवर्गः पञ्चाशीत्युत्तरशततमः ।
186 समाध्यपक्षाल वर्गः
समाधिरयं तत्प्रतिबन्धिभिरपक्षालैर्विनिर्मुक्तः सन् महद्धितं साधयति । समाध्यपक्षालमिति यदुत औदारिकी प्रीतिः । यथोक्तं सूत्रे- ममौदारिकं प्रीतिप्रामोद्यं चित्तस्य दूषणमभूत् इति । योगी नोत्पादयेदिदमौदारिकं प्रीतिप्रमोद्यम् । रागादिदोषाणां समाहित चित्तविक्षेपकत्वात् ।
(पृ) धर्मादुत्पद्यमानं प्रीतिप्रामोद्यं कथं नोत्पादयेत् । (उ) योगिनः शून्य तामनुस्मरतो न प्रीतिप्रमोद्यं जायते । अस्ति सत्त्व इति संज्ञया हि प्रीतिप्रामोद्यं जायते । पञ्चसु स्कन्धेषु नास्ति सत्त्वः, कथं प्रीतिप्रामोद्यं भविष्यति । योगी एवमनुस्मरेत्- हेतुप्रत्ययै विविधा धर्मा जायते यदुतातपालोकादयो धर्माः । तत्र किं प्रीतिप्रामोद्यम् । ये प्रीतिप्रामोद्यकरा धर्माः ते सर्वे परिमार्गिता व्यग्रविक्षेपका इति पश्यतो योगिन औदारिकं प्रीतिप्रामोद्यं निरुध्यते । योगी पुनर्महान्तमर्थं प्रार्थयते । नातपालोकादिभिर्धर्मैरयं भवति । अतो न प्रीतिप्रामोद्यं जायते । योगी निरोधलक्षणं लाभं पश्यतीत्यतो नातपालोकादिभिः [तस्य] प्रीतिप्रामोद्यं भवति । अयं योगी उपशमं भावयन् क्लेशानां क्षयमिच्छति । अतो न प्रीतिप्रामोद्यमुत्पादयति । ईदृशैः प्रत्ययैरौदारिकं प्रीतिप्रामोद्यमुपशमयति ।
भीरुता च समाधेरपक्षालः । अहङ्कारमालम्बनं दृष्ट्वा भीरुतां जनयति । लोके यानि भैरवस्थानानि तानि सर्वाणि योगी पश्यति । तानि सर्वाणि अनित्यं विक्षेपकमिति परीक्ष्य [तानि] नानुविदधीत । कस्मात् । ध्याननिषण्णधर्मे ऽस्त्ययं भैरवदर्शनस्य प्रत्ययः । नानेन भीरुतां जनयेत् । सर्वमिदमभूतं शून्यं मायावत् । बालानां वञ्चनमतत्त्वम् । एवं चिन्तयतो ( स्स्स्_472 ) भीरुता वियुज्यते । धर्मान् शून्यानुपाश्रयतो नास्ति भीरुता । विहारबलादिदं वैलक्षण्यमनुभवामीत्यनुस्मरन् न बिभ्यात् । किञ्च काये शीलश्रुतादिगुणसम्पदस्ति । न हिंसाप्रयोगप्रत्यय इत्यनुस्मरतो न भवति भीरुता । योग्ययं मार्गे परमाभिरत इत्यतः कायजीविते ऽनपेक्षो भवति । कस्मात् बिभ्यात् । किञ्चास्य चित्तं सदा सम्यक्स्मृतौ तिष्ठति । अतो भीरुता नावकाशं लभते । शूरलक्षणानुस्मरणाच्च न बिभेति । भीरुता चेयमबलीनतालक्षणम् । एवमादिना भीरुतामपसारयति ।
अदमः समाधेरपक्षालः । [अदमो] यत् योगी शीतवातादिभिर्व्याधिमान् । यदि वातिक्लान्तिजरामरणप्रत्ययैरदान्तकायो भवति । रागतृष्णेर्ष्यादिभिः क्लेशैरदान्तचित्तस्य ध्यानसमाधयो नश्यन्ति । अतो योगी स्वकायचित्ते संरक्षन् दमयेत् ।
वैलक्षण्यञ्च समाधेरपक्षालः । [वेलक्षण्यं] यत् मलिनत्वलक्षणम् । किञ्चिदमलिनतालक्षणमपि ध्यानसमाधीनां विक्षेपकम् । यथा दानादिलक्षणम् ।
वैषम्यञ्च समाधेरपक्षालः । [वैषम्यं] यत् वीर्यं दुष्ठुलं यदि वातिलीनम् । दुष्ठुलस्य कायचित्ते ऽतिक्लान्ते । अतिलीन[वीर्यो] न समाधिनिमित्तं गृह्णाति । उभावपि समाधेश्च्युतौ भवतः । यथा वर्तकापोतो गाढं गृहीतो ऽतिल्कान्तो भवति । शिथिलं गृहीतो हस्तादुत्पतेत् । यथा वा दान्ता वीणायास्तन्त्र्यो ऽत्यायता वातिशिथिला वा उभयथा न स्वरं साधयन्ति । आरब्धवीर्यं प्रवेगवत् तदा दुषणावसानं भवेत् । यथा भगवाननुरुद्धमाह- अत्यारब्धवीर्यस्य कौसीद्यं भवेत् इति । कस्मात् । अत्यारब्धवीर्यो हि वस्त्वप्रसाध्य कौसीद्ये पतेत् । अतिलीनवीर्यो ऽपि न वस्तु साधयति । अतो वैषम्यं समाधेरपक्षालो भवति ।
अमनस्कारः समाधेरपक्षालः । अमनस्कारो नाम सद्धर्मामनस्कारः । मनस्कारप्रीतिधर्मे सत्यपि नास्ति वेदयितम् (?) । समाधिनिमित्तमनस्कृत्य बाह्यरूपस्य मनस्कारश्चामनस्कारः । योगी चित्तैकाग्र्येणारब्धवीर्यो वेदनीयधर्मं मनसि कुर्यात् । यथा तैलपात्रमाहरेत् ।
वैपरीत्यञ्च समाधेरपक्षालः । [वैपरीत्यं] यत् रागबहुलः करुणाचरितमुपादत्ते । द्वेषबहलो ऽशुभं भावयति । इमौ द्वावपि प्रतीत्यसमुत्पादं भावयतः । अतिलीने चित्ते शमथं भावयति । अत्युद्धते चित्ते वीर्यमारभते । अनयो द्वयोश्चित्तयोरुपेक्षामाचरति । इदं वैपरीत्यम् ।
अभिजल्पः समाधेरपक्षालः । [अभिजल्पो] यत् वितर्कविचारबाहुल्यम् । वितर्कविचाराणामभिजल्पहेतुत्वात् । चित्तञ्च नालम्बने सुदृढप्रतिबद्धविहरणं, नाभिरमते ।
लक्षणग्रहणञ्च समाधेरपक्षालः । लक्षणं त्रिविधम्- यत् शमथलक्षणमारम्भलक्षणमुपेक्षालक्षणमिति । पुनस्त्रिविधं समाधौ समापत्तिलक्षणं स्थितिलक्षणं व्युत्थानलक्षणम् इति । ईदृशलक्षणानां प्रविभागाकुशलो योगी ध्यानाच्यवते ।
मानञ्चसमाधेरपक्षालः । यदाह- अहमेव समाधिमुपसम्पद्य विहरामि न तु स इतीदं मानं भवति । यदाह- स एवोपसम्पद्य विहरति नाहमितीदं मानकल्पं भवति । यद्यप्रतिलब्धसमाधिराह- प्रतिलब्धवानिति । इदमधिमानम् । अप्रणीतसमाधौ प्रणीतसंज्ञामुत्पादयति इदं मिथ्यामानम् ।
रागादिधर्मा अपि समाध्यपक्षालाः । यथोक्तं सूत्रे- यो भिक्षुरेकधर्मेण समन्वितः स न पश्यति चक्षुरनित्यमिति । [कतमो ऽसावेकधर्मः] रागः इति । (पृ) सर्वे ऽवीतरागाः सत्त्वा किं न पश्यन्ति चक्षुरनित्यमिति । (उ) वचनमिदं किञ्चित् न्यूनम् । प्रत्युत्पन्ने ( स्स्स्_474 ) समुत्पन्नरागो न पश्यति चक्षुरनित्यमिति इति वक्तव्यम् । [राग]समन्विते ऽपि कश्चिद्भेदः । केषाञ्चिद्रागादयो घनतराः सदा चित्तमाविशन्ति । तदा [तेषां ते] समाधिं प्रतिबध्नन्ति । तनुभूतास्तु न सदाविशन्ति । तदा नापक्षाला भवन्ति ।
सूत्रे चोक्ता स्रयोदश कृष्णधर्माः समाधिप्रतिकूलाः त्रयोदश शुक्लधर्माः समाध्यनुकूलाः । यद्भगवानाह- त्रीण धर्मानप्रहाय न जराव्याधिमरणं तरति । [कतमे त्रयः] रागद्वेषमोहाः । त्रीन् धर्मानप्रहाय न समुच्छेदयति रागद्वेषमोहान् । [कतमे त्रयः ।] सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा । अथ सन्ति त्रयो धर्माः अयोनिशोमनस्कारो दुश्चरितमतिलीनचित्तता । अथ सन्ति त्रयो धर्मा मुषितस्मृतिता, असम्प्रजन्यं विक्षिप्तचित्तता इति । अथ सन्ति त्रयो धर्मा औद्धत्यमिन्द्रियेष्वगुप्तद्वारता शीलविपन्नता । अथ सन्ति त्रयो धर्माः अस्राद्ध्यं दौश्शील्यं कौसीद्यमिति । अथ सन्ति त्रयो धर्माः सज्जने ऽरतिः सद्धर्मश्रवणे द्वेषः परदोषप्रकटने प्रीतिः । अत सन्ति त्रयो धर्मः अगौरवता संकथ्यदूषणं दुष्प्रज्ञसेवनम् । त्रीन् धर्मानप्रहाय न प्रजहाति असत्कारं संकथ्यदूषणं दुष्प्रज्ञसेवनम् [कतमे त्रयः ।] अह्रीक्यमनपत्राप्यं प्रमादः । अह्रीक्यमनपत्राप्यं प्रमादं प्रहाय प्रजहाति असत्कारं संकथ्यदूषणं दुष्प्रज्ञसेवनम् । [एवं] यावत्सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां प्रजहन् प्रजहाति रागद्वेषमोहान् जराव्याधिमरणानि च तरति ।
अत्र जराव्याधिमरणानां तरणमेव यन्निरुपधिशेषनिर्वाणम् । रागद्वेषमोहानां समुच्छेद एवार्हत्फलं सोपधिशेषनिर्वाणम् । सक्तायदृष्टिशीलव्रतपरामर्शविचिकित्सानां समुच्छेद एव यच्छ्रामण्यफलम् । अयोनिशोमनस्कारदुश्चरितातिलीनचित्तानां समुच्छेद एव यदूष्मगतादिनिर्वेधभागीयकुशलमूलम् । मुषितस्मृत्यसं प्रजन्यविक्षिप्तचित्तानां समुच्छेद एव यत् चतुर्णां स्मृत्युपस्थानानां भावना । औद्धत्येन्द्रियेष्वगुप्तद्वारताशीलविपन्नतानां समुच्छेद एव यत् प्रव्रजितशीलसमादानम् । सज्जनारतिसद्धर्मश्रवणद्वेषपरदोषप्रकटनप्रीतिनां, अश्राद्धयदौश्शील्यकौसीद्यानां, असत्कारसंकथ्यदूषणदुष्प्रज्ञसेवनानां, अह्रीक्यानपत्राप्यप्रमादानाञ्च समुच्छेद एव यत् गृहिणः परिशुद्धिः ।
कस्मात् । यत् कश्चित् रहोगतः पापकं कृत्वा न लज्जते तदाह्रीक्यम् । यत् स पापकचित्तप्रवृत्तेरूर्ध्वं सङ्घमध्ये ऽपि पापकं कृत्वा नापत्रपते । तदनपत्राप्यम् । सद्धर्ममूलात्कुशलधर्मद्वयाद्भष्टस्य सदाकुशलधर्मानुवर्तनं प्रमादः । एभिस्त्रिभिर्धर्मैः समन्वितो गुरुस्थानीयेनचार्येणानुशिष्ठं न समादत्ते । सा अगौरवता । आचार्यशासनस्य विपर्ययाचरणं संकथ्यदूषणम् । एवं सति आचार्यं परिवर्ज्य चिरं दुर्जनोपसदनं दुष्प्रज्ञसेवनम् । एभ्यो ऽनूत्पन्नमह्रीक्यमगौरवता । अनपत्रपाद्भवति संकथ्यदूषणम् । प्रमादाद्भवति दुर्जनोपसदनम् । अतो ऽश्राद्धो भूत्वा दौःशील्यं समादाय कुसीदो भवति । दुर्जनं सेवमानः [आर्य]शासनमश्रद्दधान आह- नास्ति दुष्कृतस्य विपाक इति । दुष्कृतमाचरन् विपाकं विन्दत इति शृण्वन्मात्रो वा कुक्कटश्वादिधर्मं समादायात्यन्तिकपापमेव काङ्क्षते । तद्धर्मं समादाय न किञ्चिद्धितमविन्दतेति कौसीद्यमुत्पादयति । कौसीद्यात् सज्जने ऽप्रीतो भवति यत् तत्त्वतो नास्ति सम्यक् चर्याविहारीति । सद्धर्मश्रवणं द्विषन् आह सम्यक् चरितधर्मा मिथ्याधर्माः नास्ति ततः कश्चनोपकार इति । चित्तकषायात् परदोषप्रकटने प्रीत आह- परस्य धर्मचर्यातो मत्सदृशं नास्ति किञ्चिलब्धमिति । एवं क्लेशानामनिगृहीतवतश्चित्तमुद्धतं भवति । औद्धत्यादिन्द्रियाणामसमादधानस्य शीलं विपद्यते । शीलविपत्त्या स्मृतिर्मुषिता भवति । असम्प्रजन्ये विहरतश्चित्तं विक्षिप्यते । अयोनिशोमनस्कारश्च जायते । जातायोनिशोमनस्कारत्वात् दुर्मार्गे चरति । दुर्मार्गे चरन् नार्थं प्रतिलभते । अतश्चित्तं मुग्धमतिलीनं भवति । चित्तस्य मोहात् न त्रीणि संयोजनानि समुच्छेदयति । असमुच्छिन्नत्रिसंयोजनत्वान्न रागादिक्लेशान् प्रजहति । ततो व्याध्यादयः सर्वा विपत्तयश्च भवन्ति । एषां विरुद्धाः शुक्लधर्माः ।
शोकः समाधेरपक्षालः । तस्मिन् वर्षे मासे अयने समाधिममुकं नालभ इति चिन्तयतो योगिनः शोको जायते ।
प्रीत्यास्वादने ऽभिनिवेशो ऽपि समाध्यपक्षालः । अनभिरतिश्च समाधेरपक्षालः । प्रतिरूपदेशकल्याणमित्रादिप्रत्ययान् लब्ध्वापि न चित्तमभिरमते ।
कामादीनि नीवरणानि समाधेरपक्षाला भवन्ति । संक्षिप्य यावच्चीवरपिण्डपातादयो धर्माः कुशलमूलापकर्षः अकुशलमूलप्रकर्षश्च सर्वाणि समाधेरपक्षालानि भवन्ति । इति बुद्ध्वा यत्नेन तान्यपनेतुं पर्येषेत ॥
समाध्यपक्षालवर्गः षडशीत्युत्तरशततमः ।
187 शमथविपश्यनावर्गः
(पृ) भगवान् तत्र तत्र सूत्रे भिक्षूनामन्त्र्याह- [इह भिक्षुः] अरण्यगतो वायतनगतो वा वृक्षमूलगतो वा शून्यागारगतो वा मनसि कुर्यात् द्वौ धर्मौ यदुत शमथो विपश्यनाच इति । यदि सर्वे ध्यानसमध्यादिधर्मा मनसि कर्तव्याः । कस्मात् शमथविपश्यनामात्रमाह । (उ) शमथो नाम समाधिः । विपश्यना प्रज्ञा । सर्वे च कुशलधर्मा भावनाजाता इति द्वाविमौ परिगृहीतौ । विक्षिप्तचित्तगताः श्रुतचिन्तामयादिप्रज्ञा अप्यत्र सङ्गृहीताः । आभ्यां द्वाभ्यामेव मार्गधर्मं करोति । कस्मात् । शमथो हि संयोजना व्यावर्तयति । विपश्यना समुच्छेदयति ।
शमथस्तृणग्रहोपमः विपश्यना असिना तल्लवनोपमा । शमथो भूमिमार्जनोपमः । विपश्यना गोमयविकीर्णनोपमा । शमथो रजोमार्जनोपमः । विपश्यना जलेन क्षालनोपमा । शमथो जले निमज्जनोपमः । विपश्यना अग्नावुत्तापनोपमा । शमथो गण्डोपमः । विपश्यना शस्त्रचिकित्सोपमा । शमथः सिरोद्गमोपमः । विपश्यना रक्तपाटनोपमा । शमथश्चित्तदमनोपमः । विपश्यना अतिलीनचित्तव्युत्थानोपमा । शमथः सुवर्णस्य चुलुकीकरणोपमः । विपश्यना अधिधमनोपमा । शमथः सूत्रपातोपमः । विपश्यना भूमिसमीकरणोपमा । शमथः सन्दशिन्या सन्दंशोपमः । विपश्यना शस्त्रेण कृन्तनोपमा । शमथः कवचोपमः । विपश्यना भटानां शस्त्रादानोपमा । शमथः समीक्रियोपमाः । विपश्यना शङ्कुवेधोपमा । शमथो मेदःसेवनोपमः । विपश्यना औषधप्रदानोपमा । शमथः सुवर्णकुट्टनोपमः । विपश्यना भाजनकरणोपमा ।
लौकिकाः सत्त्वाः सर्वे सुखं दुःखं वा इति द्वयोरन्तयोः पतिताः । शमथः सुखं त्यजति । विपश्यना दुखं परिहरति । किञ्च सप्तसु विशुद्धिषु शीलविशुद्धिश्चित्तविशुद्धिश्च शमथः । अन्याः पञ्च विपश्यना । अष्टमहापुरुषवितर्केषु षड्वितर्काः शमथः । ( स्स्स्_477 ) द्वौ विपश्यना । चतुर्षु स्मृत्युपस्थानेषु त्रीणि शमथः । चतुर्थं विपश्यना । चत्वारि ऋद्धिपादानि शमथः । चत्वारि सम्यक्प्रधानानि विपश्यना । पञ्चसु इन्द्रियेषु चत्वारीन्द्रियाणि शमथः । प्रज्ञेन्द्रियं विपश्यना । एवं बलमपि । सप्तसु बोध्यङ्गेषु त्रीणि बोध्यङ्गानि शमथः । त्रीणि बोध्यङ्गानि विपश्यना । स्मृतिस्तु उभयगा । अष्टसु मार्गाङ्गेषु त्रीण्यङ्गानि शीलम् । द्वे अङ्गे शमथः । त्रीण्यङ्गानि विपश्यना । शीलमपि शमथानुबन्धि । शमथो रागं समुच्छेदयति । विपश्यना अविद्यामपनयति । यथोक्तं सूत्रे- शमथो भावितश्चित्तं भावयति । चित्तं भावितं रागं प्रजहाति । विपश्यना भाविता प्रज्ञां भावयति । प्रज्ञा भाविता अविद्यां प्रजहाति इति । कामवियुक्तत्वात् चित्तं विमुच्यते । अविद्यावियुक्तत्वात् प्रज्ञा विमुच्यते । तदुभयविमुक्ति लाभिनो न पुनः किञ्चिदवशिष्यते । अतो द्वयमात्रमुक्तम् ।
(पृ) यदि शमथो विपश्यना चित्तं भावयति प्रज्ञां भावयति । चित्तप्रज्ञाभावित्वात् रागमविद्याञ्च प्रजहाति । कस्मान्नियम उच्यते । शमथश्चित्तं भावयन् रागं प्रजहाति । विपश्यना प्रज्ञां भावयन्ती अविद्यां प्रजहातीति । (उ) विक्षिप्तचित्तकस्य चित्तसन्तानानि रूपादिषु समुदाचरन्ति । सन्तन्यमानमिदं चित्तं शमथं लभते । तच्छमनादुच्यते शमथश्चित्तं भावयतीति । शमिताच्चित्ताज्जायते प्रज्ञा । अत उच्यते विपश्यना प्रज्ञां भावयतीति । उत्पन्नविपश्यनस्योर्ध्वं यत्किञ्चिद्भावितं सर्वं भाविता प्रज्ञेत्युच्यते । आद्या प्रज्ञा विपश्यना पश्चाप्रज्ञेत्युच्यते ।
यथोक्तं सूत्रे- शमथो भावितो रागं प्रजहातीति । इदं विध्नीभूतप्रहाणं भवति । केन तत् ज्ञायते । रूपादिषु बाह्यकामेषु रागो जायते । शमथौषधं लब्धवतो न पुनर्जायते । यथोक्तं सूत्रे- योगी निरामिषां प्रीतिं लभमानः सामिषां प्रीतिं जहाति इति । यदुक्तमविद्याप्रहाणमिति, तदात्यन्तिकप्रहाणम् । केन तत् ज्ञायते । अविद्याप्रहाणाद्धि रागादयः क्लेशाः प्रहीयन्ते निरुध्यन्ते नावशिष्यन्ते । सूत्रे ऽप्युक्तम्- रागविरागात् चेतोविमुक्तिः । इदं विघ्नीभूतप्रहाणं भवति । अविद्याविरागात् प्रज्ञाविमुक्तिः । ( स्स्स्_478 ) इदमात्यन्तिकप्रहाणम् । इति । अस्ति च द्विधा विमुक्तिः सामयिकविमुक्तिः अकोप्यविमुक्तिरिति । सामयिकविमुक्तिर्विघ्नीभूतप्रहाणम् । अकोप्यविमुक्तिरात्यन्तिकप्रहाणम् ।
(पृ) सामयिकी विमुक्तिः पञ्चविधानामर्हतामनास्रवा विमुक्तिः । अकोप्या विमुक्तिश्चाकोप्यधर्मणो ऽर्हतो ऽनास्रवा विमुक्तिः । कस्माद्विध्नीभूतप्रहाणमात्रमुच्यते । (उ) नेयमनास्रवा विमुक्तिः । कस्मात् । समयविमुक्तो हि यत् अधिकबलेन कञ्चित्कालं संयोजनानि विघ्नयति नात्यन्तं प्रजहाति । पश्चात्पुनः [संयोजनानि]प्रादुर्भवन्ति । अतो नानास्रवा[सा] भवति । विमुक्तिरियं सामयिकतृष्णाविमुक्तिः । क्षीणास्रवस्यार्हतो नास्ति किञ्चिदिष्यमाणम् । (पृ) तथा चेद् नार्यस्येष्यमाणं शीलम् । (उ) शैक्षाणामक्षीणास्रवत्वात् आत्ममतिः कदाचित्प्रादुर्भवति । अतः शीले जायत इष्टम् । नार्हतो ऽत्यन्तप्रहीणात्ममतेः ।
(पृ) गोधिको ऽर्हन् षड्वारं सामयिकविमुक्तेः परिहिणः । सप्तमपरिहाणभयादसिनात्मानं जघान । यदि स आस्रवान् विनाशितवान्, नात्मानं हन्यात् । अतो ज्ञायते समयविमुक्तो नानास्रव इत्युच्यते । (उ) अयं स्पृष्टात् संयोजनप्रहाणात्समाधेः परिहीणः । अस्मात्समाधेः षट्कृत्व परिहीणः । सप्तमवारं स्पृष्ट्वा समाधिमिमं आत्मानं हन्तुमैच्छत् । तस्मिन् समये संकल्पितो ऽर्हन्मार्गमस्पृशत् । अतो मारः शैक्षो विवृत्तकायस्कन्धं मृत इति आचतुर्दिगन्तं तद्विज्ञापनाय येन भगवान् तेनोपसंक्रम्य भगवन्तमेतदवोचत् ।
श्रावकस्ते [महावीर मरणं मरणाभिभूः ।]
अकांक्षते चेतयते [तन्निषेधद्युतेन्द्रिय] ।
अथ खलु भगवान् [मार इति विदित्वा त]मवोचत् ।
[एवं हि धीराः कुर्वन्ति नाकांक्षन्ते [च] जीवितम् ।]
समूलां तृष्णामृद्गृह्य गोधिकः परिनिर्वृतः ॥ इति ।
(पृ) यः क्षीणरागः स विघ्नीभूतप्रहाणकः । सूत्र उक्तं- रागाच्चेतोविमुक्तिः । द्वेषमोहाभ्यां प्रज्ञाविमुक्तिरिति । किञ्चाह- नन्दिरागप्रहाणाच्चेतो विमुक्तिरिति । आह- कामास्रवाच्चित्तं विमुच्यत इति । एवं विघ्नीभूतविमुक्तिः स्यात् न पारमार्थिकविमुक्तिः । (उ) अत्राप्युक्तम्- अविद्या प्रहीयत इति । अतो ज्ञायत इयमात्यन्तिकविमुक्तिरिति । यदि मतं रागप्रहाणं कदाचिद्विध्नीभूतप्रहाणं, कदाचिदात्यन्तिकप्रहाणमिति । अनुत्पन्नतत्त्वज्ञानस्येदं विध्नीभूतप्रहाणम् । तत्त्वज्ञानानुसारिण अत्यन्तिकप्रहाणम् । नास्ति तु कश्चित् [केवलं] शमथं स्पृष्ट्वा रागमात्यन्तिकं प्रजहातीति । तथा चेत् तीर्थिका अपि रागमात्यन्तिकं प्रजह्युः । वस्तुतस्तु न तथा । अतो ज्ञायत इदं विघ्नीभूतप्रहाणमात्रमिति ।
(पृ) सूत्र उक्तम्- शमथेन चित्तं भावयति । विपश्यनामुपादाय विमुक्तिं स्पृशति । विपश्यनया चित्तं भावयति । शमथमुपादाय विमुक्तिं स्पृशतीति । तत् कथम् । (उ) योगीयदि समाधिं प्रतीत्य क्षयमालम्ब्य प्रज्ञामुत्पादयति । तदोच्यते शमथेन चित्तं भावयति । विपश्यनामुपादाय विमुक्तिं स्पृशतीति । यदि विक्षिप्तचित्तेन स्कन्धधात्वायतनादीनि विकल्पयति । तत्प्रतीत्य क्षयमालम्ब्य शमथं स्पृशति । तदोच्यते विपश्यनया चित्तं भावयति । शमथमुपादाय विमुक्तिं स्पृशतीति । यदि स्मृत्युपस्थानादीनि निर्वेधभागीयानि स्पृष्ट्वा चित्तं परिगृह्णाति । तदा शभथं विपश्यनां युगनद्धं भावयतीति । सर्वे च योगिनो द्वाविमौ धर्मौ निश्रित्य चित्तं निरुध्य विमुक्तिं स्पृशन्ति ॥
शमथविपश्यनावर्गः सप्ताशीत्युत्तरशततमः ।
188 समाधिभावनावर्गः
(पृ) भवानवोचत्- समाधिं भावयेदिति । समाधिचित्तमिदं प्रतिणक्षमुत्पन्नविनाशि । तत् कथं भावयितव्यं भवति । (उ) प्रत्यक्षं पश्यामः खलु कायिकं कर्म प्रतिक्षणविनाश्यपि भावनावशाद्विभिन्नकौशलं भवति । भावनावशात् चिरं पुनः पुनः प्रवर्त्यमानं सत् सुकरं भवति । तथा वाचिकं कर्मापि । अनुविहितावृत्ति आवृत्त्या च प्रगुणीकृतं दृढीभूतञ्च सुस्मरणं भवति यथाध्ययनादि । मानसं कर्म च क्षणिकमपि भावयितव्यमिति ज्ञातव्यम् । यथाग्निर्जन्यं विकारयति । आपः शिला भेदयन्ति । वायुः पदार्थान् विधमति । एवं क्षणिकधर्माणां सर्वेषां संहतानां बलमस्ति । क्लेशा यथावासनमनुवर्धन्ते । यथा कश्चित् पुनः पुनर्मैथुनचित्तं भावयन् बहून् कामानभिनिर्वर्तयति । तथा द्वेषमोहावपि । यथोक्तं सूत्रे- यो यद्वस्तुचित्तं मनसि करोति स तत्र प्रतिपन्नः । तद्यथा सदा कामवितर्कचित्तमनुसरन् कामाय प्रतिपद्यते । एवमन्यौ द्वौ वितर्कावपि । इति । अतो ज्ञायते चित्तमिदं क्षणिकमपि भावयितव्यं भवतीति ।
भावना नामोपचयः । दृश्यन्ते दृष्टे सर्वे धर्माः सोपचयाः । यथोक्तंसूत्रे- योगी खलु अयोनिशो मनसिकारात् कामादीनास्रवाननुत्पन्नानुत्पादयति । उत्पन्नान् विवर्धयति । यदवरान्मध्यमुत्पादयति । मध्यादुत्तममुत्पादयति । तद्यथा बीजादङ्कुरमङ्कुरात्काण्डं काण्डान्नाळं नाळात् पत्रं पत्रात्पुष्पं पुष्पात्फलमिति प्रत्यक्षतो हेतुतो ऽनुपूर्वं विवर्धते । समाधिसम्प्रजन्यादिधर्मा अप्येवमेव स्युः । प्रत्यक्षतो दृष्टं खलु वासिततिलस्य गन्धः संङ्ग्क्रात्या वर्धत इति । अयं गन्धस्तिलञ्च प्रतिक्षणमविद्यमानं, तथापि तद्वासनाबलमस्ति । अतो ज्ञायते क्षणिका धर्मा अपि भावयितव्या इति ।
(पृ) तिलं वर्तमानधर्मः । वासितो गन्ध आगन्तुकः । अविद्यमानं चित्तं क्षणिकज्ञानेनागत्य भाव्यते । कथं दृष्टान्तो भवेत् । (उ) नास्ति कश्चिद्विद्यमानधर्मः सर्वे च धर्माः क्षणिका इति पूर्वमेव साधितम् । अतो नास्ति दूषणम । यदि धर्मा अक्षणिकाः, न भावयितव्याः । स्वरूपत एव सदास्थितस्य भावनया क उपकारः । यदि धर्मः प्रतिक्षणविनाशि, ( स्स्स्_481 ) [तदा] अवरान्मध्यं मध्यादुत्तममिति धर्मस्य भावना भवेत् । (पृ) कुसुमानि तिलं प्राप्य वासयन्ति । ज्ञानन्तु न चित्तमाप्नोति । अतो नास्ति भावना । (उ) पूर्वकर्मदृष्टान्ते प्रतिपादितमिदम् । यदुत्तरभाविकर्म न पूर्वभाविकर्म प्राप्नोति । पुर्ववचनं नोत्तरभाविवचनमपेक्षते । तथापि कायिकवाचिककर्मणोरस्ति च भावनालक्षणम् । अतो ऽप्राप्तं न भाव्यत इति तव वचनं न दूषणाय भवति । प्रत्यक्षतो दृश्यते च हेतुफलयोरयौगपद्ये ऽपि भवत्येव हेतोः फलं भवतीति । एवं चित्तधर्मस्य क्षणिकत्वे ऽपि भावनास्त्येव । यथा च बीजं सलिलसिक्तमङ्कुरादीनप्राप्यापि अङ्कुरादीनङ्कुरयति । एवं प्रज्ञा पूर्वचितं भावयति तदूर्ध्वचित्तमुपचितं भवति ।
(पृ) यदि क्षणिकात्तिलात् तिलान्तरं जायते । किमिदं तिलं वासितं जायते, अवासितं वा । यद्यवासितं जायते, नैव भवेद्वासनावत् । यदि वासितं जायते । पुनः क उपयोगश्चिरवासन [क्रिय]या । (उ) वासनाहेतुत्वात् । यथा बिजात्सलिलसिक्तादङ्कुरो ऽङ्कुरयते । एवं पूर्वकुसुमयोगं प्रतीत्य तिलान्तरं जायते । इदं तु वासितं जायते । भवानवोचत्- क उपयोगश्चिरकालवासनयेति । यथा भवतां सूत्र उक्तं- अग्निसंयोगादणुषु कृष्णवर्णे निरुद्धे रक्तवर्णं जायत इति । यद्यादावग्निसंयुक्तधर्मस्य कृष्णवर्णं निरुध्यत इति । न स्यात्पुनः कृष्णवर्णस्योत्पत्तिः । यद्यादावग्निसंयुक्तधर्मस्य रक्तवर्णमुत्पद्यत इति पुनः पश्चादग्निसंयुक्तधर्मः किमर्थम् । यद्यादावग्निसंयोगकाले कृष्णवर्णमुत्पद्यते । रक्तवर्णं नैवोत्पद्येत । यदि द्वितीयक्षणे रक्तवर्णं जायते । पुनरश्चिरकालाग्निसंयोगः किमर्थम् । यदि भवतामभिसन्धिः रक्तवर्णं क्रमशो जायत इति । चित्तमप्येवमिति को दोषः । तथा विपरिणामादिरपि ।
सर्वे धर्मा सहेतुसप्रत्यया अपि क्रमशो जायन्ते । यथा गर्भाधानादिक्रमेण शरीरमभिनिर्वर्त्यते । एवं प्रज्ञासमाध्यादयो धर्माः क्षणिका अपि अवरमध्योत्तमधर्मक्रमेण जायन्ते । भावनाधर्मः सूक्ष्मो ऽपि चित्तसन्ततिमन्यथयति । यथा पक्षच्छदस्योष्मणि मृदुन्यपि अण्डं क्रमशो विक्रियते । पाणितलमांसमर्दनात् वाशीजटा सूक्ष्मशः क्षीयते । एवं चित्तमपि । समाहितप्रज्ञा सूक्ष्मेत्यतः क्रमशो भाव्यते । धर्मं भावयन् प्राप्तिकाले तावत् जानाति ।
यथोक्तं गाथायाम्-
आचार्यात्सर्वमादत्ते, सर्व[तत्] मि(मै?)त्रहेतुकम् ।
आत्मचेतनया सर्व, सर्व पाके कालमपेक्षते ॥ इति ।
कश्चिदजस्रमधीयानो ऽपि न प्रत्येति परिपव्ककालिक इव । यथा बहुभिः पुष्पैरेकस्मिन् समये तिलं वासयति न यथा पुष्पाल्पानि क्रमशश्चिरं वासयन्ति । मेदसा परिपुष्टिः जले [नौका] निमज्जनं भित्तिनिर्माणं इत्यादिरपि तथा । प्रत्यक्षं खलु [नः] बीजाङ्कुरादीनामुपचयो ऽतिसूक्ष्मः, नैव द्रष्टुं शक्यते । तेषां दैनन्दिन उपचयः क्लेशानां गणना । बालकादीनां शरीरं स्तन्यपानादिना परिपच्यत इतीदमपि तथा स्यात् । अतो ज्ञायते धर्मभावना सूक्ष्मा प्रणीता दुरवबोधा चेति ।
(पृ) कदाचिद्धर्मो युगपदुपचीयते । कश्चित्पूर्वं रूपमदृष्ट्वापि तद्दर्शनमात्रेण तत्राभिनिविशते । कश्चिदल्पकाले ऽपि बहु प्रतिसंवेदी भवति । कस्मादुच्यते क्रमिकैव भावनेति । (उ) सर्वस्यातीतभावित्वात् । अतो ज्ञायत उपचिता भावना क्रमिकेति । इदं प्रतिपादितमेव । न चित्तोत्पादमात्रेण यत्किञ्चित्साधयति । यथोक्तं सूत्रे- यः कुशलधर्मेषु न भावनायोगमनुयुक्तः कुशलधर्माननुपादाय केवलं प्रणिदधाति आस्रवेभ्यश्चित्तविमोकम् । नैवास्य चिन्तितं प्रणिधानाद्भवति । कुशलधर्मेषु भावनायोगाननुयुक्तत्वात् इति ।
योगी यदि कुशलधर्मेषु भावनायोगमनुयुक्तो भवति । अकृतप्रणिधानस्यापि [तस्य] आस्रवेभ्यश्चित्तं विमुच्यते । हेतोर्हि फलं जायते न प्रणिधानात् । तद्यथा पक्षिणामण्डसंस्पर्श आवश्यकः । न प्रणिधानात् जन्तुरण्डान्निर्गच्छति । न च प्रणिधानात्प्रदीपप्रकाशः परिशुद्धो भवति । किन्तु परिशुद्धतैलं परिशुद्धवर्तिकाञ्चोभयमपेक्ष्य [अन्य]वस्तुसंस्पर्शचाञ्चल्यराहित्ये च तत्प्रकाशः परिशुद्धो भवति । किञ्च न प्रणिधानमात्रेण धान्यं लभ्यते । किन्तु अवश्यं सूक्षेत्रसद्बीजर्तुवृत्तिसमीक्रियाकृषिकर्मणां साकल्ये तत्प्रतिलाभो भवति । नापि च प्रणिधानमात्रात् देहो रूपं बलञ्च लभते । अवश्यं वस्त्रौषधाहारपोषणादिप्रत्ययेन तु परिपूर्णो भवति । एवं न प्रणिधानमात्रादास्रवाणां क्षयो भवति । अवश्यं तत्वज्ञानमपेक्ष्य विमुच्यते । को ज्ञानी हेतोः फलं जायत इति प्रजानन् तद्धेतुमुपेक्ष्य अन्यस्मात्फलमाकांक्षेत ।
धर्म भावयन् दृष्ट एव फलविपाकं पश्यति । यथोक्तं सूत्रे- तिष्ठन्तु सप्तदिनानि मया शासिताः श्रावका मुहूर्तं तावत्कुशलधर्मं भावयन्तो ऽप्रमाणवर्षेषु नित्यं सुखां वेदनां स्पृशन्ति इति । भिक्षुण्यो भदन्तमानन्दमवोचन्- वयं स्मृत्युपस्थानेषु सुप्रतिष्ठितचित्ता विहरन्त्यः पूर्वेणापरं विशेषं सम्प्रजानीम इति । सूत्रे च भगवान् भिक्षूनामन्त्र्याह- अशठस्य मामुपसङ्क्रमतो यन्मया प्रातरुपदिष्टो धर्मः तदर्थ सायं विन्दते । यत् सायमुपदिष्टो धर्मः प्रातस्तद्धितं विन्दत इति । यच्चार्हन्मार्गं स्पृशति न तत् परपुद्गलः प्रयच्छति । नानन्यपुद्गलः । केवलं सम्यग्घेतुभावनातस्तद्धितमाप्नोति । अनुत्तरं बुद्धमार्ग एव ननु कुशलधर्मस्योपचितभावनया स्पृशति । यथोक्तं सूत्रे- भगवान् भिक्षूनामन्त्र्याह- द्वौ धर्मौ निश्रित्याहमनुत्तरं मार्गं समापन्नः यत् शुभाभिरतावनिर्वेदो मार्गभावनायामक्लान्तिश्च इति । भगवतः कुशलधर्माणां नास्ति सीमा ।
बोधिसत्त्वाः समाधिमस्पृशन्तो ऽपि न कुसीदा भवन्ति । कस्मात् । कुशले ऽकृते न किञ्चिलभ्यते । कुशले कृते ऽपि नाकारे परिवृत्तिः । कुशलमकुर्वतो नैव क्षैमं भवति । इदं चिन्तयित्वा वीर्यमारभमाणः कुशलधर्मं भावयेत् । वीर्यमारभमाणस्य लाभो वा भवति हानिर्वा । अकृतवीर्यस्य नैवास्ति प्रत्याशा । अतो भावनामारभेत मा परिखेदो भूदिति । प्राज्ञः पर्यवसाने ऽवश्यं मुच्यते । भावनाविनिर्मुक्तस्य न पुनरस्त्युपायः । अतः प्राज्ञेन भावनारब्धव्या, मा परिखेदो जनयितव्यः । योगी सुचरितचर्याया अस्ति फलविपाक इत्यनुस्मृत्य अलभमानो ऽपि न विषादं करोति । किञ्च योगी मनसि कुर्यात्- मया भावनायाः फलविपाको ऽनुप्राप्त एव । पूर्वागतैः सत्त्वैः सर्वेषां ध्यानसमाधीनां [फलविपाकस्य] अनुप्राप्तत्वात् । ममेदानीं सम्यग्भावनापि फलविपाकमनुप्राप्स्यतीति । अतो न परिखिद्यात् ।
सुचरितशालिनि तथागतः प्रत्यक्षं करोति । अहमिदानीं सम्यगाचरामीत्यतो ज्ञानमवश्यमनुप्राप्स्यते । अहं मार्गसमापत्तिप्रत्ययसम्पन्नः यत् मनुष्यदेहप्राप्तिरविकलेन्द्रियता पुण्यपापविज्ञातृता विमुक्तावपि चाधिमुक्तता अभ्यागतसम्बुद्धिता इत्येतैः प्रत्ययैः समन्वितः कथं न भावनाफलविपाकमनुप्राप्स्ये । वीर्यसमाचरणममोघमेव । अतो न परिखिद्यते । ( स्स्स्_484 ) क्लेशानां प्रहाणमतिसूक्ष्मं दूरवबोधं वाशीजटायां क्रमशः क्षयवत् । मम क्लेशानामपि भवेत्प्रहाणम् । सौक्ष्म्यात्परं न सम्बुध्यते । अतो ज्ञायते कुशलं भावयितुं वीर्यमुत्तमं भवतीति । अल्पीयसी प्रज्ञापि क्लेशान् विनाशयति यथा अल्पीयान् प्रकाशो ऽन्धकारमपनयति । एवमल्पीयसीं प्रज्ञां लभमानः कृतकृत्यो भवति । अतो न परिखिद्यते । दीर्घकाये ऽपि दुस्साधना यत् समाधिसमापत्तिः । यदि समाधिं समापद्यते । तदान्ये गुणा अचिरेण भवन्ति । अतः क्षिप्रमलभमानो ऽपि न परिखिद्यते ।
योगी समनुचिन्तयेत् समाधिसमापत्तिरतिकृच्छ्रा यथा पुरा बोधिसत्त्वः पुण्येन प्रज्ञया च घनिष्ठः षट्वर्षाणि व्यवस्यन् अन्ते ऽनुप्राप्तः । अन्येषां भिक्षूणां समाधिसमापत्तिरपि कृच्छ्रा, किं पुनर्मम पृथग्जनस्य मन्देन्द्रियस्य वेगेनानुप्राप्तिरिति । एवमनुचिन्त्य न परिखिद्येत । योगिभिरवश्यं कर्तव्यं यत् समाधिभावना, नास्ति पुनः कर्मान्तरम् । अतो ऽननुप्राप्तस्यानुप्राप्तये भावयितव्यम् । भावयिता समाधिमसमापन्नो ऽपि कायप्रविवेकलाभी भवति । प्रविविक्तकायस्य समाधिः सुलभो भवति । समाधिभावनामारभमाणो भगवदनुग्रहस्यानृणो भवति । प्रविवेकचारित्वात् योगावचर इत्याख्यामपि विन्दते । दीर्घकालं कुशलं भावयतः कुशलस्वभावः सिध्यति । यावत्कायप्रवृत्ति कुशलमेव सदानुपतति । अतः सुजनैः सङ्गच्छेत । इदं महते ऽर्थाय भवति । सदा कुशलस्य भावयिता दृष्ट एव कायेन आस्रवाणां क्षयं स्पृशेत् । यदि वा मरणकाले स्पृशेत् यदि वा आयुषो ऽन्ते सुस्थान उपपद्य तदन्तरा स्पृशेत् । इति यथाधर्मश्रवणानुशंस उक्तम् ।
योगी अध्यात्मं चित्तं वीरलक्षणं पुरस्कृत्यैवं चिन्तयति अहं क्लेशावरणमपर्यादाय न कदाचिद्वृथा प्रतिनिवर्त इति । किञ्च योगी मानचित्तमाश्रित्यैवं चिन्तयति- श्रद्धादीनि कुशलेन्द्रियाणि सन्तीति अन्ये समाधिं प्रतिपद्यन्ते । ममापीदानीं सन्ति । किमर्थं न समापद्य इति । यथा पुरा बोधिसत्त्वः अराडादिभ्यो मुनिभ्यो धर्मं श्रुत्वैवमचिन्तयत् इमे श्रद्धादिकुशलेन्द्रियत्वात् धर्ममनुप्राप्नुवन् । समापीदानीं सन्ति कस्मान्नानुप्राप्स्यामीति । योगी प्रजानाति- क्लेशा दुर्बलाः प्रज्ञा बलवती । तत्प्रहाणं किमिति दुष्करमिति । यथोक्तं- भिक्षुः षड्भिर्धर्मैः समन्वागतो मुखमारुतेन हिमवन्तं [पर्वतराजमपि] प्रदलयेत् । कः पुनर्वादो अविद्यामिति ।
किञ्च योगी चिन्तयति- अहं पूर्वाध्वनि न समाधिं भावितवान् । अत इदानीं नानुप्राप्नोमि । इदानीं न प्रयते पश्चात्पुनर्नानुप्राप्स्यामीति । अतो भावनामारभते । सदा समाधिभावित्वात् चित्तमेकत्र प्रतितिष्ठति । यथा घटस्य प्रवर्तनमनुपरतमवश्यमेकत्र प्रतितिष्ठति । अपि च योगी चिन्तयति- यद्यहं सदा वीर्यमारभे यदि चाननुप्राप्तमनुप्राप्नोमि । तदोर्ध्वंमवश्यं न विप्रतिसरिष्यामीति । अतश्चित्तैकाग्र्येण समाधीन् भावयितुमारभेत ॥
समाधिभावनावर्गो ऽष्ठाशीत्युत्तरशततमः ।
189 मार्गसत्यस्कन्धे ज्ञानाधिकारे ज्ञानलक्षणवर्गः
तत्त्वस्य प्रज्ञा ज्ञानमित्याख्यायते । तत्त्वं यत् शून्यानात्मता । तस्य प्रज्ञा तत्त्वज्ञानं भवति । प्रज्ञाप्तौ प्रज्ञेति संज्ञा न तु ज्ञानम् । कस्मात् । उक्तं हि सूत्रे- यथासिः परिकृन्तति । आर्यश्रावकाः प्रज्ञासिना संयोजनानुबद्धान् अनुशयपर्यवनद्धान् सर्वान् क्लेशान् समुच्छेदयति । नान्यधर्मेणेति वदन्ति । नातत्त्व[ज्ञाने] न क्लेशान् समुच्छेदयति इति । अतो ज्ञायते प्रज्ञैव तत्त्व[ज्ञान]मिति ।
(पृ) यत् भवानाह- प्रज्ञैव क्लेशान् समुच्छेदयतीति । तदयुक्तम् । कस्मात् । संज्ञयापि हि क्लेशान् समुच्छेदयति । यथोक्तं सूत्र- अनित्यसंज्ञा भाविता [बहुलीकृता] सर्वं कामरागं पर्यादाति । [सर्वं] रूपरागं [सर्व]भवरागं [सर्व]मस्मिमानं [सर्वा]मविद्याञ्च पर्यादाति । इति । (उ) मैवम् । प्रज्ञया यः क्लेशानां समुच्छेदः [स एव] संज्ञयेत्युच्यते । ( स्स्स्_486 ) अस्ति भगवतो द्विविधं वचनं- परमार्थवचनं संज्ञावचनमिति । यथोक्तं सूत्रे- मैत्री व्यापादं समुच्छेदयतीति । अयं मैत्रीधर्मः परमार्थतो न संयोजनं समुच्छेदयति । ज्ञानमात्रं समुच्छेदयति । यथोक्तं- ज्ञानासिः सर्वान् क्लेशान् समुच्छेदयति इति । अतो ज्ञायते मैत्री संयोजनं समुच्छेदयतीति संज्ञावचनम् । किञ्चोक्तं प्रज्ञार्थसूत्रे- विमुक्तिं प्रजानातीति प्रज्ञा । किं वस्तु विमुक्तिरिति प्रजानाति । यत् अनित्यं रूपं अनित्यमिति यथाभूतं प्रजानाति । अनित्या वेदना, संज्ञा, संस्कारा, विज्ञानमनित्यमिति यथाभूतं प्रजानाति । इयं प्रज्ञैवेति । किञ्चाह- आर्यश्रावकाः समाहिता यथाभूतं प्रजानन्तीति । अतो ज्ञायते परमार्थ एव प्रज्ञेति । प्रज्ञादृष्टान्ते चोक्तम्- ज्ञानमसिः प्रज्ञा इषुरित्यादि । दृष्टान्तो ऽयं सर्वक्लेशप्रहाणमुपदर्शयति । तत्त्वज्ञानमेव क्लेशान् समुच्छेदयतीत्यतः प्रज्ञैव तत्त्व[ज्ञान]मिति ज्ञायते । उक्तञ्च गाथायाम्-
योगी पश्यति वै लोके सर्वे देवाश्च मानुषाः ।
तत्त्वज्ञानपरिभ्रष्टा नामरूपे ऽभिनिविष्टाः ॥ इति ।
लौकिका भूयसा तुच्छकं नित्यं सुखं सुभमित्यादि दृष्ट्वा तत्त्वज्ञानाद्भष्टा भवन्ति । यः परमार्थतः शून्यमनात्म इत्यादि पश्यति, स तत्त्वज्ञानी भवति । अतो ज्ञायते प्रज्ञैव तत्त्व[ज्ञान]म् इति ।
आह च भगवान् सूत्रे- यस्य धनं विनष्ठं, तस्याल्पीयान् लाभो विनष्टः । यस्य प्रज्ञा विनष्टा, तस्य महीयान् लाभो विनष्ट इति । किञ्चाह- लाभेषु धनमल्पीयान् लाभः । प्रज्ञा तूत्तमो लाभ इति । आहच- प्रद्योतानां चन्द्रसूर्यप्रद्योत अल्पीयान् प्रज्ञाप्रद्योतो ऽग्र इति । यदि प्रज्ञा न तत्त्व[ज्ञानं], कस्मादेवं वदेत् । उक्तञ्च सूत्रे- प्रज्ञेन्द्रियमार्यसत्यसङ्गृहीतमिति । आह च- दुःखसमुदयज्ञानादिः तत्त्व[ज्ञान]मिति प्रजानीयात् । परमार्थसत्यालम्बनेयं प्रज्ञा इति । आह च- [बोधिपक्षिक]धर्मेषु प्रज्ञा अग्रा इति । ( स्स्स्_487 ) किञ्चाह- अनुत्तरा सम्यक्सम्बोधिः प्रज्ञेन्द्रियमित्यभिधीयते इति । अतः सा तत्त्वमिति । भगवतो दश बलानि ज्ञानमयानि । अतो ज्ञायते प्रज्ञा वस्तुतः परमार्थालम्बना भवतीति । (पृ) तथा सति प्रज्ञा अलौकिकी भवेत् । (उ) वस्तुतो ऽलौकिकी प्रज्ञा । केनेदं ज्ञायते । लौकिकं चित्तं प्रज्ञप्तिमवलम्बते । लोकोत्तरं चित्तं नैरात्म्यशून्यतामवलम्बते । कस्मात् । प्रज्ञप्तिर्हि लोक एव । प्रज्ञप्तेरतिक्रान्तं लोकोत्तरम् ।
(पृ) भवदुक्तं न युज्यते । कस्मात् । उक्तं हि सूत्रे- किं विजानाति विज्ञानम् । यदुत रूपशब्दगन्धरसस्पर्शान् विजानाति । यथा स्कन्धधात्वायतनादीनि विज्ञानेन विजानाति । इदं विज्ञानं लोकोत्तरं भवेत् । इति । अतो लौकिकं चित्तं प्रज्ञप्तिमात्रमालम्बते न तत्त्वमिति भवद्वचनमयुक्तम् । मनोविज्ञानमपि तत्त्वालम्बनम् । वेदनासंज्ञासंस्काराद्यालम्बित्वात् । किञ्चाह भगवान्- द्वे सम्यक् दृष्टी लौकिकी लोकोत्तरेति । पुण्यपापाद्यस्तित्व [सम्यक् दृष्टि]लौकिकी यदार्यश्रावकाणां दुःखसमुदयनिरोधमार्गानालम्ब्य अनास्रवस्मृत्या सम्प्रयुक्ता प्रज्ञा लोकोत्तरा । उक्तञ्च गाथायाम्-
लौकिकोत्तमदृष्टीको यातायातो ऽपि संसृतौ ।
अध्वनां शतसाहस्रं न यावद्दुर्गतौ गतः ॥ इति ।
उक्तञ्च सूत्रे- मिथ्याचारिणः सुस्थाने जन्म भवति । अस्त्य पापकर्मणो ऽनभिनिर्वृत्तौ कुशलप्रत्ययः पूर्वं विपच्यते । कदाचिन्मरणकाले समुपस्थिते सम्यक् दृष्टिसम्प्रयुक्तं कुशलचित्तमभिमुखीभवति । अतः सुस्थाने जायते । इति । दशसु कुशल[कर्म]पथेष्वपि सम्यग्दृष्टिरुक्ता । कथं भवानाह लोकोत्तरं ज्ञानमिति । आह च भगवान्- त्रिविधा प्रज्ञा श्रुतमयी प्रज्ञा, चिन्तामयी प्रज्ञा, भावनामयी प्रज्ञा । श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा लौकिकी । भावनामयी उभयविधा इति । किञ्च भगवान् [आनापान]स्मृतिं जनयामास । राहुलो भिक्षुरपरिनिष्पन्नां विमुक्तिप्रज्ञामनुप्राप । आह च पञ्चधर्मा अपरिपव्कं विमुक्तिचित्तं विपाचयन्ति इति । एषा सर्वा लौकिकी प्रज्ञैव । किञ्चोक्तं सूत्रे- केचिदभिनिष्क्रमणकुशलाः, न विपश्यनाकुशलाः । केचिद्विपश्यनाकुशलाः न सन्तरणकुशला इति । लौकिक ज्ञानलाभितया अभिनिष्क्रमणकुशल इत्युच्यते । चतुस्सत्यादर्शितया न विपश्यनाकुशलः । ( स्स्स्_488 ) चतुस्सत्यानि पश्यन्नपि आस्रवक्षयालाभितया न सन्तरणकुशलः । भगवान् स्वयमाह- धर्मज्ञानमन्वयज्ञान परचित्तज्ञानञ्च लौकिकं ज्ञानमिति । किञ्चाह- पूर्वनिवासज्ञानं च्युत्युपपत्तिज्ञानं सास्रवमिति । अपि चाह- धर्माणां स्थितिज्ञानं निर्वाणज्ञानं भवति । इत्यादिसूत्रेषूक्तत्वात् ज्ञातव्यं अस्ति सास्रवं ज्ञानमिति ।
अत्र प्रतिब्रूमः । यद्यस्ति सास्रवा प्रज्ञा । इदानीं वक्तव्यं सास्रवानास्रवयोः प्रविभक्तं लक्षणम् । (पृ) यो धर्मो भवे पातकः स सास्रवः । तदन्यो ऽनास्रवः । (उ) को धर्मो भवे पातकः । को वा न भवे पातकः । इदं प्रतिवक्तव्यम् । अप्रतिब्रूवाणस्य नास्ति सास्रवानास्रवयोर्लक्षणम् । यद्भवतोक्तम्- अस्ति लौकिकं चित्तमप्रज्ञप्त्यवलम्बनं यद्विषयादीनां विज्ञानमिति । तदयुक्तम् । कस्मात् । आह खलु भगवान्- पृथग्जनाः सततं प्रज्ञप्तिमनुधावन्तीति । अस्यार्थः । सर्वपृथग्जनचित्तं प्रज्ञप्तिं न पर्यादातीत्यतः सदा अस्मितालक्षणमनुधावति । नैव ततो विसंयुज्यते । रूपं पश्यतो ऽपि न घटादिलक्षणाद्विसंयुज्यते इति । अतः पृथग्जन चित्तं न तत्त्वार्थमवलम्बते । वेदनासंज्ञादीन् धर्मानवलम्बमानो ऽपि अहं ममेति पश्यति । अतो ज्ञायते सर्वं लौकिकं चित्तं प्रज्ञप्तिमवलम्बत इति ।
यदुक्तं भवता- लौकिकी प्रज्ञा यदुत द्विधा सम्यग्दृष्टिरित्यादि इति । तत्रेदं प्रतिवक्तव्यम्- अस्ति चित्तद्वैविध्यं मोहचित्तं ज्ञानचित्तमिति । प्रज्ञप्तिधर्मावलम्बनं चित्तं मोहचित्तम् । यत् शून्या नात्मरूपधर्ममात्रावलम्बनं चित्तं ज्ञानचित्तम् । यथोक्तमविद्याविभङ्गसूत्रे- अविद्या कतमा । यत् पूर्वान्ते ऽज्ञानमपरान्ते ऽज्ञानं पूर्वान्तापरान्ताज्ञानं कर्मण्यज्ञानं कर्मविपाके ऽज्ञानं पूर्वापरकर्मविपाकाज्ञानं इत्यादि तत्र तत्र यथाभूतस्याज्ञानमदर्शनमनभिसमयः तमः संमोहः [अविद्या]न्धकारः इयमुच्यते ऽविद्या इति । यथाभूतस्या ज्ञानमिति यत् शून्यानात्मा ज्ञानम् । इदं पृथग्जनचित्तं सदा प्रज्ञप्तिगतं सत् प्रज्ञप्तिमवलम्बते । अतो ऽविद्येत्याख्यायते । शून्यालम्बनं ज्ञानम् । इदानीं यदि सर्वं लौकिकं ज्ञानं प्रज्ञप्तिमवलम्बते । प्रज्ञप्त्यालम्बनं चित्तमविद्या भवति । कथमुच्यते अस्ति लौकिकी प्रज्ञा इति ।
(पृ) भवतोक्तवत् प्रज्ञप्त्यालम्बनं प्रज्ञालक्षणमविद्या । इदानीमर्हतो ऽविद्या भवेत् । घटाद्यालम्बनचित्तस्य सत्त्वात् । (उ) अर्हतो नास्ति घटाद्यालम्बनं चित्तम् । कस्मात् । ( स्स्स्_489 ) प्रथमाभि सम्बोधिकाल एव सर्वप्रज्ञप्तिलक्षणानां विध्वस्तत्वात् । क्रियार्थार्य केवलमभिदधाति । न तत्र मानदृष्टावभिनिविशते । सन्ति त्रयो वादाः- (1) दृष्टिजः, (2) मानजः, (3) क्रियार्थज इति । त्रिभ्यः क्रियार्थो भवति । पृथग्जना यद्वदन्ति घट इति पुद्गल इति । अयं वादो दृष्टिजः । शैक्षा आत्मदृष्टिविहीना अपि सम्यक्स्मृतिप्रमोषत् पञ्चसु स्कन्धेषु अस्मिमानलक्षणेन वदन्ति- अयं पुद्गलः अयं घट इति । यथा क्षेमकसूत्र उक्तम् । क्रियार्थज इति यदर्हतः । यथा महाकाश्यपः सङ्घाटिं दृष्ट्वा आह- इयं ममेति [यत्] दिव्यर्द्धौ विचिकित्सां जनयति । भगवान् तद्विवृण्वन्नाह- अयमत्यन्तसमुद्धतमानेन्द्रियः प्रदग्धहेतुप्रत्ययः कथं साभिमानः स्यात् । प्रज्ञप्त्या परं [तथा] वदतीति । अतो ज्ञायते अस्त्यर्हतो घटादिचित्तमिति ।
(पृ) यद्यलौकिकी प्रज्ञा । द्वे सम्यग्दृष्टी इत्यादी सूत्रं कथं नेयम् । (उ) इदं सर्वं संज्ञाज्ञानमिति नाम्नोच्यते । भगवान् धर्माणां तत्त्वलक्षणप्रतिसंवेदी विनेयसत्त्वाननुसृत्य विविधं नाम स्थापयति । यथा प्रज्ञामेव वेदनादिनाम्नोपदिशति । यदुत वेदकः सर्वधर्मेभ्यो विमुच्यत इति । अपि चाह अनित्यादिसंज्ञा भाविता सर्वान् क्लेशान् परिभेदयतीति । आह च- चतुर्थमकृष्णमशुक्लं कर्म सर्वकर्माणि शैक्षचेतनाख्यानि क्षपयतीति । किञ्चाह- मनसा सर्वानभिविवेशान् प्रजहातीति । आह च-
श्रद्धया तरति ओघम् अप्रमादेन चार्णवम् ।
वीर्येण दुःखमत्येति प्रज्ञया परिशुध्यति ॥ इति ।
अपि चाह- चक्षू रूपदर्शनायेच्छति इति । चक्षुषि वस्तुतो ऽसत्यामपीच्छायां चित्तमेव दर्शनायेच्छत् चक्षुर्नाम्नोच्यते ।
(पृ) यदि लौकिकं ज्ञानं संज्ञा । कस्मात् ज्ञानं भवति । यदि हेतुप्रत्ययान् विनोपदिष्टं ज्ञानम् । तदा सर्वाः संज्ञा ज्ञानं भवेत्युः । वक्तव्या च द्विविधा संज्ञा लोकं प्रतीत्य सत्यं, परमार्थं प्रतीत्य सत्यमिति । (उ) मैवम् । संज्ञायाः सन्ति नानाविभागाः । काचित् मोहकाष्ठात्मिका संज्ञा यावत् लौकिककुशलाकुशलानि न विजानाति । काचिदवरमोहात्मिका संज्ञा कुशलाकुशलानि विवेचयति । काचिदल्पमोहात्मिका संज्ञा अस्थिसंज्ञाद्यालम्बते । प्रज्ञप्ति मविहाय न स्कन्धलक्षणानि विधमति । इतीयं संज्ञा स्कन्धलक्षणपरिभेदकं ज्ञानमनुकूलयतीत्यतो भगवानुपदिशति ज्ञानमिति । इयञ्च संज्ञा तत्त्वज्ञानस्य हेतुं करोतीत्यतो ज्ञानमि त्युच्यते । अस्ति च लोके कारणे कार्योपचारः । यथा सुवर्णं भुङ्क्ते । पुरुषस्य पञ्चवृत्तीर्ददाति । स्त्री शीलं मलिनं करोति । सुपारा जलधारा सुखा । धर्मवसनः पुरुषः सुख इति । सप्तास्रवसूत्रे च वचनप्रहाणवृत्तिप्रहाणादय आस्रवहेतव आस्रवा इत्युच्यन्ते । आहुश्च आहारो जीवितं पशवस्तृणानीति । अपि चाहुः- अन्नवस्रादीनि बाह्यजीवितम्, यत् परस्वापहरणं तदेव परजीवितापहरणम् इति । इदं सर्वं हेतुमेव फलतया वदन्ति । एवं ज्ञानहेतुरेव ज्ञानमित्युच्यते । अतो ऽनवद्यम् ।
(पृ) स्मृत्युपस्थानेषु उष्मादिषु च गतं चित्तं तत्त्वधर्ममालम्बते । किमिदमनास्रवम् । (उ) यदनास्रवं चित्तं तत् प्रज्ञप्तिं विधमति । अतो यत्र प्रज्ञप्तिविधमनं चित्तं तदनु समागतं चित्तमनास्रवं भवति । (पृ) कुत्र चित्तं प्रज्ञप्तिं युगपत् विधमति । (उ) यत्र पञ्चानां स्कन्धानामुदयव्ययानुदर्शनसम्पन्नो भवति । तदा [तेषा]मनित्यसंज्ञामनुप्राप्नोति । अनित्यसंज्ञा च योगिनो ऽनात्मसंज्ञां सम्पादयति । यथोक्तम्- आर्यश्रावकाणामनित्यसंज्ञया चित्तं भावयतामनात्मसंज्ञा प्रतितिष्ठति । अनात्मसंज्ञया चित्तं भावयतां क्षिप्रं रागद्वेषमोहेभ्यो विमुच्यते इत्यादि । कस्मात् । अनात्मसंज्ञया हि चित्तं भावयतां दुःखसंज्ञा प्रतितिष्ठति । आत्मसंज्ञित्वात् दुःखमपि प्रतिबुध्यते । अतो यो धर्मो ऽनित्यो ऽनात्मा, स दुःखो ऽपि इति प्रजानन् अकुशलान्निर्विद्यते । अतो ऽनात्मसंज्ञा दुःखसंज्ञां सम्पादयति ।
(पृ) कस्माद्भवानाह [अन्यथा] विधनक्रमम् । सूत्रे तूक्तम्- यदनित्यं तद्दुःखम् । यद्दुःखं तदानात्म इति । अतो ऽनित्यसंज्ञा दुःखसंज्ञा सम्पादयति । दुःखसंज्ञानात्मसंज्ञां सम्पादयति ।
(उ) सूत्र उक्तम्- अनित्यसंज्ञाभावितं श्रावकाणां चित्तमनात्मसंज्ञायां प्रतितिष्ठति इति । अतो ऽनित्यसंज्ञा अनात्मसंज्ञां सम्पादयति । एवं वदतो ऽपि अस्ति मार्गनयः । कस्मात् । आत्मवादी हि परलोकसाधनायाह- आत्मा नित्य इति । अतः पञ्चस्कन्धा अनित्या इति पश्यन् अनात्मान इति प्रजानाति । यथोक्तं सूत्रे- चक्षुरात्मेति यो वदेत् । तत् नोपपद्यते । चक्षुष उत्पादोपि व्ययो ऽपि प्रज्ञायते । यस्य खलु पुनरुत्पादो ऽपि व्ययो ऽपि प्रज्ञायते । आत्मा म उत्पद्यते व्येति चेत्यस्यागतं भवति । इति ।
(पृ) सूत्रद्वयमिदं कथं प्रतिसंवेदनीयम् । (उ) दुःखलक्षणं द्विविधम्- अनित्यसंज्ञोत्थितं विपरिणामदुःखलक्षणम् । अनात्मसंज्ञोत्थितं संस्कारदुःखलक्षणम । अतः सूत्रद्वयमप्यविरुद्धम् । (पृ) तथा चेत् स्मृत्युपस्थानोष्मादावस्त्यनित्यसंज्ञा । अयं धर्मो ऽनास्रवः स्यात् । (उ)स्मृत्युपस्थानादौ यदीयमनास्रवा, को दोषो ऽस्ति । (पृ) पृथग्जनानां चित्ते न स्यादियमनास्रवा । पृथग्जनानां चित्ते ऽप्यस्ति अभूतस्मृत्युपस्थानम् । कथमिदनास्रवं भवेत् । (उ) पुद्गलो ऽयं न वस्तुतः पृथग्जनः । अयं स्रोतआपत्तिफलप्रतिपन्नक इत्युच्यते । (पृ) अयं स्रोतआपत्तिफलप्रतिपन्नकः सत्यदर्शनमार्गे वर्तते । स्मृत्युपस्थानादिधर्माश्च न सत्यदर्शना भवन्ति । (उ) स्रोतआपत्तिफलप्रतिपन्नकः सन्निकृष्टो विप्रकृष्टश्च भवति । स्मृत्युपस्थानादिगतो विप्रकृष्टः प्रतिपन्नकः सत्यदर्शनगतस्तु सन्निकृष्टः । केनेदं ज्ञायते । उक्तं हि भगवता वाशीजटोपमसूत्रे- जानतः पश्यत आस्रवाणां क्षयं वदामि । किं जानतः किं पश्यत आस्रवाणां क्षयो भवति । इति रूपं, इति रूपस्य समुदयः । इति रूपस्यास्तङ्गमः । इति वेदना संज्ञासंस्कारविज्ञानानि यावदस्तङ्गमः । मार्गमभावयतो नास्रवाणां क्षयो भवति । भावयतस्तु भवति । तद्यथा [कुक्कुट्या] अण्डानि सम्यगधिशयितानि । एवमेव भावनानुयोगमनुयुक्तस्य भिक्षोर्नैवं ज्ञानं भवति एतावत्को बत मे ऽद्यास्रवाणां क्षीणम् । एतावत्को हयः एतावत्कः परमिति । अथ खल्वस्य क्षीणे क्षीणान्त एव ज्ञानं भवति । तद्यथा वाशीजटायां [दृश्यन्ते ऽङ्गुलिपदानि] ( स्स्स्_492 ) । सप्तत्रिंश[व्दोध्य]ङ्ग भावनानुयोगमनुयुक्तस्य भिक्षोरल्पकृच्छ्रेणैव संयोजनानि प्रतिप्रश्रभ्यन्ते । पूतिकानि भवन्ति । तद्यथा सामुद्रिकयानानो[र्बन्धनानि] । अतो ज्ञायते स्मृत्युपस्थानादिगतो मार्गाङ्गभावनानुयोगमनुक्तः स्रोतआपत्तिफलप्रतिपन्नक इति । यद्येकस्मिन् क्षणे यदि वा पञ्चदशसु क्षणेषु न भावनानुयोगं विन्दते । [तदा] ज्ञातव्यमयं विप्रकृष्टः स्रोतआपत्तिप्रतिपन्नक इति ।
(पृ) इति रूपं, इति रूपस्य समुदयः इति रूपस्यास्तङ्गमः, इति वेदना इति ज्ञानमिति प्रथममुक्तमाद्यफलस्य मार्गः । अनन्तरास्रयो दृष्टान्तास्रयाणां फलानां मार्गाः । अतो नाद्यफलप्रतिपन्नक इत्युच्यते । (उ) यद्यण्डानि न सम्यगधिशयितानि । तदा विनश्यन्ति । सम्यगधिशयतानि संसिध्यन्ति । एवं स्मृत्युपस्थानादारभ्य प्रथमं भावनामारभते । स यदि न साधयति । न स प्रतिपन्नको भवति । साधयन्स्तु शैक्षजनो ऽतिमात्रपूतिवेदक इत्युच्यते । अतः स्मृत्युपस्थानादौ पूतिभूतः सन् पृथग्जनो भवति । यः संसिद्धभावनः स आद्यफलप्रतिपन्नको भवति । तद्यथा अण्डान्तर्गत । अण्डाब्दहिर्गतः स्रोतआपन्नो भवति । अतो ज्ञायते स्मृत्युपस्थानादिगतः विप्रकृष्टः प्रतिपन्नक इत्युच्यते । किञ्चोग्रेण सङ्घे निमन्त्रिते देवता उपसङ्क्रम्य आरोचयन्ति- अमुको गृहपते अर्हन् यावदमुक आद्यफलप्रतिपन्नक इति । यदि स सत्यदर्शनमार्गगतः । कथमारोचयेयुः । ज्ञातव्यं स विप्रकृष्टः प्रतिपन्नक इति ।
किञ्चोक्तं भगवता सूत्रे- यस्य [खलु भिक्षव इमानि] पञ्चेन्द्रियाणि (श्रद्धादीनि) न सन्ति । तमहं बाह्यः पृथग्जनपक्षे स्थित इति वदामीति । अस्यार्थः- अस्ति बाह्य आभ्यन्तरश्च पृथग्जनः । यस्य निर्वेधभागीयानि कुशलेन्द्रियाणि न सन्ति । स बाह्यः पृथग्जन इति । यस्य सन्ति स आभ्यन्तर इति । अयमाभ्यन्तरः पृथग्जन आर्य इत्युप्युच्यते पृथग्जन इत्यप्युच्यते । बाह्यं पृथग्जनमुपादाय आर्यः । सत्यदर्शनमार्गमुपादाय पृथग्जनः । यथानन्दश्छन्नमामन्त्र्याह- पृथग्जनो नानुस्मरति रूपं शून्यमनात्मा, वेदना, संज्ञा ( स्स्स्_493 ) संस्कारा विज्ञानं शून्यमनात्मा । सर्वे संस्कारा अनित्याः । सर्वे धर्मा अनात्मानः । तेषां निरोधो निर्वाणमिति । अथ च [तत्र] छन्नस्य [चित्तं] न धर्मनियामे प्रस्कन्दति । नापि पृथग्जनस्यैवं भवति इत्याह ।
(पृ) सन्निकृष्टो विप्रकृष्टो वा, उभावपि प्रतिपन्नकौ । कः प्रविभागस्तयोः । (उ) यो निरोधं पश्यति स तत्त्वतः प्रतिपन्नकः । यो दूरभागीयकुशलेन्द्रियगतः पश्यति पञ्चस्कन्धा अनित्याः दुःखा शून्या अनात्मान इति । न तु निरोधं पश्यति । स संज्ञाप्रतिपन्नकः । कस्मात् । यथोक्तं सूत्रे- भिक्षवो भगवन्तं पृच्छन्ति- कथं धर्मं पश्येम इति । भगवानाह- चक्षुः प्रतीत्य रूपञ्च चक्षुर्विज्ञानमुत्पद्यते । तत्सहभुवो वेदनासंज्ञा चेतनादयः सर्वे [धर्मा] अनित्या विपरिणामधर्माणः अश्रद्धेयाः । यो धर्मो ऽनित्यः, तद् दुःखम् । दुःखस्यास्य समुदयो ऽपि दुःखम् । स्थितिरपि दुःखम् । पुनः पुनर्भवलक्षणमपि दुःखम् । एवं यावन्मनो धर्मा अपि । यदीदं दुःखं निरुध्यते । अन्यानि दुःखानि न सम्भवन्ति । न पुनः सन्तानो भवति । योगिनश्चित्त एवं भवति- इदं प्रणीतमुपशमपदं यत् सर्वेषां मृषाभूतानां कामतृष्णानामपगमः क्षयो विरागो निरोधो निर्वाणम् । यदस्मिन् धर्मे चित्तं प्रस्कन्दति अधिमुच्यते नेञ्जते न परावर्तते न शोचते न परित्रासते । ततो निदानं धर्मं पश्येयम् इति । अतो ज्ञायते योगी अनित्याद्याकारैः पञ्चस्कन्धानवलोकयन् विप्रकृष्टः प्रतिपन्नक इत्युच्यते । तेषां निरोधं पश्यन् सन्निकृष्टः प्रतिपन्नक इति । यथा छन्नः स्थविरान् प्रतिवदति- ममाप्येवं भवति- रूपमनित्यं [विज्ञानमनित्यं रूपमनात्मा, विज्ञानमनात्मा, सर्वे संस्कारा अनित्याः, सर्वे धर्मा अनात्मान इति । अथ च पुनर्मे] सर्वसंस्कारसमर्थे तृष्णाक्षये निरोधे निर्वाणे चित्तं न प्रस्कन्दति, न प्रसीदति, न विमुच्यते [परितर्षणा । उपादानमुत्पद्यते । प्रत्युदावर्तते मानसम् । अथ कस्तर्हि म आत्मेति ।] न खल्विमं धर्मं पश्यतो भवति । इति ।
किञ्चाह- योगी यदस्मिन् धर्मे मृदुप्रज्ञया क्षान्तिं श्रद्दधते स श्रद्धा[नुसारी] प्रतिपन्नकः । पृथग्जनमतीत्य धर्मनियाममवतार्याद्यफलमलब्ध्वा न देवेषु भवति । यस्तीक्ष्णप्रज्ञया क्षान्तिं श्रद्दधते स धर्मा[नुसारी] प्रतिपन्नकः । [यो] धर्ममिमं पश्यन् ( स्स्स्_494 ) त्रीणि संयोजनानि समुच्छेदयति । न स्रोतआपन्नः यो निरवशेष[क्षया]भिज्ञः सो ऽर्हन् । अतो ज्ञायते निरोधं पश्यन् सन्निकृष्टः प्रतिपन्नको भवतीति ।
(पृ) योगी कस्मान्नात्यन्तं निरोधं पश्यति । (उ) सूत्र उक्तम्- धर्मा निस्स्वभावाः प्रतीत्यसमुत्पन्नाः । अयं धर्मः परमगम्भीरः । सर्वतृष्णाक्षय उपशमो निरोधो निर्वाणम् । इदं पदमतिदुर्दर्शम् । भगवान् द्वादशनिदानानां निरोधं दृष्ट्वा अनुत्तरमभिसम्बुद्धो ऽभूत् इति । धर्ममुद्रायाञ्चोक्तम्- पञ्चस्कन्धाननित्यान् विप्रलोपान् मृषाभूतानसारान् शून्यांश्च पश्यतो योगिनो ज्ञानदर्शनमविशुद्धं भवति इति । सूत्रमिदमन्त आह- योगिन एवं भवति- यन्मया दृश्यते श्रूयते आजिघ्र्यते रस्यते स्पृश्यते मन्यते तत् सर्वं प्रतीत्यसमुत्पन्नं विज्ञानम् । यदस्य विज्ञानस्य हेतुप्रत्यया नित्या वा अनित्या वा इति । तदनित्यज्ञानम् । अनित्येभ्यो हेतुप्रत्ययेभ्य उत्पन्नं विज्ञानं कथं नित्यं भवेत् । अतः सर्वे पञ्चस्कन्धा अनित्याः प्रतीत्यसमुत्पन्नाः क्षयलक्षणाः विपरिणामलक्षणा वियोगलक्षणा निरोधलक्षणा इति पश्यति । तदा योगिनो विशुद्धं ज्ञानदर्शनं भवति । आत्यन्तिकनिरोध इत्यनेन विशुद्धं ज्ञानदर्शनमुच्यते । अतो निरोधज्ञानदर्शनमेव आर्यसत्यदर्शनं भवति । आदौ च धर्मस्थितिताज्ञानमन्ते निर्वाणज्ञानं भवति । अतो निरोधसत्यदर्शनमेवार्यमार्गलाभो भवति ।
ज्ञानलक्षणवर्ग एकोननवत्युत्तरशततमः ।
190 एकसत्यदर्शनवर्गः
(पृ) यद्भवानाह- निरोधं पश्यन्नेव फलप्रतिपन्नक इति । तदयुक्तम् । कस्मात् । सूत्रे हि भगवतोक्तम्- चतुर्णामर्यसत्यानां यथाभूतमननुबोधात् एवमिदं दीर्घमध्वानं [सन्धावितं] संसरितं मम च युष्माकञ्च इदानीमिमानि चत्वारि सत्यान्यनुबद्धानि । ततो निदानञ्च समुच्छिन्नं संसरितम् । न पुनः कायस्य वेदना भवति । इति । ज्ञातव्यं चतुस्सत्यदर्शनात् फलप्रतिपन्नको भवति इति । न निरोधमात्रदर्शनात् । किञ्चाह भगवानुत्तमधर्मो यदुत चत्वार्यार्यसत्यानि इति । अतो योगी सर्वाणि [सत्यानि] जानीयात् पश्येच्च । आह च- ये हि केचित् धर्मकञ्चुका निन्दितकायाः सम्यक्प्रव्रज्यां श्रद्दधन्ते । ( स्स्स्_495 ) सर्वे ते चतुर्णामार्यसत्यानां यथाभूतमभिसमयाय । ये हि केचित् स्रोतआपत्तिं सकृदागामितामनागामिताञ्च लिप्सन्ति । सर्वे ते चतुर्णामार्यसत्यानाभिसम्बुद्धत्वात् । ये हि केचित् अर्हतां प्रत्येकबुद्धतां बुद्धमार्गञ्च लिप्सन्ति । सर्वे ते चतुर्णामार्यसत्यानामभिसम्बुद्धत्वात् । अतो ज्ञायते न निरोधसत्यदर्शनमात्रमार्गमार्ग इति । आह च भगवान्- चत्वार्यार्यसत्यान्यनुपूर्वेणानुप्राप्नोतीति । धर्मचक्रप्रवर्तने चोक्तम्- इदं दुःखमयं दुःखसमुदयः अयं दुःखनिरोधः इयं दुःखनिरोधगामिनी प्रतिपदिति पश्यतो मम तेषु चक्षुरुदपद्यत ज्ञानमुदपद्यत विद्योदपद्यत बोधिरुदपद्यत इति, एवं त्रिपरिवर्तं चत्वार्यार्यसत्यान्यवोचत् । किञ्चोक्तं सूत्रे- अवदातवसने ह्रदे प्रक्षिप्ते सति रूपं [यथा] वेदयते । एवमयं पुरुष एकत्र निषण्णश्चत्वारि सत्यानि पश्यति इति । किञ्चाह परिशुद्धचित्तः सम्यक् भावयति- दुःखसत्यं यावन्मार्गसत्यम् । एवं पश्यतः कामास्रवात् भवास्रवादविद्यास्रवात् चित्तं विमुच्यते । इति । यत्र यत्र सूत्र उक्तमार्यसत्यम् । तत्र सर्वत्र चत्वारि सत्यान्युक्तानि । न निरोधसत्यमात्रम । भगवानाह चत्वारि ज्ञानानि दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानमिति । तानि चतुर्णामार्यसत्यानामर्थाय भवन्ति इति । योगी धर्मशः परिपश्येत् चत्वारि सत्यानि । यथा भिषक् रोगं ज्ञात्वा रोगनिदानं रोगविनाशं रोगविनाशौषधञ्च जानीयात् । एवं योगी दुःखानां निस्सरणमिच्छन् दुःखं दुःखनिदानं दुःखनिरोधं दुःखनिरोधगामिनीं प्रतिपदञ्च जानीयात् । यदि न जानाति दुःखं केन ज्ञास्यति दुःखनिदानं दुःखनिरोधं दुःखनिरोधगामिनीं प्रतिपदञ्च । अतो ज्ञायते न निरोधदर्शनमात्र[मार्यसत्यम्] इति ।
अत्रोच्यते । यत् केषाञ्चिदुक्तं- चतुस्सत्यानां प्रतिलाभ इति । सर्वं [तत्] स्कन्धधात्वायतनादिषूक्तम्- यदिदं रूपं इत्यादि अयं रूपस्य समुदय इत्यादि अयं रूपस्य व्यय इत्यादि प्रजानत आस्रवाः क्षीयन्त इति । किञ्चाह भगवान्- रूपादीनां स्कन्धानां यथाभूतमास्वादमादीनवं निस्सरणप्तप्रज्ञायानुत्तरं मार्गमस्पृशमिति न वदामि । यथाभूतं प्रजानन्स्तु मार्गमस्पृशमिति प्रजानामीति । नगरोपमसूत्रे चोक्तम्- यदा मम न ज्ञानमभूत्- [इति] जरामरणं जरामरणसमुदयो जरामरणनिरोधो जरामरणनिरोधगामिनी प्रतिपत् । यावत् संस्काराः संस्कारसमुदयः संस्कारनिरोधः संस्कारनिरोधगामिनी प्रतिपत् इति । न ( स्स्स्_496 ) तदा वदामि- अधिगतो मार्ग इति । इति । एवमादि [वचनानि] दृष्ट्वा यदि [वदामः] अयमेव दर्शनमार्गाधिगम इति । तदा षोडशचित्त[क्षणा] न मार्गाधिगमः स्युः ।
(पृ) नाहं वदामि- अयमुच्यते दर्शनमार्गाधिगम इति; किन्तु अयं सम्मर्शन कालीन इति । (उ) चतुर्षु सत्येष्वप्येवमुच्यते । वक्तव्यञ्चेदं सम्मर्शनकालीनमिति । तथा नो चेत् निदानं वक्तव्यं- चतुस्सत्यदर्शनं मार्गाधिगमकालीनं पञ्चस्कन्धादिदर्शनं सम्मर्शनकालीनमिति । (पृ) क्लेशानां प्रहाणज्ञांन मार्गाधिगमो भवति । पञ्चस्कन्धादीनां सम्मर्शनं न क्लेशानां प्रहाणाय भवति । (उ) पूर्वमेवोक्तमस्माभिः- पञ्चस्कन्धादिज्ञानमपि क्लेशानां प्रहाणाय भवतीति । यथोक्तम्- रूपादिज्ञानदर्शनादास्रवाः क्षीयन्त इति । आह च- लोकसमुदयं समनुपश्यतो नास्तितादृष्टिर्निरुध्यते । लोकनिरोधं समनुपश्यतो ऽस्तितादृष्टिर्निरुध्यत इति । भगवान् स्वयं निदानान्यवलोकयन् मार्गमधिजगाम । किंशुको[पम]सूत्रे चोक्ता नानामार्गाधिगमप्रत्ययाः । केचित् पञ्चस्कन्धान् पश्यन्तो मार्गमधिगच्छन्ति । केचित् द्वादशायतनानि वा अष्टादशधातून् वा द्वादशनिदानानि वा अन्यानि वा पश्यन्तो मार्गमधिगच्छन्ति इति । अतो ज्ञायते न चतुस्सत्य[दर्शन]मात्रेण मार्गाधिम इति । यदि भवतो मतं सत्यप्यस्मिन् वचने नैतद्दर्शनेन क्लेशान् प्रजहातीति । चतुस्सत्यदर्शनेनापि न क्लेशान् प्रजहतीति वक्तव्यम् । सत्य[दर्शने]न न मार्गमधिगच्छतीति अवश्यं वक्तव्यमिति । चतुस्सत्यविभङ्ग उक्तम्- जातिरपि दुःखं जरापि दुःखं व्याधिरपि दुःखं मरणमपि दुःखं विप्रियसंयोगो दुःखं प्रियवियोगो दुःखं यदिष्टं न लभ्यते तदपि दुःखं संक्षेपेण पञ्चोपादानस्कन्धा दुःखमिति । किञ्चाह दुःखसमुदयो येयं तृष्णा पौनर्भविकी तत्र तत्राभिनन्दिनी इति । एवमादिदर्शनेन नास्रवाणां क्षयः स्यात् । इदं सर्वं लोकसत्यं न तु परमार्थसत्यम् ।
(पृ) यद्यपि जातिमरणादि पश्यतो नास्रवक्षयः स्यात् । तथापि पञ्चोपादानस्कन्धा दुःखमित्युक्तम् । तेषां परिज्ञातुः क्लेशा भिद्यन्ते । (उ) अन्यानि त्रीणि सत्यानि कथं भवन्ति । अतो ज्ञायते [तत्] भवतः स्वसंज्ञानुस्मरणविकल्प इति । पञ्चोपादानस्कन्धा दुःखमिति पश्यतश्चित्तमेव विक्षिप्यते न मार्गो ऽधिगम्यते । (पृ) यदि चतुर्भिः सत्यौर्न मार्गमधिगच्छति । केन धर्मेणाधिगच्छेत् । (उ) एकेनसत्येनाधिगच्छति यो ऽयं निरोधः । यथोक्तं सूत्रे- मृषा नाम अनृतम् । सत्यं तद्विपरीतम् । सर्वे संस्कृतधर्मा अनृतमृषाग्रहा इति । अतो ज्ञायते योगी चित्तत एव संस्कृतधर्मे वर्तते न परमार्थत इति । यथोक्तं सूत्रे- संस्कृतधर्मा अनृता मायोपमा ज्वालोपमा स्वप्नोपमा ऋणोपमा इति । यथोक्तं धर्मपदे-
अभूतबद्धो लोको ऽयं सुनिश्चितवत् प्रभासते ।
असत् दृष्टं सदाभासं असद्वै परया धिया ॥ इति ।
स्त्री पुरुष इति धर्मो यथाभूतं नास्ति । पञ्चस्कन्धानां कलापमात्रे स्त्री पुरुष इति सुदृढं कीर्तयन्तः पृथग्जना विपर्ययमुग्धा वदन्ति । स वस्तुतो नास्ति । इति । योगी तु इमे पञ्चस्कन्धाः शून्या अनात्मान इति भावयति । अतो न पुनस्तं पश्यति । यथोक्तं धर्ममुद्रासूत्रे- योगी भावयति रूपमनित्यं शून्यं वियोगलक्षणमिति । इति । अनित्यमिति यत् रूपं स्वरूपतो ऽनित्यम् । शून्यमिति यथा घटे जले ऽसति शून्यो घट इति वदन्ति । एवं पञ्चस्कन्धेषु नास्त्यात्मा इत्यतः शून्या भवन्ति । एवं भावयितापि शून्यः । [तस्य] ज्ञानदर्शनमपि अविशुद्धम् पञ्चस्कन्धानां निरोधादर्शत्वात् । अन्ते तु निरोधं पश्यति यदुत योगिन एवं भवति यन्मया दृष्टं श्रुतमित्यादि । अतो ज्ञायते निरोधं पश्यत एव क्लेशाः क्षीयन्त इति ।
(पृ) कस्मान्निरोधं पश्यतः क्लेशाः क्षीयन्ते नान्यसत्यानि । (उ) योगिनस्तस्मिन् समये दुःखसंज्ञा व्यवस्थिता भवति । निरोधलक्षणसाक्षात्कुर्वतस्तु संस्कृतेषु दुःखसंज्ञा न ( स्स्स्_498 ) व्यवस्थिता भवति । यथा कस्यचित् प्रथमध्याने प्रीतिसुखमलब्धवतो न पञ्चकामगुणेषु निर्वेदसंज्ञा जायते । यथा च अवितर्काविचारसमाधिमलब्ध्वा न सवितर्कसविचारसमाधौ दोषं मन्यते । तथा योग्यपि निर्वाणमुपशमलक्षणमनधिगम्य न संस्कारदुःखमधिगच्छति । अतो ज्ञातव्यं निरोधसत्यं पश्यत एव दुःखसंज्ञा सम्पन्ना भवति । दुःखसंज्ञासम्पन्नत्वात् तृष्णादीनि संयोजनानि प्रहीयन्ते इति ।
(पृ) यदि निरोधसत्यदर्शनात् दुःखसंज्ञा सम्पन्ना भवति । निरोधसत्यं पश्येत् पश्चात् क्लेशाः प्रहीयेरन् । कस्मात् । निरोधसत्यं दृष्टवत् एव दुःखसंज्ञायाः सम्पन्नत्वात् । (उ) न पश्चात्प्रहीयेरन् । यस्मिन् समये निरोधस्य निरोधलक्षणमधिगतम्, तस्मिन्नेव समये दुःखसंज्ञा सम्पद्यते । पश्चात्तु अभिमुखीभवति । यथोक्तं सूत्रे- योगी [यत्] समुदयलक्षणं तत् निरोधलक्षणमिति प्रजानन् सुविशुद्धं धर्मचक्षुरनुप्राप्नोति । इति । स्कन्धेषु च सदास्ति आत्ममतिः । स्कन्धा अनित्या दुःखा इति पश्यन्नपि न निरोधमनुप्राप्नोति । निरोधसत्यं पश्यतस्तु असल्लक्षणत्वादात्ममतिरत्यन्तं निरुध्यते । (पृ) यदि निरोधसत्यं पश्यत आत्ममतिः क्षीयते । कस्मात् भगवान् पुद्गलः सुकुमारमतिरित्यादि दृष्ट्वा चतुस्सत्यान्युदेशयति, न तु निरोधसत्यमात्रम् । (उ) तत्रास्ति मार्गानुलोम्येन चरितम् । किमिति । अनित्यसंज्ञया अनात्मसंज्ञासम्पन्नत्वात् इदं दुःखमिति दर्शनमनुप्राप्नोति । इदं मार्गस्य सन्निकृष्टमित्यतो मिलित्वा वदति ।
(पृ) मार्गलाभसमय एव यदि सत्कायदृष्टिः प्रहीयत इति । कस्मात् पुनराह शीलव्रतपरामर्शो विचिकित्सा इति । (उ) योगी मार्गमनुप्राप्य धर्माः शून्या अनात्मान इति दृष्टतः पश्यन् न पुनर्विचिकित्सते । न पृथग्जनानां श्रुतचिन्तादिदर्शनैः समानो भवति । मार्गसत्यं पश्यन् प्रजानाति इदमेकमेव तत्त्वं नान्यदस्तीति । अतस्त्रीण्याह । (पृ) यदि मार्गलाभकाल एव सत्यदर्शनप्रहेयाः क्लेशाः क्षीयन्ते । कस्मात् त्रयाणां संयोजनानामेव क्षयमाह । (उ) सर्वे क्लेशाः सत्कायदृष्टिमूलकाः । यथा भगवान् भीक्षून् पृच्छति- केन वस्तुना किं वस्तूपादाय किं वस्त्वभिनिविश्य ईदृशी दृष्टिर्भवति । अस्मिन् काये म्रियमाण एव ईदृशादयः सर्वा दृष्टयो निरुध्यन्ते । भिक्षव आहुः- भगवन्मूला हि ( स्स्स्_499 ) नो भगवन् धर्माः । भगवन्तमेव प्रार्थयामहे व्याकरणायेति । भगवानाह- रूपे खलु सति रूपमुपादाय रूपमभिनिविश्य सक्तायदृष्टिर्भवति । यावद्विज्ञानमप्येवम् । इति ।
अतो ज्ञातव्यं सत्कायदृष्टिमुपादाय सर्वे क्लेशाः सम्भवन्तीति । कस्मात् । सत्यां हि सत्कायदृष्टौ वदन्ति- अयमात्मा नित्यो वानित्यो वेति । नित्य इति पश्यतः शाश्वतदृष्टिः । अनित्य इति पश्यत उच्छेददृष्टिः । यद्यात्मा नित्यः । तदा न कर्म, न विपाकः, दुःखविमोक्षः । न मार्गभावनया निर्वाणमनुप्राप्नोति । यदस्या दृष्टेः प्राधान्यम् । स एव दृष्टिपरामर्शः । [तस्या एव] यत्प्रकर्षलाभः । स एव शीलव्रतपरामर्शः । आत्मदृष्टौ तृष्णा । परदृष्टौ द्वेषः । आत्मन उच्चदर्शनमेव मानः । यथाभूताज्ञानात् यत्संयोजनानां प्रादुर्भावः । सैवाविद्या । अतः सत्कायदृष्टिसमुच्छेदात्सत्यदर्शनेन संयोजनप्रहाणं भवति ।
(पृ) यदि सत्कायदृष्टिसमुच्छेदादन्यान्यपि प्रहीयन्ते । कस्माद्विशिष्याह शीलव्रतपरामर्शं विचिकित्साञ्च । (उ) तयोः प्राधन्यात् । धर्मलक्षणं साक्षात्कुर्वतो योगिनो न विचिकित्सा भवति । विचिकित्सेयमस्त्यात्मा नास्त्यात्मेति विचिकित्सते । मार्गो विशुद्धिं प्रापयति नवेत्यपि विचिकित्सते । इदानीं दुःखसत्यं पश्यत आत्मदृष्टिः प्रहीयते । अयमेव मार्गो न पुनरन्यो ऽस्तीत्यपि प्रजानाति । अत उच्यते सत्कायदृष्टिप्रहाणमेव वस्तुतो दुःखदर्शनम् । शीलव्रतसमुच्छेदात् मार्गं प्रयुज्य ज्ञाने ज्ञेयधर्मेषु च न विचिकित्सते । यः सम्यक्ज्ञानेन ज्ञेयधर्मान् प्रजानाति । स एव समुदयं प्रहाय निरोधमधिगच्छन् चतुस्सत्यसम्पन्न इत्युच्यते । अत एषां त्रयाणां वचनमेव निर्विचिकित्सालक्षणं प्रदर्शयति । विचिकित्सेयमात्मनि मार्गे च भवति । यथोक्तं सूत्रे- आद्याभिसम्बोधिलक्षणं यदुत धर्मं पश्यति धर्मं प्रतिलभते धर्मं प्रजानाति धर्मं प्रतिसंवेदयते । विचिकित्साजालं वितीर्य परशासनं नानुवर्तते । भगवच्छासने च वैशारद्यबलमनुप्राप्य फले सुप्रतितिष्ठति । इति ॥
एकसत्यदर्शनवर्गो नवत्युत्तरशततमः ।
191 सर्वालम्बनवर्गः
(पृ) कस्मात् ज्ञानं सर्वालम्बनं भवति । (उ) यत् ज्ञानं धात्वायतनादिगोचरं तत् सर्वालम्बनमित्युच्यते । कस्मात् । आयतनेषु धातुषु चोक्तेषु पदार्था आलम्बनानि विषया ज्ञेया इत्यादयः सर्वे धर्मा भवन्ति । [तान्] यत् ज्ञानमालम्बते तत् सर्वालम्बनमित्युच्यते ।
(पृ) ज्ञानमिदं न सम्प्रयुक्तसहभ्वादिधर्मान् जानाति । (उ) जानाति यद्यायतनाद्यालम्बनं, तत्सामान्यलक्षणज्ञानं भवति । सामान्यलक्षणज्ञानत्वात् सर्वमालम्बते । कस्मात् । द्वादशायतनानीति वदतो नान्यः पुनर्धर्मो ऽस्ति । अतो ज्ञायते ज्ञानमिदमपि स्वात्मानमालम्बत इति । (पृ) उक्तं हि सूत्रे- द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति । अतो न स्वात्मालम्बनं ज्ञानं स्यात् । ज्ञानानां दृष्टान्तान् प्रतीत्य नास्ति स्वात्मालम्बनम् । तद्यथा- अङ्गुल्यग्रं नात्मानं स्पृशति । न चक्षुः स्वात्मानं पश्यति । (उ) यत् भवानाह- द्वाभ्यां प्रत्ययाभ्यां विज्ञानमुत्पद्यत इति । न तत् नियमेन भवति । आलम्बनं विनापि ज्ञामुत्पद्यते । न हि सर्वं द्वाभ्यां प्रत्ययाभ्यामुत्पद्यते । किञ्चित् षष्ठस्य विज्ञानस्य स्वकलापे सर्वथा असदालम्बनं भवति । दृष्टधर्मा[लम्बन]त्वात् । विज्ञानस्यास्य रूपादिधर्मानालम्बनत्वात् । यद्यालम्बते अन्धो ऽपि रूपं पश्येत् । पुरुषस्यास्य तस्मिन् समये चित्तचैत्ता अतीतानागतगताः । अतीतानागताश्च असद्धर्माः, कस्यालम्बनानि स्युः । आत्माध्यवसानमात्रस्य प्रतिषेधादेवमुच्यते । यदि विज्ञानानि भवन्ति । तानि सर्वाणि आभ्यां द्वाभ्यामेव भवन्ति । न चतुर्भिः प्रत्ययैः । किञ्चित् विज्ञानं द्वौ प्रत्ययौ विनोत्पद्यते । यथोक्तं सूत्रे- षडायतनप्रत्ययः स्पर्श इति । न वस्तुतः स्पर्शस्य षडायतनानि प्रत्यया भवन्ति । उत्पद्यमानं न षडायतनेभ्यो भवति । सप्तमायातनस्य प्रतिषेधात् । एवं चतुरः प्रत्ययान् प्रतिषिध्याह भगवान् द्वे आयतने इति ।
अतीतानागताकाशकालदिगादीनाञ्च ज्ञानमुत्पद्यते । ते धर्माश्च न वस्तुसन्तः । इदमेवानालम्बनं ज्ञानं भवति । (पृ) अनेनैव हेतुना अतीतानागतादयोः धर्माः सन्तः स्युः । यद्यसन्तः, किं तज्ज्ञानमुत्पादयति । शशशृङ्गकूर्मरोमाहिपदादिषु न जातु ज्ञानमुत्पद्यते । (उ) कारित्रे ज्ञानमुत्पद्यते । एवं पुरुषदर्शने ऽतीते तदतीतकालं स्मरति । पुरुषं भाषमाणं शृण्वन् तद्भाषणकालं स्मरति । एवमतीतादिधर्माणां नास्ति कारित्रमित्यतो ऽयुक्तम् । (पृ) इदानीमतीते किं कृत्वा स्मर्यते । (उ) स्मरणस्य नास्ति को ऽपि धर्मः । भवानाह- शशशृङ्गादि कस्मान्न स्मरतीति । यो धर्म उत्पद्य निरुद्धः स स्मरणीयः । यः प्रकृतितो ऽसन् । किं स्मर्येत यथा धर्मः पूर्वं सत्त्वाख्य इदानीमतीतो ऽपि सत्त्वाख्यः । एवं तस्मिन् धर्मे पूर्वं स्मृत्युत्पादात् तदेव चित्तं पुनः स्मर्यते । न तु चित्तान्तरम् । अनेन पुरुषेण पूर्वं तद्धर्मनिमित्तमुपात्तम् । तस्मिन् धर्मे निरुद्धे ऽपि तत्संज्ञानुस्मरणमुत्पाद्य [तं धर्मं] विकल्पयति । यो धर्मस्तस्य चित्ते जायते स धर्मो विनष्टः । पश्चात् [त]न्मनोविज्ञानं तत् वस्तु विजानाति इद[मेव] निमित्तालम्बनं विज्ञानमित्याख्ययते । निमित्तमिदं पाश्चात्यनिमित्तालम्बनविज्ञानस्य प्रत्ययं करोति । शशशृङ्गादिविज्ञानन्तु अनिमित्तहेतुकमित्यतो नोत्पद्यते । शशशृङ्गादि प्रतीत्यापि विज्ञानं भवेत् । यदि न भवति । कथं वक्तुं प्रभवेत् ।
(पृ) शशविषाणस्वभावो न विज्ञेयः । कस्मात् । तस्य ह्रस्वत्वदीर्घत्वशुक्लत्वकृष्णत्वादिस्मृतिर्हि न जातु जायते । तथातीतधर्मो ऽपि । कस्मात् । नह्यस्माकमतीतधर्म इदानीमभिमुखीभवति । यथा आर्या अनागतं वस्तु ज्ञात्वा वदन्ति- इदं वस्तु तथा स्यात्, इदं वस्तु तथा न स्यादिति । (उ) आर्यज्ञानबलं हि तथा धर्ममसन्तमपि प्राक् प्रजानाति । यथा आर्याः पाषणभित्तिं भित्त्वा अप्रतिहतमुन्मज्जन्ति निमज्जन्ति च । तथेदमपि वस्तु असदपि जानन्ति । स्मृतिबलाच्च जानन्ति । यथा चक्षुर्विज्ञानं न स्त्रीति पुरुष इति वा विकल्पयति । यदि चक्षुर्विज्ञानं न विकल्पयति । मनोविज्ञानमपि ( स्स्स्_502 ) न विकल्पयेत् । वस्तुतस्तु मनोविज्ञानं विकल्पयति । तथेदमपि स्यात् । यथा चास्माकमनुभूतनिरुद्धे ज्ञानमुत्पद्यते । तथार्याणामपि असति धर्मे ज्ञानमुत्पद्यते । यथा देवदत्त इति वचने नैकं विज्ञानं चत्वार्यक्षराणि विजानाति । तथापि [तानि] विजानाति । यथा च संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वादयः । ते धर्मा अदृष्टा अपि [स्व]विज्ञानमुत्पादयन्ति । यथा च पुरुषस्य स्वरूपं नैकक्षणेन परिज्ञेयमम् । नापि प्रत्यङ्गविज्ञानेन । असत्यपि प्रत्यङ्गं पुरुषज्ञाने एकक्षणं [त]ज्ज्ञाने पुरुषज्ञानमुत्पद्यते । इदमपि तथा स्यात् ।
भवानवादीः- दृष्टान्तं प्रतीत्य नास्ति किञ्चित् स्वात्मालम्बनं ज्ञानमिति । तत्रास्ति वचनं मनः स्वात्मानं विजानातीति । योगी चित्तविपश्यनामनुसरति अतीते ऽनागते तु चित्तं नास्ति इति वचनात् । यथा प्रत्युत्पन्नचित्तेन प्रत्युत्पन्नचित्तमालम्बते । नो चेत् न जातु कश्चित्प्रत्युत्पन्नचित्तसम्प्रयुक्त धर्मं विजानाति । (पृ) सूत्र उक्तम्-
सर्वे धर्मा अनात्मानः प्रज्ञया यदि पश्यति ।
अथ निर्विन्दते दुःखे एष मार्गो विशुद्धये ॥ इति ।
इयं प्रज्ञा आत्मानं सहभूधर्मानन्यानि सर्वधर्मालम्बनानि चापनयति । (उ) ज्ञानमिदं सास्रवालम्बनमेव, नत्वनास्रव[आलम्बन]म् । कस्मात् । तस्यां हि गाथायामुक्तम्- अथ निर्विन्दते दुःख इति । अतो ज्ञायते तत् दुःखसत्यालम्बनमेवेति । आत्मदृष्टिप्रणाशाय च ( स्स्स्_503 ) अनात्मभावना । आत्मदृष्टिः पञ्चोपादानस्कन्धालम्बिनी । ज्ञातव्यमनात्म[दृष्टि]रपि पञ्चस्कन्धानालम्बत इति । पञ्चस्कन्धा अनित्यत्वादनात्मानः । यथोक्तं सूत्रे- यदनित्यं तदनात्मा । यदानात्मा तद्दुःखम् इति । भगवानाह यद्भिक्षवो युष्माकं तत्प्रजहत इति । भिक्षव आहुः- आज्ञप्तं भगवन् । भगवानाह- कथं युष्माभिराज्ञप्तम् । रूपं भगवन् [अनात्मा] अनात्मीयम् । वेदना, संज्ञा, संस्कारा, विज्ञान[मनात्मा] अनात्मीयम् । तदस्माभिः- प्रहातव्य]मिति । भगवानाह- साधु साधु खलु भिक्षव इति । [अतो] ज्ञातव्यमुपादानस्कन्धेष्वेव अनात्मबुद्धिर्भवतीति । उक्तञ्च सूत्रे- यत्किञ्चित् [भिक्षवो] रूपमतीतमनागतं प्रत्युत्पन्नमाध्यात्मिकं वा बहिर्धा वा औदारिकं वा सूक्ष्मं वा [हीनं वा प्रणीतं वा] यद्दूरे ऽन्तिके वा सर्वं जानाति नात्मा नात्मीयमिति । एवं यथाभूतं सम्यक् प्रज्ञया पश्यति इति । आह च- रूपं नात्मा, वेदना, संज्ञा, संस्कारा विज्ञानञ्च नात्मा इति पश्यति । रूपमनित्यं तुच्छं मायावत् बालालापनं वधकं स्तेयकमनात्मा अनात्मीयमिति । किञ्चाह भगवान्- अत्र निषण्णः कश्चिन्मूढो ऽविद्याण्डगतो ऽविद्यान्धीभूतः परित्यज्य बुद्धशासनमिमां मिथ्यादृष्टिमुत्पादयति- यदि रूपं नात्मा, वेदना, संज्ञा, संस्कारा, विज्ञानञ्चनात्मा । कथमनात्मा कर्म कृत्वा आत्मना अनुभवति इति । अतो ज्ञायत उपादानस्कन्धालम्बनमेव नैरात्म्यमिति । सूत्रे च अनात्मज्ञानं सर्वधर्मनालम्बत इति वचनस्थानं न किञ्चनास्ति । तत्र तत्र सर्वत्रोक्तं पञ्चस्कन्धानालम्बत इति ।
(पृ) भगवान् स्वयमाह- सर्वधर्मा अनात्मान इति । अतो ज्ञायते संस्कृतो ऽसंस्कृतश्चैतज्ज्ञानस्यालम्बनम् । न तु पञ्चोपादानस्कन्धमात्रमिति । आह च- दश शून्यताः सर्वधर्मालम्बना इति । या शून्यता तदेव नैरात्म्यम् । किञ्चाह- सर्वे संस्कारा अनित्या दुःखा, सर्वे धर्मा अनात्मान इति । यदनात्मज्ञानं तद् दुःखसत्यालम्बनमेव । कस्मान्नाह- सर्वसंस्कारा अनात्मान इति । सर्वे धर्मा अनात्मान इत्युक्तत्वात् ज्ञातव्यं यत् संस्कारा इति वचनं तत् संस्कृताभिधायकम् । यत् धर्मा इति वचनं तत् सर्वा[भिधायक]मिति । आह च- क एकलक्षणधर्मं लक्षणान्तरधर्मञ्चाभिमुखं सम्प्रजानाति यथा विद्याचक्षुषा रूपं ( स्स्स्_504 ) पश्यति । केवलं बुद्धा भगवन्तः सम्यक् सम्बुद्धा विमुक्तिलाभिन एकलक्षणधर्मं लक्षणान्तरधर्मञ्चाभिमुखं सम्प्रजानन्ति यथा विद्याचक्षुषा रूपं पश्यन्ति इति । अनात्मलक्षणेन हि सर्वधर्मा एकलक्षणाः । अतो ज्ञायते अनात्म[ज्ञानं] सर्वधर्मानालम्बते । न तु दुःखमात्रम् इति ।
उच्यते । सर्व[मिति] द्विविधं सर्वसङ्ग्राहकमेकदेशग्राहकमिति । सर्वसङ्ग्राहकमिति यथा भगवानाह- अशं सर्वज्ञ इति । [अत्र] सर्वं नाम द्वादशायतनानि । एकदेशग्राहकमिति यथाह- सर्वमादीप्तमिति । अनास्रवमसंस्कृतन्तु नादीप्तमुपलभ्यते । यथा च तथागतवर्गे उक्तम्- तथागतः सर्वत्यागी सर्वजयी इति । शीलादयो धर्मा न त्याज्याः । किन्तु अकुशलधर्मानुद्दिश्याह- सर्वत्यागीति । अजेय्या अन्ये बुद्धाः । अन्यान् सत्त्वानुद्दिश्यापरमाह- सर्वजयीति । किञ्चाह- कतमो भिक्षुः सर्वज्ञः । यः षट्स्पर्शायतनानामुत्पादं निरोधञ्च यथाभूतं प्रजानाति । अयमुच्यते सामान्यलक्षणज्ञः सर्वधर्माणां, न तु विशेषलक्षणज्ञ इति । भगवांस्तु सामान्यविशेषज्ञः सर्वज्ञ इत्युच्यते । भिक्षुरयं सामान्येन सर्वे धर्मा अनित्या इति प्रजानातीत्यतः सर्वज्ञो भवति । तस्य नामसाम्ये ऽपि वस्तुतो ऽस्ति भेदः । [तत्] एकदेशसङ्ग्राहकं नाम ।
आह च भगवान्- यत्सूत्रे ऽवतरति । विनये च सन्दृश्यते । धर्मताञ्च न विलोमयति । स धर्म उपादेय इति । किञ्चाह- य आह इदं बुद्धवचनमिति । स सुव्यञ्जनः । न स्वर्थः । विद्वान् तत्र स्वर्थं सुव्यञ्जनं ब्रूयात् । येनार्थेन भिक्षोरस्य व्यञ्जनं प्रशस्यं भवति । पुनरस्ति कश्चिद्वक्ता स्वर्थस्य, न सुव्यञ्जनस्य । स्वर्थं सुव्यञ्जनेन प्रक्षिपेत् । इत्येवमादिसूत्रे भगवान् सर्वं तत् संश्रावयति । अस्ति च नीतार्थं नेयार्थञ्च सूत्रम् । इदन्तु नेयार्थं सूत्रम् । कस्मादेकस्मिन् वस्तुनि सर्वमिति वचनं भवति । तस्याभिसन्धि र्ज्ञातव्यास्ति । लौकिका अपि वदन्ति एकस्मिन् सर्वमिति । यथा वदन्ति- सर्वत्यागं करोति । सर्वेषाञ्च भोजनं प्रयच्छति । अयं सर्वभुक् इति । अतो ज्ञायते सर्वमनात्मेति वचने सत्यपि पञ्चोपादानस्कन्धान[भिसन्धाय] उक्तं, न तु सर्वधर्मानिति द्रष्टव्यम् ।
यदुक्तं भवता- दश शून्यता इति । तत्रासंस्कृतं शून्यमिति नोपलभ्यते । ( स्स्स्_505 ) कस्मात् । न हि कश्चिदसंस्कृत आत्मसंज्ञामुत्पादयति । तदन्यस्मिन् शून्ये ऽपि न काचित्क्षतिः । भवानपि दुःखज्ञानेन शून्यं संयोजयति । अतः शून्यता न सर्वधर्मालम्बिनी । (पृ) लौकिकी शून्यता सर्वधर्मानालम्बते न तु अनास्रवशून्यता । (उ)नास्ति तु लौकिकी शून्यता । सर्वा शून्यता अनास्रवा । (पृ) उक्तं हि धर्ममुद्रासूत्रे- शून्यता लौकिकी शून्यतेति । (उ) इयं लोकोत्तरशून्यता न तु लौकिकी शून्यता । (पृ) अत्रोक्तं ज्ञानदर्शनस्याविशुद्धत्वात् ज्ञायत इयं लौकिकी शून्यतेति । (उ) उक्तन्तु प्रागस्माभिः- अनास्रवं चित्तं प्रज्ञप्तिविदारणमिति । अतः प्रज्ञप्तिविदारणादागतमनास्रवं चित्तम् । पश्चान्निरोधसत्यं दृष्ट्वा अभिमानं विहाय ज्ञानदर्शनं विशुद्धं भवति । अतो न लौकिकी शून्यता ।
यद्भवानाह- सर्वे संस्कारा अनित्याः सर्वे धर्मा अनात्मान इति । एवं हि स्यात्- योगी यदा नैरात्म्यसंज्ञासमन्वितः तदा धर्मसंज्ञासमन्वितत्वात् नैरात्म्ये धर्म इति स संज्ञोच्यते । यथोक्तं दर्शनवर्गे- यो दुःखं न पश्यति, स आत्मदर्शी भवति । यो यथाभूतं दुःखं पश्यति, न स पुनरात्मानं पश्यति । इति । यथाभूतमिति यदनात्मदर्शनम् । अतः सर्वे धर्मा अनात्मान इति वचनं दुःखसत्यमात्रमालम्ब्य अनात्मा संस्कार इत्यभिदधाति । यद्भवानवोचत्- बुद्धा [भगवन्तः] एकलक्षणं लक्षणान्तरञ्चाभिमुखं पश्यन्तीति । तदपि धात्वायतनादीनामेकत्वादेकलक्षणमित्युच्यते इति स्यात् । को दोषः ॥
सर्वालम्बनवर्ग एकनवत्युत्तरशततमः ।
192 आर्यविहारवर्गः
अस्ति द्विविधो विहारः शून्यविहार अनात्मविहार इति । पञ्चस्कन्धेषु नास्ति सत्त्व इति दर्शनं शून्यविहारः । पञ्चस्कन्धा अपि न सन्तीति दर्शनमनात्मविहारः । केनेदं ज्ञायते । उक्तं हि सूत्रे- रूपं निस्खभावं पश्यति [यावत्] वेदनां संज्ञां संस्कारान् विज्ञानं निःस्खभावं पश्यतीति । किञ्चोक्तं सूत्रे- निःस्खभावमुपादाय विमुच्यत इति । अतो ज्ञायते रूपस्वभावो न वस्तुसन् यावद्वेदनासंज्ञासंस्कारविज्ञानस्वभावा न वस्तुसन्त इति । अपि ( स्स्स्_506 ) चोक्तं सूत्रे- पञ्चस्कन्धाः शून्या मायावत् इति । न हि माया वस्तुसतीति निर्वाच्या । यदि माया वस्तुसती, न मायेति भवति । नास्तीत्यपि न निर्वक्तुं सम्भवति । अवस्तुत्वादेव [बाला]लापनं करोति । अयञ्च योगी सर्वं शून्यं पश्यति । अतो ज्ञायते पञ्चस्कन्धा न वस्तुसन्त इति । यथा एकलक्षणविधमनाद्भित्त्यादिरेको [ऽपि] धर्मो नास्ति । तथा पञ्चस्कन्धा अपि, नैकः [तादृशः] परमार्थिको धर्मो ऽस्ति ।
(पृ) यदि रूपादयो धर्मा अपि अवस्तुसन्तः । तदा एकं लोकसत्यमेव स्यात् । (उ) निरोधः परमार्थसत्यत्वादस्ति । यथोक्तं सूत्रे- मृषा नाम यत् तुच्छकम् । सत्यं नाम यथाभूतमिति । निरोधः स नियतं यथाभूत इत्यतः परमार्थसन् इति । (पृ) यद्भवतोक्तं पञ्चस्कन्धेषु नास्ति सत्त्व इति दर्शनं [शून्यविहार] इति । केन हेतुना पञ्चस्कन्धाः सत्त्व इत्युच्यन्ते । [स] किं सास्रव उतानास्रवः । (उ) सास्रवो ऽनास्रवश्च (पृ) सूत्र उक्तम्- यः सत्त्वं पश्यति स पञ्चोपादानस्कन्धान् पश्यति इति । (उ) अनास्रवधर्मो ऽपि सत्त्वाख्ये वर्तते नासत्त्वाख्ये तरुपाषाणादौ । अतो ज्ञायते अनास्रवान् स्कन्धानुपादायापि सत्त्व इत्युच्यन्ते । यदाचार्यो ऽनास्रवचित्तगतः । तस्मिन् समये ऽप्यस्ति चित्तं सत्त्व इति । अतो ऽनास्रवचित्तमपि सत्त्वो भवति । सर्वे स्कन्धा उपादानस्कन्धा इत्युच्यन्ते । उपादानादुत्पन्नत्वात् ।
(पृ) कथं ज्ञायते सर्वे उपादानादुत्पद्यन्त इति । (उ) अनास्रवधर्मो दानशीलसमाधिभावना कर्मचित्तादुत्पद्यते । असति तु [तस्मिन्] नोत्पद्यते । यथोक्तं सूत्रे- अविद्यानिवृततृष्णासंयोजनया प्रतिबद्धो मूढ इमं कायमनुप्राप्नोति । एवं विद्वानपि इति । काय एवोपादानस्कन्धः । (पृ) यदि सर्वे स्कन्धा उपादानस्कन्धाः । सास्रवो ऽनास्रव इति स्कन्धानां प्रविभागः कथम् । (उ) सर्वे स्कन्धा उपादानादुत्पन्ना इत्यत उपादानस्कन्धा इत्युच्यन्ते । नैव पुनर्भवमुपाददत इत्यतो ऽनास्रवाः । इत्ययं प्रविभागः । स्कन्धा उपादानस्कन्धैः सहोपादानादुत्पन्ना इत्यत उपादानस्कन्धा इत्यभिधीयन्ते । इदं सूत्रं न विरुध्यते ।
इमौ द्वौ विहारौ यत्किञ्चिदभावमालम्बेते । यद्रूपादये धर्माः शून्याः स्वभावनिरुद्धा इति । अयमेव यत्किञ्चिदभावः । (पृ) इमौ द्वौ पञ्चस्कन्धानालम्बेते । उक्तं हि सूत्रे- रूपं पश्यति शून्यमनात्मा वेदनासंज्ञासंस्कारान् विज्ञानञ्च पश्यति शून्यमनात्मा इति । (उ) ( स्स्स्_507 ) स्कन्धानुपादाय पश्यति शून्यमनात्मेति । कस्मात् । सत्त्वकारणे सत्त्वशून्यं पश्यति । रूपादीनां धर्माणामपि निरोधं पश्यति । (पृ) एवञ्चोभयालम्बनम् । यद्योगी स्कन्धांश्च शून्याननुस्मरति । तदेव स्कन्धान् यत्किञ्चिदभावञ्चालम्बते । (उ) योगी सत्त्वकारणे न सत्त्वं पश्यतीत्यत एव शून्यचित्तमुत्पाद्य ततः शून्यं पश्यति । पञ्चस्कन्धानां निरोधे च न पश्यति रूपस्वभावं वेदनासंज्ञासंस्कारविज्ञानस्वभावम् । अतो ज्ञायते इमौ द्वौ यत्किञ्चिदभावालम्बनाविति ॥
आर्यविहारवर्गो द्विनवत्त्युत्तरशततमः ।
193 ज्ञानदर्शनवर्गः
(पृ) सम्यग्दर्शनस्य सम्यग्ज्ञानस्य च को विशेषः । (उ) उभयमेकात्मकमेव । नास्ति कश्चिद्विशेषः । सम्यग्दर्शनं द्विविधं लौकिकं लोकोत्तरमिति । लौकिकं यदस्ति पुण्यं पापमित्यादि । लोकोत्तरं यत् दुःखादीनां सत्यानां प्रतिसंवेदः । तथा सम्यक् ज्ञानमपि ॥
(पृ) भवतोक्तं ज्ञानदर्शनयोर्नेदृशं लक्षणम् । कस्मात् क्षान्तयो दर्शनमात्रं न ज्ञानम् । क्षयज्ञानमनुत्पादज्ञानं, पञ्चविज्ञानसम्प्रयुक्ता च प्रज्ञा ज्ञानमेव च दर्शनम् । (उ) कस्मात् क्षान्तयो न ज्ञानम् । (पृ) आज्ञातमाज्ञास्यामीत्यत आज्ञास्यामीन्द्रियम् । यदि दुःखे धर्मक्षान्तिर्ज्ञानम् । दुःखे धर्मक्षान्तिर्ज्ञातैव दुःखे धर्मज्ञानमाज्ञेन्द्रियं स्यात् । नाज्ञास्यामीन्द्रियम् । अतो क्षान्तिर्न ज्ञानम् । उक्तञ्च सूत्रे- यत् धर्मेषु धर्मान् परीत्तं प्रज्ञया विपश्यति । क्षान्ति[रियं विपश्यना] अपरिनिष्पन्ना । परिनिष्पन्ना तु ज्ञानम् इति । या क्षान्तिः, अपरिनिष्पन्ना विपश्यना [सा] । प्रथमा चानास्रवा प्रज्ञा प्राथमिकं दर्शनं क्षान्तिः । न प्राथमिकं दर्शनं ज्ञानं भवेत् । क्षान्तिकाले च न विनिश्चयो भवति । ज्ञानकाले तु विनिश्चयो ऽवश्यं भवति । क्षान्त्युत्पत्तिकाले विचिकित्सा पुनरनुवर्तते । अतः क्षान्तिर्न ज्ञानम् । (उ) या क्षान्तिस्तदेव ज्ञानम् । कस्मात् । छन्दः अभिरतिः क्षान्तिः ( स्स्स्_508 ) सर्वमेकार्थकम् । योगी पूर्वं दुःखं ज्ञात्वा पश्चात् [तत्]क्षान्तावभिरमते । यदि पूर्वमेव नास्ति ज्ञानम् । क्षन्तव्ये काभिरतिः । परीत्तवचने च केवलमुक्तं विपश्यना क्षान्तिरिति न ज्ञानम् । तथा चेत् प्रतिपत्तिफलवेदको ज्ञानरहितः स्यात् । यदि मन्यसे योगिनो ज्ञानवत एव क्षान्तिर्भवतीति । तदा क्षान्तिवेदनमेव ज्ञानं भवति । उक्तञ्च सूत्रे- [एवं] जानन् पश्यन् आस्रवाद्विमुच्यत इति । आह च- ज्ञानं दर्शनञ्चैकार्थकमिति । किञ्च भगवानाह- दुःखज्ञानं समुदय[ज्ञानं] निरोध[ज्ञानं] मार्गज्ञानम् इति । न त्वाह क्षान्तिरिति । अतो ज्ञायते ज्ञानमेव क्षान्तिरिति ।
भगवान् विमुक्त्यर्थमाह- यथाभूतं प्रजानातीति ज्ञानम् इति । क्षान्तिरपि यथाभूतं प्रजानातीति न [ज्ञाना]दन्या स्यात् । यदि भवत् आज्ञात[माज्ञास्यामी]न्द्रियमेव क्षान्तिरिति । तदयुक्तम् । न वयं वदामः पूर्वं क्षान्तिः पश्चात् ज्ञानमिति । एकस्यैव चित्तस्य क्षान्तिः ज्ञानमित्याख्या भवति । अयं सूत्रार्थो ऽसिद्धः । भवतः कथमसिद्धेन लक्षणसिद्धिर्भवति । भवानाह- क्षान्तिपरिनिष्पन्नेति । प्रत्युक्तमिदं मया यत् ज्ञानपूर्विका क्षान्तिरिति । [अतः] परिनिष्पन्नैव क्षान्तिरिति द्रष्टव्यम् । यदि परिनिष्पत्तिं न जानाति । कथं क्षमते । भवानवोचत्- क्षान्तिकाले न विनिश्चयो ऽस्तीति । भवतां शासनेक्षान्त्या संयोजनं प्रजहाति । एवमनिश्चितं किं संयोजनं प्रजहाति । भवानवोचत्- क्षान्तिकाले विचिकित्सानुवर्तते इति । तथा चेत् मार्गसत्यदर्शने ऽपि विचिकित्सानुवर्तमाना भवति । तत्र ज्ञानमुत्पद्यमानमपि अज्ञानं स्यात् । न सविकल्पिकेयं क्षान्तिः इदं ज्ञानं भवति । यथा लौकिकी विपश्यना चतुस्सत्यानुसारिणी क्षान्तिरित्यप्युच्यते ज्ञानमित्यप्युच्यते । अनास्रवा क्षान्तिर्ज्ञानञ्च तथा स्यात् ।
(पृ) क्षयज्ञानमनुत्पादज्ञानञ्च ज्ञानमात्रं न दृष्टिः । (उ) किं कारणम् । (पृ) सूत्रे हि पृथुगुच्यते सम्यग्दृष्टिः सम्यक् ज्ञानमिति । अतो ज्ञानं न दृष्टिः । (उ) तथा चेत् सम्यग्दृष्टिर्न सम्यग् ज्ञानं भवति । यदि भवतो मतं सम्यग् ( स्स्स्_509 ) दृष्टिः सम्यग् ज्ञानमिति । सम्यग् ज्ञानमपि सम्यग् दृष्टिः स्यात् । पञ्चाङ्गधर्मकाये प्रज्ञास्कन्धात् पृथगुक्तं विमुक्तिज्ञानदर्शनं न प्रज्ञा भवेत् । तथा च क्षयज्ञानममुत्पादज्ञानमपि न प्रज्ञा भवति । इदानीं सम्यग्दृष्टिरेव भिन्नलक्षणतया सम्यग् ज्ञानमित्युच्यते । यदुत सर्वक्लेशानां क्षयो ऽर्हतश्चित्ते समुत्पद्यत इत्यत[स्तत] सम्यग् ज्ञानमित्युच्यते ।
(पृ) यदि सम्यग् ज्ञानमेव सम्यग्दृष्टिः । तदा अर्हन्न दशाङ्गसम्पन्नः स्यात् । (उ) एकस्यैव नामान्तरम् । यथा धर्मज्ञानं दुःखज्ञानमिति । आह च- अर्हन् अष्टगुणपुण्यक्षेत्रसम्पदिति । अतः सम्यग् ज्ञानमेव सम्यग्दृष्टिः । षट्सु सामीचीषु षष्ठी सामीची समतादृष्टिरित्युच्यते । यदि भवतोक्तवत् भवति । तदा क्षयज्ञानमनुत्पादज्ञानं न सामीची भवति । किञ्च सम्यग्विपश्यतीति सम्यग्दृष्टिः । क्षयज्ञानमनुत्पादज्ञानञ्च सम्यग्विपश्यतीत्यतो ऽपि सम्यग्दृष्टिः ।
(पृ) पञ्चविज्ञानसम्प्रयुक्ता प्रज्ञा ज्ञानमात्रं न दृष्टिः । (उ) कस्मान्न दृष्टिः । (पृ) पञ्चविज्ञानानि निर्विकल्पकानि । प्रथमत आलम्बनगतत्वात् । दृष्टिर्नाम सञ्चित्योपनिध्यानम् । पञ्चविज्ञानानि च प्रत्युत्पन्नमालम्बन्ते । अतो न दृष्टिः । (उ) तत्र वितर्कविचाराभावात् न विकल्पयन्ति । प्रथमत आलम्बनगतत्वात् न दृष्टिरिति यदि मतम् । तदयुक्तम् । कस्मात् । भवतां हि शासनं चक्षुर्विज्ञानं सन्तानालम्बनं यथा मनोविज्ञानमिति । अतो न वक्तव्यं प्रथमत आलम्बनगतमिति । तथा चेन्मनोविज्ञानमपि न दृष्टिर्भवेत् । भवान् पुनराह- प्रत्युत्पन्नालम्बनत्वान्न दृष्टिरिति । इदमपि न युक्तम् । परचित्तज्ञानमपि प्रत्युत्पन्नालम्बनम् । इदमपि न दृष्टिः स्यात् । पञ्चविज्ञानेषु नास्ति यथाभूतज्ञानम् । प्रतिपत्त्यभावात् । सदा प्रज्ञप्त्यनुवर्तनाच्च । दृष्टिः ज्ञानं प्रज्ञा इत्यादि सर्वं नास्ति । किं पुनर्दृष्टिमात्रं नास्तीति ।
केचिदाहुः- चक्षुरिन्द्रियं दृष्टिरिति । कथमिदम् । (उ) न चक्षुरिन्द्रियं ( स्स्स्_510 ) दृष्टिः । चक्षुर्विज्ञानं [विषया]लम्बनं भवति । लोकव्यवहारमनुसृत्य चक्षुर्दृष्टिरित्युच्यते । (पृ) केचिदाहुः- सन्त्यष्टदृष्टयो यदुत पञ्चमिथ्यादृष्टयो लौकिकी सम्यग्दृष्टिः शैक्षदृष्टिरशैक्षदृष्टिः । एता अष्टदृष्टिर्वर्जयित्वा अन्या प्रज्ञा न दृष्टिरित्युच्यत इति । कथमिदम् । (उ) ज्ञानदर्शनं विमुक्तिलाभः प्रतिसंवेदनं साक्षात्कार इतीदं सर्वमेकार्थकम् । इयं दृष्टिरियं न दृष्टिरिति यत् वचनम् । सर्वं तत् स्वसंज्ञाविकल्पितं वचनम् । (पृ) उक्तं ननु सूत्रे- जानन् पश्यन् आस्रवाद्विमुच्यत इति । कथमस्ति प्रविभागः । (उ) यत् ज्ञात्वा आदौ प्रज्ञप्तिं विदारयति तत् ज्ञानमित्युच्यते । धर्मस्थितायामवतरणं दर्शनम् । आद्यविपश्यना ज्ञानम् । [तत्]प्रतिसंवेदनं दर्शनम् । इत्येवमस्ति प्रविभागः ॥
ज्ञानदर्शनवर्गस्त्रिनवत्युत्तरशततमः ।
194 त्रिविधप्रज्ञावर्गः
तिस्रः प्रज्ञा, श्रुतमयी प्रज्ञा, चिन्तामयी प्रज्ञा, भावनामयी प्रज्ञेति । सूत्रादि द्वादशाङ्गप्रवचनादुत्पन्ना श्रुतमयी । इदमनास्रवां प्रज्ञां जनयतीति प्रज्ञा । यथोक्तं सूत्रे- राहुलो भिक्षुर्विमुक्तिप्रापिणीं प्रज्ञां सम्पादयति इति । वेदादीन् व्यावहारिकग्रन्थान् शृण्वन्नपि नानास्रवां प्रज्ञामुत्पादयतीत्यतो न [सा] श्रुतमयी प्रज्ञा भवति । यत् सूत्राणामर्थं चिन्तयति सा चिन्तामयी प्रज्ञा । यथोच्यते- योगी धर्मं श्रुत्वा तदर्थगतिं चिन्तयति । इति । अपि चाह- योगी धर्मं श्रुत्वा तदर्थं चिन्तयन् सदा प्रतिपदमनुवर्तत इति । यत् ज्ञानदर्शनमभिमुखीभवति सा भावनामयी प्रज्ञा । यथोच्यते- योगी समाहितचित्ते पञ्चस्कन्धानुत्पादनिरुद्धान् पश्यतीति । यथोक्तं सूत्रे- यूयं भिक्षवो ध्यानसमाधिं भावयन्तो यथाभूतज्ञानदर्शनमभिमुखं लभध्वे । इति । किञ्चोक्तं सप्तसम्यग्ज्ञानसूत्रे- यत् भिक्षु धर्मं प्रजानाति । [इयं] श्रुतमयी प्रज्ञा । यदर्थं प्रजानाति [इयं] चिन्तामयी प्रज्ञा । यत् ( स्स्स्_511 ) कालादीन् प्रजानाति । इयं भावनामयी प्रज्ञा । इति । यथा च राहुलः पञ्चोपादानस्कन्धनिकायादीनधीते । इयं श्रुतमयी प्रज्ञा । यद्विविक्तदेशे तदर्थं चिन्तयति । इयं चिन्तामयी प्रज्ञा । पश्चात्सम्बोधिकाले भावनामयी प्रज्ञा । किञ्चोक्तं सूत्रे- त्रीण्यायुधानि श्रुतायुधं विवेकायुधं प्रज्ञायुधमिति । श्रुतायुधं नाम श्रुतमयी प्रज्ञा । विवेकायुधं चिन्तामयी प्रज्ञा । प्रज्ञायुधं भावनामयी प्रज्ञा । अपि चोक्तं सूत्रे- पञ्चानुशंसाधर्मश्रवणे । कतमाः पञ्च । अश्रुतं शृणोति । श्रुतं पर्यादापयति । कांक्षां विहन्ति । दृष्टिं ऋजु करोति । चित्तमस्य प्रसीदति । इति । अश्रुतं शृणोति । श्रुतं पर्यादापयति इतीयं श्रुतमयी प्रज्ञा । कांक्षां विहन्ति । दृष्टिं ऋजुकरोति इतीयं चिन्तामयी प्रज्ञा । चित्तमस्य प्रसीदति इतीयं भावनामयी प्रज्ञा । धर्मश्रवणानुशंसायाञ्चोक्तम्- श्रोत्रेण धर्मं शृणोति । वाचा धर्ममधीते । इयं श्रुतमयी प्रज्ञा । मनसा मीमांसते । इयं चिन्तामयी प्रज्ञा । पश्यन् अभिसमेति । इयं भावनामयी प्रज्ञा इति । चतुर्षु श्रोतआपत्त्यङ्गेषु सद्धर्मश्रवणं श्रुतमयी प्रज्ञा । योनिशोमनस्कारश्चिन्तामयी प्रज्ञा । धर्मानुधर्मप्रतिपत्तिर्भावनामयी प्रज्ञा । पञ्चविमुक्तिद्वारेषु [यदन्यतरस्मात्] गुरुस्थानीयात् धर्मं श्रृणोति । इयं श्रुतमयी प्रज्ञा । [तस्मिन् धर्मे] यदर्थप्रतिसंवेदी भवति । इयं चिन्तामयी प्रज्ञा । तस्य यत् प्रमोद्यादि जायते । इयं भावनामयी प्रज्ञा ।
अपि चोक्तं सूत्रे- भगवान् धर्ममुपदिशति आदौ कल्याणं मध्ये कल्याणमन्ते कल्याणमित्यादि । तं धर्मं शृणोति सत्पुरुषस्तरुणो वृद्धो वा । श्रुत्त्वा प्रतिसञ्चिक्षति- सम्बाधो गृहावासो ऽभ्यवकाशा प्रव्रज्या । नेदं सु करमगारमध्यावसता [एकान्तपरिशुद्धं] सद्धर्मं चरितुमिति । तदैव भोगस्कन्धं प्रहाय ज्ञातिपरिवृत्तं प्रहाय अगारादनागारं ( स्स्स्_512 ) प्रव्रजति । शीलं धत्ते । इन्द्रियाणि रक्षति । इर्यापथेषु सम्प्रजन्यकारी भवति । विविक्तदेशे चिन्तयति । पञ्च नीवरणानि प्रहाय प्रथमध्यानादीनुपसम्पद्य विहरति । यावदास्रवक्षयमनुप्राप्नोति । इति । तत्र यत् धर्मं शृणोति तरुणो वा वृद्धो वा इति । इयं श्रुतमयी प्रज्ञा । श्रुत्वा यत् प्रतिसञ्चिक्षति- सम्बाधो गृहावासो ऽभ्यवकाशा प्रव्रज्येति । इयं चिन्तामयी प्रज्ञा । पञ्च नीवरणानि प्रहाय यावदास्रवक्षयमनुप्राप्नोति । इयं भावनामयी प्रज्ञा । किञ्चोक्तं सूत्रे- द्वाभ्यां प्रत्ययाभ्यां सम्यग्दृष्टिरुत्पद्यते । [कतमाभ्यां द्वाभ्याम्] । परतो धर्मश्रवणं योनिशोमनस्कार इति । परतो धर्मश्रवणं श्रुतमयी प्रज्ञा । योनिशोमनस्कारश्चिन्तामयी प्रज्ञा । सम्यग्दृष्टिसमुत्पादो भावनामयी प्रज्ञा । उक्तञ्च गाथायाम्-
निषेव्य सन्तं पुरुषं सद्धर्ममुपश्रुत्य च ।
विविक्तदेशाभिरतः तच्चित्तं विनयेत्पुनः ॥ इति ।
तत्र निषेव्य सन्तं पुरुषं सद्धर्ममुपश्रुत्य चेतीयं श्रुतमयी प्रज्ञा । विविक्तदेशाभिरत इतीयं चिन्तमयी प्रज्ञा । तच्चित्तं विनयेत्पुनरितीयं भावनामयी प्रज्ञा । किञ्च भगवान् भिक्षूननुशास्ति- यत्किञ्चिद्भाषमाणैर्युष्माभिश्चतुस्सत्यानि भाषयितव्यानि । यत्किञ्चिच्चिन्तयद्भिश्चतुस्सत्यानि चिन्तयितव्यानि इति । तत्र चतुस्सत्यभाषणं श्रुतमयी प्रज्ञा । चतुस्सत्यचिन्तनं चिन्तामयी प्रज्ञा । चतुस्सत्यानां लाभः भावनामयी प्रज्ञा । एवमादिना तत्र तत्र सूत्रे भगवान् त्रिविधां प्रज्ञामवोचत् ।
(पृ) तिसृषु प्रज्ञासु कति कामधातौ । कति रूपधातौ । कति आरूप्यधातौ भवन्ति । (उ) कामधातौ सर्वा भवन्ति । यथा हस्तक उपासको ऽतप्यद्देवेषूपपद्य तत्र धर्मं देशयति । धर्मं देशयन् अवश्यं तदर्थं चिन्तयति । अतो ज्ञायते रूमधातावप्यस्ति चिन्तामयी प्रज्ञेति । आरूप्यधातावस्ति भावनामयी प्रज्ञा । (पृ) केचिदाहुः कामधातौ नास्ति भावनामयी प्रज्ञा । रूपधातौ नास्ति चिन्तामयी प्रज्ञेति । ( स्स्स्_513 ) कथमिदम् । (उ) केन प्रत्ययेन कामधातौ नास्ति भावनामयी प्रज्ञा । (पृ) न कामधातुकमार्गेण सर्वाणि नीवरणानि सर्वाणि पर्यवस्थानानि प्रजहाति येन कामधातुकपर्यवस्थानं नाभिमुखीभवेत् । (उ) भवतां शासने नेदं वचनमस्ति यत् न कामधातुकमार्गेण नीवरणानि पर्यवस्थानानि प्रजहाति येन कामधातुकपर्यवस्थानं नाभिमुखीभवेदिति । आह च कामधातुकमार्गेण क्लेशान परिभेदयतीति । किमिति । कामधातावस्ति अशुभादिभावना । यथोक्तं सूत्रे- अशुभभावनां भावयन् कामरागं समूहन्ति इति । तथा करुणादावपि । (पृ) कामधातावशुभादिभावना नात्यन्तं क्लेशान् समुच्छेदयति । (उ) रूपधातुकाशुभादिभावनापि नात्यन्तं क्लेशान् समुच्छिन्द्यात् । (पृ) दौष्ठुल्याद्याकारैः क्लेशान् प्रजहाति । नाशुभादिना । (उ) दौष्ठुल्यादिना क्लेशान् प्रजहाति नाशुभादिना इति नास्ति किञ्चन सूत्रवचनम् । उक्तं हि सूत्रे- अशुभादिना क्लेशान् समूहन्ति इति । दौष्ठुल्यादीनां किमस्ति बलं क्लेशानां समुच्छेदकम् । [यत्] नास्त्यशुभादीनाम् । यदि कामधातौ दौष्ठुल्याद्याकारो ऽस्ति । अनेनाकारेण क्लेशान् समुच्छिन्द्यात् । यदि नास्ति, वक्तव्यं कारणं कस्मादस्ति अशुभादिः, न दौष्ठुल्यादिरिति । यदि सन्नपि न क्लेशान् समुच्छेदयति । रूपधातौ सन्नपि न समुच्छिन्द्यात् । अत्रापि कारणं वक्तव्यं कस्मात् कामधातौ न समुच्छेदयति । रूपधातौ परं समुच्छेदयतीति ।
कामधातौ सन्नपि दौष्ठुल्यादिर्न क्लेशान् समुच्छेदयति । अस्ति विक्षेपधातुत्वात् । विक्षिप्तचित्तो न किञ्चित्समुच्छेदयति । ययोक्तं सूत्रे- चित्तसमाधानं मार्गः चित्तविक्षेपो ऽमार्ग इति । (उ) कारणं वक्तव्यं कस्मात् कामधातुर्विक्षेपधातुरिति । तत्रास्ति अशुभादिभावना यद्ययं विक्षेपधातुः । कथं कङ्कालादि विलक्षणं पश्यति । रूपधातौ च चित्तसमाधाने ( स्स्स्_514 ) कस्य वैलक्षण्यमस्ति । कामधातो तु नास्ति । (पृ) रूपधातुकमार्गेण वैराग्यमनुप्राप्य तदन्तरा म्रियमाणो रूपधातावुत्पद्यते । यथा आणिराणिं निस्सारयति । (उ) किं नाम वैराग्यम् । (पृ) क्लेशप्रहाणं वैराग्यम् । रूपधातुकर्मार्गेण क्लेशान् प्रजहाति । न कामधातुकेन । (उ) तीर्थिकाः प्रहीणसंयोजना अपि पुनः कामधातौ समुत्पद्यन्ते । अतः [ते] प्राकृता न प्रहीणसंयोजना इत्युच्यन्ते । यदि [संयोजनानि] प्रहाय पुनरुत्पद्यते । तदा अनास्रवः क्षीणसंयोजनो ऽपि पुनरुत्पद्येत । तत्तु न सम्भवति ।
अपि चोक्तं सूत्रे- क्षीणत्रिसंयोजनस्त्रीणि विषाणि समूहन्तीति । प्राकृतो न त्रीणि संयोजनानि क्षपयतीत्यतो न वीतरागो भवति । प्राकृतस्य नित्यमस्ति आत्मदृष्टिः । यतः स न सत्कायदृष्ट्यादीन् क्षपयति । यदि प्राकतो वैराग्यकुशलः, सर्वे ऽपि क्लेशा न स्युः । कस्मात् । सर्वे हि क्लेशाः प्रतीत्यसिद्धाः । यथोक्तं सूत्रे- प्रत्ययेभ्य आत्मा सिध्यतीति । यदि पृथग्जनस्यास्य कामधातुकपञ्चस्कन्धेषु सत्कायदृष्टिर्नोद्भवति । ऊर्ध्वधातुकस्कन्धेषु पुनर्न भवेत् । तदा तु पृथग्जनस्य न सत्कायदृष्टिर्भवेत् । इत्यस्तीदृशो दोषः । एवं क्लेशैरत्यन्तक्षीणैर्भवितव्यम् । पृथग्जनो ऽयमर्हन् स्यात् । वस्तुतस्तु [तस्य] क्लेशा नैकान्तं क्षीणाः । यथोक्तं सूत्रे- द्वाविमौ भिक्षवः अशन्या फलन्त्या न सन्त्रसतः । [कतमौ द्वौ] भिक्षुश्च क्षीणास्रवो राजा च चक्रवर्ती इति । इदानीमयं पृथग्जनो ऽपि न सन्त्रसेत् । अर्हन् नाभिनन्दति जीवितं, नाभिसन्त्रसति मरणम् । अयं [पृथग्जनो] ऽपि एवं स्यात् । यथा उपसेनो ऽर्हन् आशीविषदष्टो जीवितान्ते ऽविरूपेन्द्रियो ऽविकृतरूपश्च बभूव । तथायमपि स्यात् । अर्हतो ऽष्टौ लोकधर्मा न चित्तमवपातयन्ति । ( स्स्स्_515 ) तथा स्यादयमपि । वीतरागत्वात् । वस्तुतस्तु पृथग्जनस्य वीतराग इति कथ्यमानस्यापि नेदं लक्षणं स्यात् । अतो ज्ञायते न क्षीणक्लेशो [ऽय]मिति ।
(पृ) पृथग्जनः संयोजनानि प्रहाय अत्रायुषो ऽन्ते रूपधातावुत्पद्यते । यदि संयोजनानि न प्रजहाति । कथं तत्रोत्पद्येत । सूत्रे ऽप्युक्तम्- अस्ति वीतरागस्तीर्थिक इति । आह च अराडः कलाम उद्रको रामपुत्रो रूपे वीतराग आरूप्य उत्पद्यत इति । किञ्चाह- रूपेण कामं विजहाति । अरूपेण रूपं विजहाति । निरोधेन स्मृत्युपस्थानानि विजहातीति । अतो [यत्]भवतोक्तं पृथग्जनः क्षीणक्लेशो ऽपि पुनरुत्पद्यत इत्यतो न क्षीण[क्लेश] इति । तन्न युज्यते । भवानप्याह- पृथग्जनस्य सर्वाणि विद्यमानानि प्रहीणानीति इदं वस्तुतः प्रतिषिद्धमित्यतः क्षीणो वीत इत्युच्यते । यथोक्तं गाथायाम्-
अहं ममेति या चिन्ता म्रियमाणो जहाति ताम्
अयमेव वीतरागो नाम । तीर्थिकानां प्रहाणन्तु मरणप्रहाणादन्यत् । मरणप्रहीणो न रूपारूप्यधातावुत्पद्यते । यो बालः स्वभूमिं त्यजति तं सत्कृतवतामपि नास्ति महाविपाकः । यदि वीतरागं तीर्थिकं सत्करोति, महाविपाकं विन्दते । वचने समाने ऽपि तदर्थस्तु विभिन्नः । अतो ज्ञायते पृथग्जनो वस्तुतः प्रहीण[क्लेशो] वीत[राग] इति ।
(उ) प्रतिषेधे ऽस्ति प्रविभागः । यदि गभीरक्लेशव्यावर्तकः तदा रूपारूपधातावुत्पद्यते । यदि सत्कायदृष्टिं व्यावृत्तवान् तदा पूर्वोक्तो दोषः । यदि कामधातुकसत्कायदृष्टिं न व्यावृत्तवान् । कथं रूणरूप्यधातावुत्पद्यते । व्यावृत्तरागप्रतिघमात्रस्य रूपधातावुत्पादः । न व्यावृत्तसत्कायदृष्टिकस्य । अतः पृथग्जनो न वस्तुतः प्रहीणसंयोजन इति ज्ञायते । कामधातुकसद्धर्मो ऽपि क्लेशव्यावर्तको ऽस्ति । अतो ज्ञायते कामधातावपि भावनामयी प्रज्ञास्तीति । सूत्रे ऽप्युक्तम्- सप्तनिश्चयानतिक्रम्य सम्बोधिं विन्दत इति । अतो ज्ञायते कामधातुनिश्रितः समाधिस्तत्त्वज्ञानजनक इति ।
(पृ) पुग्दलो ऽयं प्रथमध्यानस्यासन्नभूमिं निश्चित्यार्हन्मार्गमनुप्राप्नोति । न कामधातुकसमाधिम् । (उ) न युक्तम् । अतिक्रम्य सप्तनिश्रयानिति वचनेन प्रथमध्यानं तदासन्नभूमिश्चातिक्रान्तैव । न तत्रास्ति कारणमासन्नभूमिं निश्रयते न कामधातुकसमाधिमिति । यद्ययं योगी आसन्नभूमिमुपसन्नः । कस्मान्न प्रथमध्यानमुपसम्पद्यते । अस्यापि नास्ति कारणम् । सुसीमसूत्रे चोक्तम्- पूर्वं खलु धर्मस्थितिज्ञानं पञ्चान्निर्वाणज्ञानमिति । अस्यार्थः नावश्यं ध्यानसमाधिप्राप्तिपूर्वक आस्रवक्षयः । किन्तु धर्मस्थितिज्ञानमवश्यं पूर्वं कृत्वा पश्चादास्रवक्षयो भवतीति । अतो ज्ञायते सर्वान् ध्यानसमाधीनतिक्रामतीति । ध्यानसमाधिसमतिक्रमाय सूसीमसूत्रमाह । यद्यासन्नभूमिं वेदयते । स एव ध्यानसमानदोषः । सूत्रे चासन्नभूमिरिति वचनं नास्ति । स्वसंज्ञानुस्मरणविकल्पो ऽयम् ।
(पृ) पूर्वमुक्तो मया आणिदृष्टान्तः । अतो ज्ञायते अन्यभूमिकमार्गेणान्यभूमिकसंयोजनं प्रजहातीति । यथा सूक्ष्मयाण्या स्थूलाणिं निस्सारयति । एवं रूपधातुकमार्गेण कामधातुं प्रजहाति । योगी यदि पूर्वं काममकुशलधर्मांश्च प्रजहाति । तदुत्तरं प्रथमध्याने ऽवतरति । अतो ज्ञायते ऽवश्यमस्त्यासन्नभूमिः यया कामं प्रजहाति । आह च- रूपमुपादाय काममतिक्रामतीति । यदि नास्त्यासन्नभूमिः । कथं रूपमुपादद्यात् । उक्तञ्च सूत्रे- योगी शुभं प्रतिलभमानो ऽशुभं त्यजति तद्यथा नन्दः अप्सरतृष्णामुपादाय पूर्वतनकामं जहौ इति । यश्च प्रथमध्याने नोपशमरसमनुविन्दते, न स पञ्चकामगुणेषु महावद्यमतिं करोति । अतो ज्ञायते पूर्वं प्रथमध्यानस्यासन्नभूमिमनुप्राप्य कामधातुमुत्सृजतीति ।
उच्यते । कामधातौ शुभमनुप्राप्याशुभं प्रजहति । तद्यथाह- पञ्चनिस्सरणस्वभावा इति । यद्यार्यश्रावकः कदाचित् पञ्चकामगुणा न प्रीतिसौमनस्यजनका इत्यनुस्मरति । तदा तच्चित्तं नाभिरमते सिरापक्षदाहवत् । यदि [ते] निस्सरणधर्मा इत्यनुस्मरति । तदा चित्तमभिरमते । आह च- योगिनो यदाकुशलवितर्को भवति । तदा कुशलवितर्केण तं निरोधयति । तस्माद्भवदुक्त आणिदृष्टान्तो ऽपि कामधातौ सम्भवति । यत् भवानाह- ( स्स्स्_517 ) रूपमुपादाय काममतिक्रामतीति । इदं चरमभविकम् । योगी यदि कामधातुकमार्गेण क्लेशान् प्रजहाति । तदनुक्रमशो यावद्रूपधातुककुशलधर्मान् प्रतिलभते । तस्मिन् समये कामधातोरत्यन्तप्रहाणं नाम रूपधातुकधर्मप्रतिलाभः । भवानाह- निरोधसमापत्तिं प्रतिलभत इति । अर्हन्नपि समाधीन् प्रतिलभते । किन्तु तच्चरमभविकमित्युच्यते । यद्भवतोक्तं- शुभं प्रणीतं प्रमोदमुपशमरसञ्च प्रतिलभमान इति । तत्सर्वं सामान्यतः प्रत्युक्तम् ।
यदि च कामधातौ नास्ति समाधिः । कथं व्यग्रचित्तेन रूपधातुककुशलं साक्षात्करोति । (पृ) प्रज्ञाविमुक्तस्यार्हतो नास्ति समाधिः । प्रज्ञा परमस्ति । (उ) तत्र ध्यानसमाधिमात्रस्य निषेधः । अवश्यं भवितव्यमल्पकालं समाहितचित्तेन यावदेकं क्षणम् । यथा सूत्रे भगवानाह- भिक्षूणां चीवरं गृह्णतां त्रिषु [क्लेश] विषेषु सत्स्वपि चीवरासङ्गो निरुद्ध एवेति । व्यग्रचित्तस्य तत्त्वज्ञानमुत्पद्यत इति न किञ्चित्सूत्रमाह । सर्वथाह- समाहितो यथाभूतं प्रजानातीति ॥
त्रिविधप्रज्ञावर्गश्चतुर्वनवत्युत्तरशततमः ।
195 चतुः प्रतिसंविद्वर्गः
(पृ) अस्ति धर्मस्थितेः प्रत्यासन्नं लौकिकं ज्ञानम् । कतमदिदम् । (उ) इदं ऊष्मादिधर्मे प्रज्ञप्तिविदारकं ज्ञानम् । ज्ञानमिदं सांवृतसत्यदर्शन[रूप]त्वात् लौकिकम् । आर्यमार्गस्य प्रत्यासन्नत्वात् धर्मस्थितेः प्रत्यासन्नमित्युच्यते । (पृ) इदं सत्यदर्शनमार्गे अनागतभावनादीनां ज्ञानम् । (उ) अनागतभावनादीनां ज्ञानं नास्तीति पश्चाद्वक्ष्यते । कस्मात् । धर्मलक्षणविदारणे हि नास्ति प्रज्ञप्तिचित्तम् । अतः सत्यदर्शनमार्गे न लौकिकं ज्ञानं भावयति ।
(पृ) सूत्र उक्तम्- चतस्रः प्रतिसंविद इति । कतमा इमाः । (उ) अक्षरेषु, ( स्स्स्_518 ) या प्रतिसंवित् । इयं धर्मप्रतिसंवित् । रुतेषु प्रतिसंवित् निरुक्तिप्रतिसंवित् । यदुत [नाना]दिगन्तरव्यवहृतरुतविशेष[ज्ञान]म् । यथोक्तं सूत्रे- जनपदनिरुक्तौ नाभिनिवेशेत योगी इति । रुतस्याप्रयोगे ऽर्थो दुरधिगमः । अक्षराभावे ऽर्थो न प्रकाश्यो भवति । इयमेव निरुक्तिरकुण्ठा अक्षया असन्दिग्धं सुभाषितमित्युच्यते । यथोक्तं सूत्रे- सन्ति चत्वारो भाषितधर्माः किञ्चिद्भाषितं सार्थगति नाक्षयकरम् । किञ्चिदक्षयकरं न सार्थगति । किञ्चिदुभयवत् इति । किञ्चिन्नोभयवत् इति । इदं त्रिविधं ज्ञानं निरुक्त्युपायः । नामपदज्ञाने यदर्थप्रतिसंवेदनम्, इयमर्थप्रतिसंवित् । यथाह- सन्ति चत्वारो भाषितधर्माः कश्चिदर्थोपायः न व्यञ्जनोपायः । कश्चिद्वयञ्जनोपायो नार्थोपायः । कश्चिदुभयोपायः । कश्चिन्नोभयोपायः । य एतच्चतुःप्रतिसंवित्प्राप्तः स उपायसम्पन्नो दुष्प्रधृष्यो दुरधिगम्यो धर्मभाषणे । [तस्य] सुभाषितमक्षय[कर]मपि सार्थगति । प्रज्ञानवसन्ना वचननिरुक्तिश्चा प्रतिहता भवति ।
(पृ) प्रतिसंविदियं कथं प्रतिलब्धव्या भवति । (उ) पूर्वाध्वनीनकर्मप्रत्ययात् । यदि प्रत्यध्व प्रज्ञाप्रत्ययं स्कन्धाद्युपायञ्च सम्यग्भावयति । तदा तद्भावनाबलादिहैवाध्वनि अशिक्षिताक्षरसूत्राध्ययनो ऽपि [तत्र] ज्ञानं विन्दते । यथा दिव्यचक्षुरभिज्ञादिषु । (पृ) कतमः पुद्गलः प्रतिलभते । (उ) आर्यपुद्गल एव प्रतिलभते । केचिदाहुः- अर्हन्नेव ( स्स्स्_519 ) प्रतिलभते । न शैक्षजना इति । नायं तथा नियमः । शैक्षा अपि अष्टविमोक्षान् विन्दते । कस्मान्न प्रतिलभन्त इदं ज्ञानम् ।
(पृ) चतस्र इमाः प्रतिसंविदः कस्मिन् धातौ वर्तन्ते । (उ) कामधातौ रूपधातौ च सर्वा भवन्ति । आरूप्यधातौ केवलमर्थप्रतिसंविदस्ति । प्रतिसंविद् द्विविधा भवति सास्रवा अनास्रवेति । शैक्षाणां द्विविधा च भवति । अशैक्षाणां केवलमनास्रवा । प्रतिलाभे तु सर्वा युगपद्विन्दते । स्त्रियो ऽपि प्रतिलभन्ते यथा धर्मदिन्नादयो भिक्षुण्यः ॥
चतुःप्रतिसंविद्वर्गः पञ्चनवत्युत्तरशततमः ।
196 पञ्चज्ञानवर्गः
पञ्च ज्ञानानि- धर्मस्थितिज्ञानं, निर्वाणज्ञानं अरणाज्ञानं प्रणिधिज्ञानं प्रान्तकोटिकज्ञानमिति । तत्र धर्माणामुत्पादज्ञानं धर्मस्थितिज्ञानम् । यथा जातिप्रत्ययं जरामरणं यावदविद्याप्रत्ययाः संस्कारा इति । अस्ति वा तथागतो नास्ति वा तथागतः । एषां स्वभावः सदा स्थित इत्यतो धर्मस्थितिज्ञानमित्युच्यते । एषां धर्माणां निरोधो निर्वाणज्ञानम् । यथा जातिनिरोधे जरामरणनिरोधः । यावदविद्यानिरोधे संस्कारनिरोध इति ।
(पृ) तथा चेत् निर्वाणज्ञानमपि धर्मस्थितिज्ञानं भवति । कस्मात् । यतः अस्ति वा तथागतो नास्ति वा तथागतः । अस्य स्वभावो ऽपि सदा स्थितः । (उ) धर्माणां क्षयनिरोधो निर्वाणमित्याख्यायते । अस्मिन् क्षयनिरोधे को धर्मः स्थितः । (पृ) निर्वाणं किमद्रव्यमसत् । (उ) स्कन्धानामशेषनिरोधो निर्वाणमिति कीर्त्यते । तत्र किमस्ति [अवशिष्टम्] । (पृ) द्रव्यसत् निर्वाणम् । तत् केन ज्ञायते । निरोधसत्यं हि निर्वाणम् । दुःखादीनां सत्यानां वस्तुसत्त्वात् निर्वाणमपि वस्तुसत् । किञ्च निर्वाणस्य ज्ञानं निरोधज्ञानं भवति । यद्यसन् धर्मः । कस्य धर्मस्य ज्ञानमुत्पद्यते । सूत्रे च भगवानवोचत्- अस्ति, भिक्षवः कृतको जातो भूतः संस्कृतधर्मः । अस्ति ( स्स्स्_520 ) [भिक्षवः] अकृतको ऽजातो ऽभूतो ऽसंस्कृतधर्म इति । अपि चोक्तम्- सन्ति द्विधैव धर्माः संस्कृतो ऽसंस्कृत इति । संस्कृतधर्म इति उत्पादस्थितिव्ययविकृतः । असंस्कृत अनुत्पादस्थितिव्ययविकृतः । किञ्चोक्तं सूत्रे- ये विद्यन्ते संस्कृता वा असंस्कृता वा निरोधो निर्वाणं तेषामग्रमाख्यायते इति । आह च- रूपमनित्यम् । रूपनिरोधे निर्वाणं नित्यम् । एवं यावद्विज्ञानमपि । सूत्रे चोक्तम्- निरोधः साक्षात्कर्तव्य इति । यद्यसन् धर्मः । कतमः साक्षात्कर्तव्यः । भगवान् बहुधातुकसूत्र आह- विद्वान् संस्कृतधातुमसंस्कृताधातुञ्च यथाभूतं प्रजानाति । इति । यो ऽसंस्कृतधातुः तदेव निर्वाणम् । यथाभूतज्ञातं कथमभाव इत्युच्यते । सर्वेषु सूत्रेषु नास्ति किञ्चिन्नियतं वचनं निर्वाणमसद्धर्म इति । अतो ज्ञायते यन्निर्वाणमसदिति तत् भवतः स्वसंज्ञाविकल्प एवेति ।
उच्यते । यदि स्कन्धानां वियोगे ऽपि पुनरस्ति धर्मान्तरं निर्वाणमिति । तदा धर्माणामशेषनिरोधो निर्वाणमिति न स्यात् । यदि निर्वाणं सत् । तदा वक्तव्यः अस्ति स्वभावः को ऽयमिति । निर्वाणालम्बनः समाधिरनिमित्त इत्याख्यायते । यदि धर्मलक्षणमपि सजीवम् । किमसल्लक्षणं भवति । यथोक्तं सूत्रे- योगी रूपलक्षणं प्रहीणं पश्यति यावद्धर्मलक्षणं प्रहीणं पश्यति इति । सूत्रे च तत्र तत्रोक्तम्- सर्वे धर्मा अनित्याः सर्वे धर्मा अनात्मानः । तेषां व्युपशमो निर्वाणमिति । तत्रात्मा सर्वधर्माणां स्वभावः । यत् सर्वधर्माणां स्वभावादर्शनम् । तदा अनात्मदर्शनं भवति । यदि निर्वाणं धर्मः तदा नास्ति स्वभाव इति दर्शनं नोपलब्धुं शक्यते । अस्य धर्मस्य निरोधाभावात् । यथा यत्र घटो ऽस्ति । न तत्र घटस्य विनाशधर्मो ऽस्ति । घटे विनष्टे तु घटो विनष्ट इति वक्तुं शक्यते । वृक्षच्छेदे ऽप्येवम् । एवं संस्कारा अथापि वर्तन्ते । तदा न निर्वाणमित्याख्यायते । संस्काराणां निरोधे तु निर्वाणमित्याख्या भवति ।
दुःखनिरोधश्च न पुनर्धर्मान्तरं भवति । यथोक्तं सूत्रे- यदिदं भिक्षवो दुःखं निरुध्यते अन्यद्दुःखं नोत्पद्यते न पुनस्तत्सन्ततिरस्ति । इदं स्थानं परमं शान्तं शिव यदुत ( स्स्स्_521 ) सर्वप्रतिनिस्सर्गः कायिकचैतसिकरागात्यन्तविसंयोगो निरोधो निर्वाणमिति । तत्रेदं दुःखं निरुध्यते । अन्यद्दःखं नोत्पद्यत इति वचने को धर्मो निर्वाणादन्यो भवति । नाप्यस्ति पुनः पृथक् क्षयधर्मः । उत्पन्नमात्रा तृष्णा निरुध्यते, अजाता न जायते । तस्मिन् समये क्षयो नाम । को धर्मः पुनरस्ति क्षय इत्यभिधीयमानः । द्रव्यतो नाभिधातुं शक्यते ।
अथ सत्ता धर्मस्य नामान्तरम् । पञ्चस्कन्धानामभावो निर्वाणमित्युच्यते । तत्राभावो विद्यमानः सन् सत्तेत्युच्येत । इतीदन्तु न सम्भवति । अशेषनिरोधे निर्वाणमित्यभिधीयते । तद्यथा चीवरक्षयः पुनर्न धर्मान्तरमस्ति । तथा नो चेत् चीवरक्षयादिरपि पृथक् धर्मः स्यात् ।
भवानवोचत्- अस्ति निरोधज्ञानमिति । तदप्यबाधितम् । तद्यथा वृक्षच्छेदादौ [वृक्षच्छेद]ज्ञानमुत्पद्यते । न चास्ति पृथक् छेदधर्मः । संस्कारवशात्तत्र ज्ञानमुत्पद्यते । यत् सर्वसंस्काराणामभावः । [तत्] निर्वाणं भवति । यथा यत्र यन्नास्ति तत्र तेन शून्यमिति ज्ञानम् । (पृ) किमिदानीं नास्ति निर्वाणम् । (उ) न नास्ति निर्वाणमिति । किन्तु नास्ति द्रव्यधर्म[रूपम्] । यदि नास्ति निर्वाणम् । तदा सदा सर्वत्र जातिमरणमस्ति । न कदाचिन्मोक्षसमयः । यथा अस्ति घटभङ्गः वृक्षसमुच्छेदः । परं तु नास्ति द्रव्यतो धर्मान्तरमस्तीति । [अनेन] अन्यसत्यादिवचनमपि प्रत्युक्तम् । कस्मात् । अस्ति दुःखनिरोध इत्यतो ऽस्त्यजातो ऽभूतो ऽकृतको ऽसंस्कृत इत्यादिवचनं सर्वमप्रतिहतम् ।
अरणाज्ञानमिति । येन ज्ञानेन न रणायते परेण सह । इदमरणा [ज्ञान]म् । ( स्स्स्_522 ) केचिदाहुः- मैत्रीचित्तमिदमिति । मैत्रीचित्तान्न सत्त्वानुपहन्ति । अन्ये केचिदाहुः- शून्यताविहारो ऽयमिति । अनेन शून्यताविहारेण न वस्तुना रणायते । केचिद्वदन्तिनिर्वाणाभिरुचिचित्तमिदमिति । निर्वाणाभिरुच्या हि न रणास्पदमस्ति । केचिद्वदन्ति- चतुर्थध्यानगतं [किञ्चिदिद]मिति । नेदं नियमेन तथा । एतज्ज्ञानभावितचित्तस्यार्हतो नास्ति [रणास्पदं] किञ्चित् ।
प्रणिधिज्ञानमिति । धर्मेषु अप्रतिहतं प्रणिधिज्ञानमित्युच्यते । (पृ) तथा चेत् भगवतो बुद्धस्य केवलमिदं ज्ञानं स्यात् । (उ) एवमेव । बुद्धो भगवानेवैतज्ज्ञानसम्पन्नः । अन्ये [त]द्बलाधिष्ठिता अप्रतिहत[ज्ञानं] विन्दन्ते ।
प्रान्तकोटिकज्ञानमिति । यत् योगी प्रकृष्टमुत्तमं ज्ञानं सर्वध्यानसमाधिभिः परिभावितं परिवर्धितं प्रतिलभ्य [स्व]जीवितस्य बृद्धौ ह्रासे वशितां विन्दते । इदं प्रान्तकोटिकज्ञानमित्युच्यते ॥
पञ्चज्ञानवर्गः षण्णवत्युत्तरशततमः ।
197 षडभिज्ञाज्ञानवर्गः
अस्ति षडभिज्ञाज्ञानम् । षडभिज्ञाः- कायर्द्धिः द्वियचक्षुः दिव्यश्रोत्रं परचित्तज्ञानं पूर्वनिवासानुस्मृतिरास्रवक्षय[ज्ञान]मिति । कायर्द्धिरिति । योगी स्वकायादपो ऽग्निञ्चाविष्करोति । विहायसा गच्छति । आविर्भवति । तिरोभवति । सूर्याचन्द्रमसौ परामृशति । ब्रह्माणमीश्वरं नानानिर्मितांश्चाधिगच्छति । ईदृशं कर्म कायर्द्धिः । (पृ) कथमिदं सेत्स्यति । (उ) योगी ध्यानसमाधीनां सम्यक् भावनया विन्दते । यथोक्तं सूत्रे- ध्यानसमाधानस्य बलमचिन्त्यमिति । केचिदाहुः- निर्माणचित्तमव्याकृतमिति । इदमयुक्तम् । यद्ययं योगी परहिताय नानानिर्मितं प्रदर्शयति । कस्मात्तदव्याकृतं भवेत् । केचिदाहुः- कामधातुकचित्तेन कामधातुकनिर्मितं करोति । रूपधातुकचित्तेन रूपधातुकनिर्मितं करोतीति । तदप्ययुक्तम् । चक्षुराद्यपि एवं स्यात् । कामधातुकविज्ञानेन कामधातुकरूपमेव पश्येदित्यादि । यदि रूपधातुकचित्तं कामधातुकचित्तं करोति । को दोषो ऽस्ति । केचिदाहुः- प्रथमध्यानाभिज्ञया ब्रह्मलोकं गच्छति यावच्चतुर्थध्यानाभिज्ञया रूपपर्यन्तं गच्छतीति । इदमप्ययुक्तम् । इन्द्रियबलवशात् यत्र कुत्रचित् गच्छति । यदि तीक्ष्णेन्द्रियः, प्रथमध्यानाभिज्ञया चतुर्थध्यानमनुप्राप्नोति । मृद्विन्द्रियो द्वितियध्यानाभिज्ञयापि न प्रथमध्यानमुपयोजयति । यथा महाब्रह्मा [सहां] पतिः ध्यानस्यान्तरमनुप्राप्तः । न तत्रास्ति [तस्या]भिज्ञा । प्रथमध्यानबलेन अन्यान् ब्रह्मदेवाननुप्राप्नोति । नैव तु प्रथमध्यानेन ब्रह्मावासं प्रजानाति । भगवान् पूर्वनिवासेन आरूप्यमनुस्मरति । यथोक्तं सूत्रे रूपे वा आरूप्ये वा पूर्वतनीनमुपपत्त्यायतनं भगवान् सर्वं प्रजानाति । अतो नास्ति नियमः ।
केचिदाहुः- दिव्यचक्षुः प्रज्ञास्वभावमिति । तदप्ययुक्तम् । दिव्यचक्षुरालोकवशेन सिद्धम् । प्रज्ञा तु नैवम् । (पृ) सूत्र उक्तम्- आलोकलक्षणं भावयन् ज्ञानदर्शनं साधयति इति । ज्ञानदर्शनमेव दिव्यचक्षुः । (उ) मैवम् । अपि चाह- दिव्यश्रोत्रं न प्रज्ञास्वभावमिति । तत् श्रोत्रमित्याख्यायते इति । अतो न प्रज्ञास्वभावम् । दिव्यचक्षुः प्रत्युत्पन्नं रूपमालम्बते । न तथा मनोविज्ञानम् । दिव्यचक्षुर्विभङ्गे चोक्तम्- ज्ञानं सत्त्वकर्मविपाक[भूत]म् । चक्षुर्विज्ञानस्य नास्ति बलमिदम् । किन्तु मनोविज्ञानस्य ज्ञानं चक्षुर्विज्ञानप्रयोगकाले समुत्पद्यते । अतो ध्यानसमाधिभ्य उत्पन्नं रूपं दिव्यचक्षुरित्युच्यते । (पृ) दिव्यचक्षुषः संस्थानं किं महत् किं वाल्पम् । (उ) तारकाप्रमाणसदृशम् । (पृ) अन्धस्य कथम् । (उ) चक्षुरायतनेन सहैव भवति । (पृ) किं दिव्यचक्षुरेकं उत द्वे । (उ) द्वे भवतः । (पृ) यां काञ्चिद्दिशमनुपश्यति । (उ) सर्वा दिशो व्याप्य पश्यति । (पृ) किं निर्मिते ऽप्यस्ति । (उ) नास्ति । निर्मातुरस्ति । दिव्यश्रोत्रवादो ऽप्येवम् ।
योगी तत् परचित्तं वेत्ति । यत् परचित्तज्ञानम् ।(पृ) कस्मान्नोच्यते परचैतसिकज्ञानम् । (उ) अस्मादेव कारणान्नास्ति पृथक् चैतसिकम् । परकीयसंज्ञावेदनादीनां ज्ञानमपि परचित्तज्ञानमेव । केचिदाहुः- ज्ञानमिदं सजातीयालम्बनम् । यथा सास्रवेण सास्रवं जानाति अनास्रवेण अनास्रवं जानाति इति । तदयुक्तम् । नेमे वदन्ति कारणनियमम्- अनेन कारणेन सजातीयमेवालम्बनं जानातीति । केचिद्वदन्ति- प्रत्युत्पन्नमात्रालम्बनमिति । तदप्ययुक्तम् । किञ्चिदनागतालम्बनम् । यथा कश्चिदवितर्कसमाधिमुपसम्पन्नः प्रजानाति अस्मात् समाधेर्व्युत्थिते एवमेवं वितर्को भविष्यतीति । केचिद्वदन्ति- ज्ञानमिदं न मार्गसत्यं प्रजानातीति । तदयुक्तम् । यदि प्रजानाति । को दोषः । आह च- प्रत्येकबुद्धो मार्गसत्यदर्शनगततृतीयचित्तं ज्ञास्यामीति सप्तमं चित्तमेव पश्यति । श्रावकस्तृतीयचित्तं ज्ञास्यामीति षोडशं चित्तमेव पश्यति । किमयं न मार्गसत्यदर्शनं प्रजानाति । केचिदाहुः- ज्ञानमिदं न प्रजानाति ऊर्ध्वभूमिमूर्ध्व[भूमि]पुद्गलमूर्ध्वमिन्द्रियमिति । इदमप्यनियतम् । देवा अपि प्रजानान्ति भगवतश्चित्तम् । तद्यथा भगवानेकदा परिषदं विहाय पुनर्ग्रहणेच्छामन्वस्मरत् । तत् सर्वं ब्रह्मा प्राजानत् । किञ्चैकस्मिन् समये मनस्यचिन्तयत्- राजा भूत्वा ( स्स्स्_525 ) यथाधर्मं लोकं विनेष्यामीति । मारस्तदेव ज्ञात्वा समागत्यायाचत । देवा अपि जानन्ति- अयमर्हन् यावदयं स्रोतआपत्तिप्रतिपन्नक इति । भिक्षवो ऽपि प्रजानन्ति भगवतश्चित्तम् । तद्यथा भगवति परिनिर्वाणाभिमुखे सति अनिरूद्धो भगवतोपसम्पन्नान् ध्यानसमाधीन् यथाक्रममजानीत् । केचिदाहुः- ज्ञानमिदं नारूप्यं प्रजानातीति । इद मयुक्तम् । भगवान् हि पूर्वनिवासा[नुस्मृत्या] आरूप्यं प्रजानाति । परचित्तज्ञानेनापि तथा ज्ञाने को दोषः ।
(पृ) कथं परिचित्तं जानाति । (उ) आलम्बने सति जानाति । यदि चित्तं रूपावचरं, रूपालम्बनं चित्तं भवति । इत्यादि । (पृ) तथा चेत् परचित्तं सर्वधर्मालम्बनं स्यात् । (उ) एवमेव [स्यात्] । यदि न जानात्यालम्बनं, कतमत् चित्तं जानीयात् । यथोक्तं सूत्रे- भवतश्चित्तमेवमेवमिति प्रजानामि इति । इदमेव रूपाद्यालम्बनम् ।
परचित्तज्ञानं त्रिविधम्- निमित्तज्ञानं, विपाकप्रतिलब्धं, भावनाप्रतिलब्धमिति । निमित्तज्ञानमिति यथा अङ्गमन्त्रादिना जानाति । विपाकप्राप्तमिति यथा असुरादीनाम् । भावनाप्रतिलब्धमिति ध्यानसमाधिभावनाबलप्रतिलब्धं परचित्तज्ञानम् । इदमेव षडभिज्ञासु भावनाप्रतिलब्धमित्युच्यते ।
यदतीताध्वनीस्कन्धानामनुस्मरणं [तत्] पूर्वनिवासानुस्मरणम् । (पृ) केषां स्कन्धानामनुस्मरणं करोति । (उ) स्वस्कन्धान् परस्कन्धानसत्त्वस्कन्धांश्चानुस्मरति । जिनानां स्कन्धाननुरमरन्नपि तेषां शीलादीन् धर्माननुस्मरति । केन तत् ज्ञायते । यथा शारिपुत्रः भगवन्तं प्रत्याह- अहमतीतानागतानां तथागतानां चित्तमजानन्नपि तेषां धर्मं जानामीति । शुद्धावासा देवास्तथागतचित्तं जानन्तीत्यतो भगवन्तमुपसम्पद्याहुः- अतीततथागतानां भगवन् इर्यापथो ऽप्येवमिति ।
(पृ) पूर्वनिवासा[नुस्मृति]विभङ्गे कस्मादुक्तं सह निमित्तेन सह जात्येति । (उ) अनुस्मृतिर्विशदेत्यत एवं निमित्तसंज्ञामवोचत् अमुकः पुद्गलः इत्यादि । वस्तुविज्ञानेन निमित्तमित्युच्यते । जातिर्नाम गोत्रम् । यथाहुः- इदं तव कुलं इयं तव जातिरिति । जातिं निमित्तञ्च मिलित्वा वदतीत्यतो ज्ञानदर्शनं विशुद्धम् । (पृ) कस्माद्विशदानुस्मरणं भवति । (उ) अतीतधर्मा निरुद्धा न निमित्तानि । अथापि तान् ज्ञातुं प्रभवतीदमद्भुतम् । ( स्स्स्_526 ) कश्चिन्निमित्ताभ्युहेन जानन् न विशदं जानाति । यज्जिनौरसाः [ते] ऽपि पुनरेवम् । अतो जातिं निमित्तं मिलित्वोक्तम् ।
कश्चित् पूर्वनिवासज्ञानं प्रयोजयति । कदाचित् समार्गया चिन्तामयप्रज्ञया प्रजानात्यतीतमध्वानम् । यथा संस्कारप्रत्ययं विज्ञानम् । अनयोर्द्वयोश्चिन्तामयी प्रज्ञा विशिष्यते । कस्मात् । अस्ति हि पुद्गलस्य अष्टमहासहस्रकल्पान् जानतो ऽपि नास्तीयं चिन्तामयी प्रज्ञा । अतो मिथ्यादृष्टिरुत्पद्यते । यदि त आगतं जरामरणं भवति । तदतीत्य न पुनरस्ति [इति] । समार्गचिन्तामयप्रज्ञस्य नैवास्ति तच्चित्तम् ।
(पृ) केचिदाहुः- ज्ञानमिदमतीतं क्रमशो ऽनुस्मरतीति । तदयुक्तम् । यदि क्षणक्रमेणानुस्मरति । एकस्मिन्नेव कल्पे वस्तु दुर्विज्ञेयं सर्वतः । किं पुनरप्रमाणकल्पे (पृ) सूत्रे कस्मादुक्तम्- अहमेकनवतिकल्पानागत्य नापश्यं [किमपि] दानमपचीयमानं विना विपाकेन इति । (उ) भगवानत्र सप्तबुद्धान् साक्षीचकार । दीर्घायुष्काः शुद्धावासा अपि बुद्धैर्न समदर्शिनः । भगवान् यथाभूतज्ञानं प्रतिलब्धवानित्यतः परिशुद्धगुणः । यदि सत्करोति [तथागतं] स उभयोर्लोकयोः पुण्यमनुप्राप्नोति । अत एतदुभयमुक्तम् ।
केचिदाहुः- ज्ञानमिदं नोर्ध्वभूमिं प्रजानातीति । तदयुक्तम् । ऊर्ध्व[भूमिक] कायर्द्ध्यादौ प्रत्युक्तमेव । (पृ) यदि स्मृतिस्वभावमिदम् । कुतो ज्ञानमित्युच्यते । (उ) स्मृतिर्निमित्तमनुसम्भवति । अतीतं न निमित्तम् । अथाप्यनुस्मरति । प्रज्ञाविशेषमेव स्मृतिरिति ब्रूमः ।
पूर्वनिवासानुस्मृतिस्त्रिविधा- पूर्वनिवासज्ञानप्रयोगिणी, विपाकप्रतिलब्धा, पुनरात्मस्मृतिसञ्जननीति । पूर्वनिवासज्ञानं भावनाप्रतिलब्धम् । विपाकप्रतिलब्धमिति यथासुरादीनाम् । पुनरात्मस्मृतिसञ्जननी यन्मनुष्यगतौ भवति । (पृ) केन कर्मणा पुनरात्मसञ्जननी भवति । (उ) सत्त्वानामविहिंसनेन कर्मणा प्रतिलभते । कस्मात् । मरणकाल उपपत्तिकाले च दुःखाभिहतत्वान्मुषितस्मृतिर्भवति । तत्रामोषणं दुर्लभम् । अतः कुशलं कर्मापेक्ष्यते । केचिद्वदन्ति- इदमतीतं सप्ताध्वपरममनुस्मरतीति । नायं नियमः । कश्चित् प्रत्यध्वमविहिंसनधर्मसुभावितत्वात् सुचिरं विप्रकृष्टञ्चानुस्मरति ।
आस्रवक्षयज्ञानसाक्षात्काराभिज्ञेति । वज्रोपमसमाधिरयम् । ( स्स्स्_527 ) वज्रोपमसमाधिरयमास्रवक्षयरूपः अनावरणमार्गः । आस्रवक्षयः अशैक्षज्ञानमित्युच्यते । वज्रोपमसमाधिना आस्रवाणां निरोधः क्षयः । [स] आस्रवक्षयज्ञानसाक्षात्काराभिज्ञेत्युच्यते । (पृ) अन्ये ऋद्धि[पादा] अपि वक्तव्याः; केन धर्मेण साक्षात्करोति । (उ) उक्तमेव पूर्वं ध्यानसमाधीन् गभीरं भावयन् ऋद्धिपादान् साक्षात्करोतीति । यत्प्रयोजनमनुसृत्य साक्षात्कारः साक्षात्कृतं वस्तु, [स] सर्व ऋद्धिपादः ।
केचिदाहुः- सर्व आर्यमार्गा अस्रवक्षयस्योपायाः । यथोक्तं सूत्रे- तथागते लोक उत्पन्ने सुपुरुषा धर्मं श्रुत्वा प्रव्रजिताः शीलं समाददाना अपनीतपञ्च नीवरणाः समाधिं भावयन्तः सत्यं पश्यन्ति इत्यादि सर्वमास्रवक्षयस्योपायाः । केचिदाहुः- दानादयः कुशलधर्मा अपि आस्रवक्षयस्य निदानानि । यथोक्तं सूत्रे- योगिनो दानं क्षीणास्रवशून्यानात्मज्ञानं साधयतीति । इदमुच्यते तत्त्वत आस्रवक्षयसाक्षात्काराभिज्ञा इति । अस्यैव धर्मस्य नामान्तरं वज्रोपमसमाधिरिति । निमित्तानि समूहन्तीति वज्रत्वम् । तीर्थिकाः पञ्चाभिज्ञा भवन्ति । तैरस्य तत्त्वज्ञानस्याप्रतिलब्धत्वात् ।
(पृ) अनात्मज्ञानेन आत्मदृष्टिं भिन्द्यात् । कथमनेन कामप्रतिघादि प्रजहाति । (उ) अनात्मज्ञानेन सर्वाणि निमित्तानि निरुन्धे । निमित्ताभावात्सर्वे क्लेशा निरुध्यन्ते । (पृ) अद्येन अनात्मज्ञानेन निमित्तानि निरुन्धे । द्वितीयज्ञानादिना क उपयोगः (उ) निमित्तानि निरुद्धान्यपि पुनरुत्पद्यन्ते । अतो द्वितीयाद्यपेक्षते । (पृ) यदि निरुद्धं पुनरुत्पद्यते । तदा अनवस्थं निमित्तं भवति । तथा सति नार्हन्मार्गः । (उ) अस्त्यवस्था । यथा पश्यामः स्तन्यं शुष्यत् पुनः प्रस्रवति । अस्ति कश्चित् कालः [यदा] स्तन्यं प्रतिरुद्धपयःप्रसूति भवति । तदा अवधिर्भवति । निमित्तमप्येयम् । यथा च तप्ते ऽयसि कृष्णलक्षणं निरुद्धं पुनरुत्पद्यते । यावल्लोहितलक्षणमुत्पद्यते । स समयो ऽवधिरित्युच्यते । कललादयो दृष्टान्ता अप्येवम् । यस्मिन् समये निमित्तानि निरुद्धानि न पुनरुत्पद्यन्ते । स समयो ऽर्हन्मार्गप्रतिलम्भः । (पृ) किमर्हतो ऽत्यन्ताभावरूपाणि निमित्तानि । (उ) यदा असमाहितचित्तस्थः, तस्मिन् समये सन्त्यपि रूपादिनिमित्तानि । किन्तु न दोषजनकानि । यदि किश्चित् चक्षुषा रूपाणि दृष्ट्वा मिथ्यामनस्कारेण मिथ्या विकल्पयति । तदा दोषाजनकानि भवन्ति ।
(पृ) किमनात्मशून्यज्ञानम् । (उ) यद्योगी पञ्चसु स्कन्धेषु प्रज्ञप्तं सत्त्वं न पश्यति । धर्मशून्यत्वात् रूपकायनिरोधं यावद्विज्ञाननिरोधं पश्यति । इदमुच्यते अनात्मशून्यज्ञानम् । ( स्स्स्_528 ) (पृ) प्रज्ञप्तिकृता धर्मा नित्यवर्तिनः । [तेषु] तृष्णादयः क्लेशा अपि प्रहेयाः । यथोक्तम्- पदार्था नित्यस्थायिनः । व्यवसायी तु [तत्र] कामतृष्णां प्रजहाति इति । किं निरोधलक्षणमपेक्षते । (उ) सूत्र उक्तम्- यत्किञ्चित्समुदयधर्म, तत्सर्वं निरोधधर्म । तेषु धर्मेषु विरजो धर्मचक्षुः प्रतिलभत इति । यो निरोधेन प्रहाणं तदत्यन्तप्रहाणम् । कश्चिद्योगी रूपेषु वीतरागः कामप्रतिघं क्षपयति । तदर्थं भागवानीदृशीं गाथामवोचत् । किञ्चाह- संस्काराः स्वभावशून्या मायावत् । प्राकृता अज्ञा वदन्ति- ते वस्तुसन्त इति । शैक्षाः पुनः प्रजानन्ति- ते तुच्छा रिक्ता मायावदिति । अर्हन्नपि मायां [किं] न पश्यति । अतो ज्ञायते यया प्रज्ञया धर्माणां निरोधं साक्षात्करोति इयमास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञेति ॥
षडभिज्ञावर्गः सप्तनवत्युत्तरशततमः ।
198 ज्ञानक्षान्तिवर्गः
(पृ) सूत्र उक्तम्- यो योगी सप्तभिरुपायैस्त्रिभिरर्थावलोकनैः समन्वितः सो ऽस्मिन् धर्मे क्षिप्रमास्रवक्षयमनुप्राप्नोतीति । किमिदं ज्ञानम् । (उ) सप्तोपाया नाम श्रुतमयी प्रज्ञा चिन्तामयी प्रज्ञा च । कस्मात् । असमाहितचित्त एवं विचारयति- यदिदं रूपम्, अयं रूपसमुदयः अयं रूपनिरोधः इयं रूपनिरोधगामिनी प्रतिपत्, [अयं] रूपास्वादः, [अयं] रूपादीनवः इदं रूपनिस्सरणं इति । (पृ) यदीयं श्रुतमयी चिन्तामयी प्रज्ञा । कस्मादाह- क्षिप्रमास्रवक्षयमनुप्राप्नोतीति । (उ) यद्यपीयं श्रुतमयी चिन्तामयी प्रज्ञा तथाप्येवं पञ्चस्कन्धान् विकल्पयन् आत्ममतिं विभेदयति । अत आह- क्षिप्रमास्रवक्षयमनुप्राप्नोतीति । त्रिविधावलोकनज्ञानं यदुत संस्कारा अनित्या दुःखा अनात्मान इति । स्कन्धधात्वायतनमुखेन संस्कारान् पश्यतो नास्त्यर्थो हितं वा । (पृ) तथा चेत् पूर्वमादीनव उक्तमेव- अनित्या दुःखा इति । निस्सरणे चोक्तम्- अनात्मान इति । कस्मात्पुनरुच्यते त्रिविधमिदमवलोकनमिति । (उ) त्रिविधाः शिक्षते- पूर्वं श्रुतमयीं चिन्तामयीं प्रज्ञाम् । पश्चात् भावनामयीं प्रज्ञाम् । पूर्वं श्रुतमय्यां चिन्तामय्यां प्रज्ञायामुक्ताः सप्त प्रकाराः । पश्चाद्भावनामय्यां प्रज्ञायां त्रयः प्रकाराः । कस्मात् । यदनित्यं तत् दुःखमिति लक्षणस्य भङ्गो ( स्स्स्_529 ) नाम अनित्यस्य भङ्गः नानित्यसंस्काराणां भङ्गः । पूर्वं कामकषायोत्सर्ग उक्ते ऽपि नोक्तं कथमुत्सृजतीति । पश्चात्ताबदुक्तं त्रिविधमर्थावलोकनम् ।
(पृ) कतमा अष्ट क्षान्तयः । (उ) यत्किञ्चित् ज्ञानं प्रज्ञप्तिविदारणम्, इयं क्षान्तिरित्युच्यते । क्षान्तिरियमूष्ममुर्धक्षान्तिलौकिकाग्रधर्मेष्व[स्ति] । (पृ) योगिनो ऽपि बुद्धे धर्मे सङ्घे शीलदिषु क्षान्तिरस्ति । कस्मादुक्तमष्टाविति । (उ) प्राधान्यादुक्तम् । प्राधान्यं मार्गप्रत्यासन्नता । यथा दुःखे धर्मज्ञानाय दुःखे धर्मक्षान्तिरित्येवमादि । कस्मात् । पूर्वं हि मार्गानुकूलां चिन्तामयीं प्रज्ञां प्रयुज्य पश्चात्प्रत्यक्षज्ञानमनुप्राप्नोति । यथा हस्तिपकः पूर्वं हस्तिपदं दृष्ट्वा तेन ज्ञानेन प्रजानाति- अत्र वर्तत इति । पश्चादभिमुखीकरोति । तथा योग्यपि पूर्वं क्षान्त्यान्वयज्ञाने न निर्वाणमभ्यूह्य पश्चात् तेन ज्ञानेनाभिमुखीकरोति । अतः सूत्र उक्तम्- [एवं] जानन्[एवं] पश्यन् आस्रवक्षयमनुप्राप्नोतीति ॥
ज्ञानक्षान्तिवर्गो ऽष्टनवत्युत्तरशततमः
199 नवज्ञानवर्गः
(पृ) केचिदाभिधर्मिका वदन्ति अर्हन् क्षयज्ञानं साक्षात्कुर्वन् सांवृतानि नव ज्ञानानि प्राप्नोति यदुत कामधातुप्रतिसंयुक्तं कुशलमव्याकृतं [ज्ञानं] यावन्नैवसंज्ञानासंज्ञायतनप्रतिसंयुक्तं कुशलमव्याकृतं [ज्ञान]म् । कथमिदम् । (उ) न सर्वो ऽर्हन् सर्वान् ध्यानसमाधीन् प्राप्नोति । कथं नव ज्ञानानि प्राप्नुयात् । (पृ) सर्वो ऽर्हन् ध्यानसमाधीन् प्राप्नोति । न तु सर्वः समापत्तिमभिमुखीकरोति । (उ) यदि समापत्तिं नाभिमुखीकरोति । कतमा प्राप्तिर्नाम । यथा कश्चिदाह- ग्रन्थं जानामि, तदक्षरमेकन्तु न विजानामीति । तथेदमप्यस्ति । (पृ) यो वीतरागः सन् न प्रथमध्यानसमापत्तिं नाद्यापि प्रत्यक्षीकृतवान् । स आयुषो ऽन्ते [ऽपि] न तामुत्पादयति । (उ) सूत्रे तूक्तम्- अस्मिन्नन्तराले समापद्य पश्चात्तां समुत्पादयेदिति । इदानीं कथमस्मिन्नन्तराले ऽसमापन्नस्तां समुत्पादयति । (पृ) यदि ( स्स्स्_530 ) रागाद्विरज्यमानस्यातीतानागतानि सर्वाणि ध्यानानि मूलतः प्राप्नानि । तद्विपाकेन [त]दुत्पत्तिं प्राप्नोति । (उ) अनागतं कर्म अकृतमभूतं न विपाकं प्रापयति । अतीतानि ध्यानानि चित्त उत्पन्नचराणि यदि विपाकं प्रयच्छन्ति । तदा अविद्यमानताहानिः । किञ्च नानागतकर्माणि प्राप्नुयात् । यदि प्राप्यमिति, अनागतं सर्वं प्राप्यं स्यात् । कस्य प्रतिबन्धात् प्राप्त्यप्राप्ती स्तः ।
(पृ) यद्यनागतो धर्मो न प्राप्य इति । शैक्षो नाष्टभिरङ्गैः समन्वितः स्यात् । अशैक्षो ऽपि दशभिरङ्गैः समन्वितः । कस्मात् । यस्य द्वितीयध्यानादि निश्रित्य सम्यक् धर्मनियामावक्रान्तिर्भवति । सो ऽनागते सम्यक्सङ्कल्पं प्राप्नोति । यदि योगी क्षयज्ञानमभिमुरवीकरोति । तदानागते ऽध्वनि सम्य् दृष्टिं प्राप्नोति कश्चिदारूप्यसमाधिं निश्रित्यार्हत्फलं प्राप्नोति । अयमनागते सम्यक्सङ्कल्पं सम्यग्वाचं सम्यक्कर्मान्तं सम्यगाजीवं प्राप्नोति । यदि तृतीयध्यानादि निश्रित्यार्यमार्गं प्राप्नोति । सो ऽनागते प्रीतिं प्राप्नोति । एवमादयो धर्मास्तदा न स्युः । अतो ज्ञायते अस्त्यनागतो धर्म इति । यदि च नास्ति अनागत[धर्मः] कथं भावको फलानि ध्यानसमाध्यादीननुप्राप्स्यति । योगी यदा मार्गान्वयज्ञाने वर्तते । प्रथमफलसङ्गृहीतानि सर्वाणि ज्ञानानि समाधींश्च सर्वथानुप्राप्नोति । तथा नो चेत् फलानि गणयित्वा गणयित्वानुप्राप्नुयात् । कस्मात् । फलानि सर्वाण्यभिमुखीकाले प्राप्नुयादितीदं न सम्भवति । अतो ज्ञायते भवेदनागते भावनेति ।
उच्यते । यत् भवतोक्तम्- अङ्गैः समन्वित इति । इदमबाधितम् । कस्मात् । शीलाद्यङ्गानि क्रमशः प्राप्यन्ते नैककालमिति ब्रूमः । अतो नास्ति दूषणम् । यदुक्तं भवता केषाञ्चित्प्राप्तिस्तज्जातीयाता[मपि] । योगिनः [कुत्रचित्] दुःखज्ञानप्राप्तावन्यदुःखज्ञानजातिः प्राप्ता भवति । यथा मनुष्यजातिः प्राप्तेत्यतो मनुष्यलक्षणं प्राप्तं भवति । नापि प्रतिक्षणं क्रमशो मनुष्यलक्षणं प्राप्तमिति । तथेदमपि । (पृ) योगिनो विद्यमानदुःखादीनां ज्ञानानि क्रमिकाणीति सर्वं परिहृतमेव । स्रोतआपत्तिफलसङ्गृहीतानां ज्ञानानां प्राप्तिः पुनरैककालिकी । (उ) अनास्रवज्ञानानि प्राप्तानि तु न परिहीयन्ते । (पृ) यदि पूर्वं ( स्स्स्_531 ) प्राप्तानि न परिहीयन्ते । तदा प्राप्तिः प्रयोग इति नास्ति भेदः । कस्मात् । प्राप्तफल एव योगी इत्यादिदोषः । (उ) यदि नास्ति विशेषः । किमवद्यं भवति । यथा सम्पन्नफलो ऽपि योगीत्युच्यते । तथेदमपि । पुद्गलो ऽयं पुनर्विशिष्टं धर्मं प्राप्नोतीत्यतो ऽस्ति प्रविभागः । अतो नास्ति दोषः । यथा समापत्तपञ्चशीलः पुनः प्रव्रज्यासंवरमनुप्राप्नुवन्नपि न मौलिकशीलेभ्यः परिहीयते । प्राप्तफलस्य च मार्गादर्शनादस्ति प्रविभागः । यथा कश्चिदादौ वस्तु जानन्नपि विशिष्टवस्तु[दर्शनाय यतत] इति प्रविभागो ऽस्ति । तथे दमपि । अतो ज्ञायते नास्त्यनागतस्य प्राप्तिरिति । किञ्च योगी शून्यानात्मज्ञाने विहरति । तस्मिन् समये कथमनुप्राप्नोति लौकिकं धर्मम् । अतो ज्ञायते क्षयज्ञानप्राप्तौ न लौकिकज्ञानमनुप्राप्नोतीति ।
(पृ) इमानि लौकिकज्ञानानि क्षयज्ञानेन सहार्हतः समाधिसमापत्तिव्युत्थानचित्तक्रियां प्रापयन्ति । (उ) अर्हतश्चित्तं सन्तानेन प्रवर्तमानं प्रतिक्षणं विशुद्धम् । यदि पुनर्नवज्ञानानि प्राप्नोति । चक्षुरादि सर्वं पुनः प्राप्येत । तथा नो चेत् न नवज्ञानानि प्राप्नुयात् । उक्तञ्च- अनागतभावनाया नास्ति हेतुः प्रत्ययो वा इति । कस्मात् । एते हि वदन्ति- सत्यदर्शनमार्गे केवलं निमित्ताभासं ज्ञानं भावयति । चिन्तनामार्गे ऽपि निमित्ताभासमनिमित्ताभासञ्च भावयति । सत्यदर्शनमार्गे नोर्ध्वभूमिं भावयति । चिन्तनामार्गे तु भावयति । मार्गान्वयज्ञाने न सांवृतं कुशलं भावयति । अन्यस्मिन् ज्ञाने तु भावयति । आनन्तर्यमार्गे न परचित्तज्ञानं भावयति । श्रद्धाविभुक्तो दर्शनप्राप्तत्वेन परिवर्तमानः सर्वस्मिन्नानन्तर्यविमुक्तिमार्गे न सांवृतं मार्गं भावयति । समयविमुक्तः अकोप्यविमुक्ततया परिवर्तमानो नवानन्तर्य[मार्गेषु] अष्टविमोक्षमार्गेषु संवृतं मार्गं न भावयति । नवमे विमुक्तिमार्गे [तु] भावयति । सूक्ष्मचित्ते न भावयति सर्वमनास्रवम् । एत्येवमादीनां सर्वेषां नास्ति कारणम् । अतो भवान् यदि वा सम्यग्द्येतुं ब्रूयात् यदि वा श्रद्धापयेत् । किञ्च शैक्षभावनया भावना भवति । ऊष्म[गता]दिषु स्थितिकाले उत्तमानि सर्वाणि कुशलमूलानि भावयति । सर्वथा प्रकर्षकरणार्थत्वात् । यथा सूत्रमधीयानस्य सर्वथा वैशद्योपकारो भवति । अत ऊष्मगतादिधर्मकालात् यावत् क्षयज्ञानं सर्वेषां भावना भवति । तथा नो चेत् सद्धेतुर्वक्तव्यः ॥
नवज्ञानवर्ग एकोनद्विशततमः ।
200 दशज्ञानवर्गः
दश ज्ञानानि- धर्मज्ञानं अन्वयज्ञानं, परचित्तज्ञानं संवृतिज्ञानं, चत्वारि सत्यज्ञानानि, क्षयज्ञानमनुत्पादज्ञानमिति । प्रत्युत्पन्नधर्मज्ञानमेव धर्मज्ञानमित्युच्यते । यथोक्तं सूत्रे- भगवानानन्दमामन्त्र्याह- अस्मिन् धर्मे एवं ज्ञानेन दृष्ट्वा एवं प्रतिबुध्यस्व । अतीते ऽनागते ऽप्येवं जानीहीति । वक्तव्यं प्रत्युत्पन्नधर्मज्ञानमिति । इदानीं प्रत्युत्पन्नमनुक्त्वा केवलमुच्यते धर्मज्ञानमिति । यथोक्तं सूत्रे- बालः प्रत्युत्पन्नं धर्मं बहुमन्यते । ज्ञानी अनागतं बहुमन्यत इति । किञ्चाह- प्रत्युत्पन्नाः कामा अनागताः कामाश्च मारसेना मारधेया मारबन्धना इत्यादौ सर्वत्रोच्यते प्रत्युत्पन्नवादः । इदं संक्षिप्यवचनात् केवलं धर्मज्ञानमित्युच्यते ।
अवशिष्टधर्मज्ञानमन्वयज्ञानमिति वदन्ति । अवशिष्टा इति यदुतातीता अनागता धर्माः । प्रत्युत्पन्नधर्माननु पश्चात् जानातीति अन्वयज्ञानम् । कस्मात् । दृष्टधर्मज्ञानपूर्वकं हि अन्वयज्ञानम् । धर्मज्ञानं नाम दृष्टज्ञानमित्युच्यते । एतद्धर्मज्ञानमनुसृत्य वितर्कितं ज्ञानमन्वयज्ञानमित्युच्यते । (पृ) अन्वयज्ञानमिदमनास्रवं ज्ञानम् । अनास्रवं ज्ञानं कथमन्वयज्ञानं भवति । (उ) लोके ऽप्यस्त्यन्वयज्ञानम् । कस्मात् । धर्मज्ञानमन्वयज्ञानं परचित्तज्ञानं दुःखज्ञानं समुदयज्ञानं निरोधज्ञानं मार्गज्ञानञ्च सर्वं सास्रवमनास्रवमस्ति । इमानि ज्ञानानि ऊष्मगतादिधर्मेषु सास्रवाणि नियामावक्रान्तिप्राप्याणि अनास्रवाणि ।
(पृ) केचिदाहुः- काम[सम्प्रतियुक्तेषु] संस्कारेषु [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] हेतौ [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] निरोधे [यदनास्रवं] ज्ञानं [कामसम्प्रतियुक्तानां संस्काराणां] प्रहाणाय मार्गे [यदनास्रवं] ज्ञानम्, इदमुच्यते धर्मज्ञानम् । रूपारूप्यसम्प्रतियुक्तेषु संस्कारेषु यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां ( स्स्स्_533 ) संस्काराणां हेतौ यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां संस्काराणां निरोधे यदनास्रवं ज्ञानं रूपारूप्यसम्प्रतियुक्तानां संस्काराणां प्रहाणाय मार्गे यदनास्रवं ज्ञानम्, इदमुच्यते ऽन्वयज्ञानम् इति । कथमिदम् । (उ) उक्तं हि सूत्रे- भगवानानन्दमामन्त्र्याह- अतीतए ऽनागते चैवं प्रजानीहीति । न किञ्चित्सूत्रमाह- रूपारूप्यसम्प्रतियुक्तेषु संस्कारेषु ज्ञानमन्वयज्ञानमिति । किञ्चोक्तं सूत्रे- योगी अनुस्मरेत्- अहमिदानीं दृष्टरूपेणोपद्रुतो भवामि । अतीते ऽपि रूपेणोपद्रुतो ऽभवम्, अनागते ऽपि रूपेणोपद्रुतो भविष्यामीति । अपि चोक्तं सूत्रे- जातिप्रत्ययं जरामरणम् । अतीते ऽनागते ऽप्येवं स्यादिति । तथावोचदश्वघोषबोधिसत्त्वो गाथाम्-
प्रत्यक्षमालोक्य च जन्म दुःखं दुःखं तथातीतमपीति विद्धि ।
यथा च तत् दुःखमिदञ्च दुःखं तथानागतमप्यवेहि ।
[बीजस्वभावो हि यथेह दृष्टो भूतो ऽपि भव्यो ऽपि तथानुमेयः ।]
पत्यक्षतश्च ज्वलनो यथोष्णो भूतो ऽपि भव्यो ऽपि तथोष्ण एव ॥ इति ।
एवमादि दुःखं महावैभाषिका अपि वदन्ति ।
अतीतानागताध्वनीनधर्मज्ञानमेवान्वयज्ञानम् । अस्य च युक्तिरस्ति । कस्मात् । योगी हि अतीते ऽनागामिनि प्रत्युत्पन्ने च दुःखे निर्विद्यते । निर्वेद एव एषु धर्मेषु तत्त्वज्ञानप्रादुर्भावः । यथा प्रत्युत्पन्नाः संस्कारा दुःखम् । तथातीता अनागताः संस्कारा अपि दुःखम् । केन ज्ञानेन अतीतानागतान् धर्मान् जानाति । यदीदं धर्मज्ञानम् । रूपारूप्यसम्प्रतियुक्ताः संस्कारा अपि सन्त्यतीता अनागताः । तेषां ज्ञानमपि धर्मज्ञानं स्यात् । तथा च धर्मज्ञानमेव नान्वयज्ञानमस्ति । यदि रूपारूप्यसम्प्रतियुक्तेषु अतीतानागतेषु संस्कारेषु ज्ञानान्तरमस्तीति । कामसम्प्रतियुक्तेष्वतीतानागतेषु संस्कारेषु च ज्ञानान्तरं भवेत् । तदर्थमेव आभिधर्मिका आहुः- अस्ति प्राप्तिरप्राप्तिरित्यतो ऽनुपूर्वेण सत्यं पश्यतीति । कामधातुसम्प्रतिसंयुक्तं दुःखं प्राप्तिः । रूपारूप्यसम्प्रतियुक्तं दुःखमप्राप्तिः । अत एकस्मिन् समय उभयज्ञानं न सम्भवति । यद्यप्राप्तिर्दुःखमन्वयज्ञानेन ज्ञायते । इदानीं कामधातावप्राप्तिर्दुःखमपि अन्वयज्ञानेन ज्ञायेत ।
(पृ) केन ज्ञानेन संयोजनप्रहाणमार्गो भवति । (उ) [तत्र] धर्मज्ञानमात्रमुपयुज्यते । अन्वयज्ञानमुपायमार्गे वर्तते । (पृ) किं धर्मज्ञानमुपयुज्यते । (उ) दुःखे धर्मज्ञानं निरोधे धर्मज्ञानञ्चोपयुज्यते । कस्मात् । योगी अनित्यं दुःखमिति पश्यन् शून्यमनात्मेति पश्यति । तस्मिन् समये संस्काराणां निरोधं साक्षात्करोति । अन्यत् ज्ञानं सर्वमुपायः । (पृ) किं दुःखं दृष्ट्वा निरोधो भवति । (उ) वेदनाः दुखं पश्यति । तत्रात्ममतिरुत्पद्यते । अतस्तासामपि निरोधं पश्यति । यथोक्तम्- अध्यात्मविमुक्तत्वात् तृष्णायाः क्षये निरोधे स्वत एवार्हन् प्राप्त इत्युच्यते । इति । (पृ) ननु सूत्रे किं नोक्तं सर्वसंस्काराणां प्रहाणं प्रहाणलक्षणमिति । (उ) अयं योगी अध्यात्मनिरोधं साक्षात्कृर्वन् सर्वत्र निर्विण्णः । किञ्च योगी अध्यात्मनिरोधमवश्यं साक्षात्कुर्यात् । नान्यदवश्यनियतम् ।
(पृ) सत्येषु कथं ज्ञानं भवति । (उ) जातिर्दुःखमित्यादि ज्ञानं भवति । (पृ) इदमसमाहितं चित्तम्, कथं ज्ञानं जनयति । (उ) एवं दर्शने सति स्कन्धानामनित्यतादिदोषमपि दृष्ट्वा दुःखनात्मसंज्ञां जनयति । यथोक्तं सूत्रे- [यत्] दुःखं तदनित्यम्, यदनित्यं तदानात्म इति । कस्मात् । चक्षुरादीनामिन्द्रियाणामुत्पादो ऽस्ति व्ययो ऽस्ति । यद्ययमात्मा, आत्मन उत्पादो व्ययः स्यादित्यतो ज्ञायते अनात्मेति । इदञ्च चक्षुराद्युत्पद्यमानं न कुतश्चिदागच्छति । कृतकमस्तीत्यतो ऽनात्मेत्युच्यते । सूत्रे चोक्तं- नास्ति कारक इति । अतो ज्ञायते यदनित्यं तदनात्मेति । एवं योगिनः सम्यक् अनित्यमनात्म च भावयतः कायचित्तमुपशाम्यति । सर्वसंस्कारेषु समुत्पन्नेषु तेषां विहिंसामनुभवतो दुःखसंज्ञा समुत्पद्यते । निश्चर्मण्या यथा गाव अल्पस्पर्शे [ऽपि] व्यथानुभूयते । तथा योगी अनात्मसंज्ञावशादुत्तमां दुःखसंज्ञां साधयति । मूढस्तु आत्मसंज्ञावशात्सत्यपि महति दुःखे न तदुपायासमनुभवति । इदमुच्यते दुःखज्ञानम् । संस्काराणामुत्पाददर्शनं हेतुज्ञानम् । संस्काराणां व्ययदर्शनं निरोधज्ञानम् । मार्गस्यावराग्रानुसरणं मार्गज्ञानम् ।
(पृ) किमुच्यते क्षयज्ञानम् । (उ) सर्वाणि निमित्तानि क्षपयतीति क्षयज्ञानम् । कस्मात् । शैक्षस्य निमित्तं प्रहीणं पुनरुत्पद्यते । इदन्तु अत्यन्तं क्षपयतीति ( स्स्स्_535 ) क्षयज्ञानम् । यथोक्तं सूत्रे- अभूतनिमित्तमिदमभूतं संज्ञामात्रमिति प्रजानतो दुःखानि क्षीयन्त इति । शैक्षाः प्रजानन्ति । अभूतं संज्ञामात्रमात्मेति । तच्चित्तमत्यन्तं प्रहीणमिति क्षयज्ञानमित्युच्यते । यथोक्तं सूत्रे- कश्चिदर्हन् तथागतस्य पुरतो व्याकरोति- भगवता देशितानि न सन्ति मम । नाहमेषु संयोजनेषु पुनर्विचिकित्से । सदा मम समाहितैकाग्रस्य सम्यक् चर्यामनुस्मरतः कामादीन्यकुशलानि न चित्तस्यास्रवा भवन्ति इति । तत्र निमित्तं गृह्णातीत्यतः संयोजनानि भवन्ति । प्रहीणनिमित्तस्य तु संयोजनानि निरुध्यन्ते । शैक्षा निमित्ते ऽनिमित्तमिति विहरन्ति । अत आत्ममतिः कदाचिदाविर्भवति । यथा स्थाणुं दृष्ट्वा अयं पुरुष इति संशेरते । अतो ऽर्हतः केवलं निर्विचिकित्सस्य प्राप्तिः । सदा अनिमित्तविहारिचित्तत्वात् पूर्वं सत्त्वशून्यतां दृष्ट्वा पञ्चसु स्कन्धेषु न पश्यत्यात्मानम् । पश्चात् धर्मशून्यत्वान्न पश्यति रूपस्वभावं यावद्विज्ञानस्वभावञ्च । अतो ज्ञायते सर्वनिमित्तक्षयः क्षयज्ञानमिति ।
सर्वनिमित्तानामनुत्पादं जानातीत्यनुत्पादज्ञानम् । शैक्षस्य प्रहीणनिमित्तस्य पुनरुत्पादः क्षीणः । अशैक्षस्य निमित्तं क्षीणं न पुनरुत्पद्यते । सर्वनिमित्तानां क्षये निरोधे यत्पुनरनुत्पादः तदनुत्पादज्ञानम् । (पृ) शैक्षो ऽपि जानाति अस्ति [मम] क्षयज्ञानमनुत्पादज्ञानमिति । यथानुस्मरति- परिक्षीणत्रिसंयोजनो न पुनरुत्पत्स्य इति । कस्मान्नाह दशाङ्गसमन्वित इति । (उ) शैक्षो न सर्वसंज्ञाः प्रजहाति । अतो नाह- अस्ति [मम] क्षयज्ञानमनुत्पादज्ञानमिति । यथा कश्चित् तत्र तत्र प्रतिबद्ध एकस्मान्मुक्तो ऽपि न विमुक्त इत्युच्यते । अस्ति चायमर्थः शारिपुत्रो ऽनाथपिण्डदस्य दशाङ्गसमन्वागममवोचत् इति । अर्हन् वशिताबलप्राप्तत्वात् प्रजानाति- क्षीणानि [मे] संयोजनानि, न पुनरुत्पत्स्य इति । तथा शैक्षो ऽपि । अर्हन् अशैक्षमार्गं प्राप्तो [यत्] प्रजानाति क्षीणा[मे]जातिरिति । तत् क्षयज्ञानमित्युच्यते । उषितं ब्रह्मचर्यमिति शैक्षचर्यापरित्याग उच्यते । कृतं करणीयमिति करणीयानि सर्वाणि कृत्वा प्रजानाति- अस्माद्भवात् नास्ति भवान्तरमिति । अतो ज्ञायते अर्हन्नेव सर्वेषु करणीयेषु वशितां प्राप्तः क्षयज्ञानेनानुत्पादज्ञानेन च समन्वितः स्यात्, ( स्स्स्_536 ) न तु शैक्षा इति । यथा कश्चित् ज्वरार्तो[ज्वरा]नुद्गमकाले ऽपि ज्वरीत्युच्यते । यथोक्तं सूत्रे-
सर्वत्र विहता नन्दिः तमस्कन्धः प्रदालितः ।
जित्वा मृत्योर्हि सेनाञ्च विहरामि अनास्रवः ॥ इति ।
परचित्तज्ञानं यथा षडभिज्ञासूक्तम् । पञ्चस्कन्धकलापः सत्त्वः । तत्र ज्ञानं संवृतिज्ञानम् । अनास्रवं ज्ञानं तत्त्वज्ञानम् । इदमनास्रवाभासं ज्ञानाख्यां प्राप्नोतीत्यतः संवृतिज्ञानमिति वदन्ति । (पृ) केचिदाहुः- सर्वे सत्त्वाः समं ज्ञानसमन्विता इति । कथमिदम् । (उ) यो जिनौरसो जानाति धर्माः प्रतीत्यसमुत्पन्ना इति । स प्राप्नोति नान्यः सत्त्वः । ज्ञानाख्यायाः प्रापित्वात् । सर्वे सत्त्वाः संज्ञाप्रयोगमात्रं विजानन्ति । यदि प्राप्नुवन्तीदं ज्ञानम् । [तदा] आभ्यन्तरपृथग्जन इत्युच्यन्ते ।
दशज्ञानवर्गो द्विशततमः ।
201 चतुश्चत्वारिंशज्ज्ञानवर्गः
(पृ) सूत्र उक्तम्- चतुश्चत्त्वारिंशत् ज्ञानानि यदुत जरामरणे ज्ञानं, जरामरणसमुदये ज्ञानं, जरामरणनिरोधे ज्ञानं, जरामरणनिरोधमार्गे ज्ञानं, जातिभवोपादानतृष्णावेदनास्पर्शषडायतननामरूपविज्ञानसंस्कारेष्वप्येवम् । कस्मादिदमुच्यते । (उ) निर्वाणे ( स्स्स्_537 ) तत्त्वरत्ने विविधैर्द्वारैरवतरति । कश्चित्पञ्चस्कन्धमुखेनावतरति । कश्चित् धात्वायतननिदानद्वारैः, [कश्चित्] सत्यैः एवमादिभिर्द्वारैर्निर्वाणमनुप्राप्नोति । केनेदं ज्ञायते । यथोक्तं सूत्रे- [तद्यथा] नगरस्वामी नगरे निषण्णः स्यात् । [तत्र] किञ्चित् दूतयुगमेकस्मात् द्वारादागत्योपसृत्य नगरस्वामिनो यथाभूतं वचनं निर्यात्य [यथागतमार्गं] प्रतिपद्येत । तथा [अन्यदूतयुगमन्येभ्यो] द्वारेभ्यो ऽपि । तत्र नगरस्वाम्युपमो योगी । द्वाराणीति स्कन्धधात्वायतनादीनां भावनाया अधिवचनम् । दूतयुगं शमथविपश्यनोपमम् । यथाभूतं वचनं निर्वाणस्याधिवचनम् । इति । दूता नानाद्वारेभ्य आगता अपि एकमेव स्थानमुपसर्पन्ति । एवं स्कन्धधात्वायतनादीनां भावना नानाद्वाराण्युपाया निर्वाणे ऽवतरणस्य । यथा राहुल एकान्ते निषण्णो धर्मं चिन्तयन् एवं प्रजानाति- ईदृशो धर्म परिकीर्तितं निर्वाणं प्रति अनुप्रयातीति ।
किञ्च भगवान् धर्मस्यानिशंसायामाह- धर्मो ऽयं सर्वान् क्लेशाग्नीन निरोधयतीति निरोध इत्युच्यते । योगिनश्चित्तं प्रशमयतीति प्रशमः । योगिनः सम्यक् परिज्ञानं पराययतीति परायणम् । इत्यादयो ऽर्था निर्वाणस्यानिशंसाः । ब्रह्मचर्यमष्टाङ्गमार्ग उच्यते । अष्टाङ्गमार्गे च सम्यग्ज्ञानमेवोक्तम् । अस्य सम्यग्ज्ञानस्यैव फलं यदुच्यते निर्वाणमिति । भगवतोप्रदिष्टं शासनं सर्वं निर्वाणाय भवति । अतो ज्ञायते पञ्चस्कन्धादयो द्वाराणि निर्वाणपरायणानि भवन्ति ।
(पृ) केचिदाभिधर्मिका आहुः- जरामरणज्ञानं दुःखज्ञानमिति । कथमिदम् । (उ) न [युक्तम्] । कस्मात् । न तत्रोच्यते दुःखाकारः । अतो न [तत्] दुःखज्ञानम् । (पृ) इदं कस्य ज्ञानं भवति । (उ) तत् जरामरणस्वभावज्ञानम् । (पृ) उच्यते च जरामरणसमुदयः जरामरणनिरोधो जरामरणनिरोधमार्ग इत्यादि । अतो ज्ञायते इदं दुःखज्ञानमेव स्यादिति । (उ) तत् निदानद्वारं भवति, न सत्यद्वारम् । अतो न तस्य दुःखाकारो वक्तव्यः । [एवं] समुदयादौ वक्तव्यः । लक्षणसाम्यात् । (पृ) अत्र कुतो नोच्यते आस्वादादीनवनिस्सरणादीनां ज्ञानानि । (उ) सर्वाणीमानि अत्र परिगृहीतानि । किन्तु सङ्गीतिकारः संक्षिपन् न [विस्तरश] उवाच ॥
चतुश्चत्वारिंशज्ज्ञानवर्ग एकोत्तरद्विशततमः ।
202 सप्तसप्ततिज्ञानवर्गः
(पृ) सूत्र उक्तम्- सप्तसप्ततिज्ञानानि यदुत जातिप्रत्ययं जरामरणमिति [ज्ञानम्] । असत्यां जातौ नास्ति जरामरणमिति [ज्ञानम्] । एवमतीते ऽनागते ऽध्वन्यपि । ( स्स्स्_539 ) यदस्य धर्मस्थितिज्ञानम् । [तदपि] अनित्यं संस्कृतं कृतकं प्रतीत्यसमुत्पन्नं क्षयधर्म, विपरिणामधर्म, वियोगधर्म, व्ययधर्म इति ज्ञानम् । यावदविद्याप्रत्ययाः संस्कारा इत्यप्येवम् इति । तत्र कस्मान्नोक्तं- जरामरणस्य स्वभावो निरोधो मार्ग इत्यादि । (उ) हितज्ञस्य कृत एवमुक्तं तस्य द्वारत्वमात्रमविष्करोति । अन्यदप्येवं ज्ञेयम् ।
तीर्थिका बहवो निदाने भ्रान्ता वदन्ति- लौकिकानां पदार्थानां हेतुर्लोकात्मक इत्यादि । अतो भगवान् तेषां निदानमात्रमाह । (पृ) जातिप्रत्ययं जरामरणमित्युक्त्वा कस्मात्पुनराह- असत्यां [जाता]विति । (उ) नियमार्थम् । यथा दानं पुण्यस्य हेतुः । शीलेनापि पुण्यं विन्दते । यथोक्तम्- धृतशीलो देवेषूत्पद्यत इति । केचिन्मन्यन्ते- जरा- मरणप्रत्यया जातिरिति । केचिदहेतुका जातिरिति । अतो नियम उच्यते । (पृ) कस्मादतीते ऽनागते ऽध्वनि पुनर्नियम उच्यते । (उ) प्रत्युत्पन्नमतीताध्वनः कदाचिद्भिन्नधर्म भवति यदुतातीतानां सत्त्वानामायुरप्रमाणं प्रभावश्च देवतुल्य इत्येवमादि । आयुरादि भिन्नं जरामरणप्रत्ययो ऽपि भिन्नो भवेदिति जना वदेयुरिति भीत्या नियम उच्यते । अनागते ऽप्येवं [वक्तव्यम्] ।
इदं षड्विधं धर्मस्थितिज्ञानम् । अन्यन्नाम निर्वाणज्ञानम् । जरामरणसन्तानकरत्वादुच्यते- अनित्यं संस्कृतं कृतकं प्रतीत्यसमुत्पन्नम् । क्षयधर्म विपरिणामधर्म इत्यनित्याकारः । वियोगधर्म इति दुःखाकारः । व्ययधर्म इति अनात्मशून्याकारः ।
कस्मात् तत्र रूपस्य स्वरूपं निरोधः वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य च स्वरूपं निरोधः । अयं त्रिविधविपश्यनानामर्थ इत्याख्यायते । यथोक्तं सूत्रे- यो भिक्षवः सप्तभिः स्थानोपायैः त्रिभिर्विपश्यनार्थैश्च समन्वितः स क्षिप्रमास्रवाणां क्षयमनुप्राप्नोति । इदमेव निर्वाणज्ञानं भवतीति । इत्यादि निदानज्ञानानि अप्रमाणशतसहस्राणि सन्ति यदुत ( स्स्स्_540 ) चक्षुर्विज्ञानमित्यादि । यथोक्तं सूत्रे- चक्षुष कर्म प्रत्ययः । कर्मणः तृष्णा प्रत्ययः । तृष्णाया अविद्या प्रत्ययः । अविद्याया अयोनिशोमनस्कारः प्रत्ययः । अयोनिशोमनस्कारस्य चक्षूरूपं प्रत्ययः । आस्रवाणामयोनिशो मननं प्रत्ययः । आहाराणां तृष्णा प्रत्ययः । पञ्चकामगुणानां कबलीकाराहारादयः प्रत्ययाः । नरकस्याल्पायुषश्च प्राणातिपातादयः प्रत्ययाः । यदिदानीन्तनं दुःखं पूर्वतनीनञ्च दुःखं, सर्वस्याभूतसंज्ञा प्रत्ययः । अभूतसंज्ञायाः कायचित्तयोः प्रियाप्रिये प्रत्ययः । प्रियाप्रिययोः कामरागः प्रत्ययः । कामरागस्य मिथ्यावितर्कः प्रत्ययः इत्येवमादिप्रत्ययानां ज्ञानमप्रमाणमनवधि स्वयमेवोन्नेतव्यम् ॥
सप्तसप्ततिज्ञानवर्गो द्व्युत्तरशततमः ।
[मार्गसत्यस्कन्धः समाप्तः]
शास्त्रं समाप्तम्
मूल पाठ: Satyasiddhiśāstram · Edition: N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159) · Data entry Udip Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0