सत्यसिद्धिशास्त्रम् · भाग 2140
किञ्चोक्तं सूत्रे- अहं भगवन् अस्मिन् वस्तुनि यथा भगवद्वचनं श्रद्धध इति । यत् स्वयं धरदर्शिनश्चित्तं प्रसीदति । सा[पि] श्रद्धेत्युच्यते । पूर्वं धर्मं श्रुत्वा पश्चात्कायेन साक्षात्करोति । तस्येयं चिन्ता भवति स धर्मः परमार्थसत्यो न मृषेति, चित्तञ्च प्रसीदति । सा श्रद्धा चतुर्षु अवेत्यप्रसादेष्वन्तर्गता । तद्यथा रोगी पूर्वं भिषग्वचने श्रद्दधान औषधमुपसेव्य रोगान्मुक्तः पश्चात्तस्मिन् भिषजि प्रसन्नचित्तो भवति । सा श्रद्धेत्युच्यते ।
श्रद्धेयं द्विविधा मोहजा ज्ञानजेति । मोहजा यत् कुशलाकुशलमचिन्तयतः पूरणाद्यसदाचार्येषूत्पद्यमानश्चित्तप्रसादः । ज्ञानजा यथा चतुर्षु [अवेत्य] प्रसादेषु बुद्धादिषु चित्तप्रसादः । सा त्रिधा विभक्ता कुशला अकुशला अव्याकृता चेति । (पृ) अकुशला श्रद्धा क्लेशमहाभूमिगतैव आश्राद्ध्य धर्मः । नेयं श्रद्धा भवति । (उ) नायमाश्राद्ध्यधर्मः । श्रद्धा च प्रसादलक्षणा । अकुशला श्रद्धापि प्रसादलक्षणैव । तथा नो चेत् अकुशला वेदना वेदना न स्यात् । न च तद्युज्यते वस्तुतः । ततस्त्रिधैव विभक्ता । या श्रद्धा इन्द्रियेषु गणिता विमुक्त्यनुगामिनी सप्तत्रिंशब्दोधिपक्षिकेषु गता सा नियमेन कुशलैव ।
श्रद्धावर्ग एकोननवतितमः ।
90 व्यवसायवर्गः
चेतसो ऽभ्युत्साहो व्यवसाय इत्युच्यते । सदान्यधर्मान्निश्रयते मनस्कारं वा समाधिं वा । तत्राम्युत्साहः सदा चित्तैकाग्रतासमुदाचारः स व्यवसाय इत्युच्यते । त्रिविधो व्यवसायः कुशलो ऽकुशलो ऽव्याकृत इति । यत् चतुर्षु सम्यक्प्रधानेषु अन्तर्गतः स कुशलः । अन्यो ऽकुशलः । योगी यो ऽकुशलानामादीनवे कुशलानामनिशंसे च श्रद्धधते । तस्य पश्चादुत्पद्यते व्यवसायो ऽकुशलानां प्रहाणाय कुशलानां समादानाय । अतः श्रद्धेन्द्रियसमनन्तरं वीर्येन्द्रियमुच्यते । कुशधर्मगतो व्यवसायो वीर्यमित्याख्यायते । सर्वहितानां मूलं करोति । तद्व्यवसायसहकारतया मनस्कारादयो धर्मा महाफलप्रापका भवन्ति । यथा दहनः समीरणप्रतिलब्धः सर्वान् दहति ॥
व्यवसायवर्गो नवतितमः ।
91 स्मृतिवर्गः
अनुभूतपूर्वस्य ज्ञानं स्मृतिः । यथोक्तं सूत्रे- यत् चिरविप्रकृष्टानुभूतं स्मरति न प्रमुषति सा स्मृतिरित्युच्यते ।
(पृ) सा स्मृतिस्त्रयध्वर्तिनी । कस्मात् । उक्तं हि सूत्रे स्मृतिं सर्वार्थिकां [वदामी]ति । सा स्मृतिः चतुःस्मृत्युपस्थानगता । चत्वारि स्मृत्युपस्थानानि त्रयध्वालम्बनानि च । कस्मात्पुनरतीतमात्रालम्बनेति । (उ) तद्वचनं सर्वकालेन भवति । न तु त्र्यध्वा भवति । यस्मिन् समये चित्तमुद्धतं भवति । तदा स्मृतिरुभयत्रानुगा । सा सर्वत्रगेत्युच्यते । यदुक्तं भवता चत्वारि स्मृत्युपस्थानानि त्र्यध्वालम्बनानीति । तत्र प्रत्युत्पन्ना प्रज्ञैव न तु स्मृतिः । अतस्तथागतो [यदा] पूर्वं स्मृतिनाम्ना विमुक्तिमुक्तवान् तदा तामेव प्रज्ञेत्यवोचत् ।
(पू) कथं विज्ञानान्तरेणानुभूतं विज्ञानान्तरं स्मरति । (उ) स्मृतेर्धर्मं एवं यत् स्वसन्ताने यो धर्मः [पूर्व]मुत्पन्ननिरुद्धः तमेव [स्वसन्तानिकं] विप्रकृष्टं विज्ञानान्तरमालम्बत इति । ज्ञानानां विज्ञानधर्मश्च तथा यत् विज्ञानान्तरानुमूतं विज्ञानान्तरं विजानातीति । यथा चक्षुर्विज्ञानेन विज्ञातं रूपं मनोविज्ञानं विजानाति । अन्यपुद्गलेनानुभूतमन्यः पुद्गलो विजानाति । यथार्यपुद्गला यावत्पूर्वनिवासे देहान्तरानुभूतं स्मृतिबलाद्विजानान्ति । (पू) यदि पूर्वानुभूतस्य ज्ञानं स्मृतिरिति । आधुनिकविज्ञप्त्यादिधर्माः स्मृतयः स्युः । कस्मात् । तद्धर्माणामपि पूर्वानुभूतोपविचाररूपत्वात् । (उ) विज्ञप्त्यादिधर्मा अपि स्मृतय इत्युच्यन्ते । यथा भगवान् सल्यकं नाथपुत्रमवोचत् पूर्वं मनसि कृत्वा व्याकुरुष्व इति । आह च पूर्वानुभुक्तसुखस्मरणे क्लेश आविर्भवतीति । अतो विज्ञप्त्यादिधर्मा अपि पूर्ववस्त्वनुस्मरणरूपा स्मृतय इत्युच्यन्ते । स्मृतिरियं गृहीतलक्षणाज्जाता । यस्मिन् धर्मे गृहीतलक्षणमस्ति । तत्र स्मृतिर्भवति नान्यथा । समाधिः प्रज्ञा च समाधिवर्गे प्रज्ञावर्गे च वक्ष्यते ॥
स्मृतिवर्ग एकनवतितमः ।
92 वितर्कविचारवर्गः
यत् चित्तं व्यग्रं मुहर्मुहुरालम्भकं स वितर्कः । समाहितचित्तस्याप्यस्ति औदारिकता सूक्ष्मता । [तत्र यत्] औदारिकं स वितर्कः । सूक्ष्मसमाधानाभावादौदारिकं चित्तमित्युच्यते । यथोक्तं सूत्रे- भगवानाह- सवितर्कं सविचारं प्रथमध्यानमुपसम्पद्य विहरामीति । अतः प्रथमध्यानमसूक्ष्मसमाहितमिति सवितर्कं भवति । या चित्तस्य व्यग्रता किञ्चित्सूक्ष्मता स विचारः । इमौ द्वौ त्रैधातुकौ । चित्तस्यौदारिकसूक्ष्मलक्षणत्वात् । व्यग्रं विक्षिप्तं चित्तं वितर्कविचारौ भवतः । तल्लक्षणत्वात् सर्वत्र स्याताम् । अप्रत्यक्षं वस्तु अनुमित्या ज्ञायते । एवं स्यान्नैवं स्यादित्यभ्यूहो वितर्कः । अतो ऽप्रत्यक्षवस्तुनो ऽनुवितर्कः सम्यग्वितर्को वा मिथ्यावितर्को वा इति तं कथयामः । निर्विकल्पानुवितर्कः सम्यक् दृष्टिरित्याख्यायते । अयं त्रिधाज्ञातः । मिथ्यावितर्को विपरीतमनस्कारः यदनित्ये नित्यमित्यादिः । सम्यग्वितर्कः यदप्रतिलब्धं तत्त्वज्ञानमनुमितिलक्षणेन ज्ञानेन लब्ध्वा योगी निर्वेधभागीयकुशलमूले वर्तते । इयं क्षान्तिरित्युच्यते । एवमन्यमार्गेणानुयायि अनुमितिज्ञानं सम्यग्वितर्कः । तत्र यत् संzञानुस्मरणविकल्पापोढं तत् प्रत्यक्षमित्युच्यते । तस्मिन्नेव वितर्के अनेन हेतुना एवं भवति अनेन हेतुना नैवं भवति इति चिन्तना विचारणा वा स विचारः ।
(पृ) केचिदाहुः- वितर्कविचारावेकाग्रतान्तर्गताविति । कथमिदम् । (उ) मैवम् । कस्मात् । उक्तं खलु भवद्भिर्घण्टाताडनदृष्टान्तः । आद्यशब्द[समो] वितर्कः । अन्यशब्द[समो] विचारः । तरङ्गदृष्टान्तश्च [उक्तः] । य औदारिकः [तत्समो] वितर्कः । यः सूक्ष्मः [तत्समो] विचारः । कालदेशभेदान्न चित्तैकाग्रता स्यात् । निर्विकल्पकत्वात्पञ्च विज्ञानानि न सवितर्कविचारलक्षणानि भवन्ति ॥
वितर्कविचारवर्गो द्विनवतितमः ।
93 अन्यचैतसिकवर्गः
यत् कुशलस्यानाचरणं मिथ्याचरणं वा स प्रमादः । न प्रमादाख्यो ऽन्य एकधर्मो ऽस्ति । तस्मिन् समये चित्तसमुदाचारः प्रमादः इत्युच्यते । तद्विपरीतो ऽप्रमादः । यः कुशलश्चित्तसमुदाचारो ऽप्रमादादन्यः सो ऽपि धर्मान्तरम् । अकुशलानुगतं चित्तं प्रमादः । कुशलानुगतन्तु अप्रमादः ।
कुशलमूलमिति अलोभो ऽद्वेषो ऽमोहः । योनिशोमनस्काराशिरस्कानासक्तिरलोभः । मैत्रीकरुणाशिरस्कः क्रोधानुत्पादो ऽद्वेषः । सम्यद्गर्शनशिरस्को ऽभ्रान्तो ऽविपर्ययः अमोहः । अलोभो नाम नास्त्येकं धर्मान्तरम् ।
केचिदाहुः लोभाभावो ऽलोभ इति । न युक्तमिदम् । कस्मात् । लोभाभावो ऽभावधर्मः । कथमभावो धर्मस्य हेतुः । अद्वेषामोहावप्येवम् । तत्रायाणामकुशलमूलानां विपरीतानि त्रीणि कुशलमूलान्युच्यन्ते । मदमानादयो ऽप्यकुशलमूलानि स्युः । संक्षेपतस्त्रीण्येवाकुशलमूलान्युक्तानि । वक्ष्यन्ते चाकुशलवर्गे ।
अव्याकृतमूलमिति । केचिद्वदन्ति- चत्वार्यव्याकृतमूलानि- तृष्णा दृष्टिः मानमविद्येति । [अन्ये] केचिदाहुः त्रीणि तृष्णा अविद्या प्रज्ञा इति । नैतद्भगवतोक्तम् । अव्याकृतानुगं चित्तं यद्धेतुजं स हेतुरव्याकृतमूलं भवति । कायवाक्कर्मणी प्रायो ऽव्याकृतानुगे इति चित्तमुत्पद्यते । अव्याकृतचित्तमव्याकृतमूलमित्युच्यते ।
चित्तसमाचरणकाले यत् कायश्चित्तं दौष्ठल्यविगतं प्रशान्तं भवति । तस्मिन् समये प्रश्रब्धिरित्युच्यते ।
नानावस्तुषु चित्त [समाचरण]काले उपेक्षेत्युच्यते । यत् वेदनासु अनभिज्ञा चित्तसमाचरणं सोपेक्षा । ध्यानेषु यत् सुखदुःखविविक्तं विमुक्तिपरायणं चित्तसमाचरणं सोपेक्षा । सप्तबोध्यङ्गेषु अलीनमकम्पसमतादि यच्चित्तसमाचरणं सोपेक्षा । प्रीतिदौर्मनस्यविनिर्मुक्तं समतादिप्रतिलब्धं चित्तमुपेक्षा । चतुर्षु अप्रमाणेषु वैरमैत्रविगतं चित्तमुपेक्षा । एवं नानाधर्माणां विरोधाच्चैतसिकानां विशेषो ऽप्रमाणः ॥
अन्यचैतसिकवर्गस्त्रिनवतितमः ।
94 विप्रयुक्तसंस्कारवर्गः
चित्तविप्रयुक्तसंस्काराः यदुत प्राप्तिः, अप्राप्तिः असंज्ञिसमापत्तिः निरोधसमापत्तिः आसंज्ञिकं जीवितेन्द्रियं जातिः व्ययः स्थितिः अन्यथात्वं जरा मरणं नामकायः पदकायो व्यञ्जनकायः पृथग्जनत्वं इत्यादयः ।
प्राप्तिरिति । सत्त्वानां कृते धर्माणां समन्वागमः प्राप्तिः । प्रत्युत्पन्नाध्वनि पञ्चस्कन्धसमन्वागतः सत्त्वः प्राप्त इत्युच्यते । अतीताध्वनि यानि कुशलाकुशलकर्माणि अननुभूतविपाकानि । तद्धर्मसमन्वागतः सत्त्वः । यथोक्तं सूत्रे- कुशलधर्मसमन्वागतो ऽकुशलधर्मसमन्वागतश्च पुद्गल इति । (पृ) केचिदाहुः- अतीतकुशलाकुशलकायवाक्कर्मसमन्वागतः । यथा प्रव्रजितः अतीतशीलसंवरसमन्वागत इति । कथमिदम् । (उ) सर्वेषां समन्वागमः । कस्मात् । उक्तं हि सूत्रे यः पुण्यं पापञ्च करोति । तस्य तद्विद्यमानमेव । तत् द्वयं तत्कायमनुपतति रूपानुपातिच्छायावत् इति । किञ्चोक्तं सूत्रे- मृतस्य पुण्यं न प्रणश्यति यदुत फलप्रापकमेव । यदसमन्वागतं पुण्यपापं कर्म न तत्फलप्रापकम् । तानि कर्माणि नश्यन्ति । इति ।
(पृ) अतीतसंवरस्य न समन्वागमः स्यात् । कस्मात् । भवतोक्तम् अतीतधर्मो निरुद्धः । अनागतो ऽविद्यमान इति । प्रत्युत्पन्नश्च न सदा कुशलचित्तवत्त्वे ( स्स्स्_219 ) क्षमः । कथं शीलसंवरसमन्वागतः स्यात् । (उ) पुरुषः प्रत्युत्पन्नेन संवरेण समन्वागतो नातीतेन । यथा प्रत्युत्पन्नक्लिष्टात् क्लिष्टम्, तथा प्रत्युत्पन्नशीलात् शीलं भवति । नातीतात् । [यः] पूर्वं स्वीकृत्यापरित्यक्तवान् [सः] अतीतसमन्वागत इत्युच्यते ।
(पृ) आभिधर्मिका आहुः सत्त्वा अनागताध्वनीनकुशलाकुशलचित्तसमन्वागता इति । तत्कथमिदम् । (उ) न समन्वागताः । कस्मात् । अकृताभ्यागमात् । अतो ऽनागतासमन्वागमः प्राप्तिरित्युच्यते । न चास्ति प्राप्त्याख्यः पृथक्चित्तविप्रयुक्तधर्मः । तद्विपरिताप्राप्तिरपि नास्ति पृथक्चित्तविप्रयुक्तधर्मः ।
असंज्ञिसमापत्तिरित्ययं समापत्तिधर्मो नास्ति । कस्मात् । न हि निरुध्यन्ते पृथग्जनानां चित्तचैतसिकधर्मा इति पश्चाद्वक्ष्यते । चित्तचैतसिकानां सूक्ष्मतया दुरवबोधात् असंज्ञीति नाम । आसंज्ञिकमप्येवम् । निरोधसमापत्तिरिति । चित्तनिरोधे समुदाचाराभावान्निरोधसमापत्तिरिति नाम । स च नास्ति धर्मान्तरम् । निर्वाणवत् । जीवितेन्द्रियमिति । कर्मप्रत्ययः पञ्चस्कन्धसन्तानो जीवितमित्युच्यते । जीवितञ्च कर्मणो मूलमिति जीवितेन्द्रियमित्युच्यते । जातिरिति । पञ्चस्कन्धानां प्रत्युत्पन्नाध्वा जातिः । प्रत्युत्पन्नाध्वपरित्यागो व्ययः । सन्तन्यमानत्वं स्थितिः । स्थितिपरिणामो ऽन्यथात्वम् । न सन्ति पृथक्जातिव्ययादयो धर्माः । भगवतः शासनं गभीरं यत्प्रत्ययानां सामग्र्या धर्मा ( स्स्स्_220 ) उत्पद्यन्त इति । अतो नास्ति कश्चिद्धर्मो धर्मान्तरस्योत्पादकः । उक्तं हि- चक्षूरूपादयश्चक्षुर्विज्ञानस्य प्रत्यया इति । न तत्रोक्तं जातिरस्तीति । अतो नास्ति जातिरित्यनवद्यम् ।
किञ्च वदन्ति जात्यादयो धर्मा एककालीना इति । य एककालीनः स निरुद्ध एव । तत्र जात्यादयः किमर्था इति विचारयितव्यम् । द्वादशनिदाने च भगवान् स्वयमाह जातेरर्थम् । या तेषां तेषां सत्त्वानां तस्मिन् तस्मिन् [सत्त्वनिकाये] जातिः स्कन्धानां प्रतिलाभः....... [सा जातिः] इति । अतः प्रत्युत्पन्नाध्वनि स्कन्धानामाद्यलाभो जातिः । आह च- स्कन्धानां च्युतिरन्तहाणिर्मरणमिति । आह च- स्कन्धानां जीर्णता भुग्नता जरेति । [अतो] न पृथक् स्तो जरामरणधर्मौ ।
नामकाय इति । व्यञ्जनेभ्य उत्पन्नं नाम यथा वदन्ति देवदत्त इति । यथाव्यञ्जनमर्थसाधनं पदम् । व्यञ्जनानि अक्षराणि । केचिदाहुः- नामपदव्यञ्जनकायाश्चितविप्रयुक्तसंस्कारा इति । तदयुक्तम् । धर्मा इमे वाक्स्वभावा धर्मायतनसंगृहीताः ।
(पृ) अस्ति पृथकग्जनत्वं नाम चित्तविप्रयुक्तसंस्कार इति । [केचिद्वदन्ति] । कथमिदम् । (उ) न पृथग्जनत्वं पुथग्जनादन्यत् । यद्यस्ति तदन्यत् । अन्ये घटत्वादयो ( स्स्स्_221 ) ऽप्यनुभूयेरन् । संख्यापरिणामैकत्वपृथक्त्वसंयोगविभागपरत्वापरत्वादयो धर्माः पृथक् स्युः । तीर्थिकानां हि सूत्रेषूक्तं- अन्यो घटो ऽन्यत् घटत्वम् । घटत्वं प्रतीत्य ज्ञायते ऽयं घट इति । रूपमन्यत् रूपत्वमन्यत् इति । तदयुक्तम् । कस्मात् । तत्त्वं तत्स्वभावः । यदि ब्रवीषि पृथग्जनत्वमन्यदिति । तदा रूपं स्वभावं विना स्यात्, रूपत्वापेक्षित्वात् । तत्तु न युज्यते । अतो गभीरमननुविचिन्त्य ववीषि- अस्ति पृथग्जनत्वं पृथगिति ।
आभिधर्मिकास्तीर्थिकग्रन्थानभ्यस्याभिधर्मशास्त्रमारचयन्तो वदन्ति सन्ति पृथकग्जनत्वादयो धर्माः पृथगिति । अन्य आभिधर्मिका अपि वदन्ति । सन्ति पृथक् तथताभूतकोटिप्रतीत्यसमुत्पादादयो ऽसंस्कृतधर्मा इति । अतो गभीरमिमं नयमनुविचिन्त्यमा रुतमनुवर्तध्वम् ॥
विप्रयुक्तसंस्कारवर्गश्चतुर्नवतितमः
[इति] दुःखसत्यस्कन्धः समाप्तः ॥
अथ समुदयसत्यस्कन्धः
95 समुदयसत्यस्कन्धे कर्माधिकारे कर्मलक्षणवर्गः
शास्त्रमाह- दुःखसत्यं परिसमाप्य समुदयसत्यमिदानीं वक्ष्यत इति । तत्र कर्म क्लेशाश्च समुदयसत्यम् । त्रिविधं कर्म कायिकं वाचिकं मानसिकमिति । कायेन कृतं कर्म कायिकम् । तत् त्रिविधं अकुशलं प्राणातिपातादि । कुशलं चैत्यवन्दनादि । अव्याकृतं तृणच्छेदादि ।
(पृ) यदि कायेन कृतं कायिकम् । तदा घटादिद्रव्यमपि कायिकं कर्म स्यात् । कायेन कृतत्वात् । (उ) घटादि कायिककर्मणः फलम् न कायिकं कर्म । हेतुफलयोर्भेदात् । (पृ) न स्यात्कायिकं कर्म । कस्मात् । कायस्पन्दनकृतं कायिकं कर्म । संस्कृतधर्माणां क्षणिकत्वात् न स्यात्स्पन्दनम् । (उ) इदं क्षणिकवर्गे प्रत्युक्तं यदेकस्मिन् धर्म उत्पद्यमाने ऽन्यस्यापचय उपचयो वा [तत्] कायिकं कर्मेति । (पृ) तथा चेत् काय एव कायिकं कर्म भवेत् । अन्यत्रोत्पद्यमानत्वात् । न तु कायेन कृतं कायिकं कर्म । (उ) कायः कर्मक्रियायाः साधनम् । काये ऽन्यत्रोत्पद्यमाने पुण्यपापसमुदयः कर्म । अतो न काय एव कर्म । (पृ) पुण्यपापसमुदयो ऽविज्ञप्तिः । कायविज्ञप्तिः कथम् । (उ) काये ऽन्यत्रोत्पद्यमाने क्रियमाणा विज्ञप्तिः कायविज्ञप्तिर्भवति । (पृ) कायविज्ञप्तिः कुशला वाकुशला वा । कायस्तु न तथा । अतो न कायविज्ञप्तिः स्यात् । (उ) चित्तबलात् काये ऽन्यत्रोत्पद्यमाने कर्म समुदेति । अतस्तत्समुदयो यदि वा कुशलो [यदि वा] अकुशलः न तु साक्षात्कायिकः । तथा वाचिककर्मापि । न तु तत् साक्षाच्छब्दव्यवहार[रूपम्] । ( स्स्स्_223 ) चित्तबलात् शब्दव्यवहारसमुदितं कर्म कुशलमकुशलं वाचिकं कर्मेत्युच्यते । एवं मानसं कर्मापि । य इमं सत्त्वं हन्मीति अध्यवसितचित्तो भवति । तस्य तस्मिन् समये पापं समुदेति । एवं पुण्यमपि ।
(पृ) यथा कायवाग्भ्यां पृथगस्ति कर्म । [तथा] मनो ऽपि मानसकर्मणो ऽन्यदेव । (उ) तत् द्विधा भवति मन एव मानसं कर्म मनस उत्पन्नं वा मानसं कर्म इति । सत्त्वं हन्मीति यदध्यवसितं मनः तदकुशलं मन एव मनसं कर्म । तत्कर्म पापसञ्चयरूपं कायिकवाचिककर्मातिशायकम् । यदि चित्तमनध्यवसितम् । तदा मनः कर्मणो ऽन्यत् ।
(पृ) विज्ञप्तिलक्षणं ज्ञातम् । विज्ञप्तित उत्पन्नो ऽन्यःकर्मसमुदयः । किं [तस्य] लक्षणम् । (उ) तदविज्ञप्तिरेव । (पृ) किं केवलमस्ति कायिकवाचिकाविज्ञप्तिरेव न मानसिकाविज्ञप्तिः । (उ) मैवम् । कस्मात् । नह्यस्ति तत्र कारणं केवलं कायिकवाचिकाविज्ञप्तिरेवास्ति न मानसिकाविज्ञप्तिरिति । सूत्रे चोक्तं द्विधा कर्म- चेतना वा चेतयित्वा वा [कर्मे]ति । चेतना मानसं कर्म । चेतयित्वा [कर्म] त्रिविधम्- चेतनासञ्चितं कर्म कायिकं वाचिकं कर्मेति । तत्र मानसं कर्म गुरुतरमिति पश्चाद्वक्ष्यते । गुरुतरकर्मसञ्चितमविज्ञप्त्याख्यं सदा सन्तानेन प्रवर्तते । अतो ज्ञायते मानसिककर्मणो ऽपि अविज्ञप्तिरस्तीति ॥
समुदयसत्यस्कन्धे कर्माधिकारे
कर्मलक्षणवर्गः पञ्चनवतितमः ।
96 अविज्ञप्तिवर्गः
(पृ) को ऽविज्ञप्तिधर्मः । (उ) चित्तं प्रतीत्योत्पद्यमानं पुण्यपापं मिद्धमूर्छादिकाले ऽपि यन्नित्यं प्रवर्तते । साविज्ञप्तिः । यथोक्तं सूत्रे-
आरामरोपा वनरोपा ये जनाः सेतुकारकाः ।
प्रपाञ्चैवोदपानञ्च ये ददन्ति उपाश्रयम् ।
तेषां दिवा च रात्रिञ्च सदा पुण्यं प्रवर्तते ॥ इति ।
(पृ) केचिदाहुः- विज्ञप्तिकर्म प्रत्यक्षमुपलभ्यते । यानि चीवरदानचैत्यवन्दनहननहिंसादीनि तानि भवेयुः । अविज्ञप्तिस्तु अनुपलभ्यमानत्वात् नास्तीत्ययमर्थः स्पष्टं स्यादिति । (उ) यदि नास्त्यविज्ञप्तिः । तदा प्राणातिपातविरत्यादिधर्मो नास्ति । (पृ) विरतिर्नामाकरणम् । अकरणमभावधर्मः । यथा पुरुषस्याभाषणकाले नास्तिभाषणधर्मः । रूपस्यादर्शनकाले ऽपि नास्त्यदर्शनधर्मः । (उ) प्राणातिपातविरत्यादिना स्वर्ग उत्पद्यते । यदि विरतिरभावधर्मः । कथं हेतुः स्यात् । (पृ) न विरत्या स्वर्ग उत्पद्यते, किन्तु कुशलचित्तेन । (उ) मैवम् । उक्तं हि सूत्रे- वीर्यवान् पुरुष आयुर्वशात् बहुपुण्यं प्रसवति । पुण्यबहुत्वाच्चिरं स्वर्गसुखं विन्दत इति । यदि कुशलचित्तमात्रेण, किमर्थं बहुपुण्यो भवति । न ह्ययं कुशलचित्तो भवितुं क्षमते । आह च वनादिरोपस्य दिवा रात्रिञ्च सदा पुण्यं प्रवर्धत इति । शीलं ध्रुवमिति चोक्तम् । यदि नास्त्यविज्ञप्तिः । कथं वक्तव्यं स्यात् पुण्यं सदा प्रवर्धते, शीलं ध्रुवमिति च । न च विज्ञप्तिः प्राणातिपातक्रियैव । प्राणातिपातानन्तरं धर्मो भवति । तदूर्ध्वं प्राणातिपातपापं लभते । यथा हन्तुं कञ्चन प्रेरयति । हननकालमनु प्रेरको हननपापं लभते । अतो ज्ञायते ऽस्त्यविज्ञप्तिरिति । मनश्च न शीलसंवरः । कस्मात् । यदि कश्चिदकुशलाव्याकृतचित्तस्थः, यदि वाचित्तः । सो ऽपि शीलधारीत्युच्यते । अतो ज्ञायते तस्मिन् समये ऽस्त्यविज्ञप्तिरिति । एवमकुशल संवरो ऽपि ।
(पृ) ज्ञातं विनापि चित्तमस्त्यविज्ञप्तिधर्म इति । इदानीं किमिदं रूपं किं वा चित्तविप्रयुक्तसंस्कारः । (उ) स संस्कारस्कन्धसङ्गृहीतः । कस्मात् । यस्मादभिसंस्करणलक्षणः संस्कारः । अविज्ञप्तिरपि अभिसंस्करणलक्षणा । रूपञ्च रूपणालक्षणम् नाभिसंस्कारलक्षणम् । ( स्स्स्_225 ) (पृ) सूत्र उक्तं षट् चेतनाकायाः संस्कारस्कन्ध इति । न चित्तविप्रयुक्तसंस्कारा इति । (उ) प्रतिपादितमिदं पूर्वं यदस्ति पुण्यं पापं चित्तविप्रयुक्तमिति । (पृ) अविज्ञप्तिर्यदि रूपलक्षणा । को दोषः । (उ) रूपशब्दगन्धरसस्प्रष्टव्याः पञ्च धर्मा न पुण्यपापस्वभावाः । अतो न रूपस्वभावाविज्ञप्तिः । भगवानाह- रूपणालक्षणं रूपमिति । अविज्ञप्तौ रूपणालक्षणानुपलम्भान्न रूपस्वभावता ।
(पृ) अविज्ञप्तिः कायिकवाचिककर्मस्वभावा । कायिकवाचिककर्म च रूपमेव । (उ) अविज्ञप्तिः कायिकवाचिककर्मेति नाममात्रम् । न वस्तुतः कायवाग्भ्यां क्रियते । कायञ्च वाचञ्च प्रतीत्य मानसिककर्मणोत्पन्नत्वात्कायिकवाचिकमानसिककर्मस्वभावेत्युच्यते । अथवा मनस उत्पन्नैवाविज्ञप्तिः । इयमविज्ञप्तिः कथं रूपस्वभावा । आरूप्ये ऽप्यस्त्यविज्ञप्तिः । आरूप्ये कथं रूपं भविष्यति । (पृ) काः क्रिया अविज्ञप्तिमुत्पादयन्ति । (उ) शुभाशुभकर्मक्रियाभ्य उत्पद्यते ऽविज्ञप्तिः । नाव्याकृताभ्यः । अल्पबलत्वात् । (पृ) कदा क्रियाभ्यो ऽविज्ञप्तिरुत्पद्यते । (उ) द्वितीयचित्तादुत्पद्यते । यत् कुशलाकुशलानुगामि चित्तं प्रबलं भवति । तत् चिरं तिष्ठति । यच्चित्तं दुर्बलं न तच्चिरं तिष्ठति । यथा एकदिनसमात्तं शीलमेकदिनं तिष्ठति । आदेहपातसमात्तं शीलन्तु आदेहपातं तिष्ठति ॥
अविज्ञप्तिवर्गः षण्णवतितमः ।
97 हेत्वहेतुवर्गः
(पृ) सूत्र उक्तम्- हेतुकृतं कर्म अहेतुकृतं कर्मेति । कतमो हेतुः अहेतुश्च । (उ) ज्ञानपूर्वकं कृतं [कर्म] हेतुकृतम् । तद्विपरीतमहेतुकृतम् । (पृ) [तर्हि] यदहेतुकृतं न तत् कर्म भवति । (उ) अस्तीदं कर्म । किन्तु यच्चित्तहेतुकृतं कर्म तत्सविपाकम् । चित्ते ऽध्यवसीयकृतं कर्म हेतु [कृत]म्, अनध्यवसीयकृतं कर्माहेतु [कृतम्] । यथा योधाजीवव्यवहारो ऽहेतुकः । अयोधाजीवव्यवहारस्तु हेतुः । यथोक्तं सूत्रे- तव दोषान् गणयिष्यामि । यदि योधाजीवो व्यवहरसि न तदा गणयिष्यामीति यावत् त्रिधा पृच्छति । यद्यकरणचित्तपूर्वकं करोति- यथा कश्चिद्विहरन् पादनिक्षेपणेन कीटं हन्ति । सो ऽहेतुः । अहेतुककर्मासञ्चितमिति न विपाकजनकम् ।
कर्माणि चतुर्विधानि- कृतानुपचितं, उपचित्ताकृतं, कृतोपचितं अकृतानुपचितम् इति । कृतानुपचितमिति- यथा हननादिकर्म कृत्वा पश्चाच्चित्तं परितपति । दानादिकर्म कृत्वा च चित्तं परितपति । कर्मक्रियाचित्तमुत्पाद्य न पुनः स्मरति । तत् कृतानुपचितम् । उपचिताकृतमिति- यत् अन्यं हननादि कारयित्वा प्रमुदितचित्तो भवति । अन्यं दानादि कारयित्वा च प्रमुदितचित्तो भवति । कृतोपचितमिति- यत् हननादि पापं कृत्वा दानादिपुण्यं कृत्वा च प्रमुदितचित्तो भवति । अकृतानुपचितमिति- न च करोति नापि मुदितचित्तो भवति । तत्र कृतोपचितकर्मणो ऽस्ति विपाकवेदना । यथोक्तं सूत्रे- यत् कर्म कृतमुपचितं तस्य कर्मणो ऽवश्यमस्ति विपाकप्रतिसंवेदना इति । अतः कृतोपचितकर्मणो दृष्टधर्मे वा विपाको वेद्यते । उपपत्तौ वा विपाको वेद्यते । आयत्यां वा विपाको वेद्यते ।
(पृ) यदि हेतुकृतोपचितकर्मणो ऽवश्यमस्ति विपाकप्रतिसंवेदना तदा नास्ति विमुक्तिः । (उ) कर्म हेतुकृतमपि तत्त्वज्ञानलाभिनो न पुनरुपचीयते । यथा दग्घबीजं न पुनः प्ररोहति । लवणपलवर्गे भगवानाह- एकत्यः(श्च) पुरुषो [भावितकायो] ( स्स्स्_227 ) नरकवेदनीयं कर्म करोति । तस्य तादृशमेवाल्पमात्रकं दृष्टधर्मवेदनीयं भवति । इति । (पृ) यदि गुरुपापकं कर्म अल्पमात्रकं [दृष्टधर्म]वेदनीयं प्रज्ञायते । कस्मान्नात्यन्तं क्षयमेति । (उ) यस्तत्त्वज्ञानं न भावयति स पापकर्मणो ऽनुशयं लभते । अतो ऽल्पको दृष्टधर्मवेदनीयो विपाको भवति । (पृ) [तर्हि] भाविततत्त्वज्ञानो ऽर्हन्नपि अकुशलविपाकं वेदयते । (उ) परमकुशलधर्ममभ्यसन्नकुशलं प्रतिहन्ति । अतो यो जन्मशतसहस्रेषु शीलादि कुशलमुपचिनोति । न तस्याकुशलं कर्मोदेति । यथा बुद्धानां सर्वज्ञानां पुरुषाणाम् । नान्येषामेवं सामर्थ्यम् । अतो ऽकुशलकर्म लभन्ते । अतो ऽर्हन् भाविततत्त्वज्ञानो ऽपि पूर्वकर्मवशादकुशलविपाकं वेदयते च । (पृ) उक्तं सूत्रे ऽपि- भगवानपवादाद्यकुशलकर्मविपाकं वेदयत इति । (उ) भगवान् सर्वज्ञो नाकुशलकर्मविपाकः । समुच्छिन्न सर्वाकुशलमू[ल]त्वात् । किन्त्वप्रमाणर्द्ध्युपायेनोपदर्शयति अचिन्त्यं बुद्धवस्त्विति । यथोक्तमेकोत्तरागमे अचिन्त्यानि पञ्चवस्तूनीति ।
कर्म द्विविधम्- नियतविपाकमनियतविपाकमिति । नियतविपाकं कर्म बहु वा अल्पं वा अवश्यवेदनीयविपाकम् । अनियतविपाकं कर्मेति अत्यन्तपरिक्षीयमाणम् । (पृ) किं नियतविपाकं कर्मं किमनियतविपाकम् । (उ) यानि सूत्रोक्तानि तानि नियतविपाककर्माणि । (पृ) किं पञ्चानन्तर्याण्येव नियतविपाककर्माणि । किमन्यान्यपि सन्ति । (उ) अन्येषां कर्मणामस्ति नियतविपाकताभागः । किन्तु न प्रदर्शितः । विषयगौरवाद्वा नियतविपाकता । यथा भगवति तच्छ्रावके वा सत्कारः अथवाल्पमात्रानिन्दा । चित्तगौरवाद्वा नियतविपाकता । यथा गम्भीरघनपर्यवस्थानेन क्रिमिकीटान् हन्ति । इदं पुरुषहननादपि गुरुतरम् । एवमादि । अन्यानि कर्माण्यनियतविपाकानि सन्ति । (पृ) यदि पञ्चानन्तर्यपापकानि तनूभवन्तीति । कस्मादत्यन्तं न क्षीयन्ते । (उ) न ते पापधर्मास्तस्मिन् समये ऽत्यन्तं क्षीयन्ते । यथा स्रोतआपन्नः कौसीद्यप्राप्तो ऽपि नाष्टयोनीः प्राप्नोति । ( स्स्स्_228 ) सारगौरवात्पञ्चानन्तर्याणि नात्यन्तं क्षीयन्ते । यथा राजधर्मे गुरुपातकी दण्ड्य एव न क्षन्तव्यः ॥
हेत्वहेतुवर्गः सप्तनवतितमः ।
98 गुरुलघुपापवर्गः
सूत्र उक्तम्- अस्ति गुरुलघुपापं कर्मेति । कतमद्गुरुलघु । (उ) यत्कर्मावीचिनरकवेदनीयप्रापकं तत् कर्म गुरुपापकमित्युच्यते । (पृ) कानि कर्माणि तद्विपाकप्रापकानि । (उ) यत्सङ्घभेदनकर्म तेनावश्यं तद्विपाकं वेदयते । कस्मात् । त्रीणि रत्नानि प्रतिविभिन्नानि । सङ्घरत्नं बुद्धरत्नाद्व्यतिरिक्तम् । धर्मरत्नभेदो ऽपि [गुरुपापम्] । अधिमात्र मिथ्यादृष्टिजातस्तत्कर्माभिनिर्वर्तयति । बुद्धे परमीर्ष्याव्यापादाभ्यां तत्कर्म करोति । चिरोपचिताकुशलस्वभावः स्वलाभलोभात्तत्कर्म करोति । धर्मो धर्म इति [यत्] तन्नास्तीति तस्मिन् वदति कुशलधर्माणामचरितारो बहवः सत्त्वाः प्रतिहन्यन्त इत्यतो भवति गुरुतरं पापम् ।
(पृ) किं सङ्घभेदमात्रमवीचौ विपाकप्रापकम् । किमन्यदप्यस्ति । (उ) अन्यदप्यस्ति कर्म । नास्ति पापं नास्ति पुण्यं नास्ति मातापितृसज्जानानां सत्कारविपाक इति यद्वचनं तदादिमिथ्यादृष्टिरपि तद्विपाकप्रापिणी । अन्यं मिथ्यादृष्टौ पातयन् बहून् सत्त्वानकुशलानि कारयंश्च तद्विपाकं वेदयते । ईदृशमिथ्यादृष्टिसूत्राणि रचयन्ति यथा पूरणादयो मिथ्यादृष्टिनामाचार्याः सम्यग्दृष्टिविहिंसया बहूनां सत्त्वानामकुशलाय हेतुप्रत्ययं प्रकाशयन्ति । आर्याणामपवादो ऽपि तद्विपाकप्रापकः । यथा वदन्ति चतुरशीतिवर्षसहस्त्राणि एकनिन्दको दुःखमनुभवति । यथा चोक्तं धर्मपदे-
धर्मेण जीवन्नार्यो यस्तेन धर्मेण शिक्षयेत् ।
मृद्विन्द्रियः पापसेवी विलोमयति तद्वचः ॥
कण्टकोद्वन्धनं यद्वदात्मकायविघातकम् ।
नरके स पतत्येव ह्यूर्ध्वपादमवाच्छिरः ॥
शतं सहस्राणां निरर्बुदानां षट् त्रिंशच्च पञ्च च अर्बुदानाम्
यदार्यगर्ही निरयमुपैति वाचं मनः प्रणिधाय पापकम् । इति ।
प्राणातिपातादि यद्विषयगुरुकं चित्तगुरुकं तत्पापमपि अवीचिनरकपातकम् । गुरुविपरीतं लघु यदुत तपनप्रतपनादिषु हीननरकेषु तीर्यक्षु प्रेतेषु देवमनुष्येषु चाकुशलविपाकं प्रतिसंवेदयते । तल्लघुपापकमित्युच्यते ।
गुरुलघुपापवर्गो ऽष्टनवतितमः ।
99 महाल्पार्थककर्मवर्गः
(पृ) सूत्र उक्तं महाल्पार्थकं कर्मेति । किं तन्महार्थकं कर्म । (उ) येन कर्मणा अनुत्तरसम्यक्सम्बोधिमधिगच्छति । तन्महत्तमार्थकं कर्म । ततो ऽवरकर्मणा प्रत्येकबुद्धमार्गं विन्दते । ततो ऽवरकर्मणा श्रावकमार्गं लभते । ततो ऽवरकर्मणा भवाग्र ऽशीतिमहाकल्पसाहस्राण्यायुर्विपाकं लभते । इदं संसारे महत्तमविपाकं कर्म । ततो ऽवरकर्मणा आकिञ्चन्यायतने षष्टिकल्पसहस्राण्यायुर्विन्दते । एवं क्रमेण यावद्ब्रह्मलोकं कल्पार्धमायुर्विन्दते । ततो ऽवरकामधातौ परनिर्मितदेवेषु दिव्यगणनया षष्टिवर्षसहस्राण्यनुभवति । यावच्चतुर्महाराजिकेषु दिव्यगणनया पञ्चवर्षशतानि [विपाकं] वेदयते । एवं मनुष्येषु चतुर्महाराजिकानामधः प्रत्येकं कर्मवशाद्विपाकं वेदयते । एवं तिर्यक्प्रेतनरकेष्वप्यस्ति अल्पलाभं कर्म ।
कीदृशानि कर्माणि अनुत्तरसम्यक्सम्बोध्यादीन् प्रापयन्ति । (उ) दानादिषट्पारमितासम्पदनुत्तरसम्यक्सम्बोधिं प्रापयति । ततः कुशलकर्मक्रमेण जघन्यप्रवृत्तं प्रत्येकबुद्धबोधिं प्रापयति । [ततो ऽपि] जघन्यप्रवृत्तं श्रावकबोधिं प्रापयति । अधिमात्रेषु चतुरप्रमाणचित्तेषु विहरन् भवग्र उत्पद्यते । ततो जघन्यभूतेषु चतुरप्रमाणचित्तेषु विहरन्नवरभूमावुत्पद्यते । ( स्स्स्_230 ) ततो जघन्यभूतेषु चतुरप्रमाणचित्तेषु विहरन् शीलसमाधिप्रत्ययवशाच्च रूपधातावुत्पद्यते । दानशीलकुशलाभ्यासप्रत्ययेन कामधातावुत्पद्यते । दानादिकर्मणां पुण्यक्षेत्रोत्कर्षनिकर्षमनुसृत्यास्ति विशेषः । यत् बुद्धक्षेत्र आचरणं तदत्युत्तमम् । यत्प्रत्येकबुद्धक्षेत्र आचरणं तत् ततो न्यूनम् ।
(पृ) पुण्यक्षेत्रं किं बोध्योत्कृष्टं किं वा प्रहाणेन । (उ) अत्यन्तशून्यताख्यं धर्मलक्षणं या बोधिः प्रापयति । सा प्रहाणादुत्कर्षति । कस्मात् । यथा भगवान् बोध्या श्रावकेभ्यो ऽतिरिच्यते न प्रहाणेन । यथोक्तं संयुक्तपिटके-
जम्बूद्वीपसमां यच्च सङ्घभूमिं विशोधयेत् ।
पाणिकल्पस्य चैत्यस्य शास्तुस्तच्छोधनोपमम् ॥
सर्वज्ञज्ञानञ्च प्रहाणार्थम् । अतो यद्बोधिसत्त्वानां संसारे दीर्घकालावासः स सम्यक् प्रहाणार्थः । सम्यक् प्रहाणमिति यत् स्वसंयोजनप्रहाणं सत्त्वप्रहाणञ्च । तानि संयोजनानि च क्रमशो बोधिप्रहेयानि । अतो ज्ञायते बोध्या पुण्यक्षेत्रं प्रहाणादुत्कृष्टमिति ।
(पृ) यस्तीक्ष्णेन्द्रियः स्रोतआपन्नः यश्च मृद्विन्द्रियः सकृदागामी । अतयो पुण्यक्षेत्रयोः क उत्कृष्टः । (उ) तीक्ष्णेन्द्रिय उत्कृष्टो न मृद्विन्द्रियः । (पृ) तद्वचन मयुक्तम् । यथोक्तं सूत्रे स्रोतआपन्नशतसत्कारो नैकसकृदागामिसत्कारकल्प इति । आह च- दन्धानां हिंसया कामरागकलहचित्तं प्ररोहति । इति । अतो वीतरागस्य दानं बहुपुण्यानि प्रापयेत् । सकृदागामी च त्रीणि विषाणि तनूकरोति । न स्रोतआपन्नः । कस्मादुच्यत उत्कृष्ट इति । (उ) तत्सूत्रं नेयार्थकम् । केनेदं ज्ञायते । तस्मिन्नेव सूत्र उक्तं- तिरश्चां दानं शतगुणं हितं प्रापयति इति । वस्तुतस्तु पारावतपक्ष्यादीनां दानेन प्रतिलब्धो विपाकः तीर्थिकानां पञ्चाभिज्ञानां दानमतिशेते । अतस्तत्सूत्रं चिन्त्यार्थकम् । सूत्रं तत् बहुना हेतुनाह- निस्सरणार्था प्रज्ञा इति ।
स्रोतआपन्नश्च प्रज्ञाबलेन कामान् वेदयमानो ऽपि पुण्यक्षेत्रमित्युच्यते । न तु प्रहीणरागः प्राकृतो यावद्भवाग्रनियमलाभी [पुण्यक्षेत्रम्] । बहुश्रुतज्ञानं निर्वेधभागीयगतमेव प्रकृष्टं न भवाग्रनियतो ऽनिर्वेधभागीयगतः । मैत्रेयबोधिसत्त्वो ऽप्रतिलब्धबुद्धत्वो ऽपि अर्हतां सत्कार्यः । शून्यताकारमात्रबोधिचित्तोत्पादको ऽर्हतां सत्कार्यः । तद्यथा एकः श्रामणेरः पात्रचीवरमादाय अर्हन्तमनुचरति । अस्मिन् श्रामणेरे उत्पन्नानुत्तर [बोधि]चित्ते तु अर्हन्नेव तत्पात्रचीवरमादाय स्वयमुत्तरासङ्गं कृत्वा तमनुगच्छति । तद्यथा दृष्टान्ते विस्तरेणोक्तम् । अतो ज्ञायते प्रज्ञया पुण्यक्षेत्रमुत्कृष्टं भवतीति ॥
महाल्पार्थककर्मवर्ग एकोनशततमः ।
100 त्रिविधकर्मवर्गः
(पृ) सूत्र उक्तम्- त्रिविधं कर्म कुशलमकुशलमव्याकृतमिति । किं कुशलं कर्म । (उ) यत् कर्म परेषां प्रियं प्रयच्छति तत् कुशलम् । (पृ) किं प्रियम् । (उ) परेषां यत् सुखप्रापकं तत् प्रियम् । कुशलमित्यप्युच्यते पुण्यमित्यप्युच्यते । (पृ) यत् परेषां सुखप्रापकं तत् पुण्यम् । यत् परेषां दुःखप्रापकं तेन पापेन भवितव्यम् । यथा आञ्जनौषधशल्यवेधाः परेषां दुःखजनकाः पापाः स्युः । (उ) आञ्जनौषधशल्यवेधाः सुखप्रदत्वादपापाः । (पृ) सुखप्रदं तत् पुण्यमिति । यथा परदारगमनं तत् तस्य सुखजनकं तत् पुण्यकरमपि स्यात् । (उ) अब्रह्मचर्यं नियमेनाकुशलम् । यत् परानुकुशलधर्मे प्रवर्तयति तत् दुःखाय भवति न सुखाय । सुखं नाम यदिहामुत्र च सुखम् । न त्वैहिकमल्पसुखम् । यत् प्रेत्यामुत्र महादुःखं विन्दते ।
(पृ) केचिदन्नपानप्रत्ययं परेषां सुखमुत्पादयन्ति । तदन्नपानं कदाचिदजीर्यमाणं सत् पुरुषस्य मरणं प्रापयति । तदन्नदायकः किं पापं लभेत किं वा पुण्यम् । (उ) स साधुचित्तो ऽन्नं प्रयच्छति न दुष्टचित्तः । अतः पुण्यमात्रं लभते न पापम् । (पृ) परदारगमनमप्येवं स्यात् । केवलं सुखार्थत्वात्पुण्यमपि लभेत । (उ) इदं पूर्वमेव प्रत्युक्तं यदब्रह्मचर्यं नियमेन अकुशलमिति । महादुःखजनकत्वात् । अन्नपानदाने त्वस्ति ( स्स्स्_232 ) पुण्यगुणभागः । कस्मात् । नह्यवश्यमन्नलाभी म्रियते । सत्त्वाः कामक्लिष्टाः काममैथुनमनुभवन्ति । तत् सर्वथापुण्यहेतुः । कथं पुण्यं लभेरन् । (पृ) केचित् प्राणिहिंसया बहू नामुपकुर्वन्ति । यथा चोराणां निग्रहे राष्ट्रं निरीति भवति । क्रूरपशुमारणे जनानां हितं भवति । एवमादिप्राणिहिंसया किं पुण्यं लभ्येत । केचित्स्तेयप्रत्ययं पितरौ पोषयन्ति । मैथुनप्रत्ययं प्रियपुत्रं जनयन्ति । मृषावादप्रत्ययञ्च कस्यचिज्जीवीतं प्रददन्ति । पारुष्यवचनप्रत्ययं परेषां हितं भवति । इदं सर्वं दशाकुशलसङ्गृहीतम् । कथमनेन पुण्यं लभेरन् । (उ) ते पुण्यं पापञ्च लभन्ते । परानुग्रहात्पुण्यं लभन्ते परोपघातात्पापम् । (पृ) चिकित्सापि परस्यादौ दुःखप्रदा पश्चात्सुखं प्रापयति । कस्मात्पापमलब्ध्वा पुण्यमात्रं लभते । (उ) चिकित्सायां कुशलचित्तेन कृतायां नास्त्यकुशलाशयः । यत् कर्म कुशलाकुशलहेतुसमुद्धितं, ततः पुण्यं पापं व्यामिश्रं लभते ।
चोदयति । हिंसादयः सर्वे पुण्यप्रापकाः । कस्मात् । हिंसाप्रत्ययमभीष्टं लभते । यथा राज्ञाश्चोरनिग्रहे पुण्यं लभ्यते । पुण्यप्रत्ययञ्च यदभीप्सितं तल्लभ्यते । इति प्राणातिपातात् कथं पुण्यं न भवति । हिंसां कुर्वन् यशो लभते । यशः पुरुषस्य काम्यं भवति । पुरुषस्य काम्यं पुण्यफलकम् । हिंसया च प्रीतिसुखं लभते । प्रीतिसुखमपि पुण्यफलविपाकम् । आह च च सूत्रम्- यो युद्धे हन्यते स स्वर्ग उत्पद्यत इति । यथाह गाथा- म्रियमाणञ्च सङ्ग्रामे पतिं बरयतेप्सराः इति । किञ्चाह-
सुधनत्वे ऽपि पुरुषश्चोरं पुरत आगतम्
हन्यादेव न वै पापं आहन्ता विन्दते तु तत् ॥ इति
धर्मसूत्रमाह- चत्वारो वर्णाः ब्राह्मणक्षत्रियवैश्यशूद्राः । एषां पृथक् सन्ति स्वधर्माः । ब्राह्मणस्य षड्धर्माः क्षत्रियस्य चत्वारो वैश्यस्य त्रयः शूद्रस्यैकः । षड् धर्मा इति यजनमार्विज्य मध्ययतमध्यापनं दानं प्रतिग्रहः । चत्वारो धर्मा इति यजनं नार्त्विज्यं, परतो वेदाध्ययनं नाध्यापनं, दानं न प्रतिग्रहः प्रजापालनम् । त्रयो धर्मा इति यजनं नार्त्विज्यं, अध्ययनं नाध्यापनं दानं न प्रतिग्रहः । एको धर्म इति त्रयाणामुत्तमवर्णानां ( स्स्स्_233 ) शूश्रूषा । क्षत्रियस्य प्रजापालनाय प्राणिवधे पुण्यमेव न पापम् । वेद उक्तम्- प्राणिवधः पुण्यप्रापकः यदुत वैदिकमन्त्रेण हताः पशवः स्वर्ग उत्पद्यन्त इति । वेदाश्च लोके श्रद्धेया भवन्ति । किञ्चाह यद्वस्तुतो मर्तव्यं तद्धनने नास्ति पापम्- यथा पञ्चाभिज्ञ ऋषिर्मन्त्रेण पुरुषं हन्ति । न वक्तव्यमृषेः पापमस्तीति । [अनृषे]ः पापिष्ठस्य कथमेतत्सिध्यति । अतो ज्ञायते प्राणिवधो न पापप्रापक इति । कश्चित्कदाचिच्चित्तबलेन प्राणिनं हत्वा पुण्यं लभते । प्राणदानेन तु पापं लभते । यदि कुशलचित्तेन सुखलिप्सया प्राणिनं हन्ति । कथं तस्य पापं भवति । यथा सूनकादयः । पशुपालानां गवाजदाने ऽपि पापम् । एवमदत्तादानादिष्वपि पुण्यगुणो ऽस्ति ।
अत्रोच्यते । यदुक्तं भवता प्राणिवधेनाभीप्सितलाभादस्ति पुण्यगुण इति । तदयुक्तम् । कस्मात् । पुण्यगुणाधीनतया हि अभीप्सितलाभः । अभीप्सितप्रत्ययः प्राणिवधलाभ इति कस्माद्युक्तम् । पूर्वाध्वकृताविशुद्धपुण्यत्वात् । यथोक्तं सूत्रे- चौर्यहरणवधहिंसाप्रतिलब्धधनो ऽन्यस्य दानं प्रयोजयति । तत् दौर्मनस्यपरिदेवनेनापरिशुद्धं दानमिति । एवमादिदानमपरिशुद्धमित्युच्यते । अवश्यमशुभप्रत्ययाधीनां विपाकवेदनां प्रापयति । तस्य पुरुषस्य पूर्वाध्वनि पुण्यमस्ति प्राणातिपातकर्मप्रत्ययो ऽप्यस्ति । तस्मादिदानीं कायो हननहेतुकं विपाकं वेदयते । केचित्सत्त्वा अपि प्रत्यर्पणीयजीवितधना इत्यतो वधहिंसया यदभीप्सितं तल्लभते । न च तथा सर्वे सत्त्वाः । [अतः] प्राणिवधेनोपभोग्यं लभते । यथा लोक आहुः- अयं पुरुषो ऽल्पपुण्यो बहुकुर्वन्नपि न विन्दत इति । यशःप्रीतिसुखेष्वप्येवं स्यात् । पुण्यगुणप्रत्ययेन यशःकायबलसुखानि लभते । पुण्यस्य केवलमपरिशुद्धत्वात् वधेन [उपभोग्यं] लभते । (पृ) सिंहव्याघ्रादिलब्धं कायबलं सर्वं पापजम् । यक्षराक्षसादिलब्धं कायबलसुखमपि पापजम् । (उ) इदं पूर्वमेव प्रत्युक्तम् । अविशुद्धपुण्यत्वात्पापप्रत्ययेन लभते ।
यद्ब्रवीषि सूत्र उक्तं- यो युद्धे हन्यते स स्वर्ग उत्पद्यत इति । तदयुक्तम् । कस्मात् । सूत्रमिदमनेन मिथ्याप्रलापेन मूढान् प्रोत्साहयति सौर्यमुत्पादयितुम् । केनेदं ज्ञायते । अवश्यं पुण्याधीनं पुण्यमुत्पद्यते पापाधीनं पापम् । तत्रात्यन्तमसति पुण्यहेतौ केन पुण्यं लभेत । यदाह भवान्- चतुर्णां वर्णानां पृथक् सन्ति स्वधर्माः । क्षत्रियस्य ( स्स्स्_234 ) प्रजापालनात् वधो ऽपाप इति । स गृह्यधर्मसमः । यथा सूनकादीनां लोकानां गृह्यधर्माः प्राणिवधाः सदा क्रियमाणा न पापविमुक्ताः । तथा क्षत्रियस्यापि । स राजधर्मो ऽपि हेतुना पापप्रापकः । यदि क्षत्रियो राजधर्मत्वेन प्राणान् वध्यन् अपापो भवति । तदा सूनकव्याधादयो ऽप्यपापाः स्युः । क्षत्रियः परं प्रजासु करुणार्द्रचित्ततया वैरमुत्सृज्य तदधीनं पुण्यं लभते । यः पुरुषजीवितमपहरति । तस्य पापमस्ति । यथा कश्चिन्मातापितृपालनाय परधनमपहरति । स पुण्यं पापं व्यामिश्रं लभते ।
(पृ) मातपितृपालनाय चोरयन् न पापं लभेत । यथोक्तं धर्मसूत्रे- यः सप्तदिनान्युपवसति । स चण्डालादपहरन् न पापमुपादत्ते । यो मुमूर्षुः स ब्राह्मणादप्युपादानं लभते इति । इमे दुष्कर्मणा जीवन्तो ऽपि नोच्यन्ते शीलव्यसनिन इति । आपन्नत्वात् । यथाकाशो न रजसा दूष्यते । तथा ते ऽपि न पापेन दूष्यन्ते । (उ) उक्त ब्राह्मण धर्म एव- चौर्यकाले धनस्वाम्यागत्य रक्षति । तस्मिन् समये ब्राह्मणेन विचारयितव्यम् । यदि स धनस्वामिगुणैरसमानो भवति । तदा तं हन्यात् । कस्मात् । अहमुत्तमः, नानाप्रायश्चित्तैस्तत्पापं निर्हरामि । यदि तेन तुल्यगुणः । तदा आत्महनने परहनने वा तत्पापमपि तुल्यम् । तस्य गुरुतरपापस्य दुर्हरणत्वात् । यदि धनस्वामी गुणाधिकः । तदा स्वकायं त्यजेत् । तत्र पापस्यापनोद्यत्वात् । एवं विवेकः । चोरहनने ऽप्येवं स्यात् दुष्कर्मणा जीवन्त इति यदुक्तं तत्र दुष्कर्मसत्त्वात्कथं पुण्यं भवेत् ।
यदवोचः चोरं पुरत आगतं हन्यादेव न वै पापमहन्ता तु विन्दते तत् इति । तद्दूषितचरमेव । कस्मात् । यदि पुरत आगतो गुणाधिकः । तदा स्वकायं त्यजेत् । यदि नास्ति पापमिति । कस्मात्तथा भवेत् । यदब्रवीः वेद उक्तं प्राणिवधः पुण्यप्रापक इति । तत्प्रत्युक्तमेव यदुत बधे नास्ति पुण्यमिति । यदुक्तं वस्तुतो मर्तव्यस्य कस्यचिद्वधे नास्ति पापमिति । तदा दुष्टचोरवधे ऽपि पापं न स्यात् । सर्वे च सत्त्वाः पापिष्ठाः । स्कन्धकायानुभवकर्माभिसंस्कारित्वात् । एवञ्च प्राणिवधेन पापं लभेत । तत्तु न सम्भवति ।
(पृ) ये सत्त्वाः पूर्वाध्वनि स्वयंकृतबधप्रत्ययाः । तेषामिदानीं वधे कस्मात्पापं लभ्यते । चौर्यादिकर्मस्वप्येवं स्यात् । (उ) तथा चेत् पुण्यपापे न स्याताम् । कस्मात् । ( स्स्स्_235 ) अयं पुरुषः पूर्वाध्वकृतवधप्रत्ययत्वात्तद्वधो ऽपापः । तत्प्राणातिपातविरतिरप्यपुण्या स्यात् । एवं यः परस्मै ददाति तस्यापि न पुण्यं स्यात् । प्रतिग्रहीता पूर्वाध्वनि स्वाचरितदानकर्मक इदानीं तद्विपाकं लभते । न हि सम्भवति नास्ति पुण्यं पापमिति । अतो ज्ञातव्यं सत्त्वानां पूर्वाध्वकृतवधकर्मणामपि वधिता पापं लभत इति । रागद्वेषमोहेभ्यः समुत्पन्नत्वात् । इमे क्लेशा मिथ्याविपर्यासाः । मिथ्याविपर्यस्तचित्तोत्पाद एव पापं लभते । कः पुनर्वादस्तद्धेतूत्थितेषु कायवाक्कर्मसु । तेन संसारो ऽनवस्थः । तथा नोचेदृषयो रागद्वेषादिक्लेशानामुदये ऋद्धे न हीयेरन् । यदीदं न पापम् । कस्य धर्मस्य विपरीतं पुण्यमित्युच्येत । ज्ञातव्यं पूर्वाध्वकृतप्रत्ययानामपि सत्त्वानां वधिता पापवान् स्यादिति । यद्युप्युक्तं त्वया पापियान् न किञ्चित्साधयतीति । तदयुक्तम् । चण्डालादयो ऽपि मन्त्रविधिना पुरुषं घ्नन्ति । तथा महर्षयो ऽपि अकुशलचित्तेन यथाभिहितं साधयन्ति । ते पुण्यबलात्साधयन्तः प्राणातिपातात्पापं लभन्ते ।
यदब्रवीः- कश्चिच्चित्तबलेन प्राणातिपातं कुर्वन् पुण्यं प्रसूते । प्राणदानेन पापमिति । तदयुक्तम् । कस्मात् । अवश्यं चित्तबलेन पुण्यप्रत्ययेन पुण्यं लभते । न तु चित्तमात्रेण । यः कुशलचित्तेन गुरुतल्पगो ब्राह्मणहन्ता वा भवति । तेन किं पुण्यं लभ्येत । पारसीकादि पर्यन्तभूमिगतानां जनानां पुण्यबुद्धया मातृभगिन्यादिगामिनां किं पुण्यं भवेत् । अतो ज्ञायते पुण्यप्रत्ययत्वात्पुण्यमुत्पद्यते । न तु चित्तमात्रेण एवं स्तेयादावपि । अतो ज्ञायते वधादयो ऽकुशला इति । ते वधादयः परेषामपकारकत्वादकुशला इत्युच्यन्ते । यद्यपि दृष्टे कञ्चित्कालं सुखं लभते । पश्चात्तु महद्दुःखमनुभवति । परापकारो ह्यकुशललक्षणम् । पश्यामः खलु प्रत्यक्षं बहवः सत्त्वा वधादीनाचरन्तो भूयसा तिसृषु गतिषु मनुष्यगतौ च दुःखपीडा अनुभवन्तीति । [अतो] ज्ञातव्यं दुःखपीडा वधादीनां फलमिति । हेतुसरूपत्वात्फलस्य । तिसृषु दुर्गतिषु पापानि तीव्रदुःखानि । अतो ज्ञायते वधादिप्रत्ययात्तत्रोपपद्यन्त इति ।
(पृ) देवेषु मनेष्येषु चैवं स्यात् । देवा अपि सदा युद्धे ऽसुरैः सह वध्यन्ते । ( स्स्स्_236 ) मनुष्येषु गर्तग्रहणयन्त्रजालविषैः सत्त्वान् घ्नन्ति । (उ) देवमनुष्येषु सन्ति वधविरत्यादयो धर्माः । न तु तिसृषु गतिषु, इति ज्ञातव्यं तत्र पापं तीव्रदुःखमिति । मनुष्या वधादिप्रत्ययेन तु प्रक्षीणायुरादिलाभसुखा भवन्ति । [तथा हि] पुरा मनुष्या अप्रमाणायुष्का अभूवन् । चन्द्रसूर्यवत्स्वकायनिश्चरद्रश्मयः विहायसा स्वैरचारिणाः । पृथिवी स्वाभाविकयथेष्ठद्रव्याः स्वाभाविकतण्डुलाः । सर्वमिदं वधादिपापैः प्रणष्टम् । ततः पुनः क्षयो ऽभूत् । यावद्दशवर्षेषु मनुष्येषु धृततैलसितोपलाशालिचोलयवादयः सर्वे ऽपि तिरोहिताः । अतो ज्ञायते वधादयो ऽकुशलकर्माणीति । यो वधहिंसादिभ्यो विरमति स पुनर्लाभसुखायुःपौष्कल्यं लभते । यथाशीतिवर्षसहस्रायुष्कस्य यथेष्टं कामा भवन्ति । अतो ज्ञायते वधो ऽकुशल इति ।
इदानीमौत्तरा वदन्ति तण्डुलं स्वाभाविकं वसनं वृक्षजम् । प्राणातिपातविरतित्वात् । संक्षिप्येदमुच्यते सत्त्वानां सर्वाणि सुखोपकरणानि प्राणातिपातविरतिसमुत्पन्नानीति । अतो ज्ञायते प्राणातिपातादयो ऽकुशलकर्माणीति । प्राणातिपातादिधर्माः सज्जनैः परित्याज्याः । ये बुद्धा बोधिसत्त्वाः प्रत्येकबुद्धाः श्रावका अन्ये च भदन्ताः ते सर्वे तान् परित्यज्य विरमन्ति । अतो ज्ञायते ऽकुशला इति ।
(पृ) प्राणिवधादयः सुजनैरप्यनुश्रूयन्ते । यथोक्तं मेदे यज्ञार्थं पशुवधो ऽनुश्रूयत इति । (उ) ते न सुजनाः । सुजनः सदा परस्य हितार्थी भवति । करुणाचित्ताभ्यासी मित्रामित्रयोः समः । तादृशः पुरुषः कथं प्राणिवधमनुश्रावयेत् । कामक्रोधकलुषितचित्ताः सन्त इमं ग्रन्थं रचयामासुः । [सत्त्वानां] स्वर्गे जन्माभिलाषी सत्त्वानभिमन्त्रयमानः स्वपुण्यबलेन तत्साधयति । वधादिभ्यो विमुक्तिलाभी न तत्करोति । अतो ज्ञायते ऽकुशलमिति । (पृ) विमुक्तिलाभी अन्यदपि विकालभोजनादि करोति । इदमप्यकुशलं भवेत् । (उ) इदं पापहेतुरिति सुजनाः परिहरन्त्यपि । यो धर्मो ऽदुष्टः न स धर्मः परिहरणीयः स्यात् । विकालभोजनादयो ब्रह्मचर्यं घ्नन्तीत्यतो ऽपि परिहरन्ति । केचिद्धर्माः स्वरूपतो ऽकुशला इत्यतः परिहरन्ति यथा मद्यपानविकालभोजनादयः । अतो ज्ञायते प्राणातिपातः स्वरूपतो ऽकुशल इति । प्राणातिपातो बहुजनविद्विष्टः । यथा सिंहव्याघ्रदस्युचण्डालादयः । यदनेन हेतुना जनविद्विष्टं कथं तदकुशलं न भवेत् । यः प्राणातिपातविरतः स बहूनां ( स्स्स्_237 ) जनानां प्रियो भवति । यथा करुणाविहारी आर्याणां प्रियः । अतो ज्ञायते वधो ऽकुशल इति ।
(पृ) कश्चित्तु प्राणिवधकृत् स्वविक्रमवशाज्जनानां प्रियो भवति । यथा कश्चिद्राजार्थं दुष्टचोराणां हन्ता राजप्रियो भवति । (उ) [पाप]हेतुसत्त्वान्नात्यधिकं प्रियो भवति । यथा वदन्ति यो दुष्कर्मणा राजचित्तं तर्पयति । राजा च यदि निर्विण्णचित्तो भवति । तस्य पुनः स विमतो भवति । यो दुर्वृत्त्या विमतो भवति । स कथं प्रियो भवेत् । अकुशलचारी आत्मन एवाप्रियः । कः पुनर्वादो ऽन्येषाम् । अतो ज्ञायते प्राणिहिंसाकुशलधर्म इति । वधादिधर्माः ताडनहिंसनवन्धनादीनां दुःखो पद्रवाणां हेतव इत्यतो ज्ञायते ऽकुशला इति । (पृ) अहिंसादिधर्मा अपि दुःखहेतवः । यथा राजा दुष्टचोरान् वधितुमाज्ञापायति । यो न वध्यति तं राजा हन्ति । (उ) यो न हन्ति स हन्यत इत्यहन्तारः सर्वे मरिष्यमाणा भवेयुः । राजशासनविरुद्धत्वादेषाम् । यदि राजा जानाति अयमवधचित्त इति तदा अवधिता प्रत्युत सत्क्रियते । अतो ज्ञायते वधादयो दुःखहेतवो न त्ववधादयः । यो वधानाचरति । तस्य मरणकाले चित्तं परितपति । अतो ज्ञायते ऽकुशलमिति । वधाद्याचरणात् न जनानां श्रद्धेयः । स्वयूथ्येष्वेव न श्रद्धीयते । कः पुनर्वादः सज्जनेषु । सिंसाद्याचारी सजातीयैरेवाधिक्षिप्यते । कः पुनर्वादो ऽन्यजनैः । हिंसाद्याचारी चण्डालसूनकव्याधादिवत् सज्जनैः दूरतः परित्यज्यते । हिंसाद्याचरिता न सुखी जन इत्युच्यते । यथा सूनको न कदापीदृशकर्मणा सत्कारं लभते । सुजनो गुणाय हिंसादिभ्यो विरमति । यदि नाकुशलम् । कस्मात् गुणाय विरतिं सम्प्रत्येषति । दृष्टे पश्यामः खलु हिंसादीनां विप्रियं फलं भवतीति । ज्ञातव्यमागामिन्यध्वन्यपि दुःखविपाकं प्रापयतीति । यदि हिंसादयो नाकुशलाः । को धर्मः पुनरकुशलः स्यात् ।
(पृ) यदि हिंसादिधर्मा अकुशलाः । तदा देहपोषणं न स्यात् । कस्मात् । न ह्यस्ति अहिंसासम्भवकालः । गतागते पादोत्क्षेपणे पादावक्षेपणे वा सदा सूक्ष्मसत्त्वान् विहन्ति । आत्मीयसंज्ञया परवस्तूनि सदा गृह्णाति । यथास्वसंज्ञञ्च मिथ्या व्यवहरति । अतो नैव देहपोषणं भवेत् । (उ) यत् हेतुकृतं तत् पापम् । नाहेतुकृतम् । यथोक्तं सूत्रे- वस्तुसन्तः सत्त्वाः, तेषु सत्त्वसंज्ञामुत्पाद्य जिघत्साबुद्ध्या तान् हत्वा हननपापं लभन्त इति । एवं स्तेयादावपि । (पृ) यथा विषं पीतवानिति हेतावहेतावुभयथा पुरुषं हन्ति । यथा च वह्निप्रक्रमणं ज्ञाने ऽज्ञाने च पुरुषं दहति । तथा वेधनादिरपि स्यात् । ज्ञातव्यं प्राणिहिंसा हेतावहेतौ च पापं प्रापयति । (उ) नायं दृष्टान्तो युक्तः । विषेण कायहिंसनान्मरणम् । ( स्स्स्_238 ) पुण्यन्तु चित्तगतम् । किमत्र दृष्टान्तो भवेत् । वह्निवेधनादिरपि प्रबोधे ऽसति न दुःखजनकः । अतो न स दृष्टान्तो युज्यते । असति विज्ञाने न खेदं बुध्यते । सति तु विज्ञाने बुध्यते एवमसति हेतुचित्ते न कर्म सिध्यति । सति तु चित्ते सिध्यति । स दृष्टान्तस्तथा स्यात् । हेतौ सति पापम् । असति तु नास्ति । कर्मणां चित्तबलात्पुण्यपापविभागः । असति हेतुचित्ते कथमुच्चनीचभावो भवेत् । चिकित्सायामचिकित्सायाञ्चोभयथा पुरुषस्य दुःखं जायते । चित्तबलात्पुण्यपापविभागः । यथा मातुस्तनग्रहणे बालको न पापं लभते । अनुरागचित्ताभावात् । अनुरागचित्तेन ग्रहणे तु पापमस्ति । पुण्यं पापं सर्वं चित्ताधीनं जायत इति ज्ञातव्यम् ।
यदि हेतुचित्ते ऽसत्यपि पापमस्ति । तदा विमुक्तिलब्धो ऽपि असति हेतौ सत्त्वान् पीडयन् पापं लभेत । तदा न विमुच्येत । पापिष्ठानां मोक्षाभावात् । यदि हेतोवसत्यपि पुण्यपापमस्ति । तदैकमेव कर्म कुशलमकुशलञ्च स्यात् । यथा कश्चित्पुण्यं कर्म कुर्वन् सत्त्वं हतवानस्मीति भ्रान्तो भवति । तदा तत्कर्म पापं पुण्यञ्च स्यात् । तत्तु न युज्यते । हेतावसति पुण्यं पापं वा नास्तीति ज्ञातव्यम् । यदि विना चित्तं कर्मास्ति । तदा कथमिदं कुशलं इदमकुशलं इदमव्याकृतमिति विभागः स्यात् । चित्तहेतुना त्वयं विभागः । यथा त्रयः पुरुषाः सम्भूय स्तूपप्रदक्षिणं कुर्वन्ति । तत्रैको बुद्धगुणानुस्मरणाय । द्वितीयः स्तेयहरणाय । तृतीयो भावशमनाय । [तेषां] कायकर्मणि समाने ऽपि कुशलाकुशलाव्याकृतविभागश्चित्तगत इति ज्ञेयम् । किञ्चित्कर्म नियतविपाकं, किञ्चिदनियतविपाकं, किञ्चिदुत्तमं मध्यममधमं, दृष्टधर्मविपाकमुपपद्यविपाकं, तदुत्तरविपाकमित्यादि । यदि चित्तेन विना पुण्यपापं लभ्यते । कथमयं विभागो भवेत् । यदि चित्तव्यतिरिक्तं कर्मास्ति असत्त्वसंख्येष्वपि पुण्यपापं स्यात् । यथा सभीरणोन्मूलितपर्वतोपद्रुतेषु सत्त्वेषु समीरणे पापं स्यात् । सुगन्धिकुसुमस्य स्तूपविहारपतने पुण्यं स्यात् । तत्तु न सम्भवति । अतो ज्ञायते न चित्तव्यतिरिक्तं पुण्यपापमस्तीति ।
तीर्थिका वदन्ति- उपवासस्थण्डिलशयनशलाकावेधादिभिर्जलपतनदहनप्रवेश ( स्स्स्_239 ) भृगुपतनादिभिश्च दुःखप्रत्ययैः पुण्यं भवतीति । तत्र प्राज्ञा दूषयन्ति । तथा चेन्नारकाः सत्त्वाः सदा दह्यन्ते पच्यन्ते च । प्रेता बुभुक्षिताः पिपासिताः । पतङ्गा दहनप्रविष्टाः । मीननक्रा जलावसथाः । अजवराहाश्वादयः सदा पुरीषक्षेत्रशायिनः । ते ऽपि पुण्यं लभेरन् । ते प्रतिब्रूवन्ति । अवश्यं हेतुचित्तेन तद्दुःखमनुभवतां पुण्यं भवति नत्वहेतुचित्तेन । नारकादयो न हेतुचित्तेन दाहादिदुःखमनुभवन्ति । यदि हेतुचित्तेन विना पुण्यं नास्ति । हेतुचित्तेन विना पापमपि नास्ति । यदि हेतुचित्तेन विना पुण्यमस्ति । नारकादीनामपि पुण्यं स्यात् । इत्येवं दोषो ऽस्ति । [इति] । यदि हेतुचित्तं विना पुण्यं पापं वास्ति । तदा सुजनो न स्यात् । कस्मात् । चतुर्षु इर्यापथेषु सदा सत्त्वान् हन्ति । तत्तु न सम्भवति । हेतावसति नास्ति पुण्यं पापमिति ज्ञातव्यम् । सुजन्मक्षेत्रञ्च न लभेत् । सदा पापकत्त्वात् । वस्तुतस्तु सन्ति ब्रह्मकायिकादीनां सुरुचिराः काया अतो ज्ञायते न हेतुं विना पुण्यं पापं वास्तीति ।
भावतां शासने अपरिशुद्धाहारे पापं भवति । यो ऽभिप्रैति सर्वाण्यन्नपानानि अपरिशुद्धाहाराः पापप्रापकाः स्युरिति । एवं सुरादिस्पर्शे सो ऽब्राह्मणः स्यात् । परिशुद्धेन चित्तेन भोजने न पुनरस्ति पापमिति श्रुतं दृष्टवानसि । तदा चित्तं विना नास्ति पुण्यं पापं वा इति ज्ञातव्यम् । अध्वरे च पुण्यचित्तेन पशवो हन्यन्ते । तेन स्वर्ग उत्पद्येरन् इति । पुण्यचित्तेन हननात्पुण्यमस्ति । तथा नो चेत् सर्वे प्राणिवधाः पुण्यप्रापकाः पापप्रापका वा स्युः । ब्राह्मणमाह- किञ्चित्स्तेयमपापम् । यथा सप्तदिनान्यनशनः शूद्रादपि प्रतिगृह्णीयात् । यो मुमूर्षुः स ब्राह्मणादपि गृह्णीयात् । पुत्रार्थिनो ऽब्रह्मचर्यमपापम् इति । हेतुचित्ते ऽसति न स्यादीदृशविभागः । अतो ज्ञायते यो हेतुं विनान्यस्य विषं प्रयच्छति । केन स पापं लभेत । यः सहेतु अन्यस्य विषं प्रयच्छति । विषं प्रत्युत व्याधिं शमयति । स पुण्यं लभेत । कस्यचिदन्नं प्रयच्छति । अन्ने चाजीर्णे पुरुषो म्रियते । तत पापं प्राप्नुयात् । यदि विना हेतुं पुण्यपापे स्तः । तदा धर्मो ऽयं व्याकुलः स्यात् । लौकिकाः सर्ववस्तुषु चित्तं श्रद्दधन्ते । यथा एकमेव वचनं प्रीतिद्वेषजननम् । पृष्ठताडनादिरप्येवम् । अतो ज्ञायते कर्माणि चित्ताधीनानि इति । [तत्र] मानसं कर्म गरिष्ठमित्युत्तरत्न वक्ष्यते । अतो ज्ञायते कर्माणि चित्ताधीनानीति । यः ( स्स्स्_240 ) प्राज्ञः स पञ्चकामगुणेषु वसन्नपि न पापमाक् भवतीति मनसो बलम् । कस्मात् । न हि प्राज्ञो रूपाणि दृष्ट्वा मिथ्यासंज्ञामुत्पादयति । अतो नास्ति रूपासङ्गदोषः । तथा शब्दादावपि । यद्यनुत्पन्नमिथ्यासंज्ञो ऽपि पापवान् । तदा सर्वाणि दर्शनश्रवणानि पापानि स्युः । तथा च मानसं कर्म निष्प्रयोजनं स्यात् । ज्ञानी प्रज्ञाशीर्षकः पञ्चकामगुणाननुभवन्नपि नासक्तिमुत्पादयति । पञ्चकामगुणाः सन्तो ऽपि चित्तनिर्वेदान्न मलिनयन्ति । किमिदं न मानसकर्मणो बलम् । अतो नास्ति विना हेतुं पुण्यपापप्रतिलाभः ।
चोदयति । यद्ब्रवीषि परस्यानुग्रहाननुग्रहौ कुशलाकुशललक्षणमिति । तदयुक्तम् । कस्मात् । यः स्वकायं परिपालयन्पुण्यं कर्माचरति । तस्यात्मानं भोजयतो ऽपि पुण्यमस्ति । चैत्यविहारावसत्त्वभूतौ । तयोः सेचनशोधने अपि पुण्यप्रापके । वन्दनादयस्तु न परानुग्राहकाः । केवलं परगुणवैकल्यकरा इति न भवेत्पुण्यम् । न च चित्तमात्रेण पुण्यगुणो भवति । अन्नवस्त्राभ्यां परमुपकुर्वता तस्मिन् समये पुण्यं लभ्यते । तथा करुणा[मात्र]चारिणो न भवेत्पुण्यम् । यदि चैत्यविहारादयो ऽसत्त्वसंख्याताः । तेषां यो धनमपहरति विनाशयति वा । न तस्य भवेत्पापम् । अनभिमुखीकृत्य दुर्वचसा परनिन्दने न भवेत्पापम् । अश्रुतत्वात्कस्यापकर्षः स्यात् । अन्यपुरुषे च दुष्टचित्तमात्रमुत्पादयति न कायवाक्कर्म करोति । किं पुनर्हीयते । न स पापभाक् स्यात् । कश्चिदात्मानं निन्दति । कश्चिदात्मानं हन्ति । कश्चित्स्वयं मिथ्याचरति । कश्चिच्च पापं लभते । अतः कुशलाकुशललक्षणं न परानुग्रहाननुग्रहमात्रेण भवति ।
अत्रोच्यते । यद्ब्रवीषि स्वदेहं पालयतः पुण्यगुणो ऽस्तीति । तदयुक्तम् । यद्यात्मसत्कारे पुण्यगुणो ऽस्ति । तदा न कश्चित्परं सत्कुर्यात् । वस्तुतस्तु पुण्यार्थी परं सत्करोति । यात्मार्थता ततः पुण्यमल्पं भवति । अतो ज्ञायते आत्मार्थता न पुण्यवती स्यादिति । यदाह भवान् आत्मपोषणं पुण्यकर्माचरणार्थमिति । तत् स्वदेहः परेषामुपकारार्थ इति पुष्णाति । तस्यास्याश्चित्तभूमेः पुण्यगुणः प्रसूते । नात्मपोषणमात्रेण । यद्ब्रवीषि चैत्यविहारा वसत्त्वभूतौ, तयोः सेचनशोधने अपि पुण्यप्रापक इति । तत् भगवद्गुणाः सत्त्वेषु पूज्या इति स्मृत्वा जनाः सेचन्ते शोधयन्ति च । तस्य सत्त्वाधीनत्वाच्च पुण्यमेव लभ्यते । (पृ) निर्वृतो हि भगवानसत्त्वभूतः । उक्तञ्च सूत्रे- न तथागतः सन् नासन्, नापि सदसत् नापि च न सन् नासन् इति । कथं सत्त्व इत्युच्येत । ( स्स्स्_241 ) (उ) यदि निर्वृतो ऽसत्त्वभूतः । तदा अनिर्वृतकालीनं भगवन्तं स्मृत्वा पूजयन्तः पुण्यं लभन्ते । यथा जनाः पितरौ जननपोषणकालं स्मृत्वा यजन्ति । तथा नो चेत् न पितृपूजा भवेत् । तथेदमपि । यद्ब्रवीषि वन्दनादयो न परानुग्राहका इति । तदयुक्तम् । कस्मात् । वन्दनादिभिः परस्य नानाहितं भवति । येन परः पूज्यानां सत्कार्यो भवति । अयमेव [परा]नुग्रहः । तेनान्ये ऽपि जनाः सत्कारशिक्षाननुसरन्तः पुण्यगुणं लभन्ते । परस्य वन्दने स्वाभिमानं भज्यते । अकुशाङ्गभङ्गाद्बहूपकृतं भवति । परगुणांश्च ख्यापयतीति वन्दनादीनामीदृशं हितं भवति । यदब्रवीः वन्दनादयः परगुणवैकल्यकरा इति । तदयुक्तम् । वन्दनं भक्तिचित्तेन [क्रियते] । न तीर्थिकानामिव परापकर्षार्थतया तदाचर्यते । यथा च वस्त्रदानं यद्यपि परं हापयति । तथापि परगुणापकर्षकमेव । तथा च वस्त्रदानेनापि न पुण्यं भवेत् । अतो वन्दनादीनां गभीरचेतनेन सभव्यमाचरणं स्यात् । यथोक्तं सूत्रे- एको भिक्षुः स्नानगृहे अन्यस्य देहं हस्तेन मार्जयति स्म । [एतच्छृत्वा] भगवान् भिक्षूनामन्त्र्याह- अयमुपसेवको भिक्षुरर्हन् । उपसेव्यमानस्तु भिन्नशीलः । तथा शिक्षयथ यूयम् । न सिंहेन श्वादय उपसेव्यन्त इति ।
यद्भवानाह- न च चित्तमात्रेण पुण्यं लभत इति । तत्र चित्तं हि सर्वगुणानां मूलम् । यत् कश्चित्परस्योपकारं चकार करोति करिष्यति वा सर्वं तत् कुशलचित्तमूलकम् । यच्च परस्यापकारं चकार करोति करिष्यति वा सर्वं तदकुशलचित्तमूलकम् । करुणाचारी च करुणाचित्तविपाकेन सर्वेषामुपकरोति यदुत चण्डवातवृष्ट्यनुपतने ऽपि सूर्याचन्द्रमसौ नक्षत्राणि च न भ्रश्यन्ति सदा चरन्ति च । न महासमुद्रमुद्वेलयति । न च महाग्निर्दहति । नापि चण्डवात उत्प्लावयति । इदं सर्वं करुणाविपाकबलम् । यथोक्तं सूत्रे- यदि सर्वे लोकाः करुणाचित्तमाचरन्ति । तदा कामाः स्वाभाविकाः स्युः इति । यद्ब्रवीषि चैत्यविहारधनापहारे न पापं स्यादिति । तत् स पुरुषः सत्त्वचित्तेन तदपहरति । यच्चैत्यधनमपहरति । तत्प्रत्ययेन अपकर्षकरणे ऽकरणे वा सर्वथा तदाधिपत्येन पापं लभते । भगवति पिडाजननान्न पापमस्तीति भवतो यदि मतम् । तदा [कश्चित्] वाक्पारुष्यादिभिरर्हन्तं योजयति । न तदर्हतो दुःखं जनयति । तस्यापि न पापं भवेत् ।
यब्द्रवीषि- अनभिमुखनिन्दने न भवेत्पापमिति । तदयुक्तम् । अकुशलचित्तेन तत्र प्रयुज्यते । अकुशलचित्तवत्त्वात् तस्मिन् शृण्वति अशृण्वति वावश्यं दुःखं जनयेत् । अतः पापं लभते । यदुक्तं दुष्टचित्त[मात्र]मुत्पाद्य कायवाक्कर्माकुर्वतो न भवेत्पापमिति । ( स्स्स्_242 ) तदपि न युक्तम् । परपीडनायाविशुद्धाकुशलचित्तत्वात् [पापं] जनयत्येव । यदि परप्रबोधितो जानाति तदा तस्यावश्यं दुःखोपायासो जायेत एव । यथा चोर आगत्य परधनमपहरति । तदा [स्वामी] प्रबुध्य यद्यपि न जानाति तथापि तस्य [पश्चात्] पीडां करोत्येव । यद्ब्रवीषी आत्महननमात्मनिन्दनञ्च पापकरमिति । तदयुक्तम । यदि स्वदेहं दुःखयन् पापभाक् भवति । तदा न को ऽपि सुजन्मस्थानं प्राप्नुयात् । कस्मात् । जना हि चतुर्ष्विर्यापथेषु स्वदेहं दुःखयन्ति । तथा च सर्वे सत्त्वाः सदा पापं लभेरन् यथा परपीडना जनाः । अतो न कश्चित्सुस्थाने जायेत । न ह्येतद्युज्यते । अतो न स्वदेहमात्रात्पुण्यं पापं वास्तीति ज्ञातव्यम् । मार्गहेतुत्वाद्विनये शीलमिदं परिबद्धं यः क्लिष्टचित्तेनात्मानं हन्ति न संक्लेशात्पापं लभत इति ।
अव्याकृतं कर्मेति । यत्कर्म न कुशलमकुशलं वा न परसत्त्वानामुपकारकं नापकारकं तदव्याकृतमित्युच्यते । (पृ) कस्मादव्याकृतमिति नाम । (उ) तत्कर्म निरुच्यते । यत्कर्म न कुशलं नाकुशलं तदव्याकृतमिति वदन्ति । कुशलमकुशलञ्च कर्म विपाकप्रापकम् । नैतत्कर्म विपाकप्रापकमित्यव्याकृतम् । कस्मात् । कुशलमकुशलञ्च कर्म प्रबलम् । इदन्तु दुर्बलम् । यथा पूतिबीजं नाङ्कुरं प्ररोहयति । विपाको द्विविधः । कुशलं प्रियविपाकम् अकुशलमप्रियविपाकम् । अव्याकृतन्त्वविपाकम् । (पृ) तत्र न प्रिय नाप्रियोपादानं तदव्याकृतविपाकमस्तु । को दोषः । (उ) भगवानाह- द्विधा विपाकः मिथ्याकायचर्या अप्रियविपाकप्रापिणी सम्यक्कायचर्या प्रियविपाकप्रापिणीति । न त्वाह अनयोरुदासीनमस्तीति । पुण्यं प्रियलाभमनोज्ञस्मृतिविपाकम् । पापं तद्विपरीतम् । सुखदुःखे पुण्यपापयोर्विपाकौ । अदुःखासुखञ्च सुचरितविपाकः । अतो ज्ञायते नास्त्यव्याकृतविपाक इति ।
त्रिविधकर्मवर्गः शततमः ।
101 दुश्चरितवर्गः
भगवानाह- त्रीणि दुश्चरितानि कायदुश्चरितं वाग्दुश्चरितं मनोदुश्चरितं इति । कायाभिसंस्कृतमकुशलं कायदुश्चरितम् । तत् द्विविधम् (1) एकं दशाकुशलकर्मपथसङ्गृहीतम् । ( स्स्स्_243 ) यथा प्राणातिपातादत्तादानकाममिथ्याचाराः । अपरं तदसङ्गृहीतम् । यथा कशादण्डाधातबन्धनस्वदारगमनादयः अकुशलकर्मपथपूर्वोत्तरदुष्कर्माणि च । (पृ) प्राणातिपातादीनि त्रीण्यकुशलकर्माणि किं केवलकायिककर्मस्वभावानि । (उ) हननपापं हननाकुशलकर्मेत्युच्यते । पापमिदं स्वकायेनापि क्रियते यत्र स्वकायेन सत्त्वान् हन्ति । वाचापि क्रियते यत्न सत्त्वान् हन्तुं परमाज्ञापयति । मनसापि क्रियते यत् कश्चिच्चित्तमुत्पादयति येन परो म्रियते । एवमदत्तादानकाममिथ्याचारपापे ऽपि । स्वकृतन्तु पूर्णं पापं लभते । कायाकुशलं कर्म कायात्मकं वागात्मकं वा । कदाचिच्चित्तोत्पादे परो जानाति अनेन प्रत्ययेनापि पापकरं प्राणातिपातादि कुर्यादिति । भूयसा कायकृतत्वात्कायिकं कर्मेत्याख्या । एवं वाङ्मिथ्याचरितमपि । वाचाभिसंस्कृतमकुशलं कर्म वाङ्मिथ्याचरितम् । तस्यापि द्वैविध्यम् । यत् केनचित्प्रश्ने स्थापिते तं पुरत एव वञ्चयति । तदकुशलकर्मपथसङ्गृहीतम् । अन्यत्तदसङ्गृहीतम् । अभिध्याव्यापादमिथ्यादृष्ट्यादयो मानसमिथ्याचरितम् ।
(पृ) दशाकुशलकर्मपथानां कस्मान्मिथ्यादृष्टिरित्याख्या त्रयाणामकुशलमूलानां संमोह इति । (उ) मिथ्यादृष्टिरिति संमोहस्य नामान्तरम् । संमोहविवृद्धि साररूपा मिथ्यादृष्टिः । न पुनः संमोहस्य लक्षणान्तरमस्ति । अभिष्वङ्गविपर्यासमात्रं संमोहः । (पृ) सूत्र उक्तं- सर्वाणि दुश्चरितानि अप्रियविपाककराणि सुचरितानि प्रियविपाककराणीति । प्रियाप्रियलक्षणञ्चानियतम् । यथैकमेव रूपं [कस्यचित्] प्रियं भवति [अन्यस्या] प्रियं भवति । अतस्तल्लक्षणं विवेचनीयं स्यात् । (उ) सुखमेव प्रियलक्षणम् । यथोक्तं सूत्रे- पुण्यविपाकः सुखमिति । दुःखमप्रियलक्षणम् । यथोक्तं सूत्रे- पापात्सञ्जातभीतिका भवथ । दुःखहेतुत्वात् इति । (पृ) सुखमेव प्रियलक्षणम् । श्ववराहादयो ऽन्नपुरीषेण सुखीभवन्ति । किमिदं पुण्यफलम् । (उ) इदमविशुद्धपुण्यफलम् । यथोक्तं कर्मसूत्रे- यदकाले ददाति अशुचिर्ददाति । लघुचित्तेन कलुषितचित्तेन अक्षेत्रे च ददाति । एवमादिदानेन तद्विपाकं लभत इति ।
(पृ) सम्यक् चरितानि प्रियविपाककराणीति सूत्र उक्त्वा कस्मात्पुनरुच्यते सुचरितप्रत्ययं स्वर्ग उत्पद्यत इति । (उ) मिथ्याचार्यपि स्वर्ग उत्पद्यते । केचिद्वदन्ति स्वर्ग उपपत्तिर्दुश्चरितविपाक इति । अतः सूत्रे पुनरुच्यते सुचरितप्रत्ययं स्वर्ग उपपद्यत इति । दुश्चरितसुचरिते कुशलाकुशलगतिककायं प्रापयतः गृहीतकायस्तत्र सुखं दुःखं वा ( स्स्स्_244 ) वेदयते । यथा दुश्चरितप्रत्ययं दुर्गतौ दुःखं वेदयते । सुचरितप्रत्ययं देवेषु मनुष्येषु वा सुखं वेदयते ॥
दुश्चरितवर्ग एकोत्तरशततमः ।
102 सुचरितवर्गः
कायकृतं कुशलं कायसुचरितम् । तथा वाङ्मनसोरपि । प्राणातिपाताद्यकुशलकर्मत्रयविरतिः कायसुचरितम् । वाग्दोषचतुष्टयविरतिर्वाक्सुचरितम् । मानसाकुशलत्रयविरतिर्मनस्सुचरितम् । इवास्तिस्रो विरतयः संवरसङ्गृहीताः यदुत शीलध्यानानास्रवसंवराः । यद्वन्दनवस्त्रदानादि कुशलं कायिकं कर्म तत् कायसुचरितम् । यत् सत्यभाषणमृदुभाषणादि तत् वाक्सुचरितम् । अनभिध्यादि मानसं कर्म मनःसुचरितम् । इमानि त्रीणि सु चरितानि ।
(पृ) तीर्थिका ज्ञप्तिं विना प्रातिमोक्षशीलभाजो भवन्ति । ते शीलसंवरं लभन्ते न वा । (उ) तीर्थिकाश्चित्ततः शीलसंवरमुत्पादयन्ति । केचित् वाचापि गृह्णन्ति । अन्ये ऽपि शीलसंवरसङ्गृहीतं सुचरितं लभन्ते यथा दशवर्षायुष्कस्य पुरुषस्य प्राणातिपातविरतिसमादानाद्विंशतिवर्षायुष्कः पुत्र उत्पद्यते ।
(पृ) सूत्र उक्तं- सुचरितं विशुद्धचरितं व्युपशमचरितमिति । तेषां को भेदः । (उ) आभिधार्मिका आहुः- पृथग्जनानां यत् कायिकं वाचिकं मानसं कुशलं कर्म तत् सुचरितमित्युच्यते । शैक्षाणां संयोजनप्रहाणात्तदेव सुचरितं विशुद्धचरितमित्युच्यते । अशैक्षाणां प्रहीणसंयोजनानां विसंयोजनिकव्यवहारत्वात् [तदेव]व्युपशमचरितम् । अशैक्षा अत्यन्तानुत्पन्नाकुशलकर्मका इत्यतो व्युपशमचरिता इत्युच्यन्ते । यथोक्तं- कायव्युपशमो वाग्व्युपशमो मनोव्युपशम इति । केचिदाहुः- इमानि त्रीणि चरितानि एकस्यैवार्थस्यविभिन्नानि नामानि । किन्तु तद्भव्यतानुरूपत्वात् सम्यगिति शंस्यते । क्लेशैर्विविक्तत्वाद्विशुद्धमिति वदन्ति । सर्वाकुशलविविक्तत्वात् व्युपशम इति । तानि त्रीण्यपि नार्थतो भिन्नानि ।
(पृ) आभिधर्मिका आहुः- चित्तमेव व्युपशमचरितं न चेतनेति । कथमयमर्थः । (उ) त्रीणि चरितान्यपि चित्तमेव । कस्मात् । चित्तव्यातिरिक्ता नास्ति चेतना । नास्ति च कायवाक्कर्म । (पृ) सूत्र उक्तंं- सुचरितदृष्टिसम्पन्नो देवदृशो वा भवति देवसंख्यातदृशो वा भवति । न सर्वे सुचरिता देवेषूपपद्यन्त इति । कस्मादेवं विनिश्चयः । (उ) देवसंख्यातेति वचनादिदं ज्ञापितम् । सुचरीतशाली यद्यपि नावश्यं देवेषूत्पद्यते तथापि य आर्यबहुमतस्थान उत्पद्यते । स देवसरूप इत्यतो देवसंख्यातदृश इत्युच्यते । सर्वे सुचरितवन्तो देवेषूत्पद्येरन् । केचिदन्यप्रत्ययैर्विनिष्टा नोत्पद्येरन् । यत् सम्यङ्मिथ्याव्यामिश्रं सुचरितं [तत्र] मिथ्याचरितस्य प्राबल्यान्न देवेषूत्पद्यन्ते । यथोक्तं सूत्रे- भगवानानन्दमवोचत्- पश्याम्यहं केचन त्रीणि सुरितानि चरन्तो ऽपि दुर्गतावुत्पद्यन्ते । तत् तेषां पूर्वाध्वगतदुश्चरितस्य फलविपाक इति । इदानीं सुचरितस्यापि अपरिपूर्णत्वान्मरण उपस्थिते मिथ्यादृष्टेश्चित्ताभिमुख्याद्दर्गतौ पतन्ति । दुश्चरितशाली सुस्थान उत्पद्यत इतीद मप्येवम् । अतः पृथग्जनत्वमश्रद्धेयम् । प्रबलकर्मवशादुपपत्तिविभेदं वेदयत इति ज्ञातव्यम् ॥
सुचरितवर्गो द्वयुत्तरशततमः ।
103 प्रतिसंयुक्तकर्मवर्गः
(पृ) सूत्र उक्तं- त्रिविधं कर्म कामधातुप्रतिसंयुक्तं कर्म रूपधातुप्रतिसंयुक्तं कर्म अरूप्यधातुप्रतिसंयुक्तं कर्मेति । कानीमानि । (उ) यत् कर्म आनरकादाच परनिर्मितवशवर्तिदेवादन्तराले विपाकवेदकं तत्कामधातुप्रतिसंयुक्तं कर्म । आब्रह्मलोकादाकनिष्ठाच्चान्तराले विपाकवेदकं कर्म रूपधातुप्रतिसंयुक्तं कर्म । आकाशानन्त्यायतनादानैवसंज्ञानासंज्ञायतनाच्चान्तराले विपाकवेदकं आरूप्यधातुप्रतिसंयुक्तं कर्म । (पृ) अव्याकृतं कर्म अनियतविपाकञ्च कर्म किमेतेषु नान्तर्गतम् । (उ) तत्कर्मविपाकश्च कामधातुप्रतिसंयुक्तः । कस्मात् । तस्य धर्मस्य कामधातुकविपाकत्वात् । (पृ) ननु कामधातुकधर्माः सर्वे तत्कर्मविपाकाः । अतो न युज्यते । (उ) सर्वे च कामधातुकधर्माः कामधातुककर्मविपाका एव । (पृ) तथा चेदिदं तीर्थिकशास्त्रं यदुत सर्वप्रतिसंवेद्यं सुखं दुःखञ्च पूर्वकर्महेतुप्रत्ययं भवतीति । पूर्वकर्मविपाको यदुत कुशलमकुशलं कर्म सविपाकमविपाकमिति व्यवसायगुणस्य नास्ति यत्किञ्चनप्रयोजनम् । यदि सर्वं कर्मविपाकः । कः पुनः प्रयासे गुणः । यस्य ( स्स्स्_246 ) क्लेशाः कर्माणि कर्मविपाकाश्च सन्ति तस्य विमुक्तिर्नास्ति । कर्मविपाकस्याक्षीणत्वात् । उच्यते । यदुक्तं इदं तीर्थिकशास्त्रमिति । तदयुक्तम् । तीर्थिका हि वदन्ति सुखं दुःखं परत्वमपरत्वं पूर्वविपाकमात्रमिति । तथा च न स्यात्प्रत्युत्पन्नप्रत्ययापेक्षा । पश्यामस्तु वस्तुतः पदार्थाः प्रत्युत्पन्नेभ्यः प्रत्ययेभ्यः समुत्पद्यन्ते यथा बीजाङ्कुरादय इति । अतो न वक्तव्यं सर्वं पूर्वकर्मप्रत्ययाधीनमिति । हेतुप्रत्ययाभ्यञ्च वस्तून्युत्पद्यन्ते यथा बीजहेतुकाः पृथिव्यबाकाशकालादिप्रत्यया [अड्कुरादयः] । चक्षुर्विज्ञानञ्च कर्महेतुकं चक्षूरूपादिप्रत्ययम् । अतो न तीर्थिकमिथ्याशास्त्रसाम्यम् । यद्ब्रवीषि पूर्वकर्मविपाक इत्यादि । तदयुक्तम् । प्रत्यक्षं खलु फलात्फलसन्ततिरुत्पद्यत इति । यथा ब्रीहिभ्यो ब्रीहयः । एवं विपाकाद्विपाकोत्पत्तौ को दोषः । यथा अजातपुत्रस्य च चटकचक्रवाकादीनाञ्च कामः, सर्पादिनां कोपः, तत्सर्वं पूर्वकर्मविपाक इति ज्ञेयम् ।
(पृ) यदि विपाकाद्विपाक उत्पद्यते । तदानवस्था स्यात् । (उ) कर्मविपाकास्त्रिविधाः कुशलो ऽकुशलो ऽव्याकृत इति । कुशलाकुशलाभ्यां विपाक उत्पद्यते नाव्याकृतादित्यतो नानवस्था । यथा ब्रीहिभ्यो व्रीहय उत्पद्यन्ते । तत्र बीजादङ्कुर उत्पद्यते न तु तुषादिभ्यः । एवं कुशलाकुशलविपाकाद्विपाक उत्पद्यते नाव्याकृतविपाकात् । यदुक्तं भवता प्रयासे न गुण इति । यद्यपि कर्मणो विपाक उत्पद्यते । तथापि अवश्यं यथाशक्ति पश्चात्संसिध्यति । यथा सस्यकर्मतः सस्यमुत्पद्यते । तथापि बीजाद्यपेक्ष्य तत् सिध्यति । यदाह भवान्- न विमुक्तिर्भवेदिति । तदप्ययुक्तम् । तत्त्वज्ञानलाभात्कर्माणि क्षीयन्ते । तद्यथा दग्धं बीजं न पुनः प्ररोहति । अतो नास्ति विमुक्तेर्दोषः । किञ्च य उत्पन्ना धर्माः सर्वे ते कर्ममूलकाः । यदि नास्ति कर्ममूलं, कथमुत्पद्येत । धर्माणामुत्पादे ऽस्ति प्रतिनियतमङ्गम् । यथायं धर्मो नियमेन एतत्पुरुषकायादुत्पद्यते नान्यकायात् । यदि नास्ति कर्ममूलं, कथमेवं प्रतिनियतविभागः स्यात् ।
(पृ) धर्मा हेतुमात्रजाः । यथा माषान्माष उत्पद्यते । [एवं सति] को दोषः । (उ) तदपि कर्ममूलकम् । माषकर्मप्रत्ययलाभान्माषान्माष उत्पद्यते । केनेदं ज्ञायते । पुरा किल जनाः कुशलमाचरितवन्त इत्यतः शालितण्डुलाः स्वत अजायन्त । अतो ज्ञायते कर्मभूलकत्वात् माषान्माषो जायत इति । (पृ) ननु सत्त्वसंख्यातं वस्तु खलु पूर्वकर्मजम् । (उ) मैवम् असत्त्वसंख्यातं वस्त्वपि कर्ममूलकम् । सर्वसत्त्वानां साधारणकर्मविपाको यदुत ( स्स्स्_247 ) चङ्क्रमणास्थानकर्मप्रत्ययलाभात् क्षित्यादयो भवन्ति । प्रकाशकर्मप्रत्ययलाभाच्चन्द्रसूर्यादयो भवन्ति इति ज्ञातव्यं जन्यं वस्तु सर्वं कर्ममूलकमिति । (पृ) यदि जन्यधर्माः कर्ममूलकाः । संस्कृतो ऽनास्रवः कथम् । (उ) सो ऽपि कर्ममूलकः । कस्मात् । सर्वं पूर्वाध्वगतदानशीलादिवलाधीनम् । अतो ऽपि कर्मादिसम्भूतम् । (पृ) यद्यनास्रवधर्मो ऽपि कर्मसम्भूतः । सो ऽपि प्रतिसंयुक्तधर्म इत्याख्या स्यात् । तत्तु न सम्भवति । उक्तं हि सूत्रे- अस्ति अप्रसंयुक्ता वेदेनेति । (उ) अनास्रवधर्मस्तत्त्वज्ञानहेतुकः कर्मप्रत्ययकः । हेतुबलमहिम्ना तु अप्रतिसंयुक्त इत्युच्यते ।
(पृ) किं कर्म कामधातुविपाकवेदकम् । किं रूपधातुविपाकवेदकम् । किमारूप्यधातुविपाकवेदकम् । (उ) यः कामरूपारूप्यधातुषु दशाकुशलकर्माणि समुत्पादयति स कामधातौ विपाकं वेदयते । (पृ) रूपारूप्यधातुगतो ऽपि किमकुशलं कर्म समुत्पादयति । (उ) तत्राप्यकुशलं कर्म समुत्पादयति । यथोक्तं सूत्रे- तत्रास्ति मिथ्यादृष्टिरिति । मिथ्यादृष्टिः किं नाकुशला । (पृ) तत्र मिथ्यादृष्टिरव्याकृता नत्वकुशला । (उ) नाव्याकृता । केनैतत् ज्ञायते । उक्तं हि सूत्रे भगवता- मिथ्यादृष्टिर्दुःखक्लेशानां हेतुरिति । मिथ्यादर्शिना समुत्पादितानि कायवाङ्मनस्कर्माणि दुःखविपाकायभिसंस्क्रियन्ते । यथा तिक्तकारवेल्ले विद्यमानानि चत्वारि महाभूतानि सर्वाणि तिक्तरसानि भवन्ति । यथा कामधातौ मिथ्यादृष्टिरकुशला । रूपारूप्यधात्वोरपि तल्लक्षणा अकुशला स्यात् । लक्षणसाम्यात् । यथा बको ब्रह्मा ब्रह्माणमामन्त्रयाह- मोपगच्छ श्रमणं गौतमम् । अस्माल्लोकादुत्तारयाम इति । इदं मनोवागकुशलं रूपधातौ समुत्पन्नम् । अन्ये ऽपि ब्रह्म [कायिका] देवाः तत्र भवन्तं तादृशं पुरुषं दूषयन्ति । रूपारूप्यधातुगताः पुरुषा वदन्ति- इदमेव निर्वाणमिति । आयुषो ऽन्ते कामरूपयोरन्तराभवमेव पश्यन्ति । इतो ऽन्यन्निर्वाणं नास्तीति मिथ्यादृष्टिरुत्पन्नेति अनुत्तमधर्मापवादात्कथं नाकुशलम् । अनेन ज्ञातव्यं तत्रास्त्यकुशलं कर्मेति । (पृ) यदि तत्राकुशलं कर्मोत्पादयन्ति । तत्कर्म किंस्थानप्रतिसंयुक्तम् । (उ) यदीदमकुशलं कर्म तदा कामधातौ विपाकं वेदयत इत्यतः कामधातुप्रतिसंयुक्तम् ।
कुशलं कर्मास्ति उत्तमं मध्यममधममिति । अधमं कामधातुवेदनीयविपाकम् । मध्यमं रूपधातुवेदनीयविपाकम् । उत्तममारूप्यधातुवेदनीयविपाकम् । केचिदाहुः- ( स्स्स्_248 ) चतुर्थध्यानसङ्गृहीतं कुशलं कर्म रूपधातुवेदनीयविपाकम् । चतुरारूप्यसमाधिसङ्गृहीतमारूप्यवेदनीयविपाकम् । अन्यद्विक्षिप्तचित्तसमुत्पादितं कर्म कामधातुवेदनीयविपाकम् । इति । (पृ) कथं तत्र समुत्पादितं कुशलं कर्म कामधातुवेदनीयविपाकं भवेत् । (उ) यथास्मिन् लोके समाहितचित्तसमुत्पादितकुशलकर्मणस्तत्र विपाकं वेदयते । तथा तत्र विक्षिप्तचित्तसमुत्पादितकुशलकर्मणो ऽस्मिन् लोके विपाकं वेदयते । यथा च रूपारूप्यधातुसमुत्पादिताकुशलकर्मणः कामधातौ विपाकं वेदयते । तथा तत्र समुत्पादितकुशलकर्मणो ऽपि ।
(पृ) यो रूपारूप्यधातुगतः न स उत्पादयति कामधातुप्रतिसंयुक्तं कुशलं कर्म । (उ) तत्र नास्त्ययं हेतुः यत् कामधातुगतो रूपारूप्य[प्रतिसंयुक्तं] कुशलं कर्मैव समुत्पादयति न रूपारूप्यधातुगतः कामधातुप्रतिसंयुक्तं कुशलं कर्म समुत्पादयति इति । उच्यते च युष्माभिः कामधातुगतः कामधातुकमव्याकृतं चित्तं समुत्पादयतीति । यद्यव्याकृतं चित्तं समुत्पादयति । कस्मान्न कुचलं चित्तम् । सूत्रे भगवान् हस्तकदेवपुत्रमेतदवोचत्- चित्तविहरणे औदारिकवेदनासंज्ञां मनसिकुरु इति । औदारिकसंज्ञा कामधातुप्रतिसंयुक्तं चित्तमेव । अयं कुशलचित्तेन यत् धर्मं शृणोति बुद्धं पूजयति तत् सर्वं कामधातुप्रतिसंयुक्तं चित्तम् । तथा नो चेत् औदारिकसंज्ञेति नाख्या स्यात् । तत्रानुस्मृतिप्रार्थना पुण्यवस्तु । यथाह भगवान् त्रिषु वस्तुषु अतृप्तो ऽस्मिन् लोके आयुषो ऽन्ते ऽनवतप्तदेवेषूपपत्स्ये यदुत तथागतं पश्यामि धर्मं शृणोमि सङ्घं सत्करोमीति । [तत्र] अनुस्मृतिप्रार्थना पुण्यवस्तु कामधातुप्रतिसंयुक्तं चित्तम् । तत्रास्ति बुद्धानुस्मृतिः न पुण्यवस्तु । अतो ज्ञेयं कामधातुप्रतिसंयुक्तं कुशलमस्तीति ।
प्रतिसंयुक्तमकर्मवर्गस्त्रयुत्तरशततमः ।
104 त्रिविधकर्मविपाकवर्गः
(पृ) सूत्रे भगवानाह- त्रिविधं कर्म दृष्टधर्मवेदनीयविपाकं, उपपद्यवेदनीयविपाकं ऊर्ध्ववेदनीयविपाकमिति । किमिदम् । यदेतत्कायाभिसंस्कृतं कर्म एतत्काय एव ( स्स्स्_249 ) वेद्यते । तद् दृष्टधर्मवेदनीयविपाकम् । यदेतल्लोकाभिसंस्कृतं कर्म समनन्तरलोकमतीत्य वेद्यते तदूर्ध्ववेदनीयविपाकम् । [यत्] समनन्तरलोकातीतं तदूर्ध्वमित्युच्यते । (पृ) अन्तराभविककर्मविपाकः कस्मिन् स्थाने वेद्यते । (उ) स्थानद्वये वेद्यते । समनन्तरान्तराभविकं कर्म उपपद्यविपाकस्थाने वेद्यते । उपपत्तिविशेषस्यैवान्तराभवत्वात् । अन्यान्तराभविकं कर्म ऊर्ध्वविपाकस्थाने वेद्यते । (पृ) किमेतानि त्रीणि कर्माणि नियतविपाकानि नियतकालानि च । (उ) केचिदाहुः- नियतविपाकानीति । दृष्टविपाकं कर्मावश्यं दृष्ट एव वेदनीयविपाकम् । तथान्यत् द्वयमपि । सतो ऽपीदृशवचनस्यार्थो न युज्यते । कस्मात् । तथा चेत् पञ्चानन्तर्याणि नियतविपाकानीति न स्यात् । षट् पादाभिधर्मे तूक्तं पञ्चानन्तर्याणि नियतविपाकानीति । लवणपलोपमसूत्रे पुनरुक्तम्- अनियतविपाकानीति यत्किञ्चनास्ति नरकवेदनीयविपाकम् । इहैकत्यः पुद्गलः भावितकायो भवति । भवितशीलो भावितचित्तो भावितप्रज्ञो भवति । तस्य तत्कर्म दृष्टधर्मवेदनीयं भवति । तस्मात्त्रिविधकर्मणां नियतकालतया भाव्यम् । दृष्टधर्मवेदनीयविपाकं कर्म नावश्यं दृष्टधर्म एव वेद्यते । वेद्यते चेत् दृष्टधर्म एव वेदनीयं स्यात् नान्यत्र । एवमन्यत् द्वयमपि ।
(पृ) केन कर्मणा दृष्टधर्मे विपाकं वेदयते । (उ) केचिदाहुः- व्याध्यर्थकर्मणो दृष्टधर्म एव विपाकं वेदयते । यथा तथागत आर्येषु मातापित्रादिषु समुत्पादितं यत् कुशलमकुशलं कर्म तत् दृष्टधर्मवेदनीयविपाकम् । यदनर्थगुरु तदुपपद्यवेदनीयविपाकम् । यथा पञ्चानन्तर्यादीनि । यदर्थ गुरु च तदूर्ध्ववेदनीयविपाकम् । यथा चक्रवर्तिनः कर्म बोधिसत्त्वस्य वा कर्म । केचिदाहुः- त्रिविधकर्मणामेषां यथाप्रणिधानं विपाकं वेदयत इति । यत् कर्म प्रणिदधाति इहैवाध्वनि वेदयेयमिति । तत् दृष्टधर्मवेदनीयम् । यथा मल्लिकादेवी स्वान्नभागदानेन प्रणिदधाति दृष्ट एवाध्वनि राजमहिषी भवेयमिति । एवमन्यत् कर्मद्वयमपि । यथाकर्मपरिपाकं पूर्वं वेदयते । (पृ) अतीतं कर्म कथं परिपच्यते । (उ) गुरुत्वलक्षणसम्पदेव परिपाक इत्युच्यते । (पृ) यस्मिन् क्षणे कर्मोत्पद्यते तत्समनन्तरक्षण एव किं विपाको वेद्यते । (उ) न । क्रमेणैव वेद्यते । यथा बीजात्क्रमेणाङ्कुरः प्ररोहति । कर्मापि तथा ।
यो गर्भमध्यस्थो ये च मिद्धोन्मत्तादयः ते कर्म सञ्चिन्वन्ति न वा (उ) ते सचेतनाश्चेत् कर्मोपचिन्वन्ति । किन्तु न [ते चेतना] सम्पन्नाः । (पृ) यो ऽस्यां भूमौ वीतरागः स पृथिवीकर्म करोति न वा । (उ) सात्मचित्ताः सर्वे ऽपि तत् कर्मोपचिन्वन्ति । आत्मचित्तविगतास्तु नोपचिन्वन्ति । (पृ) अर्हन्नपि वन्दनकर्माभ्यस्यति । तत्कर्म कस्मान्नोपचिनोति । (उ) यस्मात् सत्त्वचित्तः तस्मात् कर्माण्युपचिनोति । अर्हन्नात्मचित्तविहीन इत्यतः कर्माणि नोपचिनोति । अर्हन्ननास्रवचित्तः । यो ऽनास्रवचित्तः न स कर्माण्युपचिनोति । उक्तञ्च सूत्रे- प्रहीणपुण्यपापकर्मको ऽर्हन्निति स नोपचिनोति पुण्यकर्माणि अपुण्यकर्माण्यानेञ्ज्यकर्माणि च । अतो वेदनापर्यवसन्नं कर्मेति न नूत्नं कर्माभिसंस्करोति ।
(पृ) शैक्षाः कर्माण्युपचिन्वन्ति न वा । (उ) नोपचिन्वन्ति । कस्मात् । सूत्रे ह्युक्तं- स कर्माणि विध्वस्य न सञ्चिनोति नोपचिनोति निरुद्धं न तथा भवति इत्यादि । आभिधार्मिका वदन्ति- शैक्षाः सास्मिमानत्वात्कर्माण्यप्युपचिन्वन्ति । नैरात्म्यज्ञानबलेन परं नावश्यं वेदयन्ते विपाकमिति ।
(पृ) इमानि कर्माणि कस्मिन् धातावभिसंस्क्रियन्ते । (उ) सर्वत्र त्रिष्वपि धातुषु (पृ) अनियतं कर्म किमस्ति किं वा नास्ति । (उ) अस्ति । यत् कर्म दृष्टधर्मवेदनीयविपाकं वा उपपद्यवेदनीयविपाकं वा तदूर्ध्ववेदनीयविपाकं वा भवति । तद नियतमित्युच्यते । एवं कर्माणि बहूनि ।
(पृ) य इमानि त्रीणि कर्माणि प्रजानाति । तस्य क उपकारो भवति । (उ) य इमानि त्रिविधकर्माणि विवेचयति स सम्यग्दृष्टिमुत्पादयति । कस्मात् । पश्यामः खलु केचिदकुशलचारिणो ऽपि प्रभूतं सुखमनुभवति । कुशलचारिणो दुःखम् । उदासीनस्य कदाचिन्मिथ्यादृष्टिर्भवेत् यदुत कुशलस्याकुशलस्य वा नास्ति विपाक इति । यस्तेषां कर्मणां विभागं प्रजानाति । तस्य सम्यग्दृष्टिर्भवति । यथोक्तं गाथायाम्-
पापो ऽपि पश्यति भद्राणि यावत्पापं न पच्यते ।
यदा च पच्यते पापमथ पापो पापानि पश्यति ॥
भद्रो ऽपि पश्यति पापानि यावद्भद्रं न पच्यते ।
यदा च पच्यते भद्रमथ भद्रो भद्राणि पश्यति ॥
महाकर्मविभङ्गसूत्रमाह- अविरतप्राणिवधो ऽपि स्वर्ग उत्पद्यते । यः पूर्वाध्वनि पुण्यवान् सन् आयुषो ऽन्ते प्रबलकुशलचित्तमुत्पादयति इति । एवं प्रजानन् सम्यग्दृष्टिमुत्पादयति । अत एषां त्रयाणां कर्मणां लक्षणं प्रजानीयात् ॥
त्रिविधकर्मविपाकवर्गश्चतुरुत्तरशततमः ।
105 त्रिविधकर्मविपाकवेदनावर्गः
(पृ) सूत्रे भगवानाह- त्रिविधं कर्म सुखविपाकं, दुःखविपाकमदुःखासुखविपाकमिति । किमिदम् । (उ) कुशलं कर्म सुखविपाकप्रापकम् । अकुशलं कर्म दुःखविपाकप्रापकम् । अनेञ्ज्यं कर्म अदुःखासुखविपाकम् । तत्कर्म नावश्यं नियतवेदनम् । यदि वेदना भवति । तदा सुखविपाकं वेदयते । न दुःखविपाकम् इत्यादि । तथान्यत् द्वयमपि । (पृ) तानि कर्माणि रूपविपाकप्रापकान्यपि भवन्ति । कस्मादुक्तं [सुखादि]वेदनामात्रम् । (उ) विपाकेषु वेदना प्रधाना । वेदनैव वस्तुतो विपाकः । रूपादि तु तत्साधनम् । वेदनाप्रत्ययेषु वेदनेति व्यवहारः । यथोच्यते अग्निर्दुःखमग्निः सुखमिति । हेतौ फलोपचारः यथान्नस्य दाता पञ्चार्थानां दातेति । यथा चान्नं धनम् इत्यादि । (पृ) कामधातुमारभ्य यावत्तृतीयध्यानं किमदुःखासुखवेदनाविपाको लभ्यते । (उ) लभ्येतैव वेदना । (पृ) कस्य कर्मणो विपाको ऽयम् । (उ) अवरकुशलकर्मणो विपाकः । उत्तमकुशलकर्मणस्तु सुखवेदनाविपाकः । (पृ) तथा चेत्कस्माच्चतुर्थध्यान आरूप्यसमापत्तौ [अदुःखासुखवेदनाविपाक] उच्यते । (उ) स्वभूमिकः सः । कस्मात् । तत्रायमेव विपाको ऽस्ति । न पुनर्विपाकान्तरम् । सूपशान्तत्वात् ।
केचिदाहुः- दौर्मनस्यं न विपाक इति । कथमिदम् । (उ) कस्मान्न भवति । (पृ) दौर्मनस्यं संज्ञाविकल्पमात्रादुत्पद्यते । [कर्म]
विपाकस्य संज्ञाविकल्पत्वा भावात् । यदि दौर्मनस्यं विपाकः । तदा लघुः स्यात् विपाकः । अतो न विपाकः । दौर्मनस्यं वितरागाणां व्यावर्तते । न विपाको वीतरागाणां व्यावर्तते । अतो दौर्मनस्यं न विपाकः स्यात् । उच्यते । दौर्मनस्यं संज्ञाविकल्पादुत्पद्यत इत्यतो न विपाकः । सुखन्तु विपाक इति ब्रवीषि । द्विविधं सुखम्- सुखं सौमनस्यञ्चेति । तत्र सौमनस्यमपि संज्ञाविकल्पादुत्पद्यत इति न विपाकः स्यात् । भवानाह विपाकस्तर्हि लघुः स्यादिति । दौर्मनस्यमिदं दुःखात् दुःखतरदोषः । कस्मात् । तद्धि मूढानां विद्यते । न तु ज्ञानिनाम् । अतो दुःश्शोधं परमसन्तापकरञ्च । किञ्च चतुश्शतकपरीक्षायामुक्तम्-
अग्र्याणां मानसं दुःखमितरेषां शरीरजम् इति ।
तच्च दौर्मनस्यं ज्ञानप्रहेयं कायिकं सुखं दुःखमपि परिहरति । दौर्मनस्य त्रिष्वध्वसु क्लेशं जनयति यदुत पूर्वमहं दुःखी इदानीं दुःखी आयत्याञ्च दुःखीति । दौर्मनस्यं क्लेशानां प्रतिष्ठायतनम् । यथा सूत्रे क्लेशायतनत्वेनाष्टादश मनौपविचारा भवन्ति । पञ्चविज्ञानानां क्लेशाजनकत्वात् । उक्तञ्च सूत्रे- दौर्मनस्यं द्विशल्यरूपमिति । गुरुतरदुःखवेदनाभूतत्वात् । यथा कश्चिदेकत्र गुरुतरद्विशल्यविद्धो दुःखमधिकतरं प्रतिसंवेदयते । यथा च रोगी कश्चित् [रोग]दुःखाभिहतः पुनः कायचित्तपीडनयात्यधिकदौर्मनस्योपायासो भवति । अतो दुःखादधिकतरं [दौर्मनस्यम्] । मूढा नित्यदौर्मनस्याः । कस्मात् । ते हि प्रियविरहविप्रियसमागमप्रार्थितालभादिमत्त्वात् नित्यदौर्मनस्यपीडिताः ।
तद्दौर्मनस्यं द्वाभ्यां कारणाभ्यामुत्पद्यते एकं सौमनस्यादुत्पद्यते । द्वितीयं दौर्मनस्यात् । तदा प्रियवस्तु प्रणश्यति तदा सौमनस्यजं [दौर्मनस्यम्] । यथोक्तं सूत्रे- भगवान् ( स्स्स्_253 ) प्रसेनजितं राजानमपृच्छत्- अपि त्वं [महाराज] काशीकोसलेषु प्रियो ऽसि इति । उक्तञ्च- देवा रूपासक्ता रूपकामाः रूपे विनष्टे दौर्मनस्यजाता भवन्ति । इति । इदं सौमनस्यादुत्पन्नम् । दौर्मनस्यादुत्पन्नमिति यत् विप्रियवस्तुसमुत्पन्नम् । ईर्ष्यादिभ्यो ऽपि समुत्पद्यते । अवीतरागस्य ईर्ष्यादिसंयोजनानि सदा चित्तं पीडयन्ति । यथोक्तम्- ईर्ष्यामात्सर्य बहुला देवा इति । बहवश्च सत्त्वा दौर्मनस्यकरं परान् सम्पीडयन्तः सदौर्मनस्यसम्पीडनविपाकं लभन्ते । यथोक्तम्- यथाबीजं फलं प्रवर्तत इति । अतो ज्ञायते दौर्मनस्यं कर्मविपाक इति ।
यदुक्तं भवता- वीतरागाणां व्यावृत्तत्वान्न विपाक इति । तदयुक्तम् । स्रोत आपन्नो ऽवीतरागो ऽपि व्यावृत्तनरकादिविपाकः । नरकादिविपाको न विपाक इति किं सम्भवेत् । अतो न सम्भवति वीतरागाणां व्यावृत्तमविपाक इति ।
(पृ) अदुःखासुखं कर्म आनेञ्ज्यम् । तत् कर्म कुशलं सत्सुखवेदनीयविपाकं स्यात् । कस्माददुःखासुखवेदनीयविपाकम् । (उ) वेदनेयमानेञ्ज्येति वस्तुतः सुखम् । उपशमरूपत्वाददुःखासुखेत्युच्यते । उक्तञ्च सूत्रे- सुखवेदनायां रागो ऽनुशय इति । यत्र रागः तद्वेदनायां [सो ऽ]नुशयः । इति ज्ञायत इदं सुखमिति ॥
त्रिविधकर्मविपाकवेदनावर्गः पञ्चोत्तरशततमः ।
106 त्रिविधावरणवर्गः
(पृ) सूत्र उक्तं- त्रीण्यावरणानि कर्मावरणं क्लेशावरणं विपाकावरणमिति । कानीमानि । (उ) कर्माणि क्लेशा विपाकाश्च विमुक्तिमार्गमावृण्वन्तीति आवरणानि । (पृ) किमित्यावृण्वन्ति । (उ) दानशीलकुशलाभ्यासस्त्रिषु भवेषु परिवर्तयतीति स मार्गमावृणोति । समापत्तिवेदनीयं कर्माप्यावरणम् । यथोक्तं सूत्रे- यो ऽयं पुरुषो नितयं समापत्तौ वेदनीयविपाकं कर्मोपचिनोति न स सुपदे ऽवतरति इति । इदं कर्मावरणम् । यत् कस्यचित्क्लेशा घनास्तीव्राश्चित्तगताः तत् क्लेशावरणम् । यत् कस्यचित् क्लेशा अनिवार्याः तद्यथा षण्डादीनां कामः । तदपि क्लेशावरणम् । यन्नरकादौ पापाकुशलोपपत्त्यायतने यथोपपत्त्यायनञ्च न मार्गं भावयति । तत् विपाकावरणम् ।
(पृ) केचित् पूर्वं विद्याविहीनेभ्यः पूर्वपुरुषेभ्यो न प्रजानन्ति इदं कुशलमिति । तदा ते न ददन्ति यत् स यदि मत्तो दानं लब्ध्वा अकुशलानि करोति तदा अहं भागी स्यामिति । यथा ब्राह्मणादयः परिव्राजकाः । अतः परिव्राजको न दद्यात् । नूत्नकर्मणा मार्गप्रतिबन्धात् । (उ) न युक्तमिदम् । नान्यकृतस्य पुण्यं पापमात्मनो भागो भवति । कस्मात् । प्रत्ययानां पुण्यपापवत्त्वे बहून्यवद्यानि सन्ति । किमिति । यथा सत्त्वो वधस्य प्रत्ययः । यदि नास्ति सत्त्वः । कस्य वधः स्यात् । तथा च मृतेन पापिना भाव्यम् । यथा च घनिकश्चौर्यस्य प्रत्ययः । सूरूपं काममिथ्याचारस्य प्रत्ययः । परपुरुषा मृषावादादीनां प्रत्ययाः । कूटमानादयः कुहनायाः प्रत्ययाः इति क्रेतारः पापिनः स्युः । प्रतिग्रहीता दानस्य प्रत्यय इति पुण्यभाक् स्यात् । ये कूपतटाकाद्युपभोक्तारः ते सर्वे पुण्यभाजः स्युः । तथा च स्वस्य पुण्यं न स्यात् । न तत् वस्तुतो युज्यते । अतः प्रत्ययानां न स्यात्पुण्यपापवत्ता ।
[अथ यदि] प्रतिग्रहीतुः स्वपुण्यभागः क्षीयमाणः स्यात् । तदा न कश्चिदन्यस्मात् दानं प्रतिगृह्णीयात् । कस्मात् । स्वपुण्यभागेनान्नपानयोः क्रीयमाणत्वात् । दाता च पापबहुलो ऽल्पपुण्यः स्यात् । कस्मात् । कियत्कुशलं ब्राह्मणाः कुर्युरिति । भूयसा ते त्रिविधविषकलुषितचित्ताः पञ्चकामगुणासक्ता न व्यवस्यन्ति कुशलभावनाम् । अतो दाता पापबहुलो ऽल्पपुण्यः स्यात् । ब्राह्मणादय आत्मानं सुजनभावितधर्मचय इति कीर्तयन्तो न सम्यक् पश्यन्ति समापत्तिचित्तसमाधानानि धर्मान् । ये ध्यानसमापत्तिविनिर्मुक्ताः ते चित्तदुर्विनेयाः । अतो दाता अवीतरागाय ददन् पापबाहुल्यं लभेत । जनाः पितॄन् पूजयन्तः पुत्रभार्याबन्धून् समाराधयन्तः [यदि] ज्ञात्वा विजानन्ति सर्वे पापं प्रापयेयुरिति । तदा न को ऽपि पुण्यभाक् स्यात् । न तु वस्तुतस्तथा युज्यते । अतः पुण्यं पापञ्च न प्रत्ययगतम् । शीलादिधर्मोपि परेषां हितकरः । प्राणातिपातविरतः सर्वेषां जीवितं प्रयच्छति । शीलधारी तदा महापापभागं लभेत । प्राणातिपातविरत्या पुरोवर्तिजनो जीवितलब्धो यदकुशलं करोति । तत् शीलवतो भागः स्यात् । अतः पुण्यार्थी पुनः प्राणिनं हन्यात्, न शीलं धारयेत् ।
किञ्च कश्चिद्धर्ममुपदिशति । तेन परः पुण्यमभ्यस्यति । पुण्याभ्यासप्रत्ययं पश्चात्प्रभूतघनं लभते । प्रभूतघनेन प्रमत्तो भवति । प्रमत्तः सन् पापानि करोति । तेषां पापानां धर्मभाणको भागी स्यात् । दानप्रत्ययं परो घनिको भवति । घनिकत्वहेतोः कृतानां पापानामपि दाता भागी स्यात् । तथा च ब्राह्मणा न दानं प्रतिगृह्णीयुः । नापि प्रयच्छेयुः । इदानीन्तु ब्राह्मणाः केवलं प्रतिगृह्णन्ति न प्रयच्छन्ति । अतो ज्ञायते स दुष्टः पन्था इति । ( स्स्स्_255 ) यथा च राजानो यथाधर्मं प्रजाः पालयन्तः पापिनो ऽपि स्युः । यदि पुत्रः पापं करोति । तदा पितरौ भागिनौ स्याताम् । तदा न पुत्रमुत्पादयेताम् । वैद्यश्चिकित्समानो ऽपि पापभाक् स्यात् । तच्चिकित्सालब्धजीवितेन पापकरणात् । देवे वर्षति पञ्चसस्यान्यायतानि प्ररोहन्ति । तदा देवः पापभाक् स्यात् । दुष्टसत्त्वानां पोषणपरित्राणकरत्वात् । अन्नदातापि पापभाग् स्यात् । भोक्तुरन्नमजीर्णं कदाचिन्मरणाय भवेत् । अवीतराग आस्वादाभिनिविष्ट इत्यतो दाता पापी स्यात् । तथा च दाता, त्वदन्नं भुक्त्वा नाकुशलं करिष्यामीति भोक्तारं सदा प्रतिज्ञाप्य पश्चाद्दास्यति । तथा नो चेत् दातुरुभयं नश्येत् ।
(पृ) ननु सूत्रे ऽप्युक्तम्- यदि भिक्षुर्दानपतेरन्नं भुक्त्वा चीवरञ्च परिधायाप्रमाणसमाधिमुपसम्पद्य विहरति तत्प्रत्ययात् स दानपतिरप्रमाणपुण्यं प्रसूत इति । तत्प्रत्ययेन पुण्यलाभी चेत् कथं न पापभाक् भवति । (उ) यदि स भिक्षुर्दानपतेरन्नं भुक्त्वा चीवरञ्च परिधायाप्रमाणसमाधिमुपसम्पद्य विहरति । तदा दानपतेर्दानपुण्यं स्वत एवाधिकं वर्धते । न तु तत्समाधेः पुण्यभाक् भवति । यथा क्षेत्रस्य सारवत्त्वादायफलं बहु भवति । बन्ध्ये ऽल्पम् । एवं पुण्यक्षेत्रस्य सारवत्त्वे दानविपाको महान् । वन्ध्ये पुण्यमल्पम् । न तु प्रतिग्रहीतुः पुण्ये पापे वा दाता भागं लभते । अतो न तत्पुण्यपापप्रत्ययेन दाता पुण्यपापभाक् भवति । स यद्यपि प्रत्ययो भवति । तथापि स्वं पुण्यं पापं वा स्वकृतत्रिविधकर्मापेक्ष्य भवति ।
(पृ) अवीतरागस्य चित्तं न स्ववशवर्ति, अवश्यं कामासक्तम् । अतः प्रव्रजितो न दानमाचरेत् [तस्य] । (उ) तथा चेत् प्रव्रजिनः शीलादिन् धृत्वा सपुण्यो भवतीदमुपेक्षितं स्यात् । न वस्तुतस्तत्सम्भवति । अतो दानमपि नोपेक्ष्यम् । त्रिभवानां कृते केबलं नाचरेत् । निर्वाणाय परमाचरेत् । किन्तु क्लेशानकुशलकर्माणि च वर्जयेत् । कस्मात् । तानि हि कर्माणि हेतुकाल एव वार्याणि । फलकाले न कथमपि शक्यते [वारयितुम्] । अतो बुद्धा [भगवन्तो] हेतुकाल एव विनयाय धर्ममुपदिशन्ति । न तु यमराजवत् फलकाले ऽपराधमन्यथयेयुः ।
(पृ) त्रिष्वावरणेषु किं गुरुतरम् । (उ) केचिदाहुः- विपाकावरणं गुरुतरमिति । अन्यथयितुमशक्यत्वात् । [अन्ये] केचिदाहुः- पुद्गलानुसरणतः सर्वं गुरुतरम् । (पृ) किं निवर्त्यं भवति । (उ) सर्वं हापयितुं शक्यम् । यन्निवर्त्यं न तदावरणमित्युच्यते ॥
त्रिविधावरणवर्गः षडुत्तरशततमः ।
107 चतुःकर्मवर्गः
(पृ) सूत्रे भगवतोक्तम्- चत्वारीमानि कर्माणि । [कतमानि] । अस्ति कर्म कृष्णं कृष्णविपाकम् । अस्ति कर्म शुक्लं शुक्लविपाकम् । अस्ति कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम् । अस्ति कर्म अकृष्णमशुक्लमकृष्णाशुक्लविपाकम् । कर्म कर्मक्षयाय संवर्तत इति । कानि तानि । (उ) अस्ति कर्म कृष्णं कृष्णविपाकमिति । येन कर्मणा सव्याबाध्ये लोके यथावैवर्तिनरक उपपद्यते । अन्यत्र च सव्याबाध्ये ऽकुशल विपाकायतने समुपपद्यते यदि वा तिर्यञ्च एकत्याः प्रेता वा । एतद्विपरीतं द्वितीयं कर्म । येन कर्मणा अव्याबाध्ये लोक उपपद्यते यथा रूपारूप्यधात्वोः कामधातौ च देवा मनुष्या एकत्याः । कृष्णशुक्लव्यामिश्रं कर्म तृतीयम् । येन कर्मणा समुत्पद्यते सव्याबाध्ये ऽव्याबाध्ये च लोके यदि वा तिर्यञ्चः प्रेता देवा मनुष्या एकत्याः । चतुर्थमनास्रवं कर्म त्रीणि कर्माणि क्षपयति ।
यत् कर्मलोकद्वयविगर्हितं इह विगर्हितममुत्र च विगर्हितम् । तत् पापं कर्म पुरुषः कृत्वा तमसि पतितः सन् न यशः श्रुतवान् भवतीति कृष्णमित्युच्यते । इह दुःखममुत्र दुःखमित्यध्वद्वये ऽपि दुःखविषमिति कृष्णम् । (पृ) इदं कर्म किमिति सव्याबाध्यलोकजनकम् । (उ) निमित्तक्रमेणाकुशलं कृत्वा न चित्तं परितपति । अन्तराले चाकुशलव्यावर्तकं कुशलं नास्ति । इदं कर्म सव्याबाध्यलोकजनकम् । मिथ्यादृष्टिचित्तेन हि क्रियन्ते ऽकुशलानि । अकुशलक्रिया च गुरुजनेषु यन्मातापितृषु अन्येषु सज्जनेषु च । सत्त्वानामहितं कृत्वा न किञ्चिदपि कृपां करोति । यथा सत्त्वान् हन्ति समस्तं तद्धनं वापहरति । कारागारे वा बध्वा पुनराहारमपि निषेधयति । गुरुतरं वा ताडयति । तेन न भवति सुखान्तरमपि । एवमादि कर्म एकान्तसव्याबाध्यलोकजनकम् ।
शुक्लं शुक्लविपाकं कर्मेति । यः कश्चिदेकान्ततः कुशलान्युपचिनोति । अकुशलवांश्च न भवति । तत्कर्मद्वयातिशयबलं महत्तमम् । नान्यत्तदतिशेते । न कृष्णविपाकं प्रतिसंवेदयतः शुक्लविपाकस्य प्रसङ्गो ऽस्ति । नापि शुक्लविपाकं प्रतिसंवेदयतः कृष्णविपाकस्य प्रसङ्गः । कस्मात् । सर्वे सत्त्वाः कुशलमकुशलञ्चोपचिन्वन्ति । कर्मबलस्य परस्परमावरणत्वान्न युगपत्प्रतिसंवेदयन्ते । यथा द्वयोर्मल्लयो बलीयानग्रे विनिपातयति [दुर्बलम्] । तृतीयं कर्म दुर्बलं कुशलाकुशलव्यामिश्रत्वात् तद्विपाकं युगपत्प्रतिसंवेदयते । अन्योन्यं स्पर्धित्वात् ।
(पृ) केचिदाहुः- यदकुशलं कर्म दुर्गतौ विपाकप्रतिसंवेदकं तदाद्यं कर्म । यद्रूपधातुप्रतिसंयुक्तं कुशलं तत् द्वितीयं कर्म । यत् कामधातुप्रतिसंयुक्तं देवमनुष्येषु व्यामिश्रविपाकप्रतिसंवेदकं तत् तृतीयं कर्म । अनावरणमार्गे सप्तदशशैक्षचेतना चतुर्थं कर्म इति । कथमयमर्थः स्यात् । (उ) भगवान् स्वयमवोचदेषां कर्मणां लक्षणम् । यदुत एकत्यः सव्याबाध्यं कायसंस्कारमभिसंस्करोति, सव्याबाध्यं वाक्संस्कारमभिसंस्करोति, सव्याबाध्यं मनः संस्कारमभिसंस्करोति । स सव्याबाध्यं कायसंस्कारमभिसंस्कृत्य सव्याबाध्यं वाक्संस्कारमभिसंस्कृत्य सव्याबाध्यं मनःसंस्कारमभिसंस्कृत्य सव्याबाध्ये लोके उत्पद्यते । तत्र सव्याबाध्ये लोक उत्पन्नं सन्तं सव्याबाध्याः स्पर्शाः स्पृशन्ति इति । अतो ज्ञायते यत् सत्त्वानां कृष्णदुःखलोकोत्पादकं तदाद्यं कर्मेति । रूपारूप्यधात्वोस्तु एकान्तसुखवेदनैव । कामधातुकदेवमनुष्या अप्येकान्तसुखवेदिनः । यथोक्तं सूत्रे- सुखिनां मनुष्याणामपि सन्ति षट् स्पर्शा इति । देवमनुष्यैरनुभूयमाना विषया येन अमनोरूपा न भवन्ति तत् द्वितीयं कर्म । कृष्णशुक्लव्यामिश्रसमुदाचरणं तृतीयं कर्म । सर्वाण्यनास्रवकर्माणि कर्माणां क्षयाय संवर्तन्ते । मिथो विरोधात् । न सप्तदशशैक्षचेतनामात्रं चतुर्थं कर्म ।
(पृ) अनास्रवं वस्तुतः शुक्लम् । कस्मादशुक्लमित्युच्यते । (उ) तत् शुक्ललक्षणाद्भिन्नम् । न द्वितीयशुक्लकर्मसमानम् । अस्मादतिशयितमशुक्लस्य, तदनपेक्षत्वात् । यथा राज्ञश्चक्रवर्तिनः सुविशुद्धातिक्रान्तदेवमानुषचक्षुः सम्पत् । वस्तुतस्तु तन्मानुषमेव चक्षुः । अन्यपुरुषातिशायित्वादतिमानुषमित्युच्यते । तथा तत्कर्मापि अन्यशुक्लकर्मातिशायित्वादशुक्लमित्युच्यते । केचिदाहुः- अकृष्णं शुक्लविपाकं कर्मेति वक्तव्यमिति । तत्त्वदुष्टम् । निर्वाणञ्च न शुक्लम् । अतस्तत्कर्माशुक्लमिति वाच्यम् । वक्तव्यञ्चाकृष्णमशुक्लमिति । कस्मात् । निर्वाणं ह्यधर्मः । निर्वाणार्थत्वात्तत्कर्माकृष्णमशुक्लम् । लोके श्लाध्यतरं सास्रवं कुशलं कर्म शुक्लमित्युच्यते । चतुर्थं कर्म तत्कर्म व्यावर्तयतीति अशुक्लम् । तस्य कर्मणो ऽकृष्णलक्षणत्वादशुक्ललक्षणतापि प्राप्यते । विपाकस्य शुक्लत्वात्कर्म शुक्लमित्याख्यायते । इदं कर्म त्वविपाकमित्यतो न शुक्लमित्याख्यायते ॥
चतुःकर्मवर्गः सप्तोतरशततमः ।
108 पञ्चानन्तर्यवर्गः
[एत]त्कायसमनन्तरं विपाको वेद्यत इत्यानन्तर्यमित्युच्यते । यदि दृष्ट एव धर्मे वेद्यते तदा सव्याबाधविपाको लघुर्भवति । तस्य गुरुत्वात्क्रमेण क्षिप्रं वा अवैवर्तिके नरके पतति । त्रीण्यानन्तर्याणि पुण्यक्षेत्रगुणगौरवादानन्तर्याणीत्युच्यन्ते यदुत सङ्घभेदः तथागतशरीरे दुष्टचित्तेन लोहितोत्पादनमर्हद्वधः । मातृपितृवध आनन्तर्यमकृतज्ञत्वात् । तदानन्तर्यं मनुष्यगतावेव सम्भवति । नान्यगतिषु । मनुष्याणामेव विवेकज्ञानवत्त्वात् । (पृ) अन्येषामार्यजनानां वध आनन्तर्यं लभते न वा । (उ) आर्यजनानां वधिता प्रायो नरके पतति । यस्त्वर्हन्तं हन्ति सो ऽवश्यं नरके पतेत् । यस्तथागतं ताडयति न तु लोहितमुत्पादयति स गुरुतरं पापं लभते । इच्छया भगवत्याघातात् ।
(पृ) यद्येकमानन्तर्यं करोति । तदा नरके पतति । यदि द्वे त्रीणि वा करोति । तदा एकस्मिन्नेव काये विपाकवेदना क्षीयते न वा । (उ) पापानां प्राचुर्यात् स चिरं गुरुतरदुःखान्यनुभवति । ततश्च्युतः पुनस्तत्रैव जायते । (पृ) सङ्घभेदे कथं गुरुतरं भवति [पापम्] । (उ) यद्यधर्ममधर्मतो ज्ञात्वा इमं धर्मं धर्मतो जानाति । एवंमनस्कारो गुरुतरो भवति । यद्यधर्मं धर्ममिति वदति धर्मञ्चाधर्ममिति । नेदं पूर्ववत् । यत् कश्चित् बुद्धात्सङ्घं प्रभिद्य आत्मानं प्रशंसति महान् शास्ता देवमनुष्याणां पूज्य इति । इदमपि गुरुतरम् । (पृ) यः प्राकृतजनभेद्यः, नायमार्यः । [तद्भेदः] किमिति गुरुतरं पापम् । (उ) सद्धर्मस्य विघ्नितत्वाद्गुरु गुरुतरं पापम् ।
(पृ) सङ्घधर्मभेदः कदा भवति । (उ) धर्मे ऽचिरप्रतिष्ठिते नैकामपि रात्रिमतिवाहयति स्म । ब्रह्मादयो देवाः शालिपुत्रादिमहाश्रावकाः पुनः [सङ्घं] समीचक्रुः । केचिदाहुः इमानि पञ्च भिक्षुशतानि पूर्वाध्वनि परान् विघ्नयन्तः कुशलमूलमार्गलब्धास्तत्प्रत्ययमिदानीं तद्विपाकं विन्दन्त इति । प्राकृता लघुचलचित्तत्वात्सुभेद्याः । यो लौकिकानात्मशून्यतामात्रं लब्धवान् तस्य चित्तमेवाभेद्यम् । कः पुनर्वादो ऽनास्रवं [चित्तम्] । चित्तगतामिध्यात्वात् सङ्घभेदप्रत्ययं करोति । अतः पुण्यार्थी सन् त्यजेदभिध्याम् ॥
पञ्चानन्तर्यवर्गो ऽष्टोत्तरशततमः ।
109 पञ्चशीलवर्गः
भगवानाह- उपासकस्य पञ्चशीलानीति । (पृ) केचिद्वदन्ति- समादानसमन्वितस्तु शीलसंवरं लभते इति । कथमिदम् । (उ) समात्तबह्वल्पत्ववशात्संवरं लभते नावश्यं पञ्चमात्राणि गृह्णाति । (पृ) आप्तिविरत्यादयः कस्मान्न शीलम् । केवलं प्राणातिपातविरत्यादय उच्यन्ते । (उ) सपरिबारत्वात् । (पृ) कस्मान्नोच्यते कामचारवर्जनम् । काममिथ्याचारविरतिः केवलमुच्यते । (उ) अवदातवसनानामावसथे लोकव्यवहारस्य सदा दुष्परिहारत्वात् । स्वभार्यागमनञ्च नावश्यं दुर्गतिषु पातयति । यथा स्रोतआपन्नादयो ऽपीमं धर्ममाचरन्ति । अतो नोक्तं कामचारवर्जनम् ।
(पृ) पैशुन्यादिविरतिः कस्मान्न शीलम् । (उ) वस्त्विदमतिसूक्ष्मं दुष्परिपालम् । पैशुन्यादिर्मृषावादस्याङ्गम् । यदि मृषोच्यते तदा सामान्यतः [पैशुन्य]मुक्तमेव । (पृ) किं मद्यपानं प्रकृतिसावद्यम् । (उ) न । कस्मात् । मद्यपानस्य सत्त्वाव्याबाधात्केवलं पापहेतुः । यो मद्यं पिबति सो ऽकुशलद्वारमपावृणोति । अतो मद्यपानं यः शास्ति स पापाङ्गं लभते । समाध्यादिकुशलधर्माणां विघ्नकृत्त्वात् । यथा तरुषण्डो ऽवश्यं भित्त्यावरणार्थः । एवमिमे चत्वारो धर्माः प्रकृतिसावद्याः । तद्विरतयः प्रकृतिपुण्यानि । तत्पालनायैतन्मद्य [संवर]शीलं योज्यते ॥
पञ्चशीलवर्गो नवोत्तरशततमः ॥
110 षट्कर्मवर्गः
षड्विधं कर्म- नरक[वेदनीय]विपाकं कर्म, तिर्यग्योनि[वेदनीय]विपाकं कर्म, प्रेत[वेदनीय]विपाकं कर्म, मनुष्य[वेदनीय]विपाकं कर्म, देव[वेदनीय]विपाकं कर्म, असमाधिवेदनीयविपाकं कर्म इति । (पृ) कानीमानि । (उ) नरकवेदनीयविपाकं कर्मेति ( स्स्स्_260 ) यथा षट्पादाभिधर्मे लोकप्रज्ञप्तौ विस्तृतम् । प्राणातिपातपापेन नरकं भवति । यथोक्तं सूत्रे- यः प्राणातिपातनिरतः स नरक उत्पद्यते । यो मनुष्येषु भवति सो ऽल्पायुर्विन्दते । इति । एवं यावन्मिथ्यादृष्टि [वक्तव्यम्] ।
(पृ) जानीम एव दशाकुशलकर्मपथैर्नरकविपाकं विन्दते । तिर्यक्प्रेतमनुष्यगतिर्वोत्पद्यत इति । भवांस्तु केवलमाह नरकेषु मनुष्येषु वोत्पद्यत इति । इदानीं विशिष्य वक्तव्यं किं कर्म नरकविपाकमात्रवेदकमिति । (उ) तदेव पापकर्म गुरुतरं सत् नरकविपाकवेदकम् । यद्यल्पं लघु तदा तिर्यगादिविपाकवेदकम् । यः सम्पन्नत्रिविधमिथ्याचारः तस्य नरकं भवति । असम्पन्नान्यकर्मणः तिर्यगादयो भवन्ति । अतश्च गुरुतरपापक्रियायां नरकं भवति । शीलभेदिना दृष्टिभेदिना च कृतमकुशलं कर्म नरकाय भवति । चित्तभेदचर्याभेदाकुशले ऽधिचित्तो यस्तत्कृतमकुशलं कर्म नरकाय भवति । यो ऽकुशलं कर्म कृत्वा अकुशलस्यानुचरो भवति । तस्य नरकं भवति । आर्येषु यो ऽकुशलं कर्म करोति । तस्य नरकं भवति । अकुशलं कर्म कुर्वतो ऽकुशलं कर्मोपचीयते । यथा कश्चिदकुशलं कर्म कृत्वा पश्चात्प्रीया प्रशंसन् न परित्यक्तुमिच्छति । तस्य नरकं भवति । यो विद्वेषव्यापादचित्तेन पापकं करोति । तस्य नरकं भवति । यो घनार्थं [पापं] करोति । स विपाकान्तरं वेदयते । मिथ्यादृष्टिचित्तेनाकुशलं कर्म कुर्वतो नरकं भवति । शीलदूषिणा कृतं पापकर्म नरकाय भवति । अह्रीकेणापत्रपेण कृतं पापकर्म नरकाय भवत्ति । अकुशलस्वभावेन जनेन कृतं पापकर्म नरकाय भवति । तद्यथा क्लिन्ना भूमिरल्पवृष्टापि कर्दमं साधयति । सदाकुशल कर्मचारिणा कृतमकुशलं कर्म नरकाय भवति । यः सम्भ्रमकारणं विना [ससंभ्रम]मकुशलं कर्म करोति । तस्य नरकं भवति । यो ऽनात्मशून्यताङ्गमन्यत्राभिनिवेशान्न लभते । तेन कृत पापकर्म नरकाय भवति । यः कायेन शीलं मनसा च प्रज्ञां नाभ्यस्यति । तेन कृतमकुशलं कर्म नरकाय भवति । प्राकृतेन कृतमकुशलं कर्म नरकाय भवति । कस्मात् । न ह्ययं प्रजानाति स्कन्धधात्वायतनद्वादशनिदानादीनि । अज्ञानादकार्यं कुर्यात् । कार्यञ्च न कुर्यात् । अवाच्यं वदेत् । वाच्यञ्च न वदेत् । अननुस्मरणीयमनुस्मरेत् । अनुस्मरणीयञ्च ( स्स्स्_261 ) नानुस्मरेत् । तेन कृतं पापमल्पमपि नरकाय भवति । यो न पश्यत्यकुशलस्यादीनवम् । स गुरुकं पापकर्म कृत्वा नरकविपाकं वेदयते । यः पापं कृत्वा न कुशलं प्रतिश्रयते । तस्य नरकं भवति । यथाधमर्णो न राजानं शरणीकरोति । तदोत्तमर्णो ऽवकाशभाग्भवति । यस्य कुशलं कर्म दुर्बलम् । तेन कृतमल्पमपि पापं नरकाय भवति । यथा कस्यचित्काये पाचनशक्तिरल्पा । स दुष्परिपाचनमाहारं भुङ्क्त्वा न परिपक्तुं शक्नोति । अकुशलकर्मव्यामिश्रमकुशलमात्रमाचरतो नरकं भवति । यथा कश्चिच्चौर्यं कृत्वा लघुतरं गुरुतरं वा बध्यते । यः सर्वकुशलमूलविविक्तः यथा हस्तिना युध्यमानः [तस्य] हस्तं न परिरक्षति । तत्पुरुषकृतं पापं नरकाय भवति । यो हीनधर्ममाचरन् हीनाचार्याच्छिक्षां समादत्ते । तेन कृतं पापं नरकाय भवति । यथा दरिद्रो ऽधर्मण आह्रियते । यो ऽकुशलं सदा वर्धयति अधमर्णस्येव वृद्धिम् । तद्यथा सौनकपुत्रव्याधादयः । तेषां कर्म नरकाय भवति । गण्डस्यान्तः स्राववत् पापस्य म्रक्षणे नरकं भवति । यो दीर्घकालं चित्तगतमकुशलं न सहसा नियच्छति । तस्य नरकं भवति । यथा चिकित्सायै दत्तं विषमेव पुरुषं हन्ति । यः स्वयमकुशलं कृत्वा परानपि शास्ति । तेन बहूनां सत्त्वानां दुःखोपायासद्वारस्योद्धाटनान्नरकं भवति । यथा राष्ट्रपाला बहवो विज्ञाः पूर्णादिवदकुशलमिथ्याचारमाचरन्तोन्यान्यपि बहून् शिक्षयन्ति । यच्च कृतं कर्म भूयसा सत्त्वानां ब्याबाधाय भवति यथा वनदाहादि । बहूनां शासनं येन अधर्मे ते पतन्ति । यथा केदारव्याधादयः । यो ऽकुशलकर्मणा जीवति यथा चोरामात्यसूनिकव्याधादयः । अत्यन्तशीलदूषिणा कृतं पापकर्म नरकाय भवति । यदामरणं न त्यजन्ति तदत्यन्तमित्युच्यते । यथाह गाथा-
यस्यात्यन्तदौःशील्यं मालुःसालमिवातता ।
करोति स तथात्मानं यथैनं इच्छन्ति द्विषः ॥ इति ।
अवस्तु कुप्यति । अनेन कोपेन यत्पापं करोति । तन्नरकाय भवति । यस्तु सवस्तु कुप्यस्ति । तत्कृतं पापं न तादृशं भवति । यो द्वेषेण कर्म करोति । अस्य गुरुसंयोजनत्वान्नरकं भवति । यथोक्तं सूत्रे- द्वेषः पापीयानपि सुनिग्रह इति । यो ऽकुशलचित्तस्वभावः तस्य नरकं भवति । यत् हेतुप्रत्ययैः पापं कर्म करोति तदणीयो भवति । यः प्रमादाय व्युत्सृष्टः तेन कृतमशुभं कर्म नरकाय भवति । यो विज्ञैः परिपालितो भवति स देवेषूत्पद्यते । वासवयक्षे आयुषो ऽन्ते म्रियमाणे शारिपुत्रः तदन्तिकमागतः । सो ऽकुशलेन्द्रियेण शालिपुत्रमभिसभीक्ष्य नान्यथाभूत् । पुरत आगतं मन्दमाहूय पुनरौच्छ्वसत् । ( स्स्स्_262 ) शारिपुत्रप्रभास्वरमाहात्म्यमवलोक्याचिन्तयत् अयं महात्मा न हन्तव्य इति विशुद्धचित्तेन सप्तकृत्वः शारिपुत्रमूर्ध्वमधो व्यवालोकयत् । अनेनैव हेतुना सप्तकृत्वो देवेषूदपद्यत । सप्तकृत्वो मनुष्येषु चोदपद्यत । अथ प्रत्येकबुद्धमार्गमलभत । यथा चाङ्गुलिमालः पापकं कर्म बहुकृत्वा मातर[मपि]हन्तुमैच्छत् । भगवान् तत्कुशलाभिज्ञत्वात् तस्य विमुक्तिं प्रापयति स्म । यथा च कश्चिद्दानपति रग्निघादविषान्नभोजनैर्मध्ये [गृहं] हन्तुमैच्छत् । भगवान् तत्कुशलाभिज्ञत्वात् तस्य विमुक्तिं प्रापयत् । एवमादयः पुरुषाः अकुशलकर्मका अपि न नरके पतन्ति । अत उक्तं यः प्रमादाय व्युसृष्टः तेन कृतं पापं कर्म नरकाय भवतीति ।
यः समुच्छिन्नकुशलमूलो देवदत्तादिवत्पुनरचिकित्स्यो भवति । तद्यथा कश्चिद्रोगी दृष्टमरणनिमित्तः । तेन कृतं पापं नरकाय भवति । यः कुशलं कर्तुमगणयन् म्रियमाणो दुरुत्पादकुशलचित्तो भवति । स चित्तपरितापान्नरके पतति । यो म्रियमाणो मिथ्यादृष्टि चित्तमुत्पादयति । स पूर्वाकुशलहेतुकं मिथ्यादृष्टि प्रत्ययञ्च नरके पतति । एवं बहूनि कर्माणि नरकविपाकाय भवन्ति । आभिधर्मिका वदन्ति- सर्वाण्यकुशलानि नरकनिदानानीति । एभ्यो ऽकुशलेभ्यो ऽन्यैस्तिर्यगादिषूत्पद्यन्ते । यथोक्तं सूत्रे- भगवान् भिक्षूनामन्त्र्यावोचत्- यान् सत्त्वान् पश्यथ कायिकमिथ्याचारान् वाचिकमिथ्याचारान् मानसिकमिथ्याचारान् तान् जानीत नरकप्रेक्षकानिति ।
(पृ) नरकविपाकं कर्माधिगतम् । किं पुनस्तिर्यग्विपाकं कर्म । (उ) यः कुशलव्यामिश्रमकुशलं कर्म करोति । स ततः तिर्यक्षु पतति । अनुशयसंयोजनौत्कट्याच्च तिर्यक्षु पतति । यथा कामरागौत्कट्याच्चटकपारावतचक्रवाकादिषूत्पद्यते । द्वेषौत्कटयात्सर्पवृश्चिकादिषूत्पद्यते । मोहौत्कट्यात् वराहादिषूत्पद्यते । मदौत्कट्यात् सिंहव्याघ्रश्वापदादिषूत्पद्यते । औद्धत्यचाञ्चल्यौत्कट्यान्मर्कटादिषूत्पद्यते । ईर्ष्यामात्सर्यौत्कट्यात् श्वादिषूत्पद्यते । एवमादीनामन्येषामपि क्लेशानामौत्कट्यान्नानातिर्यक्षूत्पद्यते । यः कश्चिद्दानभागी भवति । स तिर्यक्षूत्पन्नो ऽपि सुखमनुभवति । सुवर्णपक्षगरुडहस्त्यश्वादयः । वाचिककर्मणो विपाको भूयसा तिर्यक्षु पतनम् । यथा कश्चित्कर्मविपाकमज्ञात्वा श्रद्धया च नानावाक्कर्म तथा करोति यथा वदन्ति अयं पुरुषो मर्कटवदतिचपल इति । स मर्कटेषूत्पद्यते ।
यद्वदन्ति वायसवदाहारलोलुपः । श्वबुक्कवद्भाषते । अजवराहवद्धावति । गर्दभवच्छब्दायते । उष्ट्रवत् याति । हस्तिवदात्मानमुन्नमयति । मत्तबलीवर्दवदशुभयति । चटकवद्यभति । विडालवत्सारज्यति । शृगालवद्वञ्चयति । कृष्णोरभ्रवज्जडो भवति । गोवत् द्रोणबहुलो भवति । एवमाद्यकुशलं वाचिकं कर्म कृत्वा यथाकर्म विपाकं वेदयते । सत्त्वाः सुखलोभान्नानाप्रणिधान्युत्पादयति । तद्यथा कामसुखरागे सति पक्षिषूत्पद्यते । यो नागगरुडादीनां शक्तिबलं श्रुत्वा प्रणिदधाति स तत्रोत्पद्यते । उक्तञ्च सूत्रे- यो निबिडस्थाने म्रियमाणः प्रणिदधाति विपुलं स्थानं लभ इति । स पक्षिषूत्पद्यते । यः परितर्षितो म्रियते स जलार्थितया जलेषूत्पद्यते । क्षुधितो म्रियमाणो ऽन्नरागार्द्वचः कुट्यामुत्पद्यते ।
व्योमाहात् लघु कर्माणि कुर्वन् व्यामिश्रकुशलत्वात् मक्षिकालीक्षाकृमिकीटादिषूत्पद्यते । यः परानुपदिशन् असद्धर्मे पातयति सो ऽविद्वत्पद उत्पद्यते । अन्धो जायते । मृत्वा च शवे कृमिर्भवति । व्यामिश्रकर्माचरणाच्च तिर्यक्षूत्पद्यते । यथोक्तं सूत्रे- तिर्यञ्चो नानाचित्तवशान्नानाकाराननुप्राप्नुवन्ति इति । यस्तृणमद्याम् इति कर्म करोति । यथा कश्चिन्मिथ्या वदति अहं मन्त्रानध्येमीति । यो वा इदमन्नमत्त्वा तृणमद्भीति प्रकटयति । अथ वा वदति मृदं भक्षयामीत्येयमादि । यश्च कश्चिद्वाक्पारूष्येणाधिक्षिपति । किं तृणमनत्त्वा मृदं भक्षयसीति । सो ऽभिलापवशात्तृणमृदादिभक्षकेषूपपत्तिं वेदयते । अविशुद्धदानामाचारन् तृणादिभक्षकेषु विपाकं वेदयते । य ऋणमादाय न प्रत्यर्पयति । स गवाजकृष्णमृगाश्वगर्दभादिषु पतित्वा ऋणरात्रीर्यापयति । एवमादिकर्मणा तिर्यक्षु पतति ।
(पृ) तिर्यद्विपाकं कर्म परिज्ञातम् । केन कर्मणा प्रेतेषु पतति । (उ) अन्नपानादिषु सञ्जातमत्सरलोभचित्तः सन् प्रेतेषु पतति । (पृ) यदि कश्चित्स्वद्रव्यं न ददाति । कस्मात्स पापभाग्भवति । (उ) अयं कदर्यो यदि कश्चिद्याचनां करोति । सापेक्षत्वात्तस्मै कुप्यति । अनेनावद्येन प्रेतेषूत्पद्यते । स कृपणः याचनां कुर्वति कस्मिंश्चित् नास्तीति वदन् अनृतवादित्वात्प्रेतेषु पतति । स चिरात्कदर्यसंयोजनामभ्यस्यति । परस्य हितलाभं दृष्ट्वा ईर्ष्यासूयाचित्तमुत्पादयति । अतः प्रेतेषु पतति । कदर्यो ऽयं दानचारिणं परं दृष्ट्वा तं दानपतिं द्विप्यति । याचको ऽयं लाभाभ्यासान्मत्तो ऽवश्यं याचेतेति । चिरादारभ्य कदर्यचित्तवासनया न स्वयं ददाति परमपि निषेधति । यत्किञ्चिदस्ति विहारे सङ्घद्रव्यं यज्ञे च ब्राह्मणद्रव्यम् । ( स्स्स्_264 ) तत् कश्चित् स्वयं केवलमभिलषति न परस्य दातुमिच्छति । अतः प्रेतेषु पतति । यः परस्यान्नपानमपहरति नाशयति वा । स निरशनस्थान उत्पद्यते । यो दानपुण्यविगतः स तदुपपत्त्यायतने विपाकालाभी ततो याचकाधिक्षेपकर्मणो दुःखं तत्रैवानुभवति । अयं कृपणः क्षुत्तृष्णार्दितं परं दृष्ट्वा निर्दयचित्तो भवति । अतो यत्रोत्पद्यते तत्र सदा क्षुत्तृष्णामनुभवति । यथा दयया देवेषूत्पद्यते । तथा द्वेषोपनाहाभ्यां दुर्गतावुत्पद्यते । बन्धुपरिवारप्रियजनेषु सुप्रतिष्ठिते देशे च परमासक्तत्वात्कलिङ्गादिप्रेतेषूत्पद्यते, रागतृष्णाप्रत्ययत्वात् । एवमादि यथा विस्तृतं कर्मविपाकसूत्रे ।
(पृ) परिज्ञातानि त्रीणि दुर्गतिविपाकानि । केन कर्मणा देवेषूत्पद्यते । (उ) यो दानसंवरकुशलादिकर्माभ्यस्यति । स उत्तमः सन् देवेषूत्पद्यते । अधमः सन् मनुष्येषूत्पद्यते । यश्च तीक्ष्णेन्द्रियः स मनुष्येषूत्पद्यते । मनुष्यधर्ममाचरतीति मनुष्यः । व्यामिश्रकुशलकर्मणा च मनुष्येषूत्पद्यते । तत्कर्म [त्रिविध]मुत्तमं मध्यममधममिति । एकाग्रतानैकाग्रता विशुद्धमविशुद्धमित्यादि । केनेदं ज्ञायते । मनुष्याणां नानाविभागश्रेणीनां वैषम्यात् । यथोक्तं सूत्रे- प्राणातिपात्यल्पायुष्को भवति । चौर्ये दरिद्रः । काममिथ्याचारे हीनासत्कुलः । मृषावादे सदा परिभाष्यते । पैशुन्ये कुलपांसुलः । पारुष्ये सदा परुषशब्दं शृणोति । संम्भिन्नप्रलापे जनानामश्रद्धेयः । रागेर्ष्यायां कामचारबहुलः । क्रोधे दुःखभावभूयिष्ठः । मिथ्यादृष्टौ मोहबहुलः । माने ऽवरजन्मा । आत्मन उन्माने खर्वः । ईर्ष्यायामते[ज]स्वी । मात्सर्ये दारिद्र्यपीडितः । द्वेषे विरूपी भवति । परपीडायां व्याधिबहुलः । व्यामिश्रचित्तेन दाने ऽमधुररसाभिलाषी । अकालदाने न यथेष्टभाक् । पश्चात्तापविमतौ पर्यन्तभूमौ जायते । अविशुद्धदानचर्यायां दुःखतो विपाकलाभी भवति । अमार्गेण कामचर्यायामपुरुषाकारं लभते । मनुष्येषु एवमादीनि सङ्कीर्णान्यकुशलकर्माणि । तद्विपरीतानि तु कुशलकर्माणि । यथा प्राणातिपातविरतिर्दीर्घायुष्यप्रापिणीत्यादि । मनुष्यगतावेवमादि नानावैषम्यमस्तीत्यतो ज्ञायते व्यामिश्रकर्मविपाको ऽयमिति ।
प्रणिधानेन हि मनुष्येषु जायते । केचिदप्रमादरता अपि न कामबहुला भवन्ति । ( स्स्स्_265 ) ये प्रज्ञास्वधिमुक्तिका मनुष्यदेहप्रणिधानं कुर्वन्ति । ते मनुष्येषूत्पद्यन्ते । यः पित्रोः पूज्यानाञ्च सत्कारे स्वभिरुचिको भवति । ब्राह्मणश्रमणादीनामपि सत्कारवित् तत्कर्मक्रियातुष्टश्च पुण्यं सम्यगभ्यस्यति । सो ऽपि मनुष्येषूत्पद्यते । मनुष्येषु च यो विशुद्धकर्मप्रत्ययः स उत्तर[कुरुषू]त्पद्यते । यश्च क्षेत्रगृहकुटीष्वात्मीयविशेषेषु द्विष्यति । स उत्तरासूत्पद्यते । यः शुक्लकर्म सम्यगाचरन् परानपीडयित्वा धनमादत्ते दानाय नाभिष्वङ्गाय । स्वयञ्च शीलमाचरन् न पूर्वापरपरिवारेषु शीलं भेदयति । स उत्तरकुरुषूत्पद्यते । ततः किञ्चिदूनकुशलो गोदानीय उत्पद्यते । ततो ऽपि किञ्चिदूनश्च अयथावत् (?) पूर्वविदेह उत्पद्यते ।
देवविपाकं कर्मेति । अतिशुद्धदानशीलत्वात् देवेषूत्पद्यते । यः प्रज्ञाङ्गं लब्ध्वा संयोजनानि समुच्छेदयति । स देवेषूत्पद्यते । व्यामिश्रकर्मवशाच्च विशिष्यते । मनुष्येषूक्तवत् प्रणिधानहेतुना च विश्रुतदेवेषु सुखवेदनाप्रत्ययं कृतकुशलकर्मकाः सर्वे तत्र जन्मगतिं प्रणिदधति । यथोक्तं- अष्टपुण्यसर्गस्थाने यः करुणामुदितोपेक्षासु विहरति स उत्पद्यते ब्रह्मलोके यावद्भवाग्रम् । अत्र ध्यानसमापत्तेर्विशिष्टरूपत्वात् विपाको ऽपि विशिष्यते । यस्य स्त्यानमिद्धौद्धत्यादीनि न सम्यक् प्रहीणानि । सो ऽनाभास्वरदेहप्रभो भवति । यस्य सम्यक् प्रहीणानि स विशुद्धतरप्रभो भवति । अत्युत्तमकुशलकर्मविपाको देवेषूत्पद्यते । अमीप्सितानां यथामनस्कारमेव प्रतिलाभात् । यो विविक्तरूपैररूप्यसमाधिमुपसम्पद्य विहरति । स आरूप्यस्थान उत्पद्यते । एवमादि देवविपाकं कर्माख्यायते ।
अनियतविपाकं कर्मेति । यदवरं कुशलमकुशलं कर्म । इदं कर्म नरकेषु प्रेतेषु तिर्यक्षु देवेषु मनुष्येषु वा वेद्यते । (पृ) अन्यासु चतसृषु गतिषु कुशलकर्मविपाको वेदयितुं शक्यते । नरके कथम् । (उ) कश्चिन्नरकान्मुहूर्तं निवर्तते । यथा [कश्चि]दर्चिर्नरकाद्विमुक्तो दूरतो वनषण्डं दृष्ट्वा मुदितचित्त आशु तस्मिन् वने प्रविशति । शीतवातकम्पिते तस्मिन् वने [यावत्] असितोमराणि न पतन्ति । तस्मिन् समये मुहूर्तं सुखी भवति । अथवा क्षारनदीं दृष्ट्वा इदं प्रसन्नसलिलमिति द्रुतगति प्रधाव्य मुहूर्तं सुखभाग्भवति । एवं नरके ऽपि कुशलकर्मणो विपाकभागो ऽस्ति । इदमनियतं कर्मेत्युच्यते ॥
षट्कर्मवर्गो दशोत्तरशततमः ।
111 सप्ताकुशलसंवरवर्गः
सप्ताकुशलसंवराः यदुत हिंसास्तेयकाममिथ्याचारपैशुन्यपारुष्यमृषावादसम्भिन्नप्रलापाः । य एषां सप्तानां वस्तुनां समग्रो वा असमग्रो भवति । सो ऽकुशलसंवर इत्युच्यते । (पृ) को ऽकुशलसंवरसमन्वागतः । (उ) हिंसाकुशलसमन्वागतो यदुत सौनिकव्याधादयः । स्तेयसमन्वागतो यदुत चोरादयः । काममिथ्याचारसमन्वागतो यदुतामार्गमैथुनचारिणो गणिकादयः । मृषावादामन्वागता गायकनटपुत्रादयः । पैशुन्यसमन्वागतो दूषणपरिवादानन्दी राष्ट्रवृत्त्यादिसन्धिलिपिदूषणाध्येता च । पारुष्यसमन्विता नरकपालादयः पारुष्योपजीव्यादयश्च । सम्भिन्नप्रलापसमन्विताः शब्दसन्दर्भयोगेन जनहास्यकरादयः । केचिदाहुः- राजानः प्रतिपक्षिणो राज्ञः शासनावसरे एतदकुशलसंवरसमन्विता इति । तदयुक्तम् । यः पापसन्ततिं कृत्वा न विरमति । स खलु एतदकुशलसंवरसमन्वित इत्युच्यते । न तथा राजादयः ।
(पृ) अयमकुशलसंवर इति कथं लभ्यते । (उ) यस्मिन् काले पापकर्माचरति । तदा लभ्यते । (पृ) किं वधितसत्त्वात् संवरमिमं लभते किं वा सर्वसत्त्वेभ्यः । (उ) सर्वसत्त्वेभ्यः । यथा कश्चित् शीलधारी सर्वसत्त्वेभ्यः शीलसंवरं लभते । तथा अकुशलसंवरमपि । प्राणातिपातानुवर्तिनः वधपापसङ्गृहीताकुशलसंवरसङ्गृहीतरूपद्विविधाविज्ञप्तिलाभे अन्यसत्त्वेभ्यो ऽकुशलसंवरसङ्गृहीतापि लभ्यते । (पृ) अयमकुशलसंवरः कियत्कालं समन्वितो भवति । (उ) यावदुपेक्षाचित्तं न प्रतिलभ्यते । तावत्सदा समन्वितो भवति । (पृ) यो ऽवरमृदुचित्तादकुशलसंवरं प्रतिलभते । यो वा लोभादिचितात् प्रतिलभते । स सदा एतत्समन्वितो भवति । पुनः किं प्रतिलभते । (उ) यथाचित्तं यथाक्लेशप्रत्ययञ्च पुनरेतदकुशलसंवरं प्रतिलभते । प्रतिक्षणं सदा प्रतिलभते । सर्वसत्त्वेषूत्पन्नः सप्तविधो भवति । सप्तविधो ऽयमुत्तममध्याधम इति एकविंशतिधा भवति । एवं प्रतिक्षणं सर्वसत्त्वभूमिषु प्रतिलभते ।
(पृ) अकुशलसंवरमिमं कदा त्यजति । (उ) कुशलसंवरसमादानकाले त्यजति । मरणकाले ऽपि त्यजति । अद्यप्रभृति न पुनः करोमीति यदाध्याशयमुत्पादयति । तस्मिन् काले ऽपि त्यजति । अभिधर्मिका आहुः- इन्द्रियपरावृत्तो त्यजतीति । तदयुक्तम् । कस्मात् । अशक्ता अपि समन्वागमं लभन्ते । विनये ऽप्युक्तम् । यो भिक्षुः परावृत्तेन्द्रियः न स विनष्टसंवरो भवति इति । अतो ज्ञायते नेन्द्रियपरावृत्त्या त्यजतीति ।
(पृ) पञ्चसु गतिषु कस्यां गतौ सत्त्वा अकुशलसंवरसमन्विता भवन्ति । (उ) मनुष्या एव समन्विता नान्यगतिस्थाः । केचिदाहुः- [तथा नोचेत्] सिंहव्याघ्रादयः सदा दुष्कर्मणोपजीविनो ऽपि समन्विताः स्युरिति ॥
सप्ताकुशलसंवरवर्ग एकादशोत्तरशततमः ।
112 सप्तकुशलसंवरवर्गः
सप्त कुशलसंवराः प्राणातिपातविरतिर्यावत्सम्भिन्नप्रलापविरतिः । (पृ) असत्त्वाख्येभ्य इमं कुशलसंवरं लभते न वा । (उ) लभते । केवलं सत्त्वमुपादाय भवति । कुशलसंवरो ऽयं त्रिविधः- शीलसंवरो ध्यानसंवरः समाधिसंवर इति । (पृ) कस्मान्नोच्यते ऽनास्रसंवरः । (उ) अनास्रवसंवरो ऽन्त्यद्वये सङ्गृहीत इत्यतः पृथङ् नोच्यते । आभिधर्मिका आहुः- अस्ति पुनः प्रहाणसंवरो यदुत कामधातुवीत[रागः] तस्मिन् काले कुशलसंवरं लभते । शीलभेदाद्यकुशलं प्रजहातीति प्रहाणम् इति । वस्तुतस्तु सर्वे संवरास्तिषु सङ्गृहीताः ।
(पृ) तीर्थिका इमं शीलसंवरं लभन्ते न वा । (उ) लभन्ते । तेषामपि अकुशलचित्तेभ्यो विरतावधिचित्तत्वात् । आचार्यः शीलमुपदिशति अद्यप्रभृति प्राणातिपातादिपापं मा कुर्या इति । (पृ) अन्यासु गतिषु इमं शीलसवरं लभन्ते न वा । (उ) उक्तं हि सूत्रे- नागादयो ऽपि दिनमेकं शीलमुपाददते । इति । अतो ज्ञायते भवेदिति । (पृ) केचिदाहुः- अशक्तादिनां न शीलसंवरो ऽस्तीति । कथमिदम् । (उ) अयं शीलसंवरश्चित्तभूमिजः । ( स्स्स्_268 ) अशक्तादीनामपि कुशलचित्तमस्ति । कुतो न लभन्ते । कुतो न शृण्वन्ति भिक्षुक्रियाम् । अतिगहनसंयोजनानुशयानामेषां दुर्लभमार्गत्वात् । तादृशाः पुरुषा न भिक्षुमध्ये वर्तते(न्ते) नापि भिक्षुणीमध्ये । अतो न शृण्वन्ति । तेषु चान्ये प्रतिषिद्धाः यथा काणादयः । ते ऽपि कुशलसंवरस्यास्यार्हाः । (पृ) अस्ति च प्रतिषेधो विनये पातकिनीचवृत्तिकभिक्षुणीदूषकादयो न भिक्षुचर्यां शृण्वन्ति इति । तेषामपि किं कुशलसंवरो ऽस्ति । (उ) स यद्यवदातवसनो भवति । कदाचित्कुशलसंवरं लभते । यथा ते दानदयादिसद्धर्मचर्याभ्यासे न प्रतिषिद्धाः । एवं लौकिकशीलसंवरवत्त्वे को दोषः । केवलं दुष्कर्मदूषितत्वात् ते प्रतिहतार्यमार्गाश्च भवन्ति । अतो न प्रव्रज्यां शृण्वन्ति ।
(पृ) किं वध्यादिसत्त्वेभ्यः किं कुशलसंवरं लभते किं वा सर्वसत्त्वेभ्यः । (उ) सर्वसत्त्वानां सामन्ताल्लभते । तथा नो चेत् संवरः प्रादेशिकः स्यात् । प्रादेशिको विकलः स्यात् । अयं तु संवर उपचीयमानो ऽपचीयमानो निर्ग्रन्थपुत्रधर्मसमश्च यदुत शतयोजनेष्वन्तः प्राणातिपातादिभ्यो विरतिः इति । तादृशदोषवत्त्वात्संवरो न प्रादेशिको भवति । य आह अस्य पुरुषस्य वधाद्विरमामि न तस्य पुरुषस्येति । न स इमं शीलसंवरं लभते । आभिधर्मिकाः आहुः- प्रादेशिके ऽपि दानचर्याकरुणाचित्तादौ पुण्यगुणो ऽस्ति । तथा शीलमपि भवेत् । यथैकमपि शीलधारणं शीलपुण्यं प्रसूते । तथैकसत्त्वे संवरं लभेत इति ।
(पृ) शीलसंवरो ऽयं द्विविधः यावज्जीवक एकदिनाहोरात्रक इति । यावज्जीवक इति यत् भिक्षोरूपासकस्य वा । एकाहोरात्रक इति यथा एकाहोरात्रमष्टशीलान्युपादत्ते । कथमिदम् । (उ) अनियतमिदम् । एकाहोरात्रं वा एकदिनमात्रं वा एकरात्रिमात्रं वा अर्धदिनमात्रं वा अर्धरात्रं वा यथशक्ति कालं स्वीकरोति । प्रव्रज्यालब्धस्य तु यावज्जीवमात्रं भवति । य आह- आहमेकमासमात्रं मासद्वितयमात्रं वा एकवत्सरमात्रं वा [शीलं समादद इति] । न स प्रव्रज्यालब्ध इत्युच्यते । तथा पञ्चशीलान्यपि । (पृ) यः कुशलसंवरं लभते स पुनः संवराद्भ्रश्यति न वा । (उ) न भ्रश्यति । केवलमकुशलधर्मेण संवरमिमं दूषयति । (पृ) किं प्रत्युत्पन्नसत्त्वेभ्यः शीलसंवरं लभते किं वा त्रैकालिकसत्त्वेभ्यः । (उ) त्रैकालिकसत्त्वेभ्यो लब्धस्यः । यथा ( स्स्स्_269 ) कश्चिदतीतान् पूज्यान् पूजयित्वापि पुण्यगुणो भवति । तथा संवरो ऽपि । अतः सर्वे बुद्धाः समानैकशीलस्कन्धाः ।
अप्रमाणो ऽयं संवरः । यथैकस्य सत्त्वस्य सप्तविध उत्पद्यते । अलोभादिकुशलमूलेभ्य उत्पद्यते । उत्तममध्याधमचित्तेभ्यश्चोत्पद्यत इति बहुविधो भवति । यथैकस्य पुरुषस्य तथा सर्वसत्त्वानां समन्तादपि प्रतिक्षणं सदा प्रतिलाभादप्रमाणः ।
(पृ) शीलसंवरः कदा लभ्यः । (उ) कश्चिद्दिनमेकं शीलमुपादत्ते । अयमाद्यसंवरः । तस्मिन्नेव दिने उपासकशीलमुपादत्ते । अयं द्वितीयसंवरः । तस्मिन्नेव दिने प्रव्रज्य श्रामण्यं करोति । अयं तृतीयसंवरः । तस्मिन्नेव दिने समग्रशीलमुपादत्ते । अयं चतुर्थः संवरः । तस्मिन्नेव दिने ध्यानसमापत्तिं लभते । अयं पञ्चमः संवरः । तस्मिन्नेव दिन आरूप्यसमाधिं लभते । अयं षष्ठः संवरः । तस्मिन्नेव दिने ऽनास्रव[संवरं] लभते । अयं सप्तमः संवरः । मार्गफललाभमनुसरन् पुनः संवरं लभते । लब्धमूलो न नश्यति । प्रत्युत विशिष्ट इत्याख्यां गृह्णाति । एवं पुण्यगुणो ऽभिवर्धते । यस्मादयं शीलसंवरः सर्वसत्त्वेषु सदा प्रतिक्षणं लभ्यते । तस्मादुच्यते चत्वारो रत्नाकरा नार्हन्ति षोडशीं कलां दिनमेकं संवरस्येति ।
ध्यानसंवरो ऽनास्रवसंवरश्च यथाचित्तं समुदाचरति । शीलसंवरो न यथाचित्त[मात्रं] समुदाचरति । (पृ) केचिद्वदन्ति- समाधिप्रविष्टस्यास्ति ध्यानसंवरः । न समाधिव्युत्थितस्येति । कथमिदम् । (उ) समाधिव्युत्थितस्य सदास्ति । लब्धतत्त्वो ऽयं न करोति शीलभेदनविरुद्धमकुशलम् । अकुशलं कदाप्यकुर्वद्भिः कुशलचित्तप्रकर्षप्रवृत्तैः सदा भवितव्यम् । (पृ) यद्यारूप्ये ध्यानस्य शीलभेदकता नास्ति । कस्य विरोधात् कुशलसंवर इत्याख्या । (उ) धर्मता ईदृशी स्यात् । [यत्] आर्या महर्षयः सर्वे कुशलसंवरलाभिन इति । यदि शीलभेदनविरोधादेव ते संवरवन्तः । तदा सम्पीडनीयसत्त्वेभ्य एव कुशलसंवरो लभ्येत इत्ययमस्ति दोषः । अतो न युज्यते ।
सप्तकुशलसंवरवर्गो द्वादशोत्तरशततमः ।
113 अष्टाङ्गोपवासशील वर्गः
अष्टाङ्ग उपवास उपासकस्योच्यते । स कुशलचेतसा शीलभेदाद्विरत उपवसतीति उपवसथः । (पृ) कस्मात् अष्ट विरतयो मुख्यत उच्यन्ते । (उ) अष्टावेता द्वारं भवन्ति । एभिरष्टधर्मैः सर्वाकुशलेभ्यो विरमति । तत्र चत्वारि द्रव्यतो ऽकुशलानि । सुरापानं सर्वाकुशलानां मूलम् । अन्यानि त्रीणि प्रमादकारणानि । पञ्चाकुशलेभ्यो विरतिः पुरुषस्य पुण्यकारणम् । त्रिभ्यो ऽन्येभ्यो विरतिर्मार्गकारणम् । अवदातवसनानां कुशलधर्मो भूयसा हीनः मार्गस्य कारणतामात्रं करोति । अत एभिरष्टभिर्धर्मैः समन्वागतानि पञ्च यानानि ।
(पृ) किमेतान्यष्टोपवासाङ्गानि सहोपादेयानि किं वा पृथक् । (उ) यथाबलं धर्तुं शक्यते । केचिदाहुः- एमे धर्मा एकमुपवासदिनं रात्रिञ्च भवन्ति इति । तदयुक्तम् । बह्वल्पं शीलं यथा [बलं] उपादाय अर्धदिनं वा यावदेकं मासं वा सम्भवतीति को दोषो ऽस्ति । केचिदाहुः- अवश्यमन्यस्मादुपादत्त इति । अयमप्यनियमः । असत्यन्यस्मिन् मनसा स्मरन् वाचा वदति- अहमष्टशीलानि धारयामीति । शीलस्य पञ्च शौचानि- (1) दशकुशल[कर्म]पथाचारणम् । (2) पूर्वान्तापरान्तयो दुःख[संज्ञा] । (3) अकुशलचित्तेन न कस्यचिदुपघातः । (4) स्मृत्वा संवररक्षणम् । (5) निर्वाणप्रवणता । य इदृशोपवाससमर्थः तस्य चत्वारो महारत्नाकरा नैकामपि कलामर्हन्ति । देनावामिन्द्रस्य पुण्यविपाको ऽपि नार्हति । शक्रो गाथामवोचत् । भगवान् तं विगर्ह्य [अवोचत्]- यःक्षीणास्रवः तेन हीयं गाथा वक्तव्या । यथोक्तम्-
मासे षडुपावासार्द्ध अष्टाङ्गेषु प्रपन्नकः ।
स पुमान् पुण्यमाप्नोति मया च सदृशो भवेत् ॥ इति ।
यो दिनमुपवसति स उपवासपुण्यमुपभुञ्जानः शक्रतुल्यो भवति । इममुपवासधर्ममुपादातुर्निर्वाणफलं स्यात् । अतः क्षीणास्रवेण सा गाथा वक्तव्येति ।
उपवासधर्मसमादाने सुनिबद्धाः शृङ्खलाः सर्वा मोचयितव्याः । सर्वाकुशलप्रत्ययो ऽपि प्रहातव्यः । इदं शौचमित्युच्यते । (पृ) आर्यश्चक वर्ती राजा उपवासधर्मसमादानमभिलषति [चेत्] कस्तं समादापयति । (उ) भदन्ता ब्रह्मा देवा भगद्द्रष्टारस्तं शासयित्वा ग्राहयेयुः ॥
अष्टाङ्गोपवासशीलवर्गस्रयोदशोत्तरशततमः ।
114 अष्टविधवादवर्गः
अष्टविधवादेषु चत्वारो ऽशुद्धाः चत्वारः शुद्धाः । चत्वारो ऽशुद्धा इति । यो वदति दृष्ट्वा नाद्राक्षमिति । अदृष्ट्वा वदति अद्राक्षमिति । अदृष्ट्वा अद्राक्षमिति वन् [व्यवहारे] पृष्टो वदति नाद्राक्षमिति । दृष्ट्वा नाद्राक्षमिति ब्रूवन् पृष्टो वदति- अद्राक्षमिति । एवं वस्तुविपर्यासेन चित्तविपर्यासादशुद्धाः । चत्वारः शुद्धा इति । दृष्ट्वा वदति अद्राक्षमिति । अदृष्ट्वा वदति नाद्राक्षमिति । दृष्ट्वा नाद्राक्षमिति ब्रूवन् पृष्ठो वदति नाद्राक्षमिति । अदृष्ट्वा अद्राक्षमिति ब्रुवन् पृष्ठो वदति अद्राक्षमिति । एवं वस्तुतत्त्वेन चित्ततत्त्वात् शुद्धाः । श्रुतिबुद्धिज्ञानेष्वपि ।
(पृ) दृष्टिश्रुतिबुद्धिज्ञानानां को भेदः । (उ) त्रिविधाः श्रद्धाः । दृष्टिः प्रत्युत्पन्ने श्रद्धा । श्रुतिराप्तवचने श्रद्धा । ज्ञानमनुमितिज्ञानम् । बुद्धिस्त्रिविधश्रद्धाविवेचनी प्रज्ञा । इमास्त्रिविधाः प्रज्ञाः कदाचित्सत्या भवन्ति । कदाचिद्विपरीत्ताः । उत्तमपुरुषा अशुद्धवादमकृत्वा शुद्धवादमात्रं कुर्वन्ति । अतो ऽवरजनैः प्रयुज्यमानो ऽशुद्ध इत्युच्यते । उत्तमजनैः प्रयुज्यमानस्तु शुद्ध इति । केचिदाहुः- अर्थस्यास्य सम्यगभिज्ञातारः उत्तमा भवन्ति । न मार्गमात्रलाभिन [उत्तमाः] । अतः प्राकृता अपि शुद्धवादिन इति ॥
अष्ठविधवादवर्गश्चतुर्दशोत्तरशततमः ।
115 नवकर्मवर्गः
नवविधं कर्म- कामधातुप्रतिसंयुक्तं कर्म त्रिविधं विज्ञप्तिरविज्ञप्तिर्नविज्ञप्ति नाविज्ञप्तिरिति । रूपधातुप्रतिसंयुक्तं कर्माप्येवम् । आरूप्यधातुप्रतिसंयुक्तं द्विविधञ्चानास्रवं कर्म । ( स्स्स्_272 ) कायवाग्भ्यां कृतं कर्म विज्ञप्तिः । विज्ञप्तिमुपादाय [यः] पुण्यपापसञ्चयः सदानुयायी । अयं चित्तविप्रयुक्तधर्मो ऽविज्ञप्तिरित्युच्यते । चित्तमात्रजाविज्ञप्तिरप्यस्ति । नविज्ञप्ति नाविज्ञप्तिरिति मन एव । मनश्च चेतनैव । चेतना च कर्मेत्युच्यते । तस्माद्यन्मनसा प्रणिधाय पश्चात्काय[कृतं] तन्मानसं कर्मापि चेतनेत्युच्यते । चेतनया चिन्तयित्वा काय[कृत]मित्यतः कर्मेत्युच्यते ।
(पृ) तथा चेदनास्रवचेतना न [स्यात्] । (उ) यदिदं चेतनात्मकं सैवानास्रवचेतना । (पृ) अविज्ञप्तेः कायजाताया अपि किं तारतम्यविभागो भविष्यति न वा । (उ) यत् सर्वे कायावयवाः विज्ञप्तिकर्म कुर्वन्ति । तदुपादाय सञ्चिताविज्ञप्तिर्महती महाविपाकप्रापिणी । (पृ) अविज्ञप्तिरियं कस्मिन् स्थाने विद्यते । (उ) कर्मपथस्वरूपं नियतमविज्ञप्तिसञ्चायकम् । विज्ञप्तिः सती असती वा भवति । अन्या तु चित्तापेक्षिणी । यदि चित्तं सुदृढं भवति । तदा सती । यदि चित्तं मृदु भवति । तदा असती । अविज्ञप्तिरियं प्रणिधानादपि उत्पद्यते । यदि कश्चित्प्रणिदधाति- अवश्यमहं दास्यामीति । यदि वा चैत्यं करोमीति । सो ऽवश्यमविज्ञप्तिं प्रतिलभते । (पृ) कदा प्रतिलभ्यते ऽविज्ञप्तिरियं । कदा प्रणश्यति । (उ) यथाविज्ञप्ति वस्तु वर्तते । यदि चैत्यारामादिदानं करोति । यावद्दत्तं वस्तु न प्रणश्यति । तावत्कालं सदानुवर्तते । चित्तञ्चानुसरति । नोपरमति । यथा कश्चिच्चित्तमुत्पादयति- मयेदं सदा कर्तव्यम् । यदि वा समैः मेलयामि, यदि वा चीवरं ददामीति । एवमादि वस्तु चित्तगतं नोपरमति । तस्मिन् समये सदा प्रतिलभ्यते । यावजीवमनुरति च । यथा प्रव्रज्याशीलं समाददाति । तस्मात्कालात्सदा प्रतिलभ्यते ।
(पृ) केचिदाहुः- कामधातावेव विज्ञप्तेरविज्ञप्तिरुत्पद्यते । न रूपधाताविति । कथमिदम् । (उ) धातुद्वये ऽप्युत्पद्यते । कस्मात् । रूपधातुकदेवा अपि धर्मं प्रवदन्ति । बुद्धं सङ्घञ्च वन्दन्ते । यथा मनुष्यादय इति कथं विज्ञप्तिकर्मतो ऽविज्ञप्तिर्नोत्पद्यते । केचिदाहुः- विलीनाव्याकृता नास्त्यविज्ञप्तिरिति । इदमयुक्तम् । विलीनाव्याकृता गुरुतरक्लेशः । क्लेशोपचयो ऽयमनुशय इत्युच्यते । अविलीनाव्याकृता परं नास्त्यविज्ञप्तिः । कस्मात् । चित्तमिदमवरं मृदु सत् नोपचयमुत्पादयति । यथा पुष्पं तिलं वासयति न तृणवृक्षादि । केचिदाहुः- ब्रह्मलोकादूर्ध्वं नास्ति विज्ञप्तिकर्मचित्तमुत्पादकं इति । कस्मात् । वितर्कविचारौ हि वाक्कर्म समुत्पादयतः । न तत्र स्तो वितर्कविचारौः । ब्रह्मलोकोपभोगचित्तमात्रं ( स्स्स्_273 ) वाक्कर्म समुत्पादयति । इति । तदयुक्तम् । सत्त्वाः कर्मानुसारेण शरीरमुपाददते । य ऊर्ध्वलोक उत्पद्यते । न स ब्रह्मलोके विपाकमुपभुञ्ज्यात् । अतो ज्ञायते स्वभूमिकचित्तेन वाक्कर्म करोतीति । यदुक्तं भवता न तत्र वितर्कविचारौ स्त इति । तत्पश्चाद्वक्ष्यते स्त इति ।
(पृ) आर्या अपर्यवसन्नसंयोजनप्रहाणा विज्ञप्तिकर्म कुर्वन्ति न वा । (उ) आर्याः प्रकृतितो नावद्यं कर्म कुर्वन्ति । (पृ) श्वादीनां सत्त्वानां [वाग्]ध्वनिः वाक्कर्म भवति न वा । (उ) असत्यप्यालापविशेषे चित्ततः समुत्थानात्कर्मेत्यप्युच्यते । यदि वा व्यक्तलक्षणं यदि वाह्वानं यदि वा वेण्वादि सर्वं [तत्] वाक्कर्मेत्युच्यते । इदं कायिकं वाचिकं कर्मावश्यं मनोविज्ञानादुत्पद्यते । नान्यविज्ञानात् । अतः पुरुषाः स्वकायिकं कर्म पश्यन्ति स्ववाचिकं कर्म शृण्वन्ति च । मनोविज्ञानसमुत्पन्नं कर्म सन्तत्याविच्छिन्नं सत् स्वयं पश्यन्ति शृण्वन्ति च ॥
नवकर्मवर्गः पञ्चदशोत्तरशततमः ।
116 दशाकुशलकर्मपथवर्गः
सूत्रे भगवानाह- दशाकुशलकर्मपथा यदुत प्राणातिपातादि । पञ्चस्कन्धकलापः सत्त्व इत्युच्यते । तदायुषश्छेदः प्राणातिपातो नाम । (पृ) यदीमे पञ्चस्कन्धाः प्रतिक्षणविनाशिनः । केन वधो भवति । (उ) पञ्चस्कन्धाः प्रतिक्षणविनाशिनो ऽपि पुनः पुनः सन्तत्या समुत्पद्यन्ते । तत्सन्ततिसमुच्छेद एव प्राणातिपातो भवति । प्राणातिपातचित्तेन च प्राणातिपातपापं लभते पुरुषः । (पृ) किं प्रत्युत्पन्नपञ्चस्कन्धानां समुच्छेदः प्राणातिपातो भवति । (उ) पञ्चस्कन्धसन्ततावस्ति सत्त्व इत्याख्या । तत्सन्ततिविनाशः प्राणातिपातः । न क्षणिकेषु सत्त्व इत्याख्यास्ति । (पृ) केचिदाहुः कश्चिदनुचरानवलम्ब्य सत्त्वान् हन्ति । अथ वा दृढासिनाभिहत्य सहसा सत्त्वान् हन्ति । तदा तस्य पापं नास्तीति । कथमिदम् । (उ) ते ऽपि पापं लभेरन् । कस्मात् । ते वधपापसमन्विताः । चतुर्भिः प्रत्ययैः खलु प्राणातिपातपापं लभन्ते । (1) सत्त्वसत्ता, (2) सत्त्वसत्ताज्ञानम्, (3) जिघत्साचित्तम्, (4) तज्जीवितोच्छेद इति । एभिश्चतुर्भिर्हेतुभिर्मण्डितः पुमान् कथमपापी स्यात् ।
अदत्तादानमिति यद्वस्तु यत्पुरुषसम्बन्धी तत् तस्मात्पुरुषाच्चौर्येण गृह्णाति । तददत्तादानमित्युच्यते । अत्रापि सन्ति चत्वारः प्रत्ययाः- (1) द्रव्यस्य परसम्बन्धिता, ( स्स्स्_274 ) (2) परसम्बन्धिताज्ञानम् । (3) चौर्यचित्तम्, (4) चौर्येण ग्रहणम् इति । (पृ) केचिदाहुः- निधिः राजसम्बन्धी । य इमं गृह्णाति । स राज्ञः पापं लभत इति । कथमिदम् । (उ) भूमध्यगतद्रव्यस्य न विचारः । भूमावुपरि गतं द्रव्यं परं राजसम्बन्धि स्यात् । कस्मात् । अनाथपिण्डदादय आर्या अपि हीदं द्रव्यं गृह्णन्ति । अतो ज्ञायते नास्ति पापमिति । यः स्वाभाविकद्रव्यस्य लाभः न तत् चौर्यम् ।
(पृ) यदि सर्वे पदार्थाः साधारणकर्मभिरुत्पद्यन्ते । कस्मात् चौर्येण पापं लभन्ते । (उ) साधारणकर्महेतोः समुत्पत्तावपि अस्ति हेतोः प्राबल्यदौर्बल्यम् । यत् [यस्य] पुरुषस्य कर्महेतुबलतिशयाधिष्ठितं तत् द्रव्यं तत्सम्बन्धि । (पृ) यदि कश्चिच्चैत्यात् सङ्घाद्वा किञ्चित् क्षेत्रगृहादिद्रव्यमपहरति । कतरस्मात् पापं लभते । (उ) भगवतः सङ्घस्य वा द्रव्ये नास्ति ममताचित्तम् । असत्यपि ततः पापं लभते । द्रव्यमिदं नियमेन भगवतः सङ्घस्य वा सम्बन्धि । तस्य चौर्ये अदत्तादाने वा अकुशलचित्तं समुत्पन्नमित्यतः पापं लभते ।
काममिथ्याचार इति । या [यस्य] सत्त्वस्य जाया न भवति । तया सह कामचारः । [तस्य] काममिथ्याचारः । स्वजायायामपि अमार्गेण कामचारो ऽपि काममिथ्याचार इत्युच्यते । सर्वासां स्त्रीणां सन्ति पालकाः यन्मातृपितृभ्रातृगणस्वामिपुत्रवध्वादयः । प्रव्रजितस्त्रीणां राजादयः पालकाः । (पृ) गणिका न [कस्यचित्] जाया भवति । तया सह कामचारः कथं न काममिथ्याचारः । (उ) अल्पवयस्का हि जाया । यथोक्तं विनये- अल्पवयस्का जाया यावदेकेन श्मश्रृणान्तरिता इति । (पृ) यदि काचिदस्वामिनी स्त्री स्वयमागत्य प्रार्थयते जाया भवामीति । कथमिदम् । (उ) या वस्तुतो ऽस्वामिनी कस्यचित्सत्त्वस्य पुरतो यथाधर्ममागता, [तया सह गमनं] न काममिथ्याचारः । (पृ) प्रव्रजितस्य जायापरिग्रहेण काममिथ्याचारादुन्मोको ऽस्ति न वा । (उ) नोन्मोको ऽस्ति । कस्मात् । न ह्यस्ति स धर्मः । प्रव्रजितस्य धर्मः सदा काममिथ्याचाराद्विरतिः । परस्त्री- [गमन]आपत्तितो ऽतिजघन्यं पापं भवति ।
मृषावाद इति । यत्कायबाङ्मनोभिः परसत्त्वान् वञ्चयित्वा मृषा प्रतिपादयति । अयं मृषावादः । पापस्य गुरुतरत्वाद्भगवानाह बहूनां पश्नसमाधिः मृषावादः । यावदेकस्मिन् पुरुषे पृच्छत्यपि मृषावादः । किमुत बहूनाम् इति । यो वञ्चयितुमभीष्टः, ( स्स्स्_275 ) तस्मात्पापं लभते । यदि कश्चित्परं वदति अहममुकमीदृशं वदामीति । तद्वस्तुनो ऽतत्त्वे ऽपि न मृषावादः । किञ्च संज्ञामनुसृत्य मृषावादः । यः पश्यन् न पश्यति संज्ञाम् । स पृष्टो वदति नाद्राक्षमिति । तस्य नास्ति मृषावादपापम् । इति यथा वर्णितं विनये ।
(पृ) यदि कश्चिद्वस्तुविपर्ययात् अदृष्ट्वा वदति अद्राक्षमिति तस्य कथं न मृषावादः । (उ) सर्वाणि पुण्यपापानि चित्ताधीनानि उत्पद्यन्ते । स पुरुषो ऽदृष्टवस्तुनि दृष्टसंज्ञामुत्पादयतीत्यतो नास्ति पापम् । यथा [यस्य] तात्त्विकसत्त्वे नास्ति सत्त्वसंज्ञा । असत्त्वे च सत्त्वसंज्ञोत्पन्ना । स न वधपापं लभते । (पृ) यथा वस्तुसति सत्त्व उत्पन्नसत्त्वसंज्ञो वधपापं लभते । तथा यदि दृष्टे दृष्टसंज्ञामुत्पादयति । तदा न पापं स्यात् । नत्वदृष्टे दृष्टसंज्ञामुत्पादयन् न पापं लभत इति । (उ) पापमिदं सत्त्वोपादानकचित्तमुपादायोत्पद्यते । अतः सत्त्वे सत्यपि सत्त्वसंज्ञाविहीनो न लभते पापम् । [तादृश]चित्ताभावात् । असति सत्त्वे सत्त्वसंज्ञावान् [वस्तुतः] सत्त्वस्याभावादपि न पापं लभते । सति सत्त्वे सत्त्वसंज्ञावान् प्राणातिपातपापं लभत एव । हेतुप्रत्ययानां समग्रत्वात् । यस्य दृष्टे वस्तुनि अदृष्टसंज्ञोत्पद्यते । स पृष्टो वदति नाद्राक्षमिति । स संज्ञाविपर्ययाभावात् न सत्त्वान् वञ्चयति । वस्तुविपर्यये ऽपि सत्यमित्येवोच्यते । यस्यादृष्टे वस्तुनि दृष्टसंज्ञोत्पद्यते । स पृष्टो वदति नाद्राक्षमिति । स संज्ञाविपर्ययात् सत्त्वान् वञ्चयति । वस्त्वविपर्यये ऽपि मृषावाद इत्युच्यते ।
पैशुन्यमिति । यत् कश्चित्परविभेदयिषया वाक्कर्म करोति । तत्पैशुन्यमित्युच्यते । यस्य नास्ति सम्भेदबुद्धिः । परः श्रुत्वा स्वयं भेदयति । स न पापभाग्भवति । यस्तु विनयकुशलबुद्धया दुर्जनान् सम्भेदयति । स सम्भेदे कृते ऽपि न पापभाग्भवति । यः संयोजनानुशयेन कलुषितचित्तो न भवति । स वाचं वदन्नपि न पापभाग्भवति ।
पारुष्यमिति । यत् कश्चित्कटु वदति हितकरञ्च न भवति परस्योपायासमात्रमिच्छति । तत्पारुष्यमित्युच्यते । यस्तु करुणाचित्तेन हितं कुर्वन् कटु वदति । न तस्यास्ति पापम् । यथा निरर्थकप्रयुक्त उपायासे पापमस्ति । [चिकित्सार्थं] कस्मिंश्चित्कायदेशे सूच्या वेधनं कट्वपि न पापं भवति । तथा कटुवचनमपि । बुद्धा आर्या अपि कुर्वन्ती दम् । यथा रूग्णादीनामुपदेशः । यः संयोजनानुशयकलुषितचित्तो न भवति । तेन कृतं कटुवचनं न पापमित्युच्यते । यथा वीतरागादयः । यः कलुषितचित्तेन कटु वदति । स क्लेशोत्पत्तिकाल एव पापं लभते ।
सम्भिन्नप्रलाप इति । यदनृजु असत्यार्थभाषणं स सम्भिन्नप्रलापः । अकाण्डे सत्यवचनमपि ( स्स्स्_276 ) सम्भिन्नप्रलापः । सत्यमपि काले विपत्त्यानुलोम्येनाहितकरत्वात् सम्भिन्नप्रलाप इत्युच्यते । सत्यवचने ऽपि काले चाहिते अमूलमनर्थमक्रमं वचनं सम्भिन्नप्रलापः । मोहादिक्लेशविक्षिप्तचित्ततया वचनं सम्भिन्नप्रलापः । कायमनसोरनार्जवमपि सम्भिन्नं कर्म । किन्तु भूयसा वाक्कृतमेव व्यवहारतः सम्भिन्नप्रलाप इत्युच्यते । अन्यानि त्रीणि वाक्कर्माणि सम्भिन्नप्रलापसंमिश्राणि भवन्ति न विवेकभागीनि । यदि मृषावादः कटुवचनाञ्चाविविक्तम् । तदा द्विधा भवति मृषावादः सम्भिन्नप्रलाप इति । यदि मृषावादो ऽपि संबिभेदयिषया अकटुवचनः । तदा त्रिधा भवति मृषावादः पैशुन्यं सम्भिन्नप्रलाप इति । यदि मृषावादः कटुवचनः सम्बिभित्सा च । तदा चतुर्धा भवति । यदि नास्ति मृषावादः । कटुवचनमपि अविविक्तं केवलमकाण्डवचनमहितवचनमनर्थवचनम् । तदा सम्भिन्नप्रलापमात्रम् । अयं सम्भिन्नप्रलापो ऽपि सूक्ष्मो दुस्त्यजः । केवलं बुद्धा एव तदिन्द्रियं समुच्छेदयन्ति । अतो बुद्धा एव भगवद्वादप्रसाधने श्रद्धेयाः नान्ये ।
(पृ) उक्ताः सप्तविधाः कर्मपथाः । क उपयोगः पुनस्त्रिविधमानसकर्मकथनेन । (उ) केचिद्वदन्ति- पुण्यं पापमवश्यं कायवागधीनं न चित्तमात्रात् इति । अतो वदन्ति चित्तमपि कर्मपथः । त्रिविधस्यास्य मानसकर्मणो बलादुत्पद्यते कायिकं वाचिकमकुशलकर्म इति । इदं त्रिविधं यद्यपि गुरुतरम् । मानसकर्मणः सूक्ष्मत्वात् इति पश्चाद्वक्ष्यते । सर्वेषां लेशानामकुशलकर्मोत्पादकत्वे ऽपि इदं त्रिविधं परं सत्त्वानामुपायासकरत्वादकुशलकर्मपथ इत्युच्यते । यदि रागो मध्यमो ऽवरो वा न स कर्मपथो भवति । रागो ऽयमधिमात्रः परमधिरज्य संपीडेच्छया सोपायः कायिकवाचिककर्मोत्पादकत्वात् रागेर्ष्या कर्मपथो भवति । प्रतिघमोहावपि तथा । यदि मोह एव सर्वक्लेशात्मक उच्यत इति मतम् । तस्यैव कायवाग्भ्यां सत्त्वानामुपद्रवोत्पादकत्वात् त्रैविध्यमुच्यते ।
(पृ) कस्मान्मोहो मिथ्यादृष्टिर्भवति । (उ) अस्ति [स]मोहविशेषः । कस्मात् । न हि सर्वो मोहो ऽकुशलः । यो मोहो मिथ्यादृष्टिप्रवृत्तावधिपतिः सो ऽकुशलः कर्मपथः । सर्वाण्यकुशलानि एतत्त्रिमुखाधीनानि भवन्ति । यदि [वा] कश्चिद्धनलाभायाकुशलं कर्म करोति तद्यथा सुवर्णकार्षापणाय प्राणिनं हन्ति । द्वेषेण वा [अकुशलं कर्म करोति] तद्यथा अमित्रं चोरं वा हन्ति । अथ वा न धनलाभाय न द्वेषेण, अपि तु मोहबलेनैव परापराविज्ञानात् प्राणिनं हन्ति । (पृ) चत्वारो दुर्गतिप्रत्ययाः सूत्र उक्ता ( स्स्स्_277 ) रागतो द्वेषतो भयतो मोहतश्च दुर्गतिषु पतन्तीति । इदानीमत्र कस्मान्नोक्तं भयतो ऽकुशलं कर्मोत्पद्यत इति । (उ) भयं मोहसङ्गृहीतम् । यदुच्यते भयत इति तन्मोहत एव भवति । कस्मात् । न ज्ञानी यावदायुर्विनाशप्रत्ययमपि अकुशलं कर्म करोति । इदञ्च पूर्वं प्रत्युक्तमेव ।
यत् क्लेशविवृद्धिः कायिकवाचिकर्मोत्पादयति स कालो ऽकुशलकर्मपथ इत्युच्यते । अस्य त्रिविधस्य भूयसा अकुशलोत्पादकत्वात् । (पृ) कस्मात्कर्मपथ इत्युच्यते । (उ) मन एव कर्म । तत्र चरतीति कर्मपथ इत्युच्यते । अन्तिमत्रितये पूर्वं चरति । आद्यसप्तके पश्चाच्चरति । त्रीणि कर्मपथाः न कर्म । सप्त कर्माणि कर्म च पन्थाश्च । (पृ) कशाताडनसुरापानादीन्यकुशलकर्माण्युक्तानि । कस्माद्दशैवोक्तानि । (उ) गुरुतरपापत्वादिमानि दशोक्तानि । कशाताडनादीनि सर्वाणि तत्परिवाराः पौर्वापरिकाः । न सुरापानं प्रकृतिसावद्यम् । नापि परोपद्रवकृत । परोपद्रवकृदिति स्वीकारे ऽपि न सुरापानं तद्भवति ।
(पृ) अकुशलकर्मपथा इमे कुत्र वर्तन्ते । (उ) सर्वत्र पञ्चगतिषु वर्तन्ते । उत्तरकुरुषु केवलं न सन्ति । मिथ्याकामचारस्त्रिभिर्वस्तुभिरुत्थापितः कामरागेण संसिद्धः । अन्ये त्रिभिर्वस्तुभिरुत्थापितः त्रिभिर्वस्तुभिः संसिद्धः । (पृ) आर्याः किमकुशलं कर्म कुवन्ति न वा । (उ) मानसाकुशलकर्मोत्पत्तावपि न कायिकवाचिककर्मोत्पादयन्ति । मानसकर्मण्यपि द्वेषचित्तमात्रमुत्पादयन्ति न वधचित्तम् । (पृ) सूत्र उक्तम्- शैक्षा अन्यान् शपमाना आहुः समुच्छिन्नवृषणो भव इति । तत्कथम् । (उ) [अन्यत्] किञ्चित्सूत्रमाह- अर्हन् शपत इति । अयं क्षीणास्रव पुरुषः प्रहीणक्लेशमूलः चित्तमेव नोत्पादयति । किं पुन शपेत इति । शैक्षस्य शापवचनमपि तथैव स्यात् । आर्या अकुशलकर्मसु अविज्ञप्तिसंवरं लभन्त । कथं कुर्युरकुशलम् । न च ते दुर्गतौ पतन्ति । यद्यकुशलमुत्पादयन्ति । पतेयुरपि । यद्यार्या इहाध्वनि अकुशलं कर्म कृत्वा दुर्गतौ न पतन्ति । अतीताध्वनि अकुशलकर्मवन्त इति कस्मान्न पतन्ति । (उ) आर्याणां मनसि तत्त्वज्ञाने समुत्पन्ने सर्वे ऽकुशलकर्मपथा मन्दा भवन्ति यथा दग्धं बीजं न पुनः प्ररोहति ।
त्रीणि च विषाणि द्विविधानि- दुर्गतिप्रापकाणि तदप्रापकाणीति । यानि दुर्गतिप्रापकाणि तानि आर्याणां प्रक्षीणानि । कर्मक्लेशाभ्यां हि शरीरमुपादीयते । आर्याः कर्मयुक्ता अपि क्लेशविकलत्वान्न पतन्ति । किञ्च ते रत्नत्रयाख्यमहास्थानबलमवष्टभ्य महदकुशलं क्षपयन्ति । यथा कश्चिद्राजाश्रित उत्तमर्णेन न पीड्यते । ते च तीक्ष्णप्रज्ञाविद्या अकुशलं कर्म क्षपयन्ति । यथा कश्चित्काये ऽग्निशक्तिविवृद्ध्या दुष्परिपाचं परिपाचयति । तेषां सन्ति बहव उपायाः । कदाचिद् बुद्धान् स्मृत्वा कदाचित्करुणां स्मृत्वा कुशलकर्महेतुभि[र्वा] अकुशलेभ्यो विमुक्तिं लभन्ते । यथा चोरो वह्वलीकैररण्यदुर्गमाश्रित्य नोपलभ्यते । आर्या इमे ज्ञानेन विमुक्तिमार्गं लभन्ते । यथा गौः स्वामिनं याति । विहग आकाशं निश्रयते । दीर्घरात्रं कुशलधर्माणामभ्यासान्न दुर्गतौ पतन्ति । यथोक्तं सूत्रे- यो नित्यं कायेन शीलं चित्तेन प्रज्ञामभ्यस्यति स नरकवेदनीयं कर्माभिमुखीभूय लघु वेदयते इति । यथा चाह गाथा-
चरन्तं करुणाचित्ते ऽप्रमाणे ऽनिरावृते ।
गुरुकर्माणि सर्वाणि न किञ्चिदुपयन्ति च ॥ इति ।
आर्याणामेषाञ्चित्ते ऽकुशलं कर्म न स्थिरीभवति । सन्तप्तायसि पतितैकजलबिन्दुवत् । आर्याणां कुशलं कर्म सुदूरगामि खदिर वृक्षमूलवत् । आर्याश्चेमे बहुकुशला अल्पाकुशलाः । अल्पमकुशलं बहुकुशलेषु वर्तमानं न बलवत् यथा गङ्गायां क्षिप्तमेकपललवणं न विकारयति तद्रसम् । आर्यास्ते पुण्यश्रद्धादिना धनिकाः । यथा दरिद्र एककर्षापणाय पापं स्वीकरोति । न [तथा]धनिकः शतसहस्रेभ्यो ऽपि पापं प्राप्नोति । आर्यमार्गप्रवेशाब्दहुमता भवन्ति । यथार्याः सत्यपि पापे न नरकं प्रविशन्ति । यथा व्याघ्रशार्दूलजाश्ववराहानां(णां) सह विवदमानानां बलिष्ठो जयं लभते । आर्याणामेषां चित्तामार्यमार्गोषितम् । दुर्गतिकपापानि न पुनरुपायासयन्ति । यथा राजाध्युषित एकान्तगृहे नान्ये प्रविशन्ति । आर्याः स्वविहृतिस्थानविहारिणः । न [तेषु] दुर्गतिकपापकर्माण्यवकाशं लभन्ते । तद्यथा गृध्रो वा कङ्क इति दृष्टान्तः । किञ्चार्याश्चतुस्मृत्युपस्थानेषु चित्तं प्रतिबध्नन्ति । अतो दुर्गतिककर्माणि नावकाशं लभन्ते । शाखानिवेशितवृत्तघटवत् । द्विविधसंयोजनसमन्वागमाद्धि दुर्गतौ पतितो यथाकर्म विपाकं वेदयते । आर्यास्तु एक [संयोजन]प्रहाणान्न दुर्गतौ पतन्ति । ते सदा कुशलकर्मविपाकं समाददत इत्यतो ( स्स्स्_279 ) दुर्गतिककर्माणि नावकाशं लभन्ते । यथा पूर्वं षट्कर्मवर्गे प्रतिपादितं नरक[वेदनीयं] कर्मलक्षणम् । [तादृश]कारणाभावादार्या न दुर्गतौ पतन्ति ॥
दशाकुशलकर्मपथवर्गः षोडशोत्तरशततमः ।
117 दशकुशलकर्मपथवर्गः
दशकुशलकर्मपथा यदुत प्राणातिपातविरतिः यावत्सम्यक्दृष्टिः । इमे दशशीलसंवरसङ्गृहीता ऐककालिकाः । ध्यानमरूपसंवरसङ्गृहीतमपि ऐककालिकम् । विरतिर्नाम कर्मपथः । साविज्ञप्तिरेव । (पृ) वन्दनादीनि पुण्यानि अन्ये कर्मपथाः सन्ति । कस्माद्विरतिमात्रं कर्मपथ इत्युच्यते । (उ) विरतिप्राधान्यात् । इमानि दश कर्माणि दानादिभ्य उत्कृष्टानि । कस्मात् । दानादिना लब्धः पुण्यविपाको न शीलधारणस्य [तुला]मर्हति । यथा दशवार्षिकः पुमान् प्राणातिपातविरतिप्रत्ययमायुर्वर्धयति । दशाकुशलकर्मणां पापत्वात् तद्विरतिः प्रकृतितः पुण्यम् । अन्तिमानि त्रीणि कुशलकर्माणि कुशलकर्माणां मूलम् । तस्माद्दानादीनि कुशलानि कर्मपथसङ्गृहीतानि । अस्मिन् कर्मपथे ऽस्ति पौर्वापर्येणोपनिध्योक्तकशाताडनादिविरतिः । अतः सर्वाणि कुशलानि अत्र सङ्गृहीतानि ॥
दशकुशलकर्मपथवर्गः सप्तदशोत्तरशततमः ।
118 आदीनववर्गः
(पृ) अकुशलकर्मणां किमादीनवम् । (उ) अकुशलकर्मभिर्नरकादिदुःखं वेदयते । यथोक्तं सूत्रे- प्राणातिपातप्रत्ययं नरके पतति । यदि मनुष्येषूत्पद्यते । अल्पायु र्विन्दते । यावदेवं मिथ्यादृष्टिः । अकुशकर्मप्रत्ययं चिरं दुःखमनुभवति । यथावीचिनरके ऽप्रमाणवर्षाण्यतिवाहयन् नायुः क्षपयति इति । सत्त्वानां विद्यमानाः सर्वा अकुशलपराभवहानिपीडा अकुशलैः [कर्मभि]रेव भवन्ति । अदृष्टाकुशलकर्मणां महोपकारो ऽस्ति । यथा सैनिकव्याधादयो नानेन कर्मणा बहुमानं लभन्ते । चोरवधप्रत्ययं धनभानं लभत इति यत् भवत आशयः । तदिदं पूर्वमेव त्रिकर्मवर्गे प्रत्युक्तम् । अकुशलचारी गर्हानिर्भत्सनादीनि ( स्स्स्_280 ) दुःखोपायासाङ्गानि विन्दते । परेषामनिष्टप्रापकं क्रूरमित्यत एभ्यो ऽकुशलकर्मभ्यो विरमितव्यम् । उक्तञ्च सूत्रे- प्राणातिपातस्य पञ्चावद्यानिः- (1) जनानामश्रद्धेयता, (2) दुर्यशःप्राप्तिः, (3) कुशलाद्विप्रकृष्याकुशलप्रत्यासत्तिः, (4) मरणकाले चित्तविप्रतिसारः, (5) अन्ते दुर्गतिपतनम् इति । प्राणातिपातप्रत्ययमल्पसुखं बहुद्दुःखं भवति । अकुशलकर्माचरणं पुरुषचित्तं संक्लेशयति । अध्वन्यध्वनि समुपचितसमुदयश्चिरं दुश्चिकित्सो भवति । अकुशलचारी तमसस्तमः प्रविष्टः प्रवृत्तिमार्गत्रितयान्न निर्याणं लभते । अकुशलचारी मनुष्यदेहोपादानं वृथाकरोति । यथोषधिनिचितात् हिमगिरेर्विषतृणस्य समाहर्तातिमूढो भवति । एवं दशकुशलकर्मपथैर्मनुष्यदेहं लभते । कुशलमनाचरन् केवलं महतीं हानिमेव करोति । किं पुनरकुशलकर्मसमादाने । किञ्चाकुशलचारी स्वकायं कामयन्नपि न वस्तुतः स्वात्मानं कामयते । स्वात्मानं रक्षन्नपि नात्मानं रक्षति । आत्मपीडाकरकर्मप्रत्ययत्वात् । पुरुषो ऽयं कायसङ्गतः तद्यथामित्रचोरेण [सङ्गतः] स्वात्मन एव दुःखकारकत्वात् । यो ऽकुशलमाचरति । स स्वयमेव तत्कायं चोरयति । किं पुनः परः । अकुशलकर्मचर्या यद्यपीदानीं नाभिव्यज्यते विपाके तु अध्यवसीयते । तस्मादल्पीयस्यपि अश्रद्धा न कर्तव्या । यथाल्पीयो ऽपि विषं पुरुषं हन्ति । यथा वा ऋणमल्पमपि क्रमेण वृद्ध्या वर्धते । परस्य कृतं पापं परः सदा न विस्मरति । अतः कृतं चिरविप्रकृष्टमपि न श्रद्धातव्यम् । अकुशलचारी न सुखे रमते । अकुशलाचरणाद्देवमनुष्यसुखाद्भ्रश्यति । असुखरतो मूढः श्रेष्ठः । अकुशलचारिणो दुःखं गाढशोचनीयं भवति । विप्रतिसारादिदुःखं प्रत्यक्षं वेदयते । अन्ते तु दुर्गतिदुःखं वेदयते । अकुशलकर्मफलात् विहायसा गत्वा समुद्रे निमज्यापि न विमुक्तिस्थानं लभते । यथा सुवर्णतोमरो बुद्धमन्वधावत् । सर्वमकुशलं मोहोत्थितम् । अतो विद्वान् नानुस्मरेत् । उक्तञ्च सूत्रे- प्रमादः शत्रुवत्कुशलधर्मान् हन्ति इति । अतो नानुस्मरेत् । किञ्चाकुशलं कर्म बुद्धबोधिसत्त्वैरर्हद्भिरार्यैः पञ्चभिज्ञैर्महर्षिभिः पुण्यपापवेदिभिरविगीतं न भवति । अतो न कुर्वीत । पश्यामः खलु प्रत्यक्षमकुशलचित्तवैपुल्य एव भावव्यामोहविक्षेपोपायासाधिदुःखैर्विकृतमुखवर्णः पुमानप्रीतो दृश्यत इति । किं पुनः कायिकवाचिककर्मोत्पादने । एभिः प्रत्ययैर्ज्ञायते अकुशलानामप्रमाणान्यवद्यानि सन्तीति ॥
आदीनवर्गो ऽष्टादशोत्तरशततमः ।
119 त्रिकर्मगौरवलाघववर्गः
त्रिषु कर्मसु किं गुरुतरं- किं कायिकं कर्म, वाचिकं कर्म किं वा मानसं कर्म । (पृ) केचिदाहुः- कायिकं वाचिकञ्च कर्म गुरुतरम् । न मानसं कर्मेति । कस्मात् । कायिकवाचिककर्मणोर्नियमेन सत्यत्वात् । यथा पञ्चानन्तर्याणि कायं वाचञ्चोपादाय क्रियन्ते । कायो वाक् च कर्म निष्पादयति । यथा कश्चिदिमं सत्त्वं हन्मीति चित्तमुत्पाद्य कायवाग्भ्यां तत्कर्म साधयति । न मानसकर्ममात्रेण प्राणिवधपापं विन्दते । नापि चित्तोत्पादमात्रेण चैत्यनिर्माणब्राह्मपुण्यं विन्दते । कायवचस्यसति मानसिककर्ममात्रस्य न विपाको ऽस्ति । यथा कश्चिच्चित्तमुत्पादयति दानं दास्यामीति । न तु प्रयच्छति । न तस्यास्ति दानपुण्यम् । नापि प्रणिधानमात्रेण वस्तु परिनिष्पद्यते । यथा कश्चित्सङ्घस्य महादानं करोमीति प्रणिदधाति । न तु ददाति । तस्य नास्ति सङ्घदानपुण्यम् । मानसं कर्म महत्तरमिति चेत् [तदा] दानपुण्यं लभेत । तथा च कर्मविपाकः व्यामोहः स्यात् । विनये च नास्ति मानस्यापत्तिः । यदि मानसं कर्म महत्तरम् । कस्मान्नास्त्यापत्तिः । यदि चित्तमुत्पादयितुः पुण्यं लभ्यत इति । तदा पुण्यं सुलभं स्यात् । आचरिता कस्मात् सुलभमिदं कर्म त्यक्त्वा दुराचरणं दानादिकर्म कुर्यात् । तथा चेदक्षीणपुण्यः स्यात् । यथा कश्चिद् वृथा चित्तमात्रमुत्पादयति । नात्यन्तं व्याप्रियते । [तदा] कस्य क्षयः । धनं परिमितमित्यतः पुण्य[मपि] क्षीयते । न चित्तोत्पादमात्रं परस्योपकरोति । अपकरोति वा । यथा तर्षितो बुभुक्षितः सत्त्वः पानमाहारमभिलषति । न मानसकर्मणा वार्यते । लौकिकानां हानिलाभावतिमात्रौ । चित्तं लघु चलं दुर्दममित्यतो ऽकुशलाकरणं न किञ्चित् । तदा गुर्वी हानिं विन्देरन् । ये पुण्यचिकीर्षया कुशलचित्तमुत्पादयन्ति । ते महालाभमेवाप्नुयुः । इदन्तु अत्यन्तं दुष्टम् । यदि मानसं कर्म महत्तरम्, प्राणातिपातचिकीर्षाचित्तमुत्पादयन् नरके पतेत् । एवं चिरोपचितेनापि शीलादिना किमुपकृतं स्यात् । शीलादिकुशलाचाराणां गुणा अव्यवस्थिता भवेयुः । कस्मात् । एकचित्तोत्पादमात्रेण पापलाभात् । उक्तञ्च सूत्रे- कायिकं वाचिकं कर्म औदारिकम् । अतः पूर्वं प्रजह्यात् । औदारिकक्लेशप्रहाणाच्चित्तं समाधीयत इति । यो ऽब्रह्मचर्यचित्तमुत्पादयति । तस्य मैथुनं कृतमिति शीलं विपद्येत । यश्चित्तोत्पादः न तन्मैथुनम् । एतन्मैथुनचित्तव्यतिरिक्तः को धर्मो मैथुनमित्युच्यते । उत्पद्यमानं विज्ञप्तिकर्म सर्वं कायवचसा भवति न मानसकर्मणा । यथा परपुरुषनिन्दा अवश्यं वाक्कर्माधीना मृषावादपापं गमयति । यत्पूर्वमुक्तं चतुर्भिः प्रत्ययैः ( स्स्स्_282 ) प्राणातिपातपापं लभते यदुत सत्त्वसत्ता, सत्त्वसत्ताज्ञानं, जिघत्साचित्तं तज्जीवितोच्छेद इति चतुर्भिर्वस्तुभिः पापं सिध्यति । [अतो] ज्ञातव्यं न मानसं कर्म गुरुतरमिति । यथा चाह भगवान्- यो बालक आजन्म करुणामभ्यस्यति । स किमकुशलं कर्मोत्पादयितुं शन्कोति अकुशलं कर्म चेतयते वा इति । अतो ज्ञायते कायिकं कर्मैवोत्पादयति न मानसं कर्म इति ।
अत्रोच्यते । यत् भवानाह- कायिकं वाचिकं कर्मैव गुरुतरं न मानसम् इति । तदयुक्तम् । कस्मात् । सूत्रे भगवानाह-
चित्तं धर्मस्य वै मूलं चित्तं प्रभुश्च किङ्करः ।
शुभाशुभं तत्स्मरति वचनं चरणञ्च तत् ॥ इति ।
अतो ज्ञायते मानसं कर्मैव गुरुतरमिति । मनोविशिष्टत्वेन कायिकवाचिककर्मणो र्विशेषो ऽस्ति । यथा उत्तमं मध्यममधममित्यादि । विना चित्तं नास्ति कायिकं वाचिकं कर्म । सूत्रे वचनाच्च विज्ञप्तिकर्म कृत्वा नियमेन विपाकं वेदयते । आह च- सप्तविशुद्धिपुण्यानां त्रिविधमानसकर्ममात्रमुपयोजयति । इमानि सप्तविशुद्धिपुण्यानि पुण्यसम्पत्सूत्तमानि भवन्ति । करुणा च मानसं कर्म । सूत्रमाह- करुणाचित्तं विपाकप्रापकमिति । यथाह सूत्रम्- पुराहं सप्तवर्षाणि करुणासमुदाचरणान्नेएमं लोकं सप्तमहाकल्पान् प्रतिनिवर्तामीति । अतो ज्ञायते मानसं कर्मेव गुरुतरमिति । तदेव सर्वान् लोकान् व्याप्तुं शक्नोति । मानसं कर्म गुरुतरम् । यथा मानसकर्मविपाकादशीतिमहाकल्पहस्राण्यायुर्भवति । मानसकर्मणः शक्ति कायिकं वाचिकं कर्मातिशेते । यथा कुशलचारी आयुषो ऽन्ते मिथ्यादृष्टिमुत्पादयन् नरके पतति । अकुशलचारी मरणकाले सम्यग्दृष्टिमुत्पादयन् देवेषूत्पद्यते । [ततो] ज्ञातव्यं मानसं कर्म महत्तरमिति । उक्तञ्च सूत्रे- पापेषु मिथ्यादृष्टिर्गुरुतरेति । आह- यो लोकोत्तरां सम्यग्दृष्टिमुत्पादयति स वर्षशतसहस्याणि संसारे संसरन्नपि न दुर्गतौ पतति इति । मानसकर्मणो बलं कायिकं वाचिकं कर्मातिशेते । यथोक्तमुपालिसूत्रे- तीर्थिको महर्षिः [आगत्य वदेत्] एकेन मनोदण्डेन नालन्दं भस्मीकरोमीति इति । यथा दण्डकारण्यानि ऋषिणां मनोदण्डेन [भस्मी]कृतानि इति । मानसं कर्मैव विपाकप्रापकम् । यथोक्तं ( स्स्स्_283 ) सूत्रे- यो ऽयमत्र मृतः स एव नरकं प्रविशति । स एव देवेषूत्पद्यते हस्तमुक्तेषुवत् इति । यथा मानसकर्मणोपचित्तैर्मलधर्मैर्यावदवैवर्तिकनरकं प्रविशति । [तथा] उपचितैः कुशलधर्मैर्यावन्निर्वाणम् । चैतसिकस्य सविपाकत्वादेव कायिकं वाचिकं विपच्यते । अभावे कर्मणो विपाकाभावात् । न विना मानसं कर्म कायवाक्कर्मणोर्विपाको ऽस्ति । यन्मनसा कायं वाचञ्च निश्रित्य कुशलमकुशलं वा चरति तत्कायिकं वाचिकं कर्मेत्युच्यते । विनापि कायिकवाचिककर्मणनसकर्मणो विपाको ऽस्ति । न तु विना मानसं कर्म कायिकस्य वाचिकस्य वा विपाकः । अतो ज्ञायते मानसं कर्म गुरुतरं न कायिकं वाचिकम् । इति ।
यद्भवतोक्तं कायिकवाचिककर्मणोर्नियमेन सत्यत्वात् यथा पञ्चानन्तर्याणि कायं वाच[ञ्चोपादाय] क्रियन्त इत्यतो गुरुतराणीति । तन्न युज्यते । यस्मात् चेतना गुर्वी वस्तु च गुरु तस्मात्कर्म गुरु । न कायवचसी गुरुणी इति । चित्तनैयत्यात्कर्म नियमेन सत्यम् । यथा चित्तबलमात्रेण सद्धर्मपदं प्रविशति तथा चित्तबलेनैव चानन्तर्यपापं सम्पादयति । असति चित्ते मातापितृवधो ऽपि नानन्तर्यम् । अतो ज्ञायते कायवचसी न बलवतीति ।
उक्तं भवता काये वाक् च कर्म वस्तु निष्पादयतीति । तन्न युक्तम् । कर्मसमापनं निष्पत्तिः । परस्यायुरपहरन् प्राणातिपातपापं लभते । न कायिकवाचिककर्मोत्पत्तिकाले । कर्मसमापने चित्तबलमवश्यमपेक्षते । न कायवचसी । यदुक्तं भवता- वृथाचित्तोत्पादमात्रेण नास्ति विपाक इति । तदयुक्तम् । यथोक्तं सूत्रे- दृढचित्तमुत्पाद्य तदैव देवेषूत्पद्यते नरके वाधः पतति इति । कथमाह मानसकर्मणो न विपाको ऽस्तीति । यदुक्तं भवता- नापि प्रणिधानमात्रेण वस्तु साधयतीति । तदप्ययुक्तम् । कस्यचिदुत्पन्नं गभीरं कुशलचित्तं महासङ्घ[दान]पुण्यमप्यतिशेते । यदाह भवान्- नास्ति मानस्यापत्तिरिति । तदयुक्तम् । यदाकुशलचित्तमुत्पादयति तदैव पापं लभते । यथाह भगवान्- सन्ति विविधानि पापानि कायिकवाचिकमानसपापानीति । अतो ज्ञायते ऽकुशलचित्तोत्पादमात्रम पापमिति न लभ्यते । असंयोजनमात्रं शीलम्, दुर्धरत्वात् । औदारिकं पापं शीलधारणेन वारयति । सूक्ष्मं पापं समाध्यादिना परिहरति ।
यदुक्तं भवता पुण्यं पापञ्च सुलभं स्यादिति । तदयुक्तम् । चित्तबलस्य तनुत्वात् जनाः सुलभं त्यक्त्वा दुर्लभं कुर्वन्ति । यथा करुणाचित्तादि, तत्पुण्यमतिमात्रबहुलम् । न तु दानं [तथा] । सत्त्वा अवरज्ञानबलाः करुणादि मानसं कर्म चरितुं न समर्था इत्यतो ( स्स्स्_284 ) दानादि कुर्वन्ति । प्रकीर्णकुसमगन्धादिषु पूजोपकरणेषु विशुद्धचित्तस्य दुर्लभत्वात् । यदुक्तमक्षीणपुण्यः स्यादिति । तत्प्रतिब्रूमः । स यदि बोधिबलयुक्तः तदा अक्षीणं कुशलधर्मं लभेतैव । यदुक्तं मानसं कर्म न कस्यचिदुपकरोति अपकरोति वा इति । तन्न युज्यते । कायिकवाचिकर्माणि मानसकर्मणाहृतानीति न प्रधानानि भवन्ति । यद्बलादुत्पद्यते तत् [ततः] प्रधानम् । सर्व उपकाराः करुणाचित्तविहाराधीना भवन्ति । कस्मात् । करुणाविहारबलात्समीरणवृष्टयोः ऋतुमनुवर्तमानयोरपि बीजशतानि पच्यन्ते । यथा कल्पादौ तण्डुलानि स्वयमुत्पद्यन्ते पुरुषाणां दशवर्षायुःकाले प्राप्ते तत्सर्वं नाभूत । कथमाह- करुणाचित्तमनुपकारकमिति । करुणाविहारी सर्वाण्यकुशलमूलानि क्षपयति । अकुशलकर्माधीना हि सर्व उपद्रवाः । कथमाह- करुणाविहारो महोपकारक इति । यदि सर्वे सत्त्वाः करुणाचित्ते विरहन्ति । तदा सर्वे सुस्थान उत्पद्येरन् । न हि सर्वे प्रकृतितः पुण्यप्रयोगमभिलषन्ति । अतो ज्ञायते करुणापुण्यं परमगभीरगहनमिति । कदाचित्करुणादानाभ्यां सत्त्वानुपकुर्वन्ति । कदाचित्करुणामात्रेण । करुणाविहारिणः सत्त्वा यदि कायं स्पृशन्ति । यदि वा तच्छायायां निपतन्ति । सर्वथा निवृतिं लभन्ते । ज्ञातव्यं करुणापुण्यं दानादिभ्य उत्तममिति ।
यदुक्तं भवता- हानिलाभावतिमात्राविति । तत्प्रत्युक्तपूर्वं यन्मनोबलेन सत्त्वानुपकरोति अपकरोति चेति । अतो ज्ञायते मानसं कर्म गुरुतरमिति । यदुक्तं चिरोपचितेनापि शीलादीना न किञ्चिदुपकृतमिति । तदप्ययुक्तम् । कस्मात् । मनोविशुद्धया हि शीलविशुद्धिः । यदि मनो न विशुद्धम् । शीलमपि न विशुद्ध्यति । यथेदं सप्ताब्रह्मचर्यसूत्र उक्तम् । विशुद्धशीलश्च महाविपाकं प्रतिलभते । यथाह सूत्रम- शीलव्रतः प्राणिहितं मनो ऽनुयायि भवति । यदुत शीलविशुद्ध्या इति । शीलविशुद्धौ च चित्तं प्रशाम्यति । नान्यधर्मे [सति] । यदुक्तं कायिकं वाचिकं कर्मादौरिकम् । अतः पूर्वं प्रजहातीति । तदयुक्तम् । सूक्ष्मकुशलेन महाविपाकं लभते । यथा ध्यानसमापत्तौ चेतना । यदुक्तं यद्यब्रह्मचर्यचित्तमुत्पादयति तदा शीलं विपद्येतेति । तदयुक्तम् । यस्य मानसं कर्माविशुद्धम्, तस्य शीलमपि अविशुद्धम् । पुण्यपापयोर्भेदे लब्धे संयोजनशीलधर्मयोर्भेदः । यदुक्तं त्वया- उत्पद्यमानं विज्ञप्तिकर्म कायवाग्भ्यां भवतीति । तत् सामान्यतः प्रत्युक्तं यदुत कायिकवाचिककर्मधर्मभेदे मानसकर्मधर्मभेदः । कायिकं वाचिकं कर्म अवश्यं विज्ञापयित्रा सिध्यति । यथा चतुर्भिः प्रत्ययैः सिद्धं प्राणातिपातपापं न मानसकर्म विना भवति । लौकिकाः सत्वा वदन्ति कायिकं वाचिकं कर्माकुशलं न तथा मानसमिति । ( स्स्स्_285 ) मानसं कर्म च न जनेषूपप्रयुज्यते नाप्युपलभ्यते ऽस्तीति । पूर्वञ्चोक्तं पुण्यपापयोर्लक्षणम् । तल्लक्षणत्वान्मानसं कर्मैव गुरुतरं न कायिकं वाचिकं वा ॥
त्रिकर्मगौरवलाघववर्ग एकोनविंशत्युत्तरशततमः ।
120 कर्महेतुप्रकाशनवर्गः
शास्त्रमाह- संक्षिप्योक्तानि कर्माणि । कर्मेदं कायोपादानस्य कारणम् । कायो दुःखस्वभावः । अतस्तं निरोधयेत् । एतत्कायनिरोद्धुकामेन तत्कर्म प्रहातव्यम् । हेतुनिरोधे फलस्यापि निरोधात् । यथा बिम्बमुपादाय प्रतिबिम्बम् । बिम्बनिरोधे प्रतिबिम्बं निरुध्यते । अतो दुःखनिरोधकामिना तद्धेतुकर्मप्रहाणाय वीर्यमारब्धव्यम् ।
(पृ) कर्मतः काय उत्पद्यत इतीदं प्रतिपादयितव्यम् । कस्मात् । केचिदाहुः- कायः प्रकृतित उत्पद्यत इति । केचिदाहुः- महेश्वरादुत्पद्यत इति । केचिदाहुः- महापुरुषात्सम्भूत इति । अन्ये केचिदाहुः- स्वभावज इति । अतो वक्तव्यं कारणं कथं ज्ञायते कर्मत उत्पद्यत इति । (उ) इदं विविधैः कारणैर्दूषितम् । ज्ञातव्यं कर्मतः कायमुपादत्त इति । पदार्था नानाविप्रकीर्णजातय इति ज्ञातव्यं हेतुरपि भिद्यत इति । यथा पश्यामः अलकसन्दुककोद्रवादीनां भेदः तद्बीजमसमं ज्ञापयति इति । महेश्वरादीनां भेदाभावात् न हेतुरिति ज्ञातव्यम् । कर्मणस्तु अप्रमाणविभक्तत्वात् नानाकाया उपादीयन्ते । किञ्च सज्जनाः श्रद्धधन्ते यत् कर्मोपादाय काय उपादीयत इति । कस्मात् । ते हि सदाचरन्ति दानशीलक्षान्त्यादिकुशलधर्मान् । विरम्यन्ते च प्राणातिपाताद्यकुशलधर्मेभ्यः । अतो ज्ञायते कर्मतः शरीरमुपादीयत इति । यदि कर्मोपादाय शरीरमुपादीयते तदा तत् निवर्तनीयम् । तत्त्वज्ञानलाभान्मिथ्याज्ञानं प्रहीयते । मिथ्याज्ञानप्रहाणात्कामक्रोधादयः क्लेशाः प्रहीयन्ते । क्लेशानां प्रहाणादूर्ध्वजन्मोत्पादकं कर्मापि प्रहीयते । तदा त्वयं कायो निवर्त्यते । ईश्वरादीनां कारणत्वे तु न निवर्तयितुं शक्यते । ईश्वरादीनामप्रहातव्यत्वात् । अतो ज्ञायते कर्मतः शरीरमुपादीयत इति । प्रत्यक्षं प्रश्यामः खलु हेतुसदृशं फलम् । यथा क्रोद्रवात्कोद्रव उत्पद्यते शालेश्च शालिः । एवमकुशलकर्मतो ऽनिष्टविपाको लभ्यते । कुशलकर्मत इष्टविपाकः । ईश्वरादीषु तु नेदृशमस्ति । अतः कर्म कायस्य मूलम् । नेश्वरादयः ।
पश्यामः खलु प्रत्यक्षं पदार्थाः कर्मसम्भूता इति । अकुशलकर्मणा हि ताडननिग्रहबन्धनकशाधातादिदुःखान्यनुभवन्ति । कुशलकर्मप्रत्ययञ्च यशोलाभसत्कारादिसुखान्यनुभवन्ति । मनोज्ञप्रियवादी मनोज्ञप्रियविपाकं विन्दते । अतो ज्ञायते कर्मतः शरीरमुपादीयते न महेश्वरादिभ्य इति । लौकिकाः स्वयं जानन्ति पदार्थाः कर्महेतसम्भूता इति । अत एव कृष्यादिकर्म कुर्वन्ति । दानशीलक्षान्त्यादिपुण्यकर्माणि च कुर्वन्ति । नान्त[र्गृह]मुपविशन्ति ईश्वरादिभ्य ईप्सितमाकांक्षमाणाः । अतो ज्ञायते कर्मतो विपाको लभ्यत इति । जना ईश्वरादीन् कारणं वदन्तो ऽपि कर्माणि निश्रयन्ते यदुत स्वदेहं खेदयन्त उपवासादीन् स्वीकुर्वन्ति च । अतो ज्ञायते कर्महेतुकमिति । यददृष्टं वस्तु तत्र परशासनमनुसरेत् यदार्याणामाचरितम् । सर्वे चार्याः शीलादिकुशलधर्मान् निश्रयन्ते यतो जानन्ति कर्महेतोर्लोको ऽस्तीति । यदि शीलादिविरतः न [स] आर्यो भवति । न कश्चिदार्यः शासनप्रतिद्वन्द्विकर्मको भवति । अतो ज्ञायते कर्मणः शरीरमुपादीयत इति । किञ्च शीलादि कर्मणामाचरणादृध्यभिज्ञानिर्मितादीनि साधयन्ति । अतो ज्ञायते कर्महेतुक इति । नरकादिदुर्गतिषु द्वेषप्रदाशादयो बहुलाः । अतो ज्ञायते द्वेषप्रदाशादिना दुर्गतयो भवन्तीति । यथा उपरि वृक्षे फलं दृष्ट्वा जानन्ति वृक्षस्तद्धेतुरिति । अतो ज्ञायते कर्म देहस्य मूलमिति । दुर्गतौ मोहादयः प्रबला इति ज्ञातव्यं क्लेशाः दुर्गतिकारणम् । सर्वेषामकुशलानां मोहाधीनत्वात् इति । दुर्गतिषूत्पन्ना बहवः, सुगतिषूत्पन्ना अल्पाः । चक्षुषा पश्यामः खलु वधाद्यकुशलचारिणो बहवः । कुशलचारिणो ऽल्पा इति । अतो ज्ञायते हिंसादिवृत्तिर्दुर्गतिकारणमिति । वधादि सज्जना विगर्ह्य न कुर्वन्ति । यदि जानन्ति नाशुभफलानीति कस्मात् निराकुर्वन्ति । सज्जानानां चित्ते यद्यकुशलमुत्पद्यते तदैव प्रयत्नेन निगृह्यते । अकुशलविपाकभीरुत्वात् । [अतो] ज्ञातव्यं वधादयो ऽवश्यमकुशलविपाका इति । तथा नोचेत् यथेष्टं कुर्यः इदमेव परमं सुखमिति । तदा हत्वा सत्त्वानां भोजनं परद्रव्यापहारः यदि वा परस्त्रीगमनं इमान्यपि सुखानि भवेयुः । आगामिदुःखभीरुत्वात् तानि दूरतः परिहरन्ति । अतो ज्ञायते कर्मतः कायो भवतीति । सम्यक् ज्ञानभावनया सास्रवं कर्म क्षीयते । न तदा काय उपादीयते । अतो ज्ञायते कर्म तस्य मूलमिति । अर्हतो यद्यपि सास्रवकर्माणि सन्ति । सम्यक् ज्ञानभावनया तु [तानि] नोपचिनोति । अतो ज्ञायते कर्म कायस्य हेतुरिति । कायहेतुनिरोधात्कायो ऽपि निरुध्यते । चतुस्सत्यज्ञानात् सत्याश्रयाः क्लेशा न कदापि पुनरुद्भवन्ति । अनुद्भवान्न भवति कायवान् । विद्वानेवं चिन्तयन् चतुस्सत्यानि जिज्ञासति । अतो ज्ञायते कर्म कायस्य हेतुरिति । प्रत्यये विकले च न ( स्स्स्_287 ) कायमुपादत्ते । यथा शुष्कभूमौ बीजे च दग्धे न सर्वो ऽङ्कुरः प्ररोहति । एवं विज्ञानस्थितिक्षेत्रे तृष्णास्नेहानभिष्यन्दिते कर्मबीजे च तत्त्वज्ञानदग्धे नोर्ध्वदेहाङ्कुरः प्ररोहति । विद्वानेतद्वस्तु प्रज्ञाय विज्ञानस्थितिक्षेत्रं शोषयितुं कर्म बीजं दग्धुञ्च वीर्यमधिष्ठाय प्रयतते । अतो ज्ञायते कर्म कायोपादानस्य प्रत्यय इति ॥
कर्महेतुप्रकाशनवर्गो विंशत्युत्तरशततमः ।
कर्माधिकारः समाप्तः ॥
121 समुदयसत्यस्कन्धे क्लेशाधिकारे आद्यक्लेशलक्षणवर्गः
शास्त्रमाह- उक्तानि कर्माणि । क्लेशा इदानीं वक्ष्यन्ते । मलिनचित्तसमुदाचारः क्लेश इत्युच्यते । (पृ) किं मलमुच्यते । (उ) यत् संसारसन्तानस्य प्रवर्तकं तन्मलिनचित्तमित्युच्यते । तन्मलिनचित्तप्रभेदा एव रागद्वेषमोहादयः । इदं मलिनचित्तं क्लेश इत्युच्यते । पापधर्म इत्यपि, परिहाणिधर्मः तिरोभावधर्म परितपनधर्म अनुपतनधर्म इत्यादिनाम्नाप्युच्यते । एतन्मलिनचित्ताभ्यासोपचयो ऽनुशय इत्युच्यते । न तु मलिनचित्त उत्पन्नमात्रे ऽनुशयः । क्लेशा नाम रागद्वेषमोहविचिकित्सामानपञ्चदृष्टयः । तत्प्रभेदा अष्टनवतिरनुशयाः ।
रागः प्रीतिसुखाख्यस्त्रिविधः । विभवप्रीतिसुखमपि राग इत्युच्यते । यथोक्तं सूत्रे- कामतृष्णा भवतृष्णा विभवतृष्णा इति । विभवो नाम प्रहाणं निरोधः । सत्त्वा दुःखाभिहता स्कन्धकायं परिजिहीर्षवो विभवं सुखं मन्यन्ते ।
(पृ) प्रीतिसुखं वेदनालक्षणं न नन्दिरागः । यथोक्तं सूत्रे- ऐहिकं सौमनस्यमामुष्मिकं सौमनस्यं इहलौकिकसुखवेदना आमुष्मिकसुखवेदना इत्यर्थमभिदधाति इति । किञ्चाह- ऐहिकं दौर्मनस्यमामुष्मिकं दौर्मनस्यं इहलौकिकदुःखवेदना आमुष्मिकदुःखवेदना इत्यर्थमभिदधाति । यथोक्तं देवताप्रश्ने- किं नन्दति पुत्रैः पुत्रवान् । भगवानाह- शोचति पुत्रैः पुत्रवान् इत्यादि ।
अत्रोच्यते । रागो नन्द्यङ्गम् । यथोक्तं सूत्रे- वेदनाप्रत्यया तृष्णा । सुखवेदनायां रागो ऽनुशयः । कबलीकाराहारे ऽस्ति नन्दिरस्ति रागः । नन्दिक्षयाद्रागक्षय इति । अतो ज्ञातव्यं रागः प्रीत्यङ्गमिति । इदं त्वनवद्यम् । केन तत् ज्ञायते । यथोक्तं सूत्रे- समुदयसत्यं यदुत तर्षणं इति । कस्याभिधानं तर्षणम् । यत् पुनर्भवलिप्सा । किंलक्षणमिदं तर्षणम् । यत् रागं निश्रित्य विविधलिप्सा । (पृ) यद्युच्यते पुनर्भवलिप्सा तर्षणलक्षणमिति । कस्मात्पुनरुच्यते रागं निश्रित्य विविधलिप्सेति । (उ) अस्ति पुनस्तर्षणलक्षणम् । विविधलिप्सेति विशिष्टलक्षणवचनम् । वीतरागस्याप्यस्ति विविधलिप्सातर्षणं यदुत सलिलादिलिप्सा । नेयं समुदयसत्यसङ्गृहीतम् । यद्रागमुपदाय पुनर्भवलिप्सा, तत्तर्षणं समुदयसत्यसङ्गृहीतम् ।
(पृ) यदि तर्षणमपि नन्दिः, रागो ऽपि नन्दिः कस्मादुच्यते रागं निश्रित्येति । (उ) आद्योत्पन्नं तर्षणम् । विवृद्धो रागः । अतस्तं निश्रित्येत्युच्यते । यथोक्तं सूत्रे- नन्दिसम्बन्धो लोक इति । अतो नन्दिरेव रागः । उक्तञ्च सूत्रे- निरोधं वर्जयित्वा रागो दौर्मनस्यञ्च सर्वे ऽकुशला धर्मा इति । तत्र राग एव नन्दिः । दौर्मनस्यं द्वेषः । यथोच्यते द्वेषो दौर्मनस्यमिति तदा ज्ञायते नन्दिः राग इत्युप्युच्यत इति । अतो ऽष्टादशमनौपविचारेषु न क्लेशा उच्यन्ते केवलं वेदना उच्यन्ते । अतो ज्ञायते नन्द्यङ्गं राग इति । पृथग्जना वीतरागा न वेदयन्ते सुखम् । वीतद्वेषाश्च न दुःखं वेदयन्ते । वीतमोहा नादुःखमसुखं वेदयन्ते । केन तत् ज्ञायते । तृतीयवेदनायामुच्यते पृथग्जना अस्या वेदनाया न जानन्ति समुदयं, न जानन्ति निरोधं, न जानन्ति आस्वादं, न जानन्ति आदीनवं न जानन्ति निस्सरणम् । अतो ऽदुःखासुखवेदनायामविद्यानुशयो ऽनुशेते । इमे पृथग्जनाः सदा पञ्चधर्मान् तान् न जानन्तीत्यतो ऽदुःखासुखवेदनायां सदाविद्यानुशयं र्वन्ति । यो ऽविद्यानुशयः तद्वेदनोपविचारस्वभावाज्ञानम् । एवं पृथग्जनानां सुखदुःखमनौपविचारावेव ( स्स्स्_290 ) रागप्रतिघौ । यदादावागत्य चित्ते वर्तते [सा] वेदनेत्युच्यते । तदेव चित्तमधिमात्रं क्लेश इत्युच्यते ।
समुदयसत्यस्कन्धे क्लेशाधिकारे आद्यक्लेशलक्षणवर्गं एकविंशत्युत्तरशततमः ।
122 रागलक्षणवर्गः
शास्त्रमाह- नवसंयोजनेषु रागो ऽयमात्रिधातुप्रतिप्रतिसंयुक्तस्तृष्णेत्युच्यते । सप्तानुशयानामङ्गं द्विधा भवति- कामरागो भवराग इति । कस्मात् । केचिदूर्ध्वधातुद्वये विमुक्तिसंज्ञामुत्पादयन्ति । अतो भगवानाह- स्थानमिदं भव इति । भवो नाम जन्म । असति रागे न जन्म भवति इत्यतः पृथगुच्यते भवराग इति । न तु कामरागमात्रम् । केचिदाहुः- कामरागमात्रं क्लेशः । क्षीणकामरागो विमुक्तो नाम इति । अतो भगवानाह- आरूप्यध्याने ऽप्यस्ति भवराग इति । प्रदर्शयति च भगवान् तत्र[आपि] भवः सूक्ष्मः प्रवर्तत इति । अतः पृथगुच्यते ऽयं रागः । दशाकुशलकर्मपथेषु चतुर्षु बन्धनेषु च कामराग इत्याख्या भवति । कामरागस्य परद्रव्यलिप्येत्याख्या । पञ्चनीवरणानां पञ्चावरभागीयसंयोजनानाञ्च कामकामनेत्याख्या भवति । [तत्र]कामकामना नाम पञ्चकाम [गुणा]नां कामकामना । त्रयाणामकुशलमूलानामकुशलमूलराग इत्याख्या । अकुशलमूलरागो नाम अकुशलमूलानामुपचयनम् । अयं रागो यद्यधमाचरणः तदा अकुशलराग इत्याख्या । यथा परद्रव्यापहरणं, यावच्चैत्यसङ्घद्रव्यादानम् । यद्यमृतसत्त्वस्य मांसबुभुक्षा, यदि वा मातृभगिनीस्वस्राचार्यपत्नीः प्रव्रजितपत्नीं स्वपत्नीं वामार्गेण जिगमिषति । अयमकुशलराग इत्युच्यते । यत् स्वद्रव्यं न त्यक्तुमिच्छति । तत्कार्पण्यम् । कार्पण्यं राग एव । वस्तुतो ऽसति गुणे अस्तीति वक्तुमन्यप्रेरणमकुशलरागः । सति गुणे अन्यस्य तद्विजिज्ञापयिषा रागोत्पादनम् । बहुदानस्य बहुद्रव्यस्य वा लिप्सा, सा बहुरागता । यदल्पद्रव्यस्याल्पदानं लब्ध्वा प्रियतरं कामयते न तृप्यति । [इय]मसन्तुष्टिः । गोत्रकुलबन्धुयशोरूपसम्पद्यौवनजीवितादिषु यदभिष्वङ्गः [स] मद इत्युच्यते । यच्चतुःसत्काररागः [तत्] तृष्णाचतुष्टयमित्युच्यते ।
अयञ्च रागो द्विविधः कामरागः उपकरणराग इति । पुनर्द्विविधः आत्मराग आत्मीयराग इति । आद्य आद्यात्मिकप्रत्ययः । अपरो बाह्यप्रत्ययः । ऊर्ध्वधातुद्वये राग एकान्तेनाध्यात्मिकप्रत्ययः । ( स्स्स्_291 ) पुनः पञ्चविधः- रूपरागः, संस्थानरागः, स्पर्शरागः, इर्यापथप्रलापरागः, सर्वराग इति । रूपरसगन्धशब्दस्पर्शरागः पञ्चकामगुणरागः । षट्सु स्पर्शेषूत्पन्ना तृष्णा षड्विषयरागः । तिसृषु वेदनासु रागो ऽस्ति सुखवेदनायामस्ति लिप्सारागः, तत्परिपालनरागः । दुःखवेदनायामस्ति अलिप्सारागः तत्परिजिहीर्षारागः । अदुःखासुखवेदनायामस्ति मोहरागः । सन्ति चास्य रागस्य नवाङ्गानि । यथोक्तं महानिदानसूत्रे- तृष्णां प्रतीत्य यथेष्टवस्तुपर्येषणा । यथा कश्चित् अनेन वस्तुना दुःखितो वस्त्वन्तरं पर्येषते । यथोक्तम्- सुखी न पर्येषते दुःखी तु बहु पर्येषते । रागविवृद्धिः पर्येषणा । पर्येषणाकाले यल्लभ्यते [स] तृष्णालाभः । लाभं प्रतीत्य विनिश्चयः । इदं ग्राह्यमिदमग्राह्यमिति यच्चित्तनिर्धारणं स विनिश्चयः । विनिश्चयं प्रतीत्य छन्दरागः । छन्दरागं प्रतीत्याध्यवसानम् । अध्यवसानं नाम प्रगाढच्छन्दः । अध्यवसानं प्रतीत्य परिग्रहः । परिग्रहो नाम उपादानम् । उपादानं प्रतीत्य मात्सर्यम् । मात्सर्यं प्रतीत्य आरक्षा । आरक्षाधिकरणं दण्डादानशस्त्रादानादि । इमानि नवाङ्गानि पुनरपि नवाङ्गगानि । रागो ऽयं कालमनुसृत्य अधमः, मध्यमः, उत्तमः, अधमाधमः, अधममध्यमः, अधमोत्तमः, मध्यमाधमः, मध्यममध्यमः, मध्यमोत्तमः, उत्तमाधमः, उत्तममध्यम, उत्तमोत्तम इति । रागस्य चास्य लौकिकाङ्गानि दश भवन्ति । तद्यथा प्रियरूपं दृष्ट्वा चित्ते इदं [प्रिय]मिति वचनं करोति । ततो रागं जनयति । प्रणिधानं करोति । अनुस्मरति । यथाशिक्षितं प्रकटयति । ह्र्यपत्रपां विस्मरति । सदा स्वयं पुरोवर्तते । प्रमत्तो भवति । उन्मत्तो भवति । मुर्च्छामरणं [करोति] । इदं रागलक्षणम् ॥
रागलक्षणवर्गो द्वाविंशत्युत्तरशततमः ।
123 कामहेतुवर्गः
(पृ) कामो ऽयं कथमुत्पद्यते । (उ) स्त्रीरूपाध्यालम्बने यदि मिथ्यामनस्कारमुत्पादयति । यदि वा तद्रूपे यदि वाकारे यदि वा स्पर्शे यदि वा सुभाषिते [मिथ्यामनस्कारमुत्पादयति] । तदा कामराग उत्पद्यते । चक्षुः श्रोत्रादिद्वारासंवरणे कामराग ( स्स्स्_292 ) उत्पद्यते । भोजने चामात्रताज्ञाने कामराग उत्पद्यते । स्त्रीरूपसंस्तवे कामराग उत्पद्यते । सुखानि वेदयतः कामराग उत्पद्यते । मोहात्कामराग उत्पद्यते । अशुचिसंज्ञाजननात्, दुर्विज्ञानात्कामराग उत्पद्यते । यथा शुद्धं वस्त्र [मपगतकलङ्कं] सम्यङ् मलेन दूष्यते । रागबहुलानां पुरुषाणां संवासेन कामराग उत्पद्यते । कायादिषु चातुर्भौतिकेषु मिथ्यामनस्कारमुत्पादयन् कामाहृतो भवति । अप्रगृहीतवृत्तघटवदग्रथितकुसुमवच्च । यदि कौसीद्यान्न कुशलं भावयति । तदा कामरागो ऽवकाशं लभते । अगम्यस्थाने गच्छन् रागेणा भिभूयते । यदुत वेश्याङ्गनामद्यविक्रयवधककुट्यादयः । तद्यथा गृध्रो वा कङ्को वा इति दृष्टान्तः । अशुच्यादि विलोक्य अप्रतिहतालम्बनस्य कामरागो वेगं लभते । सुचिरादारभ्य सदा कामरागाभ्यासात् रागानुशयः सिध्यति । तदा सूत्पादो ऽयं भवति । स्त्रीरूपाद्यलम्बने प्रीतो निमित्तं गृह्णाति परिच्छेदञ्च गृह्णाति । निमित्तग्रहणं नाम पाणिपादमुखनयनालापमन्दहासकटाक्षरोदननयनबाष्पादिनिमित्तानां ग्रहणम् । परिच्छेदग्रहणं नाम स्त्री पुमानिति संस्थानविशेषविकल्पः । एवं गृहीतानुस्मरणविकल्पस्य कामराग उत्पद्यते । दुर्बलविचारणाचित्त आलम्बनमनुधावति न निगृह्णाति । तदा कामराग उत्पद्यते । यः प्रवृत्तकामरागः [तत्]क्षान्तिं वेदयन् न परित्यजति । स क्रमशो वर्धयति । अधमान्मध्यममुत्पादयति । मध्यमादधममुत्पादयति ।
कामरागस्य हितास्वादमात्रं दृष्ट्वा तदानीनवमजानतः कामराग उत्पद्यते । ऋतुना च कामराग उत्पद्यते यथा वसन्तादयः । स्थानवशेन च कामराग उत्पद्यते यथा किञ्चित्स्थानं यत्र चिरादारभ्य कामचारो बहुशो ऽभ्यस्तः । देहस्या [वस्था]वशाच्च कामरागो भवति । यथा यूनो ऽरोगस्य धनसम्पन्नस्य । बलशक्त्या च कामरागो भवति । यथा पानौषधादिः । शुभान् मनोहारिणः पञ्चकामगुणान् यदुत सुपुष्पितसरारामप्रसन्नस्निग्धवापीकूपनवमेघतटित्सुरभिवातव्यजनानि लब्धवतः, पक्षिणां कलरवं स्त्रीणां सुकुमारभूषणरुतानि सुभाषितानि वा शृण्वतः कामराग उत्पद्यते । कर्मप्रत्ययेन च कामराग उत्पद्यते । यथा विशुद्धदाता विशुद्धप्रणीतेषु पञ्चकामगुणेषु संप्रहर्षति । पापी तु अविशुद्धेषु । जातितश्च कामरागो ( स्स्स्_293 ) भवति । यथा पुरुषः पुरुषमिच्छति । प्रज्ञप्तावत्यासङ्गे च कामराग उत्पद्यते । [यथा] कश्चिदन्तःपुंलक्षणो बहिस्तु स्त्रीलक्षणो वस्त्रवेषवैरमैत्र्यादिलक्षणश्च । अलब्धचित्तसमाधानस्य अन्तः सत्त्वं पश्यतो बहिः रूपादि पश्यतश्च कामरागो भवति । यस्य रागानुशो ऽक्षीणः तृष्णाप्रत्ययश्च सम्मुखी भवति । तस्य मिथ्यामनस्कार उत्पद्यते । एवमादिप्रत्ययैः कामरागौत्पद्यते ॥
कामहेतुवर्गस्त्रयोविंशत्युत्तरशततमः ।
124 कामदोषवर्गः
(पृ) कामरागस्य के दोषाः सन्तीति कामः प्रहातव्यः । (उ) कामरागो वस्तुतो दुःखम् । पृथग्जना विपर्ययेण मृषा [तत्र] सुखसंज्ञामुत्पादयन्ति । ज्ञानी तु दुःखं पश्यति । दुःखं पश्यन् प्रजहाति । कामोपादाने नास्ति तृप्तिः । यथा मद्यपानं तत्परितर्षणमनुवर्धयति । परितर्षणविवृद्ध्या कः सुखी भवति । कामोपादानादकुशलानि सहोपचीयन्ते । असिशस्त्रादीनां कामाधीनत्वात् । उक्तञ्च सूत्रे- कामः पापो लघुर्दूस्त्यजः । व्यापाद[गतो] लघुपापः, वस्तुतः स [ततो ऽपि] लघुत्तरः इति । कामः पुनर्भवस्य हेतुः । यथोक्तं- तृष्णाप्रत्ययमुपादानं यावन्महतो दुःखस्कन्धस्य समुदय इति । तृष्णां प्रतीत्य कायो भवति । आह च दुःखहेतुस्तृष्णा भवतीति । किञ्चाह- विद्यमानानि दुःखानि भिक्षवः कस्माद्भवन्तीति मनसिकृत्वा जानीध्वं [तानि] कामहेतुकानि । तृष्णायाश्च कायो हेतुरिति । किञ्चाह- कबलीकारे [भिक्षव] आहारे ऽस्ति नन्दि अस्ति रागः । अतो विज्ञानं तत्र प्रतिष्ठितम् इति । ज्ञातव्यं तृष्णा कायवेदनायाः प्रत्यय इति । अयञ्च रागः सदा अशुचौ समुदाचरति । यथा स्त्र्यादिषु । स्त्रीणां कायचित्तमशुचि शकृन्मृत्सु [विद्यमान]वृश्चिकवत् दष्ट्वा दूषयति । स कामरागः सदा मोहे समुदाचरति । यथोक्तं सूत्रे- यथा श्वा रक्तलिप्तमस्थिकङ्कालं स्वादयित्वा [स्व]लालायोगान्मन्यते यन्मधुर[मिद]मिति । तथा राग्यपि नीरसे कामे मिथ्याविपर्यासबलेन मन्यते यदिदं रसास्वादमिति । ( स्स्स्_294 ) यथा मांसपेश्यादयः ससोपमा [उक्ताः] । केषाञ्चिदतीते ऽतागते वा वस्तुनि कामराग उत्पद्यते । अतो ज्ञायते मोहे सदा समुदाचरतीति । सत्त्वानां कामरागप्रत्ययं सुखमल्पं दुःखं बहु केन किम् [स्यात्] ।
कामतृष्णावान् सुखहेतोः सर्वदुःखान्यनुभवति यदुतार्जनकाले दुःखं रक्षणकाले दुःखमुपभोगकाले ऽपि दुःखम् । यथा कृषिवाणिज्यसंग्रामराजसेवापरिचर्यादीनि अर्जने दुःखं हानभीत्या रक्षणे दुःखं, प्रत्युत्पन्ने तृप्त्यभावाद्दुःखम् । इष्टसङ्गमे प्रीतिरल्पा विरहे च दुःखं बहु । यथो ज्ञायते कायो बहुदोष इति । यथाह भगवान्- कामतृष्णायाः पञ्चादीनवाः- अल्पास्वादो बहुदुःखं, संयोजनादीपनमामरणतृप्तिरार्यविगर्हणमकुशलं विना न करणम् इति । अनेन कामरागेण सत्त्वाः संसारस्रोतानुगामिनो निर्वाणाद्दूरीभवन्ति । एवमादीन्यप्रमाणान्यवद्यानि सन्ति । इति ज्ञातव्यं कायो बहुदोषः इति ।
क्लेशा रागमुपादाय भवन्ति यथा कामरागात् क्लेशाः सर्वे समुद्भवन्ति । तृष्णानुशये ऽनुन्मूलिते पुनः पुनर्दुःखमनुभवति । यथा विषवृक्षो ऽनुच्छिन्नः सदा पुरुषं हन्ति । रागेण सत्त्वा गुर्वी धुरं वहन्ति । उक्तञ्च सूत्रे- कामतृष्णा बन्धनमित्युच्यते । यथा कृष्णशुक्ला गौः स्वयमबद्धा रज्जुना परमबद्धा । एवं चक्षुर्न रूपबद्धं, रूपञ्च न चक्षुर्बद्धम्, कामरागस्तु तत्र बद्धः । इमं बन्धमवलम्बयतो न विमुक्तिर्लभ्यते । किञ्चोक्तं सूत्रे- पूर्वा कोटिर्न [प्रज्ञायते] अविद्यानीवरणानां सत्त्वानां तृष्णासंयोजनानां सन्धावतां संसरताम् इति । अपि चोक्तं सूत्रे- रागप्रहाणाद्रूपं प्रहीयते यावद्विज्ञानं प्रहीयत इति । रागो ऽयमनित्यतादिभावनया प्रहीयते । प्रहीणे ऽस्मिन् कामरागे चित्तं विमुच्यते । रूपरागप्रहाणे ( स्स्स्_295 ) नास्ति रूपम् । असति रूपे दुःखं निरुध्यते । यावद्विज्ञाने ऽप्येवम् । ज्ञायते कामरागाः सुदृढं बन्धनमिति ।
कामरागश्चोरोपमः । सत्त्वास्तु तदकुशलं न पश्यन्ति । कामरागः सदा कुसुमारमुखतः समुदाचरतीत्यतः परममकुशलं नाम । किञ्च सत्त्वाश्चित्तप्रमोदेन कामरागे प्रवर्तन्ते यावन्मशकपिपीलिका[दय]ः सर्वे ऽपि आहारमैथुनयोः प्रवर्तन्ते । स कामरागो नानाकारणैः पुरुषाणां चित्तं बध्नाति यदुत मातृपितृस्वसृभगिनीपत्नीसंज्ञा धनादयः । सत्वा आहारमैथुनादिकामरागनीवृतचित्ताः सन्तो जन्मोपाददते । ध्यानसमापत्तिराग ऊर्ध्वभूमावुत्पद्यते । कामरागो ऽयं सङ्गमं करोति । सर्वेषां लोकानां रुचयः प्रत्येकं विभिन्नाः । रागात्सङ्गच्छन्ते । यथा शुष्काः सिकताः सलिलयोगे संयुज्यन्ते । संसारे कामतृष्णां रसं मन्यन्ते । यथा रूपाणामास्वादाध्यवसानमित्युक्तं यदुत रूपं प्रतीत्योत्पद्यते सुखं सौमनस्यम् । असति रागे नास्वादः । आस्वादे ऽसति संसारमाशु प्रजहाति । स च कामरागो विमुक्तिविरुद्धः । कस्मात् । यस्मात् सत्त्वाः कामः सुखं ध्यानं सुखं समापत्तिः सुखमिति संरज्यन्ते । तस्मात् विमुक्तिरसुखम् । [यत्] रागाङ्गप्रहाणं तदेव सुखं परिणमति । यथोक्तं- यस्य वैराग्यं स परमं सुखमनुप्राप्नोति इति । किञ्चाह- यः सर्वसुखलाभमिच्छति तेन सर्वाणि कामसुखानि त्यक्तव्यानि । सर्वकामानां त्यागादात्यन्तिकनित्यसुखं लभत इति । यो महासुखं लिप्सति तेनाल्पसुखमुपेक्षितव्यम् । अल्पसुखोपेक्षया अप्रमाणसुखं प्रतिलभते ।
विदुषश्च नास्ति प्रत्येकलाभ इत्युक्तम् । यथा वीतरागतृष्णचित्तस्य । यस्य चित्तं रागतृष्णाविविक्तं तस्य सर्वे दुःखोपायासा निरुद्धाः । कामरागो ऽयं सद्धर्मं विहन्ति । कस्मात् । न हि परमरागी शीलजातिधर्मशासनेर्यापथशांस्यपेक्षते । नाववादमादत्ते । नादीनवं पश्यति । नापि पुण्यपापमालोचयति । उन्मत्तवत् प्रमत्तवच्च न जानाति कुरूपं सुरूपम् । अन्धवच्च न पश्यति धनलाभम् । यथोक्तं- कामरागो न पश्यति हितम् । कामरागो न विजानाति धर्मं अन्धतमसि अज्ञानवत् । रागानपगमात् । किञ्चोक्तम्-
कामरागः समुद्रो [ऽय]मपर्यन्तश्चाप्यगाधकः ।
सोर्मिः सवीचिः सावर्तः सग्रहश्च सराक्षसः ॥
एवं दुर्गा अशेषाश्च मनुष्याणामतारणाः ।
विशुद्धशीलनौकास्थः सद्दृष्टिवायुवेगवान् ॥
नाविकश्च महान् बुद्धः सन्मार्गान् सम्प्रदर्शयन् ।
यथोक्तभावनायोगी सो ऽयं तरति वै तदा ॥ इति ।
नास्ति कस्यचित्क्लेशानां संज्ञाविकल्पास्वादो यथा कामरागिणः । स च कामरागो ऽत्यन्तं दुष्प्रजहः । यथोक्तं- द्वे इमे आशे दुष्प्रजहे । कतमे द्वे । लाभाशा जीविताशा इति ।
कामरागस्येदृशा दोषाः सन्ति । कथं ज्ञायते कामरागिणो लक्षणम् । (उ) कामरागबहुलः स्त्रीरूपकुसुमगन्धमालनृत्तवाद्यगीतेषु प्रमुदितो वेश्यागृहपानगोष्ठीगामी महासमाजनाटकरसिकः सानुरागालापानन्दितः सदा परितोषितचित्तः प्रसन्नवदनः साकूतसकाकुसस्मिताभिलाषी दुर्लभकोपः सुलभप्रमोदो भूयसा दयालुचित्तः पुनः पुनर्व्याधितचपलगात्रः स्वदेहाध्यासक्त इत्येवमादि रागबहुलस्य लक्षणम् । लक्षणमिदं स्वभावबन्धेनानु गतमित्यतो दुष्प्रजहम् । सर्वे च कामरागा आत्यन्तिकदुःखाः । कस्मात् । रागाभिलषितस्य विप्रयोगो ऽवश्यभावी । विप्रयोगप्रत्ययं दौर्मनस्यदुःखमवश्यभावि । यथोक्तं- रूपसुखिनो [भिक्षवो] देवमनुष्या रूपरागिनो रूपमुदिता रूपविपरिणामे दुःखचित्ता विहरन्ति इति । एवं वेदनासंज्ञासंस्कारविज्ञानेष्वपि । भगवान् तत्र तत्र सूत्रे नानादृष्टान्तैरिमं कामरागं गर्हयति यदुत [आशी] विषोपमः, प्रज्ञायुःक्षयकरत्वात् । शल्योपमः चित्तगतदुःखत्वात् । असिशूलोपमः कुशलमूलसमुच्छेदकत्वात् । अग्निस्कन्धोपमः कायचित्तपरिदाहत्वात् । अमित्र [भूतः] दुःखानामुत्पादकत्वात् । अन्तःसपत्नभूतः मनसि ( स्स्स्_297 ) जातत्वात् । रूढमूलोपमः दुरुन्मूलनत्वात् । पङ्कभूतः यशोदूषकत्वात् । विघ्नभूतः कुशलमार्गाणामावरणत्वात् । हृद्गतशल्यभूतः अन्तर्व्यथनात् । अकुशलमूलभूतः सर्वाकुशलानामुत्पादकत्वात् । ओघभूतः संसारार्णवे संप्लाबनात् । चोरभूतः कुशलसम्पदपहारात् । एवमाद्यप्रहाणानामादीनवानां सत्त्वात् कामरागः प्रहातव्यः ।
कामानामादिनववर्गश्चतुविंशत्युत्तरशततमः ।
125 रागप्रहाणवर्गः
(पृ) कामरागस्येदृशा दोषाः सन्ति । कथं प्रहातव्यः । (उ) अशुचि भावनादिभिः प्रतिषेधयति । अनित्यतादिभावनादिभिः प्रजहाति । (पृ) केषाञ्चिदनित्यतादिबोधनात्कामरागो वर्धते । कथमिदम् । (उ) यः सर्वमनित्यमिति प्रजानाति न तस्य कामरागो ऽस्ति । यथोक्तं सूत्रे- अनित्यसंज्ञा [भिक्षवः] भाविता बहुलीकृता तदा सर्वः कामरागः पर्यादीर्यते सर्वः रूपरागः पर्यादीर्यते सर्वो भवरागः पर्यादीर्यते सर्वाविद्या पर्यादीर्यते सर्वो ऽस्मिमानः पर्यादीर्यते समुद्धन्यते इति । यः पश्यति लोको दुःखं दुःखहेतुः राग इति । तस्यायं रागः प्रहीयते । यो नित्यं स्मरति मया जातिजराव्याधिमरणान्यनुभवितव्यानीति स इमं रागं प्रजहाति । विशुद्धसुखे लब्धे अविशुद्धसुखं त्यजति । यथा प्रथमध्यानलाभे कामतृष्णां त्यजति । कामानामादीनवानुदर्शी इमां त्यजति । आदीनवश्च यथापूर्वमुक्तः । बहुश्रुतादिप्रज्ञाविवृध्या च कामरागं त्यजति । ज्ञानस्य क्लेशभेदनस्वभावत्वात् । कुशलप्रत्ययसम्पन्नस्य कामरागः प्रहीयते यदुत शीलविशुद्ध्या दीन्येकादशसमाध्युपकरणानीति पश्चान्मार्गसत्ये वक्ष्यते । रूपज्ञानादीनि धर्मज्ञानादीन्युपायाः । भगवान् महाभिषक् । सब्रह्मचारिणो ऽनुचराः । सद्धर्म औषधम् । आत्मना ( स्स्स्_298 ) यथोक्तवदाचरणं विरेचनम् । तदा कामरागव्याधिः प्रहीयते । यथा ज्ञायते रूग्णस्य त्रिवस्तुसम्पन्नस्य तस्मिन्नेव समये व्याधिः शाम्यति इति ।
(पृ) यथोक्तं सूत्रे- अशुभ[भावनया] रागं निर्वापय इति । कस्मात् भवान् ब्रवीति अशुभादि अनित्यतादि च । (उ) सर्वाणि बुद्धशासनानि क्लेशानां भेदकानि । तथापि प्रत्येकमस्ति बलविशेषः । आदौ अशुभया रागो वार्यते पश्चादनित्यताज्ञानेन प्रहीयते । अशुभया औदरिको रागो ऽपनीयत इतीदं बहूनां ज्ञातमेव । रागानुशयः सूक्ष्म इति अनित्यतया प्रहीयते । केवलमेकस्मिन् सूत्र ईदृशं वचनमुक्तम् । सर्वेषु सूत्रेष्वन्ये ऽपि प्रहाणधर्मा उक्ताः । ईदृशप्रत्यये सति कामरागः प्रहीयते ।
रागप्रहाणवर्गः पञ्चविंशत्युत्तरशततमः ।
126 व्यापादवर्गः
शास्त्रमाह- व्यापादो द्वेषलक्षणमिति । यो द्विष्यति स विनाशं कर्तुमिच्छति । परस्य ताडनबन्धनमारणविहिंसनानि कर्तुं प्रणिदधाति । एकान्ततो निराकृत्य नैव द्रष्टुमिच्छति । अयं द्वेषः प्रतिध इत्याख्यायते । गुरुतरो द्वेष इत्यर्थः । कश्चित् द्वेषी परान् निन्दितुं दण्डेन ताडयितुञ्चेच्छति । [अयं द्वेषो] विहिंसा इत्यभिधीयते । मध्यमद्वेष इत्यर्थः । कश्चित् द्वेषी [परं] परिहर्तुं नेच्छति । कदाचित् तत्पुत्रभार्यादीन् विद्विषति । तत्रोत्पद्यमानो [द्वेषः] क्रोध इत्युच्यते । अधमद्वेष इत्यर्थः । कश्चित् द्वेषी सदाक्लिष्टचित्तः [स]म्रक्ष इत्यभिधीयते । अविपक्वेन्द्रिय इत्यर्थः । कश्चित् द्वेषी चित्तगतमकुशलमत्यक्त्वा पुनर्विपाकायेच्छति । [स] उपनाह इत्युच्यते । विपक्वेन्द्रिय इत्यर्थः । कश्चित् द्वेषी सहसा किञ्चित् गृहीत्वा नानाकारणै[र्न] त्यक्तुमिच्छति । यथा सिंहो नदीं विगाह्य ( स्स्स्_299 ) तत्तीरनिमित्तं गृहीत्वा आमरणं न [ततो] विनिवर्तते । [स] प्रदाश इत्युच्यते । आग्रह इत्यर्थः । कश्चित् द्वेषी हितलाभिनं परं दृष्ट्वा चित्ते मात्सर्यमुत्पादयति । इयमीर्ष्यत्युच्यते । कश्चित् द्वेषी सदा कलहप्रियो धृष्टमनोवाग् भवति । [अयं] संरम्भ इत्युच्यते । रोषकलह इत्यर्थः । कश्चित् द्वेषी चिरमात्सर्येण शीलमुपदिष्टो ऽपि पुनः प्रतिलोमयति । अयं द्वेष इत्याख्यायते । क्रौर्यमित्यर्थः । कश्चित् द्वेषी किञ्चिदभीष्टस्य अमनःप्रह्लादनस्य वस्तुनो लाभे क्षुभितचित्तो भवति । इयमक्षान्तिरित्युच्यते । अक्षमेत्यर्थः । कश्चित् द्वेषी असुकुमारवचनः सदा भ्रुकुटिलालसो न मनः पूर्वमालापं योजयति । इयमपकीर्तिरित्युच्यते । अनात्तमनस्कतेत्यर्थः । कश्चित् द्वेषी सहवासिषु सदाधिक्षेपलोलुपो भवति । इदमसौरत्य मित्यभिधीयते । अदान्त इत्यर्थः । कश्चित् द्वेषी कायवाङ्मनोभिः सतीर्थ्यं संस्पृष्टोपायासं करोति । इअयं जिगीषा इत्यभिधीयते । उपायासस्पर्श इत्यर्थः । कश्चित् द्वेषी सदा गर्हाप्रकटनप्रीतो विगीतवस्तुप्रियश्च भवति । इयं तोदनता इत्युच्यते । उपालम्भ इत्यर्थः ।
द्वेषो ऽयं द्विविधः- कदाचित्सत्त्वमुपादाय भवति कदाचिदसत्त्वमुपादाय इति । सत्त्वमुपादयोत्पद्यमानो गुरुतरः पापः । उत्तममध्यमाधमविकल्पेन नवराशयो भवन्ति । नवक्लेशानुपादाय नवधा विभज्यते । विना वस्तु द्वेषपरिणाहो दशमो भवति । इदं द्वेषलक्षणम् ।
(पृ) कथं द्वेष उत्पद्यते । (उ) अमनोज्ञाद्दुःखोपायासादुत्पद्यते । दुःखवेदनास्वभावस्य असम्यक् परिज्ञानाद्व्यापाद उत्पद्यते । गर्हावधतडनादिभ्यो वा समुत्पद्यते । दुर्जनसहवृत्त्या वा व्यापाद उत्पद्यते यथा सौनिकव्याधादयः । मन्दज्ञानबलाद्वा द्वेष उत्पद्यते यथा वृक्षाणां शाखोपशाखा वातेरिता भवन्ति । चिरसमुपचितद्वेषानुशयस्य आनिर्यातनभावं द्वेष उत्पद्यते सौनिकव्याधसर्पाणामागमाद्वा द्वेष उत्पद्यते । परदोषानुस्मृतिप्रेम्णा वा द्वेष उत्पद्यत इति यथा नवक्लेशेषूक्तम् । कालवशाद्वा द्वेष उत्पद्यते यथा दशवयस्कादीनाम् । जात्या वा द्वेष उत्पद्यते यथा सर्पादीनाम् । देशस्थानाद्वा द्वेष उत्पद्यते यथा कान्यकुब्जदेशादौ । पूर्वमुक्तो रागजननप्रत्ययः । तद्विरोधे द्वेष उत्पद्यते । आत्मबुद्धिमध्ययस्य [तत्र] मानपरिपोषणं पदार्थाध्यवसानञ्चेत्येवमादिप्रत्ययेषु सत्सु द्वेष उत्पद्यते ।
(पृ) द्वेषस्य के दोषाः । (उ) उक्तं सूत्रे- द्वेषः कामरागाद् गुरुतरं पापम् इति । अतः सुविमोकः । वस्तुतस्तु दुर्विमोकः । किन्तु रागवन्न चिरं चित्तमनुवर्तते । द्वेषो द्विधा सन्तापकः । आदावात्मानं सन्तापयति अन्ते परं सन्तापयति । किञ्च द्वेषो नियमेन नरकाय भवति । द्वेषोत्थकर्मणां भूयसा नरके पातनात् । द्वेषः कुशलपुण्यानि विनाशयति यदुत दानशीलक्षान्तयः । इमास्त्रिस्रः करुणाचित्तजाः । द्वेषस्य करुणाविरोधित्वात् [ताः] विनाशयति । द्वेषजञ्च कर्म सर्वमन्ते चित्तं परितापयति । द्वेषेन्द्रियवान् निर्दयत्वात् क्रूरचण्डाल इत्युच्यते । सत्त्वाः सदा दुःखिनः पुनर्द्वेषेण पीडिताः व्रणे प्रयुक्तक्षारवत् । किञ्च सूत्रे भगवान् स्वयं द्वेषदोषानाह- द्वेषबहुलः कुत्सितः खर्वाकारो ऽप्रशान्तबुद्धिशयः सदा भीरुचित्तो जनानामश्रद्धेय इति ।
(पृ) व्यापादबहुलस्य कानि लक्षणानि । (उ) धृष्टवाङ्मनाः सदा अनात्तमना भवति । भ्रुकुटिक्षेपेण दुरभिगमो ऽसंश्लिष्टमुखवर्णो दुर्विमोकसुलभकोपः सदा व्यापादोपनाहमुदितो विग्रहभूषणायुधेषु प्रीतो दुर्मित्रपक्षपाती सज्जनविद्वेषी, जनानां भीषणायातथ्यध्यानचिन्तनो ऽल्पह्रयपत्रप इत्येवमादीनि द्वेषलक्षणानि । इमान्यन्येषां विप्रियकराणि । अतः प्रहातव्यानि ।
(पृ) कथं स प्रहातव्यो भविष्यति । (उ) सदा करुणामुदितापेक्षाभावनायां द्वेषः प्रहीयते । द्वेषस्यादीनवं पश्यन् द्वेषं प्रजहाति । तत्त्वज्ञानलाभिनो द्वेषः प्रहीयते । क्षान्तिबलाच्च द्वेषः प्रहीयते । (पृ) किं नाम क्षान्तिबलम् । (उ) यः परगर्हादिदुःखं क्षमते स कुशलधर्मपुण्यं लभते । नाक्षान्तिजमकुशलं लभते । इदं क्षान्तिबलम् । क्षान्तिविहारी श्रमण इत्युच्यते । क्षान्तिर्हि मार्गस्याद्यं द्वारं भवति । अतः श्रमणधर्मणः कोपे ऽपि न कोपविपाकः । निन्दायाञ्च न निन्दाविपाकः । ताडने च न ताडनविपाकः । यो भिक्षुः क्षमावान् स प्रव्रज्याधर्मा स्यात् । व्यापादवतो न प्रव्रजितधर्धो भवति । क्षान्तिरियं प्रव्रजितधर्मः । य आकारवेषाभ्यां भिक्षुः भिन्नव्यवहारो द्वेषचित्तसहगतश्च न स भव्यो भवति । यस्तु क्षमाविहारी स एव करुणागुणसवन्वितः । क्षमाविहारी स्वहितं साधयति । कस्मात् । द्वेषकारी परान् व्याबाधितुं कामयानः स्वात्मानमेव व्याबाधते । यानि कायवाग्भ्यां परत्र प्रत्युक्तान्यकुशलानि । [तेषा]मकुशलानां दोषाः शतसहस्रगुणमात्मनैव लभ्यन्ते । अतो ज्ञायते द्वेषो महान्तमात्मापकर्षं करोति इति । अतः प्राज्ञेनात्मनो हितं कर्तुकामेन महद्दुःखं महत्पापञ्चापाकुर्वता क्षान्तिराचरितव्याः ।
(पृ) को निन्दादिदुःखं खमते । (उ) यो ऽनित्यतां भावयति बहुलीकरोति प्रतिबुध्यते सर्वधर्मा क्षणिकाः, निन्दको वेदकः सर्वो ऽपि क्षणिक इति । तस्य कुत्र द्वेष उत्पद्येत । शून्यताचित्तस्य सम्यक् भावनया क्षममाण एवं चिन्तयति धर्मेषु वतुस्तः शून्येषु को निन्दकः को वा निन्दावेदक इति । यदि वस्तु सत्यं तदा [त]द्वेदना क्षन्तव्या । अहं सत्यतो दोषवान् इति पूर्वपुरुषाः सत्यं वदन्ति, कस्मात् द्विषामि । यदि वस्तु सत्यं । ते पुरुषाः स्वयमेव मृषावादपापं लभेरन् । कस्मादहं द्विषामीति । अशुभनिन्दां शृण्वन् एवं चिन्तयेत् सर्वे लोका यथाकर्म विपाकं वेदयन्ते । मया पुरा इदं निन्दाकर्म समुपचितमासीत् । तदिदानीं प्रत्यनुभवितव्यम् । कस्माद् द्विष्यामीति । यदि चाशुभनिन्दां शृणोति तद्दोषमात्मनि भावयेत् । आत्मवशेनैव कायमनुभवामि । कायश्च दुःखभाजनम् । अतो निन्दानुभवितव्येति । क्षान्तिविहारी एवं चिन्तयेत् पदार्थाः प्रतीत्यसमुत्पन्नाः । इदमशुभं निन्दाकर्म श्रोत्रविज्ञानमनोविज्ञानशब्दादिसमुत्पन्नम् । एषु अहं द्व्यङ्गसमन्वितः । परस्तु शब्दमात्रसमन्वितः । एवञ्च ममैव पापाङ्गं बहु । कस्मात् द्विषामि । मया शब्दस्यास्य निमित्तग्रहणादेव दौर्मनस्योपायासाः सम्भवन्ति इत्यहमेव दुष्टः । क्षान्तिमान् न परान् दोषयति । कस्मात् द्वेषादीनि पापानि न सत्त्वानां दोषाः, सत्त्वा व्याधिसमुत्थापितचित्तत्वादनीश्वराः । यथा भूतचिकित्सको भूतोच्चाटनाध्यवसितो भूतमेव द्विषति न तु रोगिणम् । अयं वीर्योत्सुकः कुशलधर्माणां सञ्चय आरज्यते । अतः परप्रवादान् न गणयति । बुद्धानार्यसङ्घञ्च स्मृत्वा न निन्दाः प्रमोचयति । यथा निन्दापटवो ब्राह्मणादयो बुद्धं विविधं निन्दन्ति । यथा वा शारिपुत्रादिषु ब्राह्मणैः प्रयुज्यन्ते ऽपवादनिन्दाः । कः पुनर्वादो ऽस्मासु तनुपुण्येषु ।
किञ्चेदं चिन्तयेत् लोका अकुशबहुला आत्मजीवितमहृत्वैव कटुकं कुर्वन्ति । किं पुनस्ताडननिन्दामिति । किञ्चैवं चिन्तयेत्- अशुभनिन्दादिना न मम दुःखमिति वेदना क्षन्तव्या । यथा भगवान् भिक्षून् शास्ति- काये क्रकचेण विदीर्णे ऽपि वेदना क्षन्तव्या । का पुनर्निन्दा इति । इदमाचरन् सदा संसारान्निर्विद्यते । निन्दायां लब्धायां निर्वेदं भूयसा मात्रया सुनिश्रितमवगम्याकुशलमाचरति । स जानाति च निन्दाया अक्षमा अन्ते दुःखंविपाकवेदना इत्येवं चिन्तयन् नरके मा भूत् पात इति गुर्वीमपि निन्दां वेदयते । सो ऽतीव ह्र्यपत्रपासापेक्षः चिन्तयति अहं महापुरुषस्य भगवतः श्रावको मार्गभावयिता । [मम]कथमुत्पादयेदकार्यं कायवाक्कर्म इति । क्षान्तिचारिभिर्बोधिसत्त्वैः शक्रादिभिश्च लभ्यं क्षान्तिबलं श्रूयते च । अतः क्षान्तिः कार्या ॥
व्यापादवर्गः षड्विंशत्युत्तरवशततमः ।
127 अविद्यावर्गः
शास्त्रमाह- प्रज्ञप्त्यनुवर्तनमविद्या । इति । यथाहुः- पृथग्जना आत्मरुतमनुवर्तन्ते । तत्र नास्ति वस्तुत आत्मा नात्मीयम् । धर्माणां समवायः केवलं प्रज्ञप्त्या पुरुष इत्युच्यते । पृथग्जनानामविवेकादात्मचित्तं प्रवर्तते । आत्मचित्तप्रवृत्तिरियमविद्यैव ।
(पृ) भगवानाह- पूर्वान्ताज्ञानविद्या इति । कस्मादुच्यते । आत्मचित्तमात्रमियमविद्येति । (उ) अतीतादौ बहवो भ्रान्ताः । अत आह- तत्राज्ञानमविद्येति । अत आह तस्याज्ञानमविद्येति । सूत्रे च विद्याया अर्थो विवृतः- यस्य कस्यचित् ज्ञानं विद्येति । केषां धर्माणां ज्ञानम् । रूपमनित्यमिति यथाभूतज्ञानम् । वेदना संज्ञा संस्कारा विज्ञानमनित्यमिति यथाभूतज्ञानम् । विद्याया विरुद्धा विद्याविद्या । तथा च यथाभूता विद्या अविद्यैव ।
(पृ) यथाभूताविद्या यद्यविद्या । तरुपाषाणादिधर्मा अपि अविद्या स्यात् । यथाभूतविद्याया अभावात् । (उ) मैवम् । तरुपाषाणानि चाचित्तकानि न पूर्वान्तादि विकल्पयन्ति । अविद्या तु विकल्पिनीति न तरुपाषाणयोः समाना । (पृ) अविद्या नाम धर्माभावः । यथा पुरुषस्य चक्षुषा रूपादर्शनं नादर्शनधर्मो भवति । अतो विद्याया अभावमात्रमविद्या । न धर्मान्तरम् । (उ) मैवम् । यद्यभावो ऽविद्या । पञ्चस्कन्धेषु अस्ति पुद्गल इति मिथ्याकल्पना घटशकले च सुवर्णसंज्ञोत्पद्यत इति कस्माद्भवति । अतो ज्ञायते मिथ्याविकल्पस्वभावाविद्या । न तु विद्याया अभावो ऽविद्येति । अविद्याप्रत्ययाः संस्कारादयः सन्तत्या प्रवर्तन्ते । यद्यभावः कथमुत्पादयेत् । (पृ) न विद्या अविद्या इति चेत् इदानीं विद्यां विहाय सर्वे धर्मा अभावाः स्युः । अतो नैको धर्मो ऽविद्या भवति । (उ) अविद्येयं स्वलक्षणत उच्यते नान्यधर्मतः । यथोच्यते अकुशलमेवाकुशलस्वरूपं नाव्याकृतम् । ( स्स्स्_303 ) तथाविद्यापि । कुसूलं पुरुषाकारमपि पुरुषगत्यभावात् अपुरुष इत्युच्यते । एवमियं विद्या सविकल्पापि यथाभूतं न प्रजानातीत्यविद्येत्युच्यते । न तरुपाषाणयोरपि तथा ।
(पृ) यान्युक्तानि अरूपमप्रतिघमनास्रवमसंस्कृतमिति तानि सर्वाणि तदन्याभिधायकानि । कस्मादविद्यापि नैवम् । (उ) अस्ति कदाचिदयं न्यायः । अकुशलादिषु तु नैवं भवति । (पृ) केचिदाहुः- विद्याया अभावमात्रमविद्येति । यथा प्रकाशाभावे तम इति । (उ) लोके द्विधा वदन्ति- विद्याया अभावो ऽविद्येति । कदाचिद्विपरीता विद्या अविद्येति । विद्याया अभावो ऽविद्येति यथा वदन्ति लोके- अधो ऽरूपदर्शी, बधिरो ऽशब्दश्रोतेति । विपरीता विद्या अविद्येति- यथा रात्रौ स्थाणुं दृष्ट्वा पुरुष इति बुद्धिर्भवति । पुरुषं वा दृष्ट्वा स्थाणुबुद्धिः । यदि कश्चिदिदमिति यथाभूतं न प्रजानाति । तदज्ञानम् । मिथ्याचित्तं क्लेशः । अयं संस्काराणां प्रत्ययः । अर्हतः समुच्छेदान्न सन्ति अविद्याप्रत्ययाः संस्काराः । यदि न विद्या अविद्येति । अर्हतो बुद्धधर्मेषु विद्या नास्तीति विद्याविद्या स्यात् । यो ऽविद्यावान् न सो ऽर्हन् । [अतो] ज्ञातव्यं पृथगस्ति अविद्यास्वरूपम् । इदं मिथ्याचित्तमिति ।
सर्वे क्लेशा अस्या अविद्याया अङ्गानि । कस्मात् । सर्वेषां क्लेशानां मिथ्याचार [रूप]त्वात् । ते पुरुषाणां चित्तावरणा अन्धतमोरूपाः । यथाह- कामरागी न धर्मं पश्यति, कामरागी न पुण्यं पश्यति इति । तत्कामोपादाता अन्धतमोभूमः । एवं क्रोधमोहावपि । सर्वे क्लेशाः संस्काराणामुत्पादकाः । उक्तन्तु सूत्रे- अविद्याप्रत्ययाः संस्कारा इति । अतो ज्ञायते सर्वे क्लेशा अविद्या इति । अशून्यतादर्शिनो नित्यमस्त्यविद्या । क्लिष्टाविद्यामात्रं सर्वसंस्काराणां प्रत्ययः । विपरीता विद्या अविद्येत्युच्यते । अदृष्टशून्यभावस्य नित्यमस्तीयमविद्या । अतो ज्ञायते अविद्याङ्गानि सर्वे क्लेशा इति ।
(पृ) अविद्या कथमुत्पद्यते । (उ) असद्धेतुं श्रुत्वा चिन्तयतो ऽविद्योत्पद्यते । यथा अस्ति द्रव्यमस्त्यवयवी अस्ति चित्, सर्वे धर्मा अक्षणिकाः, नास्ति पुनर्भवः । शब्द आत्मा, स च नित्यः, तृणवृक्षादयः सचेतना इत्येवमादिमिथ्याग्रहे सति अविद्योत्पद्यते । असत्कारणैर्वाविद्योत्पद्यते । यदुत दुर्मित्रसंस्तवो ऽसद्धर्मश्रवणं मिथ्यामनस्कारो मिथ्यासमुदाचार ( स्स्स्_304 ) इत्येभिश्चतुर्भिः कारणैरविद्योत्पद्यते । अन्यक्लेशजननप्रत्ययाः सर्वे ऽविद्याजननहेतवः । अविद्याहेतुभ्यश्चाविद्योत्पद्यते । यथा यवेभ्यो यवाः शालिभ्यः शालयः । एवं यत्रास्ति सत्त्वकल्पना, तत्राविद्योत्पद्यते । किञ्चोक्तं सूत्रे- मिथ्यामनस्कारप्रत्यये ऽविद्योत्पद्यत इति । मिथ्यामनस्कारश्चाविद्याया नामान्तरमेव । पुरुषं दृष्ट्वा अस्तीति बुद्धेः पूर्वमेव पुरुषमनस्कार उत्पद्यते पश्चान्निश्चय इत्यतो ऽविद्येत्युच्यते । इदमुभयं पूर्वापरलक्षणमन्योन्यसहायमुत्पद्यते । यथा वृक्षात्फलं भवति फलाद्वृक्षः ।
अविद्यायाः के दोषाः । (उ) सर्वे विपत्त्युपायासा अविद्याधीनाः । कस्मात् । [यस्मात्] अविद्यातः समुत्पद्यन्ते रागादयः क्लेशाः । तेभ्यो ऽकुशलं कर्म । ततः कायानुभवः । तत्प्रत्ययो विविधविपत्युपायासानां प्रतिलाभः । यथोक्तं सूत्रे- अविद्यानिवृतस्य [भिक्षवो वालस्य] तृष्णासम्प्रयुक्तस्यैवमयं कायः समुदागत इति । सिंह नादसूत्रे चोक्तम्- उपादानानि तृष्णानिदानानीति । गाथा चाह-
याः काश्चिदिमा दुर्गतयो ऽस्मिंल्लोके परत्र च ।
अविद्यामूलकाः सर्वा इच्छालोभसमुच्छ्रयाः ॥ इति ।
अविद्यासमुत्पन्नत्वात्सर्वक्लेशानाम् । पृथग्जना वेदयन्ते [सुखत] इमान् स्कन्धान् पञ्च [ये] ऽशुचयो ऽनित्या दुःखाः शुन्या अनात्मकाः । य आर्याः ते तान् दुःखान् वेदयन्ते । सम्यङ्मनस्कारात्पञ्च स्कन्धान् प्रजहाति । यथोक्तं सूत्रे- आत्मसंज्ञा मिथ्याविपर्यास इति प्रजानतो न पुनरुत्पद्यत इति । अतो ऽविद्याप्रत्ययो बन्धो विद्याप्रत्ययो मोक्ष इति । लोके सत्त्वा अविद्याबलादल्पादभिनिवेशाद्बहूनादीनवान् न पश्यन्ति । यथा शलभा अग्नौ पतन्ति । यथा वा मत्स्या अङ्कुशं गिलन्ति । तथा सत्त्वा अपि दृष्टे ऽल्पास्वादगृद्धा बहूनादीनवान् न प्रतीक्षन्ते । तीर्थिकग्रन्थैरुत्पन्नमिथ्यादृष्टिका वदन्ति न सन्ति पुण्यादीनि इति । सर्वमियमविद्या । असतां मार्गो ऽकुशलहेतुः । अकुशलहेतुः सर्वो ऽविद्या । ( स्स्स्_305 ) मिथ्यादृष्ट्या कृतकर्मणा भूयसा नरके पतन्ति । मिथ्यादृष्टयः सर्वा अविद्ययोत्पद्यन्ते । बुद्धो भगवान् सर्वज्ञः शास्ता त्रयाणां धातूनां सम्यक् चर्याविशुद्ध आर्यविनीत इत्यादि तीर्थिका न विविच्य प्रजानन्ति । यथा सद्रत्नमन्धा निराकुर्वन्ति । इमे ऽविद्याया दोषाः ।
किञ्च सर्वसत्त्वानां विपत्त्युपायसविप्रलोपादयः सर्वे ऽविद्याधीनाः । सर्वे च लाभसंसिद्धिप्रकर्षा विद्याधीनाः । यो वर्धिताविद्यः स एकान्ततो ऽवीचिनरके पतति । यथा कल्पादौ जना आस्वादस्तुच्छ इत्यनभिज्ञाय [तत्र] रागाध्यवसायमुत्पादयामासुः । अतो रूपबलायुरादयो विनष्टाः । अतो ज्ञातव्यमविद्यया सर्वे लाभाः प्रमुषिता इति । इयमविद्या च तत्प्रज्ञानमात्रेण प्रहीयते । रागादिभिस्तु न तथा । रागचित्ते नास्ति क्रोधः । क्रोधचित्ते नास्ति रागः । अविद्या तु सर्वचित्तेषु वर्तते । अभावितप्रज्ञस्य चाविद्या सदा चित्ते वर्तते । सर्वक्लेशेषु अविद्या प्रबला । यथोक्तं सूत्रे- अविद्या पापीयसी गुर्वी दुर्विमोका च इति । अविद्या च द्वादशनिदानानां मूलम् । असत्यामविद्यायां कर्माणि नोपचीयन्ते न संसिध्यन्ति । कस्मात् । नह्यस्ति अर्हतां सत्त्व[संज्ञा]लक्षणम् । अविद्याविरहान्न कर्माण्यु पचीयन्ते । कर्मणामनुपचयाद्विज्ञानादीन्यङ्गानि न पुनः प्रादुर्भवन्ति अतो ज्ञायते अविद्या सर्वदुःखानां मूलमिति ।
प्रत्यक्षं दृश्यते खलु अस्मिन्नशुचिकाय आसङ्गः, अनित्ये नित्यसंज्ञा च । यथा रिक्तमुष्टिर्बालानामुल्लापनाय । यथा च माया मूढानां पुरः प्रदर्शयति मृदं सुवर्णमिति । प्राकृता मूढा दृष्टे पापाधिष्ठिता अभिधानेनोल्लपनीया भवन्ति । तथा लोका अपि चक्षुषा अशुचि दृष्ट्वा तद्वञ्चिता भवन्ति । चैत्ता धर्मा क्षणिकाः, निमित्तग्रहणादुत्पद्यन्ते । क्षणिके रूपे मोहान्निमित्तं गृह्णन्ति । तथा शब्दादावपि । तस्माद्दुर्विमोका । इमे ऽविद्याया दोषाः ।
(पृ) अविद्याबहुलस्य पुंसः कानि लक्षणानि । (उ) अयं भयस्थाने निर्भयो भवति । सुस्थाने प्रीतिविगतः सज्जनद्वेषी दुर्जनस्निद्घो ऽभिप्रायस्य विपर्ययग्राही प्रियमित्रे सदा प्रतिकूलः तुच्छवस्तुषु सारग्राही अल्पह्रयपत्रपो न विचिकित्साप्रतीक्षी, न परेषां तर्पण आत्मनापि दुर्निषेवणो मूढो ऽविज्ञाता सुजीर्णमलिनवस्त्रो भ्रमति । रम्यप्रदेशादशुचिप्रदेशमन्धकारे प्रयाति । आत्मनैवात्मानं महानिति श्लाघमानः परस्य लघूकरणे तृप्यति । अपथेनात्मगुणान् प्रकटयति । दोषं दोष इति न विजानाति । हितं हितमिति न विजानाति । अपरिशुद्धो ऽनैर्याणिको भाषणे ऽपटुः सदा क्रोधोपनाहमुदितः परोपदेशं विपर्ययतो गृहीत्वा [तत्र] परमाध्यावसितो दुर्लभमभ्यस्य सुविनश्वरं लभते । लब्धस्यापि ( स्स्स्_306 ) नार्थ वेत्ति । विदितमपि मिथ्या विपर्ययति । एवमादिलक्षणानि सर्वाण्यविद्याधीनानि । अतो ज्ञायते ऽविद्याप्रमाणदुष्टा अतः प्रहातव्येति ।
(पृ) कथं प्रहातव्या । (उ) तत्त्वज्ञानं भावयतो ऽविद्या प्रहीयते । (पृ) स्कन्धधात्वायतनानां ज्ञानमपि तत्त्वज्ञानम् । कस्मात्सूत्र उक्तम्- अविद्याया भैषज्यं प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पादभावना वा इति । (उ) तीर्थिका बहवो भ्रान्ताः । हेतौ भ्रान्ता वदन्ति- ईश्वरा दयो लोककारणमिति । वस्तुतस्तु भ्रान्ता वदन्ति- अस्ति द्रव्यमस्त्यवयवीत्यादि । प्रतीत्यसमुत्पादा[दि]द्वयं भावयतो [ऽविद्या] प्रही यते । (पृ) प्रतीत्यसमुत्पादो ऽविद्याया भैषज्यम् । कस्मादुच्यते द्वयमिति । (उ) अन्यज्ञानसंजिहीर्षया । स्कन्धधात्वायतनादि भावयन्नपि अविद्यां भिनत्ति । मिथ्यादृष्टिमात्रं गुरुतराविद्या । मिथ्यादृष्टिश्च प्रतीत्यसमुत्पादप्रहेया । अतो द्वयमित्युच्यते । एवं रागद्वेषावपि । लौकिका भूयसा घटादिपदे भ्रान्ताः । यथा घटपदं शृण्वतो मनसि संशय उदेति किं रूपादिः घटः किंवा रूपादिव्यतिरिक्तो ऽन्यो ऽस्ति घट इति । एवं पञ्चस्कन्धात्मकः पुरुषः किं वा तद्व्यतिरिक्तो ऽन्यो ऽस्ति पुरुष इति । समाहितचित्तः काय एवात्मा कायादन्य आत्मा इति शाश्वतोच्छदाख्ये ऽन्तद्वये न पतति । यः प्रजानाति घटः प्रतीत्यसमुत्पन्नो रूपरसगन्धस्पर्शमय इति । एवं रूपादयः स्कन्धः पुरुष इति । [स] एवं प्रजानन् नामजं संशयं प्रजहाति । इदं नाम धर्माणां परमार्थं सञ्छादयति । यथाह देवतापरिपृच्छासूत्रम्-
नाम सर्वमध्वभावि नाम भूयो न विद्यते ।
एकधर्मस्य नाम्नो ऽस्य सर्वे धर्मा वशानुगाः ॥ इति ।
किञ्चाह- लोकस्य समुदयं पश्यतो ऽभावदृष्टिर्निरुध्यते । लोकस्य निरोधं पश्यतो भावदृष्टिर्निरुध्यते । इति । अपि चोक्तम्- संस्काराणां सन्ततिं पञ्चस्कन्धानां संसरणं वदन्ति । इमे ऽविद्यादीनवाः प्रतीत्यसमुत्पादं भावयतो निरुध्यन्त इति । उक्त ञ्च सूत्रे- यः प्रतीत्यसभुत्पादं पश्यति स धर्मं पश्यति । यो धर्मं पश्यति स बुद्धं ( स्स्स्_307 ) पश्यतीति । एवं यो नामजं संशयं प्रजहाति सो ऽपरप्रत्ययः परमार्थतो बुद्धं पश्यति । अतस्तत्त्वज्ञानादविद्या क्षीयते । प्रतीत्यसमुत्पादं सम्यक् प्रजानन् तत्त्वज्ञानं प्रतिलभते । संक्षेपत उक्तं चतुरशीतिधर्मस्कन्धे- या काचन प्रज्ञा सर्वा साविद्याव्यावर्तिनीति । अविद्या च सर्वक्लेशानां मूलं सर्वक्लेशानां सहकारिणी चेत्येवं प्रतीत्यसमुत्पाद [ज्ञाने] अविद्या प्रहीयते ॥
अविद्यावर्गः सप्तविंशत्युत्तरशततमः ।
128 मानवर्गः
(पृ) त्रयः क्लेशाः संसारस्य मूलमित्युक्तम् । अतो ऽन्यः पुनरस्ति न वा । (उ) अस्ति मानाख्यः । (पृ) कतमो मानः । (उ) मिथ्याचित्तेनात्मन उन्नतिर्मान इत्युच्यते । मानो ऽयंबहुविधः । अवर आत्मनि उन्नतिर्मानः । समेषु समतामन्यतापि मान इत्युच्यते । तत्रात्मबुद्धिनिमित्तग्रहदोषसत्त्वात् । समेषु आत्मन उन्नतिर्महामानः । विशिष्टेषु आत्मन उन्नतिरभिमानः । पञ्चसु स्कन्धेषु आत्मनिमित्तग्रहो ऽस्मिमानः । अस्मिमानो द्विविधो निमित्तप्रदर्शनो ऽनिमित्तप्रदर्शन इति । निमित्तप्रदर्शनः पृथग्जनानामात्ममानो यदुत रूपमात्मा, रूपवानात्मा, आत्मनि रूपं, रूप आत्मा इति दर्शनम्, एवं यावद्विज्ञानमपि । इति विंशतिधा प्रदर्शनात् निमित्तप्रदर्शनः । अनिमित्तप्रदर्शनः शैक्षजनानामस्मिमानः । यथा स्थविरः क्षेमक आह- न खल्वायुष्मन् रूपमस्मीति वदामि, न वेदना, न संज्ञा, न संस्कारा, न विज्ञानम्, [नाप्यन्यत्र विज्ञानादस्मीति वदामि] । अपि च म आयुष्मन् पञ्चसूपादानस्कन्धेषु अनुसहगतो ऽस्मीति मानः अस्मीतिच्छन्दः अस्मीत्यनुशयो ऽसमुद्धतः । [इत्यादि] । अयमस्मिमान इत्युच्यते ।
यः स्रोतआपत्त्यादिफलविशेषानप्रतिलभ्य प्रतिलब्धवानिति वदति सो ऽधिमानः । (पृ) अलाभे कस्माद्भवति लाभबुद्धिः । (उ) ध्यानाभ्यासे ऽल्पास्वादलाभात् संयोजना नुशयं व्यावर्तयति न पुनश्चित्ते समुदाचरति । अतो ऽयं मानो भवति । श्रुतचिन्तामयप्रज्ञाबलेन च सदा कल्याणमित्रमुपसद्य [त]त्समुदाचारविवेकमभिरोचयति । पञ्चस्कन्धानां लक्षणमल्पं ज्ञात्वा स्रोतआपत्त्यादिफलसंज्ञामुत्पादयति । [अय]मधिमानः ।
(पृ) अधिमानस्य के दोषाः । (उ) अन्ते दौर्मनस्योपायासैर्भवितव्यम् । यथोक्तं सूत्रे- यो भिक्षुः कथयति अहं समुद्धतविचिकित्सः प्रतिलब्धमार्ग इति । [तस्य] पुरत एवं कथयेत्- अतिगभीरः प्रतीत्यसमुत्पादो लोकोत्तरधर्म इति । यद्ययं भिक्षुर्वस्तुतो ऽप्रतिलब्धमार्गः । [तदास्य] इमं धर्मं शृण्वतः कौकृत्योपायासो भवति । अतो यत्नेनाधिमानमिमं समुच्छिन्द्यात् । अधिमानिनि बुद्धा भगवन्तो महाकारुणिका अपि [तं] दूरीकृत्य न धर्माववादं कुर्वन्ति । अतः समुच्छिन्द्यात् । किञ्चाधिमानी धर्मस्य मिथ्यादर्शने विहरति । अतो नास्ति तात्त्विको गुणः । तद्यथा वणिक् गभीरमहासमुद्रगतो रत्नाभासेष्वासक्तो भवति । तथायमपि बुद्धशासनार्णवगतः अल्पं ध्यानसुखं प्रतिलभ्य पारमार्थिकमार्ग इति तत्रासङ्गं जनयति । अधिमानी अन्ते मरणकाले न मार्गं वेदयते । अतो यत्नेन पारमार्थिकतत्त्वज्ञानमन्विष्यात् । अधिमानी स्वार्थं विनाशयति सम्मोहञ्च बर्धयति । अलब्धे लब्धसंज्ञावत्वात् । अतो नात्मानमात्मनैव वञ्चयेत् । इति क्षिप्रं विसृजेत् ।
यदुत्तमं पुरुषमवरं वदन्ति । तदयथा भवतीति अयथामान इत्युच्यते । अयं स्वयमुच्चो ऽपि स्वात्मभावमवनमयति । यदगुणाः सन्त आत्मानमुन्नमयन्ति । तन्मिथ्यामान इत्युच्यते । अकुशलधर्मैरात्मन उच्चकरणमपि मिथ्यामानः । यत् सुजने पूज्ये पृष्ठतो ऽसत्कार उद्धतमानः सः । इत्यादि मानलक्षणम् ।
(पृ) कथं मान उत्पद्यते । (उ) स्कन्धानां परमार्थलक्षणमजानानां मान ( स्स्स्_309 ) उत्पद्यते । यथोक्तंसूत्रे- ये केचित् [श्रमणा ब्राह्मणा वा] अनित्येन रूपेण [दुःखेन विपरिणामधर्मेण] श्रेष्ठो ऽहमस्मीति समनुपश्यन्ति । सदृशो [ऽहमस्माति समनुपश्यन्ति] हीनो [ऽहमस्भीति समनुपश्यन्ति] किमन्यत्र यथाभूतस्यादर्शनात् । एवं यावद्विज्ञानमिति । स्कन्धानां परमार्थलक्षणं जानतां नास्ति मानः । कायानुस्मृतिं भावयतो नास्ति मानः । यथा गौः शृङ्गमपेक्ष्य तीक्ष्णो भवति । तच्छृङ्गे गते न भवति । कायो ऽशुचिः नवद्वारेषु मलप्रस्रावी । कः प्राज्ञ इममपेक्ष्य उच्चो ऽस्मीति [मन्येत] एवमादिकायानुस्मृतिप्रत्यये तु नास्ति मानः । प्राज्ञो जानाति सर्वे सत्त्वा यदि वा दरिद्री यदि वा धनी यदि वा पूज्यो यदि वा जधन्यः सर्वे ऽपि अस्थिमांसस्नायुसिरापञ्चसन्धिपेशीकललसमवायमयकायाः, जातिजराव्याधिमरणदौर्मनस्यपरिदेवदुःखोपायाससमन्विता रागक्रोधादिपुण्यपापकर्मयुक्ता नरकादिदुर्गतिभागिनश्चेति । कथमुत्पादयेन्मानम् । आभ्यन्तरं बाह्यं चित्तं प्रतीत्यसमुत्पन्नं सर्वं क्षणिकमिति पश्यतो न भवति मानः । चित्तसमाधिञ्च सम्यक् भावयतो न भवति मानः । कस्मात् । निमित्ते ऽनुगते हि मान उत्पद्यते । असति निमित्ते कुत्र मानमुत्पादयेत् । किञ्च प्राज्ञस्य शीलादिषु सत्सु न भवति मानः । कस्मात् । शीलादयो हि सर्वे एषां क्लेशानां क्षयकराः । असत्सु गुणेषु कः प्राज्ञो ऽसद्वस्तुनि मानमुत्पादयेत् । अनित्यतादिलक्षणं भावयतो मानो निरुध्यते । कः प्राज्ञो ऽनित्येन दुःखेन अशुचिना पदार्थेन मानं कुर्यात् ।
(पृ) मानस्य के दोषाः । (उ) मानात्कायो भवति । कायात्सर्वं दुःखं प्रवर्तते । यथाह भगवान् सूत्रे- यदाहं माणवको ऽभूवम्, न तदा मानलक्षणमाज्ञासिषम् अहमिति वेदनाव्याकरणं कुत्रचिदुत्पत्स्यत इति । अन्यमानानामप्रहीणत्वात् । सर्वे क्लेशा निमित्तग्रहानुवर्तिनः । अहमिति निमित्तेषु महत् । अतो ज्ञायते मानात्कायो भवतीति । मानो ऽयं मोहभागीयः । कस्मात् । चक्षुषा रूपं दृष्ट्वा अहं पश्यामीत्याह । मानो ऽयमनीत्या च प्रवर्तते । कस्मात् । सर्वे लोका अनित्या दुःखा अनात्मकाः । कथमनेन मानो भवति । अतो रागद्वेषमोहाः परमानीतयः । मनोद्धितं कर्म तीक्ष्णं गुरुकञ्च । ( स्स्स्_310 ) गभीरासक्तत्वात् । रागोद्धितन्तु नेदृशं भवति । मानबलाद्रागादयो वर्धन्ते । अनेन रागेण लब्धो गोत्रादिमानस्तु विपुलं वर्धते । अस्मिमानप्रत्ययं प्रवर्तते नीचकुलम् । सिंहव्याघ्र वृकेष्वपि भवति । अस्मात्प्रत्ययान्नरके पतति । मानस्य सन्त्येवमादीन्यप्रमाणान्यवद्यानि ।
(पृ) किं मानबहुलस्य लक्षणम् । (उ) अयं समुपात्तधार्ष्ट्यो दुःसहभाषणो ऽसत्कारचित्तो ऽल्पभयः स्वैराचारमुदितः स्वयञ्च महादुःशासनो यत्किञ्चिज्जधन्य[मपि]स्वयं बहुमानी, परकुत्सनप्रियालुरितीमे दोषा दुरपनेयाः । अतो ज्ञानिना नाचरितव्याः । मानो ऽयं सर्वगुणानां विघटकतया प्रवर्तते ॥
मानवर्गो ऽष्ठाविंशत्युत्तरशतत्तमः ।
129 विचिकित्सावर्गः
शास्त्रमाह- विचिकित्सा नाम तत्त्वार्थे बुद्ध्यविनिश्चः किमस्ति विमुक्तिः किं वा नास्ति । किमस्ति कुशलमकुशलम् । उत न । किमस्ति रत्नत्रयम् । उत न इति ।
(पृ) वृक्षे संशयो भवति किं स्थाणुः किं वा पुरुष इति । मृत्पिण्डे संशयो भवति किं मृत्पिण्डः उत कोकिल इति । मधुकरे संशयो भवति किं मधुकरः किं वा जम्बूफलमिति । सर्पे संशयो भवति किं सर्पः किं वा रज्जुरिति । घोटकमृगे संशयो भवति किं प्रभा किं वा सलिलं इति । एवमादयः संशयहेतवश्चाक्षुषविज्ञानजनकाः । ध्वनौ संशयो भवति किं मयूरकृत उत मनुष्यकृत इति । गन्धे संशयो भवति किमुत्पलगन्धः उत संपर्कगन्ध इति । रसे संशयो भवति किं मांसरस उत मांसाभासरस इति । स्पर्शे संशयो भवति किमौत्पत्तिकतन्तव उत परिपक्वतन्तव इति । मानसविज्ञानन्तु नानाविधसंशयजनकम् । यथा किमयं धर्मो द्रव्यवान् उत गुणमात्रम् । विमस्त्यात्मा उत न इत्येवमादयः किं संशया न सन्ति ।
अत्र ब्रूमः । स्थाणुर्वा पुरुषो व इत्येवमादिभिस्तु न क्लेशा भवन्ति । न च ते पुनर्भवस्य प्रत्यया भवन्ति । क्षीणास्रवाणामप्येतत्सम्भवात् ।
(पृ) विचिकित्सेयं कथमुत्पद्यते । (उ) द्विविधधर्मदर्शनश्रवणज्ञानैर्विचिकित्सा भवति । कस्मात् । पूर्वं द्विधावस्थितं पदार्थं स्थाणुं पुरुषञ्च दृष्ट्वा पश्चाद्दूरतः पश्यति ( स्स्स्_311 ) पुरुषादि वस्तु तदा संशेत स्थाणुर्वा पुरुषो वेति । तदा मृदादावपि । द्विधाश्रवणम्- यदि कश्चिच्छृणोति अस्ति पुण्यं पापमिति । पश्चाच्छृणोति लोके नास्तीति । अतः संशयो भवति । द्विधाज्ञानम्- यदा देवे वर्षति नदी समृद्धा भवति । जलसेतुभेदे ऽपि नदी समृद्धा । यथा देवे विवृक्षति पिपीलिकापोतान्यण्डवाहीनि । कस्मिंश्चित् [कुत्रचित्] खनत्यपि अण्डसंक्रान्तो गच्छति । मयूरकूजनं पुरुषो ऽपि कर्तुं शक्नोति । किञ्चिद्वस्तु दृश्यं यथा घटः । किञ्चिददृश्यं यथालातचक्रम् । अदृश्यं वस्तु यथा वृक्षमूलं पृथिव्यामधस्तात् जल[स्थं]वा । किञ्चिदवस्तु अदृश्यञ्च यथा द्वितीयं शिरः तृतीयो बाहुः । एवमादिभिर्द्विधाधर्मदर्शनश्रवणज्ञानैः संशयो भवति ।
अपरीक्ष्य दर्शनाच्च संशयो भवति । यथातिदूरादिभिरष्टप्रत्ययैः । द्विधाश्रद्धावत्त्वेन च संशयो भवति । यथा कश्चिद्वदति- अस्ति परलोक इति । [अन्यः] कश्चिद्वदति नास्तीति । उभयोरपि पुरुषयोः श्रद्धावतः संशयो भवति । विमते वस्तुनि यावद्विशिष्टलक्षणं न पश्यति तावत्संशयो भवति । विशिष्टलक्षणं पश्यतस्तु संशयो न भवति । (पृ) कथं विशिष्ठलक्षणं पश्यति । (उ) दर्शनश्रवणज्ञानानां विनिश्चयाद्विगतसंशयो भवति । भगवच्छासने यः कायेन धर्मतालक्षणं साक्षात्करोति । सो ऽत्यन्तविगतसंशयो भवति । यथा बोधिसत्त्वो बोधिमण्डे निषण्णो ऽवदत् व्यवसायेन ब्राह्मणलब्धं गमीरं धर्ममभिसमेत्य प्रत्ययान् जानन् पश्यंश्च प्रक्षीणसंशयजालो भवेयमिति । सद्युक्तिप्रज्ञालाभिनश्च संशयः प्रहीयते । यथा ज्ञानी संस्काराणां प्रतीत्यसमुत्पादं श्रुत्वा विज्ञाय च निर्धास्यति संसारो ऽनादिरित्येवमादि ।
(पृ) विचिकित्सायाः के दोषाः । (उ) विचिकित्साबहुलस्य लौकिकं लोकोत्तरं सर्वं न सिध्यति । कस्मात् । सन्दिद्घः पुमान् न कार्यं कर्म करोति । यत् करोति तत् जघन्यं भवति । साधयितुमक्षमत्वात् । उक्तञ्च सूत्रे- विचिकित्सा चित्तस्यानुप्ररोहः । तद्यथा सतृणक्षेत्रे ऽनुप्ररोहबहुलत्वादन्यतृणान्येव न प्ररोहन्ति । किः पुनः शालिसस्यादीनि । ( स्स्स्_312 ) एवं चित्तं विचिकित्साप्रसृष्टमसद्वस्तुन्येव समादधाति । किं पुनः सम्यक् समाधौ इति । किञ्चाह भगवान्- विचिकित्सा नाम तमसो राशिरिति । स तमसो राशिस्त्रिविधः अतीतो ऽनागतः प्रत्युत्पन्न इति । स तमसो राशिरात्मदृष्टीनामुत्तिस्थानम् । पुरुषो ऽयं चित्तं समादधानो ऽपि मिथ्या समादधाति । विना भगवच्छासनं न सम्यक्समाधिमान् इति वक्तुं शक्यते । बहवः सत्त्वा आमरणं विचिकित्साविनष्टाः । तद्यथाह- अष्टकादयः पञ्चाभिज्ञा महर्षयः संशयालीढा विपन्ना इति । संशयानस्य दानादि कुर्वतः पुण्यमविपाकं वा स्यादल्पविपाकं वा । कस्मात् । इमानि पुण्यकर्माणि चित्तोद्गतानि । तस्य पुरुषस्य चित्तं सदा विचिकित्साकलुषितमित्यतो नास्ति कुशलम् । उक्तञ्च सूत्रे- विचिकित्सितचित्तो दानं दत्वा प्रत्यन्तभूमौ विपाकं वेदयत इति । कस्मात् । विचिकित्साबहुलो नैकाग्रचित्तो यथाकालं पाणिभ्यां प्रयच्छति । नापि विविधं सत्कारचित्तमुत्पादयति । अतः प्रत्यन्तभूमौ क्षुद्रं विपाकं वेदयते । तद्यथा पायास्यादयः क्षुद्रराजाः ।
(पृ) नास्तीयं विचिकित्सा । कस्मात् । विचिकिकित्सा नाम चैतसिकधर्मः । चैतसिकाश्च क्षणिकाः । सन् न विचिकित्सा । असन् अपि न विचिकित्सा । नैकं चित्तं सत् असदिति भवति । अतो नास्तीति ज्ञायते । (उ) नाहं वदामि क्षणिकेष्वस्ति विचिकित्सेति । अनिर्धारितचित्तसन्तानो विचिकित्सेत्याख्यायते । न तस्मिन् समये चित्तं निर्धारयति अयं स्थाणुरयं पुरुष इति । सतन्यमानमिदं चित्तमश्रद्दधानत्वादाविलम् । मिथ्यादर्शनादस्ति वा नास्ति वेति विचिकित्सन्न श्रद्दधते ।
अश्रद्धेयं द्विविधा विचिकित्सासम्भवा मिथ्यादर्शनसम्भवा इति । विचिकित्सासम्भवा लघुतरा । मिथ्यादर्शनसम्भवा तु गुरुतरा । श्रद्धा च द्विविधा सम्यद्गर्शनसम्भवा श्रवणसम्भवेति । सम्यद्गर्शनसम्भवा श्रद्धा दृढा भवति श्रवणसम्भवा तु नैवं भवति ॥
विचिकित्सावर्ग एकोनत्रिंशदुत्तरशततमः ।
130 सत्कायदृष्टिवर्गः
पञ्चसु स्कन्धेषु आत्मबुद्धिः सत्कायदृष्टिः । वस्तुत आत्मनो ऽभावात्पञ्चस्कन्धालम्बिनीत्युच्यते । कायः पञ्चस्कन्धात्मकः । तत्रोत्पन्ना [आत्म]दृष्टिः सत्कायदृष्टिरित्युच्यते । निरात्मक आत्मनिमित्तग्रहणात् दृष्टिरित्याख्यायते ।
(पृ) पञ्चसु स्कन्धेषु आत्मेति नामकरणे को दोषः । यथा घटादयः पदार्थाः प्रत्येकं स्वलक्षणाः । न तत्रास्ति दोषः । तथात्मापि । स्कन्धव्यतिरिक्त आत्मास्तीति ब्रूवतस्तु दोषः स्यात् । (उ) यद्यपि न स्कन्धव्यतिरिक्त आत्मेत्युच्यते । तथापीदं दुष्टम् । कस्मात् । तीर्थिका हि वदन्ति- आत्मा नित्यः । अस्मिन्नध्वनि कृतकर्मणामन्ते विपाकवेदनात् इति । एवं ब्रुवतः पञ्चस्कन्धा एव नित्याः स्युः । आत्मवादी मन्यते आत्मा एक इति । तथा सति पञ्चस्कन्धा एक एव स्युः । इत्ययं दोषः । आत्मग्रहश्च दुष्टः । कस्मात् । आत्मबुद्धौ हि आत्मीय [बुद्धि]रस्ति । आत्मीये सति रागद्वेषादयः सर्वे क्लेशाः समुद्भवन्ति । अतो ज्ञायत आत्मबुद्धिः क्लेशानामुत्पत्तिस्थानमिति । यद्यपीमे न वदन्ति स्कन्धव्यतिरिक्त आत्मेति । [तथापि] स्कन्धेषु निमित्तग्रहान्न [तेषां] शून्यतायामवचरन्ति । शून्य[ता]यामनवचरणात्क्लेशाः सम्भवन्ति । क्लेशेभ्यः कर्म सम्भवति । कर्मतो दुःखम् । एवं जननमरणसन्तानो ऽविच्छिन्नो भवति । इम आत्मकल्पनया कायशिरश्चक्षुर्हस्तपादस्यौदारिकं विवेकमेव न लभन्ते । किं पुनः स्कन्धानां विवेकम् । एक आत्मा नित्य आत्मेति समादानात् । यो न विवेचयति । को ऽवक्रामति शून्य[ताया]म् । आत्मदर्शीनिर्वाणभीत आत्मा न भविष्यतीति । यथोक्तं सूत्रे- पृथग्जनाः शून्यानात्मतां श्रुत्वा महाभीतिमुत्पादयन्ति आत्मा न भविष्यति । अतो नास्ति किञ्चिदुपलभ्यमिति । एवं पृथग्जना यावत्पामोपहतं कायं प्रार्थयमाना न निर्वाणाय प्रयन्ते । यः शून्यताज्ञानप्रतिलाभी स पुनर्निर्भीतो भवति । यथोहोपसेनसूत्रम्-
ब्रह्मचर्यं सुचरितं मार्गश्चापि सुभावितः ।
तुष्ट आयुःक्षये भोति रोगस्यापगमे यथा ॥ इति ।
आत्मास्तीति यो वदति स मिथ्यादृष्टौ पतति । यद्यात्मा नित्यः तदा सुखदुःखयोर्विकारो न स्यात् । असति विकारे नास्ति पुण्यं पापं वा । यद्यनित्य आत्मा । तदा नास्ति परलोकः । स्वभावतो विमुक्तस्यापि नास्ति पुण्यं पापं वा । अतो ज्ञायते सत्कायदृष्टिर्गुरुतरं पापमिति । किञ्च सत्कायदृष्टिको ऽत्यन्तमूढः । पृथग्जनाः सर्वे सत्कायदृष्ट्या विक्षिप्तचित्ता भवन्ति । अत्यासङ्गात् संसारे यातायाता भवन्ति । यो नैरात्म्यं पश्यति तस्य यातायातं समुच्छिद्यते ।
(पृ) यदि पञ्चस्कन्धा अनात्मकाः । कस्मात् सत्वानां तत्रात्मबुद्धिर्भवति । (उ) मर्त्यो देवः पुमान् स्त्री इति नामनिमित्तं शृण्वतः संज्ञाविकल्पादात्मबुद्धिरुत्पद्यते । न तु हेतुना । हेत्वभावेनात्मबुद्धिरुत्पद्यते यदुत यद्यात्मा नास्ति कः सुखं सुखं वेदयेत्, इर्यापथव्यवहारोद्धितपुण्यपापकर्मणा विपाकं [को] वेदयेतेति । अनादौ संसारे च चिरसञ्चितमात्मनिमित्तन्तु तदनुशयसाधनम् । यथा घटादिनिमित्तम् । अत आत्मबुद्धिरुत्पद्यते । सर्ववेदनास्कन्धेषु आत्मबुद्धिरुत्पद्यते न तु वेदनायाम् । अत उच्यत आत्ममतिर्यत्रोत्पद्यते तत्रात्मास्तीति । कस्मात् । न हि सर्वत्रात्ममतिर्भवति । व्यामोहादात्ममतिरुत्पद्यते । तद्यथा अन्ध[कल्प]स्य शकलादि लब्ध्वा सुवर्णमणिसंज्ञा भवति । किञ्चायं शून्यताविवेकज्ञानालाभी मोहात्पश्यत्यात्मानम् । तद्यथा माया[मरीची]गन्धर्वनगरालातचक्रादिषु अस्तीति मतिर्भवति ।
(पृ) पश्यामः खलु प्रत्यक्षं रूपकाये केशनखरोमाद्यवयवान् प्रत्येकं विभिन्नान् । कः सचेतनस्तानात्मानं मन्येत । (उ) केचित्पश्यन्ति आत्मानं यवसदृशं सर्षपादिसमानं हृदयान्तर्वर्तिनञ्च । ब्राह्मणानामात्मा शुक्लः । क्षत्रियाणामात्मा पीतः । वैश्यानामात्मा रक्तः । शूद्राणामात्मा कृष्ण इति । उक्तञ्च वेदे-
पुरासीन्महान् पुरुष आदित्यवर्णः तमसः परस्तात् । तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यते [ऽयनाय] । अणोरणियान् महतो महीयान् आत्मा गुहायां निहितो ऽस्य जन्तोः । तमक्रतुः पश्यति [वीतशोकः] सूत्रं मणिगणेष्विव ।
एवं केचिन्मन्यन्ते रूपमात्मेति । स्थूलचेतना आहुः वेदनात्मेति । वृक्षशिलादौ वेदनाया अभावात् ज्ञेयं वेदनैवात्मेति । मध्यमचेतना आहुः संज्ञा आत्मा, सुखदुःखयोरतीतयोरपि [तत्] संज्ञावदात्मेति बुद्धि[सत्त्वा]त् । सूक्ष्मचेतना आहुः संस्कार आत्मेति । घटादावतीते ऽपि [तत्] चेतनावानात्मेति बुद्धेः । परमसूक्ष्मचेतना आहु- विज्ञानमात्मेति । चेतनापि औदारिकी । चेतनायामस्यामतीतायामपि [तत्] विज्ञानवानात्मेति बुद्धेरिति जानन्ति । [यस्य] पञ्चसु स्कन्धेषु आत्मबुद्धिर्भवति । न स विवेचयति वेदनादीन् स्कन्धान् । रूपं चित्तञ्च सम्मिश्र्य आत्मसंज्ञा समुत्पद्यते । यथा रूपादिचतुर्धर्मसामान्ये घटसंज्ञोत्पद्यते । रूपादिविभागेन विंशतिभागैः पश्यति रूपमात्मेति । कस्मात् । रूपवानयमात्मेति प्रतीतो धर्मो वेदनादीनामाश्रयः । वेदनादय इमे रूपे प्रतिबद्धा इत्यत उच्यते रूप[वान्] आत्मेति । केचिद्वेदनादिगतं रूपं पश्यन्ति । वेदनादय इमे ऽनुपलभ्यमानधर्मा इत्यतो रूपमाश्रयन्ते । यथा आकाशो ऽनुपलभ्य इत्यतः पृथिव्यादय आश्रीयन्ते । एव [मात्मदृष्टे] विंशतिभागा मोहाद्भवन्ति ।
(पृ) चक्षुरादिषु कस्मान्नोच्यत आत्मेति भागः । (उ) अस्ति च । यथोक्तं सूत्रे- यद्याह कश्चित् यच्चक्षुरयमात्मेति । तन्न युज्यते । कस्मात् । चक्षुरुत्पन्नविनाशि । यदि चक्षुरयमात्मा । तदा आत्मा उत्पन्नविनाशी स्यात् । चक्षुरादीनि पृथक् पृथग्विशिष्टलक्षणानि । यद्युच्यते चक्षुरात्मेति । श्रोत्रादयो नात्मा स्युः । तत्तु न ( स्स्स्_316 ) युज्यते । यदि श्रोत्रादयः पुनरा[त्मा] । तदा एक एव पुमान् बह्वात्मा स्यात् । रूपादीनां सविशेषत्वात् वक्तुं शक्यं रूपमेवा न वेदनादय इति ।
(पृ) नास्त्यात्मेति यद्वचनम् । सापि मिथ्यादृष्टिः । कथमिदम् । (उ) अस्ति सत्यद्वयम् । परमार्थतो ऽस्त्यात्मेति यद्वचनं सा सत्कायदृष्टिः । संवृतितो नास्ति आत्मेति वचनं मिथ्यादृष्टिः । लोकसत्यतो ऽस्त्यात्मा परमार्थतो नास्त्यात्मेति वचनं सम्यक् दृष्टिः । परमार्थतो नास्ति संवृतितो ऽस्तीति वदन् न दृष्टौ पतति । एवमस्ति नास्तीति वचनं ज्ञेयम् । यथा व्याघ्री स्वपोतं मुखेनापहरति अतिनिष्ठुरग्रहणे क्षतं [भवेदिति] अतिशिथिलग्रहणे भ्रंशो [भवेदिति] । एवमास्तित्वं प्रतिपन्नश्चेत्सत्कायदृष्टौ पतति । आत्मनास्तित्वं प्रतिपन्नश्चेन्मिथ्यादृष्टौ पतति । कृतहानमकृताभ्यागम उभयं दुष्टम् । नास्तीति प्रतिपन्नस्य [कृत]हानम् । आत्मास्तीति प्रतिपन्नस्या [कृता]भ्यागमः । अतः सूत्र उक्तं- द्वावन्तौ परिहार्याविति । परमार्थतो नास्तीति वदन् संवृतितो ऽस्तीति च वदन् अन्तद्वयं परित्यज्य मध्यमायां प्रतिपदि चरतीत्याख्यायते । बुद्धशासनमविवादमनुत्कर्षणम् । परमार्थतो नास्तीत्युक्तौ पण्डितो नोत्कर्षति । संवृतितो ऽस्तीत्युक्तौ पामरो न विवदते । तथागतशासने ऽशाश्वतानुच्छेदा परिशुद्धा मध्यमा प्रतिपत् । परमार्थतो नास्तितया न शाश्वतः । संवृतितोस्तितया नोच्छेदः ।
(पृ) यो धर्मः परमार्थतो नास्ति स सुतरां नास्तीति स्यात् । केन पुनरुच्यते संवृतितो ऽस्तीति । (उ) सर्वैर्लौकिकैर्व्यवह्रियते अस्तीति यदुत कर्म कर्मविपाको यदि वा बन्धो यदि वा मोक्ष इति । इमे सर्वे मोहजाः । कस्मात् । इमे पञ्चस्कन्धाः शून्या मायोपमाः ज्वालावच्च सन्तानेनोत्पन्नत्वात् । पृथग्जनानां तितीर्षया अस्तीतिवचनमनुवर्तते । यदि नास्तीति वदेत् । तदा पृथग्जना व्यामुह्य यदि वा उच्छेदवादे पतेयुः यदि वा स्कन्धानां नास्तीताकथने अविनेयाः स्युः । पुण्यपापादिकर्मभिर्बन्धो वा मोक्षो वा न सिध्येत् । यस्तं मोहवादं विनाशयति । सः स्वयमेव शून्यतायामवतरति । तदास्य सर्वा मिथ्यादृष्टयो न भवन्ति । अतः परमार्थसत्यं पश्चादुच्यते । यथा स्त्रीपुंनिमित्तव्यावृत्तये कायप्रत्यवेक्षणमादावुपदिश्यते । अथ केशरोमनखादिभिः कायविकल्पलक्षण[मुपदिश्यते] पञ्चस्कन्धमात्रमस्तीति । अथ शून्यतालक्षणेन पञ्चस्कन्धनिरोधलक्षण[मुपदिश्यते] । पञ्चस्कन्धनिरोधलक्षणं परमार्थसत्यमित्युच्यते । संवृत्यास्तीति कथने न तदा पुनः परमार्थतो ( स्स्स्_317 ) नास्तीति वचनमपेक्ष्यते । उक्तञ्च सूत्रे- यः सर्वधर्मान् निःस्वभावान् प्रजानाति स शून्यतायामवतरति । इति । अतो ज्ञायते पञ्च स्कन्धा अपि न सन्तीति । उक्तञ्च परमार्थशून्यतासूत्रे- चक्षुरादि परमार्थतो नस्ति । अस्ति तु संवृतित इति । महाशून्यतासूत्र उक्तम्- यदिदं जरामरणमिति वचनं यदि वायं पुरुषो जरामरण[-लक्षण] इति वचनं । यदि वा तीर्थिकानां वचनं काय एव जीवः, यदिवान्यः कायो ऽन्यो जीव इतीदमेकार्थकं, व्यञ्जनमेव नाना । काय एव जीवः अन्यः कायो ऽन्यो जीव इतीदं वचने न ब्रह्मचर्यं भवति । यः प्रतिषेधः अयं पुरुषो जरामरण[लक्षण] इति नैरात्म्यस्याभिधानम् । यः प्रतिषेध इदं जरामरणमिति तत् जरामरणस्य व्यावर्तनम् । यावदविद्यायाः इति । अतो ज्ञायते परमार्थतो न जरामरणादि । संवृत्या तूच्यते जातिप्रत्ययं जरामरणम् । इयमुच्यते मध्यमा प्रतिपत् । किञ्चोक्तं राधसूत्रे- रूपं राध यूयं विकिरत विधमत विध्वंसत विक्रीडनकं कुरुत [तृष्णा]क्षयाय [प्रतिपद्यत] तद्यथा पांस्वागारिकाः । अवस्तुत्वात् क्षयाय भाव्या इति । स्कन्धा अपि क्षयाय [भाव्याः] । परमार्थतो ऽभावात् स्कन्धवृत्तिलक्षणवृत्तिमनुसरतो नात्ममतिरत्यन्तं प्रहीयते । हेतुप्रत्ययानामनिरोधात् । यथा वृक्षः परशुना छिन्नो भस्मसात्कृतः । तथापि [तत्र] वृक्षसंज्ञामनुवर्तते । यदा तु महावाते ओपूयते जलेन वा प्रवाहितः तदा वृक्षसंज्ञा निरुध्यते । एवं यदा विध्वंसितानि विक्रीडनकं कृतानि विकीर्णानि विध्मातानि निरुद्धानि पञ्चस्कन्धलक्षणानि, तस्मिन् समये शून्यतालक्षणं सम्पन्नं भवति । यथाह सूत्रम्- राध यूयं [रूपं] विध्वंसत विक्रीडनकं कुरुत विकिरत विधमत भागशो विदलयत सत्त्वक्षयाय इति । अस्मिन् सूत्र उक्तम्- पञ्चस्कन्धा अनित्याः सत्त्वशून्याः न सन्तीति । पूर्वस्मिन् सूत्र उक्तम्- पञ्चस्कन्धा विकीर्णा निरुद्धाः ते धर्मशून्या भवन्ति इति ॥
सत्कायदृष्टिवर्गस्त्रींशत्युत्तरशततमः ।
131 अन्त[ग्रह]दृष्टिवर्गः
धर्माः समुच्छिद्यन्ते वा शाश्वता वा इति यदिदं वचनं तदन्त[ग्रह]दृष्टिरित्युच्यते । केचिदाभिधर्मिका आहुः- यदा कश्चिदाह आत्मा शाश्वतो वा अशाश्वतो वेति इयमेवान्तग्रहदृष्टिः न सर्वे धर्माः[शाश्वता वा अशाश्वता वा] इति । कस्मात् । दृष्टं खलु प्रत्यक्षं [यत्] बाह्यं वस्तु समुच्छिद्यत इति । उक्तञ्च सूत्रे- अस्तीति दर्शनं शाश्वतग्रहः । नास्तीति दर्शनमुच्छेदग्रह इति । काय एव जीव इत्युच्छेददृष्टिः । अन्यः कायो ऽन्यो जीव इति शाश्वतदृष्टिः । नास्ति कर्म परं मरणादिति उच्छेददृष्टिः । अस्ति कर्म परं मरणादिति शाश्वतदृष्टिः । अस्ति च नास्ति च कर्म परं मरणादित्यत्र यदस्तीति स शाश्वत[वादः] यन्नास्तीति स उच्छेदवादः । नैवास्ति न च नास्तीत्यप्येवम् ।
(पृ) अयं चतुर्थो ग्रहो न दृष्टिः स्यात् । (उ) लोकसत्यतो ऽपि पुद्गलरहितत्वाद्धर्माणां दृष्टिरित्युच्यते । शाश्वतो ऽशाश्वतः अन्तवाननन्तवानित्यादि चतुष्कोटिकमप्येवम् । उक्तञ्च सूत्रे- षट् स्पर्शायतनानि निरुध्यन्ते सन्त्यन्यानीति शाश्वतवादः । न सन्त्यन्यानीति उच्छेद[वाद] इति । आत्मा पूर्वमकरोत् पश्चात्करिष्यतीति यद्दर्शनं सा शाश्वतदृष्टिः आत्मा पूर्वं नाकरोत् पश्चान्न करिष्यतीतीयमुच्छेददृष्टिः । अपि चाह मिथ्यादृष्टिसूत्रम्- पुरुषस्य सप्तकायाः पृथिव्यप्तेजोवायवः सुखंदुःखं जीवितमिति । म्रियमाणस्य चत्वारि महाभूतानि तम्मूलप्रतिशरणानीन्द्रियाण्याकाशप्रतिशरणानि इति । किञ्चाह- क्षुरेण च क्रकचेन प्राणिनो हत्वा [एक]मांसपुंञ्च कुर्यात् नास्ति [ततो निदानं]पापं [नास्ति पापस्यागम] इति । इयमुच्छेददृष्टिः । ब्रह्मजालसूत्र उच्छेददृष्टिलक्षणमुक्तम् । अस्ति परलोकः यः कारकः स एव वेदक इति यद्वचनम् । इयं शाश्वतदृष्टिरित्युच्यते ।
(पृ) शाश्वतोच्छेददृष्टिः कथमुत्पद्यते । (उ) येन हेतुना भवति तथागतः परं मरणादिति वदन्ति ततो निदानं शाश्वतदृष्टिर्भवति । येन हेतुना न भवति तथागतः परं मरणादिति वदन्ति ततो निदानमुच्छेददृष्टिर्भवति । (पृ) कथमियं दृष्टिः प्रहीयते । (उ) शून्यतां सम्यग्भावयतो नास्त्यात्मदृष्टिः । असत्यामात्मदृष्टौ नास्त्यन्तद्वयम् । यथोक्तं यमकसूत्रे- नास्त्यैककस्मिन् स्कन्धे तथागतः । नास्ति समुदिते स्कन्धे तथागतः । नास्ति चान्यत्र स्कन्धात्तथागतः । एवं दृष्ट एव धर्मे [तथागतो] ऽनुपलभ्यमानः । कथं वक्तव्यं [यथा] क्षीणास्रवो ऽर्हन् कायस्य भेदा [दुच्छेत्स्यति विनंक्ष्यति] न भवति परं मरणादिति । अतो ज्ञायते नोपलभ्यते पुद्गल इति । पुद्गलस्यानुपलम्भादात्मदृष्टिः शाश्वतोच्छेददृष्टिश्च नास्ति । धर्माः प्रतित्यसमुत्पन्ना इति पश्यतो नास्त्यन्तद्वयम् । यथा पुनरुक्तम्- लोकसमुदयं पश्यतो ऽभावदृष्टिर्निरुध्यते । लोकनिरोधं पश्यतो भावदृष्टिर्निरुध्यत इति । मध्यमायां प्रतिपदि विहरतश्चान्तद्वयं निरुध्यते । कस्मात् । धर्माणां सन्तत्योत्पादं पश्यत उच्छेददृष्टि र्निरुध्यते । [तेषां] क्षणिकतां पश्यतः शाश्वतदृष्टिर्निरुध्यते । किञ्चोक्तम्- न पञ्चस्कन्धास्तथागतः । न चास्ति अन्यत्र स्कन्धात्तथागत इति । अतो ज्ञायते नोच्छेदो न शाश्वत इति । कायादन्य उपलभ्यत इत्यतो नैकः कायेन भवति । सहायं सत्त्व इत्यतो नान्यो भवति । पञ्चस्कन्धाः पुनः सन्तन्यन्त इत्यतः सत्त्वो जायते म्रियत इति वक्तमेव न प्रभवति । सन्तानेन प्रवृत्तत्वादन्य इति न वक्तुं शक्यते । सन्तानस्यैकत्वेनाभिधानात् । ( स्स्स्_320 ) इमे स्कन्धास्ते स्कन्धाश्चान्य इत्यभिधानात् शाश्वतवादो न भवति । स्वसन्तानप्रत्ययबलेन प्रवर्तत इत्यत उच्छेदवादो न भवति ।
अन्तग्रहदृष्टिवर्ग एकत्रिंशदुत्तरशततमः ।
132 मिथ्यादृष्टिवर्गः
वस्तुतः सत्सु धर्मेषु नास्तीति चित्तोत्पादनं मिथ्यादृष्टिः । यथा वदन्ति न सन्ति चतुस्सत्यानि त्रीणि रत्नानीत्यादि । ऊक्तञ्चसूत्रे- कतमा भिक्षवो मिथ्यादृष्टिः, नास्ति दत्तं नास्तीष्टं, नास्ति हुतं, नास्तिसुकृतदुष्कृतानां फलं विपाकः । नास्त्ययं लोकः नास्ति परो लोकः, नास्ति माता नास्ति पिता, न सन्ति सत्त्वा औपपातिकाः, न सन्ति श्रमणब्राह्मणाः सम्यग्गताः सम्यक् प्रतिपन्ना य इमं लोकं परञ्च लोकं स्वयमभिज्ञाय साक्षात्कृत्य प्रवेदयन्ति- क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमित्थत्वाय इति । दत्तं [यत्] परहिताय प्रयच्छति । इष्ठं इति वेदोक्तो देवानां कृते यागः । हुतमिति देवेभ्यो घृतादिद्रव्यहोमः । सुकृतमिति त्रयाणां सुकृतकर्मणामिष्टफलप्रतिलाभः । दुष्कृतमिति त्रयाणां दुष्कृतकर्मणामनिष्टफलप्रतिलाभः । सुकृतदुष्कृतकर्मणां [फलं] विपाकः इहलोकशुभाशुभकीर्त्यादिः देवकायादयः पारलौके विपाकश्च । अयं लोक इति वर्तमानः । परलोक इति अनागतः । माता पिता जनकौ । सत्त्व औपपातिक इति अस्माल्लोकात्परलोकगन्ता । अर्हन्निति क्षीणास्रवः । यदिदं सर्वं नास्तीति सा मिथ्यादृष्टिः । सत्त्वानां संक्लेशो व्यवदानं ज्ञानदर्शनमज्ञानदर्शनम्- इदं सर्वमहेतुकम् । नास्ति बलं नास्ति वीर्यम् । नास्ति च तेषां फलमित्यादि मिथ्यादृष्टिः । संक्षिप्येदं ब्रूमः- यद्विपर्ययचित्तं सर्वं तन्मिथ्यादृष्टिः इति । तद्यथा अनित्ये नित्यसंज्ञा, दुःखे सुखसंज्ञा, अशुचौ शुचिसंज्ञा, अनात्मनि ( स्स्स्_321 ) आत्मसंज्ञा अनुत्कृष्ट उत्कृष्टसंज्ञा, उत्कृष्टे चानुत्कृष्टसंज्ञा, व्यवदानमार्गे अव्यवदानमार्गसंज्ञा, अव्यवदानमार्गे च व्यवदानमार्गसंज्ञा, अभावे भावसंज्ञा, भावे चाभावसंज्ञा इत्येवमादीनि विपर्ययचित्तानि । अभिधर्मे याः पञ्चदृष्टयः ब्रह्मजालसूत्रे च द्वाषष्टिदृष्टयः सर्वा[स्ता] मिथ्यादृष्टयो भवति ।
मिथ्यादृष्टिः कथममुत्पद्यते । (उ) मोहादुत्पद्यते । अहेतौ हेत्वाभासे चासंक्लिष्टासक्तत्वाद्भवति । सुखहेतावासङ्गाद्वदति नास्ति दुःखमिति । भ्रष्टशून्यतामार्गत्वाद्वदन्ति नास्ति दुःखमिति । न हि दुःखवेदको ऽस्तीति । लौकिकाः पदार्था अहेतुका अप्रत्यया इति यद्वदन्ति । यदि वा वदन्ति ईश्वरादिहेतुका न तृष्णाहेतुका इति । इदं नास्ति समुदय इति । येन हेतुना वदन्ति नास्ति निर्वाणमिति । अन्यथा वा वदन्ति निर्वाणम् । इदं नास्ति निर्वाणमिति । असति निर्वाणमार्गे केन प्राप्येत । अथ वा वदन्ति अस्ति विमुक्तेर्मार्गान्तरमुपवासादिरिति । इदं नास्ति मार्ग इति । नास्ति बुद्ध इति । ते वदन्ति धर्मा अप्रमाणाः । कथमेकः पुरुषः सर्वान् जानीयात् इति । अथ वा मन्यन्ते बुद्धः पुरुषाणां पूज्यो नास्ति पुरुष इत्यतो नास्ति [स] बुद्ध इति द्रष्टव्यम् । क्लेशानां क्षयाभावान्नास्ति धर्मः । सम्यक्चर्यया तद्धर्मप्रतिलाभिनो न सन्तीत्यतो नास्ति सङ्घः । दत्तस्य दृष्टफलानुपलम्भाद्वदन्ति नास्ति दत्तमिति । उक्तञ्च सूत्रे- नास्ति दत्तम् । तदनुमानमप्यनैकान्तिकम् । लोके कश्चिद्दानाभिरतो दरिद्रो भवति । कृपणस्तु धनिक इत्यादिभिः नास्ति कारणैर्वदन्ति दत्तमिति । नास्तीष्टं नास्ति हुतमित्यप्येवम् । यद्यग्नौ प्रक्षिप्तं द्रव्यं भस्मसाद्भवति । तस्य किं फलमस्ति । नास्ति सुकृतं दुष्कृतं, नास्ति च सुकृतदुष्कृतानां [फलं] विपाकः । यदि जीवो नित्यः तदा नास्ति सुकृतं दुष्कृतम् । यदि जीवो ऽनित्यः तदा नास्ति परलोकः । नास्ति परो लोक इत्यतो नास्ति सुकृतं दुष्कृतं, नास्ति सुकृतदुष्कृतानां विपाकः, नास्त्ययं लोक इति । अवयवशः प्रविभज्यमाना धर्मा अत्यन्ताभावतां प्रतिगच्छन्ति । नास्ति परो लोक इति । मरणात्परं न भवति प्रतीत्यसमुत्पाद इत्यतो वदन्ति नास्ति परो लोक इति । नास्ति माता पिता । ते ऽप्यवयवशः प्रविभज्यमानाः प्रक्षीयन्ते । वदन्ति च गोमयमुपादाय क्रिमयो भवन्ति । न हि गोमयं क्रिमीणां पितरौ । ये मस्तकादयः शरीरावयवाः, न त एव मतापित्रोः शरीरावयवाः । धर्माणां क्षणिकत्वात् माता पिता च किं करोति । न सत्त्वा औपपातिका इति । सत्त्वधर्माभावादयं लोक एव नास्ति । किं पुन[स्तदूर्ध्व]कायं वेदयत इति ।
चेतनाख्यः सत्त्वो ऽयं किं कायात्मकः किमकायात्मकः । यदि कायात्मकः । तदा चक्षुषा परिदृश्यमानो ऽयं कायः खन्यमानो मृद्भवति । हूयमानो भस्म भवति । क्रिमिभुक्तः पुरीषं भवति । अतो नास्त्यौपपातिकः । अकायात्मक इत्ययं द्विविधो यदि चित्तात्मको यदि वा चित्तव्यतिरिक्त इति । यदि चित्तात्मकः, तदा चैत्तधर्मः । चैत्तधर्मश्च प्रतिक्षणमुत्पत्तिविनाशी, न स्थायी । किमुत परदेहं प्राप्नुयात् । यदि चित्तव्यतिरिक्तः तदा नात्ममतिः । परस्य चित्त एव नात्ममतिः, किमुताचित्तस्थाने । अतो नास्त्यौपपातिकः ।
नास्त्यर्हन्निति । स क्षुधितः सर्वान् दृष्ट्वा अन्नं प्रार्थयते । शीते सत्यौष्ण्यं प्रार्थयते । तापे शीतं प्रार्थयते । निन्दितः कुप्यति । सत्कृतस्तृप्यति । अतो नास्ति क्षीणास्रवः । सूत्रे केचिद्वदन्ति- नास्त्यर्हन्निति । इदं सूत्रमनुसृत्य सा मिथ्यादृष्टिर्भवति । संक्लेश इति । काय एव संक्लेशः । अतो वदन्त्यकारणमिति । ज्ञानदर्शनमज्ञानदर्शनमप्येवम् । नास्ति बलं नास्ति वीर्यमिति । पश्यामः खलु सर्वे सत्त्वाः प्रज्ञप्तिकारणका इति । केचिद्वदन्ति ईश्वरः [स्वातन्त्र्येण] करणीयं करोतीति । पश्यामश्च सर्वान् सत्त्वान् कर्मकारणतन्त्रान् न स्वतन्त्रान् । अतो वदन्ति नास्ति बलं नास्ति वीर्यं [नास्ति] च तत्फलमिति ।
अनित्ये नित्यसंज्ञेति । येन कारणेन क्षणिक[वादः] खण्ड्यते । तेन कारणेन शाश्वतदृष्टिरुत्पद्यते । वदन्ति च धर्मा निरुध्यमानाः पुनः परमाणवो भवन्तीति । [अन्ये] केचिद्वदन्ति मूलप्रकृतौ प्रतियन्तीति । धर्माणां विनाशे ऽपि संज्ञानुस्मरणात् सुखदुःखे वेदयते । तस्य शाश्वतदृष्टिरुत्पद्यते । आहुश्च जीवो नित्यः । शब्दो ऽपि नित्य इति । एभिः कारणैः शाश्वतदृष्टिर्भवति ।
दुःखे सुख[संज्ञे]ति । येन कारणेन वदन्ति अस्ति सुखमिति । यथा पूर्वमुक्तं त्रिवेदनावर्गे । अनेन कारणेनोत्पद्यते सुखसंज्ञा । अशुचौ शुचिसंज्ञेति । काये ऽभ्यासङ्गात् चक्षुषा अशुचि दृष्ट्वा शुचिसंज्ञामुत्पादयन्ति । केचिच्चिन्तयन्ति- आत्मा पुरुषलक्षणलब्धः । अस्य पुरुषस्य कायमशुचिं पश्यामः । अस्ति पुनः सत्त्वो येन शुचीक्रियत इति । एभिः कारणैः शुचिसंज्ञोत्पद्यते ।
अनात्मनि आत्मसंज्ञेति । स्कन्धानां सन्तानेन प्रवृत्तिं दृष्ट्वा एकलक्षणं गृह्णाति । ( स्स्स्_323 ) तदा आत्मेति मन्यन्ते । यथा च पूर्वमुत्पन्नं सत्कायदृष्टेः कारणम् । अनेनैव कारणेनात्मसंज्ञा सम्भवति । अनुत्कृष्ट उत्कृष्टसंज्ञेति । पूरणादिषु तीर्थिकाचार्येषु उत्कृष्टसंज्ञामुत्पादयन्ति । ब्रह्मा स्वयमाह- अहमस्मि महाब्रह्मा प्रभुर्देवानां कर्ता जगत इत्येवमादि । केचिदाहुः- यदि कश्चित्पञ्चकामानां सुखवेदनासम्पन्नः अयमुत्कृष्ट धर्म इति । केचित्पुनराहुः - यदि कश्चिद्विरक्तः प्रथमध्यान[मारभ्य]यावच्चतुर्थध्यानमुपसम्पद्य विहरति अयमुत्कृष्ट धर्म इति । केचिदाहुः- लोके प्रत्यक्षदृष्टेषु ब्राह्मणाः पूज्याः । परेक्षेषु सत्त्वेषु देवाः पूज्या इति । इयमनुत्कृष्ट उत्कृष्टसंज्ञेति । उत्कृष्टे चानुत्कृष्टसंज्ञेति । सर्वेषु सत्त्वेषु बुद्धः परमपूज्यः । केचित्तस्मिन् अनुत्कृष्टसंज्ञामुत्पाद्य वदन्ति- अयं क्षत्रियः अल्पकालिकशिक्षामार्गः । बुद्धवचनञ्च न चाटुकाव्य[वत्] क्लेशगुरुकं न वेदसदृशम् । तदुत्कृष्टमिति न वदन्ति । सन्ति सङ्घे चतुष्कोटिकाः पुद्गला इत्यतो ऽनुत्कृष्टः । एवमुत्कृष्टे ऽनुत्कृष्टसंज्ञामुत्पादयन्ति ।
अव्यदानमार्गे व्यवदानमार्गसंज्ञेति । यत्केचिदाहुः- भस्मतीर्थादिस्नानैः पुरुषः शुध्यतीति । केचिदाहुः- जननमरणयोः क्षयो ऽवसानं व्यवदानमार्ग इति । शीलधारण ब्रह्मचर्यमात्र आसज्य देवपूजादयश्च [व्यवदानमार्ग आख्यायेत] ईश्वर [प्रसादेन] च विशुद्धिं लभत इति च वदन्ति । केचिदाहुः- तपश्चर्यया पूर्वतनीनकर्मक्षयो व्यवदानमार्ग इति । [केचिदाहुः]- लशुनं त्यक्त्वा दधिनवनीतादिना विशुद्धिं लभते । पुनः प्रयतः स्नात्वा ब्रह्मयज्ञपठनतदूर्ध्वभोजनं विशुद्धिमार्ग इति । एभिर्नानाविधैरसन्मार्गैर्विमुक्ति र्लभ्यते नत्वष्ठाङ्गिकविशुद्धिमार्गेणेति ।
भावे ऽभावसंज्ञेति । यत् धर्मा लोकसत्यतः सन्तो ऽपि अभाव इत्युच्यन्ते । अभावे भावसंज्ञेति यदुच्यते सन्ति द्रव्याणि अस्त्यवयवीति । सन्ति संख्यापरिमाणादयो गुणा इत्यपि वदन्ति । सामान्यलक्षणं पृथक्त्वलक्षणं समवायञ्च वदन्ति । प्रकृतिकालादयो ऽसत्पदार्थाः सन्तीति च वदन्ति । एभिः कारणैरुत्पन्नानि विपर्ययचित्तानि मिथ्यादृष्टयो भवन्ति । आसु मिथ्यादृष्टिषु विशिष्य चतस्रो दृष्टयः । अन्या य उग्रक्लेशा सा मिथ्यादृष्टिः ।
(पृ) इयं मिथ्यादृष्टिः कथं प्रहीयते । (उ) सूत्रे भगवता प्रोक्तसम्यक्दृष्ट्या प्रजहाति । (पृ) सम्यग्दृष्टिः कथमुत्पद्यते । (उ) यो दर्शनश्रवणान्वयज्ञानैः सम्यग्विनिश्चिनोति । तस्य सम्यग्दृष्टिर्भवति । सम्यक्समाधिं भावयतः सम्यग्दृष्टिरुत्पद्यते । यथाह सूत्रम्- समाहितो यथाभूतं प्रजानातीति । न विक्षिप्तचित्त [इत्यर्थः] ।
(पृ) अस्या मिथ्यादृष्टेः के दोषाः । (उ) सर्वे दोषा विपत्तिव्यसनानि च मिथ्यादृष्ट्या भवन्ति । स आह- नास्ति पापं नास्ति पुण्यं सुकृतदुष्कृतानां फलं विपाक इति । अतो दृष्टधर्म एव न सन्ति सुवृत्तानि । किं पुनरनागतानि । एवं दूषितसुकृतदुष्कृतः पुमान् समुच्छिन्नकुशलमूल इत्युच्यते । स नियतमवीचौ पतिष्यति । यथोक्तं षट्पादाभिधर्मे- क्रिमिपिपीलिकाहननं पुरुषहननाद् गुरुतरम् इति । स मिथ्यादृष्टिकः पुरुषः लोकदूषकः सत्वानां भूयसापकाराय प्रवर्तते । यथा विषवृक्षो हिंसायै प्ररोहति । तेन कृतं कायिकं वाचिकं मानसं कर्म सर्वमशुभविपाकाय भवति । यथोक्तं सूत्रे- मिथ्यादृष्टिकस्य [भिक्षवः] पुरुषपुद्गलस्य यत्कायकर्म यथादृष्टिसमात्तं समादत्तं यच्च वाक्कर्म........यच्च मनःकर्म या चेतना या प्रार्थना यः प्रणिधिः ये च संस्काराः सर्वे ते ऽनिष्टाय अकान्ताय अमनापाय अहिताय दुःखाय संवर्तते । तद्यथा तिक्तकालाबुबीजं कोषातकीबीजं पिचुमन्दबीजमाद्रायां पृथिव्यां निक्षिप्तं यच्चैव पृथिवीरसमुपादीयते यच्चापोरसं तेजोरसं वायुरसमुपादीयते सर्वं तत् तिक्तकत्वाय कटुकत्वाय असातत्वाय संवर्तते । [तत्कस्य हेतोः] बीजं हि भिक्षवः पापकम् । एवमेव मिथ्यादृष्टिकस्य पुरुषपुद्गलस्य चित्तचैतसिका धर्मा अनिष्टाय [अकान्ताय ( स्स्स्_325 ) अमनापाय अहिताय दुःखाय] संवर्तते । [तत्कस्य हेतोः] दृष्टिर्हि भिक्षवः पापिका इति । अतस्तस्य पुरुषपुद्गलस्य कृतमपि दानादि नेष्टफलं भवति । पूर्वकृतमिथ्यादृष्टिचित्तेन विनष्टत्वात् । तत्कृतस्याशुभमेवाधिमात्रं भवति । पापकचित्तस्य चिरसञ्चितत्वात् ।
संवरेण च कश्चिदसद्धर्मं प्रतिरोद्धुं शक्नोति । अस्य पुरुषपुद्गलस्य नास्ति सुकृतं दुष्कृतमित्यतो न यतः कुतश्चित्प्रतिविरतिः । अत्यन्तप्रमत्तो ऽसद्धर्म चरति । ह्र्यपत्रपाख्यद्विविधशुक्लधर्मसभिन्नः पशुसमो भवति । यश्च वदति नास्ति सुकृतं दुष्कृतं वेति स सदा चित्ते ऽकुशलमेव काङ्क्षते । तस्य सद्धर्मसमादापनकारणमेव नास्ति । कस्मात् न हि स सज्जनमुपगच्छति । ना[पि] सद्धर्मं शृणोति । तस्य दुष्कृतचित्तं सूत्थानं भवति । सुकृतचित्तं दुरुत्पादम् । दुष्कृतस्य सूत्थानत्वात्सुकृतस्य कारणमेव नास्ति । एवं क्रमेण दुष्कृतोपचये समुच्छिन्नकुशलमूलो भवति ।
मिथ्यादृष्टिकस्य पुरुषपुद्गलस्य दुस्थानगत इत्याख्या । यथा नारकाः सत्त्वा न मार्गप्रतिलाभप्रवणाः । तथा च पुद्गलो मध्यमदेश उत्पन्न इष्टानिष्टविवेकाय षडिन्द्रियसम्पन्नो ऽपि न मार्गप्रतिलाभप्रवणो भवति । मिथ्यादृष्टिकस्य नास्ति [यत्किञ्चित्] दुष्कृतमकुटम् । नास्ति विरतिर्लघोरल्पाद्वा [दुष्कृतात्] । अल्पमप्यकुशलं कुर्वन् नरके पतति । कर्मणो ऽस्य गुरुपापकचित्तेन समुत्पन्नत्वात् । यथा कर्मवर्गे नरकविमोचकं कर्म इत्यनेन कारणेन तत्पुरुषकृतं सर्वं नरकाय संवर्तते । न च स पापकमकुशलं कर्म क्षपयति । अकुशलधर्मस्य सदा चित्तगतत्वात् । दुर्लभा च तस्योत्तरोत्तरान्नरकाद्विमुक्तिः । कस्मात् । समुच्छिन्नकुशलमूलस्य हि यदा कुशलं न प्रवर्तते तदनन्तरं नरकान्नैव विमुक्तिः । चित्ते मिथ्यादृष्टिकत्वात् तस्य कुशलमूलं कथं प्रवर्तेत । मिथ्यादृष्टिकः पुद्गलो ऽचिकित्स्यः तद्यथा समुपस्थितमरणनिमित्तो रोगी । चिकित्सकः सन्नपि न चिकित्सितुं शक्नोति । एवमयमपि । अन्यकुशलरहितत्वाद्यावद् बुद्धा अपि न चिकित्सन्ते । अतो ऽवश्यमवीच्यां पतति ॥
मिथ्यादृष्टिवर्गो द्वात्रिंशदुत्तरशततमः ।
133 परामर्शद्वयवर्गः
अभूतवस्तुनि इदमेव सत्यमन्यन्मिथ्येति वचनं दृष्टिपरामर्श इत्युच्यते । पूर्वोक्ते ऽनुत्कृष्टधर्म उत्कृष्टसंज्ञाविनिश्चयो ऽपि दृष्टिपरामर्शः ।
(पृ) दृष्टिपरामर्शस्य के दोषाः । (उ) स पुरुषो न्यूनगुणं लब्ध्वा आत्मानं पूर्णं मन्यते । तस्य गुणञ्चातिवक्ति । कस्मात् । अकुशले वस्तुनि अत्यन्तकुशलसंज्ञामुत्पाद्य वीर्यमारभते । तेन हेतुना च पश्चात्परितपति । विदुषां परिहास्यश्च भवति । अनुत्कृष्टे उत्कृष्टसंज्ञायाः कृतत्वात् । यो ऽनुत्कृष्टमुत्कृष्टं वदति स बालो मूढसंज्ञः । यथान्धो घटशकले सुवर्णसंज्ञामुत्पाद्य चक्षुष्मतां लघु हास्यो भवति । दृष्टिपरामर्शस्येदृशा दोषाः ।
यत् कश्चित् बोधिमुपेक्षमाणः स्नानादिशीलेन विशुद्धिप्राप्तिं काङ्क्षते तत् शीलव्रतपरामर्श इत्युच्यते । (पृ) ननु शीलेन न विशुद्धिलाभः । (उ) प्रज्ञयैव विशुद्धिलाभः । शीलन्तु प्रज्ञेन्द्रियस्य मूलम् । (पृ) के दोषाः शीलव्रतपरामर्शस्य । (उ) ये दोषा उक्ता दृष्टिपरामर्शस्य "न्यूनं वस्तु [लब्ध्वा] सम्पूर्णं मन्यते इत्यादिना त एव दोषाः । शीलव्रतपरामर्शप्रत्ययमत्यधिकं दुःखान्यनुभवति । यदुत शीतोष्णवेदना, भस्मभूमितरुकण्टकादिषु शयनं जलह्रदाग्निप्रवेशो भृगुपतनमित्यादि । परलोके ऽपि अतिमात्रदुःखविपाकः । यथोक्तं सूत्रे- गोव्रतिकः संसिद्ध[व्रत]ः [कायस्य भेदात्परं मरणात्] गवां सहव्यतामुपपद्यते । असंसिद्धो नरके पतति इति । स तमसः तमः प्रविशति । यतस्तं धर्मं समाददानो दृष्टधर्मे दुःखमनुभवति । ऊर्ध्वमपि दुःखम् । स गुरुतरं पापञ्च विन्दते । कस्मात् । अधर्मं धर्मं मत्वा सद्धर्मं विनाशयति । सद्धर्मचर्यापबादकश्च बहून् सत्त्वान् नरके पातयति । सुविशुद्धधर्मस्य पृष्ठीकृतत्वात् । सञ्चितमहापापो ऽवश्यमवीचिनरके विपाकमनुभवति ।
[अतो] अनाचाराद्विरम । मा चर मिथ्यामार्गम् । कस्मात् य आदितो नाचरति तस्य मार्गचरणं सुकरम् । मिथ्याचारपराहतचित्तस्य तु दुष्करो मार्गप्रवेशः । शत्रुरपि ( स्स्स्_327 ) न तथा पुद्गलं ग्लपयति यथा मिथ्यादृष्टिः । कस्मात् । न हि शत्रुस्तथा पुद्गलं परिभावयति यथा मिथ्यादृष्टयनुगामिनां तीर्थिकाचरितानां नानादुःशीलानां नग्नतानिर्लज्जताभस्मरजःकायताकेशोल्लुञ्च्छनादीनां समादानम् । मिथ्यादृष्टिकः सर्वस्माल्लौकिकहितकामात् भ्रश्यति । दृष्टधर्मे पञ्चकामगुणेभ्यो भ्रश्यति । तदूर्ध्वं सुगतिसुखान्निर्वाणाच्च भ्रश्यति । सुखं प्रार्थयित्वा दुःखं लभमानो विमुक्तिं प्रार्थयित्वा बन्धं लभमानः पुरुषः किं न मत्तः । तत् कस्मात् । [य] एकेनान्नदानप्रत्ययेन स्वर्गे जन्मलाभार्हो भवति । तस्य पुरुषस्य मिथ्याचारचारित्वात् दानाय कायजीविते सत्यपि न किञ्चन हितं भवति ॥
परामर्शद्वयवर्गस्त्रयस्तिंशदुत्तरशततमः ।
134 उपक्लेशवर्गः
गुरुचित्तस्य स्वापकामता मिद्धम् । चित्तसमाधानाय प्रबोधविरतिः स्वापः । विषयेषु विक्षिप्तचित्तता औद्धत्यम् । चित्ताकांक्षिते दौर्मनस्यबन्धः कौकृत्यम् । तद्यथा कृतमकर्तव्यमकृतञ्च कर्तव्यमिति । कुशलकुहनकुटिलचित्तं माया । मायाचित्तवृत्तिनिर्वर्तनं शाठ्यम् । स्वकृताकुशलस्याह्रेपणमाह्रीक्यम् । सङ्घे कृताकुशलस्याह्रेपणमनपत्राप्यम् । अकुशलानुगं चित्तं प्रमादः । यदसन्तं गुणं ख्यापयति तेन जना वदन्ति अस्तीति । [सा] कुहना । लाभसत्कारायाद्भुतं प्रख्याप्य परेषां मनःप्रह्लादिनी वाक् लपना । परद्रव्यलिप्सया तल्लिप्सामुपगूह्य वदति इदं वस्तु सुन्दरमित्यादि । तन्नैमित्तिकता । यदेतत्पुरुषनिन्दायै अन्यं स्तौति- तव पिता व्यवसायी त्वन्तु नेति । [तत्] निष्पेषिकता । यत् दानेन दानं प्रार्थयमानो वदति- इदं दानवस्तु अमुकात्पत्यन्ताल्लब्धमित्यादि । ( स्स्स्_328 ) तत् लाभेन लाभजिगृक्षा । यत् पुरुषस्य निद्राव्याधौ निरतिः सा तन्द्रीत्युच्यते । या मार्गचर्याकारणसुदेशसंपत्तावपि सदोत्कण्ठितता [सा] अरतिरित्युच्यते । यत् पुरुषस्य कायस्य जृम्भणा अदमनं स्त्यानमिद्धस्य प्रत्ययः सा विजृम्भिका । य आहारे बह्वल्पतादमनानभिज्ञः । [स] आदितो ऽदम इत्युच्यते । यो नातिमात्रव्यवसायी भवति । [स] विवर्त्यचित्त इत्युच्यते । यो महामात्राणां वचनं न सत्करोति न बिभेति । सो ऽबहुमानीत्युच्यते । अकुशलरुचिकः पुरुषः पापमित्र इत्युच्यते । इत्यादय उपक्लेशाः । क्लेशेभ्य उत्पन्नत्वात् ॥
उपक्लेशवर्गश्चतुस्त्रिंदुत्तरशततमः ।
135 अकुशलमूलवर्गः
त्रीण्यकुशलमूलानि यदुत लोभद्वेषमोहाः । (पृ) मदमानाद्यपि अकुशलमूलं स्यात् । कस्मात्तीण्येवोक्तानि । (उ) सर्वे ऽपि क्लेशा स्त्रयाणां क्लेशानामङ्गान्येव । मानादिकं मोहाङ्गम् । अतो न पृथगुच्यते । त्रयः क्लेशा सावानां चेतसि भूयसा वर्तन्ते । न मानादि । सर्वेषामवीतरागाणां मशकपिपीलिकापर्यन्तानामिमे त्रयः क्लेशा एव चित्तवर्तिनः । नैवं मदमानादिः । रागे सति द्वेषो ऽकुशलमूलं भवति । अनुरक्तस्य विरोधे द्वेषो ऽनुप्रवर्तते । मोहस्तु द्वयोर्मूलम् । कस्मात् । यस्य नास्ति मोहः न तस्य रागद्वेषौ । यथोक्तं सूत्रे- दशाकुशलकर्माणि त्रिविधानि लोभद्वेषमोहजानीति । न तूक्तं मानादिजानीति । सन्ति च तिस्र एव वेदना न पुनरस्ति चतुर्थी । आसु तिसृषु वेदनासु त्रयः क्लेशा अनुशया भवन्ति । यद्यस्ति पृथङ् मानादिः । कस्यां वेदनायामनुशयः स्यात् । तद्वस्तुतो नाभिधातुं शक्यते । [इति] ज्ञातव्यं तानि त्रीण्येव क्लेशमूलानीति ।
(पृ) कस्मात्सुखवेदनायां रागो ऽनुशयः । (उ) प्रत्यक्षं हि तत्र तस्योत्पत्तिः । यथोक्तं सूत्रे- सुखवेदनीयस्पर्शं लभमानस्य भवति प्रीतिः । दुःखवेदनीयस्पर्शं लभमानस्य भवति अप्रीतिः । तस्य वेदनानामुदयव्ययास्वादादीनवनिस्सरणानां यथाभूताप्रज्ञानात् । इति । अदुःखासुखवेदनायामविद्यानुशयः । कस्मात् । नह्ययमारूप्यधात्वाप्तानां स्कन्धानां सन्तानं यथाभूतं प्रजानाति । तदा [खल्वस्य] तत्र भवति निर्वाणसंज्ञा वा विमुक्तिसंज्ञा वा अदुःखासुखसंज्ञा वा आत्मसंज्ञा वा । अत उक्तं- अदुःखासुखवेदनायां मोहो ऽनुशयो भवतीति ।
(पृ) अनुशयाः किं धर्मे ऽनुशेरते कि वा सत्त्वे ऽनुशेरते । (उ) धर्मानुपादाय सत्त्वबुद्धिर्भवति । सत्त्वबुद्धिमनुसृत्य वेदना वेद्यन्ते । वेदना अनुसृत्य लोभादयः क्लेशानुशयाः । अतो ज्ञायते धर्मानुपादायोत्पन्नो ऽनुशयः सत्त्वे ऽनुशेत इति । कस्मात् तत् ज्ञायते । यस्य सत्त्वस्याप्रहीणः सो ऽनुशयः तस्य सो ऽनुशयो ऽनुशेते । यस्य तु प्रहीणः न तस्यानुशेते ऽनुशयः । यदि धर्मे ऽनुशयो ऽस्ति । धर्माणां नित्यसत्त्वादनुशया नित्यानुशयाः स्युः । नित्यस्याप्रहातव्यत्वात् । असत्त्वसंख्यातो ऽपि सानुशयः स्यात् । तथा चेत् पुरुषस्यानुशयो ऽस्तीति भित्त्यादिरनुशयवान् स्यात् । पुरुषस्य विज्ञानमस्तीति भित्त्यादिरपि विज्ञानवान् स्यात् । नेदं वस्तुतो ऽस्ति । तथार्हन्न स्यात् । अन्येषां पुरुषपुद्गलानामनुशयो ऽस्तीति [सो] ऽनुशयवान्[स्यात्] ।
(पृ) अयमनुशयः अप्रहीणः सन् अनुशेते । प्रहीणस्सन्नानुशेते । (उ) द्विधानुशयो ऽनुशेते । (1) आलम्बनतोनुशयनम् (2) सम्प्रयोगतो ऽनुशयनमिति । अयमनुशयो यदि प्रहीणो यदि वाप्रहीणः स आलम्बनतः संप्रयोगतश्च । कस्मादुच्यते प्रहीणः सन् नानुशेत इति । तथा चेत् तृतीयानुशयनलक्षणं वक्तव्यम् । अनभिधानात् ज्ञातव्यं नास्तीति । अनुशयो भूम्यन्तरालम्बनो नानुशेते । अतो ज्ञायते सत्त्वमात्रे ऽनुशयो न धर्म इति ।
(पृ) द्विधानुशयो ऽनुशेत (1) आलम्बनतो ऽनुशयः (2) सम्प्रयोगतो ऽनुशय इति । एषां सत्त्वानामनुशया नालम्बनतो न सम्प्रयोगतः । कथं भविष्यत्यनुशयः । ( स्स्स्_330 ) (उ) प्रत्युक्तपूर्वमिदम्- अनुशया धर्ममुपादायोत्पन्नाः सत्त्वे ऽनुशेरत इति । यथोक्तमभिधर्मकाये- कामधातुकसत्त्वानां कत्यनुशया इत्यादि । यदि सत्त्वेषु नानुशयीरन् । कथमेतादृशः प्रश्नः स्यात् ।
(पृ) यद्यनुशयः सत्त्वे ऽनुशेते । सुखायां वेदनायां रागो ऽनुशय इति सूत्रोक्तं विरुध्येत । (उ) नेदं पार्यन्तिकं वचनम् । वक्तव्यं खलु सुखायां वेदनायां समुत्पन्नो रागः सत्त्वे ऽनुशेत इति । (पृ) स रागो रूपादीनुपादायापि भवति । कुतो ऽत्रोच्यते केवलं सुखवेदनामुपादाय भवतीति । (उ) संज्ञानुस्मरणविकल्पप्रीत्यादिना राग उत्पद्यते न तु रूपादिमात्रात् । (पृ) दुःखवेदनामुपादायापि रागो भवति । यथा वदन्ति- सुखी न प्रार्थयते दुःखी तु बहु प्रार्थयते । कस्मात्केवलमुक्तं सुखवेदनातो भवतीति । (उ) न दुःखवेदनया राग उत्पद्यते । दुःखस्य पीडनात्मकत्वात् पुरुषस्य सुखायां वेदनायामेव राग उत्पद्यते ।
(पृ) अदुःखासुखायां वेदनायामपि रागानुशयो ऽनुशेते । कस्मादुक्तं केवलं सुखायां वेदनायामिति । (उ) अदुःखासुखवेदनाः सुख[रूप]त्वात् [तत्र] पुरुषस्य राग उत्पद्यते । अत उच्यते सुखायां वेदनायां रागानुशय इति । तासु त्रिषु वेदनासु त्रयः क्लेशा अनुशया इत्यतस्त्रय एवोच्यन्ते ॥
अकुशलमूलवर्गः पञ्चत्रिंशदुत्तरशततमः ।
136 सङ्कीर्णक्लेशवर्गः
(पृ) सूत्र उक्तम्- त्रय आस्रवाः- कामास्रवो भवास्रवो ऽविद्यास्रव इति । कतमे इमे । (उ) कामधातावविद्यां वर्जयित्वा अन्ये सर्वे क्लेशाः कामास्रवा इत्युच्यन्ते । एवं रुपारूप्यधात्वोर्भवास्रवः । त्रैधातुकी चाविद्या अविद्यास्रवः ।
(पृ) आस्रवाः कथं वर्धन्ते । (उ) उत्तमाधमध्यमधर्मैः क्रमशो वर्धन्ते । रूपादिविशिष्टालम्बनलाभाच्च वर्धन्ते । (पृ) इमे त्रय आस्रवाः; कथं वदन्ति सप्तास्रवा इति । (उ) वस्तुत आस्रवा द्विविधाः सत्यदर्शनहेया [ये] आस्रवाणां मूलभूताः । भावनाहेया [ये] आस्रवाणां फलभूताः । पञ्चभिरारास्रवसहकारिभिः प्रत्ययै मिलित्वा सप्त भवन्ति । ते क्लेशा एव । भगवानर्थत आह- त्रय आस्रवाः, चत्वार ओघाः, चत्वारो बन्धाः, चत्वार्युपादानानि, चत्वारो ग्रन्था इत्यादि ।
(पृ) चत्वार ओघाः कामौघो भवौघो दृष्ट्योधो ऽविद्यौघ इति । कतम इमे । (उ) दृष्टिमविद्याञ्च वर्जयित्वा तदन्ये कामधातुकक्लेशाः सर्वे कामौघ इत्युच्यते । रूपारूप्यधातुकभबौघो ऽप्येवम् । सर्वा दृष्टयो दृष्टयौघः । अविद्या अविद्यौघः । (पृ) ओघेषु कस्मात् दृष्ट्यौघः पृथगुच्यते । नास्रवेषु । (उ) तीर्थिका बहवो दृष्टिवाहिताः । अत ओघेषु पृथगुच्यते । च्युतिं बहतीति ओघः । त्रीन् भवान् बध्नातीति बन्धः ।
(पृ) चत्वार्युपादानानि- कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानमात्मवादोपादानमिति । कतमानीमानि । (उ) आत्मनो ऽभावात् तद्वादोपादानमात्मवादोपादानम् । अस्त्यात्मेति पश्यतो ऽन्तद्वयं भवति- अयमात्मा नित्यो ऽनित्योवेति । अनित्य इत्यवधारयन् पञ्चकामगुणानुपादत्ते । नास्ति परलोक इति दृष्टसुख आसज्यते । नित्य इत्यवधारयन् मन्देन्द्रियः पारलौकिकसुखमाकांक्षमाणः शीलव्रतमुपादत्ते । किञ्चित्तीक्ष्णेन्द्रिय एवं चिन्तयति- यदि जीवो नित्यः तदा अदुःखसुखविकारः, तदा पुण्यपापाभावादिति मिथ्यादृष्टिमुत्पादयति । एवमात्मवादमुपादायैव चत्वार्युपादानानि भवन्ति ।
(पृ) चत्वारो ग्रन्थाः अभिध्याकायग्रन्थो व्यापादः कायग्रन्थः शीलव्रतपरामर्शः कायग्रन्थः इदं सत्याभिनिवेशः कायग्रन्थ इति । कतम इमे । (उ) परद्रव्याभिध्यया अन्यस्मिन्नददति द्वेषबुद्धिमुत्पादयति, कशाशस्त्रादिना [गृह्णाति] । गृहस्थानामिदं विग्रहमूलम्, सुखान्तनुवर्तनमित्युच्यते । यः शीलव्रतपरामर्शकः कामयते अनेन शीलव्रतेन विशुद्धिं लभेय इति । तस्येदमेव तथ्यमन्यन्मिथ्येति दृष्टिर्भवति । इदं प्रव्रजितानां विवादमूलं, दुःखान्तानुवर्तनमित्युच्यते । पञ्च स्कन्धाः काय इत्युच्यन्ते । चत्वार इमे ग्रन्था अवश्यं कायवाङ्मया इति कायग्रन्थ इत्युच्यन्ते । केचिदाहुः- चत्वार इमे धर्मा जननमरणे सङ्ग्र ऽथ्नन्तीति ग्रन्थाः ।
(पृ) पञ्च नीवरणानि- कामच्छन्दो व्यापादः स्त्यानमिद्धं औद्धत्यकुकृत्यं विचिकित्सा चेति । कतमानीमानि । (उ) पुरुषस्य कामेषु अभिनिवेशाद्व्यापादो ऽनुवर्तते । यथोक्तं सूत्रे- तृष्णात उत्पद्यते व्यापादः । ईर्ष्यादयः क्लेशाः कशाशस्त्रादिदुश्चरितानि च कामच्छन्दादुत्पद्यन्ते इति । पुरुषो ऽयं कायचित्तयो रागद्वेषपरिक्षिप्यमाणयोर्बहुव्यापारैः ( स्स्स्_332 ) परिच्छिन्नयोश्च स्त्यानमिद्धमिच्छति । स्त्यानमिद्धेन किञ्चिद्विश्रम्य पुना रागद्वेषविक्षिप्तचित्तो न ध्यानसमाधिं लभते । चित्तस्य बाह्यालम्बनानुवर्तनादौद्धत्यं भवति । अशुद्धकर्मकस्य पुरुषस्य चित्ते सदा दौर्मनस्यकौकृत्यं भवति । विक्षिप्तचित्तत्वात्कौकृत्यचित्तत्वाच्च सदा विचिकित्सते- विमुक्तिरस्ति नवेति । यथा राजकुमारो ऽचिरवतं श्रमणोद्देशमवोचत् ।
(पृ) कस्मान्नीवरणमित्याख्या । (उ) कामच्छन्दो व्यापादश्च शीलस्कन्धं निवृणुतः । औद्धत्यकुकृत्यं समाधिस्कन्धं निवृणोति । स्थानमित्थं प्रज्ञास्कन्धम् । केचित् तेषां नीवरणानां वर्जनाय वदन्ति- इदं कुशलमिदमकुशलमिति । स तत्र विचिकित्सते किमस्ति किं वा नास्तीति । सा विचिकित्सा सिद्धा स्कन्धत्रयं निवृणोति । एषु पञ्चसु नीवरणेषु त्रीणि दृढबलानीति केवलं नीवरणमित्युच्यन्ते । अन्ये द्वे नीवरणे तनुबले इति द्वौ धर्मौ सांसर्गिकौ । इमे द्वे नीवरणे जननकारणसहिते इत्यतः सांसर्गिके इत्युच्येत । स्त्यानमिद्धस्य पञ्चधर्माः प्रत्यया यदुत चाञ्चल्यमरतिर्विजृम्भिका, आहारे ऽमात्रता चेतसो ऽवलीनता इति । औद्धत्यकौकृत्यस्य चत्वारो धर्माः प्रत्ययाः- ज्ञातिवितर्को जनपदःवितर्को ऽमरणवितर्कः, पूर्वतनीनक्रीडितसुखितालापितहसितानुस्मरणमिति । इमानि जननकारणानि । प्रतिपक्षो ऽपि समानः । स्त्यानमिद्धस्य प्रज्ञा प्रतिपक्षः । औद्धत्यकुकृत्यस्य समाधिः प्रतिपक्षः । निवारणमपि समानम् । इमे द्वे सांसर्गिके नीवरणे । इमे पञ्चधर्मा नीवरणानि वा भवन्ति । अनीवरणानि वा भवन्ति । कामधात्वाप्ता अकुशला नीवरणानि । अन्यात्रानीवरणानि ।
पञ्चावरभागीयेषु संयोजनेषु कामच्छन्दो व्यापादः शीलब्रतपरामर्शः अवरगमनार्थत्वादवरभागीयानि । तद्यथा गोव्रतिकः संसिद्धः कायस्य भेदात्परं मरणात् ( स्स्स्_333 ) गवां सहव्यतामुपपद्यते । असंसिद्धो नरके पतति । विचिकित्सा वैराग्यस्य विघ्नभूता । सत्कायदृष्टिश्चतुर्णां मूलम् । इतीमानि पञ्च । कामच्छन्दव्यापादौ कामधातोर्नातिवर्तेते । सत्कायदृष्टिरात्मबुद्धेर्नातिवर्तते । शीलव्रतपरामर्शो ऽवरधर्मान्नातिवर्तते । विचिकित्सा पृथग्जनत्वान्नातिवर्तते । कामच्छन्दव्यापादौ कामधातुं नातिक्रामतः । अतिक्रमे पुनराक्षिप्यते । अन्यानि त्रीणि पृथग्जनत्वं नातिक्रामन्ति । अत उच्यन्ते ऽवरभागीयानीति ।
पञ्चोर्ध्वभागीयानि [औद्धत्यं मानो ऽविद्या रूपरागः अरूपरागः ।] औद्धत्यस्य ध्यानसमाधिविधातित्वान्न चित्तमुपशाम्यति । इदमौद्धत्यस्य निमित्तग्रहानुवर्तनान्मानः प्रवर्तते । निमित्तग्राहि चित्तमिदमविद्यासम्भूतमित्यतो रूपरागो ऽरूपरागश्च स्तः । तानि पञ्च संयोजनानि शैक्षजनानामूर्ध्वसमुदाचरणार्थत्वादूर्ध्वभागीयानीत्युच्यन्ते । तानि शैक्षजनानां चित्त उच्यन्ते न पृथग्जनानाम् । (पृ) औद्धत्यं कस्मात् रूपारूप्यधातुकं संयोजनं न कामधातुकम् । (उ) तत्र स्थूलक्लेशाभावादौद्धत्यं व्यक्तं भवति । तदौद्धत्यं समाधिभङ्गे बलवदित्यतः संयोजनमित्युच्यते । तदूर्ध्वभागीयं समुच्छेदयतो विमुक्तिर्लभ्यते । केषाञ्चित् रूपे आरूप्ये च विमुक्तिसंज्ञा भवति । तत्प्रतिषेधायोच्यते सन्त्यूर्ध्वभागीयानि संयोजनानीति ।
पञ्च मात्सर्याणि- आवासमात्सर्यं, कुलमात्सर्यं, लाभमात्सर्यं, वर्णमात्सर्यं धर्ममात्सर्यमिति । [तत्र] आवासमात्सर्यम्- अहमेव अत्र वसामीति नान्यान् प्रयोजयति । कुलमात्सर्यम्- कुलमिदमहमेव प्रविशामीति नान्यान् प्रयोजयति । सत्स्वप्यन्येषु अहमेवोत्कृष्ट इति । लाभमात्सर्यमिति- अहमेवात्र दानं लप्स्य मान्येभ्यः प्रयच्छतु इति । अन्ये सन्त्यो ऽपि मा मामतिक्रामन्तु । वर्णमात्सर्यम्- मामेव वर्णय, मान्यान् । अन्यान् वर्णयन्नपि मा मामतिरिच्यतु इति । धर्ममात्सर्यम्- अहमेव द्वादशाङ्गप्रवचनार्थं जानामि । गभीरमर्थरहस्यं जानन्नपि न प्रवदामीति ।
(पृ) पञ्च मात्सर्याणां के दोषाः । (उ) इम आवासादयो बहूनां पुरुषाणां साधारणाः । अयन्तु स्वकुलं त्यक्त्वा साधारणभूतेषु मात्सर्यमुत्पादयति । इत्ययं दोषक्लेशः । स विमुक्तेर्नैव भागी भवति । कस्मात् । स साधारणभूतान् धर्मानेव न त्यजति । कः पुनर्वादः ( स्स्स्_334 ) स्वीयान् पञ्च स्कन्धान् त्यजतीति । स च प्रेतादीनां दुरुपपत्त्यायतनेषु पतति । लाभनिवृत्तचित्तस्य मान उत्पद्यते । सज्जनानन्यान् लघूकृत्य नरके पतति । अन्येभ्यो दानभङ्गान्मनुष्यदेहं लाभमानो दरिद्रो भवति । मात्सर्यचित्तेन दातर्गुणं प्रतिग्रहीतुर्देयञ्च समुच्छेदयतीत्यतो गुरुतरं पापं लभते । धर्ममत्सरो ऽन्धादिपापभाग्भवति । तद्यथा जात्यन्धस्य सपत्नबहुलानाञ्च जन्म न स्वातन्त्रयप्रापकम् । आर्यगर्भाच्च परिहीयते । त्रिषु अध्वसु दशसु दिक्षु [गतानां] बुद्धानां शत्रुः सन् संसारे संसरन् सदा मूढो भवति । सज्जनान् दूरीकरोति । सज्जनदूरीकरणादकुशलं विना न वर्तते । अकुशलं त्रिविधम्- अकुशलाकुशलं महाकुशलं अकुशलमध्याकुशलमिति । अकुशलं प्राणातिपातादत्तादानादि । महाकुशलं यदात्महननं, परस्त्यात्महननसमादापनं, स्वयं मात्सर्य[करणं] परस्य मात्सर्यसमादापनम् । स धर्ममात्सर्येण बहून् पुरुषानुकुशले पातयति । बुद्धधर्ममार्गञ्च क्षपयति । यथोक्तं सूत्रे- सन्त्यावासमात्सर्यस्य पञ्च दोषाः- अनागतस्य सुभिक्षोरागमनाय नेच्छति । आगतं पुनस्तर्जयन्न तृप्यति । गमनायानुचिन्तयति । सङ्घदेयं गोपयति । सङ्घदेयेषु आत्मीयबुद्धिं करोति । कुलमात्सर्यस्य पञ्च दोषाः- कुलाभिनिवेशादवदातवसनैस्तुल्यसुखदुःखो भवति । धनायावदातवसनं प्रजहाति । प्रतिग्रहीतुर्दानं लभते । तदुभयप्रहाणात्तस्मिन् कुले वर्चः कुट्यां भूतत्वायोत्पद्यते । लाभमात्सर्यस्य पञ्च दोषाः- सदा सम्भारसम्भवाय क्लमति । द्वयोर्भेदेन लाभी भवति । सज्जनान् निन्दति सदा दौर्मनस्यचित्तः । वर्णमात्सर्यस्य पञ्च दोषाः- अन्येषां वर्णं श्रुत्वा व्याकुलकषायचित्तो भवति । शतसहस्रेषु लोकेषु अशुद्धचित्तः सज्जनानधिक्षिपति । आत्मोन्नत्या परानवनमति । दुर्यशो ऽन्तर्धापयति इति । सर्वेषां मात्सर्याणां सामान्यत इमे दोषाः सन्ति- प्रभूतधनसञ्चयः । परिषद्भीरुता, बहुजनविद्वेषिता, सदा व्याकुलचित्तता, आत्मनः सदैकाकिता, अवरकुले जन्म इत्येवमादयो ऽप्रमाणाः पञ्चमात्सर्याणां दोषाः ।
पञ्च चेतः खिलाः- [इहायुष्मन्तो भिक्षुः] शास्तरि विचिकित्सते, धर्मे विचिकित्सते, शीले विचिकित्सते, शिक्षायां विचिकित्सते । यो भिक्षुः शास्तुर्महापुरुषाणाञ्च ( स्स्स्_335 ) वर्णवादी, तस्मिन् जने अनात्तमना आहतचित्तो भवति । अयं पञ्चमः । शास्तरि विचिकित्सक एवं चिन्तयति- किं शास्ता महान्, किं वा पूरणादयः इति । धर्मे विचिकित्सक [एवं चिन्तयति] किं शास्तुः प्रवचनमुत्कृष्टमुत वेदस्येति । शीले विचिकित्सते किं शास्तृप्रोक्तं प्रवचनमुत्कृष्टं, किं वा कुक्कटश्वादिव्रतमिति । शिक्षायां विचिकित्सते किं मानपानादि धर्मो निर्वाणं गमयति उत नेति । अनात्तमना आहत [चित्तो] व्यापादबुद्ध्या भयगौरवचित्तं विना सज्जनान् गर्हयति । एभिः पञ्चभिः धर्मैर्विप्रलुप्तचित्तो, न नानाकुशलेन्द्रियाण्यवष्टम्भयति । अतश्चेतः खिल इत्युच्यते ।
(पृ) कस्माच्छास्त्रादौ विचिकित्सते । (उ) सो ऽबहुश्रतत्वाद्विचिकित्सते । बहुश्रुतस्य तु विचिकित्सा आल्पीयसी भवति । स च बालो मूढो ऽज्ञो न तथागतधर्मान्यधर्मयोर्विवेकं प्रजानाति । अतो विचिकित्सते । धर्मे च नास्वादं लभते । अतश्च । विचिकित्सते । न च वेददीन् ग्रन्थान् शृणोति अध्येति वा । जनैर्वर्णितं श्रुत्वा उत्कृष्टचित्तमुत्पादयति । अध्वन्यध्वनि बहुलमिथ्याविचिकित्सः सदा कलुषितचित्ततया शास्त्रादौ विचिकित्सते । यथा शास्तुरुपस्थायकः सुनक्षत्रः । स च मिथ्यादृष्टिबहुलैः पुरुषैः समानकृत्यतया विचिकित्सते । किञ्च वेदव्याकरणादीनि मिथ्यादृष्टिसूत्राण्यधीयानः परिभिन्नसम्यक्प्रज्ञो भवति इत्यतो विचिकित्सते । धर्माणां [यथाश्रुते] ऽर्थे प्रीतः कुस्मृतिं जनयन् न सूत्रकृदाशयं लब्धुं शक्नोति । अतो विचिकित्सते सर्वदा स्वहितालाभप्रत्ययतः शास्त्रादिषु विचिकित्सते ।
पञ्च चेतसो विनिबन्धाः- यः कायो ऽविगतरागो स काय आसज्यते । कामेष्ववीतरागः कामेष्वासज्यते । गृहस्थेन प्रब्रजितस्य समागमः । आर्यवचने चेतो न प्रहृष्यति । अल्पहितवस्तुनात्मानं पूर्णं मन्यते । तत्र चत्वारो विनिबन्धाः कामरागमुपादायोद्भवन्ति । य आध्यात्मिकात्मभावे ऽविगतरागः स बाह्यरूपादिकामेष्वासज्यते । अत उभयोः समागममभिलषति । अभिलाषाव्याकुलतया आर्यवचने उपशमप्रदर्शने धर्मे न प्रहृष्यति । अतः शीलबाहुश्रुत्यध्यानसमाध्यादिष्वल्पं हितं वस्तु लब्ध्वा तेनात्मानं पूर्णं मन्यते । तदल्पहितवस्त्वभिनिवेशान्महाहितं विस्मरति । प्राज्ञस्तु नाल्पहिताभिनिविष्टो महाहितं विघ्नयेत् । ( स्स्स्_336 ) अयं यद्यष्टाक्षणविहीनः [सः] पुरुषकायं दुष्करं लब्ध्ववानित्यतश्चित्तैकाग्र्येण वीर्यमारभेत । पृथग्जनता चाश्रद्धेया । अस्य समग्रस्य प्रत्ययस्य विगमे ऽन्ये प्रत्यया भवन्ति । [इति] नैवार्यमार्गे ऽवतरति [पृथग्जनः] । अल्पहितमकामयमानः प्रव्रज्याफलविपाकं लभते । म्रियमाणश्च न विप्रतिसरति । स्वपरहितञ्च करोति । सगुणेष्वेव नाभिनिविशते । कः पुनर्वादो ऽकुशले धर्मे । अतः [स] सम्यगाचार इत्युच्यते । पृथग्जनादीनवा न किमपि संक्लेशयन्ति ।
(पृ) के पृथग्जनानामादीनवाः । (उ) सूत्र उक्तं- पृथग्जनो विंशतिधा स्वचित्तं निगृह्यैवं चिन्तयेत्- मम विभिन्नाकारवेषमात्रस्य वृथा, न किञ्चिल्लभ्यम्, अशुभेन [पथा] मरिष्यामि, महाभयार्णवे पतिष्यामि, तद्भयस्थाने न ज्ञास्याम्यभयस्थानं, नापि ज्ञास्यामि मार्गं, न ध्यानसमाधीन् लप्स्ये, असकृत्कायदुःखमनुभविष्यामि, दुष्परिहारा भविष्यन्त्यष्टावक्षणाः, शत्रुः सदानुसरिष्यति, सर्वे मार्गा विवृताः, दुर्गतेरविमोक्षः, अप्रमाणदृष्टिभिः सदा विनिबन्धः, पञ्चस्वानन्तर्येषु अप्रतिबन्धः, अनादिः संसारो नान्तवान्, अकुर्वतो न पुण्यपापप्रतिलाभः । कुशलाकुशलयोर्न प्रतिनिधिलाभः । न सद्धर्म करोमि, नैवास्ति सुखलयः कृतयोः कुशलाकुशलयोर्नैव विस्मृतिर्विनाशो वा आमरणं न दान्तो भविष्यामि इति । एते विंशतिधर्माः कं न दूषयन्ति । कर्तव्यमयं कृतवानित्यतश्चित्तं न विप्रतिसरति । [कामा]भिनिविष्ठस्य गार्हस्थ्यधर्मः प्रव्रज्याधर्मश्चन सिध्यतः । अतो नाल्पहिते ऽभिनिवेशेत् ।
सप्तानुशयाः । (पृ) क्लेशाः कस्मादनुशय इत्युच्यन्ते । (उ) जननमरणसन्ताने सदा सत्त्वमनुर्वर्तत इत्यनुशयः । तद्यथा धात्री सदा बालमनुवर्तते । यथा वाविमुक्तो वातज्वरः । यथा वा ऋणी अनुदिनमुच्छवसति । यथा वा अनपगतमाखुविषम् । तप्तायसः कृष्णलक्षणम् । यथा वा यवस्याड्कुरः । स्वयंदत्तदासपत्रत्वम् । यथा वा प्रणष्टस्य वस्तुनः साक्षिजनः । यथा प्रज्ञा क्रमशः समुपचीयमाना[स्ति] । यथा कर्म सदोपचीयामानम् । यथा ज्वाला सन्तन्यते । एवं क्रमेण सन्तत्या वर्धत इत्यनुशय इत्युच्यते ।
(पृ) अयमनुशयः किं चित्तसम्प्रयुक्तः किं वा चित्तविप्रयुक्तः । (उ) चित्तसम्प्रयुक्तः । कस्मात् । रागादयो ऽनुशयलक्षणाः । इमे ऽनुशयलक्षणाः सौमनस्यसम्प्रयुक्ताः । यदिदं सौमनस्यं चित्तविप्रयुक्तमितीदं न युज्यते । सौमनस्यमिदं यदि सुखायां वेदनायां वर्तते [तदा] रागानुशय इत्युच्यते । रागो नामासङ्गः । चित्तविप्रयुक्ते नासङ्गभावो ऽस्ति । अतो ज्ञायते ऽनुशयाश्चित्तसम्प्रयुक्ता इति ।
(पृ) न युक्त[मिद]म् । अनुशया न चित्तसम्प्रयुक्ताः । कस्मात् । उक्तं हि सूत्रे- बालानां मैथुनचित्तमेव नास्ति । कः पुनर्वादो मैथुनरागसामर्थ्यम् । रागानुशयानुशयिताश्च भवन्ति इति । किञ्चाह- नास्ति चेतना नास्ति विकल्पः । विज्ञाप्रतिष्ठितमालम्बनञ्चास्ति इति । किञ्चोक्तं सूत्रे- सत्कायदृष्टिसमुच्छेदे ऽनुशयाः सहैव समुच्छिद्यन्ते इति । आर्यमार्गश्च न क्लेशानां यौगपद्यं लभते । अत आर्यमार्गसमुत्पादश्चित्तविप्रयुक्तानुशयसमुच्छेदकः । तथा नोचेत् आर्यमार्गेण कस्य समुच्छेदः स्यात् । यदि नास्ति चित्तविप्रयुक्तो ऽनुशयः । पृथग्जनाः शैक्षजनाश्च यदा कुशलचित्ते ऽव्याकृतचित्ते च वर्तन्ते । तदा अर्हन्तः स्युः । अनुशयश्च पर्यवस्थानहेतुः । अनुशयात्पर्यवस्थानमुत्पद्यते । पर्यवस्थानलब्धो ऽनुशयो वर्धते । अतो ज्ञायते ऽनुशयाश्चित्तविप्रयुक्ता इति । यदि कश्चित्कुशलाव्याकृतचित्तो ऽपि सानुशय इत्युच्यते । यस्य नास्ति चित्तविप्रयुक्तो ऽनुशयः । कुतो ऽनुशयवान् भवति । अतो जायते ऽनुशयश्चित्तविप्रयुक्त इति ।
अत्रोच्यते । न युक्तमिदम् । यदुक्तं बालानामसति रागे रागानुशयो ऽस्तीति । तदयुक्तम् । बालानां रागापनयनौषधालाभादप्रहीणकामरागा इत्यतो रागानुशयो ऽनुशेते । यथा भूतसमाविष्टो ऽनुद्भवकाले ऽपि भूतसमाविष्ट इत्युच्यते । कस्मात् । तद्व्याधिप्रशमनमन्त्रोषधानामलाभात् । यथा च चतुर्दिनज्वरार्तो दिनद्वये [ज्वरा]नुद्भवे ऽपि ज्वरार्त इत्युच्यते । यथा वा आखुविषमनपनीतव्याधित्वाद्धनगर्जने प्रादुर्भवति । एवं यस्मिन् चित्ते ऽनुशयापनयनमोषधमप्रतिलब्धम् । [तत्] अप्रहीणा[नुशय]मित्युच्यते । अन्ये ऽपि प्रश्नाः सामान्यतः प्रत्युक्ता एव । यदुच्यते भवता नास्ति चेतना नास्ति विकल्पः विज्ञानस्यमालम्बनमस्ति इति । तदपि अप्रहीणानुशयत्वात् । यदाह भवान्- सत्कायदृष्टिरनुशयेन सह समुच्छिद्यत इति । भवतः पर्यवस्थानं चित्तसम्प्रयुक्तम् । अनुत्पत्तिकाले । ( स्स्स्_338 ) प्रहीणमेव । एवमनुशयो ऽपि । आर्यमार्गकाले ऽविद्यमानमपि प्रहीणमित्युच्यते । विरोधिधर्मप्रतिलम्भात् । यद्ब्रवीषि- मार्गः क्लेशैः सह नैककालिको ऽस्तीति । [तत्]अप्रहीणत्वादस्तीत्युच्यते । यदवोचः पृथग्जनाः शैक्षजनाश्च यदि कुशलाव्याकृतचित्तगताः, तदा अर्हन्तः स्युरिति । प्रहीण[क्लेशो] ऽर्हन् । तेषान्त्वप्रहीण[क्लेश]त्वात् । यथा कश्चिन्मासवर्जनधर्ममसमादानो मांसमभुञ्जन्नपि न वर्जितमांस इत्युच्यते । अविद्यामिथ्यास्मृतिमिथ्यासङ्कल्पादयः सन्तीत्यतो ऽप्रहीणाः क्लेशास्तदा समुत्पद्यन्ते । अर्हतस्तु नास्ति सहेतुरिति नान्यैः साम्यम् । यदुक्तं त्वया पर्यवस्थानलब्धो ऽनुशयस्तु वर्धत इति । तदयुक्तम् । सर्वे क्लेशा उत्तममध्यमावरधर्मैर्वर्धन्ते, न पर्यवस्थानलाभात् । यद्ब्रषीषि कुशलाव्याकृतचित्तगतो ऽनुशयवान् स्यादिति । तदपि अप्रहीणत्वादनुशयवानित्युच्यते । एभिः कारणैर्ज्ञायते ऽनुशया न [चित्त]विप्रयुक्ता इति ।
अष्ट मिथ्यामार्गाः- मिथ्यादृष्टिर्यावन्मिथ्यासमाधिरिति । अयथाभूतविपर्यय ज्ञानदर्शनान्मिथ्यादृष्टिः यावन्मिथ्यासमाधिः । (पृ) सम्यगाजीवो मिथ्याजीवश्च न कायवाक्कर्मव्यतिरिक्तौ । कस्मात्पृथगुच्यते । (उ) मिथ्याजीवः प्रव्रजितानां दुस्समुच्छेदत्वात् पृथगुच्यते । मिथ्याजीवो [येन] मायाशाठ्यादयः पञ्चधर्माः पुष्टिं लभन्ते स मिथ्याजीवः । संक्षिप्येदमुच्यते- प्रव्रजितानामकार्यं धनार्जनकर्म यदुत राजसेवावाणिज्यरोगचिकित्सादिकर्म । अनादेयञ्च प्राणिधधनधान्यादि । आदाने मिथ्याजीवः । विनये यत्प्रतिषिद्धं तेन च स्वात्मजीवनं मिथ्याजीवः । यथोक्तं सूत्रे- पञ्च वाणिज्यान्युपासकेनाकरणीयानीति । (पृ) केन कुर्याज्जीवितम् । यथाधर्मभिक्षया जीवेत् । न मिथ्याजीवं जीवेत् । कस्मात् । अविशुद्धचेतसा सद्धर्मं प्रणाशयति । मार्गयोगानवष्टम्भात् । मार्गावचर एवं चिन्तयेत्- भगवतः शासने ऽवतारो मार्गाचरणार्थः न ( स्स्स्_339 ) जीवनार्थ इति । अतः सद्धर्माभिरतः परिशुद्धजीवनमाचरेत् । भिक्षुर्भिक्षधर्मे सुनिष्णातः स्यात् । यो मिथ्याजीवनमाचरति, न [स] भिक्षुधर्मा भवति ॥
सङ्कीर्णक्लेशवर्गः षट्त्रिंशदुत्तरशततमः ।
137 नवसंयोजनवर्गः
तृष्णादीनि नवसंयोजनानि । (पृ) कस्माद् दृष्टिषु द्विधा परामर्श उच्यते । (उ) शीलव्रतपरामर्शस्य दुर्विमोकत्वात् । यथा उडुपमोघपतितं दुस्तरं भवति । तथायमपि । एवं चिन्तयति- अहमनेन शीलेन स्वर्ग उत्पत्स्य इति । तदर्थञ्च जलमज्जन दहनप्रवेशभृगुपतनादीनि नाना दुःखान्यनुभवामीति । लौकिका न शीलव्रतपरामर्शस्य दोषं पश्यन्ति । अत उक्तं भगवता संयोजनमिति । तं शीलव्रतपरामर्शं निश्रित्य अष्टाङ्गमार्गमुपेक्षन्ते । सो ऽसम्यङ्मार्गो ऽव्यवदानमार्गो दुःखान्तानुवर्तनमित्युच्यते । शीलव्रतपरामर्शः प्रव्रजितानां विनिबन्धः । कामा गृहस्थानाम् । शीलव्रतपरामर्शी यद्यपि नानाप्रव्रज्याधर्मानाचरति । तथापि वृथा न किञ्चिदनेन लभ्यते । स नैहिकं सुखं विन्दते, परत्र च महद्दुःखमनुभवति । यथागोव्रतिकः संसिद्धव्रतिको गौर्भवति । विक्षिप्तव्रतो नरके पतति । तच्छीलव्रतपरामर्शमुपादाय सम्यङ् मार्गं सम्यङ् मार्गचारिणञ्चापवदति । शीलव्रतपरामर्शः तीर्थिकानां मानोत्पत्तिस्थानम् । [त] एवं चिन्तयन्ति- अहमनेन धर्मेणान्यमतिशेय इति । शीलव्रतपरामर्शहेतुना षण्णवतिधा विभक्ता धर्मा सन्ति । शीलव्रतपरामर्शः स्थूलदर्शन इत्यतो बहूनां सत्वानां गोचरः । प्रज्ञामार्गस्त्वतिसूक्ष्मो दुर्दर्शनः । लौकिका न प्रजानन्ति तदाचरणहितम् । सा च दृष्टिर्जनानां चित्तं हरति । अतो बाला बहवस्तं धर्ममाचरन्ति । सा गुर्वी पापिका दृष्टिरित्युच्यते । सम्यङ्मार्गाचारस्य प्रतिलोम्येनामार्गत्वात् ।
दृष्टिपरामर्शो येनासद्धर्माभिनिविष्टस्तत्परिहर्तुमसमर्थो भवति । तदृष्टिपरामर्शस्य बलम् । तद्वलेन च संयोजनानि दृढानि भवन्ति । (पृ) शक्नप्रश्ने कस्मात्केवलमुक्तमीर्ष्यामात्सर्यसंयोजना देवामनुष्या इति । (उ) इदं क्लेशद्वयमतिग्राम्यं जवन्यम् । कस्मात् । पश्यामः खलु परसत्त्वान् क्षुत्पिपासापीडितान्, मात्सर्यचित्तत्वान्नातिक्रान्तान् । [ते] परतो लब्धं दृष्ट्वापि ईर्ष्यासूयाचित्तमुत्पादयन्ति सोत्कण्ठासन्तापम् । अनेन कारणेन च दरिद्राणां नीचानां कुत्सितानामतेजस्विनाञ्च स्थाने पतन्ति । शक्रस्य देवानामिन्द्रिस्यैतत्संयोजनं बहुतरमसकृदागत्य चित्तं पीडयति । अतो भगवान् वचनमाह । तत्संयोजनद्वयं गुरुपापकस्य निदानम् । कस्मात् । तदुपादाय गुरूणि पापकर्माण्युद्भवन्ति ।
त्रिषु विषेषु रागः प्रतिघश्च गुरुपापकमुत्पादयति । तयोर्विवृध्या तत्संयोजनद्वयमुत्पद्यते । तत्संयोजनद्वयं स्त्रियं पुरुषञ्च पीडयति । दुरुत्सर्गञ्च भवति । कस्मात् । यः कुशलचित्तं निभृतं भावयति । सो ऽत्यन्तमीर्ष्यासूयं समुच्छेदयति । दानञ्च निभृतमभ्यस्यान्ते सर्वमात्सर्यचित्तं समुच्छेदयति । कर्मविपाकमपश्यन् तद्गुरुतरवस्तु त्यजतीदमति दुष्करम् । यथा कस्यचित्स्वत उत्कृष्टवस्तुलाभिनं पुत्रमेव पश्यतश्चित्तं दुष्प्रीतिकं भवति । कः पुनर्वादः शत्रुम् । तत्संयोजनद्वयोः प्रियविप्रयनिश्चितत्वादतिदुष्करः परित्यागः । अस्मात् कर्मप्रत्ययात् भगवता केवलमुक्तम् ॥
नवसंयोजनवर्गः सप्तत्रिंशदुत्तरशततमः ।
138 प्रकीर्णप्रश्नवर्गः
शास्त्रमाह- सर्वे क्लेशा भूयसा दशानुशयसङ्गृहीताः । अतो दशानुशयानुपादाय शास्त्रं रचितव्यम् । दशानुशया इति रागप्रतिघभानाविद्याविचिकित्साः पञ्चदृष्टयश्च । (पृ) दशक्लेशमहाभूमिकधर्माः तद्यथा अश्राद्धयं कौसीद्यं मुषितस्मृतिता विक्षेपो ऽविद्यासम्प्रजन्यमयोनिशोमनस्कारो मिथ्याधिमोक्ष औद्धत्यं प्रमादश्च । इमे धर्माः सर्वक्लेशचित्तैः सदा सम्प्रयुक्ताः । कथमिदम् । (उ) सत्प्रयोगः पूर्वं खण्डित एव । चैतसिकश्चैकैक एवोत्पद्यते । अतो न युज्यते । न च सन् न्यायो भवति । केनेदं ज्ञायते । ( स्स्स्_341 ) किञ्चिदकुशलचित्तकुशलश्रद्धासमन्वितमस्ति । किञ्चिदकुशलचित्तं श्रद्धासमन्वितं नास्ति । तथा वीर्यादिकमपि । अतो ज्ञायते न सर्वक्लेशचित्तेषु ते दश धर्माः सन्तीति । यद्भवानाह- मिद्धमौद्धत्यं सर्वक्लेशचित्तेषु वर्तत इति । तदयुक्तम् । यदा चित्तं लीनं भवति । तस्मिन् समये मिद्धसमन्वितं स्यात् । नौद्धत्यचित्ते स्यात् इतीदृशा दोषाः सन्ति ।
(पृ) कामधातौ सकला दशक्लेशाः सन्ति । रूपधातावारूप्यधातौ च द्वेषवर्जिता अवशिष्टाः सन्ति । कथमिदम् । (उ) तत्रापि सन्तीर्ष्यादयः । केनेदं ज्ञायते । सूत्र उक्तम्- महाब्रह्मा ब्रह्मकायिकानामन्त्र्याह मा भवन्तो श्रमणं गौतममुपसङ्क्रमन्तु । इहेव तिष्ठत जरामरणस्यान्तं लप्स्यध्वे इति । इयमीर्ष्या । ईर्ष्यासत्त्वाद्वेषो ऽपि भवेत् । उक्तञ्च सूत्रे- [अथ खलु केवधं] महाब्रह्मा तं भिक्षुं बाहौ गृहीत्वा एकमन्तमपनयित्वा तं भिक्षुमेतदवोचत्- अहमपि न जानामि यत्रेमानि चत्वारि महाभूतान्यपरिशेषाणि निरुध्यन्ते इति । एवं मायाचित्तेन ब्रह्मकायिकानां वञ्चनं मायेत्युच्यते । यदाह- अहमस्मि [महाब्रह्मा] कर्ता निर्माता श्रेष्ठ.......इति । अयं प्रमादः । इत्यादीनि छिद्राणि सन्ति । ईदृशानां पापकानां क्लेशानां सत्त्वात् ज्ञातव्यमस्ति च [तत्रा] अकुशलमिति ।
केचिदाभिधर्मिका आहुः- मातापित्रुपाध्यायाचार्यादिषु यो रागः स कुशलरागः । अन्यपदार्थादिषु रागो ऽकुशलरागः । अन्येषामुपकारो ऽपकारो वा यन्न क्रियते । [अय]मव्याकृतरागः । असद्धर्मे दुर्विज्ञादिषु द्वेषः कुशलद्वेषः । सद्धर्मद्वेषः प्राणिद्वेषश्च अकुशलद्वेषः । यो ऽसत्त्वपदार्थद्वेषः अव्याकृतद्वेषो [ऽयम्] । यन्मानं निश्रित्य मानं समुच्छेदयति अयं कुशलमानः । अन्यस्य सत्त्वस्यावमानमकुशलमानः । अविद्यादिष्वप्येवं [वक्तव्यम्] ।
किञ्चाहुराभिधर्मिकाः- यः कुशलः न [स] क्लेशो भवति । (पृ) कामधातौ सत्कायदृष्टिमव्याकृता वदन्ति । कस्मात् । यदि सत्कायदृष्टिररकुशला । सर्वे पृथग्जना आत्मचित्तमुत्पादयन्ति । ना[नेन] नरके पतनीया भवन्ति । अतो ऽव्याकृतेति ( स्स्स्_342 ) वदन्ति । कथमिदम् । (उ) सत्कायदृष्टिरियं सर्वक्लेशानां मूलम् । कथमव्याकृता । स परेषामात्मास्तीति वदन् पतति । तदा कथमव्याकृता भवेत् । एवमन्तग्रहदृष्टिरपि [वक्तव्या] । (पृ) यदि मिथ्यादृष्टिं प्रवर्तयित्वा संशये पातयति । किमिदमकुशलम् । (उ) नेदमकुशलम् । कस्मात् । वरं संशय एव पातयति न मिथ्यादृष्टावतारयति ।
केचिदाहुः- कामधात्वाप्ताः क्लेशाः सर्वे कामभवसन्तानकराः । एवं रूपरूप्यधात्वाप्ता अपि । कथमिदम् । (उ) तृष्णैव भवसन्तानकरी । नन्दिपूर्विका हि जातिः । आह च- दुःखसमुदयस्तृष्णेति । अपि चाह- भोजनकामरागादितृष्णा सुखमिति । अतो यथास्थानं जन्म वेदयते । मिथ्यादृष्ट्यादिषु नैवमर्थो ऽस्ति । सूत्रे यद्युप्युक्तं- मानप्रत्यया जातिरिति । तथापि मनापूर्वकतृष्णयोत्पद्यते । एवं द्वेषो ऽपि । अतो ज्ञायते तृष्णया सर्वे भवसन्तानां भवन्तीति ।
(पृ) क्लेशेषु कति सत्यदर्शनहेयाः कति भावनाहेयाः । (उ) रागप्रतिघमानाविद्या द्विधा सत्यदर्शनहेया भावनाहेयाश्च । अन्ये षट् सत्यदर्शनमात्रहेयाः । (पृ) शैक्षजनस्याप्यस्त्यहंबुद्धिः । अतो ज्ञायते ऽनिमित्तनिरूपणसत्कायदृष्टिभागः शैक्षजनस्याहेय इति । (उ) [अहं] मानो ऽयं दृष्टिः । निमित्तनिरूपणा हि दृष्टिः । (पृ) केचिदाहुः- ईर्ष्यामात्सर्यकौकृत्यमायादयो भावनाहेया इति । कथमिदम् । (उ) इमे सर्वे द्विधापि भवन्ति सत्यदर्शनहेया भावनाहेयाश्चेति । केनेदं ज्ञायते यथा नाथपुत्रादयो भगवच्छ्रावकान् सत्कारला भिनो दृष्ट्वा ईर्ष्याचित्तमुत्पादयमासुः । इयमीर्ष्या मार्गदर्शिनो निरुद्धेत्यतो ज्ञायते सत्यदर्शनहेयेति । कश्चित्पूर्वं भगवच्छ्रावकेषु मत्सरी सन् नाददत् । मार्गदर्शनलब्धः परं प्रायच्छत् । तदा मात्सर्यमिदं सत्यदर्शनहेयम् । यथा सुनक्षत्रादीनां कौकृत्यं सत्यदर्शनहेयमपि । यथा स्रोतआपन्नस्य नरकपतनप्रत्ययः अष्टमलोके कायवेदकमाया च सत्यदर्शनहेयापि ।
(पृ) क्लेशेषु कति दुःखदर्शनहेयाः कति समुदयनिरोधमार्गदर्शनहेयाः कति भावनाहेयाः । (उ) पूर्वोक्ताः सत्यदर्शनहेयाः षडनुशयाश्चतुर्धा भवन्ति दुःखदर्शनहेयाः समुदयनिरोधमार्गदर्शनहेयाः । अन्ये चत्वारो ऽनुशयाः पञ्चधा भवन्ति । (पृ) सत्कायदृष्टिरन्तग्रहदृष्टिर्दुःखदर्शनमात्रहेयाः । शीलव्रतपरामर्शो द्विधा दुःखदर्शनमार्गदर्शनहेयाः । कथमिदम् । ( स्स्स्_343 ) (उ) सर्वे क्लेशा वस्तुतो निरोधसत्यदर्शनकाले प्रहीयन्ते । अतः सत्कायदृष्ट्यादयो न दुःखदर्शनमात्रहेयाः स्युः । सत्कायदृष्टिश्चतुर्षु सत्येषु भ्रमति । पञ्चस्कन्धा अनित्याः प्रतीत्यसमुत्पन्नाः । आत्मा तु नानित्यो न प्रतीत्यसमुत्पन्नः । पञ्चस्कन्धाः सनिरोधाः, आत्मा त्वनिरोधः, मार्ग आत्मदृष्टेर्विरोधिधर्मः । अतः सत्कायदृष्टिश्चतुर्धा हेया । अन्तग्रहदृष्टिरपि चतुर्धा हेया । कस्मात् । योगी समुदयसम्भूतं दुःखं दृष्ट्वा उच्छेददृष्टिं व्यावर्तयति । मार्गलब्धं निरोधं दृष्ट्वा शाश्वतदृष्टिं व्यावर्तयति । शीलव्रतपरामर्शो ऽपि चतुर्धा । हेतौ सति फलमस्ति । अतो दुःखं पश्यन् प्रजानाति- शीलं दुःखं, नानेन विशुद्धिर्लभ्यत इति । इदं समुदयदर्शनहेयम् । मिथ्यादृष्ट्या निर्वाणमपोद्यते, यदनया दृष्ट्या विशुद्धिर्लभ्यत इति । इदं निरोधदर्शनहेयम् । अनया मार्गो ऽपोद्यते- इदं मार्गदर्शनहेयम् । यथा दृष्टिपरामर्शो मिथ्यादृष्ट्याश्रितेति चतुर्धा हेयः । एवं शीलव्रतपरामर्शो ऽपि स्यात् ।
(पृ) तथा चेन्न स्युरष्टनवतिरनुशयाः । सर्वे ऽनुशया भूमिवशात्प्रहीयन्ते न धातुवशात् । अष्टनवतिरनुशया इति नान्तो भवति । (पृ) रागो मानो मिथ्यादृष्टिं वर्जयित्वा अन्याश्चतस्रो दृष्टयो दुःखदौर्मनस्येन्द्रिये वर्जयित्वा [तदन्य]त्रिविधेन्द्रियसम्प्रयुक्ताः । द्वेषो ऽपि सुखसौमनस्येन्द्रिये वर्जयित्वा [तदन्य]त्रिविधेन्द्रियसम्प्रयुक्तः । अविद्या पञ्चेन्द्रियसम्प्रयुक्ता । मिथ्यादृष्टिर्विचिकित्सा च दुःखेन्द्रियवर्जं चतुरिन्द्रियसम्प्रयुक्ता । द्वेषम्रक्षपापमात्सर्येर्ष्याश्च दौर्मनस्येन्द्रियमात्र सम्प्रयुक्ताः । कथमिदम् । (उ) सम्प्रयोगो नास्तीति पूर्वमेव दूषितम् । पश्चादपि वक्ष्यते पञ्चसु विज्ञानेषु नास्ति क्लेश इति । भवतः शासने रागः सौमनस्येन्द्रियसम्प्रयुक्तः । मात्सर्यन्तु न तथा इत्यत्र नास्ति हेतुः । मात्सर्यस्य रागाङ्गत्वात् । एवं मानो न दौर्मनस्येन्द्रियसम्प्रयुक्त इत्यत्रापि नास्ति हेतुः । अतो ज्ञायते भवद्भिरुक्तं सर्वं स्वसंज्ञानुस्मरणविकल्पमात्रमिति ।
(पृ) केचिदाहुः- दुःखहर्शनहेयाः पञ्चमिथ्यादृष्टयो विचिकित्सा रागप्रतिघमानविप्रयुक्ताविद्याः । समुदयसत्य[दर्शन]हेयाश्च मिथ्यादृष्टिदृष्टिपरामर्शविचिकित्सा रागप्रतिघमानविप्रयुक्ताविद्याश्च इमे सर्वत्रगानुशया अन्ये ऽसर्वत्रगानुशयाः । कथमिदम् । (उ) सर्वे सर्वत्रगाः । कस्मात् । सर्वेषां मिथोहेतुप्रत्ययत्वात् । मम[शासने]मिथ्यादृष्टौ रागो भवति, नास्ति दुःखं यावन्नास्ति मार्गः । तस्यां दृष्टावभिनिविष्ट आत्मानमुन्नमयति । यदि शृणोति दुःखमिति, तदा विद्विषति । स च रागो निरोधसत्यालम्बनः । द्वेषो ( स्स्स्_344 ) निर्वाणद्वेष्यपि भवति । निर्वाणेनाप्यात्मन उच्चमतिर्भवति । तद्वन्मार्गेणापि, अन्ये ऽप्यनुशयाः सर्वत्रगा इति द्रष्टव्यम् । कामधात्वाप्ताः क्लेशा रूपधात्वालम्बनाः । यथा रागेण सुखमभिनन्दति । द्वेषेणाशुभं विद्विषति । तेन धर्मेणात्मानमुन्नमयति, तत्प्रधाना भवन्ति [रूपधातौ] न कामधातौ । यथा कामधातुकक्लेशारूपधात्वालम्बनाः तथा रूपधातुकादृष्टयादयः क्लेशा अपि कामधात्वालम्बनाः । एवमारूप्यधातावपि । किञ्चेमे क्लेशाः सामान्यविशेषलक्षणालम्बनाः । कस्मात् । रागः सामान्यलक्षणालम्बनो ऽपि चतुरो देवान् तदधस्तनांश्च संक्लेशयति । यथाह दीर्घनखसूत्रम्- सर्वं क्षमत इतीदं संरागाय । सर्वं न क्षमत इतीदमसंरागाय इति । सर्वं न क्षमत इतीदं संरागाय । सर्वं क्षमत इतीदमसंरागाय । तेन क्लेशेनात्मानमुन्नमयति । क्लेशो ऽयं कायवाक्कर्म प्रवर्तयति । कस्मात् । उक्तं हि सूत्रे- ईदृशीं दृष्टिमुत्पाद्य ईदृशं वस्तु वदति यदस्ति जीव इत्यादि ।
ते सर्वे क्लेशाः षष्ठविज्ञाने वर्तन्ते । न पञ्चसु विज्ञानेषु । कस्मात् । षष्ठविज्ञानस्य संज्ञोपगत्वात् । सर्वे च क्लेशाः संज्ञासम्भूताः । तथा नो चेत् सत्कायदृष्ट्यादयो ऽपि पञ्चसु विज्ञानेषु वर्तेरन् । कस्मात् । चक्षुषा रूपं दृष्ट्वा वदति अहं पश्यमीति । तथा मानविचिकित्सादिष्वपि । (पृ) सूत्र उक्तम्- षट् तृष्णाकाया इति । कथमुच्यते पञ्चसु विज्ञानेषु न क्लेशाः सन्तीति । (उ) यथा षण्मनौपविचारा मनोविज्ञाने वर्तन्ते । केवलं चक्षुरादिभिराहृता इत्यतः षण्मनौपविचारा इत्युच्यन्ते । तथेदमपि । मनोविज्ञाने हि विद्यमानं विकल्पकारणं न पञ्चसु विज्ञानेषु । अतो ज्ञायते पञ्च विज्ञानेषु न सन्ति क्लेशा इति ॥
प्रकीर्णप्रश्नवर्गो ऽष्टस्त्रिंशदुत्तरशततमः ।
139 दोषप्रहाणवर्गः
(पृ) केचिदाहुः- क्लेशा नवविधा- अधममध्यमोत्तमा अधमाधमाधममध्यमाधमोत्तमा मध्यमाधम मध्यममध्यममध्यमोत्तमा उत्तमाधमोत्तममध्यमोत्तमोत्तमा इति । ज्ञानमपि नवविधम् । क्लेशेषूत्तमोत्तमः पूर्वं प्रहेयः । अधमाधमो ऽन्ते प्रहेयः । अधमाधपज्ञानेनोत्तमोत्तमक्लेशं प्रजहाति । यावदुत्तमोत्तमज्ञानेन अधमाधमक्लेशं प्रजहाति इति । कथमिदम् । (उ) अप्रमाणचित्तैः क्लेशान् सर्वान् प्रजहाति । कस्मात् । सूत्रे भगवानाह- तद्यथा दक्षः ( स्स्स्_345 ) कर्मकरो हस्तेन परशुमादाय चक्षुषा मुष्टिप्रदेशं दृष्ट्वा यान्यंशसहस्रानि प्रतिदिनं क्षीयमाणानि तान्यगणयनन्नपि क्षीणमात्रं दृष्ट्वा प्रजानाति इदं क्षीणमिति । तथा स भिक्षुरपि मार्गचर्यां भावयन् कान्यद्य क्षीणाण्यास्रवसहस्राणि कानि ह्यः क्षीणान्यास्रवहस्राणीति अगणयन्नपि क्षीणमात्रे प्रजानाति क्षीण आस्रव इति । अतो ज्ञायते ऽप्रमाणै ज्ञानैः क्लेशाः क्षीयन्त नत्वष्ठ नव वा इति ।
(पृ) कं समाधिं निश्रित्य कः क्लेश प्रहीयते । (उ) सप्तप्रतिशरणान्युपादाय क्लेशान् समुच्छेदयति । यथोक्तं सूत्रे भगवता- प्रथमध्यानमुपादायास्रवाणां क्षयो यावदाकिञ्चन्यायतनमुपादायास्रवाणां क्षय इति । तानि सप्तप्रतिशरणानि विनापि आस्रवाणां क्षयं करोति । यथोक्तं सुसीमसूत्रे- अतिक्रम्य सप्तनिश्रयानास्रवक्षयमनुप्राप्नोतीति । अतो ज्ञायते कामधातुकसमाधिं निश्रित्यापि आस्रवक्षयं प्रतिलभत इति ।
(पृ) सत्यदर्शनहेयाः क्लेशा नारूप्यसमाधिं निश्रित्य प्रहीयेरन् । तस्य योगिनो रूपलक्षणभङ्गात् । (उ) इदं पूर्वमेव प्रयुक्तम् । यदारूप्यसमाधि[रपि] रूपमवलम्बत इति । (पृ) पूर्वं प्रथमध्यानाद्वीतरागः किं क्रमेण द्वितीयध्यानादीन् प्राप्नोति किं वा एककालमेव । (उ) क्रमेण भवितव्यम् । प्रथमध्याने वीतरागस्य द्वितियध्यानादीनामुत्पत्तेः । (पृ) किं कामधातावस्ति क्रमः । (उ) क्लेशानां प्रतिक्षणनिरुद्धत्वात्स्यादपि क्रमः । यथा च याम्या देवाः परिष्वङ्गे कामं साधयन्ति । तुषिता देवाः पाणिं गृहीत्वा कामं साधयन्ति । निर्माणरता वागालापेन कामं साधयन्ति । परनिर्मितवशवर्तिनो देवा आकारं दृष्ट्वा कामं साधयन्ति । [एवं] ज्ञातव्यं कामधातुकक्लेशाः क्रमेणापि क्षीयन्त इति । केचिदाहुः- पुण्यगुणप्रत्ययं तत्रोत्पद्यन्ते । न क्लेशप्रहाणेन । प्रणीतकामत्वात् तत्साधने विशेषः । मृद्विन्द्रियत्वात्परिष्वङ्गेन कामं साधयन्ति । तीक्ष्णेन्द्रियत्वादाकारं दृष्ट्वा कामं साधयन्ति इति ।
(पृ) केचिदाहुः- भावनाहेयाः क्लेशाः क्रमेणा प्रहीयन्ते । पूर्वं कामधात्वाप्ताः पञ्चाद्रूपारूप्याप्ताः । सत्यदर्शनहेयास्त्वेककालं प्रहीयन्त इति । कथमिदम् । (उ) यथा सत्यदर्शनहेयाः सर्वे क्लेशा निरोधसत्यदर्शनेन प्रहीयन्ते । उक्तपूर्वमिदम् यत् निरोधदर्शनप्रहेयाः ( स्स्स्_346 ) सत्कायदृष्ट्यादयः क्लेशाः सर्वे निरोधसत्यदर्शनेन प्रहीयन्ते । ऊष्मधर्मादारभ्य अनित्याद्याकारैः पञ्चस्कन्धलक्षणानि भावयित्वा आदौ प्रहेयाः क्लेशा निरोधदर्शनेन क्षीयन्ते ।
(पृ) कामधात्वाप्तदुःख[सत्य]भावनया कामधातुकसंयोजनानि प्रजहाति । समुदयसत्यभावनायाप्येवम् । यथा कामधातौ तथा नैवसंज्ञानां संज्ञायतने ऽपि । कामधातुकनिरोध[सत्य]भावनया त्रैधातुकसंयोजनानि प्रजहाति । एवं मार्ग[भावनया]पि । कथमिदम् । (उ) निरोधज्ञः क्लेशान् प्रजहाति । अतो भवदुक्तं न युज्यते । (पृ) [ननु] सूत्र उक्तम्- पञ्चस्कन्धाननित्यादिना भावयित्वा स्रोतआपत्तिपलं यावदर्हत्फलं विन्दते इति । कथमाह भवान् निरोधसत्यदर्शनमात्रेण क्लेशान् प्रजहातीति । (उ) इमान् पञ्चस्कान् भावयन् प्रजानाति निरोधमिश्रभावनाम् । अतः प्रजहाति क्लेशानुशयान् । यथोक्तं सूत्रे- भिक्षुर्भावयति इदं रूपं, अयं रूपसमुदयः, अयं रूपनिरोध इति सर्वदा मम पश्यतो धर्मं विजानतः क्लेशाः प्रहीयन्त इति । ज्ञातव्यंनिरोधसत्यदर्शनेन क्लेशानां क्षय इति । पञ्चस्कन्धा दुःखम् ततः क्लेशाः समुत्पद्यन्ते । यदा पञ्चस्कन्धानां निर्वाणमुपशमं पश्यति । तदा दुःखसंज्ञा सम्पन्ना भवति । अतो ज्ञायते स्कन्धानां निरोधं पश्यतः क्लेशाः क्षीयन्त इति । यथोक्तम्- धर्मानुपादायाकायस्वभावमेकमुपेक्षाचित्तमाश्रित्य प्रहाणमिति । अकायस्वभाव एव निरोधः । यो रूपमकायस्वभावं यावद्विज्ञानमकायस्वभावं पश्यति सो ऽत्यन्तविसंयोगभाग्भवति । त्रीणि विमोक्षमुखानि निर्वाणस्य प्रत्ययाः । विमोक्षमुखैरेभिरेव क्लेशान् प्रजाहाति । नान्योपायैः । अतो ज्ञायते ऽसंस्कृतालम्बनो मार्ग एव क्लेशान् प्रजहातीति । अतो भवदुक्तो [यः] क्लेशप्रहाणधर्मो नायं युक्तः ।
शास्त्रमाह- क्लेशानामेवंजातीयानामप्रमाणानि विक्लपस्वभावानि भवन्ति [इति] विमुक्तिप्रार्थिभिर्ज्ञातव्यम् । कस्मात् । एतद्बन्धदोषज्ञानबलाद्विमुच्यते । यदा कश्चिच्छत्रुं विज्ञाय दूरीकरोति । यथा वा विषममार्गं ज्ञात्वा वर्जयति । एवं क्लेशानपि । क्लेशबन्धो ऽतिसूक्ष्मो वेमचित्रमसुरराजं बवन्ध । यावद्भवाग्रं सत्वाः क्लेशबद्धाः । अतो ज्ञातव्यं तेषामादीनवम् । सत्त्वा यादद्भवाग्रमाजवञ्जवपतिताः । यतः क्लेशानामादीनवज्ञानं न पश्यन्ति । अप्रहीणसंयोजनत्वादप्रहीण आत्ममानो वर्धते । ततस्तु विमतिकौकृत्ये भवतः । अतः क्लेशदोषैर्मा वञ्चितः स्यामिति ज्ञातव्यम् । यत् सत्वा विशुद्धं परमं निर्वाणसुखमुपेक्षन्ते प्रत्युतातितुच्छं कामसुखं भवसुखं कामयन्ते तदिदं सर्वं क्लेशानां दोषः । यदा क्लेशान् ( स्स्स्_347 ) प्रजहाति तदा महाहितं प्रतिलभन्ते । अतः क्लेशदोषाणां ज्ञानदर्शनं कुर्यात् । विमुक्तेरावरणधर्मा यदुत क्लेशाः । क्लेशानामप्रहाणे नैवास्ति विमुक्तिनिदानम् । कस्मात् । क्लेशाः कामनिदानम् । क्लेशानुयायी कायो भवति । कायानुयायि दुःखम् । अतो दुःखवियोगार्थी क्लेशानां प्रहाणाय वीर्यमारभेत ॥
क्लेशप्रहाणवर्ग एकोनचत्वारिंशदुत्तरशततमः ।
140 विद्याहेतुवर्गः
(पृ) क्लेशाः कायस्य निदानमित्येतद्विद्या स्यात् । कस्मात् । तीर्थिका हि नेदं श्रद्दधन्ते । केचिदाहुः- कायो ऽहेतुको ऽप्रत्ययः, तृणवृक्षवत् स्वयंभूत इति । केचिदाहुः - पदार्था महेश्वरादिभिः सृष्टा इति । केचिदाहुः- पदार्थाः कालस्वभावजाः इति । केचिदाहुः- परमाणुसमवायजा इति । एवंजातीयवचनानि विद्या स्युः । (उ) कर्मणः कायो भवतीदं पूर्वमेव साधितम् । तत्कर्म क्लेशेभ्यः सम्भूतम् । अतः क्लेशाः कायस्य निदानम् ।
(पृ) कथं ज्ञायते क्लेशहेतुकं कर्मेति । (उ) प्रज्ञप्तिचित्तमविद्येत्युच्यते । प्रज्ञप्तिचित्तकः कर्माण्युपचिनोति । अतो ज्ञायते क्लेशप्रत्ययं कर्म भवतीति । अर्हन्न कर्माण्युपचिनोति न निष्पादयति । अतो ज्ञायते कर्माणि क्लेशसिद्धानीति । यथोक्तं भगवतासूत्रे- यः प्रतिलब्धविद्यः सन्यस्ताविद्यः स किं पापकं कर्म पुण्यं कर्म आनेञ्ज्यञ्च कर्म करोति न वा । नो भगवन् इति । नास्ति चानास्रवं कर्म । अतो ज्ञायते प्रज्ञप्त्यनुयायी केवलं कर्माणि करोतीति । अनास्रवं चित्तं न प्रज्ञप्तिमवलम्बत इति न कर्माणि करोति । शैक्षस्य नास्ति चर्या । यथोक्तं सूत्रे- शैक्षजनः प्रत्यागतं नाचरति, निरुद्धं न करोतीति । क्रियालक्षणा हि चर्या । चर्यैव कर्मेत्युच्यते । अनास्रवं चित्तञ्च न चर्यालक्षणमित्यतो नास्त्यनास्रवं कर्म । तस्मात् सर्वाणि कायवेदनीयकर्माणि क्लेशहेतुसम्भूतानि । प्रहीणक्लेशो न पुनर्जन्मानुभवति । अतो ज्ञायते विद्यमानः कायः क्लेशहेतु[क] इति ।
(पृ) सर्वे सत्त्वा अक्लेशतया जायन्ते । पश्चात्तु क्लेशाः समुद्भवन्ति । यथा पुरुषस्य जननकाले ऽविद्यमानं दशनं पश्चादुत्पद्यते । (उ) न युक्त[मिद]म् । क्लेशवानेव ( स्स्स्_348 ) [जायते] यत्र भवलक्षणं क्वरोदनादि जननकाले प्रत्यक्षमस्ति । अतो ज्ञायते क्लेशैः सहैव सर्वे जायन्त इति । प्रत्यक्षं पश्यामः खलु सत्त्वा बहवो वर्चःकुट्यादिषु प्रसूयन्ते न तु शिलादिषु । गन्धरसाद्यासङ्गात्तत्र प्रसूयन्त इति द्रष्टव्यम् । अतो ज्ञायते क्लेशवशादुत्पद्यन्त इति । (पृ) नरकादौ न जन्म लभेरन् । कस्मात् । न हि कश्चिनरकादौ सुखं कामयेत । (उ) मोहबलाद्विपर्ययचित्ता उत्पद्यन्ते । म्रियमाणा दूरतो नरकं दृष्ट्वा इदं पद्मसर इति तदासङ्गात्तत्रोत्पद्यन्ते । यथोक्तं सूत्रे- यो निबिडितस्थाने विपुलं स्थानं लभेयमिति म्रियते स पक्षिषूत्पद्यते । यः परितर्षितो म्रियते स जलजन्तुर्जायते । यः शीतार्तो म्रियते स तपननरके जायते । यस्तापतर्षितो म्रियते स शीतनरके जायते । यो मैथुनकामासक्तः स चटकेषु जायते । य आहारासक्तः स कुणपेषु कीटो जायते । इति । कामासङ्गहेतुना अकुशलानि करोति । अकुशलप्रत्ययदार्ढ्यात्फलविपाकं वेदयते । कायासक्त्या कर्माणि विपाकजनकानि । कस्मात् । कायासक्तस्य मोहबलान्मानादयः क्लेशा जायन्ते । ततः कर्मणि सञ्चिनोति । कर्मबलाद्गतिषूत्पद्यते ।
(पृ) यदि क्लेशप्रत्ययेन कायो भवति । प्रहीणक्लेशस्य पञ्चस्कन्धसन्तानो न स्यात् । (उ) कायो ऽयं पूर्वं क्लेशजातः । [इदानीं] क्लेशेषु प्रहीणेष्वपि तद्वेगबलात्कायः पुनर्न प्रहीयते । यथा दण्डेन चक्रभ्रमणम् । मुहूर्तं दण्डे विरमत्यपि [चक्रम्] भ्रमत्येव न तु शाम्यति । (पृ) यदि पूर्वकर्मक्लेशवेगात्कायो भवति । तदा प्रहीणक्लेशः पूर्वकर्मक्लेशवेगात्पुनः कायमुपादद्यात् । (उ) निमित्तग्रहाद्विज्ञानमवश्यं तिष्ठति । अयं प्रक्षीणपूर्वकर्मवेगः । इदानीमनिमित्तविमोक्षमुखं भावयन् नोर्ध्वदेहमुपादत्ते । यथा तत्पपाषाणे न बीजानि प्ररोहन्ति । एवं ज्ञानाग्निना विज्ञानस्थितिषु दग्धासु न विज्ञानबीजं प्ररोहति । ( स्स्स्_349 ) ऊर्ध्वसन्तानः समुच्छिद्यते । संस्कारप्रत्ययवैकल्यात् न पुनः सन्तानो भवति । यथोक्तं सूत्रे भगवता- विज्ञानं बीजम् । कर्मसंस्काराः क्षेत्रम् । रागतृष्णा सलिलम् । अविद्या अवकिरणम् । एभिः प्रत्ययैरायत्यां कायमुपादत्त इति । अर्हतस्त्वेषां प्रत्ययानां वैकल्यान्नायत्यां कायो भवति इति ज्ञातव्यं क्लेशप्रत्यया कायवेदनेति । विगतक्लेशस्य दुःखज्ञानादिचित्तमस्ति । इदानीमुपपत्तिवेदको न पश्यति तच्चित्तमस्तीति । अतो ज्ञायते विगतक्लेशो नोपपतिं वेदयत इति । (पृ) स्रोतआपन्नादिनां दुःखादिचित्तमस्ति । त उपपत्तिकाले ऽपि न पश्यन्ति अस्तीति । (उ) अर्हतां ज्ञानबलं सुदृढम् । सर्वे ऽपि क्लेशा नोत्कर्षन्ति । अतो म्रियमाणा उपपत्तिवेदनां प्रतिघ्नन्ति । स्रोतआपन्नादीनां ज्ञानबलन्तु न तथा । अतो न दृष्टान्तः स्यात् ।
भवतोक्तं यथा दशनं पश्चात्क्रमेण भवति तथा क्लेशा अपीति । इदमयुक्तम् । कस्मात् । अर्हन्तो ऽनास्रवप्रज्ञादद्घक्लेशा इत्यतो नोत्पद्येरन् । यथा दग्धं बीजं न पुनः प्ररोहति । प्रत्यक्षं खलु लोके ऽस्मिन् क्लेशजः काय इति । यथा कामरागात्कायरूपं विक्रियते । तथा द्वेषादपि । अतो ज्ञायते आयत्यां पञ्चस्कन्धा अपि क्लेशजा इति ।
(पृ) पश्यामः खलु आहारप्रत्ययाः पञ्चस्कन्धा उत्पद्यन्ते । तथापि नोच्यते आहारः कायवेदनाप्रत्यय इति । (उ) आहारश्चित्तप्रज्ञप्तितो रूपादीनां जनकः । क्लेशास्तु न तथा, अप्रज्ञप्तितो रूपादिजनकाः । अतो ज्ञायते क्लेशाः कायप्रत्यया इति । प्रत्यक्षं खलु चटकादयः कामबहुलाः, सर्पादयो द्वेषबहुलाः, सूकरादयो मोहबहुलाः । ज्ञातव्यमिमे सत्त्वा अवश्यं पूर्वाभ्याससञ्चितमैथुनरागादिक्लेशा इत्यतस्तेषूत्पद्यन्त इति । (पृ) उत्पत्तिस्थान धर्मस्तथा न तु पूर्वाभ्याससञ्चितक्लेशहेतुकम् । (उ) तथा चैन्मैथुनरागादयो निर्हेतुकाः स्युः । नेदं सम्भवति । इति ज्ञातव्यं पूर्वाभ्याससञ्चितहेतुना भवतीति । कामक्रोधादिषु क्लेशेषूद्दीपितेषु हननादिपापानि कुर्वन्ति । तेभ्यः पापेभ्यो दृष्ट एव बधबन्धनादिदुःखमनु भवन्ति । क्लेशेष्वल्पेषु शीलधारणकुशलाभ्यासादिहितं लभन्ते । तत्कुशलशीलमुपादाय दृष्ट एव ख्यातियशोलाभसत्कारादिसुखं लभन्ते । यथेह लोके लाभो हानिश्च क्लेशहेतुका, तथामुष्मिन्नप्येवमिति ज्ञायते ।
(पृ) यदि क्लेशहेतुकः कायो भवति । तदा समुच्छिद्येत संसारे गतागतम् । कस्मात् । क्लेशविवृद्ध्या दुर्गतौ पतति स एव पापकायमनुभूय क्लेशान् पुनर्वर्धयति । सदा च विमुक्तिहेतुरहितः । एवञ्च न सुस्थाने जन्म लभेत । यदि पुण्यवर्धनाय ( स्स्स्_350 ) पुण्यकायमुपादते । तदा पुनरपि न दुस्थान उत्पद्येत । एवञ्च न स्यात्संसारे गतागतम् । (उ) जनो ऽयं दुर्गतौ पतितो ऽपि कदाचित्कुशलचित्तभाग्भवति । सुस्थान उत्पन्नो ऽपि कदाचिदकुशलचित्तमुत्पादयति । अतः संसारे गतागतं न समुच्छिद्यते । रागादिक्लेशानां तनुत्वतः सुस्थाने जन्मानुवर्तते । तेषामेव महत्वतो दुःस्थाने जन्मानुवर्तते यथा सूकरश्वादयः । अल्पकेशत्वतः सुस्थाने जायत इति यथा [कश्चित्] क्लेशतनुत्वात् दानशीलादिकर्माचरन् षट्सु कामदेवेषूत्पद्यते । प्रहीणाब्रह्मचर्यारागत्वाद्विशिष्टध्यानसुखं प्रतिलभते । प्रहीणरूपसंक्लेशत्वाद्विशिष्टसमाधिसुखं प्रतिलभते । सर्वसंयोजनानां क्षये ऽनुपमं निर्वाणसुखं प्रतिलभते । अतो ज्ञायते कायो ऽयं क्लेशहेतुक इति ।
पश्यामः खलु सत्त्वा कुदेशभूमौ रता दुर्जनैः सह कुत्सितमधिवसन्तीति सर्वमासङ्गाद्भवति । अतो ज्ञायते संसारे सत्त्वानामधिवासो ऽप्यासङ्गाद्भवति । यथा शलभा भास्वररूपरागात्प्रदीपदग्धा भवन्ति । आसक्तिरियं न ज्ञानद्भवति । कस्मात् । शलभा इमे न जानन्ति अग्निर्दुःखस्पर्श इत्यतस्तत्र पतन्ति । तथा सत्त्वाः पौनर्भविकदुःखपतिता अविद्याप्रत्ययकामतृष्णार्त उत्पद्यन्ते । यथा मत्स्या अङ्कुशं ग्रसन्तः, हरिणाः शब्दानु चारिणः । ते सर्वे कामासङ्गान्म्रियन्ते । यथा च कश्चित् कामासक्त्या विप्रकृष्टां विदिशं गच्छन् न प्रतिनिवर्तते । तत् सर्वं क्लेशाज्जातमिति द्रष्टव्यम् । यथा वृक्षस्य मूले ऽनुन्मूलिते स वृक्षः पुनः प्ररोहति । तथा रागमूले ऽनुन्मूलिते दुःखवृक्ष सदा वर्तते । यथाह भगवान्-
यथापि मूले ऽनुपद्रुते दृढे च्छिन्नो ऽपि वृक्षः पुनरेव रोहति ।
एवमपि तृष्णानुशये ऽनुद्धृते निर्वर्तयति दुःखमिदं पुनः पुनः ॥ इति ।
कायो ऽयमशुचिरनित्यो दुःखं शून्यो ऽनात्मकः । स्वतो ऽविद्यां विना को ज्ञानी तत् व्ययदुःखं कामयमानो वेदयेत । यथान्धो मलिनवासो रत्नाभरणमिति प्रलोभितः स्यात् । तथाविद्यान्धीभूत आदीनवबहुलानशुचीन् पञ्चस्कन्धाननुभवति । आत्ममत्या दुःखमपि कायमनुभवन् न त्यजति । अनात्मबुद्धौ तु प्रजहाति । यथाह शारिपुत्रः- विशुद्धसंवर- प्रतिलब्धमार्गो म्रियमाणो ऽभिनन्दति । तद्यथा विषकुम्भे भग्ने । अतो ( स्स्स्_351 ) ज्ञायते क्लेशप्रत्ययो ऽयं काय इति । अज्ञानादस्मिन् काय आसज्यते । यथा चित्रकारण्डो ऽशुचिसमृद्धः । अनपावृतो रमणीयः । अपावृते तु पूतितृणानि [दृश्यन्ते] । यथा विषसर्पसम्पूर्णे गृहप्रकोष्ठे ऽप्रज्वलिते च दीपे सुखाध्यवसानं भवति । [विषसर्प]दर्शने तु तदपैति । तथा सत्त्वा अपि अविद्यायां सत्यां लोके ऽभिरमन्ते । उत्पन्नायान्तु विद्यायां चित्तं निर्विद्यते । एवं कामतृष्णा भवस्य मूलम् । कस्मात् । कामतृष्णया हि प्रार्थयते । प्रार्थना हि द्विविधा- कामप्रार्थना भवप्रार्थना इति । प्रत्युत्पन्नेषु कामेषु प्रार्थना कामप्रार्थना । पुनर्भवप्रार्थना भवप्रार्थना । अतो ज्ञायते कामतृष्णा भवस्य मूलमिति । पञ्चस्कन्धासक्तौ सत्कायदृष्टिरुत्पद्यते यदुताहमित्यात्मवादोपादानम् । तदुपादानमुपादायान्यानि त्रीण्युपादानानि भवन्ति । उपादानप्रत्ययो भवः । भवप्रत्यया जातिरिति ज्ञातव्यं क्लेशाः कायस्य मूलमिति ।
कायो ऽयं दुःखम् । दुःखकाये ऽस्मिन् सुखसंज्ञाविपर्यय उत्पद्यते । तेन सुखविपर्ययेण विपरीततृष्णा प्रवर्तते । तथा विपरीततृष्णया पुनर्भवं वेदयते । अतो ज्ञायते कामतृष्णाप्रत्ययः कायो भवतीति । कायो ऽयमाहारप्रत्ययात्तिष्ठति । कबलीकाराहारासक्त्या न कामधातुमतिवर्तते । यथोक्तं कर्मस्कन्धे- गन्धरसासक्त्या वर्चःकुट्यादिषूत्पद्यते । स्प्रष्टव्यासक्त्या गर्भावास उत्पद्यते । शीतोष्णस्पर्शासक्त्या अण्डजः स्वेदजो वा भवति । इति सर्वे न कामधातुमतिक्रामन्ति । धातुस्पर्शमुपादाय तिस्रो वेदना भवन्ति । अतः स्पर्शप्रत्यया वेदनेत्युच्यते । मनःसञ्चेतनाहारो ऽप्येवम् । पुनर्भवसमुत्थानाय प्रणिदधाति इदमहं करिष्यामीति । ज्ञादर्शनविहीनं विज्ञानं पुनर्भवप्रापककामतृष्णामूलं भवति । एवं चत्वार आहाराः कामतृष्णाधीनाः । सर्वे हि सत्त्वा आहारेण जीवन्ति । अतो ज्ञायते तृष्णाप्रत्यया जातिरिति ।
चतस्रो जातयः- अण्डजो जरायुजः संस्वेदज उपपादुक इति । मैथुनकामतृष्णया अण्डजो जरायुजश्च । गन्धरसाद्यासङ्गात् संस्वेदजोपपत्तिं वेदयते । यथाभिलषितं गुरुकर्मोपचीय उपपादुकजन्म वेदयते । अतो ज्ञायते चत्वारो जातिविभागाः कामतृष्णाधीना इति । चतस्रः कायवेदनाः- कश्चिदात्मघातको न परघातक इत्यादयश्चतस्रः । ताः ( स्स्स्_352 ) सर्वाः कामतृष्णाविशेषा भवन्ति । अतो ज्ञायते कामतृष्णाप्रत्ययः कायो भवतीति । चतस्रो विज्ञानस्थितयः- रूपोपगं विज्ञानं तिष्ठत् रूपप्रतिष्ठितं रूपारम्बणं नन्द्युपसेवनम् । वेदनासंज्ञासंस्कारेष्वप्येवम् । न तूच्यते विज्ञानमेव विज्ञानस्थितिरिति । विज्ञानकाले क्लेशाभावात् । अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति ।
द्वादशनिदानानि चाविद्याधीनानि । कस्मात् । प्रज्ञप्त्यनुयायिचित्तमविद्या । तामविद्यामुपादाय प्रवर्तते [कर्म]पुण्योपगमपुण्योपगमानेञ्ज्योपगम् । कामसंलालितं पुण्योपगम् । दुःखसम्पीडितमपुण्योपगम् । मैत्रीकरुणादिचित्तसङ्गृहीतमानेञ्ज्योपगम् । तेषां कर्मणामनुगामिविज्ञानं पुनर्भवे तिष्ठति । विज्ञानं निश्रित्य भवन्ति नामरूपषडायतनस्पर्शवेदनाः । इमानि चत्वारि पूर्वाध्वनीनकर्मक्लेशविपाकाः । पुनरिमां वेदनामुपादाय प्रवर्तते तृष्णोपादानं भवः । इमे कर्मक्लेशा आयत्यां जातिजरामरणादीन्युत्पादयन्ति । एवं द्वादशाङ्गभवसन्ततिरविद्यामूलिका । अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति ।
संसारो ऽनादिः । केनेदं ज्ञायते । उक्तं हि सूत्रे- कर्मप्रत्ययानि चक्षुरादीनीन्द्रियाणि । कर्म तृष्णाहेतुकम् । तृष्णा अविद्याहेतुका । अविद्या अयोनिशोमनस्कारहेतुका । अयोनिशोमनस्कारश्चक्षुर्हेतुको रूपप्रत्ययो मोहात्प्रवृत्त इति । अतो ज्ञायते संसारचक्रमनादीति । ईश्वरादयः कारणमिति वदतो न भवत्यनादिः । तत्तु न सम्भवति । अतो ज्ञायते क्लेशप्रत्ययः काय इति । क्लेशानामात्यन्तिकनिरोधे विमुक्तिर्लभ्यते । सत्त्वानां देहा नाना विजातीयाः । ईश्वरादीकारणत्वे वैजात्यं न स्यात् । क्लेशकर्मणां बहुविधत्वात् देहा अपि नैके ।
द्वाविंशताविन्द्रियेषु षडिन्द्रियाण्युपादाय षड्विज्ञानानि भवन्ति । तत्रास्ति स्त्रीपुरुषेन्द्रियम् । सर्वधर्माणामेषां सन्तत्यविच्छेदात् जीवितमित्युच्यते । जीवितं कस्येन्द्रियं भवति, यदुत कर्मणः । कर्मेदं क्लेशानां हेतुः । क्लेशा वेदनानिश्रिता इत्यतः पञ्च वेदना इन्द्रियाणि भवन्ति । एवमन्योन्य[हेतु] प्रवृत्ता संसारसन्ततिः । श्रद्धादीनीन्द्रियाणि ( स्स्स्_353 ) निश्रित्य सन्ततिं विच्छेदयति । एवं द्वाविंशतीन्द्रियैः संसारे यात्यायाति च । अतो ज्ञायते क्लेशैः कायो भवतीति ।
किञ्च विमुक्त्यर्थी शीलसमाधिप्रज्ञा विमुक्तिज्ञानदर्शनस्कन्धानुत्पादयति । एषां क उपयोगः । [ते] सर्वे क्लेशानां निरोधाय भवन्ति ज्ञानी तद्धितं दृष्ट्वा तान् स्कन्धानुपाश्रयते । अतो ज्ञायते क्लेशप्रत्ययः काय इति । क्लेशाश्च क्रमेण निरुध्यन्ते । प्रहीणत्रिविधसंयोजनः स्रोतआपत्तिफलभाग् भवति । तनुकामच्छन्दादिकः सकृदागामिफलभाक् । प्रक्षीणकामधातुसंयोजनो ऽनागामिफलभाक् । ध्यानसमाधिष्वपि अयं क्रमः । अत्यन्तक्षीणसर्व[संयोजनः] अर्हत्फलभाग् भवति । एवं क्लेशानां क्रमशो निरोधात्कायो ऽपि क्रमशो निरुध्यते । ईश्वरादिकारणत्वे न स्यात्क्रमनिरोधः । अतो ज्ञायते क्लेशप्रत्ययः काय इति । सुजना रागादीनां क्लेशानां प्रहाणं प्रार्थयन्ते । द्रष्टव्यमवश्यं रागादिप्रत्ययमिदानीमायत्याञ्च ग्लान्युपायासान् लभन्त इत्यतो ऽवश्यं [तेषां] प्रहाणं प्रार्थयन्ते । तथा नो चेन्न प्रहाणप्रार्थना स्यात् । ये वदन्ति ईश्वरादयः कायस्य हेतुरिति । ते ऽपि प्रार्थयन्ते कामच्छन्दादीनां प्रहाणम् । अतो ज्ञायते कामच्छन्दादिप्रत्ययः काय इति । विद्वान् प्रज्ञया विमुक्तिं लभन्ते । [अतो] अज्ञानाद्वध्यत इति ज्ञेयं भवति । तस्मात् ज्ञायते क्लेशप्रत्ययः कायो भवतीति ।
भगवानाह- तत्र तत्र सूत्रे नन्दिरागक्षयात्सम्यग्विमुक्तिं लभत इति । कस्मात् । चक्षूरूपादयो हि न बन्धा इत्युच्यन्ते । नन्दिरागादयस्तु बन्धाः । नन्दिरागभङ्गात् चित्तं सम्यग्विमुच्यते । सम्यग्विमुक्तं चित्तं निर्वाणे ऽवतरति । अतो ज्ञायते क्लेशप्रत्ययः कायो भवतीति । अनिमित्तानाकारशून्यतया हि विमुक्तिं प्रतिलभते । अतो ज्ञायते क्लेशप्रत्ययः काय इति । कस्मात् । धर्माणां शून्यतादर्शनमेवानिमित्तप्रतिलाभः । निमित्तनिरोधान्न पुनर्भवं प्रणिदधाति । अतः शून्यता विमोक्षमुखमित्युच्यते । तद्विपर्यये बन्धः । इत्यादिना क्लेशाधीनः कायो भवतीति प्रदर्शितम् ॥
विद्याहेतुवर्गश्चत्वारिंशदुत्तरशततमः ।
[इति] समुदयसत्यस्कन्धः समाप्तः ।
अथ निरोधसत्यस्कन्धः
141 निरोधसत्यस्कन्धे आद्यः प्रज्ञप्तिस्थापनवर्गः
शास्त्रमाह- त्रिविधचित्तानां निरोधो निरोधसत्यं यदुत प्रज्ञप्तिचित्तं धर्मचित्तं शून्यताचित्तम् । (पृ) कथमेषां त्रयाणां चित्तानां निरोधः । (उ) प्रज्ञप्तिचित्तं बहुश्रुतप्रत्ययज्ञानेन वा निरुध्यते । चिन्तनाप्रत्ययज्ञानेन वा निरुध्यते । धर्मचित्तमूष्मगतादिधर्मेषु शून्यताबुद्धया निरुध्यते । शून्यताचित्तं निरोधसमापत्त्यवतरणेन निरुध्यते । यदि वानुपधिशेषनिर्वाणे ऽवतरतः सन्तानसमुच्छेदे निरुध्यते ।
(पृ) कतमा प्रज्ञप्तिः । (उ) स्कन्धानुपादाय ये विकल्पा तद्यथा पञ्चस्कन्धानुपादाय पुरुष इत्युच्यते । रूपरसगन्धस्पर्शानुपादाय घट इत्युच्यते इत्यादि । (पृ) कस्मादियं प्रज्ञप्तिः । (उ) सूत्रे भगवानाह-
यथाह्यङ्गसम्भाराद्भवति शब्दो रथेति च ।
एवं स्कन्धेषु सत्स्वेव भवति सत्त्वेति संवृतिः ॥ इति ।
यथा च भगवान् भिक्षूनवोचत्- धर्मा अनित्या दुःखाः शून्या अनात्मानः प्रतीत्यसमुत्पन्ना अनियतस्वभावा नाममात्रमनुस्मरणमात्रं भोगमात्रम् । इमानेव पञ्चस्कन्धानुपादाय नाना नाम प्रवर्तते सत्त्वो मनुष्यो देव इत्यादि इति । सूत्रे ऽस्मिन् वस्तुसतो धर्मस्य प्रतिषेधादुच्यते नाममात्रमिति ।
किञ्चाह भगवान्- द्वे सत्ये परमार्थसत्यं संवृतिसत्यमिति । परमार्थसत्यं यदुत ( स्स्स्_355 ) रूपादयो धर्मा निर्वाणञ्च । संवृतिसत्यं यत् प्रज्ञप्तिमात्रं निःस्वभावम् । यथा रूपादिप्रत्ययो घटः सिध्यति । तथा पञ्चस्कन्धप्रत्ययः पुरुषः सिध्यति । (पृ) यदि परमार्थतो नास्तीदम् । लोकसत्यस्य क उपयोगः । (उ) लौकिकाः सत्त्वा लोकसत्यमुपादायोपयोजयन्ति । केनेदं ज्ञायते । यथा चित्रितो ऽग्निरित्युक्तौ जनाः श्रद्दधन्ते । बुद्धा भगवन्तो लौकिकानां प्रज्ञप्तितो वियोजनाय लोकसत्येन व्यवहरन्ति । यथोक्तं सूत्रे- नाहं [भिक्षवो] लोकेन विवदामि । लोकश्च मया विवदति । न [भिक्षवः] धर्मवादी [केनचिल्लोके] विवदति । इति ।
पुरा किल जना वस्तूपभोगकामनया वहुवस्तुनामुत्पत्तिकाले घट इत्यादि नाम स्थापयाञ्चक्रुः । सद्धर्मे सति नोपयोगो लभ्येत । अतो लोकसत्यमित्युच्यते । सत्यद्वय उक्ते भगवतः शासनं सुविशुद्धम् । परमार्थतस्तु विद्वान् न विशिष्यते । लोकसत्यतो बालैर्न विवदन्ते । सत्यद्वयं वदन् न शाश्वतोच्छेद [दृष्टौ] पतति । न पतति मिथ्यादृष्टौ सुखान्ते दुःखान्ते च । कर्मविपाकादि सर्वं सिध्येत् । लोकसत्यं बुद्धानां शासनविनयमूलम् । यदुत दानशीलयोर्विपाकः सुस्थान उपपत्तिः । अनेन धर्मेण तच्चित्तं दमयित्वा मार्गशासनं ग्राहयित्वा पश्चात्परमार्थसत्यमुपदिशति । एवं जिनशाअनमादावगाधगभीरम्- तद्यथा महासमुद्रः क्रमशो गभीरः । अतो लोकसत्यं वदन्ति । यो मार्गस्य लाभज्ञानं साधयति [स] परमार्थधर्मोपदेशार्हो भवति । यथा भगवत एवं चेतः परिवितर्क उदभुत्- परिपव्काः खलु राहुलस्य [भिक्षोः] विमुक्तिपरिपचनीया धर्माः यन्नूनमहं राहुलं उत्तर आस्रवानां क्षये विनयेयमिति । तद्यथा घ्राणपाकः तद्विनाशे सुखं जनने दुर्भेदनम् । एवं लोकसत्येन चित्तं दमयित्वाथ परमार्थज्ञानेन विनाशयति । उक्तञ्च सूत्रे- धर्माणां प्रविचयपूर्वकं निर्वाणं परिज्ञातव्यमिति । योगी पूर्वं धर्माः [किं] प्रज्ञप्तिसन्तः [किं वा] परमार्थसन्त इति ज्ञात्वा पश्चान्निरोधसत्यं साक्षात्करोति । क्लेशाः स्थूलसूक्ष्मक्रमेण निरुध्यन्ते । यथा केशरोमादिनिमित्तेन स्त्रीपुरुषादिनिमित्तं निरुध्यते । रूपादिनिनिमित्तेन केशरोमादिनिमित्तं निरुध्यते । ( स्स्स्_356 ) अथ शून्यतादिनिमित्तेन रूपादिनिमित्तं निरुध्यते । यथा कीलेन किलो ऽपनीयते । अतो लोकसत्यमुच्यते ।
लोकसत्येन मध्यमा प्रतिपत्साध्यते । कस्मात् । पञ्चस्कन्धाः सन्तानेन प्रवर्तन्त इति नोच्छेदः । क्षणिका इति न शाश्वतः । शाश्वतोच्छेदविनिर्मुक्त इति मध्यमा प्रतिपत् । यथोक्तं सूत्रे- लोकसमुदयं पश्यतः नास्तीति दृष्टिर्न भवति । लोकनिरोधं पश्यतः अस्तीति दृष्टिर्न भवति इति । अत उच्यते लोकसत्यम् । लोकसत्यतो भगवतः शासनं सर्वं सत्यमेव यदुत अस्त्यात्मा नास्त्यात्मा इत्यादि पर्यायाः । लोकसत्यतो ऽस्त्यात्मेति वदतो नास्त्यवद्यम् । परमार्थतो नास्त्यात्मेति वदतश्च सत्यम् ।
लोकसत्येन प्रतिदूषणं स्थाप्यते । परमार्थतस्तु प्रतिवचनम् । अस्ति वस्तुतः सत्त्व इति या दृष्टिः अयं महामोहः । नास्तीति यद्वचनं तदपि मोहतमसि पातयसि । कस्मात् । इयं भावाभावदृष्टिः शाश्वतोच्छेदात्मिका । येन योगिनो भावान्तान्निर्गम्य अभावान्ते पतन्ति । लोकसत्ये ऽसति केन निर्गमं लभेरन् । यदप्रतिलब्धशून्यताप्रज्ञो वदति नास्ति सत्त्व इति । इयं मिथ्यादृष्टिः । जननमरणवेदकः सत्त्वो नास्तीति वचनं हि मिथ्यादृष्टिः । यदि शून्यताबुद्धिप्रतिलाभी वदति नास्ति सत्त्व इति । न तदा दोषः । यथोक्तं सूत्रे- अर्हन्ती भिक्षुणी पापीयांसं मारमवोचत्-
किं नु सत्त्व इति प्रत्येषि मारदृष्टिगतं नु ते ।
शुद्धसंस्कारपुञ्जो ऽयं नेह सत्त्व उपलभ्यते ॥ इति ।
किञ्चाह-
कायो ऽयं स्कन्धसन्तानः शून्यश्चाप्यकिञ्चनः ।
मायावत् निर्मितवच्चापि प्राकृतानामक्षिमोहनः ॥
शल्यवद्गण्डवच्चापि सपत्नो ऽमित्रहारकः ।
दुःखं शून्यो निरात्मा च जातिव्ययविनाशनः ॥
इति ।
(पृ) सर्वस्यापि नास्ति यत्किञ्चन चित्तम् । कस्मात् केषाञ्चिन्मिथ्यादृष्टिरित्युच्यते केषाञ्चित्परमार्थदृष्टिरिति । (उ) यस्य पुरुषस्य शून्यतातत्त्वज्ञानं नोत्पन्नं तस्यास्त्यात्मेति मतिर्भवति । अतो नास्त्यात्मेति श्रुत्वैव सन्त्रासमुत्पादयति । यथाह भगवान्- ये बालाः पृथग्जनाः शून्यो नास्त्यात्मा, न पुनः करोति इति श्रुतवन्तः ते महाभीता भवन्ति । इति । अतो ज्ञायते अप्रतिलब्धशून्यताज्ञानः अस्त्यात्मेति मत्या निर्वाणाद्बिभेति । तदा मिथ्यादृष्टिर्भवति । प्रतिलब्धशुन्यताज्ञानस्तु नास्ति मूलत आगतिरिति प्रजानाति । तदा नास्ति किञ्चन भयमिति । अप्रतिलब्धशून्यतातत्त्वो नास्ति किञ्चनेतिदृ ष्ट्या दुर्गतौ पतति यदुतोच्छेददृष्टि[रूप]मिथ्यादृष्टिः । यो ऽयं लोकसत्यतो ऽस्त्यात्मेति प्रज्ञाय अस्ति कर्मफलमिति श्रद्दधानः पश्चात् संस्कारा अनित्या उत्पत्तिनिरोधलक्षणा इति भावयित्वा निरोधं साक्षात्करोति । [तस्य] आत्मबुद्ध्यभावे कामचित्तं निरुध्यते । स यदि नास्ति किञ्चनेति वचनं शृणोति । तदा नास्ति कश्चन दोषः । अत उच्यते लोकसत्यम् ।
केचित्तीर्थिका अपवदन्ति श्रमणो गौतमः परमार्थत आत्मानं दूषयतीति । अतो भगवानाह- लोकसत्यतो वदामि अस्ति सत्त्व इति । सम्यग्दृष्टिं प्रकाशयन् वदामि सन्ति सत्त्वाः सन्धावन्तः संसरन्त इति । इयं सम्यग्दृष्टिरिति वदामि । पृथग्जन मिथ्यामनस्कारान्निःसत्त्वे वस्तुसदिति वचनं, तन्मिथ्यामनस्कारस्य दूषणम् । न सत्त्वस्य दूषणम् । यथा घटादयः प्रज्ञप्त्योच्यन्ते । तत्र न रूपादयो घटाः । न रूपादिव्यतिरिक्तो घटः । एवं न रूपादयः स्कन्धाः सत्त्वः । नापि रूपादिव्यतिरिक्तः सत्त्वः । यथा रूपादीनुपादाय प्रज्ञप्तिमतिक्रामति । एवं निरोधलक्षणेन रूपादीनतिक्रामति । दृष्टान्तेनार्थः सुविभज्यते । यथा चित्रितः प्रदीपः प्रदीप इत्युक्तो ऽपि न प्रदिपवृत्तिको भवति । एवं घटो ऽस्तीति कथितो ऽपि न वस्तुसन् भवति । सन्ति पञ्चस्कन्धा इत्युक्ता अपि न परमार्थाः ॥
प्रज्ञप्तिस्थापनवर्ग एकचत्वारिंशदुत्तरशततमः ।
142 प्रज्ञप्तिलक्षणवर्गः
(पृ) कथं घटादयः प्रज्ञप्तितः सन्ति न वस्तुतः । (उ) (1) प्रज्ञप्तौ निमित्तप्रदर्शनमस्ति न परमार्थे । यथा वदन्ति इदं रूपं इदं घटरूपमिति । न वक्तुं शक्यत [इदं] रूपरूपमिति । नापि वक्तुं शक्यत इदं वेदनादिरूपमिति । (2) प्रदीपो रूपसहगमात् प्रज्वलतीति [वदन्ति] स्पर्शसहगमात्प्रदहतीति । परमार्थधर्मस्तु नैवं दृश्यते । कस्मात् । विज्ञानं नान्यसहगमाद्विजानातीति । वेदनापि नान्यसहगमाद्वेदयत इति । अतो ज्ञायते सहभावः प्रज्ञप्तिसन्निति । (3) अन्यधर्ममुपादाय प्रज्ञप्तिसन् सिध्यति । यथा रूपादीनुपादाय घटः । परमार्थधर्मस्तु नान्यधर्ममुपादाय सिध्यति । कस्मात् । यथा वेदना नान्यधर्ममुपादाय सिध्यति । (4) प्रज्ञप्तिश्च नानाधर्मवती । यथा प्रदीपः प्रकाशते प्रदहति च । नैवं दृश्यते परमार्थधर्मः । कस्मात् । यथा वेदना न वेदयते विजानाति च । (5) रथशब्दो रथाङ्गादिषु भवति । रूपादिशब्दस्तु न पदार्थे वर्तत । इत्येवं विभागः । रथाङ्गादयो रथसाधनाः प्रत्ययाः । न तत्रास्ति रथशब्दः । तथा च रथकारणे नास्ति रथधर्मः । तदुपादाय तु रथः सिध्यति । अतो ज्ञायते रथः प्रज्ञप्तिरिति । (6) रूपादिशब्देनोक्ता रूपादयो लभ्यन्ते । घटादिशब्देनोक्ता घटादयस्तु न लभ्यन्ते । अतो ज्ञायते घटादयः प्रज्ञप्तय इति । (7) प्रज्ञप्तौ चित्तं विक्षिपति, न समादधाति । यथा कश्चिदश्वं दृष्ट्वा वदति- अश्वं पश्यामीति । कश्चिदश्वकायं पश्यामीति । कश्चिच्चर्म पश्यामीति । कश्चिद्रोमाणि वा पश्यामीति । कश्चिद्वदति वीणाशब्दं शृणोमीति । कश्चित् तन्त्रीनादं शृणोमीति । कश्चिद्वदति कुसुमं जिघ्रामीति । कश्चित्कुसुमगन्धं जिघ्रामीति । कश्चिद्वदति सुरां पिबामीति । कश्चित्सुरारसं पिबामीति । कश्चिद्वदति पुरुषं स्पृशामीति, कश्चित् पुरुषकायं स्पृशामीति, कश्चित् पुरुषभुजं स्पृशामिति, कश्चित् पुरुषहस्तं स्पृशामीति, कश्चित् पुरुषस्याङ्गुलिं स्पृशामीति, कश्चित् पुरुषस्याङ्गुलिपर्व स्पृशामिति । मनोविज्ञानमपि सत्त्वादौ विक्षिपति यदुत कायः सत्त्वः चित्तं सत्त्व इति । एवं रूपादय एव घट अथवा रूपादिव्यतिरिक्तो घट इत्यादि । परमार्थवचने तु चित्तं समादधाति न विक्षिपति । रूपं पश्यामीति [वत्] शब्दमपि पश्यामीति न वक्तुं शक्यते ।
(8) ज्ञेयादौ [सर्व]मव्यपदेश्यमपि अस्तीत्युच्यते । [यत् व्यपदिश्यते] इयं प्रज्ञप्तिः यथा घटादयः । अतो ज्ञायते घटादयः प्रज्ञप्तिसन्त इति । कस्मात् । रूपादयो धर्मा ज्ञेयादावनभिधेया इति न व्यपदिश्यन्ते । यथा रूपादयः स्वलक्षणेन व्यवदेश्याः । न घटादयः स्वलक्षणेन व्यपदिश्यन्ते । अत इमे प्रज्ञप्तिसन्त इति ज्ञायते । (9) केचित् अस्तीति प्रज्ञप्तिलक्षणं वदन्ति । इदं लक्षणमन्यत्र वर्तते न प्रज्ञप्तौ । यथोक्तं सूत्रे- कर्म विदुषो ऽविदुषश्च लक्षणमिति । यः कायवाङ्मनोभिः कुशलं करोति स विद्वान् । यः कायवाङ्मनोभिरकुशलं कर्म करोति सो ऽविद्वान् । कायवाक्कर्म चत्वारि महाभूतान्युपादाय तिष्ठति । मानसं कर्म चित्तमाश्रयते । इमानि त्रीणि कथं विदुषो ऽविदुषश्च लक्षणम् । अतो ज्ञायते नास्ति प्रज्ञप्तेः स्वलक्षणम् । (10) प्रज्ञप्तिलक्षणमन्यत्र वर्तमानमपि न पुनरेकम् । यथोक्तम्- शल्यविद्ध इव रूप्यते इति । रूप्यत इति रूपलक्षणम् । वेदयत इति वेदनालक्षणे पुरुष उच्यते । यथाह भगवान्- विद्वान् मूढश्च सर्वः सुखं दुःखं वेदयते । विद्वान् सुखे दुःखे न काममुत्पादयति । बह्वादिनिमित्तोद्ग्रहणं संज्ञालक्षणमित्यपि पुरुष एवोच्यते । यथाह- प्रभामहं पश्यामि रूपमहं पश्यामीति । [संस्कृत]मभिसंस्करोतीति संस्कारलक्षणे ऽपि पुरुष एवोच्यते । यथाह- अयं पुरुषपुद्गलः पुण्योपगं संस्कारमभिसंस्करोति । अपुण्योपगं संस्कारमभिसंस्करोति । आनेञ्ज्योपगं संस्कारमभिसंस्करोतीति । विजानातीति विज्ञानलक्षणे ऽपि पुरुष एवोच्यते । यथाह- [क्षिप्रं] धर्मं विजानाति विज्ञो जिह्वा सूपरसं यथा । इति । अतो यदन्यत्रगतमुक्तमपि बहुलक्षणमुच्यते । इदं प्रज्ञप्तिलक्षणम् । रूपादि[स्व]लक्षणं नान्यत्रगतं नापि बहुलक्षणम् ।
(11) यो धर्मः सर्वेषामनुशयकरः स प्रज्ञप्तिसन् । परमार्थधर्मस्तु नानुशयकरः । अनुशया हि पुरुषं कुर्वन्ति । (12) प्रज्ञप्तौ च न ज्ञानोत्पादो भवति । पुरोवर्तिरूपादिषु ज्ञानोत्पादो भवति । तदुत्तरं मनोविज्ञानेन विकल्पयति घटमहं पश्यामीत्यादि । घटस्य ज्ञानमवश्यं रूपाद्यपेक्षम् । कस्मात् । रूपरसगन्धस्पर्शानुपादाय हि अयं घट इति व्यवहारः । परमार्थज्ञानन्तु न यत्किञ्चिदपेक्ष्य भवति ।
(13) प्रज्ञप्तौ च भवति संशयः यथा स्थाणुर्वा पुरुषो वा इति । रूपादिषु तु न संशयो भवति रूपं वा किं वा शब्द इति । (पृ) रूपादावपि संशयो भवति किमस्ति रूपं किं वा नास्ति रूपमिति । (उ) नेदं युक्तम् । रूपं पश्यन् नैव संशेते अयं शब्द इति । अन्यस्मात् कारणात् संशयो भवति किमस्ति रूपं किं वा नास्ति रूपमिति । यथा रूपं शून्यमिति श्रुत्वा पुना रूपं पश्यन् संशेते किमस्ति किं वा नास्तीति । निरोधसत्यं पश्यतो ऽयं संशयः प्रहीयते । (पृ) निरोधसत्ये ऽपि संशयो भवति किमस्ति निरोधः किं वा नास्ति निरोध इति । (उ) अभिनिविष्टेषु संशयो भवति न तु निरोधसत्ये । अस्ति निरोध इति मतं नास्ति निरोध इति मतञ्च यः शृणोति तस्य भवति संशयः किमस्ति किं वा नास्तीति । स तदा न निरोधसत्यं पश्यति । कस्मात् । निरोधसत्यं पश्यतो न पुनः संशयो भवति । अतो ज्ञायते संशयोत्पादस्थले प्रज्ञप्तिरस्ति ।
(14) एकस्मिन् वस्तुनि बहुविज्ञप्त्युत्पत्तिलाभे प्रज्ञप्तिरस्ति । यथा घटादौ । परमार्थधर्मे तु न तथा । कस्मात् । रूपादौ न भवन्ति श्रोत्रादिविज्ञप्तयः । (15) बह्वायतनसङ्गृहीतं प्रज्ञप्तिसत् । यथा घटादयः । अतः केचिद्वदन्ति प्रज्ञप्तिसत् चतुर्महाभूतसङ्गृहीतम् । परमार्थधर्मस्तु न बह्वायतनसङ्ग्रहं लभते । (16) यत् निःस्वभावं सत् क्रियासमर्थं भवति । इदं प्रज्ञप्तिसत् । यथा पुरुषः करोतीति । पुरुषस्वभावः कर्मस्वभावश्च न परमार्थ उपलभ्यते । स्नेहद्वेषादिविकल्पो यः कश्चन स सर्वः प्रज्ञप्तिसन् । न परमार्थसन् । कस्मात् । रूपादिधर्माणां साक्षाद्दर्शने न स्नेहद्वेषादिसंज्ञोत्पद्यते । (17) गम्यते आगम्यत इत्यादि, उच्छिद्यते विनश्यति इत्यादि, दाह्यते ( स्स्स्_361 ) प्रदाह्यते इत्यादि या काचन क्रिया सर्वा सा प्रज्ञप्तिसती । न परमार्थसती । कस्मात् । परमार्थधर्मास्यादाह्यत्वात् । अविनाश्यत्वात् । पुण्यपापादिकर्म सर्वं प्रज्ञप्तिसत् । कस्मात् । प्राणातिपातादि पापं प्राणातिपातविरत्यादि पुण्यं सर्वं न परमार्थसत् । (18) प्रज्ञप्तिसदापेक्षिकम्- यथा इदं, तत्, गुरु लघु, दीर्घं ह्रस्वं, महदल्पं, आचार्यः अन्तेवासी, पिता पुत्रः आर्य अनार्य इत्यादि । परमार्थस्तु नापेक्षिकः । कस्मात् । रूपं नान्यपदार्थमपेक्ष्य शब्दादीन् साधयतीति । न शून्यतया प्रज्ञप्तिखण्डनं प्रज्ञप्तिसत् । यथा वृक्षान् निश्रित्य वनं खण्ड्यते । मूलकाण्डं निश्रित्य वृक्षः खण्डयते । रूपादि निश्रित्य मूलकाण्डं खण्ड्यते । तथा शून्यतया यत् खण्डनं तत्तु परमार्थसत् । यथा रूपादि शून्यतया खण्ड्यते ।
(19) शून्यताचार्यायतनानुवर्तनं प्रज्ञप्तिसत् । नैरात्म्यचर्यायतनानुवर्तनन्तु परमार्थसत् । (20) सन्ति चत्वारो वादाः- एकत्वं, नानात्वं, अनिर्वचनीयत्वं, अभाव इति । एते चत्वारो वादाः सावद्याः । अतो ज्ञायते घटादयः प्रज्ञप्तिसन्त इति ।
एकत्वम्- रूपरसगन्धस्पर्शा एव घट इति । नानात्वम् रूपादीन् विहायान्यो ऽस्ति घट इति । अनिर्वचनीयत्वम्- रूपादय एव वा घटः किं वा तद्वयतिरिक्तो घट इति न निर्वक्तुं शक्यते । अभावः- नास्त्ययं घट इति । इमे चत्वारो वादा अयुक्ताः । अतो ज्ञायते घटः प्रज्ञप्तिरिति ।
प्रज्ञप्तिलक्षणवर्गो द्विचत्वारिंशदुत्तरशततमः ।
143 एकत्वखण्डनवर्गः
(पृ) एषामेकत्वादीनां चतुर्णां वादानां के दोषाः । (उ) एकत्ववादे दोषो यदुत रूपादीनां धर्माणां लक्षणं प्रत्येकं विभक्तम् । यदि घट एकः, तदा न सम्भवति । रूपादीनि नैकैकं पृथिवीधातुरित्युच्यन्ते । तत्समवायः कथं पृथिवी भवेत् । कस्मात् । यद्येकैको ऽश्वो न गौर्भवति । तत्समवायः कथं गौर्भवेत् । (पृ) यथा एकैकं तिलं न कलापं साधयति । तत्समवायस्तु साधयति । एवं रूपादीन्येकैकं न पृथिवीं साधयन्ति । तत्समवायस्तु साधयति । (उ) न युज्यते । कस्मात् । तिलकलापः प्रज्ञप्तिसन् । एकत्वादि तु परमार्थधर्मे विचार्यते । इति कथं दृष्टान्तः स्यात् ।
रूपरसगन्धस्पर्शाश्चत्वारो धर्माः । पृथिवी तु एकधर्मः । न चत्वार एकः स्यात् । यदि चत्वार एकः । एको ऽपि चत्वारः स्यात् । तत्तु न सम्भवति । अतो ज्ञायते रूपादय एव न पृथिवीति । लौकिका वदन्ति- पृथिवीरूपं पृथिवीगन्धः पृथिवीरसः पृथिवीस्पर्शं इति । न पश्यामो रूपरूपमिति वदन्तं यं कञ्चन । अन्यधर्मलक्षणेनावश्यं प्रदर्श्यते- यथा अमुकस्य पुरुषस्य कुटीति । (पृ) इदं नान्यधर्मलक्षणेन प्रदर्शनं, स्वधर्मेणैव स्वात्मप्रदर्शनम् । यथा शिलापुरुषस्य हस्तपादमिति । कस्मात् । न हि हस्तपादव्यतिरिक्तः शिलापुरुषो ऽस्ति । एवं रूपादिव्यतिरिक्ता पृथिवी यद्यपि नास्ति । तथापि स्वात्मरूपेणैव स्वात्मप्रदर्शनं [इति वदतः] को दोषः । (उ) यद्युच्यते पृथिवी रूपादिना स्वात्मानमेव प्रदर्शयतीति नायं न्यायो भवति । शीलापुरुषदृष्टान्तो यद्यपि भवतोक्तः । स दृष्टान्तस्तु न युक्तः । कस्मात् । शिलापुरुषस्य हस्त इति प्रदर्शने तदन्यः कायः शिलापुरुष इति स्यात् । शून्यतायामपि च अस्तीत्यभिधीयते । यथा वदन्ति शिलापुरुषस्य काय इति । तस्मिन् समये शिलापुरुष एव न पुनस्तदन्यो ऽस्तीत्युच्यते । यथा भगवानाह- सन्त्यस्मिन् काये केशा रोमाणि रक्तं मांसं इत्यादि । तानि केशादीनि विहाय नास्त्यन्यः कायः । केशादीनां निश्रयस्थानमिदं पृथगसदपि [अस्तीति] अभिधीयते । अतो ज्ञायते शिलापुरुष इति वचनमपि मृषावचनम्, इति । यदि शिलापुरुषदृष्टान्तेन पृथिवीं साधयसि । तथापि नास्ति पृथिवी । भवतां सूत्रे उक्तं- रूपरसगन्धस्पर्शवती पृथिवीति । इयं पृथिव्येव नास्ति कायवत् । अतो ज्ञायते रूपरसगन्धस्पर्शा एव, नैवास्तीयं पृथिवीति ।
गुणानाञ्च न लक्षणं प्रदर्शयितुं शक्यते । रूपं गन्धवदिति न वक्तुं शक्यते । रूपरसगन्धस्पर्शवती पृथिवी इति तु वक्तुं शक्यते । अतो नैकत्वमिति । रूपादिबुद्धिः पृथिवीबुद्धिश्च पृथक् । अतो ज्ञायते रूपादीनि न पृथिवीति । अन्यद्रूपादीनां नाम अन्यत् पृथिव्या नाम । (पृ) बुद्धिभेदो नामभेदश्च सर्वः संयोगे भेदवान् । (उ) यदि बुद्धिर्नामसंयोगमात्रेणास्ति । [तदा] संयोगो नाममात्रं भवेत् । तथा च पृथिवी नाममात्रमस्ति । इति नास्त्येकत्ववादः ।
पृथिवी स सर्वेन्द्रियज्ञेया भवति । केनेदं ज्ञायते । पुरुष एवं चिन्तयति- पृथिवीं पश्यामि, पृथिवीं रसयामि, पृथिवीं स्पृशामि इति । यदि रूपरसगन्धस्पर्शाः पृथिवी । न ( स्स्स्_363 ) स्यात् रूपमात्रे पृथिवीं पश्यामीति पृथिवीसंज्ञा । गन्धादावप्येवम् । वस्तुतस्तु न रूपमात्रे पृथिवी ज्ञायते । अतो ज्ञायते न रूपादीन्येव पृथिवीति । प्रज्ञप्तिसंज्ञाकारणे एकस्मिन्नवयवे च प्रज्ञप्तिसंज्ञाभिधीयते । यथा कश्चिद् वृक्षशाखां छिन्दन् वदति- वृक्षं छिन्दामि, वनं छिन्दामीति च । गुणानां सीमानि द्रव्याणि अन्यानि । तत्र यद्यस्ति कारणम् । नानेन सिध्यति एकत्ववादः ।
सांख्याः पुनराहुः- पञ्च गुणाः पृथिवीति । तदप्ययुक्तम् । कस्मात् । यथा पूर्वमुक्तं- शब्दो रूपादिव्यतिरिक्तः क्षणिकः सन्तानप्रवृत्तः । न चतुर्महाभूतसाधनहेतुरिति । अतो ज्ञायते न सर्वाणि भौतिकानि शब्दवन्तीति ॥
एकत्वखण्डनवर्गस्त्रिचत्वारिंशदुत्तरशततमः ।
144 नानात्वखण्डनवर्गः
(पृ) नानात्ववादे के दोषाः । (उ) रूपादीन् विहाय नास्ति पृथिवी । कस्मात् । केन तत् ज्ञायते । न हि रूपरसगन्धस्पर्शान् विहाय पृथिवीबुद्धिरुत्पद्यते । रूपादिधर्मेष्वेवोत्पद्यते । कस्मात् । यथा अन्यत् रूपं अन्ये शब्दादयः । न च शब्दादीनपेक्ष्य रूपबुद्धिरुत्पद्यते । यदि रूपादिव्यतिरिक्ता पृथिवी । रूपादीन्यनपेक्ष्यापि पृथिवीबुद्धिः स्यात् । न वस्तुतस्तान्यनपेक्ष्य भवति । अतो नास्ति पृथिवी पृथक् । (पृ) नान्यधर्ममनपेक्ष्य भवति । अवश्यं रूपलक्षणमपेक्ष्य रूपबुद्धिर्भवति । (उ) सामान्यलक्षणखण्डनवर्गे वक्ष्यते । न रूपव्यतिरिक्तं रूपलक्षणं पृथगस्तीति । अतो न युज्यते ।
पृथिव्यादिपृथग्धर्मस्य नेन्द्रियं ज्ञापकम् । अतो ज्ञायते न पृथक् सन्ति पृथिव्यादयो धर्मा इति । (पृ) पृथिव्यादयो द्वीन्द्रियग्राह्या यदुत कायेन्द्रियग्राह्याश्चक्षुरिन्द्रियग्राह्याः । केन तत् ज्ञायते । चक्षुषा दृष्ट्वा जानीमो ऽयं घट इति । कायेन्द्रियेण स्पृष्ट्वापि जानीमः अयं घट इति । अतो नेन्द्रियग्राह्या इति भवतो वचनमयुक्तम् । (उ) तथा चेत् घटो ऽयमिन्द्रियचतुष्टयग्राह्यः स्यात् । घ्राणेनापि मृत जिघ्र्यते । रसनयापि मृत् रस्यते । (पृ) घ्राणरसनाभ्यां न गृह्णाति घटम् । कस्मात् । न ह्यन्धकारे विवेचयति घटो वा जिघ्रयते कपालं वा । घटो वा रस्यते कपालं वा इति । (उ) यद्यपि न विवेचयति किं घट उत कपालमिति । तथापि मृदि ज्ञानं भवति मृदं ( स्स्स्_364 ) जिघ्रामि, मृदं रसयामीति । यदि घट उद्गतमुखं खन्यते । तदा दृष्ट्वा स्पृष्ट्वा वा न निर्धारयति किमयं घट शरावः किं वा घतशकलमिति । अतो ज्ञायते चक्षुरिन्द्रियं कायेन्द्रियञ्च न घटं गृह्णीयात् इति । अन्धकारे घटबुद्धिरुत्पन्नापि न विवेचयति सुवर्णघटो रजतघटो वा इति । अतो ज्ञायते चक्षुरिन्द्रियं कायेन्द्रियमपि न घटं गृह्णीयात् । घ्राणेन्द्रियं जिह्वेन्द्रियं पुष्पफलक्षीरसुरादीन् धर्मान् गृह्णाति । चक्षुरिन्द्रियं कायेन्द्रियन्तु न गृह्णाति । यथा [चक्षुः] पुष्पादि पश्यति न विविच्य जानाति गन्धः सुरभिरसुरभिर्वा रसो मधुरो ऽमधुरो वा इत्यादि । अतो यदि मतं चक्षुःकायेन्द्रियाभ्यां जानीमो द्रव्यं न घ्राणजिह्वाभ्यामिति । नेदं सम्भवति । यथा घ्राणजिह्वे द्रव्यं पृथक्कृत्य न विकल्पयतः । तथा चक्षुःकायेन्द्रिये अपि द्रव्यमपृथग्भूतमपि न विकल्पयतः ।
पञ्चेन्द्रियेषु प्रज्ञप्तिग्राहकं ज्ञानं नास्ति । अतो ज्ञायते प्रज्ञप्तिर्न चक्षुःकायघ्राणजिह्वेन्द्रियैर्लभ्यते । षष्ठस्य त्वस्ति प्रज्ञप्तिज्ञापकं ज्ञानम् । कस्मात् । मनोविज्ञानस्य सर्वधर्मालम्बनत्वात् । चक्षुर्यदि रूपं पश्यति अरुपञ्च पश्यति । तदा शब्दादीनमपि पश्येत् । तथा चेत् श्रोत्रादीनीन्द्रियाणि नावश्यकानि स्युः । न तु सम्भवति । अतश्चक्षुःकायेन्द्रियाभ्यां न द्रव्यं गृह्यते । (पृ) रूपेण द्रव्योपलब्धौ चक्षुः पश्यति । न तु सर्वो रूपात्पृथग्भूतो धर्मो दृश्यः । (उ) रूपेण घटोपलब्धिरितीदं न युज्यते । कस्मात् । कः करोति घटरूपम् । संयोगमात्रमिदम् । अतो न रूपेण घटोपलब्धिः । यदि च दृश्यधर्मेण तदन्यधर्म उपलभ्य दृश्यो भवति । घटादिनादृश्यधर्मेण रुपोलब्धिरिति रूपमपि अदृश्यं स्यात् । घटो ऽपि द्विविधः स्यात् दृश्यो ऽदृश्य इति । दृश्यधर्मस्यादृश्योपलब्ध्यर्थत्वात् । यद्यवश्यं रूपादिधर्मस्योपलब्धत्वात् चक्षुरादीन्द्रयग्राह्यमिति । [तदा] रूपलक्षणं चक्षुरिन्द्रियग्राह्यमिति न स्यात् । कस्मात् । भवतां सूत्रे रूपमुपादाय (=रूपहेतुकं) इन्द्रियेण रूपं दृश्यमितीदं रूपलक्षणं पुनरलक्षणं भवति । तथा तु रूपलक्षणमदृश्यमिति स्यात् । अतो न युज्यते ।
यदि रूपोपलब्ध्या दृश्यमिति । [तर्हि] सर्वाणीन्द्रियाणि द्रव्यं जानीयुः । श्रोत्रेन्द्रियमपि आकाशं जानीयात् शब्दोपलम्भात् । कायेन्द्रियेण वायुं जानीयात् स्पर्शोपलम्भात् । ( स्स्स्_365 ) भवतां मते तु न युज्यते । अतो नेदं धर्ममुपलम्भयति । (पृ) अन्ये धर्मा नोपलब्धिकराः । रूपमात्रमुपलब्धिकरम् । (उ) मैवम् । न तत्रास्ति विनिगमना रूपमात्रमुपलब्धिकरं नान्ये धर्मा इति । यथा भवानाह महत्यनेकद्रव्यवत्त्वात् रूपाच्चोपलब्धिरिति । एवं रूपहेतुकं रूपमुपलभ्यते । रूपलक्षणोपलम्भेन रूपं तदुत्तरमुपलभ्यम् । न रूपमात्रमुपलब्धिकरमिति । एवमुक्ते [ऽपि] न पूर्वोक्तदोषपरिहारः ।
अन्यकालं रूपबुद्धिरुत्पद्यते अन्यकालञ्च घटबुद्धिः । अतो रूपात् घटोपलम्भे क उपकारः । यथा अन्धो ऽभ्यस्तघटपरिमाणो विनष्टचक्षुष्को ऽपि स्पृष्ट्वा घटं जानाति । अतो न रूपमात्रं दर्शनस्य कारणम् । अन्धः कायेन्द्रियेण च वायुं जानाति । अतो न रूपमात्रोपलम्भात् ज्ञानमुत्पद्यते । भवतां सूत्रे ऽप्युक्तम्- कायागतस्पृष्टः स्पर्शो न पृथिव्यप्तेजसांमिति ज्ञातव्यम्- अदृष्टलिङ्गो वायुरिति । तदप्ययुक्तम् । कस्मात् । अन्ध इमं वायुं जानन्नपि न जानाति वायुरयं किं दृश्यः किंवा अदृश्य इति । पुरुषश्चक्षुषा संख्यापरिमाणादीन् धर्मान् पश्यति । न तत्रास्ति रूपोपलब्धिः । गन्धमाघ्रायापि अगन्धधर्मे ज्ञानं लभते । रसं रसयित्वापि अरसधर्मे ज्ञानं लभते । अतो ऽवश्यं रूपोलम्भेन द्रव्यं तदूर्ध्व ज्ञेयमितीदमयुक्तम् ।
(पृ) यदि रूपोपलम्भो दर्शनस्य न कारणम् । ये संख्यापरिमाणादयो धर्माः [ते] अदृश्यद्रव्यगताः, वायुश्च दृश्यः स्यात् । (उ) अस्मन्मते रूपं विहाय नास्त्यन्यो धर्मो दृश्यः । अतो ज्ञायते मते [ऽस्मिन्] यत्र रूपमुत्पन्नमस्ति तत्र चक्षुः पश्यति । चक्षुषा दृष्टरूपस्यैव घटसंज्ञा भवति । यस्मिन् धर्मे नास्त्युत्पन्नं रूपम्, तत्र सचक्षुष्कस्यापि नोत्पद्यते ऽन्यघटसंज्ञा । अतो रूपदि विहाय पृथगस्ति घट इतीदं न न्याय्यम् ॥
नानात्वखण्डनवर्गश्चतुश्चत्वारिंशदुत्तरशततमः ।
145 अनिर्वचनीयत्वखण्डनवर्गः
(पृ) अनिर्वचनीयत्वे के दोषाः । परमार्थधर्मो नैकत्वनानात्वाभ्यामनिर्वचनीयः । कस्मात् । न हेतुदृष्टान्तौ स्तः इदमनिर्वचनीयमिति ज्ञापयितुम् । रूपादयो धर्माः परमार्थसन्तः । अतो नानिर्वचनीयाः । धर्माः प्रत्येकं सस्वलक्षणाः । यथा रूपणलक्षणं रूपम् । न नानात्वलक्षणम् । कथमुच्यते ऽनिर्वचनीयमिति । विज्ञानविशेषाद्धर्मविशेषः । यथा चक्षुर्विज्ञानेन रूपं ज्ञायते, न शब्दादि । अतो ऽस्य नानिर्वचनीयता । रूपं रूपायतनसङ्गृहीतं न शब्दादिसङ्गृहीतम् । यद्यनिर्वचनीयत्वमिच्छसि । इदं रूपमिदं रूपमिति निर्वचनीयमस्ति । रूपमिदमरूपमिदमिति अनिर्वचनीयम् । एवं शब्दादयो ऽपि । धर्माणां क्रमः संख्या चास्ति । यद्यनिर्वाच्याः । तदा धर्मा असंख्याः स्युः । कस्मात् । प्रथमं द्वितीयमिति लक्षणभेदस्याभावात् । अतो ज्ञायते परमार्थतो नानिर्वाच्याः धर्माः प्रज्ञप्तावेव एकत्वनानात्वसत्वादुच्यते ऽनिर्वाच्य इति ॥
अनिर्वचनीयत्वखण्डनवर्गः पञ्चचत्वारिंशदुत्तरशततमः ।
146 अभावखण्डनवर्गः
(पृ) अभाववादे के दोषाः । (उ) अभावत्वे न पुण्यपापादीनां विपाको विमुक्त्यादयः सर्वे धर्माः । विद्यमानं नास्तीति ग्रहे स ग्रहो ऽपि अभावः स्यात् । वक्तुः श्रोतुश्चाभावात् । अस्ति नास्तीति वादाः श्रद्धयोक्ताः प्रत्यक्षज्ञानश्रद्धया वा भवन्ति अनुमितिज्ञानश्रद्धया वा भवन्ति । सूत्रम्रन्थानुसारेण वा भवन्ति । यत्किञ्चन नास्तीति यत् वचनं तदेषु त्रिषु न भवति । सूत्रं वानुसराम इति भवतामाशयो [यः] नायं युज्यते । सूत्राशयो ऽपि दुःसंवादः । कदाचिदस्तीत्याह कदाचिन्नास्तीत्याह । कथं श्रद्धां गृह्णीमः । यद्यनुमानज्ञानं श्रद्दध्यात् । अवश्यं प्रत्यक्षपूर्वकमनुमितिज्ञानं भवेत् । घटादयो धर्मा इदानीं प्रत्यक्षदृष्टाः सन्ति । ज्ञानजनकत्वात् । यो ज्ञानजनकः धर्मो ऽस्ति नाभाव[रूपः] ।
इदानीं घटशरावादयः सविशेषा दृश्यन्ते । यदि सर्वे ऽभावाः । कः सविशेषः स्यात् । मिथ्यासंज्ञया सविशेषा इति भवतां मतम् । कस्मात् आकाशे घटादीन् न विकल्पयति । मोहात्पदार्थबुद्धिरुत्पद्यत इति भवतां मतम् । सर्वेषामभावत्वे मोहो ऽप्यभावः स्यादिति केन प्रवर्तेत । सर्वे धर्मा अभावा इति भवत आशये ज्ञानमिदं किं प्रतीत्य भवति । न हि ज्ञानान्यभावप्रत्ययेनोत्पद्यन्ते । पदार्थान् जानातीति ज्ञानम् । नेदं ज्ञानमभाव इति वाच्यम् । यद्यत्यन्ताभावा इति । तदा सर्वे जना यथाभिप्रेतं यत्किञ्चन कुर्युः । किन्त्वार्या दानशीलक्षान्त्यादिकुशलकर्माभिरता अकुशलधर्मविविक्ताश्च भवन्ति । अतो ज्ञायते नाभावा इति । घटादयो धर्माः प्रत्यक्षज्ञेयाः । भवांस्त्वाह- प्रत्यक्षं सर्वमभावरूपमिति । अभावधर्मकत्वाच्च न सूत्रे श्रद्दधीत । तथा च केन कारणेनाह- सर्वमभाव इति । अतः सर्वमभाव इतीदं [न] स्पष्टं भवेत् । यदि कारणेन न प्रकाशयति [तदा] परगृहीतं प्रकृतितः सिध्येत् । परवादस्य सिद्धत्वात् भवतां धर्मो विनश्येत् । यो भावः कारणेन साध्यः न सो ऽभाव इत्युच्यते ॥
अभावखण्डनवर्गः षट्चत्वारिंशदुत्तरशततमः ।
147 अभावस्थापनवर्गः
अभाववाद्याह- यद्यपि वचसा शून्यतां खण्डयसि । तथापि धर्मांः परमार्थतो ऽभावाः । इन्द्रियैर्विषयाणामनुपलम्भात् । कस्मात् । न ह्यस्ति धर्माणामवयवी ग्राह्यः । अतः सर्वे धर्मा अग्राह्याः । अग्राह्यादभावा[त्मकाः] । अवयविन्यग्राह्ये ऽपि अवयवा ग्राह्या इति भवतो यन्मतम् । तन्न युक्तम् । नावयवेषु बुद्धिर्भवति । कस्मात् । स्थूलघटादीनां पदार्थानामेव ग्राह्यत्वात् । न चावयवा अवयविनं कुर्वन्ति । कस्मात् । अवयविनमुपादाय हि अवयवा उच्यन्ते । अवयविनो ऽभावादवयवा अपि न सन्ति । द्रव्येषु गुणेषु असत्सु नावयवाः सन्ति । अतो न सन्त्यवयवाः । सूक्ष्मावयवान् पश्यतो ऽवयवबुद्धिः सदा भवति न घटबुद्धिः । कस्मात् । अवयवान् नित्यं स्मरतो घटबुद्धिर्नैव भवेत् । यद्यवयवस्मरणपूर्वकं घटबुद्धिर्भवति । तदा घटबुद्धिर्विलम्ब्य भवेत् । न वस्तुतो विलम्ब्य ( स्स्स्_368 ) भवति । अतो नावयवाः स्मर्यन्ते । घटं दृष्ट्वा यन्नावयवविकल्पबुद्धिर्भवति सैव घटबुद्धिः ।
सर्वे चावयवा अभावा[त्मकाः]ः । कस्मात् । सर्वेह्यवयवा अवयवशो भिद्यमाना अणुतां यान्ति । अणुशो भिद्यमाना अत्यन्ताभावतां प्रतियन्ति । सर्वेषां धर्माणां निष्ठा शून्यताबुद्धिजननमवश्यम् । अतो ऽवयवाः परमार्थतो ऽभावत्मकाः । अवयववादिनः सत्यद्वयभङ्गः स्यात् । कस्मात् । यो वदति नास्त्यवयवी केवलमवयवाः सन्तीति । तस्यातीतागामिदर्शनप्रहाणादीनि कर्माणि न स्युः । एवञ्च लोकसत्यं नास्ति । भवान् परमार्थं शून्यतां मन्यते । परमार्थे चाभावात्मका अवयवाः । अतो ज्ञायते अवयवमात्रवचनं न सत्यद्वये ऽवतारयति । सत्यद्वये ऽनवतारादभावः ।
यो धर्मो ऽपनेयः सो ऽभाबात्मकः । यथा अवयवानुपादाय अवयवी निराक्रियते । अवयवान्तराण्युपादाय पूर्वावयवा निराक्रियन्ते । अतो ऽयमवयववादो ऽभावात्मकः । रूपादीन्यपि अभावात्मकानि । कस्मात् । न हि चक्षुः सूक्ष्मं रूपं पश्यति । न च मनो गृह्णाति प्रत्युत्पन्नं रूपम् । अतो रूपमग्राह्यम् । चक्षुर्विज्ञानं न विकल्पयति इदं रूपमिति । मनोविज्ञानन्तु अतीते अनागते वर्तते न रूपे वर्तते । अतो नास्ति किञ्चिद्रूपविकल्पकम् विकल्पकाभावाद्रूपमग्राह्यं भवति । नाद्यविज्ञानं रूपं विकल्पयति । तथा द्वितीयादिविज्ञानान्यपि । अतो नास्ति किञ्चिद्रूपविकल्पकम् ।
(पृ) चक्षुर्विज्ञानेन रूपे गृहीते ततो मनोविज्ञानमनुस्मरति । अतो न नास्ति विकल्पकमिति । (उ) चक्षुर्विज्ञानं रूपं दृष्ट्वा निरुद्धमेव । तत ऊर्ध्वं मनोविज्ञानमुत्पद्यते । मनोविज्ञानमिदं न रूपं पश्यति । अदृष्ट्वा कथमनुस्मरेत् । यद्यदृष्ट्वानुस्मरेत् । अन्धो ऽपि रूपमनुस्मरेत् । न वस्तुतो ऽनुस्मरति । अतो मनोविज्ञानं नानुस्मरति । (पृ) चक्षुर्विज्ञानान्मनोविज्ञानमुत्पद्यते । अतो ऽनुस्मरति । (उ) मैवम् । कस्मात् । सर्वाणि चरमचित्तानि चक्षुर्विज्ञानमुपादाय समुत्पन्नानि अनुस्मरेयुः । नैव विस्मरेयुः । तस्मादुत्पन्नत्वात् । ( स्स्स्_369 ) न वस्तुतो युज्यते । अतो ज्ञायते मनोविज्ञानमपि नानुस्मरति । यथाकाशानुस्मरणम्, रूपघटादिग्रहः । सर्वे ऽपि पदार्थस्तुच्छा अभावात्मकाः मृषागृहीताः । अतः सर्वे पदार्था अभावात्मकाः ।
यदि वदसि चक्षुः पश्यतीति । किं रूपं प्राप्य पश्यति किं वाप्राप्य पश्यति । यदि प्राप्य [पश्यतीति] तदा न पश्यति । चक्षुर्नातीतलक्षणमितीदं पूर्वमेव प्रतिपादितम् । यद्यप्राप्य पश्यतीति । तदा सर्वस्थं रूपं पश्येत् । न वस्तुतः पश्यति । अतो ज्ञायते नाप्राप्य पश्यतीति । (पृ) रूपं ज्ञानगोचरगतं चक्षुः पश्यति । (उ) को नाम ज्ञानगोचरः । (पृ) यस्मिन् काले चक्षुः पश्यति । [स]ज्ञानगोचरः इत्युच्यते । (उ) यदि चक्षुरप्राप्तमपि ज्ञानगोचर इत्युच्यते सर्वस्थं रूपं ज्ञानगोचरः स्यात् । अतः प्राप्याप्राप्योभयथा न पश्यति । अतो ज्ञायते रूपमदृश्यमिति । यदि सति पूर्वमेव चक्षुषि रूपे च पश्चाच्चक्षुर्विज्ञानमुत्पद्यते । तदेदं चक्षुर्विज्ञानं निराश्रयं निष्प्रत्ययञ्च स्यात् । यद्येककाल[मुत्पद्यते] तदा न चक्षूरूपप्रत्ययं चक्षुर्विज्ञानमित्याख्यायते । ऐककालिकयोर्मिथो हेतुत्वाभावात् ।
किञ्च चक्षुश्चतुर्महाभूत[मयम्] । यदि चक्षुः पश्यति । श्रोत्रादीन्यपि पश्येयुः । चतुर्महाभूतसाम्यात् । एवं रूपमपि [पश्येत्] । चक्षुर्विज्ञानं स्यात् सायतनं निरायतनं वा । उभयथास्ति दोषः । तथा हि- यदि च चक्षुर्विज्ञानं चक्षुराश्रितं, तदा सायतनम् । यदि पदार्थो निरायतनः तदा आश्रित्य तिष्ठतीति न लभ्यते । यदि ब्रवीषि विज्ञानं चक्षुषो ऽल्पभाग उत्पद्यते यदि वा व्याप्योत्पद्यते । यदि वोभयोश्चक्षुषोरेककालमुत्पद्यते । तदा सायतनं भवति । सायतनत्वे सावयवम् । एवं सति बहुभिर्विज्ञानैरेकं विज्ञानं सिध्यति । इत्ययं दोषः । बहूनां विज्ञानानामैककालिकत्वदोषश्चास्ति । एकैकविज्ञानावयवो न विजानाति अवयवी तु विजानाति । वस्तुतस्तु नास्त्यवयवी इत्ययं दोषः । यदि निरायतनं, तदा न चक्षुराश्रितं स्यात् ॥
अभावस्थापनवर्गः सप्तचत्वारिंशदुत्तरशततमः ।
148 शब्दखण्डनवर्गः
अभाववाद्याह- एकत्वग्रह एव नास्ति । कस्मात् । चित्तं हि क्षणिकम् । शब्दो ऽपि क्षणिकः । यथा वदन्ति पुरुष इति । अय [मेकत्व]वादो न श्राव्यः । कस्मात् । "पु" श्रवणमनु विज्ञानं न "रुं" शृणोति । "रुं" श्रुत्वा शृणोति षम् । इति नास्त्येकं विज्ञानमक्षरत्रयग्राहकम् । अतो नास्ति विज्ञानमेकत्ववादग्राहकम् । अतो ज्ञायते शब्दो न श्राव्य इति । विक्षिप्तचित्तः शब्दं शृणोति । समाहितचित्तस्तु न शृणोति । समाहितचित्तेन तत्त्वं ज्ञेयं भवति । अतः शब्दो न श्रवणीयः । शब्दो ऽयं प्राप्य अप्राप्य वा उभयथापि न श्रवणीयः । उभयथाप्यश्रवणीयत्वान्नास्ति शब्दः ।
केचिदाहुः- श्रोत्रमाकाशस्वभावमिति । तम्य पदार्थाभावरूपत्वात् आकाश इत्याख्या । अतो नास्ति श्रोत्रम् । श्रोत्राभावात् शब्दो नास्ति । शब्दकारणं नास्तीत्यतः शब्दो नास्ति । शब्दकारणं महाभूतसंश्लेषः । अयं संश्लेषधर्मो नोपलभ्यते । कस्मात् । ये धर्मा विभिन्नस्वभावाः, न ते संश्लिष्यन्ते । ये न विभिन्नस्वभावाः, कथं तेषां स्वतः संश्लेषः । एकत्र स्थितमपि क्षणिकम् । अतो न संश्लेषो लभ्यते ।
शब्दखण्डनवर्गो ऽष्टचत्वारिंशदुत्तरशततमः ।
149 गन्धरसस्पर्शखण्डनवर्गः
न गन्धो ग्राह्यः । कस्मात् । न हि घ्राणविज्ञानं विकल्पयति । अयं चम्पकगन्धः इमे ऽन्ये गन्धा इति । मनोविज्ञान[मपि] न गन्धं जिघ्रति । तस्मान्मनोविज्ञानमपि न विकल्पयति चम्पकगन्धमिमम् । (पृ) यद्यपि चमपकगन्धमिमं न विकल्पयति । किन्तु गन्धं गृह्णात्येव । (उ) मैवम् । यथा कश्चिच्चम्पकवृक्षमलब्ध्वा मोहाच्चम्पकबुद्धिमुत्पादयति । तथा गन्धमलब्ध्वा मोहाद्ग्रन्धबुद्धिमुत्पादयति । पूर्वोक्तवत् गन्धः प्राप्तो वा अप्राप्तो गृह्यत इत्युभयथास्ति दोषः । तस्मान्नास्ति गन्धः । तथा रसो ऽपि स्पर्शो ऽपि नास्ति । कस्मात् । सूक्ष्माद्यवयवेष्वेव स्पर्शज्ञानं नोत्पद्यत इति यथापूर्वं वक्तव्यम् । अतो नास्ति स्पर्शः ॥
गन्धरसस्पर्शखण्डनवर्ग एकोनपञ्चाशदुत्तरशततमः ।
150 मनोविज्ञानखण्डनवर्गः
मनोविज्ञानमपि धर्मान्न गृह्णाति । कस्मात् । मनोविज्ञानं हि न प्रत्युत्पन्नान् रूपरसगन्धस्पर्शान् गृह्णाति । [यत्] अतीतमनागतं तन्नास्तीति पूर्वमुक्तमेव । अतो मनोविज्ञानं न रूपादीन् गृह्णाति । (पृ) यदि मनोविज्ञानं रूपादीन् धर्मान् न जानाति । स्वात्मानं [वा] जानीयात् । (उ) न [कश्चित्] धर्मः स्वात्मानं जानाति । कस्मात् । न प्रत्युत्पन्ने स्वात्मवेदनं सम्भवति । तद्यथा असि[धारा] न स्वात्मानं छिनत्ति । अतीतानागतयोरसद्धर्मत्वात् नान्यच्चित्तमस्ति । अतो मनोविज्ञानं न खात्मानं विजानाति ।
(पृ) यदि कश्चित् परचित्तं जानाति । तदा तन्मनोविज्ञानं चैत्तधर्मं जानात्येव । (उ) यथा कस्यचित् चित्तं स्वात्मानमज्ञात्वापि चिन्ता भवति अहं चित्तवानिति । एवं परचित्ते ऽपि । यो ऽनागतधर्मो ऽभाव[रूपः] सो ऽपि ज्ञानजनकः । परचित्तमप्येवमिति चेत्को दोषः । धर्मालम्बनं मन इति [मतं] बहुधा दुष्टम् । यथा मनः प्राप्यालम्बते विजानाति । [वा] अप्राप्यालम्बते । मनश्च न रूपादीननुस्मरेत् । एभिर्दोषैर्न मनोविज्ञानं धर्मान् विजानाति ॥
मनोविज्ञानखण्डनवर्गः पञ्चाशदुत्तरशततमः ।
151 हेतुफलखण्डनवर्गः
अभाववाद्याह- यद्यस्ति फलम् । हेतौ पूर्वं सन् वा गुण उत्पद्येत । पूर्वमसन्[वा] गुण उत्पद्येत । उभयथा चास्ति दोषः । यथा द्वयोर्हस्तयोः पूर्वमसन् शब्दो भवति । दधिहेतौ पूर्वमसत् दधि, दधि उत्पादयति । शकटहेतौ पूर्वमसमत् शकटं, शकटमुत्पादयति । अतो न हेतौ पूर्वं सन् गुणः फलमुत्पादयति ।
भवतो यदि मतं हेतौ पूर्वमसन् गुणः फलमुत्पादयतीति । तदा रूपरहितवायुसूक्ष्मरेणू रूपमुत्पादयेत् । तथा चेत् वायू रूपवान् स्यात् । वज्रादीनां गन्धवत्ता स्यात् । दृष्टे पश्यामः खलु शुक्लतन्तुः शुक्लपटं साधयति । कृष्णतन्तुः कृष्णपटं साधयति । यदि ( स्स्स्_372 ) हेतौ पूर्वमसन् गुणः फलं साधयति । कस्मात् शुक्लतन्तुः शुक्ल[पट]मेव साधयति न कृष्णम् । अतो न हेतौ पूर्वमसन् गुणः फलमुत्पादयति ।
इमौ द्वावपि दृष्टान्तौ दुष्टौ । अतो नास्ति फलम् । यदि हेतौ सत्कार्यम्, तदा नोत्पद्येत । कथं सदुत्पद्येत । यद्यसत् । तदपि नोत्पद्येत । असत्कथमुत्पद्येत । (पृ) दृष्टे पश्यामः खलु घटं कियमाणम् कथं नास्ति घट इति । (उ) घटो ऽयं पूर्वमकृतः कथं करणीयः । तस्यैवाभावात् । यदि पूर्वं कृत एव । कथं करणीयः । तस्य सत्त्वात् । (पृ) क्रियमाणः क्रियत इत्युच्यते । (उ) नास्ति क्रियमाणम् । कस्मात् । यः कृतभागः स कृतकोटौ पतति । यो ऽकृतभागः [सो] ऽकृतकोटौ पतति । अतो नास्ति क्रियमाणम् । यदि घटः क्रियावान्, अतीतो ऽनागतः प्रत्युत्पन्नो वा स्यात् । अतीतो न क्रियावान् । निरुद्धत्वात् । अनागतो न क्रियावान् असत्त्वात् । प्रत्युत्पन्नो ऽपि न क्रियावान्, भूयमानत्वात् ।
कारकमुपादाय क्रियावतः कर्म सिध्यति । तत्र कारक एव वस्तुतो नोपलभ्यते । तथा हि । शीर्षाद्यवयवेषु क्रियावृत्त्यभावान्नास्ति कारकः । कारकाभावात् क्रियावृत्तिरपि नास्ति । हेतुः कार्यस्य पूर्वं वा, किं वा पश्चात्, किं वा समकालम्, सर्वथा न युज्यते । कस्मात् । यदि पूर्वं हेतुः पश्चात्कार्यम् । हेतौ निरुद्धे केन फलमुत्पद्येत यथा अविद्यमानः पिता कथं पुत्रमुत्पादयेत् । यदि पश्चाद्धेतुः पूर्वं फलम् । हेतुः स्वयमनुत्पन्नः कथं फलमुत्पादयेत् । यथा अनुत्पन्नः पिता कः पुत्रमुत्पादयति । यदि हेतुः फलञ्च समकालम् न तर्हि अयं न्यायः । यथा द्वे शृङ्गे युगपदुद्भूते नोच्येते वामदक्षिणे ऽन्योन्यहेतुके । सिद्धान्ता इमे त्रयो ऽपि अयुक्ताः । अतो नास्ति फलम् ।
हेतुफले इमे यद्येकं, यदि वा नाना । उभयथास्ति दोषः । कस्मात् । यदि नाना । तदा तन्तून् विहाय पटः स्यात् । यद्येकम् । तन्तुपटयोर्विभागो न स्यात् । लौकिका न पश्यन्ति कञ्चन धर्मं हेतुफलयोरपृथग्भावरूपम् ।
यद्यस्ति फलम् । स्यात् स्वकृतं परकृतमुभयकृतमहेतुकृतं वा । सर्वमिदमयुक्तम् । कस्मात् । न कश्चिद्धर्मः स्वात्मानं करोति । यद्यस्ति स्वरूपतः । किं स्वात्मक्रियया । यदि नास्ति स्वरूपतः । कः करोति स्वात्मक्रियाम् । न च पश्चामः कञ्चन धर्मं स्वात्मानं ( स्स्स्_373 ) कुर्वन्तम् । अतो नास्ति स्वकृतन् । परकृतमयुक्तम् । कस्मात् । चक्षूरूपयोर्विज्ञानोत्पत्तौ वृत्त्यभावात् न परकृतम् । कर्तृत्वसंज्ञाभावात्सर्वे धर्मा अकर्तृकाः । यथा "बीजस्य नैवं भवति- अहमङ्कुरमभिनिर्वर्तयामीति । चक्षुषो रूपस्य नैवं भवति- आवां सह विज्ञानमभिनिर्वर्तयाव इति । अतः सर्वधर्माणां नास्ति कर्तृत्वसंज्ञा । उभयकृतमप्ययुक्तम् । स्वकृतपरकृतदोषसत्त्वात् । अहेतुकृतमपि न युक्तम् । हेतावासति फलमपि नास्तीत्युच्यते । यदि चतुर्धापि नास्ति । कथमस्ति फलम् । यद्यस्ति, उच्येत ।
फलमिदं यदि क्रियाचित्तपूर्वकं स्यात्, यदि वाक्रियाचित्तपूर्वकं स्यात् । यदि क्रियाचित्तपुर्वकम् । गर्भे ऽपि बालानां चक्षुरादिकायावयवेषु कः सचित्तत्वं करोति । ईश्वरादयो ऽपि न कुर्वन्ति । पूर्वकृतस्य कर्मणो ऽपि नास्ति क्रियाचित्तम् । कर्मेदमतीतगतम् । कथं क्रियाचित्तं भवेत् । अतो न कर्मणो ऽप्यस्ति चित्तम् । यद्यक्रियाचित्तपूर्वकमिति । कथं परस्य दुःखकृत् दुःखं लभते । परस्य सुखकृत् सुखं लभते । दृष्टे च कर्मकरणे चित्ते विकल्पयति- एवं कर्तव्यं, एवं न कर्तव्यमिति । यदि नास्ति क्रियाचित्तम् । कथमयं विभागो भवेत् । अतः सचित्तपूर्वकमचित्तपूर्वकं सर्वमयुक्तम् । एवमादयः सर्वे ऽपीन्द्रियविषया नोपलभ्यन्ते । अतो नास्ति धर्मः ।
हेतुफलखण्डनवर्ग एकपञ्चाशदुत्तरशततमः ।
152 लोकसत्यवर्गः
उत्तरमुच्यते । यत् भवान् नानाकारणैर्ब्रवीति- सर्वे धर्माः शून्या इति । तन्मतमयुक्तम् । कस्मात् । पूर्वमेवोक्तं मया- यदि सर्वमभाव[रूप]म् । शास्त्रमिदमप्यभावरूपम् । नापि सर्वधर्मेषु इत्यादिशून्यतादूषणमप्रतिवदन्नपि शून्यतां स्थापयसि । अतो न सर्वधर्मा अभावात्मकाः । यद्भवतोक्तं- नास्तीन्द्रियं, नास्तिप्रत्यय इत्यादि । न तदस्माभिः प्रतिपादितम् । कस्मात् । भगवान् सूत्रे स्वयमिदं न्यषेधीत् । यदुत पञ्च वस्तून्यचिन्त्यानि ( स्स्स्_374 ) लोकवस्तु, सत्त्ववस्तु, कर्मप्रत्ययतावस्तु, ध्याननिष्ठावस्तु, तथागतवस्तु इति । इदमसर्वज्ञः पुरुषो ऽभ्यूह्य न नितीरयितुं शक्नोति । तथागताः केवलं धर्मविवेचनज्ञानसमर्थाः । श्रावकाः प्रत्येकबुद्धाश्च निर्वाणज्ञानमात्रगतिंगता धर्माणां विवेचनज्ञानस्येकदेशलाभिनः । तथागताः परं सर्वधर्माणां सर्वाकारं प्रकृतितो नैस्स्वाभाव्यं विशेषसामान्यलक्षणानि सर्वाणि प्रतिविध्यन्ति । यथा पुरुषालयादयः पदार्थाः सुविनाशा दुष्कल्पाः । एवं शून्यताज्ञानं सुलभम् । धर्माणां प्रविचयज्ञानं दुरुत्पादम् ।
(पृ) यथा भगवता बोधिमण्डगतेन धर्माणां लक्षणं प्रतिलब्धम् । यथा च भगवतोपदिष्टम् । तत्तथैव भविष्यति । (उ) भगवान् सर्वधर्मानुपदिशन्नपि न सर्वाकारमुपदिशति । विमुक्त्यर्थत्वाभावात् । तद्यथा भगवानुपदिशति सर्वधर्माः प्रतीत्य समुत्पन्ना इति । नोपदिशत्येकैकशः किंप्रत्यय इति ।
दुःखनाशनप्रयोजनमात्रमपेक्षितमिति[तत्]- उपदिशति । विचित्राङ्कादीनि रूपाणि नृत्तगीतादयो नादा गन्धरसस्पर्शा अप्रमाणविशेषा नोपदेश्याः । उपदेशे ऽपि नास्ति महद्धितम् इत्यत ईदृशं वस्तु नोपदिशति भगवान् । न [तानि] न सन्तीति वक्तुं शक्यते । यथा कश्चित् चित्राङ्कनादिधर्मविकल्पमज्ञात्वा वदति तानि न सन्तीति । तथा भवानपि यत्किमप्यसाधयित्वा वदति नास्तीदं- वस्तु इति । ज्ञातुस्तु अस्ति । अज्ञातुः पुनर्नास्ति । यथा जात्यन्धो वदति नास्ति कृष्णमवदातं वा, मयादृष्टत्वात् । न चादृष्टत्वाद्रूपाणि न सन्तीति सम्भवति । यद्येवम्, प्रतीत्यसिद्धत्वान्न सन्ति सर्वे धर्मा इति वक्तुं पार्यते ।
तथागताः सर्वज्ञा इति श्रद्धेयमस्माभिः । तथागतस्तु आह- सन्ति पञ्च स्कन्धा इति । अतो ज्ञायते रूपादयः सर्वधर्माः सन्ति यथा घटादयः संवृतितः सन्तीति ॥
लोकसत्यवर्गो द्विपञ्चाशदुत्तरशततमः ।
153 धर्मचित्तनिरोधवर्गः
(पृ) पूर्वमुक्तं- भवता त्रिविधचित्तनिरोधो निरोधसत्यमिति । हेतुप्रत्ययाख्य प्रज्ञप्ति [चित्त]निरोधो ज्ञात एव । इदानीं वक्तव्यं किं धर्मचित्तं, कथं तस्य निरोध इति । (उ) सन्ति वस्तुतः पञ्चस्कन्धा इति चित्तं धर्मचित्तमित्युच्यते । पञ्चस्कन्धान् शून्यान् दृष्ट्वा सम्यग्भावयतो धर्मचित्तं निरुध्यते । (पृ) योगी पश्यति पञ्चस्कन्धान् शून्यान् यदुत पञ्चस्कन्धेषु नास्ति नित्यधर्मः स्थिरधर्मो ऽविनाशधर्मो ऽविपरिणामधर्म आत्मामीयधर्म इति । ते शून्या इत्युच्यन्ते । न तु स्कन्धानेव न पश्यतीति । (उ) योगावचरो नैव पश्यति पञ्चस्कन्धान् । कस्मात् । योगावचरः संस्कृतालम्बनचित्तं प्रहाय असंस्कृतालम्बनचित्तं प्रतिलभते । अतो योगावचरः पञ्चस्कन्धान् न पश्यति, स्कन्धनिरोधमात्रं पश्यति । पञ्चस्कन्धानां दर्शने न शून्या इत्युच्यन्ते । स्कन्धानामेवाशून्यत्वात् । एवं शून्यताज्ञानन्तु विकलं स्यात् ।
(पृ) योगावचरो रूपं नैरात्म्यतः शून्यं पश्यति । यथोक्तं सूत्रे- योगावचर इदं रूपं पश्यति यावदिदं विज्ञानं शून्यं षश्यति इति । न तु रूपादयः पञ्चस्कन्धा न सन्तीति ज्ञातव्यम् । (उ) अस्तीदं वचनं, न तु व्यवदाना[र्थक]म् । यथोक्तं धर्ममुद्रासूत्रे- योगावचरः पश्यति रूपादीन् धर्मान् अनित्यलक्षणान् विक्षेपलक्षणान् विनाशलक्षणान् मायालक्षणान् निर्वेदलक्षणान् इति । इदं शून्याख्यमपि न व्यवदानात्मकम् । पुरुषो ऽयं [य]दन्ते पञ्चस्कन्धानां निरोधं पश्यति । तद्दर्शनं तावद्वयवदाना[त्मकम्] अतो ज्ञायते पञ्चस्कन्धानां निरोधं पश्यतीति ।
(पृ) संस्कृतालम्बनज्ञानेन कस्मान्न व्यवदानं लभते । (उ) योगावचरस्य पञ्चस्कन्धसंज्ञाप्रवृत्तस्य कदाचित्प्रज्ञप्तिचित्तं पुनर्भवेत् । अतः संस्कृतालम्बनचित्तेन न व्यवदानं लभते । पञ्चस्कन्धानां निरोधं साक्षात्कुर्वतस्तु न तत् पुनरभिमुखीभबति । प्रज्ञप्तिकारणनिरोधस्य ( स्स्स्_376 ) प्रसाधितत्वात् प्रज्ञप्तिसंज्ञा नानुवर्तते । तद्यथा कश्चन वृक्षः क्रकचकृत्तो भस्मसात्कृतः प्रक्षीणः । न [तत्र] वृक्षसंज्ञा प्रहीणा पुनरनुवर्तते । तथा इदमपि । भगवान् राधमाह- सत्त्वं तथा विभिद, विधम, यथा नोपतिष्ठति इति । किञ्चाहैकं सूत्रम- रूपं राध तथा विभिद, विधम यथा नोपतिष्ठति इति । अतो ज्ञायते यः सत्त्वपरिभेदः इयं प्रज्ञप्तिशून्यता । यो रूपपरिभेदः इयं धर्मशून्यतेति ।
भावना च द्विविधा- शून्य[ता]भावना नैरात्म्यभावना इति । शून्यताभावना च यत् प्रज्ञप्तिसत्त्वादर्शनम् । यथा कश्चित् जलं नास्तीति घट शून्यं पश्यति । तथा पञ्चस्कन्धेषु पुद्गलो नास्तीति [तान्] शून्यान् पश्यति । यत् धर्मान् न पश्यति । इदं नैरात्म्यमित्युच्यते । उक्तञ्च सूत्रे- नैरात्म्यज्ञानलाभी सम्यग्विमुच्यते इति । अतो ज्ञायते रूपस्वभावनिरोधो वेदनासंज्ञासंस्कारविज्ञानस्वभावनिरोधो नैरात्म्यमित्युच्यते । नैःस्वाभाव्यमेव नैरात्म्यम् । (पृ) यदि नैःस्वाभाव्यं नैरात्म्यमित्युच्यत इति । किमिदानीं न सन्ति वस्तुतः पञ्चस्कन्धाः । (उ) न सन्ति वस्तुतः । सन्ति तु संवृतितः । कस्मात् । भगवानाह- संस्काराः संवृतितः सन्ति मायावत् निर्मितवत् । न तु परमार्थतः । परमार्थतः शून्यमिति वचनम्- अयमर्थसत्यतः शून्यो न संवृतिसत्यत इति । परमार्थश्च यदुत रूपं शून्यमकिञ्चनम् यावद्विज्ञानं शून्यमकिञ्चनम् । अतो यद्रूपादीनां धर्माणां शून्यतादर्शनं तत् परमार्थशून्यतादर्शनमित्युच्यते ।
(पृ) यदि पञ्च स्कन्धाः संवृतिसत्यतः सन्ति । कस्मादुच्यन्ते रूपादयो धर्माः परमार्थसत्या इति । (उ) सत्त्वानां कृत उच्यन्ते । सन्ति केचित् पञ्चस्कन्धेषु समुत्पन्नपरमार्थसंज्ञाः । तदर्थमुच्यन्ते पञ्च स्कन्धाः परमार्थतः शून्या इति । (पृ) किं नु खलु सूत्रे नोक्तम् अस्ति कर्म अस्ति फलम्, कारकस्तु नोपलभ्यते इति । (उ) अयं हेतुः धर्मणां कारकाख्यो नोपलभ्यत इतीदं प्रज्ञप्तिशून्यताभिधानम् । यथोक्तं सूत्रे- धर्माः प्रज्ञप्तिसंज्ञामात्रम् । प्रज्ञप्तिसंज्ञा च यदुत अविद्याप्रत्ययाः संस्कारा यावज्जरामरणदुःखसमुदयनिरोधो भवति इति । अस्माद्वचनात् ज्ञायते पञ्चस्कन्धा अपि परमार्थतो न सन्तीति । ( स्स्स्_377 ) महाशून्यतासूत्रे ऽप्युक्तम्- य आह इदं जरामरणं, तस्य जरामरणम् इति । य आह- स एव जीवः तदेव शरीरम्, अन्यो जीवो ऽन्यत् शरीरम् इति । इदमेकार्थकम्, व्यञ्जनमेव नाना । येषामेषा दृष्टिः न ते मच्छ्रावका न ब्रह्मचारिण इति । यत् तस्य जरामरणं प्रतिषिध्यते तत् प्रज्ञप्तिखण्डनम् । यदिदं जरामरणं प्रतिषिध्यते । तत् पञ्चस्कन्धखण्डनम् । किञ्चाह- जातिप्रत्ययं जरामरणं मध्यमा प्रतिपदित्युच्यते । नास्ति जरामरणं परमार्थत इत्युक्तमिति ज्ञातव्यम् । संवृतित उच्यते जातिप्रत्ययं जरामरणमिति । यथा घटसंज्ञात्यये नास्ति घटः परमार्थतः । एवं रूपादिधर्माणामत्यये नास्ति रूपं परमार्थतः । उक्तञ्च सूत्रे- यो धर्मो माया स मृषा । यो धर्मो ऽमाया, स एव परमार्थः इति । सर्वे संस्कृतधर्मा विपरिणामित्वात् माया इत्युच्यन्ते । मायात्वादभूताः । अभूतत्वान्न परमार्थसन्तः । यथाह गाथा-
अभूतबद्धो लोको ऽयं सुनिश्चितवत्प्रभासते ।
असत् दृष्टं सदाभासमसद्वै परया धिया ॥ इति ।
[अतो] ज्ञातव्यं स्कन्धा अपि शून्या इति ।
निरोधसत्यदर्शनं मार्गलाभ इत्युच्यते । अतो ज्ञायते निरोधः परमार्थसन्, न स्कन्धा इति । यदि स्कन्धाः परमार्थसन्तः, योगावचरो ऽपि दृष्ट्वा मार्गलाभी स्यात् । वस्तुतस्तु न तथा । अतो ज्ञायते पञ्चस्कन्धा न परमार्थसन्त इति । स्कन्धनिरोधश्च सत्यम् । अतो ज्ञायते स्कन्धा न सत्यमिति । न सम्भवति स्कन्धाः सत्यं स्कन्धाभावो ऽपि सत्यमिति वक्तुम् । दृश्यस्य सर्वस्य मोहहेतुकत्वात् । यथा न कश्चिदवञ्चितलोचनो मायां पश्यति । तथा यो ऽमुग्धः न स पश्यति स्कन्धान् । अतः स्कन्धा न परमार्थसन्तः । उक्तञ्च सूत्रे- यत्रास्मीति तत्रेञ्जितम् । स्कन्धेषु चास्ति अस्मीति । यथाहानन्दः- धर्मानुपादाय अस्मीति सिध्यति यदुत रूपस्कन्धं यावद्विज्ञानस्कन्धमुपादायेति । स्थविरा भिक्षवः क्षेमकमाहुः- किमस्मीति वदसि । क्षेमकः प्रत्याह- न खल्वायुष्मन्तो रूपमस्मीति वदामि । नाप्यन्यत्ररूपादस्मीति वदामि । एवं यावद्विज्ञानमपि । अपि च मे आयुष्मन्तः पञ्चसूपादानस्कन्धेषु ( स्स्स्_378 ) अस्मीति अधिगतम् । [अयमहमस्मीति न समनुपश्यामि] । इति । अयं सूत्राशयः- शैक्षजनाः कदाचित् स्मृतिविक्षेपादस्मिमानमुत्पादयन्ति । समाहितस्मृतिकस्य पञ्चसूपादानस्कन्धेषु अस्मिमानं निरुद्धमेव । पुष्पवत् । न मूलकाण्डशाखापत्राण्येव पुष्पम् । नाप्यन्यत्र तेभ्य पुष्पम् । एवमेव न रूपा दीनि अस्मीति [वदामि] । नाप्यन्यत्र रूपादिभ्यः अस्मीति [वदामि] । एवमस्मिनिरोधप्रत्ययमस्मिमानं न प्रवर्तते । अतो ज्ञायते पञ्चोपादानस्कन्धा अपि शून्या इति ।
योगावचरः सर्वनिमित्तानि निरुध्यानिमित्तं साक्षात्कुर्यात् । यदि वस्तुसत् निमित्तम्, किमर्थं नानुस्मरति । न तीर्थिकानामिव रूपप्रहाणकाले ज्ञायते वस्तुसत् रूपं, परन्तु नानुस्मर्यत इति । योगी अवश्यं रूपादीनां स्कन्धानां निरोधं पश्यति निरोधदर्शनात् अनिमित्ते ऽवतरति । अतो ज्ञायते रूपादयो न परमार्थसन्त इति । यत्र सन्ति पञ्चस्कन्धाः तत्रास्मीति बुद्धिर्भवति । पञ्चस्कन्धा न सन्तीत्यतो ऽस्मीति बुद्धिर्निरुध्यते । अतः स्कन्धाः सर्वे शुन्याः । फेनसूत्रे भगवानाह- यदि पुरुषः फेनपिण्डं पश्येत् योनिश उपपरीक्षेत । स[तत्]तुच्छकञ्चैव जानीयात् । एवमेव भिक्षुर्यदि रूपस्कन्धं सम्यगुपपरीक्षते । स[तं] रिक्तकञ्चैव जानाति, तुच्छकञ्चैव[जानाति], असारकञ्चैव[जानति], विक्षेपलक्षणञ्चैव जानाति । वेदनामुपपरीक्षते यथा बुद्धुदम्, संज्ञा [मुपपरीक्षते]यथा मरीचिकाम्, संस्कारा[नुपपरीक्षते] यथा कदलीम्, विज्ञान[मुपपरीक्षते] यथा मायाम् । तत्र पञ्च दृष्टान्ताः शून्यार्थनिरूपणाः । कस्मात् । पश्यामः खलु चक्षुषा फेनमपचीयमानमभावतां याति । तथा बुद्बुदादीन्यपि । अतो ज्ञायते स्कन्धा न परमार्थसन्त इति । ये जिनपुत्राः संसारात् परमनिर्विण्णाः । [ते]धर्माणां प्रकृतितो ऽनुत्पादमाकिञ्चन्यञ्च पश्यन्ति । अतो ये ऽनित्यं ( स्स्स्_379 ) पश्यन्ति । [तेषां] विक्षेपविनाशदुःखलक्षणमेव भवति । ये निःस्वभावं पश्यन्ति, अन्यलक्षणाभावात् ते दुःखचर्यां परिपूरयन्ति । एतत्त्रिविधदुःखपरिपूरणं विमुक्तिप्रापकमित्युच्यते । [अतः] सर्वधर्माः शून्या इति ज्ञातव्यम् ।
शून्यता च विमोक्षमुखम् । शून्यता चेयं न केवलं सत्त्वशून्यतात्मिका । धर्मशून्यता[त्मिका]पि चास्ति । यथोक्तम्- चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति । निरुध्यमानं न क्वचिद्गच्छति । तदा प्रजानाति अतीतमनागतं चक्षुः शून्यमिति । प्रत्युत्पन्नं चक्षुरपि चतुर्महाभूतविकल्पितमित्यतः शून्यमिति । यथाह भगवान्- यच्चक्षुषि मांसपिण्डे खक्कटं खरगतं स पृथिवी [धातु]ः इत्यादि । य इमां शून्यतां प्रतिलभते स वदति नास्ति यत्किञ्चिदिति । किञ्चाह- सर्वसंस्काराः प्रहीयन्त इति प्रहाणस्वभावाः । विमुच्यन्त इति विमुक्तिखभावाः । निरुध्यन्त इति निरोधस्वभावाः इति । अतो ज्ञायते सर्वे संस्कारा निरुद्धा भवन्तीति । यदि वस्तुसन्तः संस्काराः तदा न स्युः सम्यक् प्रहाणविमुक्तिनिरोधाः । निरोधश्चाभाव इत्युच्यते । अतो द्रष्टव्यं परमार्थतः संस्काराः सर्वे ऽभावात्मकाः संवृतितस्तु सन्ति संस्कारा इति ॥
धर्मचित्तनिरोधवर्गस्त्रिपञ्चाशदुत्तरशततमः ।
154 निरोधवर्गः
यन्निर्वाणालम्बनं तत् शून्यचित्तमित्युच्यते । (पृ) निर्वाणमसद्धर्मः । चित्तं किमालम्बते । (उ) चित्तमिदं यत्किञ्चताभावमालम्बते । इदं पूर्वमेव प्रतिपादितम् । निर्वाणज्ञानत्वात् । (पृ) शून्यचित्तमिदं कुत्र निरुध्यते । (उ) स्थानद्वये [निरुध्यते] (1) अचित्तकसमाधिमुपसम्पन्नस्य (2) अनुपधिशेषनिर्वाणं प्रविष्ठस्य सन्तानसमुच्छेदे वा निरुध्यते । कस्मात् । हेतुप्रत्ययनिरोधात् । अचित्तकसमाधावालम्बननिरोधात् [तत्] निरुध्यते । सन्ताने समुच्छिद्यमाने पुनः कर्मक्षयात् [तत्] निरुध्यते ।
शास्त्रमाह- एतानि त्रीणि चित्तानि निरोधयतो योगावचरस्य कर्मक्लेशा नैव पुनः समुदाचरन्ति (पृ) कस्मात् न समुदाचरन्ति । (उ) पुरुषो ऽयं नैरात्म्यसम्पन्न इत्यतः कर्मक्लेशा निरुध्यन्ते । यथा प्रदीपो धर्मश्च सति निश्रये वर्तते । असति निश्रये न वर्तते । एवमात्मचित्ते निश्रये सति कर्मक्लेशानां समुदयः । असति तु न समुदयः । अनास्रवा सम्यग्दृष्टिः सर्वाणि निमित्तानि तथा प्रदहति यथा न किञ्चिदवशिष्यते । यथा कल्पाग्निः पृथिव्यादिन् निःशेषं दहति । निमित्ताभावात् कर्मक्लेशानां न पुनः समुदयो भवति । अस्मिचित्तकस्य तु कर्मक्लेशाः समुद्यन्ति । अर्हतः शून्यताज्ञानगतिंगतस्य अस्मिमानरहितस्य न पुनः समुद्यन्ति ।
अस्य नूत्नकर्मानुपचये ऽपि प्राक्तनकर्महेतुना कस्मान्नोपपत्तिर्भवति । (उ) सम्यक्- प्रज्ञया तत्कर्मविनाशान्न विपाकभाग्भवति । यथा दग्धं बीजं न पुनः प्ररोहति । असति च तृष्णाचित्ते न कर्माणि पच्यन्ते । यथा अनभिष्यन्दितायां भूमौ बीजं न प्ररोहति । योगावचरस्यास्य सर्वविज्ञानस्थितिषु सर्वनिमित्तनिरोधे विज्ञानं निराश्रयं भवति । अतो नास्त्युपपत्त्यायतनम् । यथा बीजमनाश्रयं नोत्पद्यते । कर्मक्लेशपौष्कल्यात् कायमुपादत्ते । अपौष्कल्ये तु निरुध्यते ।
स क्लेशाभावात् विकलहेतुप्रत्ययः सत्स्वपि कर्मसु नोपपत्तिं वेदयते । सत्त्वाः क्लेशहेतोर्गतिषु कायं वेदयन्ते । कायं वेदयत इत्यतः तस्य कर्माणि विपाकं प्रयच्छन्ति । असति क्लेशे कायो न वेद्यते । कायवेद्यभावात् कर्माणि कस्य विपाकं प्रयच्छन्ति । यथा अधर्मेण प्रबलमधितिष्ठति उत्तमर्णो नावकाशं लभते । तथा योगावचरो ऽपि । संसारे ऽवर्तमानस्य सन्त्यपि कर्माणि न विपाकं प्रयच्छन्ति । यथा बद्धं पुरुषमन्ये जना यथेष्टं निन्दन्ति । एवं क्लेशबद्धानां सत्त्वानां कर्मतारतम्यवशात् [क्लेशाः] विपाकं प्रयच्छन्ति । प्रतिलब्धविमोक्षे तु नावकाशं लभन्ते ।
स्वीयं कर्म च विपाकं प्रयच्छति । शून्यचर्याविहारित्वादस्य पुरुषस्य धर्मेषु स्वलक्षण[संज्ञा] नास्तीत्यतः कर्माणि न विपाकं प्रयच्छन्ति । यथा दत्तीकृतस्य पुत्रस्य दायभागो नास्ति । तथेदमपि । क्लेशबलेन च कर्माणि प्रवर्तन्ते । क्लेशवेगे क्षीणे तु न तानि प्रवर्तन्ते । यथा चक्रं गतिस्थमपि वेगक्षयान्न पुनः प्रवर्तते । क्लेशबले च कर्माणि ( स्स्स्_381 ) विकारयन्ति । यथा सुतवत्सलाया मातुः रक्तं स्तन्यं परिणमते । निरुद्धवात्सल्यचित्तायास्तु न पुनः परिणमते । एवं क्लेशबलात् कर्म विपाकं प्रयच्छति । [क्लेश]विरहे तु न प्रयच्छति । अयञ्च पुरुषः शीलसमाधिप्रज्ञादिगुणैर्भावितकायः । तत्प्रभावमाहात्म्यात् कर्माणि नावकाशं लभन्ते । अतः सदपि प्राक्तनं कर्म न विपाकं प्रयच्छति । एवमस्य प्राक्तनं कर्म प्रत्युत्पन्ने किञ्चि[द्विपाक]मर्पयति । नूत्नं तु कर्म न करोति । यथाग्निरिन्धनानां भस्मीभावे शाम्यति । एवमयं पुरुषो ऽपि वेदनीयाभावान्निरुध्यते । [इति] त्रिविधचित्तानां निरोधात्सर्वदुःखेभ्यो ऽत्यन्तं विमुच्यते । अतो विद्वान् त्रिविधचित्तानि निरुन्ध्यात् ॥
निरोधवर्गश्चतुःपञ्चाशदुत्तरशततमः ।
[निरोधसत्यस्कन्धः समाप्तः ।]
अथ मार्गसत्यस्कन्धः
155 मार्गसत्यस्कन्धे समाध्यधिकारे समाधिहेतुवर्गः
शास्त्रमाह- इदानीं मार्गसत्यं विचार्यते । मार्गसत्यम्- आर्यो ऽष्टाङ्गिको मार्गः सम्यक् दृष्टिर्यावत् सम्यक् समाधिः । आर्यो ऽष्टाङ्गिको मार्गः संक्षिप्य द्विविधः (1) समाधिः परिकरश्च (2) ज्ञानमिति ।
इदानीं समाधिर्विचारयितव्यः । (पृ) किंलक्षणा समाधिः । (उ) चित्तस्यैकत्रावस्थानं समाधिलक्षणम् । (पृ) कथं चित्तमेकत्रावतिष्ठते । (उ) बहुलीकृतभावनया तत्रावतिष्ठते । यदि बहुवारं न भावयति तदा क्षिप्रमेव विक्षिप्यते । (पृ) कथं भावयितव्यम् । (उ) यथासुखं भावयितव्यम् । (पृ) कथं सुखयति । (उ) कायचित्तयोर्दौष्ठल्यं दुःखम् । प्रश्रब्धिधर्मेण कायचित्तयोर्दौष्ठल्ये ऽपनीते सुखं भवति । (पृ) कथं प्रश्रब्धिर्भवति । (उ) प्रीतिप्रत्ययं कायचित्ते दान्ते भवतः । (पृ) कथं प्रीतिर्भवति । (उ) त्रिरत्नस्मरणधर्मश्रवणादिना चित्तप्रामोद्यात् भवति । (पृ) कथं चित्तप्रामोद्यं भवति । (उ) परिशुद्धशीलधारणात् चित्तस्यौकौकृत्ये भवति ।
(पृ) उक्तः समाधिहेतुः । इदानीं कस्य समाधिर्हेतुः । (उ) अयं यथाभूतज्ञानस्य हेतुः । यथाभूतज्ञानं शून्यताज्ञानम् । यथोक्तं योगावचरः समाहितचित्तो विशुद्धचित्तो विनीवरणचित्तश्चित्तरथो ऽचलचित्तो यथाभूतं प्रजानाति दुःखमार्यसत्यं दुःखसमुदयं दुखनिरोधं दुःखनिरोधगामिमार्गमार्यसत्यम् इति । अतो यथाभूतज्ञानलिप्सुना समाधि भावनायां वीर्यमारब्धव्यम् । विक्षिप्तचित्तस्य लौकिकसूत्रशिल्पादिहितमेव न भवति । किं पुनर्लोकोत्तरं हितम् । अतो ज्ञायते लौकिकं लोकोत्तरञ्च हितं समाहितचित्तेनैव लभ्यते । सर्वञ्च सत् कुशलं सम्यक् ज्ञानाधीनम् । सर्वमसदकुशलं मिथ्याज्ञानाधीनम् । यथोक्तं सूत्रे अविद्या भिक्षवः पूर्वङ्गमाकुशलानां धर्माणां समापत्तये । अन्वगेवाह्रीक्यमनपत्राप्यम् । ( स्स्स्_383 ) विद्या भिक्षवः पूर्वङ्गमा कुशलानां धर्माणां समापत्तये अन्वगेव ह्रीः अपत्राप्यम् । इति । समाधिस्तु सम्यग्ज्ञानस्य हेतुः । अतो ज्ञायते सर्वं सत्कुशलं समाधिमुपादाय भवतीति । तस्मात् भावनायां योगः कर्तव्यः ॥
समाधिहेतुवर्गः पञ्चपञ्चादुत्तरशततमः ।
156 समाधिलक्षणवर्गः
(पृ) उक्तं भवता चित्तस्यैकत्रावस्थानं समाधिलक्षणमिति तत्र समाधिश्चित्तञ्चैकं उत भिन्नम् । (उ) न ते भिन्ने । केचिदाहु- समाधिश्चित्तञ्च भिन्ने । समाधिलब्धचित्तमेकत्रावतिष्ठत इति । सदपीदं वचनमयुक्तार्थकम् । यदि चित्तं समाधिलब्धमालम्बने ऽवतिष्ठत इति । समाधिरियमपि आलम्बने ऽवतिष्ठमाना समाध्यन्तरमुपादायावतिष्ठेत । एवमनवस्था भवति । तत्तु न सम्भवति । यदीयं समाधिः प्रकृतितो ऽवस्थानमिति । चित्तमपि न समाधिमुपादायावतिष्ठेत । अतः समाधेरन्यत् चित्तमिति यद्वचनं तदप्रकृष्टार्थकम् । वेदनासंज्ञादयश्चेतसिकधर्मा अप्यालम्बने ऽवतिष्ठन्ते । ते ऽपि कं धर्ममुपादायावतिष्ठन्त इतीदं वक्तव्यम् । यदि वेदनासंज्ञादीनां प्रत्येकं समाधिरस्ति । तुल्यः पूर्वदोषः स्यात् । सूत्रे च चित्तस्यैकाग्रता समाधिलक्षणमिति केवलमुक्तम् । न तु चित्तं समाधिलब्धमवतिष्ठत इति । अतो ज्ञायते न युक्तमिति । चित्तस्यैकाग्रतेत्युक्ते नान्यधर्मः प्रकाशितो भवति । यथा पूर्वमुक्तम्- यत्र चित्तं सुखि भवति तस्मिन्नालम्बने ऽवतिष्ठत इति । चित्तस्य कोटिः समाधिर्न पृथग्भवतीति द्रष्टव्यम् । यथा चित्तं दीर्घकालावस्थानं समाधिरित्युच्यते ।
(पृ) समाधिरियं किं सास्रवा उतानास्रवा । (उ) समाधिर्द्विविधा सास्रवा अनास्रवा चेति । लौकिका ध्यानसमाधयः सास्रवाः । धर्मावस्थामुपसम्पन्नस्य समाधयो ऽनास्रवा इत्युच्यन्ते । कस्मात् । कालो ऽयं यथाभूतज्ञानदर्शनमित्युच्यते । तस्य कालस्य द्विविधं नाम समाधिरिति प्रज्ञा चेति । चित्तसमाधानात् समाधिः । यथाभूतप्रज्ञानात् ( स्स्स्_384 ) प्रज्ञा । चित्तसमाधानं त्रिविधं कुशलमकुशलमव्याकृतमिति । तत्र कुशलेन चित्तसमाधानमेव समाधिः । नत्वकुशलेन अव्याकृतेन वा । सा समाधिर्द्विविधा एका विमुक्तिहेतुः अपरा अविमुक्तिहेतुः । विमुक्तिहेतुर्नाम नियतमूलकम् । केचिदाभिधर्मिका आहुः- अनास्रवसमाधिरेव नियतमूलमिति । स वादो न युक्तः । सास्रवानास्रवा यदि विमुक्तिं करोति । सा सर्वापि नियतमूलमित्युच्येत ।
समाधिरियं यथालम्बनावस्थानं त्रिधा विभज्यते । परीत्ता विपुला अप्रमाणा चेति । चित्तं किञ्चित्कालमवस्थाय यदि परीत्तमालम्बनं पश्यति[तदा] परीत्तेत्युच्यते । अन्ये द्वे अपि तथा । समयवशात्रिविधं लक्षणं भवति । प्रग्रहलक्षणं व्युत्थानलक्षणं त्यागलक्षणमिति । चित्ते ऽबलीने व्युत्थानलक्षणमुपयोक्तव्यम् । चित्त उद्धत प्रग्रहलक्षणं प्रयोक्तव्यम् । दान्ते च चित्ते त्यागलक्षणं प्रयोक्तव्यम् । यथा सुवर्णकारः सुवर्णं द्रवयति तापयति सेचयति काले च स्थपयति । यदि सदा तापयति । तदा द्रवीभवति । सदा सेचने घनीभवति । सदा स्थपनेस्फूर्यते । एवं योगावचरस्य चित्तमपि । कम्पितस्याप्रग्रहे सदा विक्षेपः । अवलीनस्याव्युत्थाने कौसीद्यम् । दान्तस्यात्यागे पुनरदमनम् । यथा च दान्तो ऽश्वः प्रवेगे प्रगृह्यते । दन्धः [कशया]ताड्यते । दान्तः परित्यज्यते । एवं योगावचरस्य दान्तं चित्तमपि ।
समाधेरस्यास्त्रिविध उपायः समाध्यवतारोपायः समाध्यवस्थानोपायः समाधिव्युत्थानोपाय इति । यथाधर्मं समाधावतरति । अयं समाध्यवतारोपायः । समाधिस्थितो न चलति । अयं समाध्यवस्थानोपायः । यथाधर्मं समाधेर्व्युत्तिष्ठते । अयं समाधिव्युत्थानोपायः । (पृ) कथमिमान् त्रिविधानुपायान् प्रतिलभते । (उ) योगावचरः स्वचित्तलक्षणं गृह्णन् एवं प्रगृह्णन् एवं व्युत्तिष्ठन् एवं परित्यजन् समाधाववतरति । तथा निर्गच्छति च । (पृ) साक्षादेव समाधिग्रहे क उपयोग उपायस्य । (उ) त्रिविधोपायान् प्रवर्तमानस्य आदीनवो भवति । यथेप्सितञ्च न विन्दते । अवतरितुमिच्छन् व्युतिष्ठेत व्युत्थातुमिच्छन् पुनरवतरेत् । इतीदृशा दोषाः सन्ति । लाभं हानिं मन्येत । हानिञ्च लाभम् । यथा किञ्चिद्विशुद्धरूपं किञ्चित्प्रकाशरूपञ्च दृष्ट्वा वदेत- महाहितं लब्धमिति । अनित्यं दुःखं शून्यमित्याद्यनुस्मरतः चित्तं न सुखि भवति । प्रत्युत हानिकरमिति वदेत् ।
(पृ) योगावचरस्य कस्मात् कदाचित्समाधिलाभो ऽस्ति कदाचिन्नास्ति । (उ) समाधिलाभस्य चत्वारः प्रत्ययाः- (1) इहाध्वनि युनक्ति, (2) पूर्वकायप्रत्ययः (3) समाधिलक्षणं सुगृह्णाति, (4) श्रुत्वा समाधिधर्माननुवर्तयति इति । समाधिभावनाश्चतुर्विधाः- (1) सदाप्रयोगी नैकाग्रं चरति । (2) एकाग्रं चरति न सदाप्रयुक्तो भवति । (3) सदाप्रयुक्तश्च भवति एकाग्रञ्च चरति । (4) न सदा प्रयुक्तो नैकाग्रं चरति । किञ्च सन्ति चतुर्विधाः बहुकुशलः अल्पप्रज्ञः, अल्पकुशलो बहुप्रज्ञः, बहुकुशलो बहुप्रज्ञः, अल्पकुशलो ऽल्पप्रज्ञ इति । एषुतृतीयो योगावचरो ऽवश्यं लभते । चतुर्थो नावश्यं लभते । प्रथमद्वितीयौ यदि दान्तौ समौ तदा लभेते ॥
समाधिलक्षणवर्गः षट्पञ्चाशदुत्तरशततमः ।
157 त्रिसमाधिवर्गः
(पृ) उक्तं सूत्रे- त्रयः समाधयः एकाङ्गभावनसमाधिः, उभयाङ्गभावनसमाधिः अर्यः सम्यक्समाधिरिति । किमिदम् । (उ) एकाङ्गभावन इति यत् समाधिं भावयति न प्रज्ञाम् । प्रज्ञां वा भावयति न समाधिम् । उभयाङ्गभावन इति समाधिं भावयति प्रज्ञाञ्च भावयति । अयं लौकिकसमाधिरूष्मादिधर्मगतः । आर्यः सम्यक्समाधिरिति यद्धर्मावस्थामुपसम्पन्नो निरोधसत्यं साक्षात्करोति । स आर्यः सम्यगित्युच्यते । केनेदं ज्ञायते । यथा स्थविरो भिक्षुराह- योगावचरः समाधिना चित्तं भावयन् प्रज्ञामुपादाय क्लेशान् प्रतिषेधयति । प्रज्ञया चित्तं भावयन् समाधिमुपादाय क्लेशान् प्रतिषेधयति । समाधिना प्रज्ञया च चित्तं भावयन् स्वभावमुपादाय विमुच्यते । स्वभावो नाम यः प्रहाणस्वभावः वियोगस्वभावो निरोधस्वभावः । समाधिप्रज्ञयोर्युगपत्प्रपूरणादार्यः सम्यगित्युच्यते । यथा समाधिप्रज्ञाभ्यां विमुक्तिलब्धः सर्वशो विमुक्तैत्युच्यते ।
(पृ) केचिदाहुः- एकाङ्गभावन इति यदि समाधिमुपादाय रश्मिं पश्यति न रूपाणि । यदि(वा)रूपाणि पश्यति न रश्मिम् । उभयाङ्गभावन इति यत् रूपञ्च पश्यति रश्मिञ्च पश्यति । आर्यः सम्यक्समाधिरिति यत् शैक्षाशैक्षाभ्यां प्रतिलब्धः समाधिः ( स्स्स्_386 ) इति । कथमिदम् । (उ) रश्मिमात्रं पश्यति न रूपमिति नास्ति किञ्चन सूत्रम् सूत्रे केवलमुक्तम्- अहं प्रकृतितो रश्मिमपश्यं रूपमप्यपश्यम् । इदानीं रश्मिर्विनष्टः, रूपमपि न पश्यामीति । भवता च वक्तव्यं केन कारणेन रश्मिं पश्यति न रूपम् इत्यादि । इति नावोचः ।
(पृ) सूत्र उक्तं- त्रयः समाधयः शून्यतो ऽनिमित्तो ऽप्रणिहित इति । एषां त्रयाणां समाधीनां को भेदः । (उ) यदि योगावचरो न पश्यति सत्त्वं नापि धर्मम् । अयमुच्यते शून्यतः [समाधि]रिति । ईदृशे शून्ये[यदि]ग्राह्यनिमित्तं नास्ति । अयं शून्य एवानिमित्तः । शून्ये च नास्ति प्रणिहितं किञ्चन । अयं शून्यः[समाधि]रेवाप्रणिहित इत्युच्यते । अतस्त्रयो ऽप्येकार्थकाः । (पृ) तथा चेत् कस्मात् त्रय इत्युच्यन्ते । (उ) शून्यं भावयेदिति शून्यतासमर्थ आह । शून्यं भावयन् हितं लभते यदुत निमित्तं न पश्यतीति । निमित्तादर्शनादनिमित्तः । अनिमित्तत्वादप्रणिहीतः । अप्रणिहितत्वान्न कायं वेदयते । कायावेदनात्सर्वदुःखान्मुच्यते । इत्यादि हितानि शून्यताभावनया लभते । अत उच्यते त्रय इति ।
केचिदाभिधर्मिका आहुः यः समाधिः शून्यानात्माकारेण भवति अयं शून्य इत्युच्यते । य आकारो ऽनित्यतो दुःखतो हेतुतः समुदयतो जनकतः प्रत्ययतो मार्गतो यथावदाचरतो निर्याणतो भवति । अयमप्रणिहितः । य आकारो निरोधत उपशमतः प्रणीततो वियोगतो भवति । अयमनिमित्त इति । कथमिदम् । (उ) यदाह भवान्- अनित्यतो दुःखत आकारः अप्रणिहित इति । तदयुक्तम् । कस्मात् । भगवान् सदा वदति यदनित्यं तदेव दुःखम् । यत् दुखं तदेवानात्मकम् इति । नैरात्म्यं प्रजानन् न पुनः प्रणिदधाति । अतो ज्ञायते शून्यत्वाच्च न प्रणिदधातीति । हेतुतः समुदयतो जनकतः प्रत्ययत आकार इति मतम् । तत् तथैव स्यात् । कस्मात् । उक्तं हि सूत्रे- यत्किञ्चित्समुदयलक्षणं सर्वं तन्निरोधलक्षणमिति पश्यन् निर्विद्यते इति । मार्गे च न भवेदप्रणिहित आकारः । कस्मात् । प्रणिधानं हि तृष्णाङ्गम् । यथासूत्रमुक्तम् हीनं मध्यमं प्रणिधानं न मार्ग आसक्तिजनकम् । अतो न भवेदप्रणिहित आकारः । किञ्चोक्तं सूत्रे- पञ्चानां स्कन्धानां निरोधान्निरोध इत्युच्यते इति ज्ञातव्यम् । शून्य एव निरोध इत्युच्यते । न ( स्स्स्_387 ) तत्रास्ति प्रणिधानम् । कायतृष्णा हि प्रणिधानं भवति । अतो ज्ञायते इमे त्रय एकार्थका इति न स्याद्भेद इति ।
(पृ) किञ्चोक्तं सूत्रे- त्रयः समाधयः शून्यशून्यः, अप्रणिताप्रणिहितः, अनिमित्तानिमित्त इति । कथमिदम् । (उ) शून्येन पञ्चस्कन्धान् शून्यान् दृष्ट्वा एकेन शून्येन पुनरिमं शून्यं शून्यीकरोति । अयं शून्यशून्य इत्युच्यते । अप्रणिहितेन पञ्चस्कन्धान् निर्विद्य अप्रणिहितेन पुनरिममप्रणिहितं निर्वेदयति । अयमप्रणिहिताप्रणिहितः । अनिमित्तेन पञ्चस्कन्धान् प्रशान्तान् दृष्ट्वा अनिमित्तेन पुनरनिमित्तं न गृह्णाति । अयमनिमित्तानिमित्तः ।
(पृ) आभिधर्मिका आहुः- त्रय इमे समाधयः सास्रवा इति । कथमिदम् । (उ) इमे न सास्रवाः । कस्मात् । समयस्यास्या नास्रवानुशयत्वात् । समाधिरयं शून्यादिप्रधानः । कथं सास्रवो भवेत् । (पृ) यदि शून्यादयः समाधयो वस्तुतः प्रज्ञात्मकाः । कथं समाधिरित्युच्यते । (उ) समाधीनां भेदात् । समाधिश्च यथाभूतज्ञानदर्शनाधायकत्वात् समाधिरित्युच्यते । फले हेतूपचारात् ।
(पृ) केचिदाभिधर्मिका आहुः- शून्यशून्यादयः समाधयो ऽशैक्षजनमात्रलभ्या नान्यैरिति । कथमिदम् । (उ) शैक्षजना अपि लभेयुः । कस्मात् । योगावचरेण हि सास्रवाणामनास्रवाणां सर्वेषां धर्माणां निरोधो ऽधिगन्तव्यः । अतः शैक्षजनैरपि अनास्रवधर्माणां निरोधो ऽधिगन्तव्यः स्यात् ॥
त्रिसमाधिवर्गः सप्तपञ्चाशदुत्तरशततमः ।
158 चतुस्समाधिभावनावर्गः
अस्ति समाधिभावना दृष्टधर्मसुख [विहार]आयं संवर्तते । अस्ति समाधिभावना ज्ञानदर्शन[प्रतिलाभ]आय संवर्तते । अस्ति समाधिभावना स्मृतिसम्प्रजन्याय संवर्तते । अस्ति समाधिभावना आस्रवाणां क्षयाय संवर्तते । यः समाधिः दृष्टधर्मसुखप्रापको यदुत द्वितीयध्यानादयः । [सा प्रथमा भवना ।]केनेदं ज्ञायते । भगवानाह- द्वितीयध्यानं समाधिजं प्रीतिसुखं नाम्ने संवर्तते अन्यधर्माय संवर्तते यथा पिण्डपाताय श्रावस्त्यां प्रवेश इति ।
(पृ) प्रथमं ध्यानमपि सप्रीतिसुखम् । कस्मान्नोच्यते स दृष्टधर्मसुखविहार इति । (उ) प्रथमध्यानस्य चित्तविक्षेपकवितर्कविचारव्यामिश्रितत्वात् न तदुच्यते दृष्टधर्मसुखमिति (पृ) द्वितीयध्यानस्यापि सन्ति प्रीत्यादयश्चित्तविक्षेपका धर्माः । कस्मादुच्यते सुखमिति । (उ) सर्ववितर्कविचारपूर्वकं चित्तपरिग्रहात् प्रीत्यादयः सुखमित्युच्यन्ते, दुःखाकारतः परं सर्वं दुःखमित्युच्यते । प्रथमध्याने दुःखमौदारिकम् । द्वितीयध्यानादिषु दुःखं सूक्ष्मम् । सूक्ष्मदुःखत्वात् सुखमित्याख्यां लभते ।
(पृ) द्वितीयध्यानादयः सांपरायिकसुखविहारा अपि भवन्ति । कस्मात् दृष्टधर्मसुखविहारमात्रमुच्यते । (उ) यथाजातशत्रोः सान्दृष्टिकं श्रामण्यफलमुक्तम् । प्रत्यासत्योच्यते [तथा] । पञ्चकामसुखानां भेदायोच्यते दृष्टधर्मसुख[विहार इ]ति । यदि पञ्चकामसुखासक्तः कश्चित्, अतो न ध्यानभाग्भवति । तदर्थमाह- पञ्चकामसुखानां वियोगे परमं दृष्टधर्मसुखं प्रतिलभध्व इति । बुद्धा न सांपरायिककायवेदनं प्रशंसन्ति । अतो नाभिदधति साम्परायिकं सुखम् । लौकिका वदन्ति सुखं गृहस्थस्य न प्रव्रजितस्येति । अतो भगवानाह- इदं प्रव्रजितस्य दृष्टधर्मे सुखमिति ।
इमाश्चतस्रः समाधिभावनाः सर्वा दृष्टधर्मसुख[विहारा]य संवर्तन्ते । प्रथमाया नामोपचारात् केवलमुच्यते दृष्टधर्मसुख[विहाराये]ति ।
(पृ) यदीमाश्चस्रः समाधिभावना नानाहितानि साधयन्ति । कस्मात्केवलमुच्यन्ते चत्वारीमानि हितानि । (उ) हितं द्विविधं लौकिकं लोकोत्तरमिति । द्वितीया समाधिभावना लौकिकहिताय भवति यदुत ज्ञानदर्शनम् । ज्ञानं नामाष्टविमोक्षायतनदशकृत्स्नायतनादिहितम् । दर्शनं पञ्चाभिज्ञादिहितम् । कस्मात् । चक्षुषा दृश्यमानत्वात् हितमिदं दर्शनमित्युच्यते । इदं रश्मिग्रहमुपादाय सिद्धत्वात् ज्ञानदर्शनमिति भवति । यत् रश्मिलक्षणमित्युच्यते द्वितीयमिदं लोकोत्तरं हितम् ।
पञ्चस्कन्धान् सम्प्रजानातीति सम्प्रजन्यम् । अतः सूत्र उक्तम्- सस्मृतिसम्प्रजन्यो ( स्स्स्_389 ) योगावचरो या वेदना वितर्काः संज्ञा उत्पद्यन्ते सर्वा[स्ताः] प्रतिजानाति इति । वेदनानां प्रज्ञानं नाम स्पर्शप्रत्यया वेदना, नास्ति तु वेदक इति । वितर्कानां प्रज्ञानं नाम अहमिति वितर्कः; कथं [स] न भवेत् । यः स्त्रीपुरुषादिप्रज्ञप्तिसंज्ञाविकल्पः, तत्संज्ञाप्रतिभेदना वितर्का न भवति । यथोक्तं सूत्रे- वितर्कः किं निदानः । [वितर्कः] [प्रपञ्च] संज्ञा [संख्या] निदान इति । अतो ज्ञायते प्रज्ञप्तिसंज्ञाप्रतिभेदनात् स्मृतिसम्प्रजन्यं नाम । स्मृतिसम्प्रजन्येनास्रवक्षयो लभ्यते । यथोक्तं सूत्रे- योगावचरः पञ्चानां स्कन्धानामुदयव्ययानुदर्शी स्कन्धानां निरोधं साक्षात्करोति इति । अतो ज्ञायते । सर्वाणि लौकिकानि लोकोत्तराणि हितानि चतुर्षु सङ्गृहीतानीति ।
(पृ) केचिदाभिधर्मिका आहुः- चतुर्थध्याने ऽर्हत्फलं प्रतिलभमानस्य आनन्तर्यमार्ग आस्रवक्षय इत्युच्यते इति । कथमिदम् । (उ) न हि तत्रास्ति विशिष्टहेतुः चतुर्थध्यानमात्रस्यानन्तर्यमार्ग आस्रवक्षयो नान्यस्येति । अत[स्त]न्न युज्यते ।
समाधिभावना च त्रिविधहिताय संवर्तते- (1) दृष्टधर्मसुख[विहारा]य, (2) ज्ञानदर्शन [प्रतिलाभा]य, (3) आस्रवक्षयाय च । द्विविधाय वा संवर्तते । उक्तवदेकान्तक्षयार्थत्वात् सुविशुद्ध्यर्थत्वात्, संसारक्षयार्थत्वात्, नानास्वभावविवेकार्थत्वात् मार्गमुपदिशति चक्षुष्मान् । तत्र पूर्वे त्रयः प्रहाणस्याभिधानम्, अन्तिमो ज्ञानस्य । नात्र भगवान् दृष्टधर्मसुख[विहार]माह ।
चतुस्समाधिभावनावर्गो ऽष्टपञ्चाशदुत्तरशततमः ।
159 चतुरप्रमाणसमाधिवर्गः
मैत्री करुणा मुदिता उपेक्षा । [तत्र] मैत्री नाम व्यापादविरुद्धं कुशलचित्तम् । यथा सुविज्ञः सुविज्ञाय सदा हितं प्रार्थयते । तथा योगावचरो ऽपि सर्वसत्वानां कृते सदा सुखं प्रार्थयते । अतो ऽयं सर्वसत्त्वानां सुविज्ञो भवति । (पृ) किं नाम सुविज्ञस्य ( स्स्स्_390 ) लक्षणम् । (उ) नित्यं लक्ष्यत ऐहिकामुष्मिकहितसुखप्रकर्षप्रार्थनां कुर्वन् नैव विरुद्धासुखप्रार्थनाम् । तथा योगावचरो ऽपि सत्त्वानां सुखमेव प्रार्थयते नासुखम् ।
करुणा विहिंसाविरुद्धं मैत्रचित्तम् । कस्मात् । सत्त्वानां सुखप्रार्थनत्वात् । (पृ) द्वेषविहिंसयोः को भेदः । (उ) चित्ते द्वेषस्मृतिमुत्पाद्य सत्वान् ताडयितुं विहिसितुं वा इच्छति । द्वेषोद्धितं कायवाक्कर्म विहिंसेत्युच्यते । द्वेषो विहिंसाया हेतुः । द्वेषाकांक्षी अवश्यं प्रदाशमाचरति ।
मुदिता ईर्ष्याविरुद्धं मैत्रचित्तम् । ईर्ष्या नाम परस्योत्कर्षं दृष्ट्वा अक्षममाणस्योत्पन्नो ऽसूयाव्यापादः । योगावचरस्य सर्वसत्त्वानां लाभप्रकर्षं दृष्ट्वा महती प्रीतिर्भवति यथात्मनो हितलाभे ।
(पृ) किमिमानि त्रीणि मैत्री[रूपाणि]आ (उ) मैत्रचित्तस्यैव त्रयः प्रकाराः । कस्मात् । अव्यापादो मैत्री । न कश्चिदद्विषन् दुःखिनं सत्त्वं दृष्ट्वा दयते । यदा सर्वेषु सत्त्वेषु परमं मैत्रचित्तं कश्चिद्दुःखोपद्रवसम्भ्रान्तं पुत्रं दृष्ट्वेव समाचरतितस्मिन् समये प्रवृत्तं मैत्रचित्तं करुणेत्युच्यते । अथ वा कश्चित् परस्य दुःखे करुणामुत्पादयन्नपि न परस्योत्कर्षे प्रमुदितचित्तो भवति । केनेदं ज्ञायते । कश्चित्सपत्नस्य दुःखं दृष्टवैव करुणायते । किं पुनर्लब्धविजयं पुत्रं दृष्ट्वा [न] प्रमोद्यत इति । योगावचरः सर्वसत्त्वान् समृद्धिलाभिनो दृष्ट्वा स्वाभेदतः प्रमुदितचित्तो भवति । इयं मुदितेत्युच्यते । अतो ज्ञायते मैत्रीचित्तविशेषः करुणा मुदिता चेति ।
(पृ) कस्योपेक्षया उपेक्षा । (उ) शत्रुं मित्रञ्च पश्यतो मैत्रचित्तं न सममस्ति । मित्रे ऽधिकम् । उदासीने न तुल्यम् । शत्रौ तु अल्पम् । तथा करुणा मुदितापि । अतो योगावचरो मित्रे मैत्रमुपेक्ष्य शत्रौ शात्रवमुपेक्ष्य चित्तसाम्यं चिकीर्षति । पश्चात् सर्वसत्त्वेषु समचित्तो भवति । तथा करुणा मुदितापि । अतः सूत्र उक्तम्- रागप्रतिघप्रहाणायोपेक्षां भावय इति । (पृ) तथा चेत् न पृथगस्त्युपेक्षाचित्तम् । चित्तसाम्यमात्रमुपेक्षां भवति । (उ) पूर्वमेवोक्तं मया मैत्रचित्तविशेषाः करुणामुदितादय इति । मैत्रचित्तञ्चोत्तमाधममध्यधर्मैस्त्रिविधम् । त्रयाणामेषां समभाव उपेक्षा । यथा वदन्ति उत्तममैत्रचित्तेन त्रीणि ध्यानानि भावयतीति ।
(पृ) केनोपायेन तन्मैत्रचित्तं प्रतिलभते । (उ) उत्तरत्न वक्ष्यन्ते प्रतिघस्यादीनवाः । तानादीनवान् प्रज्ञाय मैत्रचित्तं भावयति । मैत्रचित्तस्य हितगुणञ्च पश्यति । यथोक्तं सूत्रे मैत्रचेतोविहारी सुखं स्वपिति । सुखंप्रतिपद्यते । न पापकं स्वप्नं पश्यति । देवता रक्षन्ति । मनुष्याणां प्रियो भवति । [अमनुष्याणां प्रियो भवति ।] नास्मै अग्निर्वा विषं वा शस्त्रं वा क्रमते । [उत्तरमप्रतिविध्यन् ब्रह्मलोकोपगो भवति] इति । इमान्यानिशंसानि श्रुत्वा भावयति । योगावचरो ऽनुस्मरति- अहं व्यापादमुत्पाद्य अहमेव विपाकमनुभवामि नान्य इति । अतो व्यापादमकृत्वा मैत्रचित्तं भावयति । किञ्च योगावचरो मनसि करोति अहमल्पकेन पापकेन अन्यस्य कृतेन बहूनि पापकानि तच्छतगुणानि तदभिन्नान्यनुभवामि । अतः पापकानि परिवर्जयेदिति । उक्तञ्च सूत्रे- पञ्च द्वेषप्रहाणकारणानि सदानुस्मर्तव्यानीति । व्यापादश्च योगावचरस्य नालं भवति । अष्ट कुशलानिंशसानि पूर्वमनुस्मरेत् । पापकानि वर्जयतो व्यापादः शाम्यति । पुरुषस्य पूर्वाध्वनि माता वा स्यात्, गर्भिणी प्रसवित्री च मदर्थः दुःखं व्यवस्यमाना स्यात् । अथ वा स्यात् मम पिता भ्राता भार्या पुत्रो वा । कथं द्वेष्टव्यम् । इति । अनुस्मरेच्चागामिन्यध्वनि मम पिता माता भ्राता वा भवेत् इति । अर्हन् प्रत्येकबुद्धो बुद्धो वा भवेदिति [अनुस्मरणं] कुर्यात् । कथं द्वेष्टव्यम् । दुर्जनान् दृष्ट्वा पापकमाचरन् उभयोरध्वनोर्दुःखं वेदयते । अतो न द्वेष्टव्यम् । पूर्वञ्च निभृतं पश्येत् जनस्य स्वभावः कुशलो ऽकुशल इति । यदि दुर्जनो मम [अकुशल]मादधाति, कस्मादहं द्विषामि । यथाग्निना दग्धो ना[ग्निं]द्विषेत् । क्लेशोपहतः पिशाचपीडित इव न स्वातन्त्र्यभाग्भवति । इति पूर्वं पश्यन् किमर्थं द्विषति । येन प्रत्ययेन क्षान्तिं भावयति । तं धर्ममनुस्मरेत् । तदा व्यापादः शाम्यति, मैत्रचित्तञ्च वर्धते । क्षान्तिगुणो योगावचरो ऽनुविचिन्तयति- अहं यदि परं द्विषामि । तदा पृथग्जनस्य ग्रामीणस्य तस्य [मम] च नास्ति भेदः । अतः क्षन्तव्यमिति । यथाह भगवान् गाथाम्-
सुविनीतो यथा हस्ती सहते शरमस्त्रकम्
तथा चाहमपीहैव तितिक्षे सर्वपापकम् ॥ इति ।
अपि चाह गाथाम्-
अश्लीलमपवादञ्च विगर्हां प्रतिघं तथा ।
न क्षमेताधमः सत्त्वः शिलवृष्टिं यथा खगः ॥
अश्लीलमपवादञ्च विगर्हीं प्रतिघं तथा ।
क्षमेत हि माहसत्त्वः पुष्पवृष्टिं यथा गजः ॥ इति ।
अतः क्षन्तव्यम् । तदकुशलं गुणः परिणमते । अकुशलेभ्यो गुणसंसिद्धेः । योगावचर इमे सत्त्वा मूढा अविज्ञा बालसमाना न विद्वेष्या इति प्रजानाति । इत्यनेनोपायेन मैत्रचित्तं भावयति ।
(पृ) कथं करुणां भावयति । (उ) योगावचरो ऽल्पसुखिनो दुःखबहुलान् दृष्ट्वा करुणायते । कथमहं दुःखिनि सत्त्वे पुनर्दुःखमाअध्याम् इति । अत्यन्तसुखासक्तान् दृष्ट्वा च चिन्तयति- कथमहं परप्रणिहितं हापयेयमिति । अतः करुणायते । दुःखिनं सत्त्वं दृष्ट्वा दृष्टधर्मे दुःखित्वात् दुःखी भवति । सुखिनं सत्त्वं दृष्ट्वा अनित्य[सुख]त्वात् दुःखी भवति । अतः सर्वे सत्त्वा दुःखभागिन आदावन्ते वा न विमुक्तिलाभिन इत्यनेन प्रत्ययेन करुणायते ।
(पृ) कथं मुदितां भावयति । (उ) योगावचरः परहितेर्ष्यालुता पृथग्जनलक्षणमिति दृष्ट्वा मुदितां भावयति । चिन्तयति चैवम्- सत्त्वानां सुखमुत्पादयेयमिति । [यदि] परः स्वयं लभते । तदा स मां सत्करोति । अतो मुदितामुत्पादयेत् । तदेर्ष्यादृष्टिर्वृथा नास्ति किमपि हितम् । न परमुपहन्ति । प्रत्युतात्मानमेव हिंसति । यथोक्तञ्च सूत्रे- ईर्ष्या संयोजना इति । तत्संयोजनपरिजिहीर्षया मुदितामुत्पादयति ।
(पृ) कथमुपेक्षां चरति । (उ) विषमचित्ते दोषं दृष्ट्वा चित्तसाम्यचिकीर्षया उपेक्षां चरति । योगावचरो रागप्रतिघचित्ते दोषदर्शनादुपेक्षाचर्यां भावयति ।
(पृ) इदमप्रमाणचित्तं कस्यां भूमौ वर्तते । (उ) त्रिषु धातुषु वर्तते । (पृ) आभिधर्मिकाः केचिदाहुः- तृतीयध्यानादूर्ध्वं नास्ति सौमनस्येन्द्रियम् इति । कथमिदम् । ( स्स्स्_393 ) (उ) नाहं वदामि मुदितचित्तं सौमनस्येन्द्रियस्वभावमिति । किन्तु परहिते ऽकलुषमुदितचित्तता मुदितेत्युच्यते । चत्वारीमान्यप्रमाणानि प्रज्ञास्वभावानि ।
(पृ) कथमारूप्यधातौ चत्वार्यप्रमाणानि भवन्ति । रूपलक्षणेन हि सत्त्वो विकल्प्यते । तत्र रूपणे रूपलक्षणं कथं भवेत् । (उ) अरूपसत्त्वा अपि विकल्पनीयाः । यथोक्तंसूत्रे- सरूपारूप्यादिषु कुर्यादिति । किञ्चोक्तंसूत्रे- शुभविपाकप्रतिलाभपरमां मैत्रचेतोविमुक्तिं भावयति । आकाशानन्त्यायतनप्रतिलाभपरमां करुणा[चेतोविमुक्तिं] भावयति । विज्ञानानन्त्यायतनप्रतिलाभपरमां मुदिता[चेतोविमुक्तिं]भावयति । आकिञ्चन्यायतनप्रतिलाभपरमामुपेक्षा[चेतोविमुक्तिं]भावयति । इति । अतो ज्ञायते आरूप्ये ऽपि सन्त्यप्रमाणानीति । (पृ) एकैकस्यां भूमावेकमप्रमाणमस्ति । किं नैवसंज्ञानासंज्ञायतने किमपि नास्ति । (उ) सर्वेष्वप्यायतनेषु सर्वाणि सन्ति । अत्यधिमैत्रीभावनया परं शुभायतनमुत्पद्यते । कर्मणां सरूपविपाकजनकत्वात् । यः सत्त्वानां सुखाकांक्षी स सुखविपाकं लभते । तथा करुणापि । कायाधीनतया भूयसा दुःखानां समुदयः । आकाशे च रूपं नास्तीत्यतो विज्ञानानन्त्यायतनचित्तस्यालम्बने परमसुखविहारित्वात् । आकिञ्चन्यायतनपरमा उपेक्षेति । योगावचरः संज्ञापरिक्लान्तत्वादाकिञ्चन्यायतनमुपसम्पद्य विहरति । नैवसंज्ञानासंज्ञायतने ऽपि अप्रमाणमस्ति । अतिसूक्ष्मात्वान्नोपलभ्यत इति नोच्यते । सर्वेष्वप्यायतनेषु सर्वमस्ति इति बाहुल्यवशात् उच्यते । शुभे मैत्र्यांः परमाधिक्यात् इत्येवमादि । ध्यानसमाधिषु चत्वार्यप्रमाणचित्तानि विपाकवेदनाप्रधानानि सत्त्वालम्बनत्वात् ।
(पृ) आभिधर्मिका आहुः- चत्वार्यप्रमाणानि कामधातुकसत्त्वमात्रालम्बना नीति । तत्कथम् । (उ) कस्मान्नान्यसत्त्वालम्बनानि तानि । वक्तव्यो ऽत्र हेतुः । भगवानप्रमाणसूत्र आह- इह भिक्षुर्मैत्रसहगतेन चेतसा एकां दिशं[स्फुरित्वा विहरति । तथा] द्वितीयां तथा तृतीयां चतुर्थी इत्यूर्ध्वमधस्तिर्यक्[सर्वदा सर्वत्रतायै] सर्वावन्तं लोकं [मैत्रसहगतेन चेतसा] स्फुरित्वा विहरति इति । रूपारूप्यकधातुकसत्त्वा अनित्या भङ्गुरा दुर्गति गामिन इत्यस्ति हेतुः ।
(पृ) आभिधर्मिका आहुः- कामधातुगतो योगावचर एवाप्रमाणान्युपसम्पद्य विहरतीति । कथमिदम् । (उ) सर्वायतनजाताः सर्व उपसम्पद्य विहरन्ति । (पृ) यदि तन्न जाता अपि उपसम्पद्य विहरन्ति । तदा न पुण्यं क्षीयेत । तत्र नित्यमुत्पद्येरन् । (उ) यथा तत्र ध्यानादीन् कुशलधर्मानुसम्पद्य विहरन्तो ऽपि[ततो]निवर्तन्ते । तथा मैत्रादीनपि (पृ) यद्ययं न्यायः । कस्मान्न क्षिप्रं निवर्तन्ते । (उ) अस्तीदृशं कर्म सत्यपि निवृत्तिहेतौ न निवर्तन्ते । यथा काम[धातुक]देवादयः सत्यपि कुशलकर्मणि दुर्गतावुपपद्यन्ते । तथेदमपि ॥
(पृ) मैत्रसमाधिविहारिणं कस्मान्न विषंशस्त्रमग्निर्वा क्रमते । (उ) कुशलपुण्यघनगभीरमकुशलानि नाधितिष्ठन्ति देवैः सुरक्षितत्वात् । (पृ) सूत्रमाह- मैत्रसहगतं स्मृतिसम्बोध्यङ्गं भावयति इति । सास्रवानास्रवयोः कथं सहभावना । (उ) मैत्री[स्मृति]सम्बोध्यङ्गेनानुगता भवति । यथोक्तं सूत्रे- यदि कश्चिदेकाग्रचित्तेन धर्मं शृणोति । तदा पञ्चनीवरणानि प्रहाय सप्तसम्बोध्यङ्गानि भावयति । धर्माश्रवणे ऽपि सम्बोध्यङ्गानि भावयति । इति । किञ्चोक्तं सूत्रे- भावयथ भिक्षवो मैत्रचित्तम्, प्रतिजानामि अनागामिफलं प्राप्स्यथेति । मैत्रचित्तं यद्यपि न संयोजनं हापयति । [तथापि]पूर्वमेव मैत्रचित्तेन पुण्यगुणज्ञानहितसञ्चयादार्यमार्गप्रज्ञां लब्ध्वा संयोजनानि प्रजहाति । अत उच्यते मैत्री भावनया अनागामिफलं लभत इति । मैत्री भावनया सम्बोध्यङ्गमप्येवम् ।
(पृ) अर्हन् प्रहीणसत्त्वसंज्ञः । कथमप्रमाणानि भावयति । (उ) अर्हन् मैत्रचित्तमुपसम्पद्य विहरन्नपि नमैत्रकर्मसिद्धिं सञ्चिनोति । उपपत्तिवेदनाभावात् । (पृ) बुद्धानां भगवतां महाकरुणा कथम् । (उ) बुद्धानां भगवतां नैव मीमांसाज्ञानमस्ति । धर्माणामत्यन्तशून्यतां प्रजानन्तो ऽपि पृथग्जनेषु गभीरं महाकरुणामाचरन्ति ।
(पृ) करुणाया महाकरुणायाश्च को भेदः । (उ) कृपाचित्तमात्रं करुणा । क्रियां साधयतीति महाकरुणा । कस्मात् । बोधिसत्त्वः सत्त्वानां दुःखं दृष्ट्वा तत्क्षयाय वीर्यमारभते । अप्रमाणकल्पेषु भावनासाध्यत्वान्महाकरुणेत्युच्यते । आज्ञेन्द्रियेण सत्त्वानां ( स्स्स्_395 ) दुःखं दृष्ट्वा [तत्] अपनेष्यामीति नियमेन चित्तोद्धापनं महाकरुणा । उपकारबहुलेति महाकरुणा । अप्रतिहतेति महाकरुणा । कुतः । करुणाचित्तं हि परस्य पापकं स्मृत्वा प्रतिघातमुत्पादयेत् । महाकरुणा तु नानाविधपरमपापकेष्वपि अप्रतिहतगतिर्भवति । करुणाचित्तं कदाचित् घनं, कदाचित् तनीयः, न समं भवति । सर्वत्र समेति महाकरुणा । आत्मनो हितं त्यक्त्वा परस्य हितमात्रमाकांक्षत इति महाकरुणा । करुणा तु नैवमित्ययं भेदः । बुद्धे मैत्र्यादि महदित्युच्यते । करुणा तु [कदाचित्] दुःखाकांक्षिणीति केवलेत्युच्यते ॥
चतुरप्रमाणसमाधिवर्ग एकोनषष्टुत्तरशततमः ।
160 पञ्चाङ्गार्यसमाधिवर्गः
उक्तं हि सूत्रे- पञ्चाङ्ग[भूता] आर्यसमाधयः यदुत प्रीतिः सुखं चित्तविशुद्धिः प्रकाशलक्षणं भावनालक्षणमिति । प्रीतिः प्रथमद्वितीयध्यानयोः । प्रीतिलक्षणं सममिति एकाङ्गमुच्यते । तृतीयध्याने प्रीतिविरहात् सुखं पृथगेकमङ्गमुच्यते । चतुर्थध्याने चित्तविशुद्धिस्तृतीयमङ्गमुच्यते । इमानि त्रीण्यङ्गान्याश्रित्योत्पद्यते प्रकाशभावनालक्षणम् । प्रकाशलक्षणं भावनालक्षणस्य हेतुं कृत्वा पञ्चस्कन्धान् परिभेदयति । पञ्चस्कन्धानां शून्यताभावनं भावनालक्षणमित्युच्यते । निर्वाणगामित्वादार्यम् ।
(पृ) सूत्र उक्तम्- पञ्च आर्यसमाधिज्ञानानि । कतमानि इमानि । (उ) भगवान् स्वयमाह- योगी चिन्तयति ममायं समाधिरार्यो निरामिष इति प्रथमज्ञानमुत्पद्यते । ( स्स्स्_396 ) समाधिरयमकापुरुषसेवित इति द्वितीयज्ञानमुत्पद्यते । समाधिरयं शान्तः प्रणीतः प्रीतिप्रश्रब्धिलब्ध इति तृतीयज्ञानमुत्पद्यते । अयं समाधिः प्रत्युत्पन्नसुख आयत्याञ्च सुखविपाक इति चतुर्थज्ञानमुत्पद्यते । स खलु पुनरहमिमं समाधिं स्मृत एव समापद्ये स्मृत एव व्युत्तिष्ठामीति पञ्चमं ज्ञानमुत्पद्यते । इति । अनेन समाधावपि ज्ञानमस्तीति भगवान् प्रकाशयति । चित्तधारणा परं नास्ति । समाधिं भावयतो यदि क्लेशा भवन्ति । [तदा तान्] तत्रोत्पन्नं ज्ञानमपनयति । समाधिं कृत्वा आर्यं निरामिषं छन्दयामीतीदं प्रथमज्ञानमुच्यते । आर्यो निरामिषो यदुताकापुरुषसेवित इत्ययं पण्डितप्रगीतः । अकापुरुषा यदार्यजनाः । ज्ञानलाभित्वात्कापुरुषा न भवन्ति । [यत्] ज्ञानं प्रज्ञप्तिं भिनत्ति । इदं द्वितीयज्ञानमित्युच्यते । रागादिक्लेशानामल्पीयसां निरोधात् शान्तम् । शान्तत्वात् प्रणीतम् । क्लेशादीनां विसंयोगाल्लब्धं विसंयोगलब्धमित्युच्यते । अयं वीतरागमार्गः- इदं तृतीयज्ञानं भवति । क्लेशप्रहाणसाक्षात्कारात् क्षेमं शान्तं लभते । तापविनिर्मुक्तं सुखं प्रत्युत्पन्नसुखमायतीसुखम्, प्रत्युत्पन्नं सुखं क्लेशविनिर्मुक्तं सुखम् । आयत्यां सुखं यन्निर्वाणसुखम् । इदं चतुर्थज्ञानं भवति । योगी नित्यमनिमित्तचित्तो विहरति । अतो नित्यं स्मृतो व्युत्तिष्ठति स्मृतः समाधिमुसम्पद्यते । इदं पञ्चमं ज्ञानं भवति । तस्माद्यदि पञ्चमज्ञानमिदं नोत्पन्नं, उत्पादयितव्यम् । यद्युत्पन्नं समाधिफलं लब्धमेव ॥
पञ्चाङ्गार्यसमाधिवर्गः षष्ट्युत्तरशततमः ।
161 षट्समाधिवर्गः
(पृ) उक्तं सूत्रे- समाधयः षट् अष्ट्येकलक्षणभावना एकलक्षणत्वाय संवर्तते । अस्त्येकलक्षणभावना नानालक्षणत्वाय संवर्तते । अस्त्येकलक्षणभावना एकलक्षणनानालक्षणत्वाय संवर्तते । एवं नानालक्षणभावनापि । कतमानीमानि । (उ) एकलक्षणमितीदं ध्यानसमाधिः स्यात् । ध्यानसमाधेरेकालम्बन एकाग्रताविहरणात् । नानालक्षणमितीदं ज्ञानदर्शनं भवेत् । धर्माणां नानास्वभावस्य [परि]ज्ञानात् । पञ्चस्कन्धादिधर्माणामुपायत्वात् । (पृ) कथमेकलक्षणा भावना एकलक्षणत्वाय संवर्तत इति । (उ) यत् कश्चित् समाधिमुपादाय पुनः समाधिमुत्पादयति । एकलक्षणा नानालक्षत्वाय संवर्तत इति ( स्स्स्_397 ) यदि कश्चित् समाधिमुपादाय ज्ञानदर्शनमुत्पादयति । एकलक्षणा भावना एकलक्षणनानालक्षणत्वाय संवर्तत इति यदि कश्चित् समाधिमुपादाय ध्यानसमाधिं पञ्चस्कन्धोपाय ञ्चोत्पादयति । एवं नानालक्षणभावनापि ।
(पृ) केचिदार्मिधर्मिका आहुः- एकलक्षणा भावना एकलक्षणत्वाय संवर्तत इति यदि कश्चित् चतुर्थध्यानमुपादाय अर्हत्फलं साक्षात्करोति तत् । एकलक्षणा भावना नानालक्षणाय संवर्तत इति यत् कश्चित् चतुर्थध्यानमुपादाय पञ्चाभिज्ञाः साक्षात्करोति तत् । एकलक्षणा भावना एकलक्षणनानालक्षणाय संवर्तत इति यत् कश्चित् चतुर्थं ध्यानमुपादायार्हत्फलं पञ्चाभिज्ञाश्च साक्षात्करोति तत् । नानालक्षणा भावना नानालक्षणाय संवर्तत इति यत् कश्चित् पञ्चाङ्गभूतसमाधीनुपादायार्हत्फलं पञ्चाभिज्ञाश्च साक्षात्करोति । तथा अन्यौ द्वावपि । कथमिदम् । (उ) [अत्र] हेतुर्वक्तव्यः । कस्मात् चतुर्थध्यानमर्हत्फलञ्चैकलक्षणम् । पञ्चाङ्ग[भूत]समाधिः पञ्चाभिज्ञाश्च नानालक्षणा इति । पञ्चाङ्गानि नाश्रीयन्ते । पञ्चाङ्गसमाधिश्चतुर्णां ध्यानानां प्रकाशलक्षणो भावनालक्षणः । कथं तान्याश्रित्य अर्हत्फलं लभते । कस्मात् । अवश्यं ध्यानमेकमाश्रित्य अर्हत्फलं लभते । किञ्च प्रकाशलक्षणमाश्रित्यापि अर्हत्फलं लभेत । तस्मान्नास्ति [हेतुः] ।
केचिदाहुः- षड्विधाः समाधिसमापत्तयः आनुलोमिकसमापत्तिः, प्रातिलोमिकसमापत्तिः आनुलोमिकप्रातिलोमिकसमापत्तिः आनुलोमिकव्युत्क्रान्तिः प्रातिलोमिकव्युत्क्रान्तिः आनुलोमिकप्रातिलोमिकव्युत्क्रान्तिरिति । कथमिदम् । (उ) केचिदाभिधर्मिका आहुः योगी निरोधसमापत्तावतारमिच्छतीत्यतो ध्यानेषु समापत्ति (= प्रवेश) व्युत्थाने क्रमिके । तस्मान्न स्यात् यदि वानुलोम्येन यदि वा प्रातिलोम्येन यदि वानुलोम्यप्रातिलोम्येन व्युत्क्रमादिः । पञ्चसमापत्तिव्युत्थानैः किं हितं लभते । योगी निरोधसमापत्तिं प्रापयितुरवश्यं क्रमशो ऽवतरेत् क्रमशश्च व्युत्तिष्ठेत् । यद्युत्तमभूमिभाक् कस्मात्पुनरधो भूमिमवतरति । अधोभूमिः कण्टकभूता । यथा न कश्चित्पुनर्बालक्रीडायामभिरमते । यथा च विदग्धो जनो न पुनरभिरमते मूढे । तथेदमपि स्यात् ।
यदुक्तं व्युत्क्रामतीति । इदमयुक्तम् । सूत्रे केवलमुक्तं क्रमिका ध्यानसमाधीनां ( स्स्स्_398 ) समापत्तय इति । यदि योगी व्युत्क्रामति आतृतीयम् । कस्मान्न व्युत्क्रामति आचतुर्थपञ्चमम् । बलानुभावसदृशमिदमिति यदि मतम् । यथा कश्चित् श्रेणिमारुह्य एकं सोपानं व्युत्क्रमेत् न द्वौ । दृष्टान्तो ऽयमपि नैकान्तिकः । महाबलिष्ठः कश्चित् चत्वारि सोपानान्यपि व्युत्क्रमेत् । शतं पक्रमान् प्रक्रममाणो ऽपि कश्चिदस्ति । अतो न युज्यते । सूत्रे यद्यप्युक्तं भगवता निर्वाणं समापद्यमानो ऽनुलोमप्रतिलोमं व्युत्क्रम्य ध्यानसमाधीन् समापद्यत इति । सूत्रमिदं सम्यगर्थविरुद्धम् । न श्रेद्धेयम् । सत्यपि वचने ऽस्मिन् नायमर्थो युक्तः । कस्मात् । यदि योगिनो निरोधसमापत्तावतारं वदति तदानुलोम्येन समापत्तिः स्यात् नैकक्षणे पञ्चधा । योगी यदि साक्षान्निरोधसमापत्त्यवतारमिच्छति तदा नैकक्षणे स्यात् । यदि ध्यानसमाधिषु स्वचित्तं बुभुक्षति, वशित्वापरिहाणित्वात् अनुलोमप्रतिलोमं व्युत्तिष्ठति समापद्यते व्युत्क्रामति च । यथा कश्चिदश्वमारूढो यदि प्रतिबलरुद्धः, तदा नावश्यं प्रतिनिवर्तते । यदि दमनं निषेवितुमिच्छति । तदा रहसि [करोति] ।
यदुक्तम्- अधोभूमिः कण्टक[भूता] । न [तत्र] समापद्येतेति । अधोभूमेर जयात् पुनः समापद्यते । योगिगोचरमार्गत्वात् । यदुक्तं यथा न कश्चित् बालक्रीडायामभिरमत इति । [तत्र] निदानं कदाचिद्बालक्रीडात्मकं भवति । यथा कश्चिद्वृद्धो नटः सर्वदा नृत्यति न तृप्तो भवति । शिक्षणार्थत्वात् । एवमार्यः अनुलोमप्रतिलोमं ध्यानेषु व्युत्तिष्ठति समापद्यते व्युत्क्रामति च देवमनुष्याणां प्रदर्शनकामित्वात् महर्षीणां समाधिषु वशिताबलाच्च । भगवान् परिनिर्वाणगमनकाले परमप्रणीतध्यानसमाधिभिर्वासितशरीरत्वात् स्वतन्त्रं समापद्यत व्युदतिष्ठत् अनुलोमं प्रतिलोमं व्युदक्रामीत् । अनुपधिशेषनिर्वाणगतं भगवन्तं पश्यन् सर्वेभ्यो ऽकुशलसंस्कारेभ्यो निर्विद्येत । अतो भगवानस्मिन् धर्मे ऽद्भुतं प्रेमाविश्चकार ।
इदं सूत्रं सम्यगर्थविरुद्धमिति यत् भवानवोचत् । तदिदमयुक्तम् । यत् भवतोक्तं कस्मान्न व्युत्क्रामति यावच्चतुर्थमिति । [तत्] बोधिसत्त्वपिटक उक्तं व्युक्त्रान्तिलक्षणम्- प्रथमध्यानात् व्युत्क्रम्य निरोधसमापत्तिं समापद्यते । निरोधसमापत्तेर्व्युत्क्रम्य यावद्विक्षिप्तचित्तमवतरति इति । चित्तबल महिम्ना एवं शन्कोति ॥
षट्समाधिवर्ग एकषष्टयुत्तरशततमः ।
162 सप्तसमाधिवर्गः
शास्त्रमाह- सप्त निश्रयाः प्रथमं ध्यानं निश्रित्यास्रवक्षयं लभते । यवदाकिञ्चन्यायतनं निश्रित्यास्रवक्षयं लभत इति । निश्रयो नाम यत् सप्तध्यानान्युपादायार्यज्ञानं प्रतिलभते । यथोक्तम्- समाहितस्य यथाभूतज्ञानमुत्पद्यत इति । प्रतिलब्धध्यानसमाधिमात्रं कञ्चन सम्पन्नं वदति । अतो भगवानाह- नायं सम्पन्न इति । समाधिमिमं निश्रित्य आस्रवाणां क्षयाख्यं विशिष्टं धर्मं प्रार्थयीत । अत उच्यते निश्रय इति ।
(पृ) कथमिमान् ध्यानसमाधीन् निश्रित्यास्रवाणां क्षयं लभते । (उ) भगवानाह- योगी येनाकारेण येनालम्बनेन प्रथमं ध्यानं समापद्यते स योगी तदाकारं तदालम्बनं न पुनः स्मरति । किन्तु पश्यति प्रथमध्याने यद्रूपाणि यदि वा वेदनासंज्ञासंस्कारविज्ञानानि रोगतो गण्डतः शल्यतो ऽघतो ऽनित्यतो दुःखतः शून्यतो ऽनात्मतः । एवं पश्यतश्चित्तमास्रवेभ्यो विमोक्षाय निर्विद्यते । यावदाकिञ्चन्यायतनमप्येवम् । परन्तु त्रीण्याकाशानन्त्यायतना[दी]नि आरूप्यदर्शनीयानि । योगी कामधातुमोहितः प्रथमं ध्यानं निर्वाणमिति पश्यति । तत्तु पश्चाल्लभते । अतो भगवानाह- मा मन्यध्वं निर्वाणसुखलक्षणमिति । किन्तु पश्यत प्रथमध्याने पञ्चस्कन्धानामष्टादीनवान् इति । तथा निश्रयान्तरेष्वपि ।
(पृ) कामधातुः कस्मान्न निश्रय इत्युच्यते । (उ) उक्तं हि सुसीमसूत्रे- अतिक्रम्य सप्त निश्रयान् अस्ति आर्यमार्गप्रतिलम्भनम् इति । अतो ज्ञायते कामधातुरप्यस्तीति ।
(पृ) केचिदाहुः- प्रथमध्यानसामन्तकमप्राप्तभूमिं निश्रित्य [अपि] अर्हत्फलं लभत इति । कथमिदम् । (उ) मैवम् । यद्यप्राप्ता भूमिर्निश्रयो भवति । तदास्ति ( स्स्स्_400 ) दोषः । यद्यप्राप्तां भूमिं लब्धुं शक्नोति । कस्मान्न प्रथमं ध्यानं समापद्यते । अतो न युक्तमिदम् । (पृ) नैवसंज्ञानासंज्ञायतनं कस्मान्न निश्रय इत्युच्यते । (उ) न तत्रास्ति संज्ञानम् । समाधौ भूयसा प्रज्ञाल्पीयसी । अतो नोच्यते [स] निश्रयो भवतीति । सप्तसंज्ञासमाधयस्तु सप्त निश्रया भवन्ति । कस्मादाह भगवान् सप्तनिश्रयाः सप्त संज्ञासमाधय इति । (उ) तीर्थिका अतत्त्वज्ञत्वात् संज्ञामात्रमाश्रयन्ते । सर्वे निश्र्याः संज्ञाकलुषिता न विमोक्षाय भवन्ति इत्यतः संज्ञासमाधिरित्याख्या । आर्यास्तु संज्ञां भङ्क्त्वा समाधिमिमं निश्रित्य आस्रवाणां क्षयमुपाददते । अतो निश्रय इत्याख्या । यथोक्तं योगी धर्मानिमान् पश्यति रोगतो गण्डत इति । नैवसंज्ञानासंज्ञायतनमपि संज्ञया असंज्ञानान्न संज्ञासमाधिरित्युच्यते ।
सप्तसमाधिवर्गो द्विषष्टयुत्तरशततमः ।
163 अष्टविमोक्षवर्गः
शास्त्रमाह- सूत्र उक्तं- अष्टौ विमोक्षाः- अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति इति प्रथमो विमोक्षः । योगावचरो ऽनेन विमोक्षेण रूपाण्यभिभावयति । केनेदं ज्ञायते । द्वितीयविमोक्षे ह्युक्तम्- अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि इति । अध्यात्मरूपपरिभेदनादाह- आध्यात्ममरूपसंज्ञीति । अतो ज्ञायते योगावचरः प्रथमविमोक्षे क्रमेण कायरूपमभिभवतीति । द्वितीयविमोक्षं प्राप्य तत्र रूपमभिभूतमेव । बाह्यरूपमात्रमस्ति । तृतीयविमोक्षे बाह्यरूपमप्यभिभूतम् । अतो न पश्यति अध्यात्मं बहिर्धा रूपञ्च । इदं रूपशून्यमित्याख्यायते । यथोक्तं पारायणसूत्रे-
रूपलक्षणविध्वंसी सर्वान् कामान् जहाति च ।
अन्तर्बहिश्च नो पश्यन् अहं पृच्छामि वस्त्विदम् ॥ इति ।
[अत ऊर्ध्वं] चतुर्षु विमोक्षेषु चित्तं विज्ञानशून्यमित्याह । यथोक्तं षड्धातुसूत्रे- यो भिक्षवः पञ्चसु धातुषु अत्यन्तनिर्विण्णः, [तस्य] अन्यत् ज्ञानमात्रमस्ति इति । ( स्स्स्_401 ) ज्ञातव्यं चतुर्षु विमोक्षेषु विज्ञानान्यनुभवतीति । अष्टमविमोक्षे सर्वेषां क्षयः । कस्मात् रूपनिरोधे चित्तनिरोधे संस्कृतानामात्यन्तिकनिरोधः । इदमेवार्हत्फलमित्युच्यते । एवं क्रमेण क्षयभाक् भवति । इमे ऽष्टविमोक्षाः ।
कश्चिदाह- प्रथमौ द्वौ विमोक्षावविशुद्धौ । तृतीयस्तु विशुद्ध इति । नेदं युज्यते । कस्मात् अयं विमोक्ष इति नास्ति [यत्किञ्चित् । यस्य] अविशुद्धभावनया विमोक्षं लभते । विशुद्धभावनयापि नास्ति विमोक्षः । केवलं शून्यभावनया विमोक्षं लभते । तीर्थिका विशुद्धाविशुद्धभावनां भजन्तेन विमोक्षभागिन इत्याख्यायन्ते ।
(पृ) तीर्थिका अपि रूपलक्षणं विनाश(य)न्ति । कथमिदम् । (उ) तीर्थिका विमोक्षाधिमुक्त्या रूपलक्षणं विनाशयन्ति न तु शून्यभावनया । कस्मात् । यथाभावनाधिमुक्तिप्रयोगं मृतपरित्यक्तं कायं श्माशानिककृमयो भक्षयन्ति इत्यादि पश्यन्ति । (पृ) तीर्ति(र्थि)का रूपविनिर्मुक्तमारूप्यसमाधिं विन्दन्ते । [तेषां] आरूप्यविमोक्षो भवेत् । (उ) तीर्थिकानां सत्यपि आरूप्यसमाधौ [तत्र] आसङ्गान्न[स]विमोक्ष इत्युच्यते । आर्याः पुनरारूप्यसमाधिमुपादाय चतुरः स्कन्धान् रोगत इत्याद्यष्टभिराकारैः पश्यन्ति । अतो विमोक्ष इत्युच्यते ।
(पृ) भवानवोचत्- निरोधसमापत्तिरर्हत्फलमिति । इदमयुक्तम् । कस्मात् । शैक्षा अपि अष्टविमोक्षभाज उच्यन्ते । निरोधसमापत्तिरास्रवक्षयात्मिकेति भवतोक्तम् । तथा च शैक्षा आस्रवक्षयभाजः स्युः । (उ) सूत्रे सामान्यलक्षणेन निरोध उक्तः । न तु विविच्य अयं चित्तनिरोधः अयं क्लेशक्षय इति । यथोक्तं सूत्रे- निरोधो द्विविधः [क्षय]निरोधः अनुपूर्वनिरोध इति । द्विविधं निर्वाणं दृष्टधर्मनिर्वाणम् आत्यन्तिकनिर्वाणमिति । किञ्चाह क्षेमो द्विविधः- [अवर]क्षेमः परमक्षेम इति । क्षेमलाभो ऽपि द्विविधः [अवर]क्षेमलाभः परमक्षेमलाभ इति । अतः शैक्षजनानां प्रतिलब्धो न पारमाथिकनिरोधः । किञ्चोक्तं ( स्स्स्_402 ) सूत्रे निरोधसमापत्तिमुपसम्पन्नो भिक्षुः कृतकरणीय इति । यदि निरोधसमापत्तिर्नार्हत्फलम्, तदा कृतकरणीय इति नाभिदध्यात् ।
(पृ) किं शैक्षा वस्तुतो नाष्टविमोक्षान् लभन्ते । (उ) सूत्र उक्तं शैक्षो नवानुपूर्वसमाधीन् लभत इति । न तूक्तं क्षयनिरोधं प्रतिलभत इति । योगावचरो यदि क्षयनिरोधं प्रतिलब्ध्वा न ध्यानसमाधीन् समापद्यते । अयं प्रज्ञाविमुक्त इत्युच्यते । यदि ध्यानसमाधीन् समापद्यते न क्षयनिरोधं लभते । [तदा] कायसाक्षीत्युच्यते । यद्युभयं लभते । तदा उभयतो विमुक्त इत्युच्यते । कस्मात् । क्लेशा एको भागः । ध्यानसमाध्यावरणधर्मा अपरो भागः । उभाभ्यां भागाभ्यां विमुक्त उभयतो[भाग]विमुक्त इत्युच्यते । (पृ) अनुपूर्व[विहारे]षु निरोधो विमोक्षेषु निरोधश्च किं नाना । (उ) व्यञ्जनमेकम् । अर्थस्तु नाना । अनुपूर्वेषु निरोधश्चित्तचैत्तानां निरोधः । विमोक्षेषु निरोधः क्लेशानां निरोधः । यथोक्तं सूत्रे- संस्काराणामनुपूर्वनिरोधः । तथाहि- प्रथमध्यानं समापन्नस्य वाक् निरुध्यते । द्वितीयध्यानं समापन्नस्य वितर्कविचारा निरुद्धा भवन्ति । तृतीयध्यानं समापन्नस्य प्रीतिर्निरुध्यते । चतुर्थध्यानं समापन्नस्य सुखं निरुध्यते । आकाशानन्त्यायतनं समापन्नस्य रुपसंज्ञा निरुद्धा भवति । विज्ञानानन्त्यायतनं समापन्नस्य आकाशानन्त्यायतनसंज्ञा निरुद्धा भवति । आकिञ्चन्यायतनं समापन्नस्य विज्ञानानन्त्यायतनसंज्ञा निरुद्धा भवति । नैवसंज्ञानासंज्ञायतनं समापन्नस्य आकिञ्च न्यायतनसंज्ञा निरुद्धा भवति । निरोधसमापत्तिं समापन्नस्य संज्ञा च वेदना च निरुद्धा भवति । इति । एषु निरोधेषु निरोधो विशिष्टो यदुत योगावचरो रागद्वेषमोहेभ्यो निर्विण्णो विमुच्यते ।
(पृ) कथं ज्ञायते अनुपूर्वेषु चित्तचैत्तानां निरोधः विमोक्षेषु क्लेशानां निरोध इति । (उ) निरोधस्तुल्यार्थो ऽपि मेदवान् स्यात् । अनुपूर्वेषूच्यते संज्ञावेदयितनिरोध इति । विमोक्षेषु अविद्यावेदनास्पर्शनिरोध इति । कस्मात् । प्रज्ञप्तितो हि वेदनोत्पद्यते । प्रज्ञप्तिभेदे वेदना निरुध्यते । सूत्रेष्वस्तीदृशो विभागः । यद्याह- कण्ठतो योगावचरः ( स्स्स्_403 ) क्षयनिरोधलाभीति । तदा [स] कृतकरणीय इति । ज्ञातव्यं निर्वाणं सक्षात्कुर्वतः सर्वे क्लेशा निरुध्यन्त इति । न त्वाह चित्तचैत्ता निरुध्यन्त इति । (पृ) यद्यष्टविमोक्षाः क्लेशनिरोधधर्मकाः । तदा सर्वे ऽर्हन्तः सर्वदा लभेरन् । (उ) सर्वे लभन्ते । न तु समापद्यन्ते । ये ध्यानसमाधीन् साक्षात्कुर्वन्ति ते समापद्यन्ते । (पृ) योगावचरस्य यदि न सन्ति ध्यानसमाधयः । कथं स कायचित्तशून्यतां लभते क्लेशांश्च क्षपयति । (उ) अयं समाधियुक्तो ऽपि न साक्षात्करोति । अस्ति पुनस्तटिदुपमसमाधिः । [इमं] समाधिमुपादाय क्लेशान् क्षपयति । यथोक्तं सूत्रे- मम भिक्षवश्चीवरमुपादित्सोः क्लेशो भवति । चीवरमुपादाय पुनः क्लेशो न भवति । इत्यादि । कस्मात् । तटिदुपमसमाधिचित्तं वज्रोपमं तत्त्वज्ञानं क्लेशान् भिनत्ति । अर्थो ऽयं भगवता तृतीयबल उक्तः यदुत ध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानविभागयथाभूतज्ञानम् । तत्र ध्यानं नाम चत्वारि ध्यानानि । केचिदाहुः- चत्वारि ध्यानानि चत्वारो ऽरूपसमाधयः सर्वे ध्यानमित्युच्यन्ते । विमोक्षः अष्टविमोक्षाः । समाधिरेकक्षणतटिदुपमसमाधिः । समापत्तिः ध्यानविमोक्षसमाधिषु वशिताबललाभः यथाह- शारिपुत्रः- सप्तबोध्यङ्गेषु समापत्तिं व्युत्थानञ्च वशीकरोमि इति । अतो ज्ञायते प्रज्ञाविमुक्तस्यार्हतः सन्ति ध्यानसमाधयः । किन्तु न [तत्र] समापद्यते । अभ्यासप्रकर्षात् समापत्तिं वशीकरोति ।
(पृ) कस्मादर्हन् न ध्यानसमाधीनां प्रकृष्टमभ्यस्ता भवति । (उ) पुरुषो ऽयं प्रतिलब्धमार्गः कृतकृत्यो भवति । उपेक्षाभिनवात् न सम्यगभ्यस्यति । यद्युपेक्षाचित्तं नास्ति तदासमापत्तिं समापद्यते इति नास्ति दूषणम् । यथोक्तं सूत्रे- योगावचरश्चतुर ऋद्धिपादान् सम्यगभ्यसन् हिमवन्तं पर्वतराजं तथा धमति यथा रेणुपर्यवसन्नं भवति । किं पुनर्मरणमविद्याम् इति । अतो ज्ञायते अष्टविमोक्षेषूच्यते आस्रवक्षयनिरोधः न निरोधसमापत्तिं समापद्यत इति । उक्तञ्च सूत्रे- अस्ति विद्यास्वभावः अस्ति शून्यस्वभावः, अस्त्याकाशानन्त्यायनस्वभावः, अस्ति विज्ञानानन्त्यायत(न)स्वभावः अस्त्याकिञ्चन्यायतनस्वभावः अस्ति नैवसंज्ञासंज्ञायतनस्वभावः अस्ति निरोधस्वभावः । अविद्यामुपादायास्ति विद्यास्वभावः । ( स्स्स्_404 ) अशून्यमुपादयास्ति शून्यस्वभावः । रूपमुपादायास्त्याकाशानन्त्यायतनस्वभावः । अकाशानन्त्यायतनस्वभावमुपादायास्ति विज्ञानानन्त्यायतनस्वभावः । विज्ञानानन्त्यायतनस्वभावमुपादायास्त्याकिञ्चन्यायतनस्वभावः । आकिञ्चन्यायतनस्वभावमुपादायास्ति नैवसंज्ञानासंज्ञायतनस्वभावः । पञ्चस्कन्धानुपादायास्ति निरोधस्वभाव इति । पञ्चस्कन्धान् प्रज्ञप्तिलक्षणान् यो न परिभेदयति तस्याविद्या भवति । यस्तान् परिभेदयति । तस्य भवति विद्यास्वभावः । यथा भगवान् एकं भिक्षुमनुशास्ति- शून्येषु सर्वसंस्कारेषु संस्कारान् शून्यान् भावयित्वा दमय स्वचित्तम् इति । यथा कश्चित्प्रदीपमादाय शून्यागारं प्रविश्य पश्यति सर्वं शून्यमिति । [तथा] योगावचरो रूपमुपादायाधिगच्छति रूपमिदं निरुद्धमिति । अयं शून्यस्वभाव इत्युच्यते । तीर्थिका आकाशानन्त्यायनमुपादाय प्रतिलभन्ते रूपाद्वियुज्यन्ते । यावन्नैवसंज्ञानासंज्ञायतनमुपादाय आकिञ्चन्यायतनात् वियुज्यन्ते ।
स्कन्धानुपादायास्ति निरोधस्वभाव इति । योगावचर[श्चिन्तयति]- यत्किञ्चनमनस्कारः यत्किञ्चनकृतकरणम् सर्वेषां निरोधः श्रेयानिति । अयं स्कन्धानुपादायास्ति निरोधस्वभाव इति ।
(पृ) इमे स्वभावाः कं समाधिं निश्रित्य प्रतिलभ्यन्ते । (उ) सूत्र उक्तम्- विद्यास्वभावो यावत् नैवसंज्ञानासंज्ञायतनस्वभावः सर्वं खयं समाधिसमापत्तिविहरणात्प्रतिलभते यदुत संस्कृतमार्गविहरणात्प्रतिलभत इति । कस्मात् । आद्यो रूपज्ञानालम्बनो विद्यास्वभावः । द्वितीयस्वभावो ऽपि रूपोपादानो रुपमुपादाय तथा विवेचयति यथा शून्यं भवति । एवं यावन्नैवसंज्ञानासंज्ञायतनस्वभावः, सर्वे संस्कृतधर्माः शून्या इति निरोधसमापत्त्या निरोधं प्रतिलभते । अत्र सर्वेषां संस्कृतधर्माणां क्षयनिरोधात् । अतो ज्ञायते अत्रोक्तो निरोधः क्षयनिरोधो निर्वाणमिति ।
(पृ) इमे विमोक्षाः कस्यां भूमौ भवन्ति । (उ) योगावचरो रूपपरिभेदेच्छया कामधातुप्रतिलब्धं समाधिं वा रूपधातुप्रतिलब्धं वा समाधिं निश्रयमाणो रूपं शून्यं प्रतिलभते । सर्वभूमिगतं चित्तञ्च शून्यं प्रतिलभते । (पृ) एषु विमोक्षेषु कति सास्रवाः कति अनास्रवाः । (उ) शून्यस्वभावत्वात् सर्वे ऽनास्रवाः ॥
अष्टविमोक्षवर्गस्त्रिषष्ट्युत्तरशततमः ।
164 अष्टाभिभ्वायतनवर्गः
अध्यात्मं रूपसंज्ञी [एको] बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि । तान्यभिभूय जानाति पश्यति । एवं संज्ञी च भवति । इदं प्रथममभिभ्वायतनम् । अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति अधिमात्राणि[सुवर्णदुर्वर्णानीति विस्तरो यावत्] इदं द्वितीय[मभिभ्वायतन]म् । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि [सुवर्णदुर्वर्णानीति यावत्] इदं तृतीय[मभिभ्वायतन]म् । अध्यात्ममरूपसंज्ञी बहिर्धी रूपाणि पश्यति अधिमात्राणि [सुवर्णदुर्वर्णानीति यावत्] इदं [चतुर्थमभिभ्वायतन]म् । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि नीलवर्णानि नीलनिर्भासानि तद्यथा उमकापुष्पं[सम्पन्नं] वाराणसेयं वा वस्त्रं[नीलं नीलवर्णं नीलनिदर्शनं नीलनिर्भासम् । तानि खलु रूपाण्यभिभूय जानाति पश्यति । एवंसंज्ञी च भवतीदं] पञ्चम[मभिभ्वायतन]म् । षष्ठं पीतानि पश्यति । सप्तमं- रक्तानि पश्यति । अष्टमं- अवदातानि पश्यति । योगावचर एवमप्रमाणानि रूपाणि पश्यति । कस्मात् । न केवलं सन्तीमानि नीलादीनि चत्वारि रूपाणि । संक्षिप्यकथनादष्टाभिभ्वायतनानि भवन्ति । योगावचरो यदा शून्यतया रूपाणि परिभेदयति । तदा अभिभ्वायतनमित्युच्यते ।
(पृ) क इदं प्रतिलभते । (उ) इमे भगवतः श्रावका नान्ये । (पृ) इमान्यष्टाभिभ्वायतनानि कस्या भूमौ भवन्ति । (उ) कामधातौ भवन्ति । (पृ) किं सास्रवाणि उतानास्रवाणि । (उ) पूर्वं सास्रवाणि सन्ति शून्यतया रूपाणां परिभेदे ऽनास्रवाणि भवन्ति । (पृ) कस्मादयं धर्मः केवलमभिभ्वायतनमित्युच्यते । (उ) इदं योगावचराणामभ्यासक्तमायतम् । अतो भगवान् श्रावकाणां कृत आह- अभिभ्वायतनमिति । तदालम्बनाभिभवप्रदर्शनार्थम् ॥
अष्टाभिभ्वायतनवर्ग श्चतुष्पष्टयुत्तरशततमः ।
165 नवानुपूर्व[विहारेषु]प्रथमध्यानवर्गः
नवानुपूर्वविहाराः- चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तयः निरोधसमापत्तिश्च । प्रथमं ध्यानम्- यथोक्तं सूत्रे योगावचरो विविच्यैव कामैर्विविच्याकुशलै ( स्स्स्_406 ) धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसम्पद्य विहरतीति । (पृ) प्रथमध्यानलक्षणमात्रं वक्तव्यम् । कस्मात्पुनरुच्यते विविच्यैव कामैरिति । (उ) केचिदपवदन्ति नास्ति कामविविक्तो लोक इति । लौकिकानां [सदा] पञ्चकामेषु स्थितत्वात् । न हि कश्चिच्चक्षुषा रूपं न पश्यति । श्रोत्रेण शब्दं न शृणोति, घ्राणेन गन्धं न जिघ्रति, रसनया रसं न रसयति, कायेन न स्पर्शाननुभवतीति । अत उच्यते विविच्यैव कामैरिति । कामो नाम कामचित्तं न रूपादिः । यथोक्तम्- रूपादयः पदार्था न कामा इति । कथं तज्जानीमः । व्यवसायी खलु रूपादिषु स्थित्वैव कामं प्रजहाति । यथोक्तं सूत्रे- रूपादयस्तद्भागा न कामा भवन्ति इति । अतो रागचित्तं काम इत्युच्यते । यस्य रागचित्तं भवति स कामान् पर्येषते । कामपर्येषणाप्रत्ययं रागप्रतिधवधविहिंसा अकुशला धर्मा अनुवर्तन्ते । यथोक्तं महानिदानसूत्रे- तृष्णां प्रतीत्य पर्येषणा इत्यादि । अतो ज्ञायते कामरागैर्विविक्तत्वात् विविच्यैव कामैरिति । केचिदाहुः- रूपादिभिः पञ्चकाम[गुणै]र्विविक्तं कामैर्विविक्तमिति । विविच्याकुशलै र्धर्मैरिति पञ्चनीवरणैर्विविक्तम् ।
प्रथमं ध्यानं विक्षिप्तचित्तासन्नत्वात्सवितर्कम् । योगावचरस्यापरिनिष्पन्नसमाधिबलस्य चित्तविक्षेपस्योदयात्सवितर्कम् । यथोक्तं सूत्रे- सवितर्क सविचारं विहारं विहरामीति । [अतो] ज्ञातव्यं भगवानवोचत्- विक्षिप्तचित्तं वितर्क इति । वितर्को ऽयं क्रमशश्चित्तसमाधानप्रवृत्तौ विचारो भवति । यदा समाधिपरिनिष्पत्त्या चित्तं न भूयसा विक्षिपति तदा विचारः । विचारो ऽयं योगावचमनुतर्तयन् ध्यानान्तरालं प्राप्नोति । वितर्कविचारविविक्तस्य प्रीतिलाभे विवेकजा प्रीतिरिच्यते । प्रीतिरियं प्रथमलब्धा कायं सुखयतीति सुखं भवति । वितर्कविचारविवेक[जा] प्रीतिरेकालम्बनस्थिता ध्यानमित्युच्यते । ध्यानस्यास्य वितर्कविचारव्याकुलत्वात् कायान्तरविपाकं प्रतिलभते । अस्योत्तममध्यमाधमविभागात्सन्ति ब्रह्मकायिका ब्रह्मपुरोहिता महाब्रह्माणः ।
(पृ) यदि वितर्कविचारविवेक[जा] प्रीतिः प्रथमं ध्यानम् । तदा न स्यात् पञ्चाङ्गं प्रथमं ध्यानम् । यदि वितर्कविचारविवेकः, द्वितीयध्यानस्य को भेदः । उक्तञ्च सूत्रे- प्रथमं ध्यानं सवितर्कं सविचारम् । अन्यत् प्रश्रब्धिसुखम् अन्या च प्रीतिरिति । यदि प्रीतिरेव सुखम्, तदा सप्तसम्बोध्यङ्गेषु प्रस्रब्धिबोध्यङ्गं न पृथगुक्तं स्यात् । ( स्स्स्_407 ) (उ) प्रथमं ध्यानं न स्यात्पञ्चाङ्गमिति भवद्वचनमयुक्तम् । न ह्युच्यते पञ्चाङ्गानि प्रथमध्यानस्वभावा इति । प्रथमध्यानस्यासन्नभूमाविमौ वितर्कविचारौ स्त इत्यङ्गमित्युच्येते ।
(पृ) यद्यासन्नभूमिको धर्मगणो ऽङ्गमिति । प्रथमं ध्यानमपि पञ्चकाम[गुणा]नां प्रत्यासन्नमिति [ते] अङ्गानि वक्तव्यानि स्युः । (उ) पञ्चकाम[गुणा]न प्रत्यासन्ना भवन्ति । योगावचरचित्तं हि [त]द्विविक्तमेव । प्रथमध्यानानन्तरञ्च न कामचित्तमुदेति । पञ्चकामगुणाश्च न प्रथमध्यानस्याङ्गानि वर्तन्ते । अङ्गं नाम कारणम् । भाग एव कारणम् । यथार्यमार्गाङ्गानि सञ्चितानि कारणानित्यादि । तथा वितर्कविचारावपि प्रथमध्यानस्य कारणम् । यत् योगावचर आलम्बने समाहितः, [ततो] व्यावर्तने पुनस्समाधिनिमित्तमुपादाय तत्रालम्बने चित्तं समाधाय मौलिकं निमित्तं मनसि करोति । इमौ वितर्कविचारौ । अतो ज्ञायते वितर्कविचारौ प्रथमध्यानस्य कारणमिति । द्वितीयध्याने चित्तसमाधानं स्थितमेव । अतो न तौ कारणम् । ध्यानद्वयसमनन्तरञ्च न वितर्कविचारौ भवतः ।
यदाह भवान् प्रथमं ध्यानं वितर्कविचारसहगतमिति । तदयुक्तम् । प्रथमध्यान उत्पन्ने ऽथ वितर्कविचारौ भवतः । तयोः प्रत्यासन्नत्वात् तत्सहगतमित्युच्यते । यथा शिष्येण सह गच्छतीति किञ्चिद्विप्रर्षे ऽपि सहेत्युच्यते । अम्या भूमेर्जननहेतुकतया वितर्कविचारौ स्तः । यथा भूतपीडितः पुरुषो [भूत] अनुद्ग्रमे ऽपि पीडित इत्युच्यते । पुरुषस्यास्य भूतदूषितस्य पुनरुद्भवप्रत्ययो ऽस्तीति [कृत्वा] पीडित इत्युच्यते । सुखवेदनैव प्रीतिः । किन्तु विभज्योच्यते । प्रश्रब्धितो ऽपि सुखं पृथगुच्यते । यथोक्तं सूत्रे- प्रश्रब्धकायः सुखं वेदयत इति ।
(पृ) तथा चेत् कथं प्रथमं ध्यानं पञ्चाङ्गमित्युच्यते । (उ) कालतः पञ्चोच्यन्ते । यथा सप्तबोध्यङ्गानि कालाभिसन्धिं लब्ध्वा चतुर्दश भवन्ति । तत्रोच्यते अस्ति कायप्रश्रब्धिः अस्ति चित्तप्रश्रब्धिरिति । न तु वस्तुतो ऽस्ति कायप्रश्रब्धिः । चित्तमेव सुखितमिति [तत्] कायो ऽपि वेदयते । एवं प्रीतिरपि प्रथमतः कायगता प्रीतिसुखमित्युच्यते । प्रीतिः प्रथमलब्धलक्षणा सुखं भवति । पश्चात्परं प्रीतिरित्यायते । ( स्स्स्_408 ) कालभेदात् । न ह्यस्ति पृथक् प्रश्रब्धिधर्मः । प्रीतौ जातमात्रायां कायचित्ते अदुष्ठुले सुकुमारे दान्ते च भवत इत्यतः प्रश्रब्धिरित्युच्यते । यथा रोगिणश्चतुर्महाभूतानां निरोधः, अरोगिणश्चतुर्महाभूतानामुदयः तदा अयं पुरुषः सुखीति नाम । एवं प्रश्रब्धिरपि । प्रशमने ऽपि प्रश्रब्धिरित्युक्तम् । यथोक्तं सूत्रे- संस्काराणामनुपूर्वनिरोधः- तथाहि- प्रथमं ध्यानं समापन्नस्य वाक् निरुद्धा भवति । यावन्निरोधसमापत्तिं समापन्नस्य संज्ञा वेदना च निरुद्धा भवति । इति । अतो नास्ति पृथक् प्रश्रब्धिधर्मः ।
यदि मतं प्रथमं ध्यानं वितर्कविचारसम्प्रयुक्तमिति तदपि न युक्तम् । कस्मात् । उक्तं हि सूत्रे- यदि योगावचरः प्रथमं ध्यानं समापद्यते । तदा वाक् निरुद्धा भवति इति वितर्कविचारौ च वाचो हेतुः । कथं वाचो हेतुरस्ति, वाक् च निरुद्धा भवति । यदि मतं वितर्कविचारौ यद्यपि वर्तेते । व्यवहारमात्रं निरुद्धं भवतीति । तदा कस्यचित् कामधातुकचित्तगतस्य अव्यवहारकाले ऽपि [विअतर्कविचार]रोधो भवेत् ।
(पृ) प्रथमध्याने वितर्कविचारौ न स्तः । आर्यस्तृष्णींभावः स्यात् । भवांस्तु द्वितीयध्यानमार्यतूष्णींभावमाह । न प्रथमध्यानम् । अतो ज्ञायते प्रथमध्याने वितर्कविचारौ स्याताम् इति । (उ) वितर्कविचारप्रत्यासन्नत्वान्नाह आर्यतूष्णींभाव इति । न तु वितर्कविचारसम्प्रयुक्तत्वात् । उक्तञ्च सूत्रे- प्रथमध्यानस्य शब्दः कण्टक इति । अतो नाह तूष्णीभाव इति । (पृ) प्रथमध्यानस्य कस्मात् शब्दः कण्टको भवति । (उ) प्रथमध्याने समाधिगतं चित्तं कुसुमे सलिलवत् पेशलम् । द्वितीयध्यानादौ समाधिगतं चित्तं सर्जरस्रसतरुवत् सुदृढन् । स्पर्शादयो ऽपि प्रथमध्यानस्य कण्टकाः । स्पर्शस्य प्रथमध्यानस्योत्थापकत्वात् । न तथा द्वितीयध्यानादेः । कस्मात् । प्रथमध्याने पञ्चविज्ञानानामव्युपशभात् । द्वितीयध्यानादौ च तेषां व्युपशमात् ॥
नवानुपूर्व [विहारे]षु प्रथमध्यानवर्गः पञ्चषष्ट्युत्तरशततमः ।
166 द्वितीयध्यानवर्गः
[पुनश्च योगावचरः] वितर्कविचाराणां व्युपशमात् अध्यात्मं सम्प्रसादनं चेतस एकोतिभावमवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयध्यानमुपसम्पद्य विहरति । (पृ) यदि वितर्कविचाराणां व्युपशमात् द्वितीयध्यानम्, तर्हि प्रथमध्यानं सवितर्कं सविचारमेष्टव्यम् । यथा द्वितीयध्याने प्रीतिरस्तीति व्युपशान्तप्रीति तृतीयध्यानमित्युच्यते । (उ) यथा प्रथमध्याने दुःखेन्द्रिये ऽसत्यपि द्वितीयध्याने दुःखेन्द्रियव्युपशम उच्यते । तथेदमपि । (पृ) प्रथमध्याने दुःखेन्द्रिये ऽसत्यपि [पञ्च] विज्ञानानि सन्ति । विज्ञानानि च दुःखेन्द्रियस्याश्रयाः । अत उच्यते प्रथमध्याने दुःखेन्द्रियस्याव्युपशमः । (उ) प्रथमध्याने सन्त्यपि विज्ञानानि न दुःखेन्द्रियस्याश्रया भवन्ति । (पृ)पञ्चविज्ञानस्वभावो दुःखेन्द्रियस्याश्रय[ता] । स्वाभाव्यात्प्रथमं ध्यानं सदुःखमुच्यते । (उ) तथा चे द्दौर्मनस्येन्द्रियं मनोविज्ञानस्वभावजमिति सर्वत्र भवेत् । (पृ) अधुना कस्मादुच्यते प्रथमध्याने दुःखेन्द्रियव्युपशमः । (उ) प्रथमध्यानसमाधिचित्तप्रत्यासन्नम् । असमाहितचित्तः कामधातुकप्रतीसंयुक्तानि विज्ञानान्युत्पादयति । तत्र दुःखेन्द्रियं भवति । अतो नोच्यते प्रथमध्याने दुःखे[न्द्रिय]व्युपशमः । (पृ) तथा चेत् प्रथमध्यानमपि दौर्मनस्येन्द्रियप्रत्यासन्नम् । तत् दौर्मनस्येन्द्रियमपि वक्तव्यं यदि द्वितीयतृतीयध्यानयोर्निरुद्धम् । (उ) कामाश्रयं दौर्मनस्येन्द्रियं कामश्रयप्रीतिजननम् । सुविशुद्धप्रीतिलाभिनो ऽविशुद्धप्रीतिर्निरुध्यते । अतः प्रथमध्याने नास्ति दौर्मनस्येन्द्रियम् । असमाधिं निश्रित्य दुःखेन्द्रियमुत्पद्यते । प्रथमध्यानस्य विक्षिप्तचित्तप्रत्यासन्नत्वात् न [तस्य] व्युपशम उच्यते । यथा तृतीयध्याने दुःखं नास्ति । उच्यते च दुःखस्य सुखस्य च प्रहाणात् चतुर्थध्यानमुपसम्पद्य विहरतीति । तथेदमपि ।
योगावचरः प्रथमध्याने ऽपरिपूर्णसमाधिः सदा वितर्कविचाराभ्यां विक्षिप्यत इत्यत उच्यते द्वितीध्याने वितर्कविचाराणां व्युपशम इति । अध्यात्मं सम्प्रसादनमिति । द्वितीयध्याने निभृतश्चित्तसमाधानाद्विक्षेपः सदा नावकाशं लभते । अध्यात्ममविक्षिप्तचित्तत्वादध्यात्मं सम्प्रसादनमित्याख्या । इदं द्वितीयध्यानस्य रूपम् । चेतस एकोतिभावमवितर्कमविचारमिति । चेतस एकोतिभावश्चेतस ( स्स्स्_410 ) एकस्मिन् मार्गे विहरणं ध्यानमित्युच्यते । इदमेवाध्यात्मं सम्प्रसादनम् । एतत्समाधिलाभात् वितर्कविचारौ न भवतः । न यथा प्रथमध्याने चैत्ता वितर्कविचारस्थाः । उत उच्यते अवितर्कमविचारमिति ।
समाधिजं प्रीतिसुखमिति । प्रथमध्याने विवेकात्प्रीतिं लभते । अत्र तु समाधिपरिनिष्पत्त्या प्रीतिं लभते । अत आह समाधिजमिति । (पृ) प्रथमध्यानगतप्रीतेः द्वितीयध्यानगतप्रीतेश्च को भेदः । (उ) प्रथमध्याने दौर्मनस्यव्युपशमात् प्रीतिः । द्वीतीयध्याने दुःखव्युपशमात् प्रीतिः । प्रथमध्याने प्रीतिरविशुद्धप्रीतिविरोधितया लभ्यते । यद्युभे अपि प्रीति तृष्णाप्रत्यये । तथापि प्रथमध्याने सातिपेशला ।
(पृ) एतादृशो ऽर्थः किं सास्रवः किमनास्रवः । (उ) सर्वं सास्रवम् । आत्मसंज्ञायां सत्यामस्ति प्रीतिः । यस्यानास्रवं चित्तम् । तस्य नास्त्यात्म[संज्ञा] । आत्मनो ऽसत्त्वान्नास्ति प्रीतिः ।
(पृ) असत्यास्रवे नास्ति प्रीतिरितीदमप्ययुक्तम् । भगवान् सप्तसम्बोध्यङ्गेषु प्रीतिसम्बोध्यङ्गमाह । प्रीतिसम्बोध्यङ्गन्तु अनास्रवम् । अतो ज्ञाउयते ऽस्त्यनास्रवा प्रीतिरिति । उक्तञ्च सूत्रे- प्रीतिमनस्कस्य कायः प्रश्रभ्यति । प्रश्रब्धकायः सुखं वेदयते इति । यदि नास्त्यनास्रवा प्रीतिः । नास्त्यनास्रवा प्रश्रब्धिः नास्तनास्रवं सुखमित्यपि भवेत् । परमकुशलधर्मचारिणः परिषद्गणान् पश्यतो भगवतः प्रीतिर्भवति । अतो ज्ञायते ऽस्त्यनास्रवा प्रीतिरिति । (उ) सप्तभिः सम्बोध्यङ्गैरनास्रवां प्रीतिमधिगच्छतीति तव[मत]मिदमयुक्तम् । सम्बोध्यङ्गं द्विविधं सास्रवमनास्रवञ्चेति । यथोक्तं सूत्रे- यस्मिन् समये योगावचरो धर्मं शृणोति । अस्य पञ्च नीवरणानि तस्मिन् समये न भवन्ति, सप्तबोध्यङ्गानि च तस्मिन् समये भावनापरिपूरिं गच्छन्ति । सम्बोधिश्च असंम्बोधिज्ञानस्याख्या । यदि सम्बोधाय भवन्ति । अविशुद्धादिधर्माणामाचरणं सम्बोध्यङ्गमुच्येत । भवानाह- नास्त्यनास्रवा प्रीतिरित्यपि स्यादिति । पूर्वं प्रीतौ समुत्पन्नायां पश्चादनास्रवं यद्यथाभूतदर्शनं प्रतिलभते । न च सर्वाः प्रश्रब्धयः प्रीतिं प्रतीत्य भवन्ति । यथा द्वितीयध्याने ( स्स्स्_411 ) प्रीतिर्नास्ति, अस्ति च प्रश्रब्धिः । न वयं ब्रूमो ज्ञानविनिर्मुक्तो ऽस्ति पृथग्वेदनाधर्म इति । इदमनास्रवं प्रथमतश्चित्तगतं सुखमित्युच्यते । अतो ऽस्त्यनास्रवं सुखम् । न तु प्रीतिं प्रतीत्य भवति । किञ्चोक्तं सूत्रे- कायचित्तयोर्दौष्ठल्यापनयनं प्रश्रब्धिः । अनास्रव[ज्ञान]प्रतिलम्भकाले कायचित्तयोर्दान्तत्वात् अस्त्यनास्रवा प्रश्रब्धिः । भगवान् सदोपेक्षाचित्ते विहरतीत्यत आह- अस्ति भगवतः प्रीतिरिति । इदं वस्तु प्रकाशयितव्यम् ।
यस्य नास्त्यात्मा । न तस्यास्ति प्रीतिः । यद्यर्हतो ऽस्ति प्रीतिः । दौर्मनस्यमपि भवेत् । वस्तुतस्तु नास्ति दौर्मनस्यम् । अतो ज्ञायते नास्ति प्रीतिरिति । (पृ) यथा द्वितीयध्याये ऽस्ति प्रीतिः नास्ति तु दौर्मनस्यम् । तथा अर्हतो ऽपि प्रीतिरस्ति न दौर्मनस्यम् । को दोषः । (उ) सर्वेषु ध्यानसमाधिषु अस्ति दौर्मनस्यं यथा इन्द्रियार्थेषूच्यते । दौर्मनस्यं प्रीतिश्च यावद्भवाग्रं[भवति] । सुखदुःखे च यावच्चत्वारि ध्यानानि कायमनुगच्छतः । किञ्च तृतीयध्यानगतः प्रीतेर्विरागादुपेक्षको विहरतीत्युच्यते । अतो नास्त्यनास्रवा प्रीतिरिति । यद्यस्ति, कथं विरागादिति वचनं भवेत् । अनास्रवे चित्ते च प्रीति र्न भवेत् । प्रीतयः सर्वाः प्रज्ञप्तिसंज्ञाविकल्पं निश्रित्य भवन्ति ।
(पृ) तथा चेत् प्रथमद्वितीयध्यानयोर्नास्त्यनास्रवा वेदना । उक्तं हि सूत्रे- प्रथमद्वितीयध्यानयोः केवलं प्रीतिरस्ति न चैतसिकं सुखमिति । इदानीं प्रीतिरपि नास्ति । किमस्ति पुनः । (उ) इयं प्रीतिः प्रीतेर्विरागादित्यादि नानास्रवं ध्यानमाह । किञ्चित्पुनः सूत्रमाह- अनास्रवं ध्यानम्, यद्योगावचरो यदाकारं यदालम्बनं प्रथमध्यानमुपसम्पद्य विहरति । न तदाकारं तदालम्बनं स्मरति । किन्तु पश्यति प्रथमध्यानगतानि रूपवेदनासंज्ञासंस्कारविज्ञानानि रोगतो गण्डतो यावदनात्मतः ।
(पृ) रोगतो गण्डतः शल्यतो ऽघत इत्येतानि चत्वारि लोकचरितानि नानास्रवाणि । अत इदं सूत्रं प्रमाणीकृत्य नानास्रवं साधयितुं शक्नोषि । (उ) इमे चत्वार आकारा दुःखस्य नामान्तराणि । अतो ऽनास्रवाणि । (पृ)शैक्षस्यापि किं नास्त्यनास्रवा प्रीतिः । (उ) मार्गचित्तगतस्य नास्ति प्रीतिः । व्यवहारगतस्य त्वस्ति । अशैक्षस्य सर्वदा नास्ति । (पृ) उक्तं हि सूत्रे- प्रीतिसुखचित्तेन चत्वारि सत्यानि प्रतिलभत इति । कथमाह- नास्त्यनास्रवा प्रीतिरिति । (उ) अनात्मचित्तमेव सुखम् । ( स्स्स्_412 ) योगावचरः प्रतिलब्धानात्मचित्तो विपर्ययं विनाशयति । परमार्थज्ञानात्तु चित्तं प्रमोद्यते । न पृथगस्ति प्रीतिः । किञ्च तत्सूत्रं प्रकाशयति न प्रीत्या परमार्थज्ञानं प्रतिलभत इति । अत एवमुच्यते ॥
द्वितीयध्यानवर्गः षट्षष्ट्युत्तरशततमः ।
167 तृतीयध्यानवर्गः
प्रीत्याश्च विरागादुपेक्षको विहरति स्मृतः सम्प्रजानन् सुखञ्च कायेन प्रतिसंवेदयते यदार्या आचक्षन्ते उपेक्षकः स्मृतिमान् सुखविहारीति तृतीयं ध्यानमुपसम्पद्य विहरति ।
(पृ) कस्मात् प्रीत्याश्च विरागादिति । (उ) योगावचरः प्रीतौ परिभ्रमेदिति विरागः । प्रीतिश्चेयं संज्ञाविकल्पजा, चञ्चला प्रवृत्तिलक्षणा । प्रथमत आरभ्य दुःखानुयायिनी । हेतुनानेन विरागः । योगावचरः शान्तं तृतीयध्यानं लभमानो द्वितीयध्यानं प्रजहाति । प्रीतिजं सुखञ्च मन्दम् । प्रीतिविरागजं सुखं गभीरम् । यथा कश्चित् पुत्रभार्यादिभिः सदा न प्रीतो भवति । प्रीतेः संज्ञाविकल्पजत्वात् । सुखं न संज्ञाविकल्पजमिति सदा भवति । तथा योगावचरो ऽपि प्रीतिं प्रथमत आगतां तु सुखं मन्यते । पश्चात्तु [ततो] निर्विद्यते ।
(पृ) यदि कश्चिद्धर्मपीडितः, स तु शीतं सुखं मन्यते । योगावचरः केन दुःखेन पीडितः तृतीयं ध्यानं सुखं मन्यते । (उ) द्वितीयध्याने प्रीतिश्चञ्चलसंज्ञोदिता कण्टकाहतिवत्, योगावचरो ऽनया प्रीत्या पीडित इति अप्रीतिसमाधौ सुखसंज्ञां करोति । (पृ) धर्मदुःखास्तित्ववशात् शीतं सुखं भवति । यदि धर्मविविक्तो भवति । न तदा शीतं सुखं भवति । योगावचरः प्रीतिविविक्तः कस्मात्पुनस्तृतीयध्याने सुखसंज्ञां करोति । (उ) सुखजननं द्वितीयध्यानं कदाचित् दुःखवर्तनात्सम्भवति । यथा धर्मदुःखिनः शीतं सुखं भवति । कदाचित् दुःखविवेकात् सम्भवति । यथा विप्रियविवेकः । यथा भगवान् कौशाम्बिभिक्षुविविक्त आह- अहं सुखीति । तथेदमपि चलसंज्ञाविविक्तः तृतीयध्याने सुखसंज्ञा करोति । यथा पञ्चकामगुणविवेकात्प्रथमं ध्यानं सुखं भवति ।
उपेक्षक इति । प्रीतेर्विरागादिति शान्तं भवति । योगावचरः पूर्वं प्रीतिसंसक्तमना बहुधा विक्षिप्तः । इदानीं ततो विरागाच्चित्तं शाम्यति । अत उपेक्षक इत्युच्यते । स्मृतः सम्प्रजानन् इति । प्रीत्यादीनवादेतदुभयं सदोपनीयते । न तेन प्रीतिरागता प्रभिन्ना भवति । किञ्च स्मृत इति प्रीतेरादीनवं स्मरति । सम्प्रजानान् प्रीतावादीनवं पश्यति । सुखञ्च कायेन प्रतिसंवेदयत इति । प्रीतिविरक्तस्योपेक्षकस्योपेक्षैव सुखम् । अनिञ्जनानीषत्वात् । नेदं सुखं संज्ञाविकल्पजम् । अतः सुखञ्च कायेन प्रतिसंवेदयत इति नाम । यत्तदार्या आचक्षन्त उपेक्षक इति । आचक्षणं नाम लौकिकाननुसृत्य सुखमिति कथनम् । यथाचक्षन्ते नैवसंज्ञानासंज्ञायतनमिति । अनासक्तचित्तत्वात् उपेक्षक इति । स्मृतिमान् सुखविहारीति । पुरुषो ऽयं प्रज्ञायोपेक्षते यत् प्रीतावादीनवं दृष्ट्वा निर्विद्यत इत्यतः सूपेक्षां लभते । कल्याणस्मरणं यत् प्रीतावादीनवस्मरणम् । तत्रापि वक्तव्यं सम्प्रजानन् इति । स्मृत्या साहचर्यात् नोच्यते । सुखमिति परमसुखम् । अत आर्या आचक्षन्त उपेक्षक इति ।
(पृ) तृतीयध्याने ऽस्ति सुखप्रतिसंवेदनम् । कस्मादाह- उपेक्षासुखमिति । (उ) नाहमस्मिन् शास्त्रे वदामि वेदनाव्यतिरिक्तं पृथगस्ति उपेक्षासुखमिति । सुखप्रीतिसंवेदनमेवोपेक्षासुखम् । (पृ) तथा चेत् चतुर्थध्याने सुखप्रतिसंवेदनं वक्तव्यम् । उपेक्षायाः सत्त्वात् । (उ) चतुर्थध्याने ऽपि सुखप्रतिसंवेदनमस्तीति वदामि । किन्तु तृतीयध्यानसुखस्य प्रहाणादेवमुच्यते । (पृ) यदि सुखप्रतिसंवेदनसमन्वितम् । कस्मात् । प्रथमद्वितीयध्यानयोः प्रीतिरित्याख्या । तृतीयध्याने सुखमिति । (उ) संज्ञाविकल्पस्य सत्त्वात् प्रीतिः । तस्याभावात् सुखम् । योगावचरस्य तृतीयध्याने समाहितचित्तवृत्तित्वेन संज्ञाविकल्पस्याभावात् सुखमित्युच्यते । तृतीयध्यानप्रवृत्त्युपशमस्य लाभाच्च सुखमित्युच्यते । यता इञ्जनमीषणचित्तमार्या दुःखमिति वदन्ति । इञ्जनं नाम विकल्पस्याभिधानम् । तदेव सुखम् ॥
तृतीयध्यानवर्गः सप्तषष्ट्युत्तरशततमः ।
168 चतुर्थध्यानवर्गः
सुखस्य च दुःखस्य च प्रहाणात्पूर्वमेव सौमनस्यदौर्मनस्यानामस्तङ्गमाददुःखमसुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसम्पद्य विहरति । (पृ) यदि पूर्वमेव ( स्स्स्_414 ) दुःखस्य प्रहाणम् । कस्मादत्रोच्यते । यद्यवश्यं वक्तुमिष्टम्, वक्तव्यं पूर्वमेव प्रहाणादिति । यथा पूर्वमेव सौमनस्यदौर्मनस्यानामस्तङ्गमादिति । (उ) चतुर्थध्यानमनिञ्जनम् । तदानिञ्जनलक्षणसाधनायोच्यते नास्ति चतुर्थी वेदनेति । कस्मात् । इञ्जनं नाम कम्पनारम्भः । योगावचरस्य सुखसुखाभिद्रुतस्य चित्तमिञ्जते । चित्त इञ्जिते रागद्वेषौ भवतः । सुखस्य दुःखस्य च प्रहाणात् चित्तं नेञ्जते ।
(पृ) यदि चतुर्थध्यानं हिततमं वेद्यते । कस्मात्सुखमिति नोच्यते । (उ) वेदनाया अस्तङ्गमाददुःखमसुखमित्युच्यते । यत्रेदं सुखमिति चित्तं स्मरति प्रजानाति । तत् सुखमित्युच्यते । तृतीयध्यानकसुखविविक्तस्य चतुर्थध्यानस्य लाभान्न सुखमिति गण्यते ।
उपेक्षास्मृतिपरिशुद्धमिति । अत्रोपेक्षा परिशुद्धा । अनीषणत्वात् । त्रिषु ध्यानेष्वस्ति ईषणं यदिदं सुखमिति । अस्मिंश्च ध्याने स्मृतिरपि परिशुद्धा । कस्मात् । तृतीयध्याने सुखासङ्गित्वात् स्मृतिर्व्याकुला । चतुर्थध्यानं प्राप्य सुखरागस्य प्रहाणात् स्मृतिः परिशुद्धा ।
(पृ) कस्माच्चतुर्थध्याने न सम्प्रजन्यमुक्तम् । (उ) यद्युक्तं स्मृतिपरिशुद्धमिति । सम्प्रजन्यमुक्तमेवेति वेदितव्यम् । अनयोर्द्वयोर्धर्मयोर्मिथो ऽव्यभिचारात् । किञ्चायं ध्यानसमाधिमार्गः न सम्प्रजन्यमार्गः । सम्प्रजन्यस्य प्रज्ञा[रूप]त्वान्नोच्यते । तृतीयध्यानस्य चरमभागे ऽपि नोच्यते सम्प्रजन्यम् । उपेक्षकः स्मृतिमान् सुखविहारीति केवलमुच्यते । नोच्यते उपेक्षकः स्मृतिसम्प्रजन्यवान् सुखविहारीति । स्मृतिरियं ध्यानसमाधिं साधयति । यदि कस्यचित् समाधिरसिद्धा, [तस्य] संज्ञामादाय स्मृतिः साधयति । तेन केवलमुच्यते । उत्तमगुणमुपेक्षां प्राप्तस्य नाधमगुणो मनस्कारो ऽपेक्ष्यते । अतः सम्प्रजन्यं नोच्यते ।
(पृ) अदुःखासुखा वेदना अविद्याङ्गम् । चतुर्थध्याने भूयसा सम्प्रजन्यविरुद्धम् । अतो नोच्यते सम्प्रजन्यम् । (उ) तथा चेत् अदुःखासुखा वेदना नानास्रवा स्यात् । सुखवेदनायाः कामाङ्गत्वात् । न च [सा]नास्रवा । (पृ) तृतीयध्याने स्वभूमिदोषविरोधायोच्यते सम्प्रजन्यम् । परभूमिदोषविरोधाय चोच्यते स्मृतिः । चतुर्थध्याने स्वभूमिर्नैवं दुष्टेत्यत्यतो नोच्यते सम्प्रजन्यम् । (उ) चतुर्थध्याने ऽपि अस्ति कामादिदोषः । अतो वक्तव्यं सम्प्रजन्यम् । अत्र कामदोषो ऽतिसूक्ष्मः दुरवबोधः अतो ऽवश्यं वक्तव्यं स्यात् । अन्यभूमौ वक्तव्यमपि नोच्यते । अतो ज्ञायते यथास्मत्प्रतिवचनं स्यादिति ।
(पृ) कस्माच्चतुर्थध्यान आश्वासप्रश्वासनिरोधः । (उ) प्रश्वासः कायं चित्तञ्चाश्रयते । केनेदं ज्ञायते । यदा चित्तं सूक्ष्मं, तदा श्वासो ऽपि सूक्ष्मः । चतुर्थध्याने चित्तमचलमित्यत आश्वासप्रश्वासौ निरुद्धौ । यथा कश्चित् परमक्लान्तो भारं वहति । पर्वतं वा आरोहति तदाश्वासः स्थूलो भवति । श्वसनकाले [पुनः] सूक्ष्मः । तथा चतुर्थध्याने ऽप्येवमचलसंज्ञया चित्तमुपशान्तमित्यत आश्वासप्रश्वासौ निरुद्धौ । केचिद्वदन्ति योगिनश्चतुर्थध्यानकचतुर्महाभूतलाभितया कायगतरोमकूपाः संवृताः । अतः श्वासो निरुद्ध इति । तदयुक्तम् । कस्मात् । अन्नपानरसप्रवाहः कायमभिव्याप्नोति । यदि रोमकूपाः संवृताः, न समुदाचरेत् । वस्तुतस्तु न सम्भवति । अतो ज्ञायते चतुर्थध्यानचित्तबलमेव श्वासनिरोधकमिति ।
(पृ) चतुर्थध्याने नास्ति सुखा वेदना । तत्र कथमस्ति तृष्णानुशयः । उक्तं हि सूत्रे- सुखवेदनायां तृष्णानुशय इति । (उ) तत्रास्ति सूक्ष्मा सुखा वेदना । औदारिकसुखप्रहाणात्परमुच्यते अदुःखमसुखमिति । यथा समीरणप्रकम्पितप्रदीपः । यदि निगूढगृहे निक्षिप्यते । तदा न कम्पते । तत्रावश्यमस्ति खलु सूक्ष्मो वातः । औदारिकवाताभावात्तु न कम्पते । तथा चतुर्थध्याने ऽप्यस्ति सूक्ष्मं सुखम् । औदारिकसुखदुःखप्रहाणाददुःखमसुखमित्याख्यायते ॥
चतुर्थध्यानवर्गो ऽष्टषष्ठ्युत्तरशततमः ।
169 आकाशानन्त्यायतनवर्गः
सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानामस्तङ्गमात् नानात्वसंज्ञानाममनस्कारा दनन्तम् आकाशम् इत्याकाशानन्त्यायतनमुपसम्पद्य विहरति । रूपसंज्ञा नाम रूपरसगन्धस्पर्शसंज्ञाः । योगावचरः कस्मात्[ताः] समतिक्रामति । यदेषु रूपेषु प्रतिघः अन्तरायः । नानात्वसंज्ञा यत् घण्टाभेर्यादयः । एताः संज्ञा विविधक्लेशानां विविधकर्मणां विविधदुःखानां हेतवः । अतो हेतोः समतिक्रामति । सर्वशो रूपसंज्ञानां समतिक्रान्तस्य ( स्स्स्_416 ) प्रतिघसंज्ञा निरुध्यते । प्रतिघसंज्ञानिरोधे नानात्वसंज्ञा न भवति । तत्र संक्षेपान्नोक्तम् अस्य समतिक्रमादस्य निरोध इति ।
केचिदाहुः- सर्वशो रूपसंज्ञेति चक्षुर्विज्ञानाश्रिता संज्ञा इति । प्रतिघसंज्ञेति श्रोत्रघ्राणजिह्वाकायविज्ञानाश्रिता संज्ञा । नानात्वसंज्ञेति मनोविज्ञानाश्रिता संज्ञा । इति । इदमयुक्तम् । कस्मात् । प्रतिघसंज्ञा निरुध्यत इति वदतो रूपं सङ्ग्रहीतमेव । कस्मात् पृथगुच्यते । रूपसंज्ञां प्रतिघसंज्ञाञ्च विना नास्ति पृथङ्मनोविज्ञानाश्रितं रूपम् । अतो न वक्तव्यं पृथङ् नानात्वसंज्ञेति । इति यथापूर्वं वक्तव्यम् ।
आकाशानन्त्यायतनमुपसम्पद्य विहरतीति । योगावचरः रूपसंज्ञाभिभवपरिश्रान्तत्वादाकाशानन्त्यायतनं भावयति । अन्तश्चक्षुर्घ्राणग्रीवाद्याकाशसंज्ञां गृह्णाति । बहिः कूपगुहाद्वारान्तर्वृक्षवाटिकाद्याकाशसंज्ञां गृह्णाति । किञ्चायं कायो मरणविपन्नः स्मशानाग्निना दग्धः प्रणश्यति । अतो ज्ञायते कायो ऽयं पूर्वं साकाश इति ।
(पृ) अयमाकाशसमाधिः किमालम्बनेन भवति । (उ) आदित आकाशालम्बनः स्वीयस्कन्धालम्बनः परकीयस्कन्धालम्बनश्च सिद्धो भवति । कस्मात् । करुणाशीर्षक एवं चिन्तयति- सत्त्वा दयनीया रूपसंज्ञापीडिता इति । (पृ) समाधिरयं कं सत्त्वमवलम्बते । (उ) सर्वसत्त्वानवलम्बते । (पृ) योगावचरो ऽयं रूपसंज्ञाविविक्तः । कथं रूपसत्त्वानवलम्बते । (उ) अयं रूपमवलम्बते । रूपे तु चित्तं न सुप्रबुद्धं नाभिरक्तं नाभ्यासक्तम् । यथोक्तं सूत्रे- आर्यः पञ्चकामगुणान् दृष्ट्वा संस्मरन् न तत्राभिनन्दति न प्रबोधयति नाध्यवसाय तिष्ठति । ततो भीतो निवर्तते । यथा तापात् चर्मच्छेदः । निर्वाणमनुस्मरतश्चित्तं तत्र सुप्रबुद्धं भवति इति । एवमयमपि रूपमवलम्बमानो न [तत्रा]भिनन्द्याध्यवसाय तिष्ठति । यथा च योगावचरो रूपसंज्ञाविविक्तो ऽपि आकाशान्तेन चतुर्थध्यानमवलम्बते । यथा अरूपसमाधिरनास्रवं रूपमबलम्बते । न तत्र दोषो ऽस्ति । अक्लेशायतनत्वात् । तथान्यदपि स्यात् ।
(पृ) आकाशं रूपायतनस्वभावम् । कथमिदमालम्ब्य रूपसंज्ञाः समतिक्रामति । (उ) समाधिरयमसंस्कृताकाशावलम्बित्वात् रूपाणि समतिक्रामति । (पृ) समाधिरयं नासंस्कृतमाकाशमवलम्बते । कस्मात् । अस्मिन् समाध्युपाये चक्षुरादिमध्य[गत]माकाशमुक्तम् । अतो ज्ञायते संस्कृतमाकाशमवलम्बत इति । न चोक्तं सूत्रे असंस्कृताकाशस्य लक्षणम् । संस्कृताकाशलक्षणमत्रमुक्तं यत्र रूपं नास्ति तदाकाशमिति । अतो नासंस्कृतमाकाशम् । (उ) न रूपस्वभावामाकाशमुच्यते । कस्मात् । उक्तं हि सूत्रे आकाशमरूपमदृश्यमप्रतिघमिति । (पृ) अस्ति पुनः सूत्रवचनम्- आलोकं प्रतीत्याकाशं जानीम इति । न रूपं विहायास्त्यन्यो धर्म आलोकं प्रतीत्य ज्ञाप्यः । (उ) रूपाभाव आकाश इत्युच्यते । रूपाण्यालोकेन ज्ञाप्यानि । अत आलोकं प्रतीत्य रूपाभावो ज्ञायते । नत्वाकाशमस्ति ।
तमस्यपि आकाशं ज्ञायते । अन्धो हस्तेनापि आकाशं जानाति । दण्डेनापि आकाशमिदमिति जानाति । अतो ज्ञायते आकाशं न रूपस्वभावमिति । न रूपमेभिः प्रत्ययैर्ज्ञाप्यते । रूपमिदञ्च सप्रतिघम् । आकाशमप्रतिघम् । आन्यादिः रूपाण्यत्यन्तं क्षपयति । नत्वाकाशम् । यद्याकाशं क्षीयते, किमात्मकं भवेत् । (पृ) रूपस्योत्पादेसत्याकाशमस्तमेति । यथा भित्तावुद्भूतायां न पुनराकाशमस्ति । (उ) तत्र रूपमुत्पन्नम् । नानेन रूपेण यत्किञ्चित् क्षीयते । कस्मात् । रूपाभावो ह्याकाशम् । नह्यभावः पुनरभावः कर्तुं शक्यः । अतो न रूपाकाशं क्षपयति । भवानाह- आकाशं रूपमिति । न तत्रास्तिकारणं येनेदं रूपं भवेत् । (पृ) पश्यामः खलु द्वारादावाकाशम् । प्रत्यक्षदृष्टे न कारणापेक्षा । (उ) आकाशं न प्रत्यक्षदृश्यमिति पूर्वमेव दूषितत्वात्- यत् तमस्यपि ज्ञाप्यमित्यादि ।
(पृ) यद्याकाशं न रूपम् । को धर्म इदं भवति । (उ) अभावधर्म आकाशम् । यत्र[रूपं] नास्तीति वचनम् तत्राकाशं भवति । (पृ) उक्तञ्च सूत्रे- षड् धातुरयं पुरुषकाय इति । किञ्चाह- आकाशमदृश्यमरूपमप्रतिघमिति । यद्यभावधर्मः, ( स्स्स्_418 ) नैव वक्तुं शक्यते । न हि शशशृङ्गदृश्यमरूपमप्रतिघमित्युच्यते । (उ) यो वस्तुसन् धर्मः स सर्वः प्रतिष्ठितो भवति । यथा नाम रूपाश्रितम्, रूपञ्च नामाश्रितम् । आकाशन्त्वनाश्रितमतो ऽभावधर्म इति ज्ञायते । यद्भभवानाह- आकाशं धातुरिति । तदपि न युक्तम् । कस्मात् । रूपे रूपं प्रतिहन्यते रूपमसति विरुद्धरूपे विवर्धते । अनेनार्थेनाह भगवान्- षड्धातुको ऽयं पुरुषकाय इति । [यत्] भवानाह- न हि शशशृङ्ग मदृश्यमरूपमप्रतिघमित्युच्यत इति । तदप्ययुक्तम् । कस्मात् । सर्वथा आकाशवशाल्लभ्यते । अस्ति कृतकमतीतानागतवस्त्वादि । नेदृशमस्ति शशशृङ्गादौ । (पृ) चित्तमप्येवमरूपममूर्तमप्रतिघम् । नास्तीति वक्तव्यम् । (उ) चित्तन्तु कर्म करोति यदालम्बनमुपादत्ते । आकाशमकर्मकम् । अभावमात्रेण कृतकास्तितालाभादभावधर्म इति ज्ञायते अतो ऽयं समाधिरदित आकाशमवलम्बते ।
(पृ) समाधिरयं कतमां भूमिमवलम्बते । (उ) सर्वा भूमिः निरोधमार्गञ्चावलम्बते । (पृ) केचिदाहुः- अरूपसमापत्तयो निरोधालम्बना अपि अयं अनुमानज्ञानभागीयं निरोधमात्रमालम्बते । न दृष्टज्ञानभागीयं निरोधम् । इति । तत्कथम् । (उ) सर्वं निरोधमवलम्बते । दृष्टधर्मज्ञानेन प्रत्युत्पन्नस्वभूमि[गत]निरोधमवलम्यते । अनुमानज्ञानेनान्यनिरोधमवलम्बते । एवं मार्गो ऽपि । सर्वप्रतिपक्षावलम्बित्वात् ।
(पृ) आरूप्यधातुगताः सत्त्वा अन्यभूमिकचित्तमुत्पादयन्ति न वा । (उ) अन्यभूमिकचित्तमनास्रवचित्तञ्चोत्पादयन्ति । (पृ) तथा चेत् कथं न च्युतिर्भवति । (उ) कर्मविपाके वर्तमानत्त्वान्न च्यवते । यथा कामधातौ रूपधातौ चाभिज्ञाबलादन्यस्मिन् रूपे अन्यस्मिन् चित्ते स्थितो ऽपि न च्यवते । तथा तत्रापि । (पृ) आकाशानन्त्यायतनसमाधेराकाशायतनस्य कृत्स्नायतनस्य च को भेदः । (उ) आकाशानन्त्यायतनं समापित्सोरुपायमार्गः कृत्स्नमित्याख्यायते । समाधिसमापत्तिः सम्पन्ना आकाशसमाधिसमापत्तिः ? । तत्र समाधेर्हेतुफल[भावो] भूमिः सर्वा सास्रवा [वा]अनास्रवा । यदि समाधिः, समाधिं विना यदि संक्लेशः यदि वा व्ववदानम् सर्वमाकाशानन्त्यायतनमित्याख्यायते ? ॥
आकाशानन्त्यायतनवर्ग एकोनसप्तत्युत्तरशततमः ।
170 आरूप्यसमाधित्रितयवर्गः
सर्वश आकाशानन्त्यायतनं समतिक्रम्य [अनन्तं विज्ञानमिति] विज्ञानानन्त्यायतनमुपसम्पद्य विहरति । योगावचरो रूपात्परमनिर्विण्णो रूपप्रतिपक्षधर्ममप्युपेक्षते । यथा नदीं तीर्त्वा उडुपं त्यजति । यथा वा चोरं निष्कास्य निवर्तयितुमिच्छति । तथा योगावचरो ऽपि आकाशं प्रतीत्य रूपं परिभेदयन् [आकाश]मपि परिजिहीर्षति ।
विज्ञानानन्त्यायतनमिति योगावचरो विज्ञानेनानन्तमाकाशमित्यवलम्बमानः तदा अनन्तं विज्ञान[मपि आलम्बते] । अत आकाशमुपेक्ष्य विज्ञानमवलम्बते । यथा रूपपरिश्रान्त आकाशमालम्बते । तथा आकाशपरिश्रान्त उपशमेच्छया विज्ञानमात्रमालम्बते । पुद्गलो ऽयं विज्ञानेनाकाशमालम्बत इत्यतो विज्ञानप्रधान इत्युच्यते । अतो विज्ञानमात्रमालम्बते ।
योगावचरो विज्ञानेनालम्बनमनुवर्तयन् कालमनुवर्तत इत्यतो ऽनन्तमस्ति । तत्परिश्रमनिर्विण्णो विज्ञानं परिभिद्य तत्परिजिहीर्षया आकिञ्चन्यायतनमुपसम्पद्य विहरति । [तदा] एवं चिन्तयति विज्ञानमस्ति तत्र दुःखम् । मम यद्यस्ति अनन्तं विज्ञानम्, तदा अवश्यमन्ते दुःखेन भाव्यम् इति । अतो विज्ञानालम्बनचित्तं प्रगृह्णाति । चित्तस्य [परम]सूक्ष्मत्वात् आकिञ्चन्यमित्युच्यते ।
पुनरेवं चिन्तयति- अकिञ्चन्यमितीयं संज्ञा । संज्ञा च दुःखोपायायासाय भवति रोगतो गण्डतः । यस्य संज्ञा नास्ति स पुनर्मूढो भवति । यदाकिञ्चन्यं पश्यामि तदेव किञ्चिद्भवति । अतः संज्ञाभ्यो न विमोक्षलब्धः । योगावचरः संज्ञां विपदं आसज्ञिकं सम्मोहं पश्यति । इति नैवसंज्ञानासंज्ञायतनमुपसम्पद्य विहरति । शान्तं प्रणीतञ्च यत् नैवसंज्ञानासंज्ञायतनमित्युच्यते । पृथग्जनाः सदोत्रस्ता असंज्ञां सम्मोहं मन्यन्ते । अतो नात्यन्तं चित्तं निरोद्धुमलं भवन्ति ।
केचिदाहुः- असंज्ञिसत्त्वा अपि चित्तं निरोद्धुमलमिति । तदयुक्तम् । ( स्स्स्_420 ) कस्मात् । यदि रूपधातौ चित्तं निरोद्धुमलं भवन्ति कस्मादारूप्यधातौ नालम् । (पृ) रूपधातुः रूपवानित्यतश्चित्तं निरोधयन्ति । आरूप्यधातौ प्रागेव रूपं निरुद्धम्, इदानीं पुनश्चित्तं निरुध्यते रूपचित्तयोर्युगपन्निरोधं पश्यत उत्राससम्मोहः स्यात् । (उ) यत् तत्र वर्तमानं न [तत्] निरोधकम् । तदन्तराजायमानन्तु निरोधकं स्यात् । यथा निरोधसमापत्तौ । (पृ) चित्तनिरोधस्य फलमासंज्ञिकम् । अतो रूपचित्तनिरोधे ऽत्यन्तदोषाय भवति । (उ) निरोधसमापत्तेरपि सचित्तकता फलम् । तथेदमपि । यदि फलमसमुच्छिन्नम्, [तदा] फलस्थ इति नाम । यथा निर्मितगतं रूपम् निर्मितचित्ते पुनः फलमुत्पादयति । अतो नात्यन्तं निरुध्यते । अतो रूपधातौ न चित्तनिरोधो वक्तव्यः । यद्युच्यते । अरूपधातावपि वक्तव्यः स्यात् ।
असंज्ञि समापत्तौ च न चित्तं निरुध्येत । कस्मात् । योगावचरो ऽवश्यं चित्तनिर्वेदात् चित्तविरागात् चित्तं निरोधयति । यदि चित्तनिर्विण्ण एवारूपधातौ नोत्पद्येत । किं पुनः रूपधातावुत्पद्येत इति । पृथग्जनाश्चित्ते गभीरमात्मसंज्ञामुत्पादयन्ति । यथोक्तं सूत्रे- दीर्घरात्रं [ह्येतत् भिक्षवः] अश्रुतवतः] पृथग्जनस्य अध्यवसितं ममायितं परामृष्टम् एतन्मम एषो ऽहमस्मि एष म आत्मेति । अतो न निश्शेषं निर्विद्यते विरज्यते । किञ्चोक्तं सूत्रे- तीर्थिकाः त्रयाणामुपादानानां समुच्छेदं निरोधमुपदिशन्ति नात्मवादोपादानस्य इति । अतो न चित्तं निरोद्धुमलम् । यथा मर्कटोपमसूत्रम् [अश्रुतवान्] पृथग्जनः कायं विरज्येत न चित्तम् । वरं [भिक्षवः अश्रुतवान्] पृथग्जन इमं चातुर्महाभौतिकं काय[मात्मत] उपगच्छेत् न त्वेव चित्तम् । तत्कस्य हेतोः । दृश्यते ऽयं [भिक्षव श्चातुर्महाभौतिकः] काय [एकमपि वर्षं] तिष्ठन्.....दश वर्षाणि [तिष्ठन्] यावच्छतवर्षाण्यपि तिष्ठन् । यच्च खलु [एतद्भिक्षव] उच्यते चित्तमित्यपि मन इत्यपि विज्ञानमित्यपि तत् रात्याश्च दिवसस्य चात्ययेन अन्यदेवोत्पद्यते अन्यन्निरुध्यते । तद्यथा [भिक्षवः] ( स्स्स्_421 ) मर्कट [अरण्य उपवने चरन्] शाखां गृह्णाति । तां मुक्त्वा अन्यां गृह्णाति । एकमेव भिक्षवो यदिदमुच्यते चित्तमित्यपि मन इत्यपि विज्ञानमित्यपि । तत् रात्याश्च दिवसस्य चात्यायेन अन्यदेवोत्पद्यते अन्यन्निरुध्यते ।] तत्र श्रुतवान् [भिक्षवः] आर्यश्रावकः प्रतीत्य समुत्पादमेव साधुकं योनिशो मनसिकरोति । अतो ऽनित्यमित्येव प्रजानाति इति । प्रतीत्यसमुत्पादस्याज्ञाता वेदनाविशेषादिज्ञानं विकल्पयति । सर्वे तीर्थिका अविकल्पप्रत्ययज्ञानत्वात् न चित्तं निरोधयितुमलम् । पृथग्जनाश्च रूपविरागिणो [ऽपि] चित्ताविरागित्वान्नालं विमोक्तुम् । ये युगपच्चित्तं निरोद्धुमलम् । ते कस्मान्नालं विमोक्तुम् ।
किञ्च पृथग्जनाः [चित्त]निरोधभीरुतया निर्वाणे नालं शान्तशिवसंज्ञामुत्पादयितुम् । यथोक्तं सूत्रे- नैषो ऽहमस्मि, नैतन्ममेति पृथग्जनानामुत्रासपदम् शान्तशिवसंज्ञां नोत्पादयति । कथं चित्तं निरोद्धुमलं भवेत् । पृथग्जनानाञ्च धर्मो [यत्] उत्तमां भूमिं प्रतीत्यावरां भूमिं विजहाति । अतो नास्ति चित्तनिरोधप्रत्ययः । किन्तु समाधिबलेन सूक्ष्मसंज्ञामभिमुखीकृत्य चित्तस्य प्रबोधात् वदति नास्ति संज्ञेति । औदारिकसंज्ञामुत्पादयन् तदैव [ततः] च्युतः पतति । [स चासंज्ञीत्युच्यते ।] यथा अल्पज्ञो ऽज्ञ इति । यथा वा अल्पदशनो ऽदशन इति । यथा वा सम्मूर्छाभ्रष्टचेतनाः सुषुप्ताः क्रिमयः शीतिभूतमकराः । यथा वा नैवसंज्ञानसंज्ञायतनमित्युच्यते । तथा तत्रापि वस्तुतः संज्ञायां सत्यामपि संवृतितो ऽसंज्ञीत्युच्यते ।
आरूप्यसमाधित्रयवर्गः सप्तत्युत्तरशततमः ।
171 निरोधसमापत्तिवर्गः
सर्वशोनैवसंज्ञानासंज्ञायतनं समतिक्रम्य संज्ञावेदयितनिरोधं कायेन स्पृष्ट्वा विहरति । (पृ) ध्यानेषु कस्मान्नोच्यते सर्वशः समतिक्रम्येति । अरूपसमापत्तिषु च ( स्स्स्_422 ) नोक्तो ऽस्तङ्गमः । (उ) उक्तं खल्वस्माभिः ध्यानसमाधिषु सन्ति वितर्कविचारप्रीतिसुखादयो धर्मा इति अतो नोच्यते सर्वशः समतिक्रम्येति । (पृ) आकाशानन्त्यायतने रूपचित्तमस्तीति प्रतिपादितमेव । अतो ऽरूपेष्वपि न वक्तव्यं सर्वशः समतिक्रम्येति (उ) आकाशानन्त्यायतनसमापत्तिं समापन्नो रूपचित्ताद्विमुच्यते, न वितर्कविचारादिभ्यो धर्मेभ्यः । केचिदाहुः- समतिक्रमो व्युपशमो ऽस्तङ्गमः सर्वमेकार्थकम्, व्यञ्जनमेव नाना इति । आरूप्यसमापत्तिषु च चित्तं सुस्थिरम् । अवरभूमौ चित्तं विक्षेपकम्प्यम् । अतो नोच्यते सर्वशः समतिक्रम्येति । (पृ) यत् सहैवोक्तं अस्ति कण्टको यदुत रूपसंज्ञा इत्यादि । तत् कस्मादुच्यते चित्तं सुस्थिरमिति । (उ) यद्यपि सहैवोक्त मस्ति कण्टक इति । तथापि चतुर्थध्यानमचलमित्याख्यायते । एवमरूपसमापत्तिषु समापत्तिबलमहिम्ना सुस्थिरमित्याख्या लभ्यते ।
(पृ) शैक्षो न निरोधसमापत्तिं लभेत । नैवसंज्ञानासंज्ञायतनस्य सर्वशो ऽनतिक्रमात् । (उ) शैक्षो नैवसंज्ञानासंज्ञायतने सर्वसंस्काराणां व्युपशमं पश्यति । किन्तु न पश्यति तेषामनुत्पादम् । अत उक्तदोषो लभ्यते । यत् भवता पूर्वमुक्तं नवानुपूर्विकेषु चित्तचैत्तानां निरोध इति तत् विरुध्यते । (उ) निरोधसमापत्तिर्द्विविधा- क्लेशानां क्षयरूपा क्लेशानामक्षयरूपा इति । क्लेशानां क्षयरूपा विमोक्षेषु वर्तते क्लेशानामक्षयरूपा अनुपूर्वं [विहारे]षु वर्तते । (1) क्लेशानां निरोधान्निरोधसमापत्तिः, (2) चित्तचैत्तानां निरोधान्निरोधसमापत्तिः । क्लेशानां निरोधो ऽष्टमविमोक्षः । तेदेवार्हत्फलम् । अर्हत्फलञ्च सर्वसंज्ञानां पुनरनुत्पादको व्युपशम एव । अत्र संज्ञानां व्युपशमे ऽपि अन्यसंयोजनानां सत्त्वात् पुनरनुत्पादिका न भवति ।
(पृ) यदि योगवचरो नवानुपूर्वविहारैश्चित्तं निरोधयति । स्रोतआपन्नादयः कथं चित्तनिरोधधर्मं साक्षात्कुर्वन्ति । (उ) अनुपूर्वविहारेषु निरोधो महानिरोधः । ( स्स्स्_423 ) यदि कश्चित् ध्यानसमापत्तीः साधु भावयति, मार्गचित्तबलदार्ढ्यादिमं निरोधं लभते । यदि नास्ति तद्बलम्, तदा निरोधसमापत्तिर्नेदृशं महाबलं विन्दते । अतो ऽनुपूर्वविहारा उक्ताः । अन्यत्राप्यस्ति निरोधचित्तम् । यथा चतुर्थध्याने चित्तचैत्तान् निरुन्ध्य आसंज्ञिके प्रविशति । प्रथमध्यानादौ कस्मान्न निरोधः । अन्यत्रापि च निरोधचित्तार्थो भवेत् । यथोक्तं सूत्रे स्रोतआपन्नादयो निरोधं साक्षात्कुर्वन्ति । निरुद्धचित्तमेव निरोध इत्युच्यते न पुनरन्यो ऽस्ति धर्मो निरोध इति । अतो ज्ञायते इमा नवभूमीर्विहायाप्यस्ति चित्तनिरोध इति ।
(पृ) यदि निरोधसमापत्तौ सर्वचित्तचैत्तान् निरोधयति । कस्मात्संज्ञावेदयितनिरोधमात्रमुच्यते । (उ) सर्वाणि चित्तानि वेदितानीत्युच्यन्ते । वेदितञ्चेदं द्विविधं- संज्ञावेदितं प्रज्ञावेदितमिति । संज्ञावेदितं संस्कृतालम्बनं चित्तम् । संज्ञाकाराणां प्रज्ञप्तिगतत्वात् प्रज्ञप्तिश्च द्विविधा- हेतुसंघातप्रज्ञप्तिः धर्मप्रज्ञप्तिश्चेति । अतः सर्वसंस्कृतालम्बनं चित्तं संज्ञा भवति । प्रज्ञावेदितं असंस्कृतालम्बनं चित्तम् । अतः संज्ञावेदितनिरोध इत्युक्तौ सर्वनिरोध उक्तो भवति ।
(पृ) सर्वेषु चित्तचैत्तेषु प्राधान्यात् संज्ञावेदितं केवलमुच्यते । कस्मात् । क्लेशानामस्ति भागद्वयम्- तृष्णाभागो दृष्टिभाग इति । वेदितादुत्पद्यते तृष्णाभागः । संज्ञातो दृष्टिभागः । कामधातौ रूपधातौ च वेदितं प्रधानम् । अरूप्यधातौ तु संज्ञा प्रधाना । अतो द्विविधमेवोक्तम् । विज्ञानस्थितिषु च संज्ञावेदितमात्रमुक्तम् । विज्ञानस्थितीनां चित्तादुत्थितत्वादेव संस्कार इत्याख्या । संज्ञावेदितनिरोध इत्युक्तौ च सर्वचित्तचैत्तानां निरोध उक्तो भवति । चित्तचैत्तानां ततो ऽव्यभिचारात् । (उ) मैवम् । भवानाह- प्राधान्यात् [संज्ञावेदितं] केवलमुच्यत इति । [तदा] चित्तमात्रं वक्तव्यम् । कस्मात् । उक्तं हि तत्र तत्र (?) सूत्रे- चित्तं खल्वधिपत्तिः द्विविधानां क्लेशानामाश्रयः । चित्तस्यैव विकल्पात् संज्ञावेदितमित्युच्यते । इति । अतो वक्तव्यं चित्तमेव । चित्ते चोक्ते सुगमम् । अतो भवदुक्तिर्न [संभवति] ।
(पृ) समापत्तिरियं कस्मादुच्यते कायेन स्पृष्ट्वा विहरतीति । (उ) अष्टविमोक्षाः सर्वे कायेन स्पृष्ट्वा विहरन्तीति वक्तव्याः । अयं निरोधधर्मः अनभिलापवेद्यत्वात् कायेन साक्षात्करोतीत्याह । तद्यथा अपां स्प्रष्टा तच्छैत्यं प्रजानाति । न तु श्रोता प्रजानाति । तथेदमपि । अचित्तधर्मत्वात् इयं कायेन साक्षात्करोतीति स्यात् ।
(पृ) यद्भवानाह- निरोधसमापत्तिरचित्तधर्म इति । न तत् युज्यते । कस्मात् । समापत्तिमिमां समापन्नः सत्त्व [एव] भवति । लोके च नास्ति को ऽपि सत्त्वो ऽचित्तक इत्यतो ऽयुक्तम् । उक्तञ्च सूत्रे- आयुरूस्म विज्ञानमिमे त्रयो धर्माः सदाव्यभिचारिण इति । अतो नास्ति निरुद्धचित्तः [सत्त्वः] । सर्वे च सत्त्वाश्चतुर्भिराहारैर्जीवन्ति । निरोधसमापत्तिमुपसम्पन्नस्य न सन्त्याहाराः । कस्मात् । नह्ययं कबलीकारमाहारं भुनक्ति । स्पर्शादयो ऽपि निरुद्धाः । अतो नास्त्याहारः । चित्तञ्च चित्तादुत्पद्यते । चित्ते ऽस्मिन् निरुद्धे नान्यच्चित्तमुत्पद्यते । समनन्तरप्रत्ययाभावात् कथमूर्ध्वभावि चित्तमुत्पद्येत । किञ्चानुपधिशेषनिर्वाणप्रविष्टमात्रं चित्तं समुच्छिन्नसन्तति सत् निरुध्यते । नान्यत्र[गतं] निरुध्यते । यथोक्तं सूत्रे- रूपेण कामान् समतिक्रामति । अरूपेण रूपं समतिक्रामति । निरोधेन सर्वचेतनामनस्कारान् समतिक्रामति इति । चित्तमेव चेतना मनस्कारो भवतीत्यवश्यं निरोधेन तं समतिक्रामति । सोपधिशेषनिर्वाणलाभिनः क्लिष्टं चित्तं निरुध्यते । निरूपधिशेषनिर्वाणलाभिनो ऽक्लिष्टं चित्तं निरुध्यते । इत्ययमेव तथागतशासने सम्यगर्थः । निरोधसमापत्तिं समापन्नश्च न मृत इत्युच्यते । चित्तनिरोधो हि मरणम् । यदि निरुद्धं चित्तं पुनर्जायते । मृतश्च पुनर्जायेत । निर्वाणं प्रविष्टो ऽपि पुनर्जायेत । तदा तु नैव विमोक्षः । वस्तुतस्तु न तथा । अतश्चित्तं न निरुध्यते ।
अत्रोच्यते । यद्भवानाह- नास्त्यचित्तकः सत्त्व इति अचित्त[ता] साम्ये ऽपि मरणे ऽस्ति भेदः । यथा सूत्रे परिपृच्छति- यो ऽयं [भन्ते] मृतः [कालकृतः] यश्चायं ( स्स्स्_425 ) संज्ञावेदयितनिरोधं समापन्नः । अनयोः किं नानाकरणम् । प्रत्याह- यो ऽयं [गृहपते] मृतः [कालकृतः] । तस्य आयुरूष्म विज्ञानमितीमानि त्रीण्येकान्तनिरुद्धानि । यश्चायं [गृहपते] संज्ञावेदयितनिरोधं समापन्नः । तस्य चित्तमात्रं निरुद्धम्, आयुरूष्म तु कायाद् विभक्तं वर्तते इति । अतो ऽचित्तकः सत्त्वो भवेदिति । पुरुषस्यास्य चित्तं स ततस्थितिलाभि भवति । [स्थिति]लाभबलात् सचित्त इत्याख्या । न तु स तरुपाषाणसमः । यद्भवानवोचत्- त्रीणि वस्तून्यव्यभिचारीणीति । तत् कामरूपधातुकसत्त्वार्थतयोक्तम् । अरूपधातावस्त्यायुः, अस्ति विज्ञानम्, नत्वस्ति ऊष्म । निरोधसमापत्तिं समापन्नस्य चास्त्यायुः अस्त्यूष्म, नत्वस्ति विज्ञानम् । अस्मिन् सूत्रे ऽप्युक्तम् विज्ञानं कायाद्विभक्तमिति । अतस्त्रीण्यविभक्तानीति यत् वचनं, तत् यत्र सन्ति तत्रोक्तम् ।
यदवोचद्भवान्- आहारं विना कथं जीवेदिति । कायो ऽयं पूर्वतनीनमनः सञ्चेतनाहारात् प्रत्युत्पन्ने वर्तते । शीतादिस्पर्शात् कायं सन्धत्ते । यदुक्तं भवता चित्तं प्रतीत्य चित्तमुत्पद्यत । [तत्र] चित्तं चित्तान्तरस्य कारकहेतुः । कारकहेतौ निरुद्धे चित्तान्तरमुत्पादयति । (पृ) कथं निरुद्धं चित्तं चित्तान्तरमुत्पादयति । यथा चक्षू निरुद्धं सत् न तद्विज्ञानं जनयति । (उ) यथा निरुद्धं कर्म विपाकमुत्पादयति । तथेदमपि । यन्मनः यच्च मनोविज्ञानम् इमे द्वे मिथः प्रतिसम्बन्धिनी । न तथा चक्षुश्चक्षुर्विज्ञानम् । अतो ऽहेतुः । यदवोचः सन्तानसमुच्छेद एव चित्तं निरुध्यत इति । तदयुक्तम् । त्रिविधो हि निरोधः- रूपनिरोधः चित्तनिरोधः कदाचिद्रूपचित्तोभयनिरोधः, कदाचिद्रूपस्य निरोधो न तु चित्तस्य यथा निरोधसमापत्तिसमापन्ने । कदाचिद्रूपचित्तोभयनिरोधः यथा सन्तानसमुच्छेदे ।
यदवोचः निरोधसमापत्तिं समापन्नो न मृत इत्युच्यत इति । पुरुषस्यास्य नायुरूष्म निरुद्धम् । मृतस्य त्रीण्यपि निरुद्धानीति । अयं भेदः । पुरुषस्यास्य च आयुरूष्म प्रतीत्य चित्तं पुनरुत्पद्यते । न तथा मृतस्य । यदुक्तं भवता- यदि निरुद्धं चित्तं पुनर्जायते, ( स्स्स्_426 ) तदा न विमोक्ष इति । तदयुक्तम् । कस्मात् । निर्वाणं प्रविष्टस्य पूर्वकर्मवेद्यानि आयुरूष्मविज्ञानानि निरुद्धानि । न पुनरुत्पद्यन्ते । अस्य तु आयुरूष्मणोरनिरोधे पूर्वकालीनं चित्तमुत्पद्यते । यथा निरोधसमापत्तिवर्ग उक्तम्- निरोधसमापत्तिं समापन्नः षडायतनानि कायजीवितञ्च प्रतीत्य पुनर्व्युत्तिष्ठत इति । अतश्चित्तं पुनरुत्पद्यते । निर्वाणं प्रविष्टस्य चित्तं परं न पुनरुत्पद्यते । अतो ज्ञायते समापत्तिरियमचित्तकेति ।
(पृ) कस्मादेतत्समापत्तेर्व्युत्थितस्य दत्तं दृष्टधर्मे विपाकं प्रापयति । (उ) एतत्समापत्तेर्व्युत्थितस्य चित्तं परमशान्तम् । यथोक्तं सूत्रे- निरोधसमापत्तेर्व्युत्थितस्य चित्तं निर्वाणभागीयम् इति । अस्य च ध्यानसमापत्तिबलं सुदृढम् । तदाश्रित्य प्रज्ञापि महती । प्रज्ञामहिम्ना दायको विशिष्टं विपाकं विन्दते । यथा शतसहस्रश्रावकाणां सत्कारको नैकबुद्धस्य [सत्कार]समानो भवति । अत्र प्रज्ञयैव विशेषो न संयोजनसमुच्छेदे । तथेदमपि । इमां समापत्तिं समापन्नस्य बहुलसद्धर्मवासितचित्तत्वात् महाफलमुत्पद्यते । यथा सुकृष्टे क्षेत्रे सस्यमवश्यं बहुलं भवति । लोकान्निर्विण्णस्य दानं महाविपाकं प्रापयति । निरोधसमापत्तेर्व्युत्थितो लोकात्परमनिर्विण्ण इत्यतस्तत्सत्कारो विशिष्टः । विशुद्धचित्तस्य दानं महाविपाकप्रापकम् । नाविशुद्धचित्तस्य पुरुषो ऽयं प्रज्ञप्त्यापि न क्लिष्टचित्तः । अत[स्त]त्सत्कारो महाविपाकप्रापकः । किञ्चायं सदा परमार्थसत्ये तिष्ठति । अन्ये संवृतिसत्ये वर्तन्ते । पुरुषो ऽयं सदा सरणधर्मे वर्तते । कस्मात् । संस्कृतालम्बनं चित्तं सरणं भवति । उक्तञ्च सूत्रे-
तृणदोषाणि क्षेत्राणि रागदोषा इयं प्रजा ।
तस्माद्धि वीतरागेषु दत्तमस्ति महाफलम् ॥ इति ।
रागप्रत्यया प्रज्ञप्तिसंज्ञा । अस्याः समापत्तेर्व्युत्थितो निर्वाणालम्बन इत्यतः प्रज्ञप्तिसंज्ञया विविक्तः । अपि चोक्तं सूत्रे- यस्य दानपतेः सत्कारं भुङ्क्त्वा अप्रमाणसमाधिमुपसम्पद्य ( स्स्स्_427 ) विहरति । अयं दानपत्तिः तत्प्रत्ययमप्रमाणपुण्यं लभते इति । निरोधसमापत्तेर्व्युत्थितस्य [यत्] निर्वाणालम्बनं चित्तम् । इदमुच्यते ऽप्रमाणम् । अतो दृष्ट एव विपाकं लभते । किञ्च अष्टभिर्गुणै रलङ्कृतमिदं पुण्यक्षेत्रम्- सम्यक् दृष्टिः, निर्वाणालम्बनं चित्तं अन्यानि चाङ्गानि तैः समन्वागतं भवति । अत[स्तत्र दत्तं] दृष्टविपाकं जनयति ।
(पृ) केचिदाहुः- निरोधसमापत्तिश्चित्तविप्रयुक्तसंस्कारो लौकिकधर्मश्चेति । तत्कथम् । (उ) यथोक्तवत् एतत्समापत्तेर्व्युत्थितस्य परमशान्त्यादयो गुणा भवन्ति । नेमे गुणा लौकिकाः स्युः । (पृ) निरोधसमापत्तिर्धर्माणां प्रतिरोधार्था । तेन धर्मेण हि चित्तं नोत्पादयति । अतश्चित्तविप्रयुक्तसंस्कारः स्यात् । यथा तप्ते ऽयस्मि कार्ष्ण्यं न भवति । तापापगमे पुनर्भवति । तथेदमपि स्यात् । (उ) तथा चेत् निर्वाणमपि चित्तविप्रयुक्तसंस्कारः स्यात् । कस्मात् । निर्वाणं प्रतीत्य हि नान्ये स्कन्धाः समुत्पद्यन्ते । यदि निर्वाणं न चित्तविप्रयुक्तसंस्कार इति । इयं समापत्तिरपि न चित्तविप्रयुक्तसंस्कारः स्यात् । योगावचराणामीदृशो धर्मः स्यात् निरोधसमापत्तिं समापन्ने प्रणिहितानुगमनाच्चित्तं न प्रवर्तते । अतो न वक्तव्यो विप्रयुक्तसंस्कार इति ।
(पृ) इमां समापत्तिमेवानुपूर्वं समापद्यत इति किमनुपूर्वमेव व्युत्तिष्ठेत । (उ) अनुपूर्वमेव व्युत्तिष्ठते । क्रमेण चौदारिकं चित्तं समापद्यते । (पृ) सूत्र उक्तम्निरोधसमापत्तेर्व्युत्थितं चित्तं प्रथमं त्रयः स्पर्शाः स्पृशन्ति- अनिञ्ज्यः [स्पर्शः] अनिमित्तः [स्पर्शः] अप्रणिहितः [स्पर्श] इति । कस्मादेवम् । (उ) असंस्कृतालम्बने चित्ते विद्यमानः स्पर्शः अनिञ्ज्यः अनिमित्तः अप्रणिहित इति नाम । शून्यत एवानिञ्ज्यः । संस्कृतालम्बनस्य चित्तस्य लघुत्वादस्तीञ्जनं यद्रूपवेदनादीनां ग्रहणम् । शून्ये[सति] अनिमित्तम् । अनिमित्ते [सति] रागादि किमपि नास्ति । अचित्तको ऽयं प्रथमं निर्वाणमालम्ब्य ततः संस्कृतमालम्बते । अत उच्यते व्युत्थाने त्रयः स्पर्शाः स्पृशन्तीति ।
(पृ) केचिदाहुः- निरोधसमापत्तिं समापन्नस्य चित्तं सास्रवम् । समापत्तिव्युत्थितस्य चित्तं सास्रवं कदाचिदनास्रवं कदाचिदिति । कथमिदम् । (उ) न सास्रवम् । योगावचर एतत्समापत्तिसमीप्सया प्रथमत एव सर्वान् संस्कारान् परिभेदयति । परिभेदात्समापद्यते । ( स्स्स्_428 ) व्युत्थितस्य निर्वाणालम्बनं चित्तमेवाभिमुखी भवति । अतो ज्ञायते सर्वथा अनास्रवमिति ।
सूत्र उक्तम्- [संज्ञावेदयित]निरोधसमापत्तिं समापद्यमानस्य भिक्षोर्नैवं भवति] अहं [संज्ञावेदयित]निरोधं समापद्ये इति । व्युत्थितस्य अपि नैवं भवति [अहं व्युत्तिष्ठामीति । तथा चेन् कथं समापद्यते । (उ) नित्यं भावितत्वात् समापत्तिबलं सुदृढं भवति । तथा चिन्तनासत्त्वे ऽपि समापद्यते । योगावचरो ऽयं संस्कृता[लम्बन]समुच्छेदात् तथाभूतं निरोधं समापद्यते । यदि चित्तमगृह्य संस्कृतमालम्बते । तदा न समापन्नो नाम । अतः सूत्रमाह [अथ खल्वस्य] पूर्वमेव तथाचित्तं भावितं भावति [यत् तत् तथात्वाय] उपनयति इति ।
(पृ) यदि नास्ति शून्यादन्यदुपलभ्यम् । तदा असंस्कृतालम्बनं चित्तं भावयित्वा कमुपकारं लभते । (उ) दीर्घकालं भावितत्वात् समापत्तिदार्ढ्ये ज्ञानदर्शनं सुनिश्चितं भवति । यथा संस्कृतालम्बनं चित्तं पश्यतो ऽपि नास्ति क्षणिकादन्यत् । दीर्घकाल भावितं चित्तमात्रन्तु सुदृढं भवति । तथेदमपि स्यात् ॥
निरोधसमापत्तिवर्ग एकसप्तत्युत्तरशततमः ।
172 दशकृत्स्नायतनवर्गः
पूर्वालम्बनमकम्पयित्वा चित्तबलवशिता कृत्स्नायतनमित्युच्यते । योगावचरः परीत्तनिमित्तं गृहीतवान् अधिमुक्तिबलेन तत् विपुलयति । कस्मात् । समाहितचित्तबलात् तत्त्वे ऽवतरतः सर्वं शून्यं भवति । अधिमुक्ताववतरतः पूर्वगृहीतं निमित्तमनुवर्तते । (पृ) को ऽयमधिमुक्तिस्वभावः । (उ) नीलादीनि रूपाण्यप्रमाणानि । तन्मूलानि ( स्स्स्_429 ) संक्षिप्य चत्वारि, पृथिव्यादीनि चत्वारि महाभूतानि, चत्वारि च रूपाणां मूलानि एतदष्टकपरिच्छिन्नमिदमाकाशम् । विज्ञानमनन्तमाकाशं प्रजानातीति अनन्तमपि । यस्मात् सान्तधर्मो नानन्तं गृह्णाति । इमानि दश भवन्ति ।
(पृ) पृथिव्यामस्ति तु द्रव्यतो ऽबादि । योगी कथं पृथिवीमात्रं भावयति । (उ) दीर्घकालं तत् भावयन् सदा पृथिवीनिमित्तं गृह्णाति । ततः पृथिवीमात्रं पश्यति नान्यद्वस्तु । (पृ) योगिना दृष्टं पृथिवीनिमित्तं द्रव्यतः पृथिवी न वा । (उ) अधिमुक्तिबलात् दर्शने पृथिवी भवति न द्रव्यतो भवति पृथिवी । (पृ) निर्माणबलात् भूयमानं निर्मितमपि किं न द्रव्यम् । (उ) निर्मितं समाधिबलात्सिद्धमित्यतः कृतकं वस्तु यदुत प्रभा अप्तेजादि च ।
(पृ) केचिदाभिधर्मिका आहुः- अष्टकृत्स्नायतनानि चतुर्थध्यानमात्रे वर्तन्त इति । तत् कथम् । (उ) यदि वर्तन्त कामधातौ त्रिषु ध्यानेषु च को दोषः । अन्तिमे द्वे कृत्स्नायतने प्रत्येकं स्वभूमौ भवेताम् । तानि च दश सास्रवाणि । आलम्बनाकम्पित्वात् । (पृ) आकाशं किं रूपप्रतिघलक्षणम् । (उ) योगी अधिमुक्त्या च चक्षुःश्रोत्राद्याकाशलक्षणं शून्यं गृह्णाति । न साक्षाद्रव्यसद्रूपं परिभेदयति । अतो ऽपि आधिमुक्तिकमित्याख्या [तस्य] ।
(पृ) उक्तञ्च सूत्रे- सर्वपृथिवीसमाधिं समापन्नस्यैवं भवति- अहमेव पृथिवी, पृथिव्येवाहमिति । कस्मादेवं भवति । (उ) [स्व]चित्तं सर्वव्यापि पश्यति । अतश्चिन्तयति सर्वमहमिति । (पृ) केचिदाहुः- अयं समाधिः कामधात्वाप्तपृथिव्यादिमात्रमालम्बत इति । कथमिदम् । (उ) यदि कामधात्वाप्तपृथिव्यादि सर्वमालम्बते को दोषः । प्रज्ञप्त्याचायं समाधिरन्यान् धर्मानवलम्बते । तत्र कः पुनर्दोषो ऽस्ति । किञ्चायं समाधिरधिमुक्तितो ऽभूतमालम्बनं भावयति । नास्ति तु किञ्चिदभूतं पृथिव्यादि । (पृ) भगवतः श्रावका अपि भूम्यादि भावयन्ति । कथमिदम् । (उ) यदि शैक्षजना भावयन्ति । सर्वं तत् परिभेदार्थम् । (पृ) वस्तुतो नास्ति खलु सर्वं पृथिवी इत्यादीनि । कथमयं समाधिर्विपर्यस्तो न भवति । (उ) भावनायामस्यामस्ति मोहभागः । तत्रात्मदृष्टेः समुद्भवात् । अशुभादिभावना यद्यपि न परमार्थसत्यम् । तथापि वैराग्यानुकूला भवति । न तथा भावनेयम् । अतो ऽस्ति मोहभागः ।
(पृ) कस्मान्न भावयति अनन्तं वेदनादि । विज्ञानमात्रन्तु भावयति । (उ) ( स्स्स्_430 ) ग्राह्यं पृथिव्यादि । विज्ञानं ग्राहकम् । अतो विज्ञानं भावयति न वेदनादि । वेदनादि च चित्तस्य प्रभेद इति प्रतिपादितमेव पूर्वम् । किञ्च योगी न पश्यति वेदनादि सर्वत्र व्यापि । सर्वत्र सुःखदुःखवेदनयोरभावात् । भगवतः श्रावका ये ऽस्मिन् समाधौ विहरन्ति । तेषामविनाशार्थालम्बनत्वात् । यतस्तदालम्बनं योगिनो ऽभिनिवेशायतनं भवति । यदि तद्विनश्यति तदा पृथग्जनसमः स्यात् ॥
दशकृत्स्नायतनवर्गो द्विसप्तत्युत्तरशततमः ।
173 दशसंज्ञासु अनित्यसंज्ञावर्गः
अनित्यसंज्ञा, दुःखसंज्ञा, अनात्मसंज्ञा, आहारे प्रतिकूलसंज्ञा, सर्वलोके ऽनभिरतिसंज्ञा, अशुभसंज्ञा, मरणसंज्ञा, प्रहाणसंज्ञा, विरागसंज्ञा, निरोधसंज्ञा [चेतिदश संज्ञाः] । अनित्यसंज्ञा यदनित्ये अनित्यमिति समाहितः प्रजानाति । (पृ) कस्मात्सर्वमनित्यम् । (उ) सर्वे हि धर्माः प्रतीत्यसमुत्पन्नाः । हेतुप्रत्ययविनाशात्सर्वे ऽनित्यतां यान्ति ।
(पृ) न युक्तमिदम् । केचिद्धर्माः प्रतीत्यसमुत्पन्ना अपि नानित्याः । यथा तीर्थिकानां सूत्रमाह- त्रिणाचिकेतस्य कर्ता शाश्वते पदे जायते इति । ब्रह्मकाउयिकाश्च शाश्वताः । (उ) भवतां शासने ऽप्युक्तम् शक्रो देवानामिन्द्रः क्रतुशतं कृत्वा पुनः पततीति । उक्तञ्च गाथायाम्- शक्रादयः शतसहस्राधिकानां क्रतूनामनुष्ठातारो ऽनित्याः क्षीयन्त इत्रि । क्रतूनां शतसहस्रमपि न वर्तते । अतो ज्ञायते त्रिणाचिकेतो ऽनित्य इति । शक्रो देवानामिन्द्रो देवेन्द्रादिकायभागश्च क्षीयते । अतःप्रतीत्यसमुत्पन्ना धर्मा अनित्याः । किञ्च भवतां वेदः पूज्यो ऽभिमतः । वेदे पुनरुक्तम्- विद्यया अमृतमश्नुत इति । यथाह- आदित्यवर्णो महापुरुषो लोकस्वभावमतीतः । तत्पुरुषानुगतमनस्को ऽमृतमश्नुते । न पुनरन्यो मार्गो ऽस्तीति । "अणोः पुरुषस्याणुरात्मा, महतो महानात्मा सदा काये शेते । य इममात्मानं न वेद । तस्य वेदादावधीयानस्यापि न कश्चनोपकार इति ।
ब्रह्मकायिकाश्च सर्वे ऽनित्याः । कस्मात् । भवतां शासने ह्युक्तम्- ब्रह्मा सहांपतिरपि गुणानां [प्रकर्षाय] सदा क्रतुं यजमानो व्रतं धत्ते इति । यदि कायो नित्य इति प्रजानाति । कस्मात् पुण्यं करोति । श्रूयते च भवतां ग्रन्थे वचनम्- अस्ति ब्रह्मणः [सहां] पतेर्मैथुनरागः । सति च तस्मिन् द्वेषादयः सर्वे क्लेशा अवश्यं भवन्ति । सत्सु क्लेशेषु अवश्यमस्ति पापकर्म । एवं पापी कथं नित्यं विमोक्षं प्रतिलभेत । न च सर्व ऋषयो देवान् यजन्ते । नापि सर्वे ब्रह्मयानं चरन्ति । यदीदं नित्यं, तदा सर्वथा तदाचरेयुः । सर्वे च पदार्था अनित्याः । कस्मात् । यानि पृथिव्यप्तेजोवायवो भूतानि । तानि कल्पावसाने क्षीयमाणानि न किञ्चिदवशिष्यन्ते । कालश्च चक्रवत्प्रवर्तते । अतो ज्ञायते ऽनित्यानीति । शीलसमाधिप्रज्ञाद्यप्रमाणगुणसम्पन्ना महान्तो दीपङ्करबुद्धादयः प्रत्येकबुद्धा महासम्मतादयः कल्पाद्या राजानः सर्वे ऽप्यनित्याः । कः पदार्थो नित्यो भवेत् । अपि च भगवानाह- यत्किञ्चित्समुदयधर्म, सर्वं तत् व्ययधर्म इति । यथोक्तं गोमयपिण्डिसूत्रे- अथ खलु भगवान् परीत्तं गोमयपिण्डं पाणिना गृहीत्वा तं भिक्षुमेतदवोचत्- नास्ति किञ्चिदीदृशं रूपं [यत् रूपं] नित्यं ध्रुवं [शाश्वतं] अविपरिणामधर्म [शाश्वतसंज्ञम्] इति । अस्मिन्नेव सूत्रे पुनर्विस्तरश उक्तम्- शक्रब्रह्मचक्रवर्तिराजानां [ये] फलविपाकाः [ते सर्वे] ऽपि अतीता निरुद्धा विपरिणता इति । अतो ज्ञायते सर्वमनित्यमिति ।
त्रैधातुकस्य सर्वस्यायुः परिमितम् । अवीचिनरकस्य परमायुरेकः कल्पः । सङ्घातनरकस्य कल्पार्धम् । अन्येषां किञ्चिदूनं वा अधिकं वा । नागादीनामायुरधिकतरमेकः कल्पः । प्रेतानामधिकतरमायुः सप्तवर्षसहस्राणि । [पूर्व]विदेहानामायुः पञ्चाशदुत्तरवर्षशतद्वयम् । [अवर]गोदानीयानामायुः पञ्चवर्षसहस्राणि । उत्तरकुरूणां नियतामायुर्वर्षसहस्रम् । जम्बूद्वीपिनामायुरप्रमाणकल्पा वा दशवर्षाणि वायुः । चातुर्महाराजिकानां देवानामायुः पञ्चवर्षसहस्राणि । यावद्भवाग्राणामायुरष्टवर्षसहस्राणि । अतो ज्ञायते त्रैधातुकं सर्वमनित्यमिति ।
त्रिभिः श्रद्धाभिश्च श्रद्धीयते ऽनित्यमिति । दृष्टे नास्ति कश्चिद्धर्मो नित्यः । आप्तवचने ऽपि न कश्चिद्धर्मो नित्यः । अनुमितिज्ञाने ऽपि नास्ति कश्चिन्नित्यः । दृष्टपूर्वकत्वादनुमानस्य । यद्यस्ति किञ्चिन्नित्यं स्थानम् । को विद्वान् सर्वधर्मनिरोध[पूर्वं] विमुक्तिमभिलषेत् । को ( स्स्स्_432 ) वा नेष्यात् । सुखवेदिनां सदा संवासं प्रियं वा वस्तुतस्तु विद्वान् सर्वथा विमुक्तिमेव प्रार्थयते । अतो ज्ञायते समुदयधर्म न नित्यं भवतीति । अथ पुनर्वक्तव्यं समुदयधर्म सर्वं क्षणिकं मुहूर्तमपि न तिष्ठति । कः पुनर्वादो नित्यं भवतीति ।
(पृ) अनित्यसंज्ञाश्रद्धा किं करोति । (उ) क्लेशान् विनाशयति । यथोक्तं सूत्रे- अनित्यसंज्ञा भाविता [बहुलीकृता] सर्वं कामरागं पर्यादाति । सर्वं रूपरागं [पर्यादाति । सर्वं] भवरागं [पर्यादाति] । सर्वमस्मिमानं [पर्यादाति सर्वा]मविद्यां पर्यादाति इति । (पृ)
(पृ) मैवम् । अनित्यसंज्ञेयं कामरागमपि वर्धयति । यथा कश्चित् सुभिक्षकालो न दीर्घ इति बुध्यन् मैथुनराग आसज्यते । कुसुमं नातिचिरं नवं भवतीति जानन् सुखायाशु तदुपभुङ्क्ते । परस्य [दयिताजनस्य] सुरूपं न नित्यं भवतीति जानन् मैथुनरागं द्रुततरं वर्धयति । एवमनित्यज्ञानवशात्कामराग उत्पद्यते । अतो नानित्यसंज्ञा कामरागं विनाशयति । केचिदनित्यमिति जानन्तो वधादिकमपि कुर्वन्ति । यावत्तिर्यञ्चः अनित्यमिति जानन्तो ऽपि न क्लेशान् भिन्दन्ति । अतो ऽनित्यसंज्ञां भावयतो न कश्चिदुपकारो भवति । (उ) अनित्यत्वाद्वियोगदुःखमुत्प्रेक्षमाणः सुभिक्षकालसुखजीवितधनमानानि त्यजन्ति । विदुषो नानेन प्रीतिचित्तमुत्पद्यते । प्रीतिचित्ताभावे न कामचित्तमुत्पद्यते । वेदनां प्रतीत्य हि तृष्णा भवति । वेदनानिरोधे तृष्णा निरुध्यते । अतो ज्ञायते अनित्यसंज्ञा कामरागं समुच्छेदयत्येव । यश्च धर्मो ऽनित्यः, सो ऽनात्मा इत्यनित्यमनात्म च भावयतो योगिनो नात्मबुद्धिर्भवति । आत्मबुद्ध्यभावे आत्मीयबुद्धिर्न भवति । आत्मीयबुद्ध्यभावात् कुत्र कामरागः स्यात् । अनित्यसंज्ञां भावयन् स्वपरकायं क्षणिकं मरण[धर्म] च पश्यति । कथं रागमुत्पादयेत् । योगी प्रार्थितं सर्वमनित्यं विप्रलोपनमिति अनुयाति । तदा तुच्छं भवति । तुच्छत्वात् न कामरागमुत्पादयति । यथा कश्चिद्वालकः शून्ये हस्तः तुच्छ इति ज्ञात्वैव न [तत्र]सङ्गं जनयति । किञ्च सत्त्वा नाध्रुववस्तुषु प्रीयन्ते । यथा कश्चित् भङ्गुरत्वात् भाजने न प्रमुद्यते । यथापि च काचिन्नारी अमुकस्य पुरुषस्यायुर्न सप्तदिनान्येष्यतीति श्रुत्वा [वदति] सत्स्वपि सुभिक्षकालार्जवबहुमानधनप्रभावबलेषु को वा प्रीयेत इति । जनो ऽयं सम्यगनित्यसंज्ञा- [भावन]या न कामरागमुत्पादयति । विद्वान् हि पुनरावृत्तिपतनादिदुःखमनुस्मरन् यावद्दिव्यकामेष्वपि नासज्यते । केवलमुक्तिमेव प्रार्थयते । अनित्यसंज्ञा कामरागं वर्धयतीति यद्भवानवोचत् तदयुक्तम् ।
यदि कश्चिदप्रहीणास्मिमानो भवति । तदा स बाह्यं वस्त्वनित्यं पश्यन् शोच्यते । प्रियबलोविपरिहाण्या च कामप्रार्थतां करोति । पृथग्जनो ऽयं प्रहीणकामसुखो [ऽपि] न वियोगदुःखं प्रजानाति । तद्यथा कश्चिद्बालको मात्रा ताडितः पुनर्मातरमेवायाति । विद्वांस्तु दुःखहेतौ स्थित एव न दुःखं निरोध्यमिति ज्ञात्वा त्यजति दुःखहेतुं यदुत पञ्चस्कन्धान् । अयं योगी आभ्यन्तरस्कन्धान् परिभेत्तुं अनात्मसंज्ञां प्रतिलभते । बाह्यवस्तुविनाशे ऽपि न शोकेन पीड्यते । अनात्मप्रतिलाभी किं पुनः प्रार्थयीत अनित्यसज्ञ्यपि न किञ्चित्प्रार्थयते ।
अनित्यसंज्ञा चेयं यदि दुःखे ऽनात्मसंज्ञां नोत्पादयति । तदा सा क्लेशविनाशनसम्पन्ना न भवति । अत उक्तं सूत्रे- एकाग्रेण चित्तेन पञ्चस्कन्धाननित्यान् भावयेत् । य आध्यात्मिकान् स्कन्धान् अपरिभिद्य बहिर्धा वस्तु अनित्यं पश्यति । तस्य सात्मसंज्ञत्वात् शोक उत्पद्यते । तदेयमसम्यग्भावना भवति । इति । अनित्यमिति पश्यतामपि न निर्वेदविराग उत्पद्यते । यथा औरभ्रिकव्याधादीनाम् । एषां सत्यपि अनित्यज्ञाने न साधुभावना भवति । कश्चित्सम्यग्भावयन्नपि नानवरतं भावनां व्यवस्यति । तस्य कामचित्तमन्ते विपर्यस्यति । अत उच्यते- एकग्रचित्तेतेति । किञ्च कश्चित् अनित्य[संज्ञा]मल्पकालं भावयति । क्लेशास्तु बहवः । न [तान्] परिभेत्तुमलं भवति । यथा अल्पमौषधं बह्वी र्व्याधीर्न विनाशयति । तथेदमपि । अत उच्यते- एकाग्रचित्तेन अनित्यमिति सम्यम्भावना क्लेशान् विनाशयति । इति ।
धर्मा अनित्या इति ज्ञानमेव तत्त्वज्ञानम् । सति तत्त्वज्ञाने न भवन्ति कामादयः क्लेशाः । कस्मात् । अविद्याप्रत्ययत्वात् कामादीनाम् । इति अनित्य[संज्ञा] न कामरागसंवर्धनीति वेदितव्यम् । किञ्चानित्यसंज्ञा सर्वान् क्लेशानुपशमयति । योगी यदि प्रजानाति वस्त्विदमनित्यमिति । न तदा [तत्र]सकामो भवति । पुरुषो ऽयमवश्यं मरिष्यतीति प्रजानन् कस्मै द्विष्यात् । कः सचेतनो म्रियमाणं द्विष्यात् । यदि धर्मा अनित्याः, कथं तत उद्धतसंज्ञामुत्पादयेत् । धर्मा अनित्या इति ज्ञानान्न मोह उत्यद्यते । मोहानुदयान्नविचिकित्सादयो भवन्ति । अतो ज्ञायते अनित्य[संज्ञा] क्लेशानां विरोधिनीति ॥
अनित्यसंज्ञावर्गस्त्रिसप्तत्त्युत्तरशततमः ।
174 दुःखसंज्ञावर्गः
यो धर्मो बाधात्मकः तद् दुःखमित्युच्यते । तत्रिविधम्- दुःखदुःखं विपरिणामदुःखं संस्कारदुःखमिति । प्रत्युत्पन्ने वस्तुतो दुःखं यदसिशस्त्रादि तद् दुःखदुःखम् । प्रियाणां पुनर्भार्यादीनां वियोगकाले यद्भवति दुःखम्, इदं विपरिणामदुःखम् । शून्यानात्मज्ञानलाभिनो यच्चित्तं भवति संस्कृतधर्माः सर्वे विहेठना इति । तत्संस्कारदुःखम् । तद्दुःखानुयायि चित्तं दुःखसंज्ञा ।
(पृ) दुःखसंज्ञां भावयता किं हितं लभ्यते । (उ) दुःखसंज्ञायां फलान्निर्वेदो भवति । कस्मात् । न हि दुःखसंज्ञां भावयिता कामप्रीतिं सेवते । तत्प्रीत्यभावान्न तृष्णा भवति । योगी यदि धर्मा दुःखमिति प्रजानाति । तदा न संस्काराननुभवति । धर्मा अनित्या अनात्मका अपि न दुःखजनकाः तदा नैव त्याज्याः । दुःखत्वात्तु त्याज्याः । दुःखत्यागाद्विमुच्यते । सर्वे सत्त्वा अतितरां भीता भवन्ति यदिदं दुःखमिति । यदि तरुणो वृद्धो वा पामरः पण्डितो वा आढ्यो दरिद्रो वा जानाति इदं दुःखलक्षणमिति । [तदा] सर्वे ते निर्विण्णा भवन्ति । सर्वे योगचारिणः पुरुषा निर्वाणे शान्तोपशमसंज्ञोत्पादका भवन्ति । सर्वेषां संसारे दुःखसंज्ञोत्पादनात् । केनेदं ज्ञायते । ये सत्त्वाः कामधात्वाप्तदुःखोपद्रुता भवन्ति । ते प्रथमध्याने शान्तसंज्ञामुत्पादयन्ति । एवं भवाग्रदुःखोपद्रुता निर्वाणे शान्तसंज्ञामुत्पादयन्ति ।
संसारे ऽस्त्यवद्यं यदुत दुःखम् । यथोक्तं सूत्रे- यत् रूपणमनित्यं दुःखं विपरिणामधर्म, अयं रूपस्यादीनव इति । अविद्ययाभिनिविष्टमिदं दुःखम् । केनेदं ज्ञायते । सत्त्वानां परमार्थतो दुःखे सुखसंज्ञोत्पादात् । परमदुःखसंज्ञोत्पादनात्तु निर्विद्यन्ते । अतो भगवानाह- ये दुःखं बुध्यन्ति तेषामहं दुःखमार्यसत्यं व्याकरोमि इति । तत्र भगवान् लोकसत्यमुपादाय इममर्थं प्रकाशयति । सर्वदेवमनुष्याणां यत्र सुखसंज्ञा भवति । तत्र मम श्रावका दुःखसंज्ञामुत्पादयन्ति । उत्पन्नदुःखसंज्ञा निर्विद्यन्त इति । परममोहपदं ( स्स्स्_435 ) यद् दुःखे सुखसंज्ञोत्पादनम् । अनया संज्ञया च सर्वसत्त्वानां संसारे यातायातानां मानसं क्लिश्यति । दुःखसंज्ञाप्रतिलाभिनस्तु मुच्यन्ते ।
चतुर्भिराहारैश्चोर्ध्वदेहं समापद्यते । तत्र दुःखसंज्ञया आहारान् प्रजहाति । यथा पुत्रमांसखादनम्, यथा वा निश्चर्मगोभक्षणम्, यथा अङ्गारकर्षुभक्षणम् । यथा शक्तिशतधारावलेपनम् । तथाभूते ऽष्वाहारेषु सर्वं दुःखार्थकम् । तथा दुःखसंज्ञया आहारान् प्रजहाति । दुःखसंज्ञां भावयतो मनो न चतसृषु विज्ञानस्थितिषु सुखं विहरति सर्वत्र दुःखदर्शित्वात् । यथा मुग्धाः शलभाः सुखसंज्ञया प्रदीपे पतन्ति । विद्वान् अग्निर्दहतीति ज्ञात्वा [तं] परीहरति । प्राकृता अपि तथा अविद्यामोहादूर्ध्वदेहाग्नौ पतन्ति । विद्वांस्तु दुःखसंज्ञया विमुच्यते । सर्वञ्च त्रैधातुकं दुःखं दुःखसमुदयः । दुःखा वेदना दुःखम् । दुःखजनकं दुःखसमुदयः । [इदानी]मदुःखमपि अवश्यं चिराद्दुःखं जनयति । अतो लोके सर्वं दुःखमिति भावयेत् । निर्विण्णचित्ता धर्मान् वेदयन्तो विमुच्यन्ते ॥
दुःखसंज्ञावर्गश्चतुस्सप्तत्युत्तरशततमः ।
175 अनात्मसंज्ञावर्गः
योगी सर्वे धर्म भङ्गविपरिणामलक्षणा इति पश्यति । यस्मिन् रूपे आत्त्मतयाभिनिविशते इदं रूपं विपरिणामधर्म । तद्विपरिणामधर्मज्ञानादात्मचित्तं परिहरति । तथा वेदनादीनपि । यथा कश्चित् गिरिनिर्झरानुवाहितो यत्किञ्चिदवलम्ब्य तद्विहाय मुच्यते । तथा योग्यम्पि तदात्मतया कल्पयति । तद्विपरिणामधर्म दृष्ट्वा अनात्मकं प्रजानाति । अतो ऽनात्मके ऽनात्मसंज्ञां भावयति ।
(पृ) अनात्मसंज्ञां भावयन् किं हितं लभते । (उ) अनात्मसंज्ञाभावयिता दुःखसंज्ञां परिपूरयति । पृथग्जना आत्मसंज्ञया परमार्थतो दुःखे न दुःखं पश्यन्ति । अनात्मसंज्ञया तु अत्यल्पे ऽपि दुःखे तदुपघातं बुध्यते । अनात्मसंज्ञया चोपेक्षाचित्तं समुदाचरति । कस्मात् । आत्मसंज्ञया हि आत्मा नश्येदिति बिभ्यन्ति । यदि परमार्थं ( स्स्स्_436 ) जानाति तदा हायपति दुःखमनात्मकं विनाश्यमिति । तदा समुदाचरत्युपेक्षा । अनात्मसंज्ञया च नित्यसुखं भवति । कस्मात् । सर्वमनित्यम् । तत्र यदि आत्मात्मीयचित्तमुत्पादयति । तदा आत्मा न भवेत्, आत्मीयमपि न भवेत्, सदा दुःखमेवास्ति इति वदेत् । नास्त्यात्मात्मीयमिति चिन्तयतो धर्मेषु विनष्ठेषु न दुःखमुत्पद्यते ।
अनात्मसंज्ञया च योगिनश्चित्तं विशुध्यति । कस्मात् । सर्वे हि क्लेशा आत्मदृष्टिसम्भूताः । इदं वस्तु आत्मनो हितमित्यतः कामराग उत्पद्यते । इदं वस्तु आत्मनो ऽहितमित्यतो द्वेषप्रतिथ उत्पद्यते । अनेनात्मैवाभिमानजनकः । अहमायुषो ऽन्ते करिष्यामि न करिष्यामिति दृष्टिविचिकित्सा भवति । एवमात्मनैव सर्वे क्लेशाः समुद्भवन्ति । अनात्मसंज्ञया तु सर्वे क्लेशाः समुच्छिद्यन्ते । क्लेशानां समुच्छेदात् चित्तं विशुध्यति । चित्तविशुद्ध्या च काञ्चनं लोष्टं चन्दनमसिधारां प्रशंसां निन्दाञ्च समं मन्यते । प्रियविप्रियैर्विविक्तं चित्तं सुनिवृत्तं शान्तं भवति । अतो ज्ञायते ऽनात्मसंज्ञकस्य चित्तं विशुध्यतीति । अनात्मसंज्ञां विहाय नास्त्यन्यो मार्गो विमुक्तिप्रापकः । कस्मात् । यद्यात्मवादी प्रजानाति नास्त्यात्मा नास्तात्मीयमिति । एवं व्यवसितं चित्तमुत्पादयन्नेव विमुच्यते ।
(पृ) मैवम् । कदाचिदनात्संज्ञया पुनःकामचित्तमुत्पद्यते । यथा स्त्रीरूपे रागः । तत्सर्वमनात्मस्नेहात् । नैरात्म्यमनुसरन्नेव पुण्यपापं सञ्चिनोति । कस्मात् । स्वकायस्योपकारे ऽपकारे वा न पुण्यपापम् । (उ) सात्मकचित्तः कामरागमुत्पादयति । स्वकाये पुरुषसंज्ञां परकाये च स्त्रीसंज्ञामुत्पाद्य [तत्र] अभिनिविशते । तदभिनिवेशोत्पादश्च प्रज्ञप्त्या भवति । तल्लक्षणैव प्रज्ञप्तिः । अतो न नैरात्म्यं कामचित्तजनकम् । अनात्मचित्तश्च न कर्माणि सञ्चिनोति । यथा अर्हतो ऽनात्मसंज्ञया न कर्माणि सञ्चीयन्ते । अनात्मसंज्ञेयं सर्वेषां क्लेशानां कर्मणाञ्च समुच्छेदिनी । अत[स्तां] भावयेत् ॥
अनात्मसंज्ञावर्गः पञ्चसप्तत्युत्तरशततमः ।
176 आहारे प्रतिकूलसंज्ञावर्गः
सर्वं दुःखजननमाहारकामाद्भवति । आहाराच्च मैथुनरागः सहोत्पद्यते । कामधातौ यानि सन्ति दुःखानि सर्वाणि तानि अन्नपान मैथुनरागं प्रतीत्य भवन्ति । आहारकामसमुच्छेदाय प्रतिकूलसंज्ञां भावयेत् ।
यथा कल्पादौ सत्त्वाः स्वर्गादागत्य लोके ऽस्मिन् उपपादुका अभूवन् । [ते] प्रभास्वरकायाः खेचराः स्वतन्त्रा भूत्वा पृथिवीरसमादावश्नुवन् । तदशनबहुलाः प्रणष्टप्रमातिशया अभूवन् । एवं क्रमेण जराव्याधिमरणशालिनः यावद्वत्सरशतं भूयसा दुःखैः पीडिताः । आहाराभिनिवेशवशात् सर्वे ते तादृशेम्यः फलेम्यः प्रणष्टाः । अत आहारं योनिशो भावयेत् । अन्नपानाभिनिवेशान्मैथुनराग उत्पद्यते । ततो ऽन्ये क्लेशा भवन्ति । तेभ्यो ऽकुशलं कर्म कुर्वन्ति अकुशलकर्मतः त्रीन् दोषान् वर्धयित्वा देवमनुष्याणामपकुर्वन्ति । तस्मात् सर्वाः क्लेशविपत्तय आहारकामात् भवन्ति जराव्याधिमरणलक्षणानि अन्नपानाधीनानि ।
आहारो ऽयं स्थाने परममभिनिवेशयति । कामरागो गुरुरपि न पुरुषं क्लेशयति । यथा आहारकर्ता । यदि वा बालो वृद्धो गृहस्थः प्रव्रजितो वा अनाहारपीडितो भवति । आहारमिमं भुङ्क्त्वा अनासक्तमना भवेत् । अविरागी अतितरां खिद्यते । यथा असिधारावलेपनी, यथा वा विष[सिक्तौ]षधसेवकः । यथा वा विषसर्पपोषकः । अतो भगवानाह- भावितचित्त इदमाहारयेत् । नाहारकामाय तद्दुःखपीडितः स्यात् इति । केचित्तीर्थिका [अपि] निरशनव्रतमाचरन्ति । अतो भगवानाह- नास्याहारस्योपच्छेदात् विमुच्यते । किन्तु योनिशो मनसि कृत्वा आहारयेदिति । ये समुच्छिन्नाहाराः तेषां क्लेशा न क्षीयन्ते । अहितं तीव्रमरणमेव भवति । अतो भगवानाह- आहारे ऽस्मिन् प्रतिकूलसंज्ञां जनयेत्, नास्ति ततो ऽवद्यमिति ।
(पृ) कथमाहारे प्रतिकूलसंज्ञा कुर्यात् । (उ) अयं कायस्वभावो ऽकुशलः । अत्युत्तरमसमाहारफलं सर्वमशुचि । अतस्ततो निर्विन्द्यात् । सुरभिगन्धमधुरपानभोजनानि शुचिकाल एव कायस्य हितकराणि । दन्तेन चर्वितं लालया सिक्तं लिङ्गं वान्तवदामाशयपतितं कायस्य हितकरम् । अतो ज्ञायते ऽशुचीति । इदमन्नपानमज्ञानात्सुखम् । यदि कश्चिन्मधुरमाहारं लभमानो ऽपि पुनर्वान्तं न भुनक्ति । इति ज्ञातव्यमज्ञानबलात्तन्मधुरं मन्यत इति ।
आहारप्रत्ययं कृषिकर्म सेवार्जनं संरक्षणमित्येवञ्जातीयदुःखान्यनुभवति । तत्प्रत्ययमप्रमाणानि पापानि कुर्वन्ति । यदशुचि सर्वं तदाहाराधीनम् । असत्याहारे केन ( स्स्स्_438 ) भवन्ति त्वगस्थिरक्तमांसोच्चारादीन्यशुचीनि वस्तूनि । या दुर्गतयोर्वर्चःकुटीक्रिम्यादयः ते सर्वे गन्धरसाभिनिवेशादत्रोत्पद्यन्ते । यथोक्तं कर्मवर्गे- यस्तर्षितो म्रियते स जलक्रिमिभावेनोत्पद्यते । निबिडस्थाने मृतः पक्षिषूत्पद्यते । मैथुनरागेण मृतो योनावुत्पद्यते । इत्येवमादि । य एतदाहारविविक्त स महासुखं प्रतिलभते । यथा रूपधातौ निर्वाणे चोत्पद्यते । आहारानुवर्तनतः कृष्णादिदुःखं भवति । एवमाहारो ऽशुचिर्दुःख इति दृष्ट्वा प्रतिकूलसंज्ञां भावयेत् ॥
आहारे प्रतिकूलसंज्ञावर्गः षट्सप्तत्युत्तरशततमः ।
177 सर्वलोके ऽनभिरतिसंज्ञावर्गः
योगी पश्यति लोकेषु सर्वं दुःखम्, चित्ते च नास्ति किञ्चित्सुखमिति । अयञ्च योगी भावयति प्रीतिविविक्तं समाधिं तद्यथा अनात्मसंज्ञां दुःखसंज्ञामाहारे प्रतिकूलसंज्ञां मरणसंज्ञाम् । इत्यादि । तदा तस्य चित्तं न सर्वलोके ऽभिरमते । अपि चायं पश्यति- यत्प्रियं तत्कामरागवर्धनम्, यद्विप्रियं तत् द्वेषप्रतिघवर्धनमिति । अत उभयत्र नाभिरमते । धनिकस्य पालनादिदुःखमस्तीति दृश्यते । दरिद्रस्याकिञ्चन्यदुःखं दृश्यते । सुस्थानिको दुःस्थाने पतिष्यमाणो दृश्यते । दुःस्थानिको दृष्टे दुःखान्यनुभवन् दृश्यते । प्रत्युत्पन्नो धनिको ऽवश्यं पतिष्यामि, इदञ्च कामादीनां विहृतिस्थानमिति प्रजानानो दृश्यते । प्रत्युत्पन्नो दरिद्रो न प्रत्ययोपलभ्यनिर्गम इति प्रजानानः । अतो न सवलोके ऽभिरमते । अल्पतराश्च सत्त्वाः सुस्थान उत्पन्नाः, बहुतरा दुर्गतौ पतन्ति । यथोक्तं सूत्रे- अल्पतराः सुस्थान उत्पद्यन्ते बहुतरा दुस्थान उत्पद्यन्ते । तदादीनवं दृष्ट्वा निर्वाणमेव प्रार्थयन्ते । इति । पुरुषो ऽयं पश्यति कामादयो दोषाः क्लेशास्सदा सन्तानमनुवर्तन्त इति । यथा क्रोधासेवी पुरुषो ऽवकाशे लब्धे पुनर्बध्यते । अस्मिन् वधके कथमभिरमेत । क्लेशादुत्पन्नमकुशलं कर्म सदानुवर्तमानं दृश्यते । नैवाकुशलकर्मफलान्मुच्यते । यथोक्तं सूत्रे-
स चेत्तु पापकं कर्म करिष्यति करोषि वा ।
न ते दुःखात्प्रमोको ऽस्ति, उत्पात्यापि पलायतः ॥ इति ।
अतो नाभिरमते । जात्यादीन्यष्ट दुःखानि सदा सुकृतिनमनुवर्तन्ते । किं पुनः पापिनम् । एवं कथं लोके अभिरमेत । तद्यथा आशीविषकरण्डः पञ्चोक्षिप्तासिका वधकाः शून्ये ग्रामे चोरः । तादृशान्यवरतीराणि दुःखानि सदा सत्त्वाननुवर्तन्ते । कथं तत्राभिरमेत । तद्यथा लवणतिक्ततृष्णानदीवाहितः पञ्चकामगुणविषशल्य [विद्धः] अविद्यान्धकाराङ्गारकर्षौ [पतितस्तादृशानि] दुःखानि सत्त्वाननुवर्तन्ते । कथं [तत्र] अभिरमेत । योगी उपशमसुखमल्पं विपत्तिक्लेशदुःखानि बहूनीति प्रजानाति । कस्मात्, [यस्मात्] प्रतिदीनं लोकैस्तूयमाना वनषण्डप्रसूतस्फीतफलसमृद्धिशालिनो [ऽपि] भूपा न दीर्घकालसुखलाभिनो दृश्यन्ते । सुखसम्प्रहर्षिणो ऽल्पाः । दुःखवेदिनस्तु बहवः । अतो न सर्वलोके ऽभिरमते ।
(पृ) संज्ञामिमां भावयन् कानि हितानि विन्दते । (उ) नानाविधलोकलक्षणेषु न चित्तमभिनिविशते । तां संज्ञां भावयता क्षिप्रं मोक्षो लभ्यते । संसारे च दीर्घकालं [न]तिष्ठति । अयं योगी हितं ज्ञानं विन्दते । सदा सर्वत्रादीनवभावित्वात् । अस्य च चित्ते न क्लेशा उद्भवन्ति ।
उद्भवे वाशु निरुध्यन्ते । यथा तप्तायःकपाले पतितं जलबिन्दु । योगी लोके नाभिरमत इत्यतः परमोपशमे ऽभिरमते । यो लोकान्निर्विण्णः स उपशमे परमे ऽभिरमते । तस्मात् सर्वलोके ऽनभिरतिसंज्ञां भावयेत् ॥
सर्वलोके ऽनभिरतिसंज्ञावर्गः सप्तसप्तत्युत्तरशततमः ।
178 अशुभसंज्ञावर्गः
(पृ) अशुभसंज्ञां कथं भावयेत् । (उ) योगी पश्यति कायस्य बीजमशुभं यदुत मातापितोरशुचिमार्गजशुक्रशोणितसङ्घातः । कायो ऽयमशुचिभिः संसिद्धो यदुत जीर्णाहारप्रस्वेदप्रस्निग्धः । उपपत्तिस्थानञ्चाशुचि यदुत मातुः कुक्षौ परिपूर्णमशुचि भवति । ( स्स्स्_440 ) विण्मूत्राद्यशुचिपदार्थाः सम्भूय कायं कुर्वन्ति । नवसु द्वारेषु सदाशुचीनि स्रवन्ति । कायो ऽयं यत्र निक्षिप्यते तदेव स्थानममङ्गलमशुचि । अन्नं पानं वस्त्रं पुरुषकायगतं परीहितं सर्वंमशुचि भवति । परेषां दूषणञ्च भवति । कायस्यास्य पदार्थः सर्वो ऽशुचिः । यथा स्नानजलं यदि वा स्नानपात्रादि । कायोत्थं केशनखशिङ्खाणश्लेष्मादि सर्वमशुचि । दृश्यते च मृतकायो ऽशुचितः । कायो ऽयं म्रियमाणः किमन्यो भवति । आदित आरभ्यायमशुचिरिति वेदितव्यम् । जायमानस्तु आत्मबुद्धिविपर्ययात् शुचिरित्युच्यते । मृतस्पृष्टी अशुचिर्भवति । केशनखादि सदा मृतवस्तु । अप्रमाणा मृतक्रिमयश्च सदा कायं स्पृशन्ति । अतो ज्ञातव्यं कायो ऽयमादित आरभ्याशुचिरिति । अशुचिलूक्षामक्षिकामशकादयः सर्वा अशुचिक्रिमयः सर्वदागत्य कायं स्पृशन्तीत्यश्चाशुचिः । कायो ऽयं वर्चःकुटीवत् सदाशुचिपूर्णः । तत्प्रतीत्य वर्चःकुट्यां सहस्रधा क्रिमयो भवन्ति । तथायं कायो ऽपि ।
कायो ऽयं श्मशानसमः । कस्मात् । मृतकायस्य हि स्थानं श्मशानमित्युच्यते । अयं कायो ऽपि बह्वयो मृतक्रिमयो ऽत्र तिष्ठन्ति । अयं कायो ऽशुचिं करोति । यानि शुचिस्थानानि सुरभिकुसुमवस्त्रमालादीनि [तानि] सर्वाण्येतत्कायवशादशुचीनि भवन्ति । ब्राह्मणा मृतगृहे प्रसूतिकागृहे च नाहारमुपभुञ्जन्ति । अशुचित्वात् । अस्मिन् काये तु शतसहस्रधा क्रिमयः सदा जायन्ते म्रियन्ते च । तदा नोपभोज्यान्नपानो भवेत् । अतो ज्ञायते ऽशुचिरिति । लोके च नरकमशुचि । कायो ऽयं क्रिमिशतसहस्राणां नरकम् । अतो ऽशुचिः । कायो ऽयं सदा स्नानमपेक्षते । यदि शुचिः । किमर्थं स्नानमपेक्षते । सुरभिकुसुमगन्धमालालङ्कृतो ऽयं कायः इति वेदितव्यं कायो ऽयं स्वभावतो ऽशुचिरिति । प्रज्ञप्त्या शुचिभिः बाह्यैरलङ्क्रियते । अयं मनुष्यकायः परममशुचिः । यथान्येषां सत्त्वानां चर्मरोमनखदन्तमज्जास्थिमांसानि कदाचिदुपयुज्यन्ते । मनुष्यकाये तु नैकमस्ति ग्राह्यम् । परमाशुचित्वात् । यथोत्पलपद्भपुण्डरीकपुष्पादीनि अशुचिसभूतत्वादशुचीनि भवन्ति । न तथा कायो ऽयमन्यपदार्थैरशुचीक्रियते । प्रकृतित एवाशुचिः । कायो ऽयं यदि शुचिः । तदा न वस्त्रेणाच्छादयेत् । यथा पुरुषो वस्त्राच्छादितमलराशिः परान् वञ्चयति । तथा स्त्री आच्छादनाभरणाच्छादितकाया पुरुषं मोहयति । तथा पुरुषो ऽपि । [अतो] ज्ञातव्यमशुचिरिति । समन्ततो ऽयं कायः सदा अशुचि निस्सारयति यदुत नवरन्ध्राणि अशुचिद्वाराणि रोमकूपेषु च नैकमस्ति शुचि ।
(पृ) अशुभसंज्ञाभावना कस्य हितस्य लाभाय भवति । (उ) स्त्रीपुरुषयोः शुभसंज्ञया कामराग उत्पद्यते । तस्मात्कामरागात्पापकानां द्वारमप्राव्रियते । अशुभसंज्ञाभावनायान्तु कामरागाणां निग्रहो भवति । कस्मात् । अयं हि कायो दुर्गन्धमलैरशुचिश्चर्मावृतत्वात्परं न ज्ञायते । वसनाच्छादिताशुचिराश्याभासवत् शुचिप्रियवस्तु परिवर्जयेत् । योगी चायं विनीलकलोहितकादिसंज्ञया सर्वकायं पर्यादाति । कायपर्यादानात् न कामरागो भवति । प्रत्यक्षं दृश्यते च विनीलकलोहितकादिरूपम् । (पृ) यद्वस्तुतो ऽविनीलकम्, तत् कस्माद्विनीलकं पश्यति । (उ) अधिमुक्तिवलाद्योगी तत् विनीलकं गृह्णाति । सर्वाणि रूपाणि च विनीलकलोहितकानि पश्यति ।
(पृ) भावनेयं कस्मान्न विपर्यस्ता भवति । (उ) कायो ऽयं विनीलकलोहितभागीयः । यथोक्तं सूत्रे- अस्ति वृक्षे विशुद्धता इति । विनीलकलोहितकलक्षणं सदा भावयन् अन्यानि रूपाण्यभिभवति । यथा [इन्द्र]नीलमणिप्रभा स्फटिकरूपं तिरस्करोति । एवं विनीलकलोहितकादिलक्षणं दीर्घकालं भावयतो ऽशुभ[संज्ञा] सम्पूर्णा भवति । अशुभसंज्ञायां न मैथु राग उत्पद्यते । अनुत्पन्ने मैथुनरागे सांवृतसर्वापत्तिविमुखो निर्वाणमेयानुयाति । अशुभसंज्ञां भावयत इदृशं हितं लभ्यते ।
अशुभभावनावर्गो ऽष्टसप्तत्युत्तरशततमः ।
179 मरणसंज्ञावर्गः
योगीमरणसंज्ञया जीविते ऽध्रुवचित्तो भवति । इत्यतः [तां] भावयेत् । अयं सदा कुशलधर्मेषु परममभिरतो ऽकुशलधर्मान् प्रजहाति । कस्मात् । सत्त्वा भूयसा मरणविस्मरणादकुशलं कर्म कुर्वन्ति । यदा तु मरणमनुस्मरन्ति तदा प्रजहति । सततमरणानुस्मरणाच्च मातापितृभ्रातृस्वसृज्ञातिसालोहितपरिजनादिषु रागतृष्णाल्पीयसी भवति । मरणसंज्ञां भावयतः स्वस्य हितं भवति यदुत चित्तैकाग्र्येण कुशलधर्माणामुपचयः । ( स्स्स्_442 ) लौकिकाः सत्त्वा भूयसा परिहिताभिरता स्वहितं त्यजन्त्येव । किञ्चायं क्षिप्रमेव मुच्यते । कस्मात् । आजवञ्जवमनुघावतां हि लोकानां सदा मरणं भवति । अयन्तु मरणनिर्वेदा द्विमुक्तिमेव प्रार्थयते ।
मूल पाठ: Satyasiddhiśāstram · Edition: N. Aiyaswami Sastri: Harivarman: Satyasiddhisastra, Vol. I, Baroda : Oriental Institute, 1975. (Gaekwad's Oriental Series, 159) · Data entry Udip Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0