भाषा

ENहिગુ
ग्रंथ पाठ

सात्वततन्त्र · भाग 120

सात्वततन्त्र, प्रथमः पटलः
श्रीसूत उवाच ।
य एको बहुधा कृष्णः सृष्ट्यादौ बहुधेयते ।
तम् अहं शरणं यामि परमानन्दविग्रहम् ॥ सत्व्त्_1.1
कैलासशिखरासीनं शिवं शिवकरं परम् ।
नारदः परिपप्रच्छ सर्वभूतहिते रतः ॥ सत्व्त्_1.2
भगवन् श्रोतुम् इच्छामि हरेर् अद्भुतकर्मणः ।
श्रीकृष्णस्याप्रमेयस्य नाना लीलातनूर् विभोः ॥ सत्व्त्_1.3
यदर्थं यत्स्वरूपं च यद्यत् काले यथा रतः ।
गृह्णाति भगवान् स्वस्थस् तन् ममाख्यातुम् अर्हसि ॥ सत्व्त्_1.4
अवतारनिमित्तं यच् चिराद् विग्रहसम्भवम् ।
प्रथमं तत्त्वतो ब्रूहि त्वं परापरवित्तमः ॥ सत्व्त्_1.5
श्रीशिव उवाच ।
पृष्टं महाभाग त्वया भागवतोत्तम ।
यद् अहं नोदितः सम्यग्भगवद्वीर्यवर्णने ॥ सत्व्त्_1.6
श्रीविष्णोर् अवताराणां विराजश् च महामते ।
कथने नैव पश्यामि पारं वर्षशतैर् अपि ।
तथापि सारम् उद्धृत्य तन्त्ररूपेण नारद ॥ सत्व्त्_1.7
वर्णयामि यथैवोक्तम् ईश्वरेण दयालुना ।
जयपूर्वं नमस्कृत्य गोपरूपिणम् ईश्वरम् ॥ सत्व्त्_1.8
वक्ष्ये सात्वततन्त्राख्यं भगवद्भक्तिवर्धनम् ।
यदासीद् एकम् अव्यक्तं नित्यं चिद्रूपम् अव्ययम् ॥ सत्व्त्_1.9
ब्रह्मेति यद् विदुर् विज्ञा भगवान् इति सात्वताः ।
तदासन्तम् इवात्मानं मत्वा दृश्य विना विभुः ॥ सत्व्त्_1.10
द्विप्रकारम् अभूत् सत्यं सत्ताभूत्वा स्वयं स्वयम् ।
तच् चिच्छक्तिस्वरूपेण प्रकृतिः पुरुषो महान् ॥ सत्व्त्_1.11
सर्वलोकैकनिलयो भगवान् इति शब्द्यते ।
तस्यैव शक्तिः प्रकृतिः कार्यकारणरूपिणी ॥ सत्व्त्_1.12
गुणत्रयस्वरूपेण या स्वयं भिद्यते पुनः ।
यः कालस् तं वदन्त्य् एके हरेश् चेष्टां दुरन्वयाम् ॥ सत्व्त्_1.13
यस्माद् गुणत्रयक्षोभात् पृथग्भूतो ऽभवत् पुरा ।
जीवस्य यस्माद् भवति शुभाशुभफलग्रहः ॥ सत्व्त्_1.14
तत् कर्म महतो जन्महेतुर् अव्यक्तमूर्तिमत् ।
भावानां परिणामो हि यतो भवति सर्वदा ॥ सत्व्त्_1.15
तम् एवाहुर् वेदविदः सूक्ष्मरूपं स्वभावकम् ।
उक्तो ऽयं पुरुषः साक्षाद् ईश्वरो भगवत्तनुः ॥ सत्व्त्_1.16
कालकर्मस्वभावस्थः प्रकृतिं प्रति नोदितः ।
पुरुषाधिष्ठिता देवी प्रकृतिर् गुणसंग्रहा ॥ सत्व्त्_1.17
महत्तत्त्वम् अभूत् तत्तत्परिज्ञानक्रियात्मकम् ।
तस्माज् जातो ह्य् अहंकारस् त्रिविधो दैवनोदितात् ॥ सत्व्त्_1.18

वैकारिकस् तैजसश् च तामसश् चेति यं विदुः ।
वैकारिकान् मनोदेवा जाता ज्ञानक्रियाधिपाः ॥ सत्व्त्_1.19
मरुत्केशौ दिशः सूर्यो नासत्यो ज्ञाननोदकाः ।
वह्नीन्द्रमित्रकोपेता एते कर्मापनोदकाः ॥ सत्व्त्_1.20
राजसाद् विषयग्राहज्ञानकर्मस्वरूपिणः ।
त्वग्रसज्ञा श्रुतिश् चक्षुर् घ्राणं बुद्धिश् च तन्मयाः ॥ सत्व्त्_1.21
वाक्पाणिपायूपस्थाश् च गतिश् चेति क्रियात्मकाः ।
तामसात् पञ्चभूतानि तन्मात्राणि च भागशः ॥ सत्व्त्_1.22
प्रथमं तामसाज् जज्ञे शब्दस् तस्माद् अभून् नभः ।
शब्दरूपात् तु नभसः स्पर्शस् तस्माद् अभून् मरुत् ॥ सत्व्त्_1.23
मरुतो ऽभूत् ततस् तेजस् तेजसो रूपम् उत्तमम् ।
रूपमात्राद् रसो जज्ञे तस्माद् आपो ऽभवन् शुचीः ॥ सत्व्त्_1.24
अद्भ्यो जातो गन्धगुणो गन्धाद् भूमिर् अजायत ।
महत्तत्त्वम् अहंकारः सशब्दस्पर्शतेजसः ॥ सत्व्त्_1.25
रसगन्धाव् इमे सर्वे स्मृता प्रकृतिविक्रियाः ।
शब्दस्य प्रकृतेर् एव संदृश्यन्ते यतो बुधैः ॥ सत्व्त्_1.26
अतो ऽभवन् प्रकृतयो विकारान् विकृतीर् विदुः ।
आकाशे शब्दमात्रं स्याद् वायौ स्पर्शः सशब्दकः ॥ सत्व्त्_1.27
रूपं तेजसि शब्दश् च स्पर्शश् चैव जले तथा ।
रसशब्दस्पर्शरूपं पृथिव्यां सर्वम् एव हि ॥ सत्व्त्_1.28
कारणानां यतः कार्ये समन्वयविधिस् ततः ।
दृश्यते त्व् अधिकस् तत्र गुणो यावति कश् च ह ॥ सत्व्त्_1.29
महदादीनि तत्त्वानि पुरुषस्य महात्मनः ।
कार्यावताररूपाणि जानीहि द्विजसत्तम ॥ सत्व्त्_1.30
सर्वाण्य् एतानि संगृह्य पुरुषस्येच्छया या ।
अंशैर् उत्पादयामासुर् विराजं भुवनात्मकम् ॥ सत्व्त्_1.31
तस्य चान्तर्गतं छिद्रं पञ्चाशत्कोटिविस्तृतम् ।
दशोत्तराधिकैर् एतैः सप्तभिर् बहिर् आवृतम् ॥ सत्व्त्_1.32
तम् आहुः पुरुषस्यैव गेहं यत्राविशत् स्वयम् ।
यतो ऽचेतनम् एवासीत् केवलं सर्वविस्तरम् ॥ सत्व्त्_1.33
नराद् उत्पन्नतत्त्वानां संग्रहे नारसंज्ञके ।
अयनं तस्य यद् अभूत् तस्मान् नारायणः स्मृतः ॥ सत्व्त्_1.34
विराड्देहे यद् अवसद् भगवान् पुरसंज्ञके ।
अतः पुरुषनामानम् अवाप पुरुषः परः ॥ सत्व्त्_1.35
यदा स भगवान् देवो मूलप्रकृतिविस्तरः ।
नारायणेन रूपेण विरजम् अविशत् स्वयम् ॥ सत्व्त्_1.36
तदा चेतनम् आपाद्य चिराद् विग्रह उत्थितः ।
समष्टिशब्दतावाच्यो द्विसप्तभुवनाश्रयः ॥ सत्व्त्_1.37
यस्मिन् चराचरं भूतं स्रष्टा ब्रह्माहरेस् तनूः ।
तत्र लोकमयं यावत् तं विराजं विदो विदुः ॥ सत्व्त्_1.38

तस्याभिमानिनं जीवं वैराजं पुरुषाभिधम् ।
तदन्तर्यामिणं देवं नारायणम् अनामयम् ॥ सत्व्त्_1.39
सर्वजीवैकनिलयं भगवन्तं प्रचक्षते ।
अवतारसहस्राणां निधानं बीजम् अव्ययम् ॥ सत्व्त्_1.40
यस्यांशेन रजोयुक्तः सृष्टौ ब्रह्मा व्यजायत ।
विष्णुः सत्त्वगुणाधीशः स्थितौ स्थापयितुं जगत् ॥ सत्व्त्_1.41
तमसा रुद्ररूपो ऽभूत् प्रतिसंचरणो विभुः ।
एते विष्णोर् गुणमया अवताराः क्रियाकृताः ॥ सत्व्त्_1.42
एषाम् अंशावतारान् मे निबोध गदतो मम ।
ब्रह्मणो ऽंशेन समभून् मरीचिर् अत्रिर् अङ्गिराः ॥ सत्व्त्_1.43
पुलस्त्यः पुलहश् चैव क्रतुर् दक्षो द्विजोत्तम ।
भृगुर् वसिष्ठो ऽथर्वा च कर्दमाद्याः प्रजेश्वराः ॥ सत्व्त्_1.44
एषां पुत्राश् च पौत्राश् च प्रपौत्राश् च महौजसः ।
सृष्ट्यर्थम् उद्गताः सर्वे भगवद्वीर्यसंयुताः ॥ सत्व्त्_1.45
विष्णोर् अंशेन समभूद् धर्मो यज्ञो बृहत्त्रिवृत् ।
स्वायम्भुवाद्या मनवो द्विसप्ता लोकविश्रुताः ॥ सत्व्त्_1.46
एषां पुत्राश् च पौत्राश् च तथेन्द्राद्याश् च देवताः ।
विष्ण्वंशयुक्ता लोकानां पालकाः कथिता मया ॥ सत्व्त्_1.47
रुद्रस्यांशेन शतशो जाता रुद्रगणाः पृथक् ।
सर्पाश् च शतशो जाता ये च हिंस्राः स्वभावतः ॥ सत्व्त्_1.48
एते संक्षेपतः प्रोक्ता रुद्रस्यांशास् तमोजुषः ।
संहारिणो ऽस्य जगतो घोररूपा विलक्षणाः ॥ सत्व्त्_1.49
अथ ते सम्प्रवक्ष्यामि लीलादेहान् हरेः पृथक् ।
शुद्धसत्त्वमयान् शान्तान् लोकप्रेमास्पदान् शृणु ॥ सत्व्त्_1.50
य ईश एको भगवान् अनन्तो ब्रह्मस्वरूपी पुरुषो ऽधियज्ञः ।
पातुं पुनर् विश्वम् असौ स्वकार्यं भेजे तनूस् तं प्रणमामि कृष्णम् ॥ सत्व्त्_1.51
इति श्रीसात्वततन्त्रे शिवनारदसंवादे प्रथमः पटलः ॥ सत्व्त्_1.52
सात्वततन्त्र, द्वितीयः पटलः
श्रीसिव उवाच ।
साक्षाद् बभूव भगवान् परिपातुम् ईशो वेदान् युगादिसमये हयशीर्षनामा ।
हत्वा सुरेतरवरौ मधुकैटभाख्यौ नस्तश् चकार विश्रुतीः श्रुतिभिर् विमृग्यः ॥ सत्व्त्_2.1
लोकान् निवृत्तिपरतां प्रचिकीर्षुर् आदौ भूत्वा चतुःसनतया भगवान् विमुक्त्यै ।
प्रोवाच योगम् अमलं विशदाशयेभ्यो भोगान् विरक्तिपरतां स्वयम् आचचार ॥ सत्व्त्_2.2
देवेषु नारदतनुर् भगवान् विशुद्धं नैष्कर्म्ययोगम् अवहत् खलु पाञ्चरात्रम् ।
धर्मं तथा भगवता कथितं विशेषशिष्येष्व् असौ परमनिर्वृतिम् आदधानम् ॥ सत्व्त्_2.3
आदौ दधार धरणीधरणाय धातुः स्वायम्भुवोक्तिपरिपालककाल एव ।
नारायणो ऽखिलगुरुर् गुरुकोलदेहं तेनाहनद् दितिसुतं दशनाग्रघातैः ॥ सत्व्त्_2.4
भूमेर् अधो धरणिमण्डलम् अप्रमेयः शेषाख्य आस जगतः स्थितये नितान्तम् ।
यस्मिन् कलार्पितम् इदं लिखिवच् चकास्ति नागाधिपैर् मुनिगणैः परिसेविताङ्घ्रिः ॥ सत्व्त्_2.5
तस्माद् अधः कमठ आस विशालरूपी ब्रह्माण्डभाण्डपरिविस्तृतादिव्यकायः ।

शेषो ऽपि यत्र परिभाति सुतन्तुतुल्यो यं चार्यमा पितृपतिः समुपासते वै ॥ सत्व्त्_2.6
दृष्ट्वा दृशार्धवयसापि विहाय मातुर् देहं ध्रुवं मधुवने तपसाभितप्तम् ।
भूत्वा कृपामयवपुर् भगवान् स्वलोकं प्रादात् स्तुवन्ति यतयो मुनयो ऽपि यं वै ॥ सत्व्त्_2.7
आलोक्य कर्दमतपो भगवान् विभूत्यै संशुद्धदिव्यवपुषाविरभूत् सशुक्लः ।
तस्मा अदाद् वरमजात्मजपुत्ररूपम् आनन्दबिन्दुपयसा च चकार तीर्थम् ॥ सत्व्त्_2.8
यज्ञे स एव रुचिना मनुपुत्रिपुत्र आहूतिसूतिर् असुरारणिवह्निकल्पः ।
त्रैलोक्यगोपनविधौ सुरनाथ ईश नाम्ना सुयज्ञ इति विश्रुतकीर्तिर् आशिः ॥ सत्व्त्_2.9
सिद्धेश्वरश् च समभूत् कपिलाख्य ईशः श्रीदेवहूतितनयो विततान तस्यै ।
योगं स्वशक्तिसहितं चिदचिद्विभागं सांख्यं तथा स्वभिमुखेषु जगाद शुद्धम् ॥ सत्व्त्_2.10
योगेश्वरो ऽत्रितनयो भगवान् अनन्तो दत्ताख्य आस समताववदत् स्वचर्याम् ।
प्रह्लादहैहययदुष्व् अपरायणेषु शिष्येषु शिक्षितकथां कथयन् गुरुभ्यः ॥ सत्व्त्_2.11
नारायणो नर ऋषिप्रवरावभूतां धर्मस्य दक्षदुहितर्य् अधिमूर्तिपत्न्याम् ।
धीरोपकारकरुणाशयकायशुद्धं तीव्रं तपः प्रचरतां सुरराजतापम् ॥ सत्व्त्_2.12
नाभेर् अभूद् ऋषभसंज्ञसदाप्तकामो योगेश्वरः सुतशतैर् अवदत् प्रजाभ्यः ।
धर्मं ततः परमयोगिजनावचर्यां नैष्कर्म्यलक्षणपरां स्वयम् आचचार ॥ सत्व्त्_2.13
धात्रन्तिके सुसनकादिभिर् ईर्यमाणे चेतोगुणान् विगलितुं भगवान् स हंसः ।
प्रोवाच तत्त्वम् अमलं सदयार्द्रचित्ता यस्माद् गुणागुणविभागम् अभून् मुनीनाम् ॥ सत्व्त्_2.14
वेने मृते द्विजजनैर् अनु बाहुयुग्मं संमथ्यमानसमये पृथुरूप आसीत् ।
लोकक्षुधां प्रशमयन् पृथिवीं दुदोह सर्वाणि भूतिकरणानि च सर्वभूत्यै ॥ सत्व्त्_2.15
दक्षस्य यज्ञविहिते शिवशक्तिहेतोः प्राप्ताज्यभामम् अधिकं भृगुणाभिदत्तम् ।
तत्राष्टबाहुर् अभवद् भगवान् भवाय प्राप्ता नुतिः सुरनरादिकृतापि तेन ॥ सत्व्त्_2.16
जातः प्रियव्रतकुले गय इत्य् उदारकीर्तिं ततान भगवान् तनुवाङ्मनोभिः ।
तेनापि यज्ञतनुर् ईश्वर इन्द्ररूपी स्पर्धां चकार महतां मदम् आदधानः ॥ सत्व्त्_2.17
संवत्सरस्य तनयः स ह यामिनीनाम् आलोकनादिविविधं मुदम् आचिकीर्षुः ।
श्रीकामदेववपुषा ह्य् अवतीर्य देवो देव्योमया मदनकेलिभिर् आरराम ॥ सत्व्त्_2.18
प्राचीनबर्हितनयांस् तपसा सुतप्तान् दृष्ट्वा स्वशान्तवपुषाविरभूद् अनन्तः ।
दत्त्वा स्वपादभजनं वसतां गृहेषु कन्यां च वृक्षजनिताम् अदिशद् दयालुः ॥ सत्व्त्_2.19
स्वारोचिषे तुषितया द्विजवेदशीर्षाज् जातो विभुः सकलधर्मभृतां वरिष्ठः ।
यद् ब्रह्मचर्यानियमान् ऋषयो ऽप्य् अशिक्षन् साक्षाज् जगद्गुरुतयावचचार शुद्धान् ॥ सत्व्त्_2.20
धर्माद् अभूत् सुततया भगवांस् तृतीये मन्वन्तरे त्रिजगतः स्थितये कृपालुः ।
श्रीसत्यसेन इति दुर्जनयक्षरक्षान् यस् तान् अपाहरद् असौ सुरनाथमित्रः ॥ सत्व्त्_2.21
तुर्ये ऽन्तरे सरसि वारणराजराजं ग्राहेण तीव्रबलिना परिकर्षयन्तम् ।
नारायणेत्य् अभिहिते हरिर् उद्दधार तस्माद् भवार्णवजलाद् अपि देवराजः ॥ सत्व्त्_2.22
वैकुण्ठ आस भगवान् द्विजवर्य मुद्रा देव्या मया तदनुरूपजयाभिधानः ।
वैकुण्ठदर्शनम् अकारयद् अप्रमेयस् तस्याउ पञ्चममनोः समये प्रसिद्धम् ॥ सत्व्त्_2.23
षष्ठे ऽन्तरे तु भगवान् द्विजशापखिन्नदेहान् सुरान् अवनतान् अवलोक्य सन्नः ।
वैराजविप्रतनयो ऽजितसंज्ञ ईशो देवासुरैर् अमथयत् सहसा पयोधिम् ॥ सत्व्त्_2.24
देवासुरे जलनिधेर् मथनाद् विषष्णे हस्ताच् च्युते गिरिवरे सहसार्द्रचित्तः ।
भूत्वा तु कूर्मवपुर् अद्भुतम् उद्दधार मेने च पर्वतविवर्तनगात्रकण्डूम् ॥ सत्व्त्_2.25
दुग्धाम्बुधाव् उरुरुजां प्रचिकीर्षुर् ईश आदाय पूर्णकलशं सुधया नितान्तम् ।

आयुर्विधाननिगमं खलु यज्ञभोक्ता धन्वन्तरिः समभवद् भगवान् नराणाम् ॥ सत्व्त्_2.26
धन्वन्तरेर् अमृतपूर्णघटे स्ववारा चूर्णीयमान अमरे शरणं प्रविष्टे ।
मोहिन्य् अभूत् स भगवान् असुरासुराणां मोहाय तापविरमाय सदाप्तकामः ॥ सत्व्त्_2.27
सत्यव्रताय जनतर्पणतः स्वरूपं मात्स्यं महाकरुणया प्रवितत्य सद्यः ।
कल्पार्णवे ऽप्य् अवदद् अच्युत आत्मतत्त्वं भूरूपनाविवसते विहरन् द्विजेभ्यः ॥ सत्व्त्_2.28
त्रैलोक्यदुःखदलनाय नृसिंहरूपं कृत्वा स्वभक्तम् अवितुं किल लाङ्गलाग्रैः ।
धृत्वासुरेन्द्रम् असुरेन्द्रविशालतीव्रवक्षःस्थलं स्थलम् इवाग्रनखैर् ददार ॥ सत्व्त्_2.29
यस्मिन् प्रपश्यति बलिः सगणं त्रिलोकं तेनापि वामनतनुं भगवान् गृहीत्वा ।
संयाच्य सम्मितपदत्रितयं बलेः स्वं कृत्वा त्रिविष्टपम् अदाद् अदितेः सुतेभ्यः ॥ सत्व्त्_2.30
भक्तान् अहं समनुवर्त इति स्ववाचं साक्षात् प्रकर्तुम् इव भूविवरे प्रविष्टः ।
वैरोचनेर् गृहम् अरक्षयद् अप्रमेयो नाम्ना गदाधर इति क्षपयन् दयावान् ॥ सत्व्त्_2.31
भूत्वा तु भार्गवकुले निजतातनाशाद् रामो महापरशुकं परिगृह्य तीक्ष्णम् ।
क्षत्रं निवार्य क्षितितलं परिहृत्य भूयो दत्त्वा द्विजाय ह्य् अवसत् स महेन्द्रपृष्ठे ॥ सत्व्त्_2.32
वृन्दारकैः परिनिषेवितपादपद्मः श्रीरामचन्द्र इति सूर्यकुलाब्धिजातः ।
देवारिनाशनविधौ कुशिकान्वयेन नीतो महेशधनुर् आजगवं बभञ्ज ॥ सत्व्त्_2.33
ज्ञात्वा ततो भृगुकुलोद्भवधीरवीरं रामं सुगौररुचिरां परिणीय सीताम् ।
गत्वा गृहान् गृहपतेः पितुर् आप्तजायावाचं निशम्य वनवासम् अगात् सभार्यः ॥ सत्व्त्_2.34
तीर्त्वा गाङ्गपयो ऽनुजानुगमनाच् छ्रीचित्रकूटं गिरिं त्यक्त्वा दुष्टविराधराधदमनो धावन् धनुर् धारयन् ।
हत्वा क्रूरसुरेन्द्रवैरिहरिणं मारीचसंज्ञं ततो लङ्केशाहृतसीतया खलु पुनः प्राप्तो दृशाम् ईदृशाम् ॥ सत्व्त्_2.35
चन्द्रं चण्डकरं प्रचण्डपवनं मेने सुमन्दानिलं मालां मालतिमल्लिकां शुचिकलां गीतं स्फुलिङ्गायितम् ।
इत्य् एवं वनितापरायणनरं हास्यन्न् इवालोकयन् ऋक्षं मन्मथसायकाहृतमनो रेमे प्रियाशङ्कया ॥ सत्व्त्_2.36
गत्वा वानरराजवालिनमहामित्रेण सेतुं ततो बद्ध्वा वारिधिम् आतरत् तरतमं साकं प्लवंगैर् मुदा ।
छित्त्वा राक्षसयक्षलक्षम् अमला सीता सपुत्रानुजं लङ्केशं ज्वलदग्निना भगवता चाप्ता पुनः सा पुरी ॥ सत्व्त्_2.37
सूर्यादिशक्तिम् अविहृत्य शशास भूमिं गोविप्रप्राज्ञपरिसेवनसर्वधर्मः ।
उद्रिक्तभक्तिनमितान् अनयत् स्वनाथान् सर्वान् वनाधिवसतः स्वपदं सुशान्तम् ॥ सत्व्त्_2.38
तस्यानुजो भरतसंज्ञ उदारबुद्धी रामाज्ञया निजगृहे निवसन्न् अपि श्रीम् ।
त्यक्त्वा वनस्थव्रतवान् अभवत् ततो वै गन्धर्वकोटिमथनं विहरंश् चकार ॥ सत्व्त्_2.39
श्रीलक्ष्मणस् तदवरो वनम् एत्य रामं सीतां निषेच्य बहुकष्ट आसीत् ।
बाह्ये ऽपि चास्य वचसा वनम् एत्य देहं संत्यज्य तत्पदम् अगाद् अरिसैन्यवह्निः ॥ सत्व्त्_2.40
शत्रुघ्नसंज्ञ उरुविक्रमशुद्धबुद्धिः शौर्येण दर्पदलनो द्विषतां दयालुः ।
दीनेषु दैत्यलवणान्तक आर्यसेवी स्वान्येषु साम्यमतिराजनताभिरामः ॥ सत्व्त्_2.41
मार्कण्डनाममुनये भुवनानि देष्टुं मायालये तनुतरे जठरे मुकुन्दः ।
न्यग्रोधपत्त्रपुटकोशशयान आसीद् अङ्गुष्ठपानपरमः शिशुर् अप्रमेयः ॥ सत्व्त्_2.42
वृत्रस्य घोरवपुषा परितापितानां संरक्षणाय भगवान् युधि निर्जराणाम् ।
आद्यो ह्य् अभूद् गरुडकिंनरगीतकीर्तिस् तेषां सुदुःखभयशोकविनाशशीलः ॥ सत्व्त्_2.43
अङ्गुष्ठपर्वसुमितान् श्रमणान् द्विजाग्र्यान् दृष्ट्वा तु गोष्पदपयोगतसर्वदेहान् ।
ब्रह्मण्य इन्द्रहसितान् समिदंशुहस्तान् गुर्वर्चनाय कृपयावद् अमून् प्रपन्नान् ॥ सत्व्त्_2.44
दुष्यन्तबीजम् अधिगम्य शकुन्तलायां जातो ह्य् अजो ऽपि भगवान् अधियज्ञकर्त्
।
विस्मापयन् बहुनृपान् बहुवाजिमेधान् साक्षाद् इयाज बहु दानम् अदाद् अमेयः ॥ सत्व्त्_2.45

सर्वान् जनान् कलियुगे बलबुद्धिहीनान् दृष्ट्वा कृपापरवशो वसुवीर्यजायाम् ।
जातः पराशरसकाशत आदिदेवो वेदान् समाहिततया विभजिष्यति स्म ॥ सत्व्त्_2.46
वृष्णेः कुले तु भगवान् बलदेवनामा यस्माद् बलान् अतिबलान् अदलत् सुरारीन् ।
यल् लाङ्गलाग्रकलनात् कुरुराजधानी धानेव धामसहिता चलितातिभीता ॥ सत्व्त्_2.47
भूमेर् जनस्य निजपादपरायणस्य वृष्णेर् अजो ऽपि भगवान् सुखम् आदधानः ।
जातो भविष्यति यशो विपुलं प्रकर्तुं श्रीकृष्ण इत्य् अभिहितो ऽखिलशक्तिपूर्णः ॥ सत्व्त्_2.48
जातो निजेन वपुषा वसुदेवगेहे गत्वा तु गोकुलम् अथो विहरन् विनोदैः ।
बालाकृतिर् विशदबालकभाषाहासैर् गोगोपगोपवनितामुदम् आशु कर्ता ॥ सत्व्त्_2.49
कंसानुशिष्टसुरशत्रुगणान् उलूकीमुख्यान् हनिष्यति व्रजस्थितये महाद्रिम् ।
धृत्वोच्छिलीन्ध्रम् इव सप्त दिनानि वामहस्ते प्रगृह्य सुरनाथमदं प्रमार्ष्टा ॥ सत्व्त्_2.50
धात्रा यदा सपशुगोपशिशौ प्रणीते बुद्धेर् भ्रमो हलभृतो ऽभवद् अप्रमेयः ।
तत् संहरन् सपशुपालकुलस्वरूपं कृत्वा विधिं विविधमोहमलात् स धर्ता ॥ सत्व्त्_2.51
वृन्दावने सुरभिवाद्यविलासगीतैर् गोधुग्वधूजनमनोजजवं दधानः ।
कर्ता महामदनकेलिविहारगोष्ठीविस्मापनं निशि निशाचरखेचराणाम् ॥ सत्व्त्_2.52
कंसस्य रङ्गसदनं सबले प्रणीते स्वाफल्किना भवधनुस् तरसा विभज्य ।
चाणूरशूरशमनं सहकंसमाजौ कर्ता द्विपं कुवलयं सहसा निहत्य ॥ सत्व्त्_2.53
सांदीपनं मृतसुतं गुरुदक्षिणार्थी दत्त्वा जरासुतबलं यवनं च हत्वा ।
श्रीरुक्मिणीप्रभृतिदारशतं विवाह्य ताभ्यः सुतान् दशदशानु जनिष्यति स्म ॥ सत्व्त्_2.54
भौमं निहत्य सगणं दिवि देवमातुर् दातुं तदीयमणिकुण्डलम् आदिदेवः ।
गत्वा सुरेन्द्रतरुराजवरं प्रियायाः प्रीतौ समुद्धरणतो दितिजान् स जेता ॥ सत्व्त्_2.55
बाणासुरस्य समरे मम वीर्यनाशाल् लब्धामरत्वम् अधिकं युधि भूपबन्धून् ।
जित्वा युधिष्ठिरनृपक्रतुना विवाहबीजं निपात्य गुरुभारतरं प्रहर्ता ॥ सत्व्त्_2.56
लोके प्रदर्श्य सुतरां द्विजदेवपूजां स्वस्याप्य् अपारकरुणां निजसेवकेभ्यः ।
त्रात्वा परीक्षितनृपं परमास्त्रदग्धं पार्थाय भूतिम् अवलोकयिता द्विजार्थे ॥ सत्व्त्_2.57
कामेन स्नेहभयरागकुटुबसंधे यस्मिन् मनो निवसतः शमलं निरस्य ।
दाता स्वरूपम् अमलं परिशुद्धभावः साक्षात् स्वरूपनिरतस्य च किं नु वक्ष्ये ॥ सत्व्त्_2.58
यत् पादपङ्कजपरागपरायणानाम् अग्रे चकास्ति न च मुक्तिसुखं नितान्तम् ।
किं वान्यदर्पितभयं खलु कालवेगैः साक्षान् महासुखसमुद्रगतान्तराणाम् ॥ सत्व्त्_2.59
गङ्गादितीर्थतपहोमव्रतादिकेभ्यः कीर्तिं स्वकीयम् अधिकां समुदीर्य लोके ।
अत्युन्नतं द्विजकुलं द्विजशापव्याजाद् धत्वा स्वलोकम् अमलं तनुनाभिगन्ता ॥ सत्व्त्_2.60
तस्माद् भविष्यति सुतः सुखदो जनानां प्रद्युम्नसंज्ञ उरुगायगुणानुरूपः ॥ सत्व्त्_2.61
कर्ता मुदं मुदितवक्त्रसुचारुगात्रैः पात्रैर् इवामृतपयो मनुजान् प्रच्छन् ।
तत्राप्य् अजो ऽनुजनिताप्यनिरुद्धनामानाम्नां प्रवर्तकतया मनसीश्वरो ऽपि ॥ सत्व्त्_2.62
यस्माद् उषाहरणतो भुजवीर्यनाशाद् बाणो भविष्यति शिवानुगशान्तदेहः ।
व्यासाद् भविष्यति [... औ2 णेइछेन्झ्] भगवान् अरण्यां योगी जनान् प्रति गदिष्यति वेदसारम् ॥ सत्व्त्_2.63
श्रीमत्सुशान्तम् अमलं भगवत्प्रणीतं यच् छ्रद्धया कलिजना अपि यान्ति शान्तिम् ।
बुद्धावतारम् अधिगम्य कलावलक्षैर् वेषैर् मतेर् अतिविमोहकरं प्रलोभम् ॥ सत्व्त्_2.64
पाखण्डशास्त्रम् अधिकल्प्य सुरद्विषाणां कर्ता जिनस्य तनयो भगवान् गयायाम् ।
पाखण्डशास्त्रबहुले निजवेदमार्गे नष्टे द्विजातिभिर् असत्पथि वर्तमाने ॥ सत्व्त्_2.65
कल्क्यावतारतरणिस् तरुणान्धकारतुल्यं तुदन् नृपगणं कृतधर्मगोप्ता ।

साक्षाद् भविष्यति सरस्वतिसंज्ञितायां श्रीसार्वभौम इति वेदगुपो द्विजाग्र्यात् ॥ सत्व्त्_2.66
कृत्वा पुरंदरश्रियं बलये ऽतिदास्यन् गोप्ताष्टमे मनुयुगे विदितानुभावः ।
आयुः करो नवमनोः समये जनानां नीतिं विधातुम् अमरारिविनाशनाय ॥ सत्व्त्_2.67
गोप्ता भविष्यति जगज्जनधारयासौ भूत्वा श्रुतेन्द्रसहितो भगवान् अपारः ।
भूत्वा विशूचिसदने द्विजराजशम्भोः साहित्यकर्मपरवान् दशमे ऽन्तरे सः ॥ सत्व्त्_2.68
पातामरान् [... औ3 णेइछेन्झ्] विश्वक् [... औ1 णेइछेन्झ्] सेनसंज्ञो यत् सैन्यपूगसमराद् अमरारिनाशः ।
मन्वन्तरैकदशमे ऽर्थकरिप्रपौत्रः श्रीधर्मसेतुर् इति विश्रुत आदिदेवः ॥ सत्व्त्_2.69
हत्वासुरान् सुरपतौ विधृतेर् अपत्ये दाता तृतीयभवनं भगवान् स्वयम्भूः ।
जातो द्विषण्मनुयुगे युगपालनाय विप्रात् स्वशक्तिमहसः सुनृताख्यतो वै ॥ सत्व्त्_2.70
ख्यातो भविष्यति ततो भगवान् स्वधामा यस्माज् जना जगति सौख्यम् अपारम् आपुः ।
भाव्ये त्रयोदशयुगे भवितादिदेवः श्रीदेवहोत्रतनयो भगवान् बृहत्याम् ॥ सत्व्त्_2.71
योगेश्वरो दिवि दिवस्पतिशक्रमित्रो योगाद् अमेयवपुषा स वितानतुल्यः ।
सत्रायणस्य सदने भगवान् अनादिदेवो ऽपि देववनितातनयो ऽभिजातः ॥ सत्व्त्_2.72
अन्ते ऽन्तरे करणकर्मवितानतन्तून् विस्तारयिष्यति जगद्धितकामशीलः ।
एते मया भगवतः कथिता द्विजाते शुद्धावतारनिचया जगतो हितार्थाः ।
सम्पूर्णतांशकलया परिभावनीया ज्ञानक्रियाबलसमादिभिर् आभिव्यक्ताः ॥ सत्व्त्_2.73
यल् लीलातनुभिर् नित्यं पाल्यते सचराचरम् ।
तम् अहं शरणं यामि कृष्णं ब्रह्माण्डनायकम् ॥ सत्व्त्_2.74
सात्वततन्त्र, तृतीयः पटलः
श्रीनारद उवाच ।
कथिता भगवान् विष्णोर् अवतारा महात्मनः ।
सम्पूर्णांशकलाभेदैर् भावनीयास् त्वया प्रभो ॥ सत्व्त्_3.1
निर्विकल्पस्य कृष्णस्य ब्रह्मणः परमात्मनः ।
कथम् अंशकलाभाग एतद् वर्णय नो विभो ॥ सत्व्त्_3.2
श्रीशिव उवाच ।
सत्यम् उक्तं त्वया ब्रह्मन् कृष्णस्य जगदात्मनः ।
अवतारेषु सर्वेषु भेदाद् अंशकलाः स्वतः ॥ सत्व्त्_3.3
न वर्णयन्ति निपुणा ज्ञानिनो भगवत्पराः ।
अविकाराद् अच्युताच् च निर्भेदाद् ब्रह्मरूपिणः ॥ सत्व्त्_3.4
किं तु ज्ञानप्रभावादेः पूर्णांशांशानुदर्शनात् ।
पूर्णम् अंशकलाभागं वदन्ति जगदीशितुः ॥ सत्व्त्_3.5
सन्ति यद्य् अपि सर्वत्र ज्ञानवीर्यगुणादयः ।
तथापि कार्यतः केचिद् दृश्यन्ते न हि सर्वतः ॥ सत्व्त्_3.6
ऐश्वर्यज्ञानधर्माश् च वैराग्यं श्रीर् यशस् तथा ।
एषां संदर्शनात् साक्षात् पूर्णो विद्वद्भिर् उच्यते ॥ सत्व्त्_3.7
एतेषाम् अपि भागानाम् अल्पाल्पदर्शनाद् असौ ।
विभात्य् अंशकलाभेदो भगवान् भगभेदधृक् ॥ सत्व्त्_3.8
अंशस् तुरीयो भागः स्यात् कला तु षोडशी मता ।
शतभागो विभूतिश् च वर्ण्यते कविभिः पृथक् ॥ सत्व्त्_3.9
अतो ज्ञानस्य धर्मस्य वैराग्यैश्वर्ययोः श्रियः ।

यशसः पृथग्भेदं मत्तः शृणु द्विजोत्तम ॥ सत्व्त्_3.10
उत्पत्तिप्रलयौ चैव विद्याविद्ये गतागती ।
एषां ज्ञानं वदन्त्य् अङ्ग ज्ञानं षड्विधम् उत्तमम् ॥ सत्व्त्_3.11
सत्यं शौचं दया मौनं धर्मश् चातुर्विधः स्मृतः ।
अमानो व्यतिरेकश् च ऐन्द्रियस् तु वशीकृतः ॥ सत्व्त्_3.12
एवं चतुर्विधो भद्र वैराग्यः समुदाहृतः ।
अणिमा लघिमा चैव महिमा तदनन्तरम् ॥ सत्व्त्_3.13
प्राकाम्यं चैव प्राप्तिश् च ईशिता वशिता तथा ।
कामस्यावसिता ह्य् एते अष्टैश्वर्याः प्रकीर्तिताः ॥ सत्व्त्_3.14
भृत्यामात्यसुहृद्बन्धुपुत्रपौत्रकलत्रकाः ।
वासोभूषणकोशाश् च सेनिका चतुरङ्गिणी ॥ सत्व्त्_3.15
गृहा भूर् अस्त्रशस्त्रे च दुर्गाद्याः श्रिय ईरिताः ।
यशस् तु पुंसो भवति कर्मतो गुणतस् तथा ॥ सत्व्त्_3.16
कर्म चतुर्विधं प्रोक्तं सृष्टिस्थितिलयात्मकम् ।
तया लीलावताराणां चरितं परमाद्भुतम् ॥ सत्व्त्_3.17
गुणान्य् अपरिमेयाणि कीर्तितानि मनीषिभिः ।
तथाप्य् अहं द्विषष्ठीं ते वर्णयाम्य् अनुपूर्वशः ॥ सत्व्त्_3.18
ब्रह्मण्यश् च शरण्यश् च भक्तवात्सल्यम् एव च ।
दातृत्वं सत्यसंधत्वं विक्रान्तत्वं नियम्यता ॥ सत्व्त्_3.19
दुर्जयत्वं दुःसरत्वं निषेव्यत्वं सहिष्णुता ।
अक्षोभ्यत्वं स्वतन्त्रत्वं नैरपेक्ष्यं स्वसौष्ठवम् ॥ सत्व्त्_3.20
शौर्यम् औदार्यम् आस्तिक्यं स्थैर्यं धैर्यं प्रसन्नता ।
गाम्भीर्यं प्रश्रयः शीलं प्रागल्भ्यम् ऋतमङ्गलम् ॥ सत्व्त्_3.21
शमो दमो बलं दाक्ष्यं क्षेमं हर्षो ऽनहंकृतिः ।
संतोष आर्जवं साम्यं मनोभाग्यं श्रुतं सुखम् ॥ सत्व्त्_3.22
त्यागो भयं पावनं च तेजः कौशलम् आश्रयः ।
धृतिः क्षमा स्मृतिर् लज्जा श्रद्धा मैत्री दयोन्नतिः ॥ सत्व्त्_3.23
शान्तिः पुष्टिः स्ववाक्शुद्धिर् बुद्धिर् विद्या स्वरक्षता ।
एते ते भगभेदास् तु कथिता ह्य् अनुपूर्वशः ॥ सत्व्त्_3.24
एषां प्रकाशो यत्रासीत् स पूर्णः परिकीर्तितः ।
अंशप्रकाशाद् अंशः स्यात् कलायास् तु कला स्मृता ॥ सत्व्त्_3.25
विभूतेस् तु विभूतिः स्याद् एष भेदो न हि स्वतः ।
निर्विकल्पस्य सत्यस्य परब्रह्मस्वरूपिणः ॥ सत्व्त्_3.26
नारायणस्य शुद्धस्य श्रीकृष्णस्य महात्मनः ।
यतः कृष्णावतारेण भगभेदाः पृथक् पृथक् ॥ सत्व्त्_3.27
संदर्शिताः पृथक्कार्ये तस्मात् सम्पूर्ण उच्यते ।
हयग्रीवाद्यवतारे तस्माद् अल्पतरा यतः ॥ सत्व्त्_3.28
दर्शिता भगभेदा वै तस्माद् अंशाः प्रकीर्तिताः ।
यतो रामो मत्स्यकूर्मवराहा नरकेसरी ॥ सत्व्त्_3.29
मन्वन्तरावताराश् च यज्ञाद्या हयशीर्षवान् ।

तथा शुक्लादयो ह्य् आविर्भावा ऋषभ आत्मवान् ॥ सत्व्त्_3.30
नरनारायणो दत्तः कलौ च बुद्धकल्किनौ ।
ज्ञानकर्मप्रभावाद्यैर् अंशा विष्णोः प्रकीर्तिताः ॥ सत्व्त्_3.31
कुमारनारदव्यासा ब्रह्मरातादयः कलाः ।
ज्ञानांशयुक्ताः श्रीविष्णोर् अवतारा महात्मनः ॥ सत्व्त्_3.32
गयः पृथुश् च भरतः शक्तियुक्ताः कला मताः ।
गुणावतारा ब्रह्माद्यास् तदंशा ये विभूतयः ॥ सत्व्त्_3.33
एषा मया ते कथिता सम्पूर्णांशकलाभिदा ।
कार्यानुरूपा विप्रेन्द्र भगभेदप्रदर्शनात् ॥ सत्व्त्_3.34
न ब्रह्मणो भिदा विप्र श्रीकृष्णस्य च सत्तम ।
नारायणस्य वा सौम्य ह्य् अवतारिस्वरूपिणः ॥ सत्व्त्_3.35
श्रीनारद उवाच ।
अवतारिस्वरूपं मे वर्णयस्व सदाशिव ।
किं ब्रह्म परमं साक्षात् किं वा नारायणो विभुः ॥ सत्व्त्_3.36
किं वा वैकुण्ठलोकेशः श्रीकृष्णः पुरुषोत्तमः ।
किम् एकतत्त्वम् एतेषाम् अथवा किं पृथक् पृथक् ॥ सत्व्त्_3.37
श्रीशिव उवाच ॥ सत्व्त्_3.38
शृणु तत् परमं गुह्यं ब्रह्मदायाद सत्तम ।
अवतारिस्वरूपं मे यथा वर्णयतो द्विज ॥ सत्व्त्_3.39
एकम् एव परं तत्त्वम् अवतारि सनातनम् ।
श्रीकृष्णब्रह्मपुरुषैः संज्ञाभिर् दीयते पृथक् ॥ सत्व्त्_3.40
यथा भानोः प्रकाशस्य मण्डलस्यापृथक्स्थितिः ।
तथा श्रीकृष्णदेवस्य ब्रह्मणः पुरुषस्य च ॥ सत्व्त्_3.41
अतः सात्वततन्त्रज्ञा भक्तिनिष्ठा विलक्षणाः ।
श्रीकृष्णाख्यं परं धाम परमानन्दम् उत्तमम् ॥ सत्व्त्_3.42
वैकुण्ठलोकनिलयं शुद्धसत्त्वात्मविग्रहम् ।
वदन्ति शाश्वतं सत्यं स्वभक्तगणसेवितम् ॥ सत्व्त्_3.43
वेदान्तिनो ज्ञाननिष्ठा ज्ञानशास्त्रानुसारतः ।
वदन्ति ब्रह्म परमं प्रकाशात्मकम् अव्ययम् ॥ सत्व्त्_3.44
अपाणिपादनयनश्रोत्रत्वग्घ्राणविग्रहम् ।
सर्वशक्तियुतं तेजोमयं वाङ्मनसापदम् ॥ सत्व्त्_3.45
आनन्दमात्रं संशुद्धं चिद्व्यक्तं सर्वकारणम् ।
हैरण्यगर्भास् त्रैविद्या नारायणम् अनामयम् ॥ सत्व्त्_3.46
सहस्रशिरसं देवं परमानन्दम् अव्ययम् ।
अनन्तशक्तिं सर्वेषां पुरुषं प्रकृतेः परम् ॥ सत्व्त्_3.47
वदन्ति कर्मपरमाः स्थित्युत्पत्त्यन्तभावनम् ।
सर्वानन्दकरं शान्तं संसारार्णवतारकम् ॥ सत्व्त्_3.48
अतः कृष्णस्य देवस्य ब्रह्मणः पुरुषस्य च ।
वस्तुतो नैव भेदो हि वर्ण्यते तैर् अपि द्विज ॥ सत्व्त्_3.49
यथार्थो बहुधा भाति नानाकरणवृत्तिभिः ।

तथा स भगवान् कृष्णो नानेव परिचक्षते ॥ सत्व्त्_3.50
अतः सर्वम् एतेनापि श्रीकृष्णः पुरुषोत्तमः ।
लीलामानुषरूपेण देवकीजठरं गतः ॥ सत्व्त्_3.51
अतः सर्वावताराणां कारणं कृष्ण उच्यते ।
सृष्ट्याद्यनेककार्याणि दर्शितानि यतः स्वतः ॥ सत्व्त्_3.52
स एव सर्वलोकानाम् आराध्यः पुरुषोत्तमः ।
मुक्त्याद्यर्थं नृलोकस्य मानुषत्वं यतो गतः ॥ सत्व्त्_3.53
अतस् तं पुरुषा नित्यं भक्तिभेदेन नित्यदा ।
भजन्ति ह्य् अपवर्गेशं परेशं तदकाम्यया ॥ सत्व्त्_3.54
मया ते कथिता विप्र अवतारा महात्मनः ।
किम् अन्यत् कथयाम्य् अद्य त्वं हि भागवतोत्तमः ॥ सत्व्त्_3.55
सात्वततन्त्र, चतुर्थः पटलः
श्रीनारद उवाच ।
नास्ति तृप्तिः शृण्वतो मे तव वागमृतं हरेः ।
यशः परमकल्याणम् अवतारकथाश्रयम् ॥ सत्व्त्_4.1
तथापि साम्प्रतं ह्य् एतच् छ्रुत्वा कौतूहलं मम ।
भक्तिभेदं भगवतो भावनीयं सदा नृभिः ॥ सत्व्त्_4.2
ब्रूहि मे भगवन् विष्णोर् भक्तिभेदं सदाशिव ।
यज् ज्ञात्वा ह्य् अञ्जसा विष्णोः साम्यं याति जनः प्रभो ॥ सत्व्त्_4.3
श्रीशिव उवाच ।
साधु पृष्टं त्वया साधो परं गुह्यतमं यतः ।
अन्यस्मै न मया प्रोक्तं विना भागवतान् नरात् ॥ सत्व्त्_4.4
यदैवावोचं मां कृष्णो ध्यानात् तुष्टमना विभुः ।
तदैवाहं निषिद्धो ऽस्मि अभक्तोक्तौ कृपालुना ॥ सत्व्त्_4.5
तदा चाहं तस्य पादपङ्कजे शिरसा नतः ।
बभाष एतद् भगवान् भक्तान् निर्देष्टुम् अर्हसि ॥ सत्व्त्_4.6
तदा प्रीतमना देवो माम् उवाच सतां गतिः ।
शृणुष्व शिव भद्रं ते भक्तान् वक्ष्यामि सात्वतान् ॥ सत्व्त्_4.7
मद्ध्याननिष्ठान् मत्प्राणान् मद्यशःश्रवणोत्सुकान् ।
भक्तान् जानीहि मे देव सर्वलोकप्रणामकान् ॥ सत्व्त्_4.8
तेभ्यः परमसंतुष्टो भक्तिभेदं ससाधनम् ।
ब्रवीमि शिव ते भक्तिस् तेनैव सम्प्रसिध्यति ॥ सत्व्त्_4.9
यदि त्वद्वाक्यनिष्ठः स्याद् यो ऽपि को ऽपि सदाशिव ।
तस्मै प्रीतमना वाच्यो भक्तिभेदः ससाधनः ॥ सत्व्त्_4.10
तद् इदं ते प्रवक्ष्यामि भक्तिभेदं ससाधनम् ।
यतो भागवतश्रेष्ठो भगवत्कीर्तनप्रियः ॥ सत्व्त्_4.11
एकैव भक्तिः श्रीविष्णोः प्रीतिर् इत्य् उच्यते बुधैः ।
निर्गुणत्वाद् अखण्डत्वाद् आनन्दत्वाद् द्विजोत्तम ॥ सत्व्त्_4.12
किं तु ज्ञानक्रियालीलाभेदैः सा त्रिविधा मता ।
तान् शृणुष्वानुपूर्व्येण मत्तः स्ववहितो द्विज ॥ सत्व्त्_4.13

सर्वान्तर्यामिणि हरौ मनोगतिर् अविच्युता ।
सा निर्गुणज्ञानमयी साक्षाद् अपि गरीयसी ॥ सत्व्त्_4.14
सर्वेन्द्रियाणां सर्वेशे विष्णौ गतिर् अनुत्तमा ।
स्वाभाविकी भागवती कर्मजा मुक्तिहेलिनी ॥ सत्व्त्_4.15
हरिलीलाश्रुतोच्चारे जाता प्रेममयी तु या ।
सत्सङ्गजान्यासाद् ग्राह्या सर्वदा सा ह्य् अनुत्तमा ॥ सत्व्त्_4.16
तासां साधनसामग्री क्रमतः शृणु सत्तम ।
याम् आश्रित्य समाप्नोति जनो भक्तिं जनार्दने ॥ सत्व्त्_4.17
स्वानुरूपस्वधर्मेण वासुदेवार्पणेन च ।
हिंसारहितयोगेन भगवत्प्रतिमादिषु ॥ सत्व्त्_4.18
श्रुतिदृष्टिस्पर्शपूजास्तुतिप्रत्यभिनन्दनैः ।
विषयाणां विरागेण स्वगुरोः परिचर्यया ॥ सत्व्त्_4.19
निवृत्तिशास्त्रश्रवणैर् उत्तमेषु क्षमादिभिः ।
समेषु मित्रभावेन दीनेषु दयया तथा ॥ सत्व्त्_4.20
भगवन्मूर्त्यभिध्यानैर् यशसां श्रुतिकीर्तनात् ।
भूतेषु भगवद्दृष्ट्या निर्गुणा भक्तिर् उच्यते ॥ सत्व्त्_4.21
लब्ध्वा तां निर्गुणां भक्तिं मुक्तिं चापि न मन्यते ।
मुक्तिः सैवेत्य् अभिहिता भगवद्भावकारिणी ॥ सत्व्त्_4.22
अथ भागवतीभक्तेः साधनं शृणु सत्तम ।
यत् सर्वयत्नतः कार्यं पुरुषेण मनीषिणा ॥ सत्व्त्_4.23
श्रीगुरोर् उपदेशेन भगवद्भक्तितत्परैः ।
यथाकार्यं स्वकरणैर् भगवत्पादसेवनम् ॥ सत्व्त्_4.24
वाचोच्चारो हरेर् नाम्नां कर्णाभ्यां कर्मणां श्रुतिः ।
हस्ताभ्यां भगवद्देहप्रतिमादिषु सेवनम् ॥ सत्व्त्_4.25
जिह्वया भगवद्दत्तनैवेद्यहरणं मुदा ।
नासया कृष्णपादाब्जलग्नगन्धानुजिघ्रणम् ॥ सत्व्त्_4.26
भगवद्गात्रनिर्माल्यहरणं शिरसा तथा ।
दृष्ट्वा विष्णुजनादीनाम् ईक्षणं सादरेण च ॥ सत्व्त्_4.27
मनसा भगवद्रूपचिन्तनं शिरसोरसा ।
बाहुपादादिभिर् विष्णोर् वन्दनं परया मुदा ॥ सत्व्त्_4.28
अर्थादीनाम् आनयनम् ईश्वरार्थेन सर्वशः ।
एतैः स्वसाधनैर् नित्यं भगवत्पादसेवनम् ॥ सत्व्त्_4.29
आशु सम्पद्यते भक्तिः कृष्णे भागवती सती ।
यदेन्द्रियाणां सर्वेषां कृष्णे परमपूरुषे ॥ सत्व्त्_4.30
स्वाभाविकी रतिर् अभूत् सा वै भागवती मता ।
एतद्भक्तिपरो विप्र चातुर्वर्ग्यं न मन्यते ॥ सत्व्त्_4.31
तस्याम् अन्तः सर्वसुखम् अधिकं वापि लभ्यते ।
अथ प्रेममयीभक्तेः कारणं द्विजसत्तम ॥ सत्व्त्_4.32
शृणु विश्वासम् आपन्नो निश्चयात्मिकया धिया ।
सद्गुरोर् उपदेशेन लब्ध्वा सत्सङ्गम् आदृतः ॥ सत्व्त्_4.33

चतुर्विधानां श्रीविष्णोः कर्मणां श्रवणं सताम् ।
तेष्व् एवं कीर्तनं तेषां मनसा चापि चिन्तनम् ॥ सत्व्त्_4.34
वचसा ग्रहणं तेषां तत्पराणां प्रशंसनम् ।
यद्य् अशक्तो भवेत् कीर्तौ स्मरणे चापि सर्वशः ॥ सत्व्त्_4.35
तदा तु भगवन्नाम्नाम् आवृत्तौ वृत्तयेत् सदा ।
सदा शश्वत् प्रीतियुक्तो यः कुर्याद् एतद् अन्वहम् ॥ सत्व्त्_4.36
तस्याशु भक्तिः श्रीकृष्णे जायते सद्भिर् आदृता ।
एवं प्रेममयीं लब्ध्वा भित्त्वा संसारम् आत्मनः ॥ सत्व्त्_4.37
आशु सम्पद्यते शान्तिं परमानन्ददायिनीम् ।
लब्ध्वापि भक्ता भगवद्रूपशीलगुणक्रियाः ॥ सत्व्त्_4.38
नानुसंधत्त एता वै विना भक्तिं जनार्दने ।
यद्य् अन्यसाधनान्य् अन्यभक्तौ कुर्याद् अतन्त्रितः ॥ सत्व्त्_4.39
न तत्र कश्चिद् दोषः स्याद् धरिसेवा यतः कृता ।
किं तु यद् भक्तिनिष्ठा स्यात् ताम् एवाप्नोति मानवः ॥ सत्व्त्_4.40
फलभेदेन भेदः स्यात् साधनेन न भिद्यते ।
पृथग् एष मयाख्यातो भक्तिभेदः ससाधनः ॥ सत्व्त्_4.41
निष्कामः फलरूपश् च नित्यो मोक्षसुखाधिकः ।
सकामः सगुणो विप्र बहुधोक्तो महर्षिभिः ॥ सत्व्त्_4.42
किं भूयः कथयाम्य् अद्य वद मां द्विजसत्तम ।
श्रीनारद उवाच ।
विधेयं कथितं सर्वं त्वया मे सुरसत्तम ।
निषेधनीयं किं चात्र भक्तिस्तम्भकरं च यत् ॥ सत्व्त्_4.43
हानिवृद्धिकरं चापि मुख्यसाधनम् एव च ।
कथयस्व महादेव श्रद्धासेवापराय मे ॥ सत्व्त्_4.44
श्रीशिव उवाच ।
भक्तीनां साधनानां यद् बहिर्भूतं महामुने ।
निषेधनीयं तत् तासां भक्तानां पुरुषोत्तमे ॥ सत्व्त्_4.45
देहप्रवाहाद् आधिक्यं विषयादरणं च यत् ।
भक्तिस्तम्भकरं प्रोक्तं भक्तिनिष्ठे द्विजोत्तम ॥ सत्व्त्_4.46
समासेन मया प्रोक्तं निषेधस्तम्भनं तव ।
भक्तिघ्नदोषं शृणु तं सर्वथा वर्जनं नृणाम् ॥ सत्व्त्_4.47
निर्गुणायां प्राणिहिंसा भागवत्याम् अहंकृतिः ।
प्रेममय्यां सतां द्वेषो भक्तिनाशकरा इमे ॥ सत्व्त्_4.48
सर्वभक्तिव्यतिकरः स्वगुरोर् वागनादरः ।
द्वेषेण नरकं याति कुर्वन् भक्तिम् अपि द्विजः ॥ सत्व्त्_4.49
दोषदृष्ट्या दोषवान् स्यात् तत्र दोषफलं भवेत् ।
मर्त्यदृष्ट्या कृतं सर्वं भवेत् कुञ्जरशौचवत् ॥ सत्व्त्_4.50
सर्वसाधनमुख्या हि गुरुसेवा सदादृता ।
यया भक्तिर् भगवति ह्य् अञ्जसा स्यात् सुखावहा ॥ सत्व्त्_4.51
तस्मात् सर्वप्रयत्नेन गुरोर् वागादरेण वै ।

कार्या सैव तु तत् सर्वा भगवद्भक्तिवर्धिनी ॥ सत्व्त्_4.52
निर्गुणा भक्तिनिष्ठेन कार्या भूतदया सदा ।
भागवत्यां कायमनोवचसां परिनिष्ठिता ॥ सत्व्त्_4.53
प्रेममय्यां सतां प्रीत्या श्रवणं यशसां हरेः ।
मुख्याः साधनसम्पत्त्यः कथितास् ते द्विजोत्तम ॥ सत्व्त्_4.54
सर्वमूलं कृष्णपादशरणं परिकीर्तितम् ।
यद् विना स्रवते भक्तिर् आमभाण्डात् पयो यथा ॥ सत्व्त्_4.55
श्रीनारद उवाच ।
कृष्णपादाब्जशरणं वद मे बहुवित्तम ।
विना येन पुमान् याति कुर्वन् भक्तिम् अपि श्रमम् ॥ सत्व्त्_4.56
श्रीशिव उवाच ।
कायवाङ्मनसां साक्षात् कृष्णे परमपूरुषे ।
परिनिष्ठाश्रयं यद् वै शरणं परिकीर्तितम् ॥ सत्व्त्_4.57
एतद् वै त्रिविधं प्रोक्तं वेदविद्भिर् द्विजोत्तम ।
प्रथमं मध्यमं श्रेष्ठं क्रमशः शृणु तन् मुने ॥ सत्व्त्_4.58
धर्मे तीर्थे च देवादौ रक्षकत्वमघादितः ।
यद् बुद्धिनिष्ठितं कृष्णे कृतं तत् प्रथमं स्मृतम् ॥ सत्व्त्_4.59
कलत्रपुत्रमित्रेषु धने गेहगवादिषु ।
यन् ममत्वाश्रयं कृष्णे कृतं तन् मध्यमं स्मृतम् ॥ सत्व्त्_4.60
देहादाव् आत्मनो यावद् आत्मत्वाश्रयणादि यत् ।
तत् सर्वं कृष्णपादाब्जे कृतं श्रेष्ठं प्रकीर्तितम् ॥ सत्व्त्_4.61
ईश्वरं तदधीनं च तद्धर्मं च सनातनम् ।
हित्वान्यद् आश्रयं तस्य वस्तुतो नैव दृश्यते ॥ सत्व्त्_4.62
एतच्छरणसम्पन्नो भक्तिमान् पुरुषोत्तमे ।
पुनाति सर्वभुवनं हृदिस्थेनाच्युतेन सः ॥ सत्व्त्_4.63
तस्माद् भक्तादृतेर् विष्णोर् देहो ऽपि नैव सत्प्रियः ।
किम् उतान्ये विभूताद्याः परमानन्दरूपिणः ॥ सत्व्त्_4.64
श्रीनारद उवाच ।
भक्तानां लक्षणं साक्षाद् ब्रूहि मे सुरत्तम ।
तथैव तेष्व् अहं प्रीतिं करिष्यामि समाहितः ॥ सत्व्त्_4.65
श्रीशिव उवाच ।
भक्तानां लक्षणं साक्षाद् दुर्विज्ञेयं नृभिर् मुने ।
वैष्णवैर् एव तद् वेद्यं पदान्य् अहिर् अहेर् इव ॥ सत्व्त्_4.66
तथापि सारतस् तेषां लक्षणं यद् अलौकिकम् ।
वक्ष्ये तत् ते मुनिश्रेष्ठ विष्णुभक्तो यतो भवान् ॥ सत्व्त्_4.67
मच्चित्ता निरहंकारा ममकारविवर्जिताः ।
शास्त्रानुवर्तिनः शान्ताः सुहृदः सर्वदेहिनाम् ॥ सत्व्त्_4.68
यदा सर्वेषु भूतेषु हिंसन्तम् अपि कंचन ।
न हिंसन्ति तदा मुक्ता निर्गुणा भगवत्पराः ॥ सत्व्त्_4.69
हरिसेवां विना किंचिन् मन्यन्ते नात्मनः प्रियम् ।

वासुदेवपरा देहगेह इन्द्रियवृत्तयः ॥ सत्व्त्_4.70
रागद्वेषादिरहिता मानामानविवर्जिताः ।
सदा संतुष्टमनसो भक्ता भागवता मताः ॥ सत्व्त्_4.71
सत्प्रीतिपरमाः शुद्धाः श्रुतिकीर्त्युक्तिनिष्ठिताः ।
त्रैवर्गिकपरालापस्नेहसङ्गविवर्जिताः ॥ सत्व्त्_4.72
सद्वाक्यकारिणः कृष्णयशस्य् उत्सुकमानसाः ।
हरिप्रीतिपरा एते भक्ता लोकप्रणामकाः ॥ सत्व्त्_4.73
भक्तानां लक्षणं ह्य् एतत् सामान्येन निरूपितम् ।
इदानीम् आत्मजिज्ञास्यं लक्षणं त्रिविधं शृणु ॥ सत्व्त्_4.74
सर्वात्मानं हरिं ज्ञात्वा सर्वेषु प्रीतिमान् नरः ।
सेवापरो द्वेषहीनो जनेषु स च सत्तमः ॥ सत्व्त्_4.75
ज्ञात्वापि सर्वगं विष्णुं तारतम्येन प्रीतिमान् ।
श्रेष्ठमध्यमनीचेषु ह्य् आत्मनः स तु मध्यमः ॥ सत्व्त्_4.76
प्रतिमादिष्व् एव हरौ प्रीतिमान् न तु सर्वगे ।
प्राणिप्राणवधत्यागी प्राकृतः स तु वैष्णवः ॥ सत्व्त्_4.77
यस्येन्द्रियाणां सर्वेषां हरौ स्वाभाविकी रतिः ।
स वै महाभागवतो ह्य् उत्तमः परिकीर्तितः ॥ सत्व्त्_4.78
यस्य यत्नेनेन्द्रियाणां विष्णौ प्रीतिर् हि जायते ।
स वै भागवतो विप्रः मध्यमः समुदाहृतः ॥ सत्व्त्_4.79
यस्येन्द्रियैः कृष्णसेवा कृता प्रीतिविवर्जिता ।
स प्राकृतो भागवतो भक्तः कामविवर्जितः ॥ सत्व्त्_4.80
हरिलीलाश्रुतोच्चारं यः प्रीत्या कुरुते सदा ।
स वै महाभागवतो ह्य् उत्तमो लोकपावनः ॥ सत्व्त्_4.81
श्रवणं कीर्तनं विष्णौ प्रीत्यायासौ तु यो नरः ।
कुर्याद् अहरहः शश्वत् प्रीतिमान् स च मध्यमः ॥ सत्व्त्_4.82
यामैकमात्रं यः कुर्याच् छ्रवणं कीर्तनं हरेः ।
प्रीत्या विष्णुजनद्वेषहीनः प्राकृत उच्यते ॥ सत्व्त्_4.83
यद्य् अन्यलक्षणं चान्यभक्ते लक्ष्येत सज्जनैः ।
तथापि निष्ठाम् आलक्ष्य तं तं जानीहि सत्तम ॥ सत्व्त्_4.84
यद्धर्मनिष्ठा ये भक्ता भवन्ति द्विजसत्तम ।
तत्प्रसङ्गाद्यनुष्ठानं तत्प्रीतेः कारणं परम् ॥ सत्व्त्_4.85
तथापि निर्गुणा ये च ये च भागवता मताः ।
तेषु प्रीतिर् महाभाग दुष्करेति मयोच्यते ॥ सत्व्त्_4.86
हरिलीलाश्रुतोपचारपरेषु सततं त्वया ।
कार्या प्रीतिस् तव हरेर् यथा भक्तिर् न नश्यति ॥ सत्व्त्_4.87
इत्य् एतत् कथितं विप्र साधूनां लक्षणं पृथक् ।
भक्तेषु प्रीतिकरणं जनानां मुक्तिकारणम् ॥ सत्व्त्_4.88
साधनेन मया बाल भक्तिभेदो निरूपितः ।
स सार्ववर्णिकः शुद्धः सर्वाश्रमिश्रमापहः ॥ सत्व्त्_4.89
सर्वकालभवो नित्यः सर्वदैशिकसिद्धिदः ।

चतुर्युगेष्व् अभिमतो भगवत्प्रियसाधकः ॥ सत्व्त्_4.90
सात्वततन्त्र, पञ्चमः पटलः
श्रीनारद उवाच ।
कथितं मे सुरगुरो भगवद्भक्तिलक्षणम् ।
चतुर्युगे ऽप्य् अभिमतं सर्वलोकसुखावहम् ॥ सत्व्त्_5.1
अधुना वद देवेश जनानां हितकाम्यया ।
युगानुरूपं श्रीविष्णोः सेवया मोक्षसाधनम् ॥ सत्व्त्_5.2
प्रजानां लक्षणं विष्णोर् भूतिर् लिङ्गं पृथग्विधम् ।
धर्मं च नामसंख्या च समासेन सुरेश्वर ॥ सत्व्त्_5.3
श्रीशिव उवाच ।
कृते युगे प्रजाः सर्वाः शुद्धा रागादिवर्जिताः ।
औत्पत्तिकेन योगेन शान्ताः शमदृशो मताः ॥ सत्व्त्_5.4
तेषां तु भगवद्ध्यानं संसारार्णवतारकम् ।
तद् एव परमो धर्मस् तद्युगस्य महामते ॥ सत्व्त्_5.5
तद्ध्यानं त्रिविधं प्रोक्तं दशभिर् नामभिर् युतम् ।
निरालम्बं सावलम्बं सर्वान्तर्यामिधारणम् ॥ सत्व्त्_5.6
तत्षडङ्गयुतं कुर्यात् समाध्यवधिम् उत्तमम् ।
दुःखग्रहं निरालम्बं प्रथमं शृणु सत्तम ॥ सत्व्त्_5.7
अहिंसा ब्रह्मचर्यं च सत्यं लज्जा ह्य् अकार्यतः ।
अस्तेयो ऽसंचयो मौनम् असङ्गम् अभयं दया ॥ सत्व्त्_5.8
धर्मे स्थैर्यं च विश्वासो यमा द्वादश सत्तम ।
यमाद्यम् अङ्गं प्रथमं कुर्याद् ध्याता ह्य् अतन्द्रितः ॥ सत्व्त्_5.9
देहशौचं मनःशौचं जाप्यं होमं तपो व्रतम् ।
श्राद्धम् अतिथिशुश्रूषां तीर्थसेवां सुतुष्टिदाम् ॥ सत्व्त्_5.10
परार्थेहां गुरोः सेवां द्विषङ्नियमसंज्ञितम् ।
कुर्याद् ध्यानं द्वितीयाङ्गं तृतीयाङ्गं च मे शृणु ॥ सत्व्त्_5.11
स्वजानुलग्ने पादाग्रे कुर्याज् जङ्घे ऽन्तरान्तरे ।
उत्सङ्गमध्ये हस्तौ द्वौ तत् स्थानम् आसनं स्मृतम् ॥ सत्व्त्_5.12
प्रणवेनैव मन्त्रेण पूरकुम्भकरेचकैः ।
विपर्ययेण वा कुर्यात् तुर्याङ्गं प्राणसंयमम् ॥ सत्व्त्_5.13
विषयेभ्यस् त्व् इन्द्रियाणां संयमं मनसा हृदि ।
कुर्याद् अतन्द्रितो योगी प्रत्याहारं तु पञ्चमम् ॥ सत्व्त्_5.14
प्राणेन मनसः साक्षात् स्थैर्यं ध्यानाङ्गम् उत्तमम् ।
कुर्यात् समाहितो योगी स्वनासाग्रावलोकनः ॥ सत्व्त्_5.15
तेजोमयं स्वप्रकाशम् अवाङ्मनसगोचरम् ।
लक्षीकृत्य धिया तिष्ठेद् यावन् नैव प्रकाशते ॥ सत्व्त्_5.16
एवं चाहरहः कुर्वन् योगी संशुद्धकिल्बिषः ।
चिरात् प्राप्नोति परमां समाधिं ब्रह्मणः पदम् ॥ सत्व्त्_5.17
सावशेषं हरेर् ध्यानं शृणु विप्र समासतः ।
तेनैव विधिना युक्तो मनसा चिन्तयेद् यथा ॥ सत्व्त्_5.18

हृत्पद्मकर्णिकामध्ये शुद्धसत्त्वतनुं हरिम् ।
पुरुषं चतुर्भुजं ध्यायेच् छुद्धस्फटिकसंनिभम् ॥ सत्व्त्_5.19
जटाधरं वल्कलिनं कृष्णसाराजिनोत्तरम् ।
अक्षमालां यज्ञसूत्रं तथा दण्डकमण्डलुम् ॥ सत्व्त्_5.20
बिभ्राणं हृद्युगाराध्यं ब्रह्मचारिणम् अव्ययम् ।
मुखारविन्दं सुनसं सुभ्रुवं सुकपालिनम् ॥ सत्व्त्_5.21
सुवर्णशकलाभातं सुद्विजं कम्बुकंधरम् ।
दीर्घायतचतुर्बाहुं करपल्लवशोभितम् ॥ सत्व्त्_5.22
सुचक्षुषं सुहृदयं सूदरं वलिभिर् युतम् ।
निम्ननाभिं सुचारूरुजानुजङ्घापदं शुभम् ॥ सत्व्त्_5.23
चार्वङ्गुलिदलाकारं नखचन्द्रद्युतिप्रभम् ।
एवं चिन्तयतो रूपं विष्णोर् लोकमनोहरम् ॥ सत्व्त्_5.24
तस्याशु परमानन्दः सम्पद् आशु भविष्यति ।
आशुसिद्धिकरं चातः सर्वान्तर्यामिधारणम् ॥ सत्व्त्_5.25
शृणु स्ववहितो विप्र मानस्तम्भविवर्जितम् ।
सर्वं चराचरम् इदं भगवद्रूपाधिष्ठितम् ॥ सत्व्त्_5.26
भावयेद् द्वेषहीनेन कायवाङ्मनसा द्विज ।
उत्तमान् मानयेद् भक्त्या समान् मित्रतया द्विज ॥ सत्व्त्_5.27
अधमान् दयया शत्रून् उपेक्षेत दयान्वितः ।
एवं भावयतस् तस्य यावत् सर्वात्मदर्शनम् ॥ सत्व्त्_5.28
अचिरात् परमानन्दसंदोहं मनसाप्नुयात् ।
त्रेतायां प्राणिनः सर्वे जपहोमपरायणाः ॥ सत्व्त्_5.29
सुविनीताः सुखावृत्ता महाशाला महात्मनः ।
तेषां तु भगवद्यागो ह्य् अञ्जसा मुक्तिसाधकः ॥ सत्व्त्_5.30
स एव परमो धर्मस् त्रेतायां द्विजसत्तम ।
तस्मिन् यजन्ति रक्ताभं यज्ञमूर्तिं जगद्गुरुम् ॥ सत्व्त्_5.31
नित्यनैमित्तिकैः सत्त्रैर् यागैर् नामाष्टकायुतैः ।
त्रैविद्येन विधानेन यान्ति मुक्तिं तदा जनाः ॥ सत्व्त्_5.32
द्वापरे तु जना हृष्टाः पुष्टाः कर्मकृतिक्षमाः ।
भोगानुषक्तमनसः सुखदुःखत्वम् आवृताः ॥ सत्व्त्_5.33
भगवत्पूजनं तेषां मोक्षसाधनम् उत्तमम् ।
साङ्गोपाङ्गं केवलं च द्विविधं पूजनं स्मृतम् ॥ सत्व्त्_5.34
तद् एव परमो धर्मो द्वापरस्य युगस्य वै ।
तस्मिन् यजन्ति पुरुषा महाराजोक्तलक्षणम् ॥ सत्व्त्_5.35
पीतवर्णं वेदमन्त्रैर् नाम्नां द्वादशभिः समम् ।
कलौ प्रजा मन्दभाग्या अलसा दुःखसंयुताः ॥ सत्व्त्_5.36
शिश्नोदरपराः क्षुद्रा दीना मलिनचेतसः ।
तेषाम् एकविधं प्रोक्तम् अञ्जसा मुक्तिकारणम् ॥ सत्व्त्_5.37
सर्वसौख्यकरं चापि कृष्णनामानुकीर्तनम् ।
यतः कलियुगस्यादौ भगवान् पुरुषोत्तमः ॥ सत्व्त्_5.38

अवतीर्य यशस् तेने शुद्धं कलिमलापहम् ।
ध्यानयोगक्रियाः सर्वाः स संहत्य दयापरः ॥ सत्व्त्_5.39
स्वकीये यशसि स्थाप्य गतो वैकुण्ठम् उत्तमम् ।
स तात परमो देवो देवकीदेविनन्दनः ॥ सत्व्त्_5.40
इन्द्रनीलसमः श्यामस् तन्त्रमन्त्रैर् य इज्यते ।
तस्मिन् कलियुगे विप्र श्रुत्वा हरियशो ऽमलाः ॥ सत्व्त्_5.41
प्रायो भक्ता भविष्यन्ति तस्माच् छ्रेष्ठयुगः कलिः ।
अतः कृतादिषु प्रजाः कलौ सम्भवम् आत्मनः ॥ सत्व्त्_5.42
वाञ्छन्ति धर्मपरमा भगवद्भक्तिकारणम् ।
ध्यानेनेष्टया पूजनेन यत् फलं लभ्यते जनैः ॥ सत्व्त्_5.43
कृतादिषु कलौ तद् वै कीर्तनादिषु लभ्यते ।
न देशकालकर्त्णां नियमः कीर्तने स्मृतः ॥ सत्व्त्_5.44
तस्मात् कलौ परो धर्मो हरिकीर्तेः सुकीर्तनम् ।
यतः कलिं प्रशसन्ति शिष्टास्त्रियुगवर्तिनः ॥ सत्व्त्_5.45
यत्र कीर्तनमात्रेण प्राप्नोति परमं पदम् ।
कृतादाव् अपि ये जीवा न मुक्ता निजधर्मतः ॥ सत्व्त्_5.46
ते ऽपि मुक्तिं प्रयास्यन्ति कलौ कीर्तनमात्रतः ।
कलेर् दोषसमुद्रस्य गुण एको महान् यतः ॥ सत्व्त्_5.47
नाम्नां संकीर्तनेनैव चातुर्वर्गं जनो ऽश्नुते ।
कृतादिष्व् अपि विप्रेन्द्र हरिनामानुकीर्तनम् ॥ सत्व्त्_5.48
तपादिसाध्यं तद् भूयः कलाव् उभयतां गतम् ।
तस्मात् कलियुगे विष्णोर् नामकीर्तनम् उत्तमम् ॥ सत्व्त्_5.49
साधनं भक्तिनिष्ठानां साध्यं चैव प्रकीर्तितम् ।
येन केनापि भावेन कीर्तयन् सततं हरिम् ॥ सत्व्त्_5.50
हित्वा पापं गतिं यान्ति किम् उतच्छ्रद्धया गृणन् ।
कलौ नामपरा एव सततं द्विजसत्तम ॥ सत्व्त्_5.51
उक्ता महाभागवता भगवत्प्रियकारिणः ।
तस्मात् सर्वात्मना विप्र कुरु श्रीकृष्णकीर्तनम् ॥ सत्व्त्_5.52
श्रद्धया सततं युक्त एतद् एव महाफलम् ॥ सत्व्त्_5.53
सात्वततन्त्र, षष्ठः पटलः
श्रीनारद उवाच ।
कथितं मे त्वया देव हरिनामानुकीर्तनम् ।
पापापहं महासौख्यं भगवद्भक्तिकारणम् ॥ सत्व्त्_6.1
तत्राहं यानि नामानि कीर्तयामि सुरोत्तम ।
तान्य् अहं ज्ञातुम् इच्छामि साकल्येन कुतूहलात् ॥ सत्व्त्_6.2
श्रीशिव उवाच ।
भूम्यम्बुतेजसां ये वै परमाणून् अपि द्विज ।
शक्यन्ते गणितुं भूयो जन्मभिर् न हरेर् गुणान् ॥ सत्व्त्_6.3
तथापि मुख्यं वक्ष्यामि श्रीविष्णोः परमाद्भुतम् ।
नाम्नां सहस्रं पार्वत्यै यदि होक्तं कृपालुना ॥ सत्व्त्_6.4

समाधिनिष्ठं मां दृष्ट्वा पार्वती वरवर्णिनी ।
अपृच्छत् परमं देवं भगवन्तं जगद्गुरुम् ॥ सत्व्त्_6.5
तदा तस्यै मया प्रोक्तो मत्परो जगदीश्वरः ।
नाम्नां सहस्रं च तथा गुणकर्मानुसारतः ॥ सत्व्त्_6.6
तद् अहं ते ऽभिवक्ष्यामि महाभागवतो भवान् ।
यस्यैकस्मरणेनैव पुमान् सिद्धिम् अवाप्नुयात् ॥ सत्व्त्_6.7
उद्यन्नवीनजलदाभम् अकुण्ठधिष्ण्यं विद्योतितानलमनोहरपीतवासम् ।
भास्वन्मयूखमुकुटाङ्गदहारयुक्तं काञ्चीकलापवलयाङ्गुलिभिर् विभातम् ॥ सत्व्त्_6.8
ब्रह्मादिदेवगणवन्दितपादपद्यं श्रीसेवितं सकलसुन्दरसंनिवेशम् ।
गोगोपवनितामुनिवृन्दजुष्टं कृष्णं पुराणपुरुषं मनसा स्मरामि ॥ सत्व्त्_6.9
ओं नमो वासुदेवाय कृष्णाय परमात्मने ।
प्रणतक्लेशसंहर्त्रे परमानन्ददायिने ॥ सत्व्त्_6.10
ओं श्रीकृष्णः श्रीपतिः श्रीमान् श्रीधरः श्रीसुखाश्रयः ।
श्रीदाता श्रीकरः श्रीशः श्रीसेव्यः श्रीविभावनः ॥ सत्व्त्_6.11
परमात्मा परं ब्रह्म परेशः परमेश्वरः ।
परानन्दः परं धाम परमानन्ददायकः ॥ सत्व्त्_6.12
निरालम्बो निर्विकारो निर्लेपो निरवग्रहः ।
नित्यानन्दो नित्यमुक्तो निरीहो निस्पृहप्रियः ॥ सत्व्त्_6.13
प्रियंवदः प्रियकरः प्रियदः प्रियसंजनः ।
प्रियानुगः प्रियालम्बी प्रियकीर्तिः प्रियात् प्रियः ॥ सत्व्त्_6.14
महात्यागी महाभोगी महायोगी महातपाः ।
महात्मा महतां श्रेष्ठो महालोकपतिर् महान् ॥ सत्व्त्_6.15
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धसाधनः ।
सिद्धेशः सिद्धमार्गाग्रः सिद्धलोकैकपालकः ॥ सत्व्त्_6.16
इष्टो विशिष्टः शिष्टेष्टो महिष्ठो जिष्णुर् उत्तमः ।
ज्येष्ठः श्रेष्ठश् च सर्वेष्टो विष्णुर् भ्राजिष्णुर् अव्ययः ॥ सत्व्त्_6.17
विभुः शम्भुः प्रभुर् भूमा स्वभूः स्वानन्दमूर्तिमान् ।
प्रीतिमान् प्रीतिदाता च प्रीतिदः प्रीतिवर्धनः ॥ सत्व्त्_6.18
योगेश्वरो योगगम्यो योगीशो योगपारगः ।
योगदाता योगपतिर् योगसिद्धिविधायकः ॥ सत्व्त्_6.19
सत्यव्रतः सत्यपरः त्रिसत्यः सत्यकारणः ।
सत्याश्रयः सत्यहरः सत्पालिः सत्यवर्धनः ॥ सत्व्त्_6.20
सर्वानन्दः सर्वहरः सर्वगः सर्ववश्यकृत् ।
सर्वपाता सर्वसुखः सर्वश्रुतिगणार्णवः ॥ सत्व्त्_6.21
जनार्दनो जगन्नाथो जगत्त्राता जगत्पिता ।
जगत्कर्ता जगद्धर्ता जगदानन्दमूर्तिमान् ॥ सत्व्त्_6.22
धरापतिर् लोकपतिः स्वर्पतिर् जगतांपतिः ।
विद्यापतिर् वित्तपतिः सत्पतिः कमलापतिः ॥ सत्व्त्_6.23
चतुरात्मा चतुर्बाहुश् चतुर्वर्गफलप्रदः ।
चतुर्व्यूहश् चतुर्धामा चतुर्युगविधायकः ॥ सत्व्त्_6.24

आदिदेवो देवदेवो देवेशो देवधारणः ।
देवकृद् देवभृद् देवो देवेडितपदाम्बुजः ॥ सत्व्त्_6.25
विश्वेश्वरो विश्वरूपी विश्वात्मा विश्वतोमुखः ।
विश्वसूर् विश्वफलदो विश्वगो विश्वनायकः ॥ सत्व्त्_6.26
भूतकृद् भूतभृद् भावो भूतात्मा भूतभावनः ।
भूतिदो भूतिविस्तारो विभूतिर् भूतिपालकः ॥ सत्व्त्_6.27
नारायणो नारशायी नारसूर् नारजीवनः ।
नारैकफलदो नारमुक्तिदो नारनायकः ॥ सत्व्त्_6.28
सहस्ररूपः साहस्रनामा साहस्रविग्रहः ।
सहस्रशीर्षा साहस्रपादाक्षिभुजशीर्षवान् ॥ सत्व्त्_6.29
पद्मनाभः पद्मगर्भः पद्मी पद्मनिभेक्षणः ।
पद्मशायी पद्ममाली पद्माङ्कितपदद्वयः ॥ सत्व्त्_6.30
वीर्यवान् स्थैर्यवान् वाग्मी शौर्यवान् धैर्यवान् क्षमी ।
धीमान् धर्मपरो भोगी भगवान् भयनाशनः ॥ सत्व्त्_6.31
जयन्तो विजयो जेता जयदो जयवर्धनः ।
अमानो मानदो मान्यो महिमावान् महाबलः ॥ सत्व्त्_6.32
संतुष्टस् तोषदो दाता दमनो दीनवत्सलः ।
ज्ञानी यशस्वान् धृतिमान् सहओजोबलाश्रयः ॥ सत्व्त्_6.33
हयग्रीवो महातेजा महार्णवविनोदकृत् ।
मधुकैटभविध्वंसी वेदकृद् वेदपालकः ॥ सत्व्त्_6.34
सनत्कुमारः सनकः सनन्दश् च सनातनः ।
अखण्डब्रह्मव्रतवान् आत्मा योगविवेचकः ॥ सत्व्त्_6.35
श्रीनारदो देवऋषिः कर्माकर्मप्रवर्तकः ।
सात्वतागमकृल् लोकहिताहितप्रसूचकः ॥ सत्व्त्_6.36
आदिकालो यज्ञतत्त्वं धातृनासापुटोद्भवः ।
दन्ताग्रन्यस्तभूगोलो हिरण्याक्षबलान्तकः ॥ सत्व्त्_6.37
पृथ्वीपतिः शीघ्रवेगो रोमान्तर्गतसागरः ।
श्वासावधूतहेमाद्रिः प्रजापतिपतिस्तुतः ॥ सत्व्त्_6.38
अनन्तो धरणीभर्ता पातालतलवासकृत् ।
कामाग्निजवनो नागराजराजो महाद्युतिः ॥ सत्व्त्_6.39
महाकूर्मो विश्वकायः शेषभृक् सर्वपालकः ।
लोकपितृगणाधीशः पितृस्तुतमहापदः ॥ सत्व्त्_6.40
कृपामयः स्वयं व्यक्तिर् ध्रुवप्रीतिविवर्धनः ।
ध्रुवस्तुतपदो विष्णुलोकदो लोकपूजितः ॥ सत्व्त्_6.41
शुक्लः कर्दमसंतप्तस् तपस्तोषितमानसः ।
मनोऽभीष्टप्रदो हर्षबिन्द्वञ्चितसरोवरः ॥ सत्व्त्_6.42
यज्ञः सुरगणाधीशो दैत्यदानवघातकः ।
मनुत्राता लोकपालो लोकपालकजन्मकृत् ॥ सत्व्त्_6.43
कपिलाख्यः सांख्यपाता कर्दमाङ्गसमुद्भवः ।
सर्वसिद्धगणाधीशो देवहूतिगतिप्रदः ॥ सत्व्त्_6.44

दत्तो ऽत्रितनयो योगी योगमार्गप्रदर्शकः ।
अनसूयानन्दकरः सर्वयोगिजनस्तुतः ॥ सत्व्त्_6.45
नारायणो नरऋषिर् धर्मपुत्रो महामनाः ।
महेशशूलदमनो महेशैकवरप्रदः ॥ सत्व्त्_6.46
आकल्पान्ततपोधीरो मन्मथादिमदापहः ।
ऊर्वशीसृग्जितानङ्गो मार्कण्डेयप्रियप्रदः ॥ सत्व्त्_6.47
ऋभवो नाभिसुखदो मेरुदेवीप्रियात्मजः ।
योगिराजद्विजस्रष्टा योगचर्याप्रदर्शकः ॥ सत्व्त्_6.48
अष्टबाहुर् दक्षयज्ञपावनो ऽखिलसत्कृतः ।
दक्षेशद्वेषशमनो दक्षज्ञानप्रदायकः ॥ सत्व्त्_6.49
प्रियव्रतकुलोत्पन्नो गयनामा महायशाः ।
उदारकर्मा बहुविन्महागुणगणार्णवः ॥ सत्व्त्_6.50
हंसरूपी तत्त्ववक्ता गुणागुणविवेचकः ।
धातृलज्जाप्रशमनो ब्रह्मचारिजनप्रियः ॥ सत्व्त्_6.51
वैश्यः पृथुः पृथ्विदोग्धा सर्वजीवनदोहकृत् ।
आदिराजो जनावासकारको भूसमीकरः ॥ सत्व्त्_6.52
प्रचेतोऽभिष्टुतपदः शान्तमूर्तिः सुदर्शनः ।
दिवारात्रिगणाधीशः केतुमान् अजनाश्रयः ॥ सत्व्त्_6.53
श्रीकामदेवः कमलाकामकेलिविनोदकृत् ।
स्वपादरतिदो ऽभीष्टसुखदो दुःखनाशनः ॥ सत्व्त्_6.54
विभुर् धर्मभृतां श्रेष्ठो वेदशीर्षो द्विजात्मजः ।
अष्टाशीतिसहस्राणां मुनीनाम् उपदेशदः ॥ सत्व्त्_6.55
सत्यसेनो यक्षरक्षोदहनो दीनपालकः ।
इन्द्रमित्रः सुरारिघ्नः सूनृताधर्मनन्दनः ॥ सत्व्त्_6.56
हरिर् गजवरत्राता ग्राहपाशविनाशकः ।
त्रिकूटाद्रिवनश्लाघी सर्वलोकहितैषणः ॥ सत्व्त्_6.57
वैकुण्ठशुभ्रासुखदो विकुण्ठासुन्दरीसुतः ।
रमाप्रियकरः श्रीमान् निजलोकप्रदर्शकः ॥ सत्व्त्_6.58
विप्रशापपरीखिन्ननिर्जरार्तिनिवारणः ।
दुग्धाब्धिमथनो विप्रो विराजतनयो ऽजितः ॥ सत्व्त्_6.59
मन्दाराद्रिधरः कूर्मो देवदानवशर्मकृत् ।
जम्बूद्वीपसमः स्रष्टा पीयूषोत्पत्तिकारणम् ॥ सत्व्त्_6.60
धन्वन्तरी रुक्शमनो ऽमृतधुक् रुक्प्रशान्तकः ।
आयुर्वेदकरो वैद्यराजो विद्याप्रदायकः ॥ सत्व्त्_6.61
देवाभयकरो दैत्यमोहिनी कामरूपिणी ।
गीर्वाणामृतपो दुष्टदैत्यदानववञ्चकः ॥ सत्व्त्_6.62
महामत्स्यो महाकायः शल्कान्तर्गतसागरः ।
वेदारिदैत्यदमनो व्रीहिबीजसुरक्षकः ॥ सत्व्त्_6.63
पुच्छाघातभ्रमत्सिन्धुः सत्यव्रतप्रियप्रदः ।
भक्तसत्यव्रतत्राता योगत्रयप्रदर्शकः ॥ सत्व्त्_6.64

मूल पाठ: Sātvatatantra · Edition: A. Phadke, Benares : Chowkhamba Sanskrit Series Office, 1934 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc