सात्वततन्त्र · भाग 2137
नरसिंहो लोकजिह्वः शङ्कुकर्णो नखायुधः ।
सटावधूतजलदो दन्तद्युतिजितप्रभः ॥ सत्व्त्_6.65
हिरण्यकशिपुध्वंसी बहुदानवदर्पहा ।
प्रवदस्तुतपादाब्जो भक्तसंसारतापहा ॥ सत्व्त्_6.66
ब्रह्मेन्द्ररुद्रभीतिघ्नो देवकार्यप्रसाधकः ।
ज्वलज्ज्वलनसंकाशः सर्वभीतिविनाशकः ॥ सत्व्त्_6.67
महाकलुषविध्वंसी सर्वकामवरप्रदः ।
कालविक्रमसंहर्ता ग्रहपीडाविनाशकः ॥ सत्व्त्_6.68
सर्वव्याधिप्रशमनः प्रचण्डरिपुदण्डकृत् ।
उग्रभैरवसंत्रस्तहरार्तिविनिवारकः ॥ सत्व्त्_6.69
ब्रह्मचर्मावृतशिराः शिवशीर्षैकनूपुरः ।
द्वादशादित्यशीर्षैकमणिर् दिक्पालभूषणः ॥ सत्व्त्_6.70
वामनो ऽदितिभीतिघ्नो द्विजातिगणमण्डनः ।
त्रिपदव्याजयाञ्चाप्तवलित्रैलोक्यसम्पदः ॥ सत्व्त्_6.71
पन्नखक्षतब्रह्माण्डकटाहो ऽमितविक्रमः ।
स्वर्धुनीतीर्थजननो ब्रह्मपूज्यो भयापहः ॥ सत्व्त्_6.72
स्वाङ्घ्रिवारिहताघौघो विश्वरूपैकदर्शनः ।
बलिप्रियकरो भक्तस्वर्गदोग्धा गदाधरः ॥ सत्व्त्_6.73
जामदग्न्यो महावीर्यः पर्शुभृत् कार्तवीर्यजित् ।
सहस्रार्जुनसंहर्ता सर्वक्षत्रकुलान्तकः ॥ सत्व्त्_6.74
निःक्षत्रपृथ्वीकरणो वीरजिद् विप्रराज्यदः ।
द्रोणास्त्रवेदप्रवदो महेशगुरुकीर्तिदः ॥ सत्व्त्_6.75
सूर्यवंशाब्जतरणिः श्रीमद्दशरथात्मजः ।
श्रीरामो रामचन्द्रश् च रामभद्रो ऽमितप्रभः ॥ सत्व्त्_6.76
नीलवर्णप्रतीकाशः कौसल्याप्राणजीवनः ।
पद्मनेत्रः पद्मवक्रः पद्माङ्कितपदाम्बुजः ॥ सत्व्त्_6.77
प्रलम्बबाहुश् चार्वङ्गो रत्नाभरणभूषितः ।
दिव्याम्बरो दिव्यधनुर् दिष्टदिव्यास्त्रपारगः ॥ सत्व्त्_6.78
निस्त्रिंशपाणिवीरेशो ऽपरिमेयपराक्रमः ।
विश्वामित्रगुरुर् धन्वी धनुर्वेदविद् उत्तमः ॥ सत्व्त्_6.79
ऋजुमार्गनिमित्तेषु संघताडितताडकः ।
सुबाहुर् बाहुवीर्याढ्यबहुराक्षसघातकः ॥ सत्व्त्_6.80
प्राप्तचण्डीशदोर्दण्डचण्डकोदण्डखण्डनः ।
जनकानन्दजनको जानकीप्रियनायकः ॥ सत्व्त्_6.81
अरातिकुलदर्पघ्नो ध्वस्तभार्गवविक्रमः ।
पितृवाक्सक्तराज्यधीर् वनवासकृतोत्सवः ॥ सत्व्त्_6.82
विराधराधदमनश् चित्रकूटाद्रिमन्दिरः ।
द्विजशापसमुच्छन्नदण्डकारण्यकर्मकृत् ॥ सत्व्त्_6.83
चतुर्दशसहस्रोग्रराक्षसघ्नः खरान्तकः ।
त्रिशिरःप्राणशमनो दुष्टदूषणदूषणः ॥ सत्व्त्_6.84
छद्ममारीचमथनो जानकीविरहार्तिहृत् ।
जटायुषः क्रियाकारी कबन्धवधकोविदः ॥ सत्व्त्_6.85
ऋष्यमूकगुहावासी कपिपञ्चमसख्यकृत् ।
वामपादाग्रनिक्षिप्तदुन्दुभ्यस्थिबृहद्गिरिः ॥ सत्व्त्_6.86
सकण्टकारदुर्भेदसप्ततालप्रभेदकः ।
किष्किन्धाधिपवालिघ्नो मित्रसुग्रीवराज्यदः ॥ सत्व्त्_6.87
आञ्जनेयस्वलाङ्गूलदग्धलङ्कामहोदयः ।
सीताविरहविस्पष्टरोषक्षोभितसागरः ॥ सत्व्त्_6.88
गिरिकूटसमुत्क्षेपसमुद्राद्भुतसेतुकृत् ।
पादप्रहारसंत्रस्तविभीषणभयापहः ॥ सत्व्त्_6.89
अङ्गदोक्तिपरिक्लिष्टघोररावणसैन्यजित् ।
निकुम्भकुम्भधूम्राक्षकुम्भकर्णादिवीरहा ॥ सत्व्त्_6.90
कैलाससहनोन्मत्तदशाननशिरोहरः ।
अग्निसंस्पर्शसंशुद्धसीतासंवरणोत्सुकः ॥ सत्व्त्_6.91
कपिराक्षसराजाङ्गप्राप्तराज्यनिजाश्रयः ।
अयोध्याधिपतिः सर्वराजन्यगणशेखरः ॥ सत्व्त्_6.92
अचिन्त्यकर्मा नृपतिः प्राप्तसिंहासनोदयः ।
दुष्टदुर्बुद्धिदलनो दीनहीनैकपालकः ॥ सत्व्त्_6.93
सर्वसम्पत्तिजननस् तिर्यङ्न्यायविवेचकः ।
शूद्रघोरतपःप्लुष्टद्विजपुत्रैकजीवनः ॥ सत्व्त्_6.94
दुष्टवाक्क्लिष्टहृदयः सीतानिर्वासकारकः ।
तुरंगमेधक्रतुयाट् श्रीमत्कुशलवात्मजः ॥ सत्व्त्_6.95
सत्यार्थत्यक्तसौमित्रिः सून्नीतजनसंग्रहः ।
सत्कर्णपूरसत्कीर्तिः कीर्त्यालोकाघनाशनः ॥ सत्व्त्_6.96
भरतो ज्येष्ठपादाब्जरतित्यक्तनृपासनः ।
सर्वसद्गुणसम्पन्नः कोटिगन्धर्वनाशकः ॥ सत्व्त्_6.97
लक्ष्मणो ज्येष्ठनिरतो देववैरिगणान्तकः ।
इन्द्रजित्प्राणशमनो भ्रातृमान् त्यक्तविग्रहः ॥ सत्व्त्_6.98
शत्रुघ्नो ऽमित्रशमनो लवणान्तककारकः ।
आर्यभ्रातृजनश्लाघ्यः सतां श्लाघ्यगुणाकरः ॥ सत्व्त्_6.99
वटपत्त्रपुटस्थायी श्रीमुकुन्दो ऽखिलाश्रयः ।
तनूदरार्पितजगन्मृकण्डतनयः खगः ॥ सत्व्त्_6.100
आद्यो देवगणाग्रण्यो मितस्तुतिनतिप्रियः ।
वृत्रघोरतनुत्रस्तदेवसन्मन्त्रसाधकः ॥ सत्व्त्_6.101
ब्रह्मण्यो ब्राह्मणश्लाघी ब्रह्मण्यजनवत्सलः ।
गोष्पदाप्सुगलद्गात्रवालखिल्यजनाश्रयः ॥ सत्व्त्_6.102
दौस्वस्तिर् यज्वनां श्रेष्ठो नृपविस्मयकारकः ।
तुरंगमेधबहुकृद् वदान्यगणशेखरः ॥ सत्व्त्_6.103
वासवीतनयो व्यासो वेदशाखानिरूपकः ।
पुराणभारताचार्यः कलिलोकहितैषणः ॥ सत्व्त्_6.104
रोहिणीहृदयानन्दो बलभद्रो बलाश्रयः ।
संकर्षणः सीरपाणिः मुसलास्त्रो ऽमलद्युतिः ॥ सत्व्त्_6.105
शङ्खकुन्देन्दुश्वेताङ्गस् तालभिद् धेनुकान्तकः ।
मुष्टिकारिष्टहननो लाङ्गलाकृष्टयामुनः ॥ सत्व्त्_6.106
प्रलम्बप्राणहा रुक्मीमथनो द्विविदान्तकः ।
रेवतीप्रीतिदो रामारमणो बल्वलान्तकः ॥ सत्व्त्_6.107
हस्तिनापुरसंकर्षी कौरवार्चितसत्पदः ।
ब्रह्मादिस्तुतपादाब्जो देवयादवपालकः ॥ सत्व्त्_6.108
मायापतिर् महामायो महामायानिदेशकृत् ।
यदुवंशाब्धिपूर्णेन्दुर् बलदेवप्रियानुजः ॥ सत्व्त्_6.109
नराकृतिः परं ब्रह्म परिपूर्णः परोदयः ।
सर्वज्ञानादिसम्पूर्णः पूर्णानन्दः पुरातनः ॥ सत्व्त्_6.110
पीताम्बरः पीतनिद्रः पीतवेश्ममहातपाः ।
महोरस्कोमहाबाहुर् महार्हमणिकुण्डलः ॥ सत्व्त्_6.111
लसद्गण्डस्थलीहैममौलिमालाविभूषितः ।
सुचारुकर्णः सुभ्राजन्मकराकृतिकुण्डलः ॥ सत्व्त्_6.112
नीलकुञ्चितसुस्निग्धकुन्तलः कौमुदीमुखः ।
सुनासः कुन्ददशनो लसत्कोकनदाधरः ॥ सत्व्त्_6.113
सुमन्दहासो रुचिरभ्रूमण्डलविलोकनः ।
कम्बुकण्ठो बृहद्ब्रह्मा वलयाङ्गदभूषणः ॥ सत्व्त्_6.114
कौस्तुभी वनमाली च शङ्खचक्रगदाब्जभृत् ।
श्रीवत्सलक्ष्म्यालक्ष्याङ्गः सर्वलक्षणलक्षणः ॥ सत्व्त्_6.115
दलोदरो निम्ननाभिर् निरवद्यो निराश्रयः ।
नितम्बबिम्बव्यालब्बिकिङ्किणीकाञ्चिमण्डितः ॥ सत्व्त्_6.116
समजङ्घाजानुयुग्मः सुचारुरुचिराजितः ।
ध्वजवज्राङ्कुशाम्भोजशराङ्कितपदाम्बुजः ॥ सत्व्त्_6.117
भक्तभ्रमरसंघातपीतपादाम्बुजासवः ।
नखचन्द्रमणिज्योत्स्नाप्रकाशितमहामनाः ॥ सत्व्त्_6.118
पादाम्बुजयुगन्यस्तलसन्मञ्जीरराजितः ।
स्वभक्तहृदयाकाशलसत्पङ्कजविस्तरः ॥ सत्व्त्_6.119
सर्वप्राणिजनानन्दो वसुदेवनुतिप्रियः ।
देवकीनन्दनो लोकनन्दिकृद् भक्तभीतिभित् ॥ सत्व्त्_6.120
शेषानुगः शेषशायी यशोदानतिमानदः ।
नन्दानन्दकरो गोपगोपीगोकुलबान्धवः ॥ सत्व्त्_6.121
सर्वव्रजजनानन्दी भक्तवल्लभववल्लभः ।
वल्यव्यङ्गलसद्गात्रो बल्लवीबाहुमध्यगः ॥ सत्व्त्_6.122
पीतपूतनिकास्तन्यः पूतनाप्राणशोषणः ।
पूतनोरस्थलस्थायी पूतनामोक्षदायकः ॥ सत्व्त्_6.123
समागतजनानन्दी शकटोच्चाटकारकः ।
प्राप्तविप्राशिषोधीशो लघिमादिगुणाश्रयः ॥ सत्व्त्_6.124
तृणावर्तगलग्राही तृणावर्तनिषूदनः ।
जनन्यानन्दजनको जनन्यामुखविश्वदृक् ॥ सत्व्त्_6.125
बालक्रीडारतो बालभाषालीलादिनिर्वृतः ।
गोपगोपीप्रियकरो गीतनृत्यानुकारकः ॥ सत्व्त्_6.126
नवनीतविलिप्ताङ्गो नवनीतलवप्रियः ।
नवनीतलवाहारी नवनीतानुतस्करः ॥ सत्व्त्_6.127
दामोदरो ऽर्जुनोन्मूलो गोपैकमतिकारकः ।
वृन्दावनवनक्रीडो नानाक्रीडाविशारदः ॥ सत्व्त्_6.128
वत्सपुच्छसमाकर्षी वत्सासुरनिषूदनः ।
बकारिर् अघसंहारी बालाद्यन्तकनाशनः ॥ सत्व्त्_6.129
यमुनानिलसंजुष्टसुमृष्टपुलिनप्रियः ।
गोपालबालपूगस्थः स्निग्धदध्यन्नभोजनः ॥ सत्व्त्_6.130
गोगोपगोपीप्रियकृद् धनभृन् मोहखण्डनः ।
विधातुर् मोहजनको ऽत्यद्भुतैश्वर्यदर्शकः ॥ सत्व्त्_6.131
विधिस्तुतपदाम्भोजो गोपदारकबुद्धिभित् ।
कालीयदर्पदलनो नागनारीनुतिप्रियः ॥ सत्व्त्_6.132
दावाग्निशमनः सर्वव्रजभृज् जनजीवनः ।
मुञ्जारण्यप्रवेशाप्तकृच्छ्रदावाग्निदारणः ॥ सत्व्त्_6.133
सर्वकालसुखक्रीडो बर्हिबर्हावतंसकः ।
गोधुग्वधूजनप्राणो वेणुवाद्यविशारदः ॥ सत्व्त्_6.134
गोपीपिधानारुन्धानो गोपीव्रतवरप्रदः ।
विप्रदर्पप्रशमनो विप्रपत्नीप्रसाददः ॥ सत्व्त्_6.135
शतक्रतुवरध्वंसी शक्रदर्पमदापहः ।
धृतगोवर्धनगिरिर् व्रजलोकाभयप्रदः ॥ सत्व्त्_6.136
इन्द्रकीर्तिलसत्कीर्तिर् गोविन्दो गोकुलोत्सवः ।
नन्दत्राणकरो देवजलेशेडितसत्कथः ॥ सत्व्त्_6.137
व्रजवासिजनश्लाघ्यो निजलोकप्रदर्शकः ।
सुवेणुनादमदनोन्मत्तगोपीविनोदकृत् ॥ सत्व्त्_6.138
गोधुग्वधूदर्पहरः स्वयशःकीर्तनोत्सवः ।
व्रजाङ्गनाजनारामो व्रजसुन्दरीवल्लभः ॥ सत्व्त्_6.139
रासक्रीडारतो रासमहामण्डलमण्डनः ।
वृन्दावनवनामोदी यमुनाकूलकेलिकृत् ॥ सत्व्त्_6.140
गोपिकागीतिकागीतः शङ्खचूडशिरोहरः ।
महासर्पमुखग्रस्तत्रस्तनन्दविमोचकः ॥ सत्व्त्_6.141
सुदर्शनार्चितपदो दुष्टारिष्टविनाशकः ।
केशिद्वेषो व्योमहन्ता श्रुतनारदकीर्तनः ॥ सत्व्त्_6.142
अक्रूरप्रियकृत् क्रूररजकघ्नः सुवेशकृत् ।
सुदामदत्तमालाढ्यः कुब्जाचन्दनचर्चितः ॥ सत्व्त्_6.143
मथुराजनसंहर्षी चण्डकोदण्डखण्डकृत् ।
कंससैन्यसमुच्छेदी वणिग्विप्रगणार्चितः ॥ सत्व्त्_6.144
महाकुवलयापीडघाती चाणुरमर्दनः ।
रागशालागतापारनरनारीकृतोत्सवः ॥ सत्व्त्_6.145
कंसध्वंसकरः कंसस्वसारूप्यगतिप्रदः ।
कृतोग्रसेननृपतिः सर्वयादसौख्यकृत् ॥ सत्व्त्_6.146
तातमातृकृतानन्दो नन्दगोपप्रसाददः ।
श्रितसांदीपनिगुरुर् विद्यासागरपारगः ॥ सत्व्त्_6.147
दैत्यपञ्चजनध्वंसी पाञ्चजन्यदरप्रियः ।
सांदीपनिमृतापत्यदाता कालयमार्चितः ॥ सत्व्त्_6.148
सैरन्ध्रीकामसंतापशमनो ऽक्रूरप्रीतिदः ।
शार्ङ्गचापधरो नानाशरसंधानकोविदः ॥ सत्व्त्_6.149
अभेद्यदिव्यकवचः श्रीमद्दारुकसारथिः ।
खगेन्द्रचिह्नितध्वजश् चक्रपाणिर् गदाधरः ॥ सत्व्त्_6.150
नन्दकीयदुसेनाढ्यो ऽक्षयबाणनिषङ्गवान् ।
सुरासुराजेयरण्यो जितमागधयूथपः ॥ सत्व्त्_6.151
मागधध्वजिनीध्वंसी मथुरापुरपालकः ।
द्वारकापुरनिर्माता लोकस्थितिनियामकः ॥ सत्व्त्_6.152
सर्वसम्पत्तिजननः स्वजनानन्दकारकः ।
कल्पवृक्षाक्षितमहिः सुधर्मानीतभूतलः ॥ सत्व्त्_6.153
यवनासुरसंहर्ता मुचुकुन्देष्टसाधकः ।
रुक्मिणीद्विजसंमन्त्ररथैकगतकुण्डिनः ॥ सत्व्त्_6.154
रुक्मिणीहारको रुक्मिमुण्डमुण्डनकारकः ।
रुक्मिणीप्रियकृत् साक्षाद् रुक्मिणीरमणीपतिः ॥ सत्व्त्_6.155
रुक्मिणीवदनाम्भोजमधुपानमधुव्रतः ।
स्यमन्तकनिमित्तात्मभक्तर्क्षाधिपजित् शुचिः ॥ सत्व्त्_6.156
जाम्बवार्चितपादाब्जः साक्षाज् जाम्बवतीपतिः ।
सत्यभामाकरग्राही कालिन्दीसुन्दरीप्रियः ॥ सत्व्त्_6.157
सुतीक्ष्णशृङ्गवृषभसप्तजिद् राजयूथभित् ।
नग्नजित् तनयासत्यानायिकानायकोत्तमः ॥ सत्व्त्_6.158
भद्रेशो लक्ष्मणाकान्तो मित्रविन्दाप्रियेश्वरः ।
मुरुजित् पीठसेनानीनाशनो नरकान्तकः ॥ सत्व्त्_6.159
धरार्चितपदाम्भोजो भगदत्तभयापहा ।
नरकाहृतदिव्यस्त्रीरत्नवाहादिनायकः ॥ सत्व्त्_6.160
अष्टोत्तरशतद्व्यष्टसहस्त्रस्त्रीविलासवान् ।
सत्यभामाबलावाक्यपारिजातापहारकः ॥ सत्व्त्_6.161
देवेन्द्रबलभिज् जायाजातनानाविलासवान् ।
रुक्मिणीमानदलनः स्त्रीविलासाविमोहितः ॥ सत्व्त्_6.162
कामतातः साम्बसुतो ऽसंख्यपुत्रप्रपौत्रवान् ।
उशाशागतपौत्रार्थबाणबाहुसस्रछित् ॥ सत्व्त्_6.163
नन्द्यादिप्रमथध्वंसी लीलाजितमहेश्वरः ।
महादेवस्तुतपदो नृगदुःखविमोचकः ॥ सत्व्त्_6.164
ब्रह्मस्वापहरक्लेशकथास्वजनपालकः ।
पौण्ड्रकारिः काशिराजशिरोहर्ता सदाजितः ॥ सत्व्त्_6.165
सुदक्षिणाव्रताराध्यशिवकृत्यानलान्तकः ।
वाराणसीप्रदहनो नारदेक्षितवैभवः ॥ सत्व्त्_6.166
अद्भुतैश्वर्यमहिमा सर्वधर्मप्रवर्तकः ।
जरासंधनिरोधार्तभूभुजेरितसत्कथः ॥ सत्व्त्_6.167
नारदेरितसन्मित्रकार्यगौरवसाधकः ।
कलत्रपुत्रसन्मित्रसद्वृत्ताप्तगृहानुगः ॥ सत्व्त्_6.168
जरासंधवधोद्योगकर्ता भूपतिशर्मकृत् ।
सन्मित्रकृत्याचरितो राजसूयप्रवर्तकः ॥ सत्व्त्_6.169
सर्वर्षिगणसंस्तुत्यश् चैद्यप्राणनिकृन्तकः ।
इन्द्रप्रस्थजनैः पूज्यो दुर्योधनविमोहनः ॥ सत्व्त्_6.170
महेशदत्तसौभाग्यपुरभित् शत्रुघातकः ।
दन्तवक्ररिपुच्छेत्ता दन्तवक्रगतिप्रदः ॥ सत्व्त्_6.171
विदूरथप्रमथनो भूरिभारावतारकः ।
पार्थदूतः पार्थहितः पार्थार्थः पार्थसारथिः ॥ सत्व्त्_6.172
पार्थमोहसमुच्छेदी गीताशास्त्रप्रदर्शकः ।
पार्थबाणगतप्राणवीरकैवल्यरूपदः ॥ सत्व्त्_6.173
दुर्योधनादिदुर्वृत्तदहनो भीष्ममुक्तिदः ।
पार्थाश्वमेधाहरकः पार्थराज्यप्रसाधकः ॥ सत्व्त्_6.174
पृथाभीष्टप्रदो भीमजयदो विजयप्रदः ।
युधिष्ठिरेष्टसंदाता द्रौपदीप्रीतिसाधकः ॥ सत्व्त्_6.175
सहदेवेरितपदो नकुलार्चितविग्रहः ।
ब्रह्मास्त्रदग्धगर्भस्थपुरुवंशप्रसाधकः ॥ सत्व्त्_6.176
पौरवेन्द्रपुरस्त्रीभ्यो द्वारकागमनोत्सवः ।
आनर्तदेशनिवसत्प्रजेरितमहत्कथः ॥ सत्व्त्_6.177
प्रियप्रीतिकरो मित्रविप्रदारिद्र्यभञ्जनः ।
तीर्थापदेशसन्मित्रप्रियकृन् नन्दनन्दनः ॥ सत्व्त्_6.178
गोपीजनज्ञानदाता तातक्रतुकृतोत्सवः ।
सद्वृत्तवक्ता सद्वृत्तकर्ता सद्वृत्तपालकः ॥ सत्व्त्_6.179
तातात्मज्ञानसंदाता देवकीमृतपुत्रदः ।
श्रुतदेवप्रियकरो मैथिलानन्दवर्धनः ॥ सत्व्त्_6.180
पार्थदर्पप्रशमनो मृतविप्रसुतप्रदः ।
स्त्रीरत्नवृन्दसंतोषी जनकेलिकलोत्सवः ॥ सत्व्त्_6.181
चन्द्रकोटिजनानन्दी भानुकोटिसमप्रभः ।
कृतान्तकोटिदुर्लङ्घ्यः कामकोटिमनोहरः ॥ सत्व्त्_6.182
यक्षराट्कोटिधनवान् मरुत्कोटिस्ववीर्यवान् ।
समुद्रकोटिगम्भीरो हिमवत्कोट्यकम्पनः ॥ सत्व्त्_6.183
कोट्यश्वमेधाढ्यहरः तीर्थकोट्यधिकाह्वयः ।
पीयूषकोटिमृत्युघ्नः कामधुक्कोट्यभीष्टदः ॥ सत्व्त्_6.184
शक्रकोटिविलासाढ्यः कोटिब्रह्माण्डनायकः ।
सर्वामोघोद्यमो ऽनन्तकीर्तिनिःसीमपौरुषः ॥ सत्व्त्_6.185
सर्वाभीष्टप्रदयशाः पुण्यश्रवणकीर्तनः ।
ब्रह्मादिसुरसंगीतवीतमानुषचेष्टितः ॥ सत्व्त्_6.186
अनादिमध्यनिधनो वृद्धिक्षयविवर्जितः ।
स्वभक्तोद्धवमुख्यैकज्ञानदो ज्ञानविग्रहः ॥ सत्व्त्_6.187
विप्रशापच्छलध्वस्तयदुवंशोग्रविक्रमः ।
सशरीरजराव्याधस्वर्गदः स्वर्गिसंस्तुतः ॥ सत्व्त्_6.188
मुमुक्षुमुक्तविषयिजनानन्दकरो यशः ।
कलिकालमलध्वंसियशाः श्रवणमङ्गलः ॥ सत्व्त्_6.189
भक्तप्रियो भक्तहितो भक्तभ्रमरपङ्कजः ।
स्मृतमात्राखिलत्राता यन्त्रमन्त्रप्रभञ्जकः ॥ सत्व्त्_6.190
सर्वसम्पत्स्राविनामा तुलसीदामवल्लभः ।
अप्रमेयवपुर् भास्वदनर्घ्याङ्गविभूषणः ॥ सत्व्त्_6.191
विश्वैकसुखदो विश्वसज्जनानन्दपालकः ।
सर्वदेवशिरोरत्नम् अद्भुतानन्तभोगवान् ॥ सत्व्त्_6.192
अधोक्षजो जनाजीव्यः सर्वसाधुजनाश्रयः ।
समस्तभयभिन्नामा स्मृतमात्रार्तिनाशकः ॥ सत्व्त्_6.193
स्वयशःश्रवणानन्दजनरागी गुणार्णवः ।
अनिर्देश्यवपुस् तप्तशरणो जीवजीवनः ॥ सत्व्त्_6.194
परमार्थः परंवेद्यः परज्योतिः परागतिः ।
वेदान्तवेद्यो भगवान् अनन्तसुखसागरः ॥ सत्व्त्_6.195
जगद्बन्धध्वंसयशा जगज्जीवजनाश्रयः ।
वैकुण्ठलोकैकपतिर् वैकुण्ठजनवल्लभः ॥ सत्व्त्_6.196
प्रद्युम्नो रुक्मिणीपुत्रः शम्बरघ्नो रतिप्रियः ।
पुष्पधन्वा विश्वजयी द्युमत्प्राणनिषूदकः ॥ सत्व्त्_6.197
अनिरुद्धः कामसुतः शब्दयोनिर् महाक्रमः ।
उषापतिर् वृष्णिपतिर् हृषीकेशो मनःपतिः ॥ सत्व्त्_6.198
श्रीमद्भागवताचार्यः सर्ववेदान्तसागरः ।
शुकः सकलधर्मज्ञः परीक्षिन्नृपसत्कृतः ॥ सत्व्त्_6.199
श्रीबुद्धो दुष्टबुद्धिघ्नो दैत्यवेदबहिष्करः ।
पाखण्डमार्गप्रवदो निरायुधजगज्जयः ॥ सत्व्त्_6.200
कल्की कलियुगाच्छादी पुनः सत्यप्रवर्तकः ।
विप्रविष्णुयशोऽपत्यो नष्टधर्मप्रवर्तकः ॥ सत्व्त्_6.201
सारस्वतः सार्वभौमो बलित्रैलोक्यसाधकः ।
अष्टम्यन्तरसद्धर्मवक्ता वैरोचनिप्रियः ॥ सत्व्त्_6.202
आपः करो रमानाथो ऽमरारिकुलकृन्तनः ।
श्रुतेन्द्रहितकृद् धीरवीरमुक्तिबलप्रदः ॥ सत्व्त्_6.203
विष्वक्सेनः शम्भुसखो दशमान्तरपालकः ।
ब्रह्मसावर्णिवंशाब्धिहितकृद् विश्ववर्धनः ॥ सत्व्त्_6.204
धर्मसेतुर् अधर्मघ्नो वैध्यतन्त्रपदप्रदः ।
असुरान्तकरो देवार्थकसूनुः सुभाषणः ॥ सत्व्त्_6.205
स्वधामा सूनृतासूनुः सत्यतेजो द्विजात्मजः ।
द्विषण्मनुयुगत्राता पातालपुरदारणः ॥ सत्व्त्_6.206
दैवहोत्रिर् वार्हतोयो दिवस्पतिर् अतिप्रियः ।
त्रयोदशान्तरत्राता योगयोगिजनेश्वरः ॥ सत्व्त्_6.207
सत्त्रायणो बृहद्बाहुर् वैनतेयो विदुत्तमः ।
कर्मकाण्डैकप्रवदो वेदतन्त्रप्रवर्तकः ॥ सत्व्त्_6.208
परमेष्ठी सुरज्येष्ठो ब्रह्मा विश्वसृजांपतिः ।
अब्जयोनिर् हंसवाहः सर्वलोकपितामहः ॥ सत्व्त्_6.209
विष्णुः सर्वजगत्पाता शान्तः शुद्धः सनातनः ।
द्विजपूज्यो दयासिन्धुः शरण्यो भक्तवत्सलः ॥ सत्व्त्_6.210
रुद्रो मूढः शिवः शास्ता शम्भुः सर्वहरो हरः ।
कपर्दी शंकरः शूली त्र्यक्षो ऽभेद्यो महेश्वरः ॥ सत्व्त्_6.211
सर्वाध्यक्षः सर्वशक्तिः सर्वार्थः सर्वतोमुखः ।
सर्वावासः सर्वरूपः सर्वकारणकारणम् ॥ सत्व्त्_6.212
इत्य् एतत् कथितं विप्र विष्णोर् नामसहस्रकम् ।
सर्वपापप्रशमनं सर्वाभीष्टफलप्रदम् ॥ सत्व्त्_6.213
मनःशुद्धिकरं चाशु भगवद्भक्तिवर्धनम् ।
सर्वविघ्नहरं सर्वाश्चर्यैश्वर्यप्रदायकम् ॥ सत्व्त्_6.214
सर्वदुःखप्रशमनं चातुर्वर्ग्यफलप्रदम् ।
श्रद्धया परया भक्त्या श्रवणात् पठनाज् जपात् ॥ सत्व्त्_6.215
प्रत्यहं सर्ववर्णानां विष्णुपादाश्रितात्मनाम् ।
एतत् पठन् द्विजो विद्यां क्षत्रियः पृथिवीम् इमाम् ॥ सत्व्त्_6.216
वैश्यो महानिधिं शूद्रो वाञ्छितां सिद्धिम् आप्नुयात् ।
द्वात्रिंशदपराधान्यो ज्ञानाज्ञानाच् चरेद् धरेः ॥ सत्व्त्_6.217
नाम्ना दशापराधांश् च प्रमादाद् आचरेद् यदि ।
समाहितमना ह्य् एतत् पठेद् वा श्रावयेज् जपेत् ॥ सत्व्त्_6.218
स्मरेद् वा शृणुयाद् वापि तेभ्यः सद्यः प्रमुच्यते ।
नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते ॥ सत्व्त्_6.219
यस्यैककीर्तनेनापि भवबन्धाद् विमुच्यते ।
अतस् त्वं सततं भक्त्या श्रद्धया कीर्तनं कुरु ॥ सत्व्त्_6.220
विष्णोर् नामसहस्रं ते भगवत्प्रीतिकारणम् ।
श्रीनारद उवाच ।
धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि त्वयातिकरुणात्मना ।
यतः कृष्णस्य परमं सहस्रं नामकीर्तितम् ॥ सत्व्त्_6.221
यद्य् आलस्यात् प्रमादाद् वा सर्वं पठितुम् अन्वहम् ।
न शक्नोमि तदा देव किं करोमि वद प्रभो ॥ सत्व्त्_6.222
श्रीशिव उवाच ।
यदि सर्वं न शक्नोसि प्रत्यहं पठितुं द्विज ।
तदा कृष्णेति कृष्णेति कृष्णेति प्रत्यहं वद ॥ सत्व्त्_6.223
एतेन तव विप्रर्षे सर्वं सम्पद्यते सकृत् ।
किं पुनर् भगवन्नाम्नां सहस्रस्य प्रकीर्तनात् ॥ सत्व्त्_6.224
यन् नामकीर्तनेनैव पुमान् संसारसागरम् ।
तरत्य् अद्धा प्रपद्ये तं कृष्णं गोपालरूपिणम् ॥ सत्व्त्_6.225
सात्वततन्त्र, सप्तमः पटलः
श्रीशिव उवाच ।
शृण्वन्ति प्रत्यहं ये वै विष्णोर् नामसहस्रकम् ।
कीर्तयन्त्य् अथवा विप्र संस्मरन्त्य् आदरेण वा ॥ सत्व्त्_7.1
वा शतं वा विंशतिं वापि दश वा पञ्च वा द्विज ।
एकं वा कामतो भक्त्या विष्णुपादाम्बुजाश्रयाः ॥ सत्व्त्_7.2
तेषां फलस्य पुण्यानां नान्तं पश्यामि नारद ।
यतस् तैर् भगवान् एव परानन्दो वशीकृतः ॥ सत्व्त्_7.3
यतो नामैव परमं तीर्थं क्षेत्रं च पुण्यदम् ।
नामैव परमं दैवं नामैव परमं तपः ॥ सत्व्त्_7.4
नामैव परमं दानं नामैव परमा क्रिया ।
नामैव परमो धर्मो नामैवार्थः प्रकीर्तितः ॥ सत्व्त्_7.5
नामैव कामो भक्तानां मोक्षो ऽपि नाम केवलम् ।
एषां च साधनं नाम कामिनां द्विजसत्तम ॥ सत्व्त्_7.6
नामैव परमा भक्तिर् नामैव परमा गतिः ।
नामैव परमं जाप्यं नामैव प्रार्थनं परम् ॥ सत्व्त्_7.7
निष्कामानां धनं नाम मुक्तिभुक्तिसुखार्थवत् ।
नाम स्यात् परमं सौख्यं नामैव वैराग्यकारणम् ॥ सत्व्त्_7.8
सत्त्वशुद्धिकरं नाम नाम ज्ञानप्रदं स्मृतम् ।
मुमुक्षूणां मुक्तिपदं कामिनां सर्वकामदम् ॥ सत्व्त्_7.9
वैष्णवानां फलं नाम तस्मान् नाम सदा स्मरेत् ।
संकेतितात् पारिहास्याद् धेलनाज्वरतापतः ॥ सत्व्त्_7.10
कीर्तितं भगवन्नाम सर्वपापहरं स्मृतम् ।
यावती पापनिर्हारे शक्तिर् नाम्नि हरेः स्थिता ॥ सत्व्त्_7.11
तावत् पापिजनः पापं कर्तुं शक्नोति नैव हि ।
ज्ञानाज्ञानाद् धरेर् नामकीर्तनात् पुरुषस्य हि ॥ सत्व्त्_7.12
पापराशिं दहत्य् आशु यथा तूलं विभावसुः ।
संकीर्तितं हरेर् नाम श्रद्धया पुरुषेण वै ॥ सत्व्त्_7.13
तस्य सत्यफलं धत्ते क्रमशो द्विजसत्तमः ।
पापनाशं महापुण्यं वैराग्यं च चतुर्विधम् ॥ सत्व्त्_7.14
गुरुसेवाम् आत्मबोधं भ्रान्तिनाशम् अनन्तरम् ।
सम्पूर्णानन्दबोधं च ततस् तस्मिन् लभेत् स्थिरम् ॥ सत्व्त्_7.15
श्रीनारद उवाच ।
चतुर्विधं त्वया प्रोक्तं वैराग्यं सुरसत्तम ।
एतद् वर्णय लोकस्य हिताय ज्ञानकारणम् ॥ सत्व्त्_7.16
श्रीशिव उवाच ।
असङ्गरहितो भोगः क्रियते पुरुषेण यत् ।
विषयाणां द्विजश्रेष्ठ तदमानः प्रकीर्तितः ॥ सत्व्त्_7.17
भोग्ये स्वादुविहीने ऽपि क्रियते वृत्तिर् आत्मनः ।
द्वितीयो व्यतिरेकाख्यस् तद् विजानीहि सत्तम ॥ सत्व्त्_7.18
मनसः प्रीतिराहित्ये इन्द्रियैर् एवं भुज्यते ।
भोगस् तृतीयः पुरुषैर् इन्द्रियाख्यः प्रकीर्तितः ॥ सत्व्त्_7.19
मनसश् चेन्द्रियाणां च रागराहित्यम् उत्तमम् ।
विषयाहरणं विप्र चतुर्थः परिकीर्तितः ॥ सत्व्त्_7.20
एष नाम परश् चाशु जायते द्विजसत्तम ।
ज्ञानं च परमं शुद्धं ब्रह्मानन्दप्रदायकम् ॥ सत्व्त्_7.21
तीर्थैर् दानैस् तपोभिश् च होमैर् जात्यैर् व्रतमैखैः ।
योगैश् च विविधैर् विप्र यद् विष्णोः परमं पदम् ॥ सत्व्त्_7.22
न यान्ति मानवास् तद् वै नामकीर्तनमात्रतः ।
संयान्त्य् एव न संदेहं कुरु विप्र हरिप्रियम् ॥ सत्व्त्_7.23
महापातकयुक्तो ऽपि कीर्तयित्वा जगद्गुरुम् ।
तरत्य् एव न संदेहः सत्यम् एव वदाम्य् अहम् ॥ सत्व्त्_7.24
कलिकालमलं चापि सर्वपातकम् एव च ।
हित्वा नामपरो विप्र विष्णुलोकं स गच्छति ॥ सत्व्त्_7.25
तस्मान् नामैकमात्रेण तरत्य् एव भवार्णवम् ।
पुमान् अत्र न संदेहो विना नामापराधतः ॥ सत्व्त्_7.26
तद्यत्नेनैव पुरुषः श्रेयस्कामो द्विजोत्तमः ।
विष्णोर् न कुर्यान् नाम्नस् तु दशपापान् कथंचन ॥ सत्व्त्_7.27
श्रीनारद उवाच ।
श्रुतो भगवतो वक्त्राद् द्वाविंशदपराधकम् ।
विष्णोर् नाम्ना दश तथा एतद् वर्णय नो प्रभो ॥ सत्व्त्_7.28
श्रीशिव उवाच ।
श्रूयताम् अपराधान् वै विष्णोर् वक्ष्यामि नारद ।
यान् कृत्वा नरकं यान्ति मानवाः सततं मुने ॥ सत्व्त्_7.29
अस्नात्वा स्पर्शनं विष्णोर् विना शङ्खेन स्नापनम् ।
अशौचे स्पर्शनं साक्षाद् भुक्ता पादोदकग्रहः वा ॥ सत्व्त्_7.30
विना शब्देन पूजा च विना नैवेद्यपूजनम् ।
उच्चासनस्थपूजा च शीते व्यजनवातकम् ॥ सत्व्त्_7.31
उदक्यादर्शनं चैव घण्टाया भूनिवेशनम् ।
पौषे च चन्दनस्पर्शो ग्रीष्मे चास्पर्शनं तथा ॥ सत्व्त्_7.32
पुष्पं तोयेन संस्पर्शं विना होमं महोत्सवः ।
पूजां कृत्वा पृष्ठदर्शम् अग्रे च भ्रमणं तथा ॥ सत्व्त्_7.33
भोजनं भगवद्वारे अभुक्त्वा च विषादता ।
पादुकारोहणं विष्णोर् गेहे कम्बलवेशनम् ॥ सत्व्त्_7.34
वामपादप्रवेशश् च कूर्दनं पाकभोजनम् ।
श्लेष्मप्रक्षेपणं चैव तत्तृणैर् दन्तधावनम् ॥ सत्व्त्_7.35
देवाग्रे वाहनारोहो नैवेद्ये द्रव्यबुद्धिता ।
शालग्रामे स्थिरायां च शिलेति प्रतिमेति च ॥ सत्व्त्_7.36
हरिकीर्तेर् असंश्लाघा वैष्णवे नरसाम्यता ।
विष्णौ च देवतासाम्यम् अन्योद्देशनिवेदनम् ॥ सत्व्त्_7.37
एते ऽपराधा द्वात्रिंशद् विष्णोर् नाम्नाम् अथ शृणु ।
सतां नाम्ना शिवे विष्णौ भिदाचार्यावमानता ॥ सत्व्त्_7.38
वेदनिन्दा नाम्नि वादः पापेच्छा नामसाहसात् ।
नाम्नो धर्मैः साम्यबुद्धिर् दानं श्रद्धाविवर्जितैः ॥ सत्व्त्_7.39
श्रुत्वापि श्रद्धाराहित्यं कीर्तने चाप्य् अहंमतिः ।
एते नाम्नां द्विजश्रेष्ठ ह्य् अपराधा मयेरिताः ॥ सत्व्त्_7.40
वर्जनीया नृभिर् यत्नैर् यतो नरककारणाः ।
श्रीनारद उवाच ॥ सत्व्त्_7.41
विषयासक्तचित्तानां प्राकृतानां नृणां प्रभो ।
अपराधा हरेर् आशु वर्ज्या नैव भवन्ति हि ॥ सत्व्त्_7.42
अतो येन प्रकारेण तरन्ति प्राकृता अपि ।
अपराधान् कृतान् देव तन् ममाख्यातुम् अर्हसि ॥ सत्व्त्_7.43
श्रीशिव उवाच ।
प्रदक्षिणशतं कृत्वा दण्डवत् प्रणमेद् भुवि ।
अपराधशतं तस्य क्षमते स्वस्य केशवः ॥ सत्व्त्_7.44
प्रदक्षिणं सकृत् कृत्वा यो न जानुशिरं नमेत् ।
निष्फलं तद् भवेत् तस्य तस्मात् प्रत्येकशो नमेत् ॥ सत्व्त्_7.45
जगन्नाथेति ते नाम व्याहरिष्यन्ति ते यदि ।
अपराधशतं तेषां क्षमते नात्र संशयः ॥ सत्व्त्_7.46
नाम्नो ऽपराधास् तरति नाम्न एव सदा जपात् ।
विना भक्तापराधेन तत्प्रसादविवर्जितः ॥ सत्व्त्_7.47
सर्वापराधांस् तरति विष्णुपादाम्बुजाश्रयः ।
विष्णोर् अप्य् अपराधान् वै नामसंकीर्तनात् तरेत् ॥ सत्व्त्_7.48
विष्णुभक्तापराधानां नैवास्त्य् अन्या प्रतिक्रिया ।
श्रीनारद उवाच ।
भक्तापराधान् मे ब्रूहि यथा तेषां प्रतिक्रिया ।
अनुग्रहाय लोकानां भगवन् मम चापि हि ॥ सत्व्त्_7.49
श्रीशिव उवाच ।
विष्णुभक्तस्य सर्वस्वहरणं द्विजसत्तम ।
भर्त्सनं चोत्तमे भक्ते स्वप्ने चापि प्रहारणम् ॥ सत्व्त्_7.50
एते ऽपराधा भक्तानां शृण्व् एषां प्रतिक्रिया ।
तद्धनं द्विगुणं दत्त्वा कृत्वा पादाभिवन्दनम् ॥ सत्व्त्_7.51
कथयेन् मे क्षमस्वेति तद्दोषं धनकर्षणम् ।
यावत् तद्भर्त्सनं कृत्वा तावन् मासान् समाहितः ॥ सत्व्त्_7.52
निर्मत्सरः परिचरेत् तत्प्रसादेन शुध्यति ।
यावज् जीवं प्रहारे तु परिचर्येद् अतन्द्रितः ॥ सत्व्त्_7.53
तत्प्रसादेन तत्पापान् निष्कृतिर् नान्यथा भवेत् ।
अकृत्वा निष्कृतीन् एतान् नरकान् नास्ति निष्कृतिः ॥ सत्व्त्_7.54
अज्ञानतः कृते विप्र तत्प्रसादेन नश्यति ।
ज्ञानात् तु द्विगुणं कुर्याद् एष धर्मः सनातनः ॥ सत्व्त्_7.55
पुत्रे शिष्ये च जायायां शासने नास्ति दूषणम् ।
अन्यया तु कृते दोषो भवत्य् एव न संशयः ॥ सत्व्त्_7.56
केशाकर्षे पदाघाते मुखे च चर्पटे कृते ।
न निष्कृतिं प्रपश्यामि तस्मात् तान् न समाचरेत् ॥ सत्व्त्_7.57
सात्वततन्त्र, अष्टमः पटलः
श्रीशिव उवाच ।
अथ ते सम्प्रवक्ष्यामि रहस्यं ह्य् एतद् उत्तमम् ।
यच् छ्रद्धया तु तिष्ठन् वै हरौ भक्तिर् दृढा भवेत् ॥ सत्व्त्_8.1
देवे तीर्थे च धर्मे च विश्वासं तापतारणात् ।
तद्धित्वा कृष्णपादाम्बुशरणं प्रविशेन् मुदा ॥ सत्व्त्_8.2
शरणं मे जगन्नाथः श्रीकृष्णः पुरुषोत्तमः ।
तन्नाम्नि स्वगुरौ चैव ब्रूयाद् एतत् समाहितः ॥ सत्व्त्_8.3
हित्वान्यदेवतापूजां बलिदानादिना द्विज ।
एकम् एव यजेत् कृष्णं सर्वदेवमयं धिया ॥ सत्व्त्_8.4
नित्यं नैमितकं कार्यं तथावश्यकम् एव च ।
गृहाश्रमी विष्णुभक्तः कुर्यात् कृष्णं धिया स्मरन् ॥ सत्व्त्_8.5
एतेषु चान्यदेवानां या पूजा विधिना स्मृता ।
सापि कृष्णार्चनात् पश्चात् क्रियेत हृदि तं स्मरन् ॥ सत्व्त्_8.6
अन्यदा त्व् अन्यदेवानां पृथक्पूजां न च स्मरेत् ।
काम्यं निषिद्धं च तथा नैव कुर्यात् कदाचन ॥ सत्व्त्_8.7
कलत्रपुत्रमित्रादीन् हित्वा कृष्णं समाश्रिताः ।
हरिकीर्तिरता ये च तेषां कृत्यं न विद्यते ॥ सत्व्त्_8.8
कृत्वान्यदेवतापूजां सकामां बलिना द्विज ।
भक्तिभ्रष्टो भवेद् आशु संसारान् न निवर्तते ॥ सत्व्त्_8.9
कामात्मा निरनुक्रोशः पशुघातं समाचरन् ।
पशुलोमसमं वर्षं नरके परिपच्यते ॥ सत्व्त्_8.10
यज्ञे पशोर् आलभने नैव दोषो ऽस्ति यद् वचः ।
अपि प्रवृत्ती रागिणां निवृत्तिस् तु गरीयसी ॥ सत्व्त्_8.11
कृत्वान्यदेवतापूजां पशुं हित्वा नराधमाः ।
यदि ते स्वर्गतिं यान्ति नरकं यान्ति के तदा ॥ सत्व्त्_8.12
स मां पुनर् भक्षयिता यस्य मांसम् अदाम्य् अहम् ।
इति मांसनिरुक्तं वै वर्णयन्ति मनीषिणः ॥ सत्व्त्_8.13
विष्णुभक्तिं समाश्रित्य पशुघातं समाचरन् ।
कृत्वान्यदेवतापूजां भ्रष्टो भवति निश्चितम् ॥ सत्व्त्_8.14
मानुष्यं प्राप्य ये जीवा न भजन्ति हरेः पदम् ।
ते शोच्या स्थावरादीनाम् अप्य् एकशरणा यदि ॥ सत्व्त्_8.15
अहं ब्रह्मा सुरेन्द्राश् च ये भजामो दिवानिशम् ।
ततो ऽधिको ऽस्ति को देवः श्रीकृष्णात् पुरुषोत्तमात् ॥ सत्व्त्_8.16
यत्प्रसादं प्रतीक्षन्ते सर्वे लोकाः सपालकाः ।
सापि लक्ष्मीर् यच् चरणं सेवते तदनादृता ॥ सत्व्त्_8.17
ततो ऽधिको ऽस्ति को देवो लक्ष्मीकान्ताज् जनार्दनात् ।
यन् नाम्नि के न संयान्ति पुरुषाः परमं पदम् ॥ सत्व्त्_8.18
धर्मार्थकाममोक्षाणां मूलं यच् चरणार्चनम् ।
ततो ऽधिको ऽस्ति को देवः कृपासिन्धोर् महात्मनः ॥ सत्व्त्_8.19
भजनस्याल्पमात्रेण बहु मन्येत यः सदा ।
ततो ऽधिको ऽस्ति को देवः सुखाराध्याज् जगद्गुरोः ॥ सत्व्त्_8.20
येन केनापि भावेन यो ऽपि को ऽपि भजन् जनः ।
लभते ऽभीप्सितां सिद्धिं मोक्षं चाप्य् अकुतोभयम् ॥ सत्व्त्_8.21
ततो ऽधिको ऽस्ति को देवः देवकीदेविनन्दनात् ।
यो जगन्मुक्तये कीर्तिम् अवतीर्य ततान ह ॥ सत्व्त्_8.22
अतो ऽन्यदेवतापूजां त्यक्त्वा बलिविधानतः ।
सद्गुरोर् उपदेशेन भजेत् कृष्णपदद्वयम् ॥ सत्व्त्_8.23
शृणुयात् प्रत्यहं विष्णोर् यशः परममङ्गलम् ।
उच्चारयेन् मुखेनैव नाम चित्तेन संस्मरेत् ॥ सत्व्त्_8.24
प्रीतिं कुर्याद् वैष्णवेषु अभक्तेषु विवर्जयेत् ।
दैवोपलब्धं भुञ्जानो नातियत्नं चरेत् सुखे ॥ सत्व्त्_8.25
गृहेष्व् अतिथिवत् तिष्ठेद् यद्य् एतान् नैव बाधते ।
एषां बाधे पृथक् तिष्ठेद् वैष्णवेषु च सङ्गवान् ॥ सत्व्त्_8.26
ब्रह्मचारी गृही वापि वानप्रस्थो यतिश् च वा ।
विना वैष्णवसङ्गेन नैव सिद्धिं लभेज् जनः ॥ सत्व्त्_8.27
भक्तसङ्गं विना भक्तिर् नैव जायेत कस्यचित् ।
भक्तिं विना न वैराग्यं न ज्ञानं मोक्षम् अश्नुते ॥ सत्व्त्_8.28
अत आश्रमलिङ्गांश् च हित्वा भक्तेः समं वसेत् ।
यत्सङ्गाच् छ्रुतिकीर्तिभ्यां हरौ भक्तिः प्रजायते ॥ सत्व्त्_8.29
विष्णुभक्तप्रसङ्गस्य निमेषेणापि नारद ।
स्वर्गापवर्गौ न साम्यं किम् उतान्यसुखादिभिः ॥ सत्व्त्_8.30
अतो यत्नेन पुरुषः कुर्यात् सङ्गं हरेर् जनैः ।
तिर्यञ्चो ऽपि यतो मुक्तिं लभन्ते किमु मानुषाः ॥ सत्व्त्_8.31
तत्सङ्गेनैव पुरुषो विष्णुं प्राप्नोति निश्चितम् ।
विना वैराग्यज्ञानाभ्यां यतो विष्णुस् तदन्तिके ॥ सत्व्त्_8.32
येषां सङ्गाद्धरेः सङ्गं सकृद् आकर्ण्य मानवः ।
परित्यक्तुं न शक्नोति यदि भद्रसरिद् भवेत् ॥ सत्व्त्_8.33
अरसज्ञो ऽपि तत्सङ्गं यदि याति कथंचन ।
भूत्वा रसज्ञो ऽपि महान् कर्मबन्धाद् विमुच्यते ॥ सत्व्त्_8.34
ततस् तद्धर्मनिरतो भगवत्य् अमलात्मनि ।
प्राप्नोति परमां भक्तिं सर्वकामप्रदायिनीम् ॥ सत्व्त्_8.35
भक्तिं विदित्वा पुरुषो मुक्तिं नेच्छति कश्चन ।
सालोक्यादिपदं चापि किमु चान्यसुखं द्विज ॥ सत्व्त्_8.36
फलं विना विष्णुभक्ता मुक्तिं यान्ति द्विजोत्तम ।
तत एव विदुर् नान्य आनन्दमयम् उत्तमम् ॥ सत्व्त्_8.37
यतो हरिर् लिखितवत् हृदये वर्तते सदा ।
तेषां प्रेमलताबद्धः परमानन्दविग्रहः ॥ सत्व्त्_8.38
सात्वततन्त्र, नवमः पटलः
श्रीनारद उवाच ।
इयान् गुणो ऽस्ति देवेश भगवत्पादसेवने ।
कुतो भजन्ति मनुजो अन्यदेवं किम् इच्छया ॥ सत्व्त्_9.1
श्रीशिव उवाच ।
यदादिसत्ये विप्रेन्द्र नरा विष्णुपरायणाः ।
न यजन्ति विना विष्णुम् अन्यदेवं कथंचन ॥ सत्व्त्_9.2
तदात्मपूजाप्राप्त्यर्थं सर्वदेवमयं च वै ।
पूजयामो हृषीकेशं कायवाङ्मनसा द्विज ॥ सत्व्त्_9.3
तदा तुष्टो विभुः प्राह देवदेवो रमेश्वरः ।
अवतीर्य यजिष्यामि युष्मांल् लोकांश् च याजयन् ॥ सत्व्त्_9.4
ततः सर्वे जना युष्मान् यजिष्यन्ति समाहिताः ।
अनेन पूजा युष्माकं भविष्यति सुखावहा ॥ सत्व्त्_9.5
अहं चोक्तः पृथक् तेन श्रीनिवासेन ब्राह्मण ।
कल्पितैर् आगमैर् नित्यं मां गोपाय महेश्वर ॥ सत्व्त्_9.6
मदवज्ञापापहरं नाम्नां सहस्रम् उत्तमम् ।
पठिष्यसि सदा भद्रं प्रार्थितेन मया पुनः ॥ सत्व्त्_9.7
ततो मे ह्य् आगमैः कृष्णम् आच्छाद्य न तु देवताः ।
यन्त्रैर् मन्त्रैश् च तन्त्रैश् च दर्शिताः फलदा द्विज ॥ सत्व्त्_9.8
तैर् आगमैर् मन्दधिया हित्वा कृष्णं जगद्गुरुम् ।
भजन्ति देवता अन्या बलिदानेन नित्यशः ॥ सत्व्त्_9.9
नाना देवान् समाराध्य नानाकामसुखेच्छया ।
भोगावसाने ते यान्ति नरकं स्वतमोमयम् ॥ सत्व्त्_9.10
दृष्ट्वा तथाविधां लोकान् पापाशङ्कितमानसः ।
गतो ऽहं वासुदेवस्य चरणे शरणं द्विज ॥ सत्व्त्_9.11
स्तुतिं च चक्रे प्रणतः प्रश्रयानतकंधरः ।
समाहितमना विप्र प्राञ्जलिः पुरुषोत्तमम् ॥ सत्व्त्_9.12
ओं नमो ऽस्तु कृष्णाय विकुण्ठवेधसे त्वत्पादलीलाश्रयजीवबन्धवे ।
सदाप्तकामाय महार्थहेतवे विज्ञानविद्यानिधये स्वयम्भुवे ॥ सत्व्त्_9.13
एको ऽसि सृष्टेः पुरतो लये तथा युगादिकाले च विदां समक्षतः ।
अन्यत्र नानातनुभिर् विराजते तस्मा अनन्ताचरिताय ते नमः ॥ सत्व्त्_9.14
प्रधानकालाशयकर्मसाक्षिणे तत्संग्रहापारविहारकारिणे ।
कृष्णाय नानातनुम् ईयुषे समे कृतानुरागाय नमो नमस् ते ॥ सत्व्त्_9.15
शृण्वन्ति गायन्ति गृणन्ति ये यशो जगत्पवित्रं जगदीशितुस् तव ।
ते ऽन्यं न पश्यन्ति सुखाय ह्य् आत्मनो विना भवत्पादनिषेवणाद् बहिः ॥ सत्व्त्_9.16
निष्किंचना ये तव पादसंश्रयाः पुष्णन्ति ते तत् सुखम् आत्मसम्भवम् ।
जानन्ति तत्त्वेन विदुस् ततः पराः कामैः समाकृष्टधियो विचक्षणाः ॥ सत्व्त्_9.17
अहं तु साक्षात् तव पादपङ्कजं नित्यं भजानो ऽपि पृथङ्मतिर् विभो ।
पुरात्ममानं प्रचिकीर्षुर् आत्मनः सकाशतो ऽप्य् अद्य मलं निकृन्तयन् ॥ सत्व्त्_9.18
अथापि ते देव पदाम्बुजद्वयं निकामलाभाय सदास्तु मे हरेः ।
यच् चिन्तनात् सर्वमनोऽनुकूलात् सिद्धिर् भवत्य् एव किमु प्रकीर्तनात् ॥ सत्व्त्_9.19
इति मे संस्तुतिं ज्ञात्वा भगवान् प्रणतार्तिहा ।
ममाक्षिगोचरं रूपम् अकरोत् स दयापरः ॥ सत्व्त्_9.20
सान्द्रानन्दमहेन्द्रनीलमणिवद् देहोद्गतप्रोल्लसत्स्वर्णैर् मौलिषु हारकुण्डलयुगैः केयूरकाञ्च्यङ्गदैः ।
मञ्जीरैर् विलसत्पिशङ्गवलयं लक्ष्म्याङ्कितं शाश्वतम् सर्वेशं करुणाकरं सुरवरैर् भक्तैः समासेवितम् ॥ सत्व्त्_9.21
दृष्ट्वा तत्पदपङ्कजं हृदि दधे गोविन्ददामोदरश्रीकृष्णेति मुखैर् वदन् त्रिजगतो भर्तुर् मुदाहं तदा ।
नेत्रैर् निर्झरवारिपूरम् इव मे गात्रे च हर्षस् ततो वाण्यां गद्गदतां विलोक्य भगवान् माम् आह भक्तप्रियः ॥ सत्व्त्_9.22
ज्ञतां मे सुरवर्य वाञ्छिततरां मद्भक्तसङ्गावलिं तत् ते ऽहं प्रवदामि ते करुणया भक्ताय साकं वरैः ।
मल्लीलां गदतो भविष्यति भवत्सर्वे जना वैष्णवाः ।
भार्या चापि तयानुकूलसुखदा भक्ताग्रणीर् मे भवान् ॥ सत्व्त्_9.23
एतावद् उक्त्वा भगवान् गतो लोकम् अलौकिकम् ।
अहं च तान् वरांल् लब्ध्वा कृतार्थो ऽस्मि द्विजर्षभ ॥ सत्व्त्_9.24
अतस् तद् दिनम् आरभ्य पार्वती भुवनेश्वरी ।
मत्सङ्गाद् वैष्णवी भूत्वा माम् आपृच्छत् सुरेश्वरी ॥ सत्व्त्_9.25
भवान् महाभागवतः कुमाराद्या महेश्वराः ।
कुबेराद्या देवताश् च नन्दीशाद्याश् च मे गणाः ॥ सत्व्त्_9.26
पृथक् पृथग् अपृच्छन् मा कृष्णपादाम्बुजाश्रयाः ।
कथाः परमकल्याणीः सर्वलोकैकपावनीः ॥ सत्व्त्_9.27
अथ मां पृच्छती वाक्यं मद्वाक्यं च द्विजोत्तम ।
संलिखत्य् अप्रमत्तो ऽसौ गणेशो मत्सुतो ऽन्तिके ॥ सत्व्त्_9.28
मम तेषां च संवादं कला लोकमनोहराः ।
अभवंस् तत्र शास्त्राणि सर्वलोकहितानि वै ॥ सत्व्त्_9.29
तानि तन्त्राणि श्रोतारः समानीय महीतले ।
स्थाने स्थाने मुनिश्रेष्ठ कथयिष्यन्ति भूरिशः ॥ सत्व्त्_9.30
त्वम् अप्य् एनं सात्वताख्यं तन्त्रं भगवतः प्रियम् ।
नैमिषे शौनकादीनां समक्षं कथयिष्यसि ॥ सत्व्त्_9.31
श्रीनारद उवाच ।
श्रुतं भगवतो वक्त्रात् तन्त्रं सात्वतम् उत्तमम् ।
तस्मिन् हिंसानिषेधं च श्रुत्वा मे संशयो ऽभवत् ॥ सत्व्त्_9.32
वेदेन विहिता हिंसा पशूनां यज्ञकर्मणि ।
यज्ञे वधो ऽवधश् चैव वेदविद्भिर् निरूपितः ॥ सत्व्त्_9.33
तन्निषेधे कथं श्रौतं स्मार्तं कर्म महेश्वर ।
वर्तेत सर्वलोकस्य इहामुत्रफलप्रदम् ॥ सत्व्त्_9.34
श्रीशिव उवाच ।
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वर्णितम् ।
श्रुत्या स्मृत्या च विप्रेन्द्र काम्यं कामिजनाय वै ॥ सत्व्त्_9.35
प्रवृत्तम् अविरोधेन कुर्वन् स्वर् याति मानवः ।
पुण्यावशेषे भूपृष्ठे कर्मसंज्ञिषु जायते ॥ सत्व्त्_9.36
निवृत्तम् आचरन् योगी भोगेच्छात्यक्तमानसः ।
प्रयाति परमां सिद्धिं यतो नावर्तते गतः ॥ सत्व्त्_9.37
अतः प्रवृत्तिनिष्ठस्य नानाकामानुरागिणः ।
षड्विधैर् नियमैर् विप्राभ्यनुज्ञैव प्रदर्शिता ॥ सत्व्त्_9.38
विधिर् नैवास्ति हिंसायाम् अभ्यनुज्ञा यतः कृता ।
अतो निवृत्तिहिंसायां यज्ञे ऽपि कथिता बुधैः ॥ सत्व्त्_9.39
अहिंसा परमो धर्मः सर्ववर्णाश्रमादितः ।
स च आचारतो न्णाम् अभीष्टफलदो भवेत् ॥ सत्व्त्_9.40
विशेषतो विष्णुभक्ता हिंसाकर्म त्यजन्ति हि ।
अहिंसया हि भूतानां भगवान् आशु तुष्यति ॥ सत्व्त्_9.41
अतः सर्वेषु भूतेषु भगवान् अखिलेश्वरः ।
प्रविष्ट ईयते नानारूपैः स्थावरजङ्गमैः ॥ सत्व्त्_9.42
मयापि ह्य् आगमे हिंसा विहिता या विधानतः ।
सापि कामुकलोकानां कामिताफलसिद्धये ।
विष्णुभक्ता न वाञ्छन्ति मत्तो ऽपि कियद् एव हि ।
अतस् तेषां विधाने ऽपि हिंसा निन्द्या प्रकीर्तिता ॥ सत्व्त्_9.43
अतस् त्वं काम्यकर्माणि परित्यज्य विशेषतः ।
श्रूयाः कृष्णकथाः पुण्याः सर्वलोकेष्टसिद्धिदाः ॥ सत्व्त्_9.44
प्रवृत्तशास्त्रं शृणुयाद् यच् छ्रुत्वा तत्परो भवेत् ।
निवृत्ते ऽपि हरेर् भक्तियुतं मुख्यं प्रकीर्तितम् ॥ सत्व्त्_9.45
विशेषतः कृष्णलीलाकथा लोकसुमङ्गलाः ।
कीर्तयस्व द्विजश्रेष्ठ श्रूयाश् चैव निरन्तरम् ॥ सत्व्त्_9.46
हित्वान्यदेवशरणं भजनं च विशेषतः ।
ये भजन्ति हरेः पादं कृष्णैकशरणं नराः ॥ सत्व्त्_9.47
इहामुत्र ते नित्यं कृतार्था भगवत्प्रियाः ।
परमानन्दसंदोहं प्राप्नुवन्ति निरन्तरम् ॥ सत्व्त्_9.48
ये तु नैवंविदो ऽशान्ता मूढाः पण्डितमानिनः ।
यजन्त्य् अविरतं देवान् पशून् हत्वा सुखेच्छया ॥ सत्व्त्_9.49
कामभोगावसाने तं ते च्छेत्स्यन्ति विनिश्चितम् ।
इत्य् एतत् कथितं विप्र तन्त्रं सात्वतम् उत्तमम् ॥ सत्व्त्_9.50
विष्णुभक्तजनाजीव्यं सर्वसिद्धिप्रदायकम् ।
श्रवणात् कीर्तनाद् अस्य कृष्णे भक्तिर् हि जायते ॥ सत्व्त्_9.51
भक्तिं लब्धवतः साधो किम् अन्यद् अवशिष्यते ।
यतो भगवता प्रोक्तं तस्य भक्तिविवर्धनम् ॥ सत्व्त्_9.52
तन्त्रे ऽस्मिन् कथितं विप्र विश्वसम्भवम् उत्तमम् ।
अवताराश् च श्रीविष्णोः सम्पूर्णांशकला भिदा ॥ सत्व्त्_9.53
भक्तिभेदाश् च भेदानां लक्षणं च पृथग्विधम् ।
युगानुरूपं श्रीविष्णोः सेवया मोक्षसाधनम् ॥ सत्व्त्_9.54
विष्णोर् नामसहस्रं च नाममाहात्म्यम् उत्तमम् ।
विष्णोर् नाम्ना वैष्णवानाम् अपराधस्य च निष्कृतिः ॥ सत्व्त्_9.55
सर्वसाररहस्यं च तन्त्रोत्पत्तेश् च कारणम् ।
हिंसाविधिनिषेधं च तव प्रश्नानुसारतः ॥ सत्व्त्_9.56
यन् नामैकं कर्णमूलं प्रविष्टं वाचान्विष्टं चेतनासु स्मृतं वा ।
दग्ध्वा पापं शुद्धसत्त्वात् तद्देहं कृत्वा साक्षात् संविधत्ते ऽनवद्यम् ।
तस्माद् अनन्ताय जनार्दनाय वेदेरितानन्तगुणाकराय ।
महानुभावाय निरञ्जनाय नित्यात्मलाभाय नमो नमस् ते ॥ सत्व्त्_9.57
मूल पाठ: Sātvatatantra · Edition: A. Phadke, Benares : Chowkhamba Sanskrit Series Office, 1934 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0