भाषा

ENहिગુ
ग्रंथ पाठ

Satsamdarbha · अध्याय 6

6.1

[189]
[पगे 112]
अथ तासां नामानि श्रूयन्ते भविष्योत्तरे मल्ल-द्वादशी-प्रसङ्गे श्री-
कृष्ण-युधिष्ठिर-संवादे -
गोपी-नामानि राजेन्द्र प्राधान्येन निबोध मे ।
गोपाली पालिका धन्या विशाखा ध्यान-निष्ठिका ।
राधानुराधा सोमाभा तारका दशमी तथा ॥ इति ।
दशम्य् अपि तारका-नाम्न्य् एवेत्य् अर्थः । स्कान्दे प्रह्लाद-संहितायां
द्वारका-माहात्म्ये मय-निर्मित-सरः-प्रस्तावे श्री-ललितोवाचेत्य् आदिना --
ललिता श्यामला धन्या विशाखा राधा शैव्या पद्मा भद्रेत्य् एतान्य् अष्टैव
गृहीतानि ।
अथ वर्णिता-शत-कोटिभिर् इत्य् आगम-प्रसिद्धेर् अन्यान्य् अपि लोक-शास्त्रयोर्
अवगन्तव्यानि । अत्र शत-कोटित्वान्यथानुपपत्त्य्-आदिना तासां तन्-महा-
शक्तित्वम् एवावगम्यते ।
तद् एवं परम-मधुर-प्रेम-वृत्ति-मयीषु तास्व् अपि तत्-सारांशोद्रेक-
मयी श्री-राधिका तस्याम् एव प्रेमोत्कर्ष-पराकाष्ठाया दर्शितत्वात् प्रीति-
सन्दर्भे दर्शयिष्यमाणत्वाच् च । यत्र च तत्-प्रेम-वैशिष्ट्यं तत्रैव ।
यस्यास्ति भक्तिर् भगवत्य् अकिञ्चन [भ्प् 5.18.12] इत्य् आदिवत् सर्वा अप्य्
ऐश्वर्यादि-रूपा अन्याः शक्तयो नात्यादृता अप्य् अनुगच्छन्तीति श्री-वृन्दावने
श्री-राधिकायाम् एव स्वयं-लक्ष्मीत्वम् ।
अतएव सतीष्व् अन्यास्व् अपि मुख्याभिप्रायेणैव तस्या एव
वृन्दावनाधिपत्येन नाम-ग्रहणम् । यथा पाद्मे कार्त्तिक-माहात्म्ये
शौनक-नारद-संवादे -
वृन्दावनाधिपत्यं च दत्तं तस्यै प्रत्युष्यता ।
कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने ॥ [पद्मप् 5.77.39] इत्य् अनेन ।
अन्यत्र साधारणे देशे देव्य् एवाधिकारिणी श्री-वृन्दावनाभिधे वने तु
श्री-राधिकैवेत्य् अर्थः । एवं स्कान्दे -
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
रुक्मिणी द्वारवत्यां च राधा वृन्दावने वने ॥ इति ।
तथा मात्स्येऽपि । शक्तित्व-मात्र-साधारण्येनैव लक्ष्मी-सीता-रुक्मिणी-
राधा-नामापि देव्या सह गणनम् । वैशिष्ट्यं तु लक्ष्मीवत् सीतादिष्व् अपि
ज्ञेयम् । तस्मान् न देव्या सह लक्ष्म्य्-आदीनाम् ऐक्यम् । श्री-राम-तापनी-
श्री-गोपाल-तापन्य्-आदौ तासां स्वरूप-भूतत्वेन कथनात् । श्री-राधिकायाश्
च यामले पूर्वोदाहृत-पद्य-त्रयानन्तरम् --
भुज-द्वय-युतः कृष्णो न कदाचिच् चतुर्-भुजः ।
गोप्यैकया युतस् तत्र परिक्रीडति सर्वदा ॥ इति ।
अत्र वृन्दावन-विषयक-तत्-सहित-सर्वदा-क्रीडित्व-लिङ्गावगतेन
परस्पराव्यभिचारेण स्वरूप-शक्तित्वम् । सतीष्व् अप्य् अन्यासु एकया इत्य् अनेन
(पगे 113) तत्रापि पर-मुख्यात्वम् अभिहितम् ।
[वृ. ओमित्स् fरोम् अतएव सतीष्व् अन्यासु अन्द् एन्दिन्ग् अभिहितम्, अन्द् हस् इन्स्तेअद् -
यत् तु मात्स्ये देव्या दक्षं प्रति -
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ।
देवकी मथुरायां तु पाताले परमेश्वरी ।
चित्रकुटे यथा सीता विन्ध्ये विन्ध्य-वासिनी ॥
इत्य् आदिना स्वरूप-शक्ति-व्यूह-रुक्मिणी-राधा-देवकी-सीतानां मायांश-
रूपेण स्वेन सहाभेद-कथनं तत् खलु यथा देवेन्द्रः प्रतर्दनं प्रति
प्राणोऽस्मि प्रज्ञात्मा इत्य् आदिकम् । यथा वा वासुदेवश् चाहं मनुर् अभवं
सूर्यश् च इत्य् आदिकं परमात्मना सहाभेदं मत्वावादीति । न वक्तुर्
उपदेशादि वेदान्त-सूत्रेषु शास्त्र-दृष्ट्या तूपदेशो वाम-देववत् [व्स्. 1.1.30]
इत्य् अनेन विचारितम् तद्वद् इहापीति गम्यते । शास्त्रं खलु चतुर्धा
परावरयोर् अभेदं दर्शयति यथा - तत्त्वम् असि इति परमात्मा-जीअयोश् चित्-
साम्येन, यथा सर्वं समाप्नोषि ततोऽसि सर्वः [गीता 11.40] इत्य्
अधिष्ठानाधिष्ठात्रोर् अभेदोपचारेण । यथा वा रामोऽहम् इत्य् आदिकम्
अहङ्ग्रहोपासनेनेति । यत्रापि यथास्वं मन्तव्यम् । विशेषतः श्री-
राधायाः स्वयं लक्ष्मीत्वम् । [एन्द् वृ. अद्दितिओन्]
तथा च बृहद्-गौतमीये श्री-बलदेवं प्रति श्री-कृष्ण-वाक्यम् -
सत्त्वं तत्त्वं परत्वं च तत्त्व-त्रयम् अहं किल ।
त्रि-तत्त्व-रूपिणी सापि राधिका मम वल्लभा ॥
प्रकृतेः पर एवाहं सापि मच्-छक्ति-रूपिणी ।
सात्त्विकं रूपम् आस्थाय पूर्णोऽहं ब्रह्म-चित्-परः ॥
ब्रह्मणा प्रार्थितः सम्यक् सम्भवामि युगे युगे ।
तया सार्धं त्वया सार्धं नाशाय देवता-द्रुहाम् ॥ इत्य् आदि ।
सत्त्वं कार्यत्वं तत्त्वं कारणत्वं ततोऽपि परत्वं चेति यत् तत्त्व-त्रयं तद्
अहम् इत्य् अर्थः । अतएव श्री-राधिका-प्रसङ्गे तत्-पुरतोऽपि -
देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता ।
सर्व-लक्ष्मी-मयी सर्व-कान्तिः संमोहिनी परा ॥ इति ।
ऋक्-परिशिष्ट-श्रुतिश् च तथैवाह - राधया माधवो देवो माधवेनैव
राधिका । विभ्राजन्ते जनेष्व् आ । विभ्राजन्ते विभ्राजते । आ सर्वत इति श्रुति-
पदार्थः ।
[वृ अद्द्स्: अतएव तस्याः सर्वोत्तमत्वं सौभाग्यातिशयत्वं चादि-वाराहे तत्-
कुण्ड-प्रसङ्गे द्रष्टव्यम् । श्री-भागवते अनयाराधितो नूनम् इत्य् आदौ
च । [एन्द् वृ अद्दितिओन्.]
एतत् सर्वम् अभिप्रेत्य मूर्धण्य-श्लोके तादृशोऽप्य् अर्थः सन्दधै ।
तत्र तयोर् महा-महैश्वर्य-प्रतिपादकोऽर्थः पूर्ववत् स्वयम्
अनुसन्धेयः । परम-माधुरी-प्रतिपादकोऽर्थस् तु यथा जन्माद्य् अस्य
इति ।
यतोऽन्वयाद् अनुगच्छति सदा निज-परमानन्द-शक्ति-रूपायां तस्यां श्री-
राधायाम् आसक्तो भवतीत्य् अन्वयः श्री-कृष्णस् तस्माद् यस्मात् तथा इतरत
इतरस्याश् च तस्य सदा द्वितीयायाः श्री-राधाया एव । यतो यस्या आद्यस्यादि-
रसस्य जन्म प्रादुर्भावः याव् एवादि-रस-विद्यायाः परम-निधानम् इत्य्
अर्थः । अतएव तयोर् अत्यद्भुत-विलास-माधुरी-धुरीणताम् उद्दिशति
योऽर्थेषु तत्-तद्-विलास-कलापेषु अभिज्ञो विदग्धः । या च स्वेन तथा-
विधेनात्मना राजते विलासतीति स्वराट् ।
अतएव सर्वतोप्य् आश्चर्य-रूपयोस् तयोर् वर्णने मम तत्-कृपैव सामग्रीत्य्
आह आदि-कवये प्रथमं तल्-लीला-वर्णनम् आरभमाणाय मह्यं श्री-
वेद-व्यासाय हृदा अन्तः-करण-द्वारैव ब्रह्म निज-लीला-प्रतिपादकं
शब्द-ब्रह्म यस् तेने । आरम्भ-सम-कालम् एव युगपत् सर्वम् इदं महा-
पुराणं मम हृदि प्रकाशितवान् इत्य् अर्थः । एतच् च प्रथमस्य स्पत्म एव
व्यक्तम् । यद् यस्यां च सूरयः शेषादयोऽपि मुह्यन्ति स्वरूप-सौन्दर्य-
गुणादिभिः अत्यद्भुता केयम् इति निर्वक्तुम् आरब्धा निशेतुं न शक्नुवन्ति ।
एवं भूत्वा सा यदि कृपां नाकरिष्यत् तदा लब्ध-माधव-तादृश-
कृपस्यापि मम -
तैस् तैः पदैस् तत्पदवीम् अन्विच्छन्त्यो ऽग्रतो ऽबलाः ।
वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् ॥ [भ्प् 10.30.26]
इत्य् आदिना तस्या लीला-वर्णन-लेशोऽपि साहस-सिद्धिर् असौ नाभविष्यद् एवेति
भावः । तयोर् आश्चर्य-रूपत्वम् एव व्यनक्ति तेजो-वारि-मृदां चैतन्यानाम्
अपि यथा येन प्रकारेण विनिमयः परस्परं स्वभाव-विपर्ययोर् भवति
तथा यो विभ्राजित इति शेषः । वाक्य-शेषं च भावाभिभूतत्वेन न वक्तुं
शक्तवान् इति गम्यते ।
तत्र तेजसश् चन्द्रादेस् तत्-पद-नख-कान्ति-विस्फारतादिना (पगे 114) वारि-
मृद्वन् निस्तेजस्त्व-धर्मावाप्तिः । वारिणो नद्यादेश् च तत्-संसर्ग-वंशी-

वाद्यादिना वह्न्य्-आदि-तेजोवद् उच्छूनता-प्राप्तिः पाषाणादि-मृद्वच् च
स्तम्भ-प्राप्तिः । मृदश् च पाषाणादेस् तत्-कान्ति-कन्दईल्-च्छुरित्वेन तेजोवद्
उज्ज्वलता-प्राप्तिर् वंशी-वाद्यादिना वारिवच् च द्रवता-प्राप्तिर् इति ।
तद् एतत् सर्वं तस्य लीला-वर्णने प्रसिद्धम् एव । यत्र यस्यां च
विद्यमानायां तिर्-धाम-सर्गः श्री-भू-लीलेति-शक्ति-त्रयी-प्रादुर्भावो वा ।
द्वारका-मथुरा-वृन्दावनानीती-स्थान-त्रय-गत-शक्ति-वर्ग-त्रय-
प्रादुर्भावो वा । वृन्दावने एव रस-व्यवहारेण सुहृद्-उदासीन-प्रतिपक्ष-
नायिका-रूप-त्रि-भेदानां सर्वासाम् अपि व्रज-देवीनाम् एव प्रादुर्भावो वा
मृषा मिथ्यैव । यस्याः सौन्दर्यादि-गुण-सम्पदा तास् ताः कृष्णस्य न
किञ्चिद् इव प्रयोजनम् अर्हन्तीत्य् अर्थः । तद्-धीमहीति यच्-छब्द-लब्धेन
तच्-छब्देनान्वयः । परम-भक्ति-शक्तिमत्त्वेनातिशायित-महाभाव-रसेन
वा परस्पर-भिन्नतां गतयोर् ऐक्येनैव विवक्षितं तद् इति । अतएव
सामान्यतया परामर्शान् नपुंसकत्वं च ।
कथम्भूतम् ? स्वेन धाम्ना स्व-स्व-प्रभावेन सदा निरस्तं स्व-लीला-
प्रतिबन्धकानां जरती-प्रभृतीनां प्रतिपक्ष-नायिकानां च कुहकं
माया येन तत् । तथा सत्यं तादृशत्वेन नित्य-सिद्धम् । यद् वा परस्परं
विलासादिभिर् अनवरतम् आनन्द-सन्दोह-दाने कृत-सत्यम् इव जातम् । तत्र
निश्चलम् इत्य् अर्थः । अतएव परम् अन्यत्र कुत्राप्य् अदृष्ट-गुण-लीलादिभिर्
विश्व-विस्मापकत्वात् सर्वतोऽप्य् उत्कृष्टम् । अत्रैकोऽपि धर्मो भिन्न-
वाचकतया वाक्यतो निरिदिष्ट इत्य् उभय-सादृश्यावगमात् प्रतिवस्तूपमा-
नामालङ्कारोऽयम् । इयं च मुहुर् उपमिति-माला-प्रतिवस्तूपमा । तेन तैस्
तैर् गुणैर् मिथो योग्यतया निबद्धत्वात् समनामापि । एतद्-अलङ्कारेण च
अहो परस्परं परस्मात् परम् अपि तन्-मिथुन-भूतं किम् अपि तत्त्वं मिथो
गुण-गण-माधुरीभिः समताम् एव समवाप्तम् इति सकल-जीव-जीवातुर्-
तमरस-पीयूष-धाराधाराधरता-सम्पदा कस्मै वा निज-चरण-कमल-
विलासं न रोचयतीति स्वतः सम्भवि वस्तु व्यज्यते । तद् आहुः -
प्रतिवस्तूपमा सा स्याद् वाक्ययोर् गम्य-साम्ययोः ।
एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ॥ [साह्द् 10.49] इति ।
इयं मालयापि दृश्यते इति । एवं समं स्याद् आनुरूप्येण श्लाघा योग्यस्य
वस्तुन इति । तथा वस्तु वालङ्कृतिर् वापि द्विधार्थः सम्भवी स्वतः । कवेः
प्रौढोक्ति-सिद्धो वा तन्-निबद्धस्य वेति षट् ।
षड्भिस् तैर् व्यज्यमानस् तु वस्त्व्-अलङ्कार-रूपकः ।
अर्थ-शक्त्य्-उद्भवो व्यङ्ग्यो याति द्वादश-भेदताम् ॥ इति ।
तद् उक्तं श्रुत्या - राधया माधवो देवः इत्य् आदिना । तद् उक्तम् आदि-पुराणे
वेदान्तिनोऽपि इति पद्यानन्तरम् -
अहम् एव परं रूपं नान्यो जानाति कश्चन ।
जानाति राधिका पार्थ अंशान् अर्चन्ति देवताः ॥ इति ।
तयोर् नित्य-विलासस् त्व् इत्थं यथा वर्णितोऽस्मद्-उपजीव्य-चरणाम्बुजैः --
वाचा सूचित-शर्वरी-रति-कला-प्रागल्भ्यया राधिकां
व्रीडा-कुञ्चित-लोचनां विरचयन्न् अग्रे सखीनाम् असौ ।
तद्-वक्षो-रुह-चित्र-केलि-मकरी-पाण्डित्य-पारं गतः
कैशोरं सफली-करोति कलयन् कुञ्जे विहारं हरिः ॥ इति [ब्र्स् 2.1.231] ।
तद् एवं सन्दर्भ-चतुष्टयेन सम्बन्धो व्याख्यातः । तस्मिन्न् अपि
सम्बन्धे श्री-राधा-माधव-रूपेणैव प्रादुर्भावस् तस्य सम्बन्धिनः
परमः प्रकर्षः । तद् उक्तं श्रुत्या राधया माधवो देव इति । एतद्-
अर्थम् एव व्यतानिषमिमाः सर्वा अपि परिपाटीर् इति पूर्णः सम्बन्धः ।
गौर-श्याम-रुचोज्ज्वलाभिर् अमलैर् अक्ष्णोर् विलासोत्सवैर्
नृत्यन्तीभिर् अशेष-मादन-कला-वैदग्ध्य-दिग्धात्मभिः ।
अन्योन्य-प्रियता-सुधा-परिमल-स्तोमोन्मदाभिः सदा
राधा-माधव-माधुरीभिर् अभितश् चित्तं ममाक्राम्यताम् ॥
इति श्री-कलि-युग-पावन-स्व-भजन-विभाजन-प्रयोजनावतार-श्री-श्री-
भगवत्-कृष्ण-चैतन्य-देव-चरणानुचर-विश्व-वैष्णव-राज-सभाजन-
भाजन-श्री-रूप-सनातनानुशासन-भारती-गर्भे श्री-भागवत-सन्दर्भे
श्री-कृष्ण-सन्दर्भो नाम चतुर्थः सन्दर्भः ॥
श्री-भागवत-सन्दर्भे सर्व-सन्दर्भ-गर्भ-गे ।
श्री-कृष्ण-सन्दर्भ-नामा सन्दर्भोऽभूच् चतुर्थकः ॥
समाप्तोऽयं श्री-कृष्ण-सन्दर्भः ॥
[*एन्द्नोते #1] ... इतिओन् दोएस् नोत् हवे थे सेचोन्द् अन्द् fओउर्थ् लिनेस् ओf थे
सेचोन्द् स्तन्zअ.
[*एन्द्नोते #2] भगवान् वासुदेवश् च कीर्त्यते ऽत्र सनातनः
स हि सत्यम् ऋतं चैव पवित्रं पुण्यम् एव च
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम्
[*एन्द्नोते #3] थिस् पोर्तिओन् उप् तो थे एन्द् ओf थे परग्रफ् इस् मोस्त्ल्य्
ओमित्तेद् इन् वृ.
[*एन्द्नोते #4] थे सेचोन्द् लिने इस् नोत् fओउन्द्.
[*एन्द्नोते #5] 109.53 इन् थे च्रितिचल् एदितिओन्. थे लिने रेअद्स् थेरे:
देवतार्थं वयं चापि मानुषत्वम् उपागताः.
[*एन्द्नोते #6] थे व्. एदितिओन् हस् कूर्म-पुराणे व्यास-गीतायां सद्-
आचार-प्रसङ्गे पतिव्रता-माहात्म्ये. छत्तेर्जेए qउओतेस् थे fओल्लोwइन्ग् वेर्से
fरोम् अग्नि पुरन - सीतया राधितो वह्निश् छाया-सीताम् अजीजनत् । तां जग्राह
दश-ग्रीवः सीता वह्नि-पुरं गता ॥
श्री-भक्ति-सन्दर्भः
तौ सन्तोषयता सन्तौ श्रील-रूप-सनातनौ ।
दाक्षिणात्येन भट्टेन पुनर् एतद् विविच्यते ॥ओ॥
तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ओ॥
[1]
तत्र पूर्व-सन्दर्भ-चतुष्टयेन सम्बन्धो व्याख्यातः । तत्र पूर्ण-
सनातन-परमानन्द-लक्षण-पर-तत्त्व-रूपं सम्बन्धि च ब्रह्म
परमात्मा भगवान् इति त्रिधाविर्भावतया शब्दितम् इति निरूपितम् । तत्र च
भगवत्त्वेनैवाविर्भावस्य परमोत्कर्षः प्रतिपादितः । प्रसङ्गेन विष्ण्व्-
आद्याश् चतुः-सनाद्याश् च तद्-अवतारा दर्शिताः । स च भगवान् स्वयं श्री-
कृष्ण एव इति निर्धारितम् ।
परमात्म-वैभव-गणने च तटस्थ-शक्ति-रूपाणां चिद्-एक-रसानाम् अपि
अनादि-पर-तत्त्व-ज्ञान-संसर्गाभावमय-तद्-वैमुख्य-लब्ध-च्छिद्रया
तन्-माययावृत-स्वरूप-ज्ञानानां तयैव सत्त्व-रजस्-तमो-मये जडे
प्रधाने रचितात्म-भावानां जीवानां संसार-दुःखं च ज्ञापितम् । तथा
चोक्तम् एकादशे श्री-भगवता -
आत्मा परिज्ञानमयो विवादो
ह्य् अस्तीति नास्तीति भिदात्म-निष्ठः ।
व्यर्थोऽपि नैवोपरमेत पुंसां
मत्तः परावृत्त-धियां स्वलोकात् ॥ [भ्प् 11.22.34] इति ।
अतस् तद्-अर्थं परम-कारुणिकं शास्त्रम् उपदिशति । तत्र ये जीवा ये केचित्
जन्मान्तरावृत्त-तद्-अर्थानुभव-संस्कारवतो ये च तदैव वा लब्ध-
महत्-कृपातिशय-दृष्टि-प्रभृतयस् तेषां तादृश-पर-तत्त्व-लक्षण-
वस्तूपदेश-श्रवणारम्भ-मात्रेणैव तत्-कालम् एव युगपद् एव तत्-
साम्मुख्यं तद्-अनुभवोऽपि ज्ञायते । यथोक्तं - किं वा परैर् ईश्वरः
सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् इति [भ्प् 1.1.1] ।
अतस् तेषां नोपदेशान्तरापेक्षा । यादृच्छिकम् उपदेशान्तर-श्रवणं तु तत्-

तल्-लीला-श्रवणवत् तदीय-रसस्यैवोद्दीपकं, यथा श्री-प्रह्लादादीनाम् ।
तथान्येषां तादृशत्वं बीजायमानम् अपि कामादि-वैगुण्येन तद्-इतर-
दोषेणैव प्रतिहतं तिष्ठति ।
[पगे 2]
नैतन् मनस् तव कथासु विकुण्ठ-नाथ
सम्प्रीयते दुरित-दुष्टम् असाधु तीव्रम् ।
कामातुरं हर्ष-शोक-भयैषणार्तं
तस्मिन् कथं तव गतिं विमृशामि दीनः ॥ [भ्प् 7.9.39]
इति दीनं-मन्य-श्री-प्रह्लाद-वचनानुसारेणान्येषाम् एव तत्-प्राप्तेः ।
अतएवोक्तं ब्रह्म-वैवर्ते -
यावत् पापैस् तु मलिनं हृदयं तावद् एव हि ।
न शास्त्रे सत्य-बुद्धिः स्यात् सद्-बुद्धिः सद्-गुरौ तथा ॥
अनेक-जन्म-जनित-पुण्य-राशि-फलं महत् ।
सत्-सङ्ग-शास्त्र-श्रवणाद् एव प्रेमादि जायते ॥ इति ।
ततो मुख्येन तात्पर्येण पर-तत्त्वे पर्यवसितेऽपि तेषां पर-तत्त्वाद्य्-
उपदेशस्य किम् अभिधेयं प्रयोजनं चेत्य् अपेक्षायां तद्-अवान्तर-
तात्पर्येण तद्-द्वयम् उपदेष्टव्यम् । तत्राभिधेयं तद्-वैमुख्य-
विरोधित्वात् तत्-साम्मुख्यम् एव । तच् च तद्-उपासना-लक्षणं यत एव तज्-
ज्ञानम् आविर्भवति । प्रयोजनं च तद्-अनुभवः । स चान्तर्-बहिः-
साक्षात्कार-लक्षणः यत एव स्वयं कृत्स्न-दुःख-निवृत्तिर् भवति ।
तद् एतद् द्वयं यद्यपि पूर्वत्र सिद्धोपदेश एव अभिप्रेतम् अस्ति, यथा तव
गृहे निधिर् अस्ति इति श्रुत्वा कश्चिद् दरिद्रस् तद्-अर्थं प्रयतते लभते च तम्
इति । तद्वत् तथापि तच्-छैथिल्य-निरासाय पुनस् तद्-उपदेशः । तद् एवं तान्
प्रति अनादि-सिद्ध-तज्-ज्ञान-संसर्गाभाव-मय-तद्-वैमुख्यादिकं
दुःख-हेतुं वदन् व्याधि-निदान-वैपरीत्य-मय-चिकित्सा-निभं तत्-
साम्मुख्यादिकम् उपदिशति ।
भयं द्वितीयाभिनिवेशतः स्याद्
ईशाद् अपेतस्य विपर्ययोऽस्म्र्तिः ।
तन्-माययातो बुध आभजेत् तम्
भक्त्यैकयेश गुरुदेवतात्मा ॥ [भ्प् 11.2.37]
टीका च - ननु किम् एवं परमेश्वर-भजनेनाज्ञान-कल्पित-भयस्य
ज्ञानैक-निवर्तकत्वादित्याशङ्क्याह भयम् इति । यतो भयं तन्-मायया
भवेत् ततो बुद्धिमान् तम् एव आभजेद् उपासीत । ननु भयं
द्वितीयाभिनिवेशत`य् स्यात् । स च देहाद्य्-अहङ्कारतः । स च
स्वरूपास्फुरणात् किम् अत्र तस्य माया करोति । अत आह ईशाद् अपेतस्येति । ईश-
विमुखस्य तन्-मायया अस्मृतिः स्वरूप-स्फूर्तिर् भवति ततो विपर्ययो
देहोऽस्मीति । ततो द्वितीयाभिनिवेशाद् भयं भवति । एवं हि प्रसिद्धं
लौकिकीष्व् अपि मायासु । उक्तं च भगवता --
दैवी ह्य् एषा गुणमयी मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ [गीता 7.14] इति । [पगे 3]
एकया अव्यभिचारिण्या भजेत् । किं च गुरु-देवतात्मा गुरुर् एव देवता ईश्वर
आत्मा प्रेष्ठश् च यस्य तथादृष्टिः सन्न् इत्य् अर्थः । इत्य् एषा ॥
॥11.2॥ कविर् विदेहम्

6.2

[2]
किं च -
एवं स्व-चित्ते स्वत एव सिद्ध
आत्मा प्रियोऽर्थो भगवान् अनन्तः ।
तं निर्वृतो नियतार्थो भजेत
संसार-हेतूपरमश् च यत्र ॥ [भ्प् 2.2.6]
टीका च - तदा अनेन किं कर्तव्यं, हरिस् तु सेव्य इत्य् आह । एवं विरक्तः सन्
तं भजेत । भजनीयत्वे हेतवः - स्वचित्ते स्वत एव सिद्धः । यत आत्मा
अतएव प्रियः । प्रियस्य च सेवा सुखरूपैव । अर्थः सत्यः । न तु अनात्मवत्
मिथ्या । भगवान् भजनीय-गुणश् च अनन्तश् च नित्यः । यत एवम्भूतस्
तं भजेत । नियतार्थश् निश्चित-स्वरूपः । भगवद्-अनुभवानन्देन
निर्वृतः सन्, इति स्वतः सुखात्मकत्वं दर्शितम् । किं यत्र यस्मिन् भजने
सति संसार-हेतोर् अविद्याया उपरमो नाशो भवति इत्य् एषा । अत्र च-कारात् तत्-
प्राप्तिर् ज्ञेया ॥
॥2.2॥ श्री-शुकः

6.3

[3]
तत्र यद्यपि श्रवण-मननादिकं ज्ञान-साधनम् अपि तत्-साम्मुख्यम्
एव । ब्रह्माकारस्यानुभव-हेतुत्वात्, अतएव तत्-परम्परोपयोगित्वात्
साङ्ख्याष्टाङ्गयोग-कर्माण्य् अपि तत्-साम्मुख्यान्य् एव । तथा तेषां
कथञ्चिद् भक्तित्वम् अपि जायते । कर्मणस् तद्-आज्ञा-पालन-रूपत्वेन तद्-
अर्पितत्वादिना च करणात् । ज्ञानादीनां चान्यत्रानासक्ति-हेतुत्वादि-द्वारा
भक्ति-सचिवतया विधानात् तथापि पूर्वं भक्त्या भजेतेत्य् अनेन कर्म-
ज्ञानादिकं नादृतं किन्तु साक्षाद्-भक्त्या श्रवण-कीर्तनादि-लक्षणयैव
भजेत इत्य् उक्तम् । तथैव सहेतुकं श्री-सूतोपदेशोपक्रमत एव दृश्यते ।
यथाह द्वाविंशत्या - स वै इत्य्-आदिना अतो वै कवय इत्य् अन्तेन ग्रन्थेन -
स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे ।
अहैतुक्य् अप्रतिहता ययात्मा सुप्रसीदति

6.23

[भ्प् 1.2.6]
यत् खलु महा-पुराणारम्भे पृष्टं सर्व-शास्त्र-सारम् ऐकान्तिकं श्रेयो
ब्रूहीति तत्रोत्तरं स वै इत्य्-आदि । यतो धर्माद् अधोक्षजे भक्तिस् तत्-कथा-
श्रवणादिषु रुचिर् भवति । धर्मः स्वनुष्ठित इत्य्-आदौ [भ्प् 1.2.8]
व्यतिरेकेण दर्श्यैष्यमाणत्वात् । स वै स एव स्वनुष्ठितस्य धर्मस्य
संसिद्धिर् हरि-तोषणम् इति [भ्प् 1.2.13] वक्ष्यमाण-रीत्या तत्-सन्तोषार्थम्
एव कृतो धर्मः परः सर्वतः श्रेष्ठः न निवृत्ति-मात्र-लक्षणोऽपि,
वैमुख्याविशेषात् । तथा च श्री-नारद-वाक्यम् - नैष्कर्म्यम् अप्य् अच्युत-
भाव-वर्जितम् इत्य्-आदौ कुतः पुनः शश्वद् अभद्रम् ईश्वरे न चार्पितं
कर्म यद् अप्य् अकारणम् इति [भ्प् 1.5.12] । अतो वक्ष्यते अतः पुम्भिर् इत्य् [भ्प्
1.2.13] आदि । ततः स एवैकान्तिकं श्रेयः इत्य् अर्थः । अनेन भक्तेस् तादृश-
धर्मतोऽपि अतिरिक्तत्वम् । तस्याः भक्तेः स्वरूप-गुणम् आह, स्वत एव
सुख-रूपत्वाद् अहैतुकी फलान्तरानुसन्धान-रहिता । अप्रतिहता तद्-उपरि-
सुखद-पदार्थान्तराभावात् केनापि व्यवधातुम् अशक्या च । जातायां च
तस्यां रुचि-लक्षणायां भक्त्या तयैव श्रवणादि-लक्षणो भकि-योगः
प्रवर्तितः स्यात् ।
[4]
ततश् च यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते
सुराः [भ्प् 5.18.12] इत्य्-आद्य्-अनुसारेण भगवत्-स्वरूपादि-ज्ञानं ततोऽन्यत्र
वैराग्यं च तद्-अनुगाम्येव स्याद् इत्य् आह --
वासुदेवे भगवति भक्ति-योगः प्रयोजितः ।
जनयत्य् आशु वैराग्यं ज्ञानं च यद् अहैतुकम् ॥ [भ्प् 1.2.7]
अहैतुकं शुष्क-तर्काद्य्-अगोचरम् औपनिषदं ज्ञानम् आशु ईषत्-श्रवण-
मात्रेण जनयतीत्य् अर्थः । व्यतिरेकेणाह -
धर्मः स्वनुष्ठितः पुंसां विष्वक्सेन-कथासु यः ।
नोत्पादयेद् यदि रतिं श्रम एव हि केवलम् ॥ [भ्प् 1.2.8]
वासुदेवालम्बनाभावेन यदि तत्-कथासु तल्-लीला-वर्णनेषु रतिं रुचिं
नोत्पादयेत् तदा श्रमः स्यान् न तु फलम् । कथा-रुचेः सर्वत्रैवाद्यत्वात्
श्रेष्ठत्वाच् च सैवोक्ता । तद्-उपलक्षणत्वेन भजनान्तर-रुचिर् अप्य्
उपदिष्ठा । एव-शब्देन प्रवृत्ति-लक्षण-कर्म-फलस्य स्वर्गादेः
क्षयिष्णुत्वं, हि-शब्देन तत्रैव च तद् यथेह कर्म-जितो लोकः क्षीयते
[छा 8.1.6] इति सोपपत्तिक-श्रुति-प्रमाणत्वम् । केवल-शब्देन निवृत्ति-मात्र-
लक्षण-धर्म-फलस्यासाध्यत्वं, सिद्धस्यापि नश्वरत्वम् । तत्रापि
तेनैव हि-शब्देन यस्य देवे परा भक्तिर् [श्वेत् 6.23] इत्य्-आदि, श्रेयः-सृतिं
भक्तिम् उदस्य ते विभो क्लिश्यन्ति ये केवल-बोध-लब्धये इत्य्-आदि [भ्प्
10.14.4], आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्य् अधोऽनादृत-युष्मद्-
अङ्घ्रयः [भ्प् 10.2.32] इत्य्-आदि वचन-प्रमाणत्वं च सूचितम् । श्लोक-
द्वयेन भकिर् निरपेक्षा, ज्ञान-वैराग्ये तु तत्-सापेक्षे इति लभ्यते । तद्
एवं भक्ति-फलत्वेनैव धर्मस्य साफल्यम् उक्तम् ।
[5-6]
तत्र यद् अन्ये मन्यन्ते धर्मस्यार्थः फलं, तस्य कामस् तस्य चेन्द्रिय-
प्रीत्स् तत्-प्रीतेश् च पुनर् अपि धर्मादि-परम्परेति तच् चान्यथैवेत्य् आह
द्वाभ्यां --
धर्मस्य ह्य् आपवर्ग्यस्य नार्थोऽर्थायोपकल्पते ।
नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥
कामस्य नेन्द्रिय-प्रीतिर् लाभो जीवेत यावता ।
जीवस्य तत्त्व-जिज्ञासा नार्थो यश् चेह कर्मभिः ॥ [भ्प् 1.2.9-10]
आपवर्गस्य -- यथा-वर्ण-विधान अपवर्गश् च भवति । योऽसौ भगवति
सर्वात्मन्य् अनात्म्येऽनिरुक्तेऽनिलयने परमात्मनि वासुदेवेऽनन्य-निमित्त-
भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थि-बन्धन-द्वारेण यदा
हि महा-पुरुष-पुरुष-प्रसङ्ग इति [भ्प् 5.19.19-20] पञ्चम-स्कन्ध-
गद्यानुसारेण अपवर्गो भक्ति-योगः । तथा च स्कान्दे रेवा-खण्डे -
निश्चला त्वयि भक्तिर् या सैव मुक्तिर् जनार्दन ।
मुक्ता एव हि भक्तास् ते तव विष्णो यतो हरे ॥ इति ।
अत उक्त-रीत्या भक्ति-सम्पादकस्येत्य् अर्थः । अर्थाय फलत्वाय ।
तथार्थस्याप्य् एवम्भूत-धर्माव्यभिचारिणः कामो लाभाय फलत्वाय
न हि स्मृतस् तत्त्व-विद्भिः । कामस्य विषय-भोगस्येन्द्रिय-प्रीति-लाभः
फलं न भवति किन्तु यावता जीवेत तावान् एव कामस्य लाभः । तादृश-
जीवन-पर्यन्त एव कामः सेव्य इत्य् अर्थः । जीवस्य जीवनस्य च पुनर्
धर्मानुष्ठान-द्वारा कर्मभिर् य इह प्रसिद्धः स्वर्गादिः सोऽर्थो न
भवति, किन्तु तत्त्व-जिज्ञासैवेति । तद् एवं तत्त्व-ज्ञानं यस्या भक्तेर्
अवान्तर-फलम् उक्तं सैव परमं फलम् इति भावः ।
[7]
किं तत्त्वम् इत्य् अपेक्षायां पद्यम् एकं तूदाहृतम् --
वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् ।
ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥ [भ्प् 1.2.11] इति ।
अद्वयम् इति तस्याखण्डत्वं निर्दिश्यान्यस्य तद्-अनन्यत्व-विवक्षया तच्-
छक्तित्वम् एवाङ्गीकरोति । तत्र शक्ति-वर्ग-लक्षण-तद्-धर्मातिरिक्तं
केवलं ज्ञानं ब्रह्मेति शब्द्यते । अन्तर्यामित्वमय-माया-शक्ति-प्रचुर-
चिच्-छक्त्य्-अंश-विशिष्टं परमात्मेति । परिपूर्ण-सर्व-शक्ति-विशिष्टं
भगवान् इति । विवृतं चैतत् प्राक्तन-सन्दर्भ-त्रयेण । तच् च
त्रिधाविर्भाव-युक्तम् एव तत्त्वं भक्त्यैव साक्षात् क्रियत इत्य् आह --
तच् छ्रद्दधाना मुनयो ज्ञान-वैराग्य-युक्तया ।
पश्यन्त्य् आत्मनि चात्मानं भक्त्या श्रुत-गृहीतया ॥ [भ्प् 1.2.12]
भक्त्या तत्-कथा-रुचेर् एव परावस्था-रूपया प्रेम-लक्षणया तत्
पूर्वोक्त-तत्त्वम् आत्मनि शुद्धे चेतसि पश्यन्ति च । ज्ञान-मात्रस्य का
वार्ता । साक्षाद् अपि कुर्वन्तीत्य् अर्थः । कीदृशं तद्-आत्मानम् । स्वरूपाख्य-
जीवाख्य-माया-शक्तीनाम् आश्रयम् । ज्ञान-वैराग्य-युक्तया ज्ञानं च
वैराग्यं च, ताभ्यां युक्तया स्वात्मजाभ्यां ताभ्यां सेवितया । अतएव ते
मुनयः पृथक् च विशिष्टं च स्वेच्छया पश्यन्तीत्य् आयाति । तद् एवं श्रुत-
गृहीतया मुनयः श्रद्दधाना इति पद-त्रयेण तस्या एव भक्तेर्
दौर्लभ्यं दर्शितम् । सद्-गुरोः सकाशाद् वेदान्ताद्य्-अखिल-शास्त्रार्थ-
विचार-श्रवण-द्वारा यदि स्वावश्यक-परम-कर्तव्यत्वेन ज्ञायते । पुनश्
च --
भगवान् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य मनीषया
तद् अध्यवस्यत् कूट-स्थो रतिर् आत्मन् यतो भवेत् ॥ [भ्प् 2.2.34]
इतिवद् यदि विपरीत-भावनात्याजकौ मनन-योग्यता-मननाभिनिवेशौ
स्यातां, ततः ^च्रद्दधानैश् च सा भक्तिर् उपासना-द्वारा लभ्यते इति ।
[8]
अतः श्रुतिर् अपि तद्-अर्थम् आगृह्णाति । आत्मा वारे द्रष्टव्यः श्रोतव्यो
मन्तव्यो निदिध्यासितव्य इति [बृहदु 2.4.4.6] इति । अत्र निदिध्यासनम्
उपासनम् । दर्शनं साक्षात्कार उच्यते । सा चैवं दुर्लभा भक्तिः हरि-
तोषणे प्रयुक्तात् स्वाभाविक-धर्माद् अपि लभ्यते इति । तस्माद् धरि-
तोषणम् एव तस्य परम-फलम् इत्य् आह -
[पगे 6]
अतः पुम्भिर् द्विज-श्रेष्ठा वर्णाश्रम-विभागशः ।
स्वनुष्ठितस्य धर्मस्य संसिद्धिर् हरि-तोषणम् ॥ [भ्प् 1.2.13]

स्वनुष्ठितस्य बहु-प्रयत्नेनाच्छिद्रम् उपार्जितस्य इति तुच्छे स्वर्गादि-फले
तत्-प्रयोगोऽतीवायुक्त इति भावः । यद्य् एवं श्री-हरि-सन्तोषकस्यापि
धर्मस्य फलं श्रवणादिरुचि-लक्षणा भक्तिर् एव तत्-प्रवर्तिताया भक्तेश्
चानुगता ज्ञान-वैराग्यादि-गुणा इत्य् आयातं तदा साक्षाच्-छ्रवणादि-रूपा
भक्तिर् एव कर्तव्या ।
[9]
किं तत् तद्-आग्रहेणेत्य् आह --
तस्माद् एकेन मनसा भगवान् सात्वतां पतिः ।
श्रोतव्यः कीर्तितव्यश् च ध्येयः पूज्यश् च नित्यदा ॥ [भ्प् 1.2.14]
एकेन कर्माद्याग्रह-शून्येन । श्रवणम् अत्र नाम-गुणादीनां तथा
कीर्तनं च ।
[10]
तत्रैवान्तिम-भूमिका-पर्यन्तां सुगमां शैलीं वक्तुं धर्मादि-कष्ट-
निरपेक्षेण युक्ति-मात्रेण तत्-प्रथम-भूमिकां श्री-हरि-कथा-रुचिम्
उत्पादयन् तस्य गुणं स्मारयति -
यद्-अनुध्यासिना युक्ताः कर्म-ग्रन्थि-निबन्धनम् ।
छिन्दन्ति कोविदास् तस्य को न कुर्यात् कथा-रतिम् ॥ [भ्प् 1.2.15]
कोविदा विवेकिनो युवताः संयत-चित्ता यस्य हरेर् अनुध्या अनुध्यानं
चिन्तन-मात्रम् एवासिः खड्गस् तेन ग्रन्थिं नाना-देहेष्व् अहङ्कारं
निबध्नाति यत्-तत्-कर्म छिन्दन्ति । तस्यैवम्भूतस्य परम-दुःखाद्
उद्वर्तुः कथायां रतिं को नु कुर्यात् ।
[11]
नन्व् एवम् अपि तस्य कथा-रुचिर् मन्द-भाग्यानां न जायत इत्य् आशङ्क्य
तत्रोपायान् वदन् ताम् आरभ्य नैष्ठिक-भक्ति-पर्यन्तां भक्तिम् उपदिशति
पञ्चभिः ।
शुश्रूषोः श्रद्दधानस्य वासुदेव-कथा-रुचिः ।
स्यान् महत्-सेवया विप्राः पुण्य-तीर्थ-निषेवणात् ॥ [भ्प् 1.2.16]
भुवि पुरु-पुण्य-तीर्थ-सदनान्य् ऋषयो विमदाः इत्य्-आद्य्-अनुसारेण [भ्प्
10.87.35] प्रायस् तत्र महत्-सङ्गो भवतीति तदीय-टीकानुमत्या च पुण्य-
तीर्थ-निषेवणाद् धेतोर् लब्धा यदृच्छया या महत्-सेवा तया वासुदेव-
कथा-रुचिः स्यात् । कार्यान्तरेणापि तीर्थे भ्रमतो महतां प्रायस् तत्र
भ्रमतां तिष्ठतां वा दर्शन-स्पर्शन-सम्भाषणादि-लक्षणा सेवा स्वत
एव सम्पद्यते । तत्-प्रभावेण च तदीयाचरणे श्रद्धा भवति । तदीय-
स्वाभाविक-परस्पर-भगवत्-कथायां किम् एते सङ्कथयन्ति तत् शृणोमीति
तच्-इच्छा जायते । तच्-छ्रवणेन च तस्यां रुचिर् जायते इति । तथा च
महद्भ्य एव श्रुता झटिति कार्य-करीति भावः । तथा च कपिल-देव-
वाक्यम् -- सतां प्रसङ्गान् मम वीर्य-संविदो भवन्ति हृत्-कर्ण-
रसायनाः कथाः [भ्प् 3.25.22] इत्य्-आदि ।
[12]
ततश् च,
शृण्वतां स्व-कथाः कृष्णः पुण्य-श्रवण-कीर्तनः ।
हृद्य् अन्तःस्थो ह्य् अभद्राणि विधुनोति सुहृत्-सताम् ॥ [भ्प् 1.2.17]
कथा-द्वारा अन्तःस्थो भावना-पदवीं गतः सन् हरिर् अभद्राणि वासनाः ।
[पगे 7]
[13]
ततश् च,
नष्ट-प्रायेष्व् अभद्रेषु नित्यं भागवत-सेवया ।
भगवत्य् उत्तम-श्लोके भक्तिर् भवति नैष्ठिकी ॥ [भ्प् 1.2.18]
नष्ट-प्रायेषु न तज्-ज्ञानम् इव सम्यङ्-नष्टेष्व् एवेति भक्तेर् निरर्गल-
स्वभावत्वम् उक्तम् । भागवतानां भागवत-शास्त्रस्य वा सेवया भक्तिर्
अनुध्यान-रूपा नैष्ठिकी सन्तता एव भवति ।
[14]
तदैव त्रि-भुवन-विभव-हेतवेऽप्य् अकुण्ठ-स्मृतिर् [भ्प् 11.2.53] इत्य्-आद्य्-
उक्त-रीत्या सर्व-वासना-नाशात् चित्तं शुद्ध-सत्त्वम् अग्रं सत् भगवत्-
तत्त्व-साक्षात्कार-योग्यं भवतीत्य् आह --
तदा रजस्-तमो-भावाः काम-लोभादयश् च ये ।
चेत एतैर् अनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ [भ्प् 1.2.19]
रजस् तमश् च ये च तत्-प्रभावा भावाः कामादय एतैर् इत्य् अन्वयः ।
[15]
एवं प्रसन्न-मनसो भगवद्-भक्ति-योगतः ।
भगवत्-तत्त्व-विज्ञानं मुक्त-सङ्गस्य जायते ॥ [भ्प् 1.2.20]
एवं पूर्वोक्त-प्रकारेण प्रसन्न-मनसस् ततो मुक्त-सङ्गस्य त्यक्त-
कामादि-वासनस्य भक्ति-योगतः पुनर् अपि क्रियमाणात् तस्माद् विज्ञानं
साक्षात्कारो मनसि बहिर् वा भावनां विनैवानुभवो यः स जायते ।
[16]
तस्य च परमानन्दैक-रूपत्वेन स्वतः-फल-रूपस्य साक्षात्-
कारस्यानुषङ्गिकं फलम् आह --
भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः ।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ [भ्प् 1.2.21]
हृदय-ग्रन्थि-रूपोऽहङ्कारः । सर्व-संशयाश् छिद्य्नते इति श्रवण-
मननादि-प्रधानानाम् अपि तस्मिन् दृष्ट एव सर्वे संशयाः समाप्यन्ते इत्य्
अर्थः । तत्र श्रवणेन तावज्-ज्ञेय-गतासम्भावनाश् छिद्यन्ते इति ।
मननेन तद्-गत-विपरीत-भावनाः । साक्षात्कारेण
त्वात्मयोग्यतागतासम्भावना-विपरीत-भावने इति ज्ञेयम् । क्षीयन्ते तद्-
इच्छा-मात्रेण तद्-आभासः किञ्चिद् एव तेष्व् अवशिष्यत इत्य् अर्थः ।
[17]
अत्र प्रकरणार्थे सद्-आचारं दर्शयन्न् उपसंहरति ।
अतो वै कवयो नित्यं भक्तिं परमया मुदा ।
वासुदेवे भगवति कुर्वन्त्य् आत्म-प्रसादनीम् ॥ [भ्प् 1.2.22]
आत्म-प्रसादनीं मनसः शोधनीम् । न केवलम् एतावद्-गुणत्वं तस्याः ।
किं च परमया मुदेति कर्मानुष्ठानवन् न साधन-काले साध्य-काले
वा भक्त्य्-अनुष्ठानं दुःख-रूपं प्रत्युत सुख-रूपम् एवेत्य् अर्थः ।
अतएव नित्यं साधक-दशायां सिद्ध-दशायां च तावत् कुर्वन्तीत्य् उक्तम् ॥
॥1.2॥ श्री-सूतः ॥ 3-17 ॥
[18]
तद् एवं कर्म-ज्ञान-वैराग्य-यत्न-परित्यागेन भगवद्-भक्तिर् एव
कर्तव्येति मतम् । कर्म-विशेष-रूपं देवतान्तर-भजनम् अपि न
कर्तव्यम् इत्य् आह सप्तभिः । तत्रान्येषां का वार्ता । सत्य् अपि श्री-भगवत
(पगे 8) एव गुणावतारत्वे श्री-विष्णुवत् साक्षात्-पर-ब्रह्मत्वाभावात्
सत्त्व-मात्रोपकारकत्वाभावाच् च प्रत्युत रजस्-तमो-बृंहणत्वाच् च
ब्रह्म-शिवाव् अपि श्रेयोऽर्थिभिर् नोपास्याव् इत्य् अत्र द्वौ श्लोकौ परमात्म-
सन्दर्भे एवोदाहृतौ --
सत्त्वं रजस् तम इति प्रकृतेर् गुणास् तैर्
युक्तः परम-पुरुष एक इहास्य धत्ते ।
स्थित्य्-आदये हरि-विरिञ्चि-हरेति संज्ञाः
श्रेयांसि तत्र खलु सत्त्व-तनोर् नॄणां स्युः ॥ [भ्प् 1.2.23]
पार्थिवाद् दारुणो धूमस् तस्माद् अग्निस् त्रयीमयः ।
तमसस् तु रजस् तस्मात् सत्त्वं यद् ब्रह्म-दर्शनम् ॥ [भ्प् 1.2.24] इति ।
सत्त्व-तनोः सत्त्व-शक्तेः । त्रयीमयस् त्रय्य् उक्त-कर्म-प्रचुरः ।
दारुस्थानीयं तमः । धूम-स्थानीयं रजः । अग्नि-स्थानीयं सत्त्वं ।
त्रय्य् उक्त-कर्म-स्थानीयं ब्रह्म । ततश् च त्रय्य्-उक्त-कर्म यथाग्नाव्
एव साक्षात् प्रवर्तते नान्ययोस् तद्वत् पर-ब्रह्म-भूतो भगवान् अपि सत्त्व
एवेत्य् अर्थः ।
देवतान्तर-परित्यागेनापि भगवद्-भक्तौ सद्-आचारं प्रमाणयति --
भेजिरे मुनयोऽथाग्रे भगवन्तम् अधोक्षजम् ।
सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तान् इह ॥ [भ्प् 1.2.25]
अथ अतो हेतोः । अग्रे पुरा । सत्त्वं विशुद्धं विशुद्ध-सत्त्वात्मक-मूर्तिं
भगवन्तम् । प्रकृत-सत्त्वातीतत्वं च तस्य विवृतं भगवत्-सन्दर्भे । अतो
ये ताम् अनुवर्तन्ते त इह संसारे क्षेमाय कल्पन्ते ।
[19]
नन्व् अन्यान् भैरवादीन् देवान् अपि केचिद् भजन्तो दृश्यन्ते । सत्यं यतस् ते

सकामाः । किन्तु मुमुक्षवोऽप्य् अन्यान् न भजन्ते । किम् उत तद्-भक्तियिक-
पुरुषार्था इत्य् आह -
मुमुक्षवो घोर-रूपान् हित्वा भूत-पतीन् अथ ।
नारायण-कलाः शान्ता भजन्ति ह्य् अनसूयवः ॥ [भ्प् 1.2.26]
भूत-पतीन् इति पितृ-प्रजेशादीनाम् उपलक्षणम् । अनसूयवो देवतान्तर-
निन्दकाः सन्तः ।
[20]
ननु काम-लोभोऽपि लक्ष्मी-पति-भजने भवत्य् एव तर्हि कथम् अन्यांस् ते
भजन्ते ?
रजस्-तमः-प्रकृतयः सम-शीला भजन्ति वै ।
पितृ-भूत-प्रजेशादीन् श्रियैश्वर्य-प्रजेप्सवः ॥ [भ्प् 1.2.27]
तत्राह, रजस्-तमः-प्रकृतित्वेनैव पित्रादिभिः समं शीलं येषां, सम-
शीलत्वाद् एवं तद्-भजने प्रवृत्तिर् इत्य् अर्थः ।
[21]
ततो वासुदेव एव भजनीय इत्य् उक्तम् । सर्व-शास्त्र-तात्पर्यं च तत्रैवेत्य्
आह द्वाभ्याम् ।
वासुदेव-परा वेदा वासुदेव-परा मखाः ।
वासुदेव-परा योग वासुदेव-पराः क्रियाः ॥
वासुदेव-परं ज्ञानं वासुदेव-परं तपः ।
वासुदेव-परो धर्मो वासुदेव-परा गतिः ॥ [भ्प् 1.2.28-9]
(पगे 9)
टीका च - वासुदेव-परस् तात्पर्य-गोचरो येषां ते । ननु वेदा मख-परा
दृश्यन्ते इत्य् आशङ्क्य तेऽपि तद्-आराधनार्थत्वात् तत्-परा एवेत्य् उक्तम् । योगा
योग-शास्त्राणि । तेषाम् अप्य् आसन-प्राणायामादि-क्रिया-परत्वम् आशङ्क्य
तासाम् अपि तत्-प्राप्त्य्-उपायत्वात् तत्-परत्वम् उक्तम् । ज्ञानं ज्ञान-शास्त्रम् ।
ननु तज्-ज्ञान-परम् एवेत्य् आशङ्क्य ज्ञानस्यापि तत्-परत्वम् उक्तम् । तपोऽत्र
ज्ञानम् । धर्मो धर्म-शास्त्रं दान-व्रतादि-विषयम् ।
ननु तत्-स्वर्गादि-परम् इत्य् आशङ्क्य गम्यते इति गतिः स्वर्गादि-फलम् । सापि
तदानन्दांश-रूपत्वात् तत्-परैवेत्य् उक्तम् । यद् वा वेदा इत्य् अनेनैव तन्-
मूलत्वात् सर्व-शास्त्राणि वासुदेव-पराणीत्य् उक्तम् ।
ननु तेषां मख-योग-क्रियादि-नानार्थ-परत्वान् न तद्-एक-परत्वम् इत्य्
आशङ्क्य मखादीनाम् अपि तत्-परत्वम् उक्तम् इति द्रष्टव्यम् इत्य् एषा ।
अत्र योगादीनां कथञ्चिद् भक्ति-सचिवत्वेनैव तत्-परत्वं मुख्यं
द्रष्टव्यम् ।
[22]
वेदाश् च कर्म-काण्ड-परा एव ज्ञेयाः केषाञ्चित् साक्षाद्-भक्ति-परत्वम् अपि
दृश्यत इति -
यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ [श्वेतु 6.23] इत्य्-आदेः ।
तद् एवं द्वात्रिंश्या तद्-भजनस्यैवाभिधेयत्वं दर्शयित्वा पूर्वोक्तं
सर्व-शास्त्र-समन्वयम् एव स्थापयति -
स एवेदं ससर्जाग्रे भगवान् आत्म-मायया ।
सद्-असद्-रूपया चासौ गुण-मय्य् अगुणो विभुः ॥ [भ्प् 1.2.30]
टीका च - ननु जगत्-सर्ग-प्रवेश-नियमनादि-लीला-युक्ते वस्तुनि सर्व-
शास्त्र-समन्वयो दृश्यते, कथं वासुदेव-परत्वं सर्वस्य । तत्राह स एवेति
चतुर्भिर् इत्य् एषा । इदं महद्-आदि-विरिञ्चि-पर्यन्तम् । एवं प्रवेशादिकाप्य्
उत्तर-श्लोकेषु द्रष्टव्या ॥
॥1.2॥ श्री-सुतः श्री-शौनकम् ॥19-22॥
[23]
श्री-भागवतादिर् भाव-कारणे श्री-नारद-व्यास-संवादेऽपि --
नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं
न शोभते ज्ञानम् अलं निरञ्जनम्
कुतः पुनः शश्वद् अभद्रम् ईश्वरे
न चार्पितं कर्म यद् अप्य् अकारणम् ॥ [भ्प् 1.5.12]
इत्य्-आद्य् उदाहृतम् । टीका च - निष्कर्म ब्रह्म तद्-एकाकारत्वान् निष्कर्मता-
रूपं नैष्कर्म्यम् । अज्यते अनेनेत्य् अञ्जनम् उपाधिस् तन् निवर्तकं
निरञ्जनम् एवम्भूतम् अपि ज्ञानम् उच्यते भावो भक्तिस् तद्-वर्जितं चेद्
अलम् अत्यर्थं न शोभते सम्यग् अपरोक्षाय न कल्पते इत्य् अर्थः । तदा
शश्वत् साधन-काले फल-काले च अभद्रं दुःख-रूपं यत् काम्यं कर्म
यद् अप्य् अकारणम् अकाम्यं तच् चेति चकारस्यान्वयः । तद् अपि कर्म ईश्वरे
नार्पितं चेत् कुतः पुनः शोभते, बहिर्-मुखत्वेन सत्त्व-
शोधकत्वाभावाद् इत्य् एषा ।
तद् एवं ज्ञानस्य भक्ति-संसर्गं विना कर्मणश् तद्-उपपादकत्वं विना
व्यर्थत्वं व्यक्तम् । (पगे 10) किं च -
जुगुप्सितं धर्म-कृतेऽनुशासतः
स्वभाव-रक्तस्य महान् व्यतिक्रमः ॥ [भ्प् 1.5.15]
इत्य्-आदिकम् उक्त्वाह -
त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर्
भजन्न् अपक्वोऽथ पतेत् ततो यदि ।
यत्र क्व वाभद्रम् अभूद् अमुष्य किं
को वार्थ आप्तोऽभजतां स्व-धर्मतः ॥ [भ्प् 1.5.17]
टीका च - इदानीं तु नित्य-नैमित्तिक-स्वधर्म-निष्ठाम् अप्य् अनादृत्य
केवलं हरि-भक्तिर् एवोपदेष्टव्या इत्य् आशयेनाह त्यक्त्वेति । ननु
स्वधर्म-त्यागेन भजन् भक्ति-परिपाकेन यदि कृतार्थो भवेत् तदा न
काचिच् चिन्ता । यदि पुनर् अपक्व एव म्रियेत भ्रश्येद् वा तदा तु स्वधर्म-
त्याग-निमित्तोऽनर्थः स्याद् इत्य् आशङ्क्याह, ततो भजनात् पतेत् कथञ्चिद्
भ्रश्येन् म्रियेत वा यदि तदापि भक्ति-रसिकस्य कर्मानधिकारान्
नानर्थ-शङ्का । अङ्गीकृत्याप्य् आह, वा-शब्दः कटाक्षे, यत्र क्व वा
नीचयोनाव् अपि अमुष्य भक्ति-रसिकस्य अभद्रम् अभूत् किम्? नाभूद् एवेत्य्
अर्थः । भक्ति-वासना-सद्-भावाद् इति भावः । अभजताम् अभजद्भिस् तु
केवलं स्वधर्मतः को वार्थ आप्तः । अभजताम् इति षष्ठी सम्बद्न-
मात्र-विवक्षयेत्य् एषा ।
॥ 1.5 ॥ श्री-नारदः श्री-व्यासम्

6.43

[24]
तद् एवं भक्तिर् एवाभिधेयं वस् त्व् इत्य् उक्तम् । तथैव श्री-शुक-परीक्षित्-
संवादोपक्रमेऽपि -
श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः ।
अपश्यताम् आत्म-तत्त्वं गृहेषु गृह-मेधिनाम् ॥ [भ्प् 2.1.2] इत्य्-आदि ।
गृहेष्व् इत्य्-आदिकम् उपलक्षणं बहिर्मुखानाम् । आत्म-तत्त्वं भगवत्-
तत्त्वं, तथा निगमयिष्यमानत्वात् ।
[25]
निगमयति -
तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेच्छताभयम् ॥ [भ्प् 2.1.5]
टीका च - सर्वात्मेति प्रेष्ठत्वम् आह, भगवान् इति सौन्दर्यम् । ईश्वर इत्य्
आवश्यकत्वं हरिर् इति बन्ध-हारित्वम् अभयं मोक्षम् इच्छतेत्य् एषा ।
मोक्षस् तु सर्व-क्लेश-शान्ति-पूर्वक-भगवत्-प्राप्तिर् एवेति ज्ञेयम् ।
[26]
एतद्-अनन्तरं विराड्-धारणाम् उक्त्वा तद्-अपवादेनापि भक्तिं ताम् आह -
स सर्व-धी-वृत्त्य्-अनुभूत-सर्व
आत्मा यथा स्वप्न-जनेक्षितैकः ।
तं सत्यम् आनन्द-निधिं भजेत
नान्यत्र सज्जेद् यत आत्म-पातः ॥ [भ्प् 2.1.39]
टीका च -सर्वेषां श्री-वृत्तिभिर् अनुभूतं सर्वं येन स एक एव
सर्वान्तरात्मा । तम् एव सत्यं भजेत । अन्यत्रोपलक्षणे न सज्जेत । यत
आसङ्गाद् आत्मनः पातः संसारो भवति । एकस्य तत्-तद्-इन्द्रियैः
सर्वानुभूतौ दृष्टान्तः स्वप्न-जनानाम् ईक्षिता यथेति । स्वप्नेऽपि कदाचिद्
बहून् देहान् प्रकल्प्य जीवस् तत्-तद्-इन्द्रियैः सर्वं पश्यति तद्वद् ईश्वरस्य
तु विद्या-शक्तित्वान् न बन्ध इत्य् एषा ।
अत्र स्वधी-वृत्तिभिः पश्यन्न् एव सर्वेषां धी-वृत्तिभिर् अपि सर्वं पश्यतीत्य्
एवं तथोक्तम् । स ऐक्षत इत्य् अत्र सर्व-धी-वृत्ति-सृष्टेः पूर्वम् अपि तच्-
छ्रवणात् । तथा स्वप्न-देहानाम् ईश्वर-कर्तृकत्वेऽपि जीव-कर्तृक-
प्रकल्पन-कथनं तत्-सङ्कल्प-द्वारैवेश्वरः करोतीत्य् अपेक्षायाम्
उक्तम् । यः सर्व-धीत्य् अनुक्तत्वात् सत्यं भजेतेति योजयितव्यस्य कर्तुर्
विद्यमानत्वाद् अयम् एवार्थः । स तथाभूतो दृष्टान्तः आत्मा स्वप्न-
द्रष्टा जीवो यथा स्वप्न-गतानां सर्वेषां जनानां तद्-उपलक्षितानां
वस्तूनां च एक एव ईक्षिता भवतीति तद्वत् । अत्र तम् इत्य् अनेन स ऐक्षतेति
[ऐतु 1.1.2] स्वाभाविकी ज्ञान-बल-क्रिया च इति [श्वेतु 6.8], श्रुति-प्रसिद्ध-
परानपेक्ष-ज्ञानादि-सिद्धेस् तथा सन्ध्ये सृष्टिर् आह हि [व्स् 3.2.1],
मायामात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वाद् [व्स् 3.2.3] इति न्याय-
प्राप्तेन स्वप्नस्यापि कर्तृत्वेन जाग्रद्-आदिमय-जगत्-कर्तृत्वस्य पूर्णत्व-
प्राप्ते वैलक्षण्यं दर्शितं सत्यादि-द्वयेन परम-पुरुषार्थत्वं चेति
ज्ञेयम् ।
॥2.1॥ श्री-शुकः ॥ 24-26 ॥
[27]
एतद्-अनन्तराध्यायेऽपि तथैवाह -
यावन् न जायेत परावरेऽस्मिन्
विश्वेश्वरे द्रष्टरि भक्ति-योगः ।
तावत् स्थवीयः पुरुषस्य रूपं
क्रियावसाने प्रयतः स्मरेत ॥ [भ्प् 2.2.14]
परे ब्रह्मादयोऽवरे यस्मात् । विश्वेश्वरे द्रष्टरि न तु दृश्ये चैतन्य-
घनत्वात् । भक्ति-योगः केचित् स्वदेहान्तर्-हृदयावकाशे प्रादेश-मात्रं
पुरुषं वसन्तं चतुर्भुजम् इत्य्-आदि नोक्त्-साधन-लक्षणाभिनिवेशः ।
क्रियावसाने आवश्यक-कर्मानुष्ठानानन्तरम् । अनेन कर्मापि भक्ति-
योग-पर्यन्तम् इत्य् उक्तम् ।
[28]
अनन्तरं च स्थिरं सुखं चासनम् आस्थितो यतिर् यदा जिहासुर् [भ्प् 2.2.15]
इत्य्-आदिना, यदि प्रयास्यन् नृप पारमेष्ठ्यं वैहायसानाम् उत यद्
विहारम् इत्य् [भ्प् 2.2.22] आदिना च, क्रमेण सद्योमुक्ति-क्रम-मुक्त्य्-उपायौ
ज्ञान-योगाव् उक्त्वा ततोऽपि श्रेष्ठत्वं भक्ति-योग-हेतु-भगवद्-अर्पित-
कर्मणः एवोक्त्वा साक्षाद् भक्ति-योगस्य कैमुत्यम् एवानीतम् । यथा --
न ह्य् अतोऽन्यः शिवः पन्था विशतः संसृताव् इह ।
वासुदेवे भगवति भक्ति-योगो यतो भवेत् ॥ [भ्प् 2.2.33]
टीका च - सन्ति संसरतः पुंसो बहवो मोक-मार्गास् तपो-योगादयः ।
समीचीनस् त्व् अयम् एवेत्य् आह न हीति । यतोऽनुष्ठिताद् भक्ति-योगो भवेद्
अतोऽन्यः शिवः सुख-रूपो निर्विघ्नश् च नास्त्य् एव इत्य् एषा । यच्-छब्देनात्र
भगवत्-सन्तोषार्थकं कर्मोच्यते स वै पुंसां परो धर्म इत्य् उक्तेः ।
[29]
स च भक्ति-योगः सर्व-वेद-सिद्ध इत्य् आह --
भगवान् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य मनीषया ।
तद् अध्यवस्यत् कूट-स्थो रतिर् आत्मन्य् अतो भवेत् ॥ [भ्प् 2.2.34]
भगवान् ब्रह्मा । कूटस्थः निर्विकार एकाग्र-चित्तः सन्न् इत्य् अर्थः । त्रिस्
त्रीन् वारान् कार्त्स्न्येन साकल्येन ब्रह्म वेदम् अन्वीक्ष्य विचार्य यत
आत्मनि हरौ रतिर् भवेत् तद् एव भक्ति-योगाख्यं वस्तु
मनीषयाध्यवस्यत् निश्चितवान् । अत्राप्य् उपसंहारानुरोधेन आत्म-
शब्दस्य हरि-वाचकता । निरुक्तं च - आतत्वाच् च मातृत्वाद् आत्मा हि परमो
हरिर् इति । अथवा भगवान् स्व-प्रकाश-सार्वज्ञ्यादि-गुणः परमेश्वरोऽपि
सर्ववेदाभिधेय-साराकर्षण-लीलार्थम् अन्वीक्ष्य तत्र शास्त्र-
विदन्तराणाम् ईक्षणम् अनुकृत्य अनन्त-वैकुण्ठ-वैभवादिमयानाम्
अनन्त-विरिञ्च-पाठ्य-भेदानां वेदानां तथेक्षणं च तेनैव
सम्भवतीत्य् आह कूटस्थ एक-रूपतयैव कालव्यापीति । अतएवोक्तं स्वयम्
एव
किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् ।
इत्य् अस्या हृदयं लोके नान्यो मद् वेद कश्चन ॥ [भ्प् 11.21.42] इति ।
[30]
तथैव यच् छ्रोतव्यम् [भ्प् 1.19.38] इत्य्-आदिना प्रश्नस्योत्तरत्वेनोपसंहरति
तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यो भगवान् नृणाम् ॥ [भ्प् 2.2.36]
च-कारात् पाद-सेवादयोऽपि गृह्यन्ते । अनन्तरं च श्रवणादि-फलं यद्
दर्शितं तत् तूदाहृतम् -
पिबन्ति ये भगवत आत्मनः सतां
कथामृतं श्रवण-पुटेषु सम्भृतम्
पुनन्ति ते विषय-विदूषिताशयं
व्रजन्ति तच्-चरण-सरोरुहान्तिकम् ॥ [भ्प् 2.2.37] इति ।
अत्र पूनन्तीय् अनेन पूर्वोक्तः स्थूल-धारण-मार्गः परिहृतः । भक्ति-
योगस्यैव स्वतः पावनत्वाद् अलं तत्-प्रयासेनेति ॥
॥ 2.2 ॥ श्री-शुकः ॥ 28-30 ॥
[31]
एवं प्राक्तनाध्यायाभ्यां कर्म-योग-ज्ञानेभ्यः श्रेष्ठत्वम् उक्त्वा तद्-
उत्तराध्यायेऽपि सर्व-देवतोपासनेभ्यः श्रेष्ठत्व-प्रवचनेन भगवद्-
भक्ति-योगस्यैवाभिधेयत्वम् आह ब्रह्म-वर्चस-कामस् तु यजेत
ब्रह्मणः पतिम् [भ्प् 2.3.2] इत्य्-आद्य्-अनन्तरम् --
अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।
तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [भ्प् 2.3.10]
टीका च - अकाम एकान्त-भक्तः उक्तानुक्त-कामो वा सर्व-कामो वा ।
पुरुषं पूर्णं निरुपाधिम् इत्य् एषा । तीव्रेण दृढेन स्वभावत एव
अनुपघात्येनेति विघ्नानवकाशतोक्ता । कामना तु यथा कथञ्चित् कृतेनापि
स्यात् । यथोक्तं भारते -
भक्त-क्षणः क्षणो विष्टोः स्मृतिः सेवा स्व-वेश्मनि ।
स्व-भोग्यस्यार्पणं दानं फलम् इन्द्रादि-दुर्लभम् ॥[*एन्द्नोते #1]
(पगे 13)
तद् उक्तं श्री-कपिलेन श्री-कर्दमं प्रति । न वै जातु मृषैव स्यात्
प्रजाध्यक्ष मद्-अर्हणम् इति [भ्प् 6.21.24] ।
अथवा यत् तत्-कामस् तीव्रेणैव यजेत ततश् च शुद्ध-भक्ति-

सम्पादनायैवान्ते पर्यवसिष्यतीत्य् अभिप्रायेण सविशेषणम् उपदिष्टम् ।
तद् अनेन एकान्त-भक्तेषु मुमुक्षौ वा तद्-भक्ति-योगस्यैवाभिधेयत्वं
किं वक्तव्यम् अपि तु सर्व-कामेष्व् अपीति तद् एव सर्वथापि निर्णीतम् ।
[32]
किं च --
एतावान् एव यजताम् इह निःश्रेयसोदयः ।
भगवत्य् अचलो भावो यद् भागवत-सङ्गतः ॥ [भ्प् 2.3.11]
टीका च - पूर्वोक्त-नानादेवता-यजनस्यापि संह्योग-पृथक्त्वेन
भक्तियोग-फलत्वम् आह एतावान् इति । इन्द्रादीन् अपि यजताम् इह तत्-तद्-यजने
भागवतानां सङ्गतो भावो भक्तिर् भवतीति यद् एतावान् एव निःश्रेयसस्य
परम-पुरुषार्थसोदयः लाभः अन्यत् तु सर्वं तुच्छम् इत्य् अर्थम् इत्य्
एषा ।
अत्र इन्द्रम् इन्द्रिय-कामस् त्व् इत्य्-आद्य् उक्तम् । इन्द्रिय-पाटवादिकं
पृथक्त्वेन फलम् । भागवतेन संयोगे तु भावः फलं
खादिरयूपसंयोगे यागस्य फल-वैशिष्ट्यवद् इति ज्ञेयम् ॥
॥2.3॥ श्री-शुकः ॥ 31-32 ॥
[33]
अनन्तरं श्री-शौनकेनापि व्यतिरेकोक्त्या तस्यैवाभिधेयत्वं दृढीकृतम् ।
यथाह --
आयुर् हरति वै पुंसाम् उद्यन्न् अस्तं च यन्न् असौ ।
तस्यर्ते यत्-क्षणो नीत उत्तम-श्लोक-वार्तया ॥ [भ्प् 2.3.17]
असौ सूर्यः यन् उद्गच्छन् अस्तं च यन् गच्छन् हरति वृथागामित्वाद्
आच्छिनत्तीव । यत्-क्षणोऽपि येन नीतः उत्तमः श्लोक-वार्तया तस्यायुः ऋते
वर्जयित्वा । तावतैव सर्व-साफल्याद् इति भावः ।
[34]
ननु जीवनादिकम् एव तेषाम् आयुषः फलम् अस्तु । तत्राह -
तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्य् उत ।
न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे ॥ [भ्प् 2.3.18]
न मेहन्ति न मैथुनं कुर्वन्ति । तम् अपि नराकारं पशुं मत्वाह अपरे
इति ।
[35]
तद् एवाह -
श्व-विड्-वराहोष्ट्र-खरैः संस्तुतः पुरुषः पशुः ।
न यत्-कर्ण-पथोपेतो जातु नाम गदाग्रजः ॥ [भ्प् 2.3.19]
श्वादि-तुल्यैस् तत्-परिकरैः सम्यक्-स्तुतोऽप्य् असौ पुरुषः पशुः । तेषाम् एव
मध्ये श्रेष्ठश् चेत् तर्हि महा-पशुर् एवेत्य् अर्थः ।
[36-40]
तस्याङ्गानि निष्फलानीत्य् आह पञ्चभिः -
बिले बतोरुक्रम-विक्रमान् ये
न शृण्वतः कर्ण-पुटे नरस्य ।
जिह्वासती दार्दुरिकेव सूत
न चोपगायत्य् उरुगाय-गाथाः ॥ [भ्प् 2.3.20]
न शृण्वतः अशृण्वतो नरस्य ये कर्ण-पुटे ते बिले ते वृथारन्ध्रे इत्य्
अर्थः । असती दुष्टा ।
भारः परं पट्ट-किरीट-जुष्टम्
अप्य् उत्तमाङ्गं न नमेन् मुकुन्दम् ।
शावौ करौ नो कुरुते सपर्यां
हरेर् लसत्-काञ्चन-कङ्कणौ वा ॥ [भ्प् 2.3.21]
पट्ट-वस्त्रौष्णीषेण किरीटेन वा जुष्टम् अपि । अप्य् अर्थे वा शब्दः ।
बर्हायिते ते नयने नराणां
लिङ्गानि विष्णोर् न निरीक्षतो ये ।
पादौ नृणां तौ द्रुम-जन्म-भाजौ
क्षेत्राणि नानुव्रजतो हरेर् यौ ॥ [भ्प् 2.3.22]
द्रुमवज्-जन्म-भाजाव् इति तथा वृक्ष-मूल-तुल्याव् इत्य् अर्थः ।
जीवञ् छवो भागवताङ्घ्रि-रेणुं
न जातु मर्त्योऽभिलभेत यस् तु ।
श्री-विष्णु-पद्या मनुजस् तुलस्याः
श्वसञ् छवो यस् तु न वेद गन्धम् ॥ [भ्प् 2.3.23]
जात्व् अपि श्री-विष्णुपद्यास् तत्-पाद-लग्नायाः ।
तद् अश्म-सारं हृदयं बतेदं
यद् गृह्यमाणैर् हरि-नाम-धेयैः
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्र-रुहेषु हर्षः ॥ [भ्प् 2.3.24]
अश्मवत् सारो बलं काठिन्यं यस्य । विक्रियालक्षणम् अथेति । यदा तद्-
विकारो भवेत् तदा नेत्रादौ जलादिकं भवतीत्य् अर्थः । इदम् एवान्वयेन
श्रीमता राज्ञा दृढीकरिष्यते । सा वाग् यया तस्य गुणान् गृणीते इत्य्-
आदिभ्याम् [भ्प् 10.80.3-4] । तद् एवं श्री-शुक-वाक्यारम्भाध्याय
एवाभिधेयत्वेन श्री-भक्तिर् एव लब्धा ।
टीका च -
तत्र् अतु प्रथमेऽध्याये कीर्तण-श्रवणादिभिः ।
स्थविष्ठे भगवद्-रूपे मनसो धारणोच्यते ॥
द्वितीये तु ततः स्थूल-धारणातो जितं मनः ।
सर्व-साक्षिणि सवशे विष्णौ धार्यम् इतीर्यते ॥
तृतीये विष्णु-भक्तेस् तु वैशिष्ट्यं शृण्वतो मुनेः ।
भत्य्-उद्रेकेण तत्-कर्म-श्रवणादर ईर्यते ॥ इत्य् एषा ॥
॥ 2.3 ॥ श्री-शौनकः ॥ 33-40 ॥
[41]
श्री-ब्रह्म-नारद-संवादेऽपि -
सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् ।
यद् अहं चोदितः सौम्य भगवद्-वीर्य-दर्शने ॥ [भ्प् 2.5.9]
अग्रे च सर्व-शास्त्र-समन्वयेन - नारायण-परा वेदा इत्य्-आदि [भ्प् 2.5.15]
श्री-नारायण एवोपास्यत्वेन परः तात्पर्य-विषयो येषां ते वेदाः । नन्व्
अन्येऽपि देवास् तत्रोपास्यत्वेनाभिधीयन्ते । सत्यं तेऽपि नारायणाङ्ग-
प्रभवत्वेनैव तथा वर्ण्यन्त इत्य् अर्थः । येऽपि तद्-आश्रयाः [पगे 15] लोकास्
तत्-पद-प्राप्ति-हेतवोऽन्ये मखाश् च ते तत्-परा एव । तद्-आनन्दांशाभास-
रूपत्वात् तत्-साधनत्वाच् चेति भावः ।
तथा योगोऽष्टाङ्गः साङ्ख्यं च । तत् साध्यं तपश् चित्तैकाग्र्यम् । तत्-
साध्यं ब्रह्म-ज्ञानं च तत्-परं । तदीय-सामान्याकार-प्रकाशत्वात् तज्-
ज्ञानस्य ।
योग-तपसोस् तत्-साधनत्वाच् चेति भावः । किं बहुना । गतिस् तत्-प्राप्यं
ब्रह्मापि तत्-परा तदीय-सामान्याकार-प्रकाशत्वेन तद्-
अधीनाविर्भावत्वात् । तद् उक्तं श्री-मत्स्य-देवेन सत्यव्रतं प्रति --
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ इति [भ्प् 8.24.38]
॥ 2.5 ॥ श्री-ब्रह्मा नारदम् ॥ 41-42 ॥
[43]
श्री-विदुर-मैत्रेय-संवादेऽपि । तत्र प्रश्नो यथा -
तत् साधु-वर्यादिश वर्त्म शं नः
संराधितो भगवान् येन पुंसाम् ।
हृदि स्थितो यच्छति भक्ति-पूते
ज्ञानं स-तत्त्वाधिगमं पुराणम् ॥ [भ्प् 3.5.4]
अत्र शं सुख-रूपं वर्त्मेति । टीका च - भक्ति-पूते प्रेम-विमले । स-
तत्त्वं तत्त्वं तच् च ब्रह्म-भगवत्-परमात्मेत्य्-आद्य्-आविर्भावः ॥
॥ 3.5 ॥ श्री-विदुरः श्री-मैत्रेयम्

6.44

[44]
तत्राजानज-देव-स्तुति-द्वारैवोत्तरम् -
पानेन ते देव कथा-सुधायाः
प्रवृद्ध-भक्त्या विशदाशया ये ।
वैराग्य-सारं प्रतिलभ्य बोधं
यथाञ्जसान्वीयुर् अकुण्ठ-धिष्ण्यम् ॥
तथापरे चात्म-समाधि-योग-
बलेन जित्वा प्रकृतिं बलिष्ठाम् ।
त्वाम् एव धीराः पुरुषं विशन्ति
तेषां श्रमः स्यान् न तु सेवया ते ॥ [भ्प् 3.5.45-46]
अकुण्ठ-धिष्ण्यं वैकुण्ठ-लोकम् इति । टीका - विशदाशयाः प्रोज्झित-
कैतवाः सेवैक-पुरुषार्थाः । अपरे मोक्ष-मात्र-कामाः । तन्-मात्र-
पुरुषार्थेऽपि तेषां श्रमः स्यात् । ये तु सेवैक-पुरुषार्थास् तेषां सेवया
श्रमो न स्यात् । सदैव सेवया परमानन्दम् अनुभवताम् आनुषङ्गिकत्या
मोक्षश् च स्याद् इत्य् अर्थः ।
॥ 3.5 ॥ अजानज-देवाः श्री-परमात्मानम्

6.45

[45]
अतएव स्वयं तत् श्लाघ्यते --
सत्-सेवनीयो बत पूरु-वंशो
यल् लोक-पालो भगवत्-प्रधानः ।
बभूविथेहाजित-कीर्ति-मालां
पदे पदे नूतनयस्य् अभीक्ष्णम् ॥ [भ्प् 3.8.1]
तस्मात् कथोपलक्षिता भक्तिर् एव परं श्रेय इति भावः ।
॥ 3.8 ॥ श्री-मैत्रेयः

6.48

[46-47]
श्री-कापिलेयेऽपि यथाह --
न युज्यमानया भक्त्या भगवत्य् अखिलात्मनि ।
सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्म-सिद्धये ॥ [भ्प् 3.25.19]
ब्रह्म-सिद्धिः पर-तत्त्वाविर्भावः । यथा -
एतावान् एव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः ।
तीव्रेण भक्ति-योगेन मनो मय्य् अर्पितं स्थिरम् ॥ [भ्प् 3.25.41]
भक्ति-योगेन श्रवणादिना मय्य् अर्पितं सत् मनः स्थिरं भवतीति यद्
एतावान् एव । अत्रास्मिन् इत्य् अनेनान्यस्मिंस् तु एतावतोऽप्य् अधिको नास्तीति
व्यज्यते ॥
॥3.25॥ श्री-कपिल-देवः ॥46-47॥
[48]
श्री-कुमारोपदेशेऽपि ज्ञानोपदेशानन्तरम् -
यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या
कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः ।
तद्वन् न रिक्त-मतयो यतयोऽपि रुद्ध-
स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥
कृच्छ्रो महान् इह भवार्णवम् अप्लवेशां
षड्-वर्ग-नक्रम् असुखेन तितीर्षन्ति ।
तत् त्वं हरेर् भगवतो भजनीयम् अङ्घ्रिं
कृत्वोडुपं व्यसनम् उत्तर दुस्तरार्णम् ॥ [भ्प् 4.22.37-38}
टीका च - तम् अवेहीति ज्ञानम् उपदिष्टम् । तस्य तु दुष्करत्वेन भक्तिम्
उपदिशति द्वाभ्यां यत्-पाद-पङ्कजेत्य्-आदिकम् आरभ्य । ननु ब्रह्मविद्
आप्नोति परम् इति श्रुतेः [तैत्तु 2.1.1] । कथं यतयो नोद्ग्रथयन्तीत्य् उच्यते
तत्राह कृच्छ्र इति । अप्लवेशां न प्लवस् तरण-हेतुर् ईड, ईशो येषां, तेषाम्
इह तरणे महान् कृच्छ्रः क्लेशः । ते हि असुखेन इन्द्रिय-षड्-वर्ग-ग्राहं
भवार्णवं तितीर्षन्ति ।तस्माद् उडुपं प्लवं दुस्तरार्णं दुस्तरार्णवम् इत्य्
एषा ।
समान-प्राप्ययोर् अपि पथोरेकस्य दुर्गमत्व-
कथनेनान्यस्याभिधेयत्वं स्वत एव सिध्यति । अत्र तितीर्षन्ति मात्रं न तु
तरन्तीत्य् अर्थो ज्ञेयः ।
॥4.22॥ श्री-सनत्-कुमारः श्री-पृथुम्

6.49

[49]
अतो यच् च ज्ञानम् उपदिष्टं तद् अपि तद्-उपदेशाव्यर्थता-सम्पादनेच्छा-
मात्रेणानुष्ठीयमानं तेन भक्ति-रसाद् एव कृतम् इत्य् आह --
सनत्-कुमारो भगवान् यद् आहाध्यात्मिकं परम्
योगं तेनैव पुरुषम् अभजत् पुरुषर्षभः ।
भगवद्-धर्मिणः साधोः श्रद्धया यततः सदा
भक्तिर् भगवति ब्रह्मण्य् अनन्य-विषयाभवत् ॥ [भ्प् 4.23.7-8]
तेनैव द्वारीकृतेन ॥
॥4.23॥ श्री-मैत्रेयः

6.50

[50]
श्री-रुद्र-गीतेऽपि -
इदं जपत भद्रं वो विशुद्धा नृप-नन्दनाः ।
स्व-धर्मम् अनुतिष्ठन्तो भगवत्य् अर्पिताशयाः ॥
तम् एवात्मानम् आत्म-स्थं सर्व-भूतेष्व् अवस्थितम् ।
पूजयध्वं गृणन्तश् च ध्यायन्तश् चासकृद् धरिम् ॥ [भ्प् 4.24.64-65]
अथ तम् एव पूजयध्वं न तु स्वधर्मानुष्ञ्हानाग्रहादिकम् अपि
कुरुध्वम् इत्य् एव-कारार्थः । आत्मस्थं स्वान्तर्यामित्वेन स्थितम् । तद्वद्
अपरेष्व् अपि भूतेष्व् अवस्थितम् आत्मानं परमात्मानं गृणन्तः कीर्तयन्तो
ध्यायन्तश् चेत्य् अन्यत्र मनोवचो व्यापारोऽपि निषिद्धः । असकृद् इति एकस्यां
पूजायां समाप्यमानायाम् एवान्यारभ्द्यव्या न तु कर्माद्याग्रहेण
विच्छेदः कर्तव्य इत्य् अर्थः ॥
॥ 4.24 ॥ श्री-रुद्रः प्रचेतसः

6.52

(पगे 17) [51]
एतद् एव श्री-नारदेनापि स्फुटीकरिष्यते अन्वय-व्यतिरेकाभ्यां । यथाह -
तज् जन्म तानि कर्माणि तद् आयुस् तन् मनो वचः ।
नॄणां येन हि विश्वात्मा सेव्यते हरिर् ईश्वरः ॥
किं जन्मभिस् त्रिभिर् वेह शौक्र-सावित्र-याज्ञिकैः ।
कर्मभिर् वा त्रयी-प्रोक्तैः पुंसोऽपि विबुधायुषा ॥
श्रुतेन तपसा वा किं वचोभिश् चित्त-वृत्तिभिः ।
बुद्ध्या वा किं निपुणया बलेनेन्द्रिय-राधसा ॥
किं वा योगेन साङ्ख्येन न्यास-स्वाध्याययोर् अपि ।
किं वा श्रेयोभिर् अन्यैश् च न यत्रात्म-प्रदो हरिः ॥
श्रेयसाम् अपि सर्वेषाम् आत्मा ह्य् अवधिर् अर्थतः ।
सर्वेषाम् अपि भूतानां हरिर् आत्मात्मदः प्रियः ॥ [भ्प् 4.31.9-13]
शौक्रं शुक्र-सम्बन्धि जन्म विशुद्ध-माता-पितृभ्याम् उत्पत्तिः ।
सावित्रम् उपनयनेन । याज्ञिकं दीक्षया । इन्द्रिय-राधसा तत्-पाटवेन ।
अत्र साङ्ख्येन देहादि-व्यतिरिक्तात्म-ज्ञान-मात्रेणेति टीका ।
अथ श्रेयसाम् इत्य्-आदि-टीका च - नन्व् एषां नाना-फल-साधनानां हरि-
सेवनाभाव-मात्रेण कुतो वैयर्थ्यम् । तत्राह, श्रेयसां फलानाम्
आत्मैवावधिः पराकाष्ठा । अर्थतः परमार्थतः
आत्मार्थत्वेनैवान्येषां प्रियत्वाद् इत्य् अर्थः । भवत्व् आत्मावधिः । हरेः
किम् आयातम् । तत्राह सर्वेषाम् अपीति । आत्मदश् च अविद्यानिरासेन
स्वरूपाभिव्यञ्जकः । ऐश्वरेणापि रूपेण बलि-प्रभृतिभ्य इव आत्मप्रदः ।
प्रियश् च परमानन्द-रूपत्वाद् इत्य् एषा ।
अत्र सर्वेषां भूतानां शुद्ध-जीवानाम् अपि आत्मा परमात्मेति ज्ञेयम् ।
रश्मि-स्थानीयानां जीवानां सूर्य-स्थानीयत्वात् तस्य । तद् उक्तम् --
तस्मात् प्रियतमः स्वात्मा सर्वेषाम् एव देहिनाम् ।
तद् अर्थम् एव सकलं जगच् चैतच् चराचरम् ।
कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ॥ [भ्प् 10.14.54] इति ।
आत्मानौ जीव-तादात्म्यापन्न-ब्रह्मेश्वराख्यौ ददाति यथायथं
स्फोरयति वशीकारयति च यः स आत्मद इति स्वाम्य्-अभिप्रायः ॥
[52]
किं च -
यथा तरोर् मूल-निषेचनेन
तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः ।
प्राणोपहाराच् च यथेन्द्रियाणां
तथैव सर्वार्हणम् अच्युतेज्या ॥ [भ्प् 4.31.12]
टीका च - किं च नाना-कर्मभिस् तत्-तद्-देवता-प्रीति-निमित्तान्य् अपि फलानि
हरि-प्रीत्या भवन्ति । केवल-तत्-तद्-देवताराधनेन तु न किञ्चिद् इति
सदृष्टान्तम् आह यथेत्य्-आदिना ॥
॥ 4.31 ॥ श्री-नारदः प्रचेतसः

6.53

[53]
श्री-ऋषभ-देव-कृत-स्व-पुत्र-शिक्षणेऽपि ये वा मयीशे [भ्प् 5.5.3] इत्य्-
आदिकं, मत्तोऽप्य् अनन्ताद् इत्य्-आदिकं [भ्प् 5.5.25] चाग्रे दर्शनीयम् ।
ब्राह्मण-रहूगण-संवादान्तेऽपीदम् अस्ति --
रहूगण त्वम् अपि ह्य् अध्वनोऽस्य;
सन्न्यस्त-दण्डः कृत-भूत-मैत्रः ।
असज्-जितात्मा हरि-सेवया शितं;
ज्ञानासिम् आदाय तराति-पारम् ॥ [भ्प् 5.13.20] (पगे 18)
ज्ञानम् अत्र भवत्य् आश्रयम् एव । तथोक्तम् एतद्-अनन्तरं श्री-
रहूगणेनैव --
अहो नृ-जन्माखिल-जन्म-शोभनं
किं जन्मभिस् त्व् अपरैर् अप्य् अमुष्मिन्
न यद् धृषीकेश-यशः-कृतात्मनां
महात्मनां वः प्रचुरः समागमः ॥ [भ्प् 5.13.21]
न ह्य् अद्भुतं त्वच्-चरणाब्ज-रेणुभिर्
हतांहसो भक्तिर् अधोक्षजेऽमला ।
मौहूर्तिकाद् यस्य समागमाच् च मे
दुस्तर्क-मूलोऽपहतोऽविवेकः ॥ [भ्प् 5.13.21]
स्पष्टम् ।
॥5.13॥ श्री-ब्राह्मणो रहूगणम्

6.58

[54]
तथा चित्रकेतुं प्रति श्री-सङ्कर्षणोपदेशान्तेऽपि दृष्ट-श्रुताभिर् मात्राभिर्
इत्य् [भ्प् 6.16.62] आदौ मद्-भक्तः पुरुषो भवेद् इत्य् अग्रत उदाहार्यम् ।
असुर-बालानुशासनेऽपि --
कौमार आचरेत् प्राज्ञो धर्मान् भागवतान् इह ।
दुर्लभं मानुषं जन्म तद् अप्य् अध्रुवम् अर्थदम् ॥
यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् ।
यद् एष सर्व-भूतानां प्रिय आत्मेश्वरः सुहृत् ॥ [भ्प् 7.6.1-2]
इहैव मानुष-जन्मनि भागवतान् धर्मान् आचरेत् यतोऽर्थदम् एतज्-
जन्म । देवादि-जन्मनि महा-विषयावेशात् पश्व्-आदि-जन्मनि विवेकाभावाच्
च, मानुषं जन्म च प्राप्य न विलम्बेतेत्याह कौमारे, कौमारम्
आरभ्य इत्य् अर्थः । यतस् तद् अपि जन्म ध्रुवं पुनर् दुर्लभं च ।
शास्त्रस्य च प्राधान्येन मनुष्यम् अधिकृत्य प्रवृत्तत्वात् तद्-
अनुवादेनोक्तिर् इयम् । तद्-बुद्ध्य्-आदि-साम्येन मानुषत्वम् आरोप्यैवेति
ज्ञेयम् । तत्र भागवत-धर्माचरणस्यैव युक्तत्वं दर्शयति यथा हीत्य्-
आदि । इह पुरुषस्य च विष्णोः पादोपसर्पणम् एव यथानुरूपं योग्यम् इत्य्
अर्थः । यद् यस्माद् एव भूतानां स्वभावत एव प्रियः प्रीति-विषयः प्रेम-
कर्ता । तत्र हेतुः आत्मा परमात्मा । पादोपसर्पणे हेत्व्-अन्तरं यस्माच्
चैष ईश्वरः कर्तुम् अकर्तुम् अन्यथा-कर्तुं समर्थः । सुहृत् सर्वेषां
हितं चिकीर्षुश् चेति ।
[55]
तद् एतद् उपक्रम्योपसंहरति ।
धर्मार्थ-काम इति योऽभिहितस् त्रि-वर्ग
ईक्षा त्रयी नय-दमौ विविधा च वार्ता ।
मन्ये तद् एतद् अखिलं निगमस्य सत्यं
स्वात्मार्पणं स्व-सुहृदः परमस्य पुंसः ॥ [भ्प् 7.6.24]
ईक्षा आत्म-विद्या । तद् एतत् सर्वं निगमस्यार्थ-जातं स्व-सुहृदः
स्वान्तर्यामिनः परमस्य पुंसस् तस्मै स्वात्मार्पण-साधनं चेत् तर्हि
सत्यं मन्ये सत्य-फलत्वात् । यद् वा, सत्यम् अर्थ-क्रिया-कारकं सफलम्
इति यावत् । अन्यथा धर्मादीनां निष्फलत्वम् एवेति भावः ॥
॥ 7.6 ॥ श्री-प्रह्लादोऽसुरबालकान् ॥54-55॥
[56]
अग्रे च -
तत्रोपाय-सहस्राणाम् अयं भगवतोदितः ।
यद् ईश्वरे भगवति यथा यैर् अञ्जसा रतिः ॥ [भ्प् 7.7.24]
तत्र पूर्वोक्ते त्रिगुणात्मक-कर्मणां बीज-निर्हरणेऽपि उपाय-सहस्राणां
मध्ये अयम् एव उपायः भगवता श्री-नारदेन मां प्रत्युपदिष्टः । यैर्
उपाय-सहस्रैः सिद्धाद् यद् यस्माद् उपायाद् यथा यथावद् ईश्वरे
भगवति अञ्जसा व्यवधानानन्तरं विनैव रतिः प्रीतिर् भवति । अतः
कर्म-बीज-निर्हरणम् अपि तस्यानुषङ्गिकम् एव फलम् इति भावः । (पगे
19)
[57]
अग्रे च गुरु-शुश्रूषया भक्त्या [भ्प् 7.7.30] इत्य्-आदिभिस्
तस्यैवोपायस्याङ्गान्य् उक्त्वाह -
एवं निर्जित-षड्-वर्गैः क्रियते भक्तिर् ईश्वरे ।
वासुदेवे भगवति यया संलभ्यते रतिः ॥ [भ्प् 7.7.33]
एवं पूर्वोक्त-गुरु-शुश्रूषादि-प्रकारेणैव, न तु तद्-अर्थे पृथक्-
प्रयत्नेन । निर्जित-कर्म-बीज-लक्षण-काम-क्रोध-लोभ-मोह-मद-
मात्सर्यैर् जनैः पुनर् अपि भक्तिः क्रियत एव । यथा वासुदेवे रतिर् अपि
संलभ्यत इत्य् अर्थः ॥
॥ 7.7 ॥ प्रह्लादस् तान् ॥56-57॥
[58]
वर्णाश्रमाचार-कथनारम्भे नरमात्र-धर्म-कथनेऽपि -
धर्म-मूलं हि भगवान् सर्व-वेदमयो हरिः ।
स्मृतं च तद्-विदां राजन् येन चात्मा प्रसीदति ॥ [भ्प् 7.11.7]
धर्मस्य मूलं प्रमाणं भगवान् । यतः सर्व-वेदमयः । स्मृतं
स्मृतिश् च, तद्-विदां वेदमय-भगवद्-विदां, तस्य प्रमाणम् । आभ्यां
तद्-बहिर्मुख-धर्मस्यापार्थत्वं भगवद्-धर्मस्यैवावश्यकत्वं
चोक्तम् । अतएव -
वेदोऽखिलो धर्म-मूलं स्मृति-शीले च तद्-विदाम् ।
आचारश् चैव साधूनाम् आत्मनस् तुष्टिर् एव च ॥ [मनु 2.6]
इति मनुस्मृति-वाक्याद् अप्य् अत्र विशिष्टतयोपदिष्टं, तच् च युक्तम् --
धर्मः प्रोज्झित-कैतवोऽत्र परमो निर्मत्सराणां सतां
वेद्यं वास्तवम् अत्र वस्तु शिवदं ताप-त्रयोन्मूलनम् । [भ्प् 1.1.2] इत्य्
उक्तत्वात् ।
येनैव धर्मेण मनः प्रसीदतीत्य् अनेन येनात्मा सुप्रसीदतीतिवत् सु-
शब्द-विशिष्टतयानुक्तत्वात् तच्-छ्रवणादि-लक्षण-साक्षाद्-भक्तेर् एव
प्रशस्तत्वं च बोधितम् । तत्-तत्-सर्व-धर्म-कथनान्ते तु स्वयम् एव
स्वस्य तृतीये गन्धर्व-जातौ जन्मानुषङ्गिकं भगवत्-तत्त्व-ज्ञान-
मात्रं सत्-कर्मोक्त्वा द्वितीये च शूद्र-जातौ जन्मनि सत्-सङ्गज-श्रवणादि-
मात्रं तद् उक्त्वा, स्वस्य तादृश-भगवत्-पार्षदत्व-पर्यन्त-फल-प्राप्तौ
तथाविधम् अपि स्व-धर्म-लक्षणं कारणान्तरं नादृतवान् ।
तथा हि तत्रैव यूयम् इत्य् [भ्प् 7.10.48] अस्य टीका च - एतच् च सर्व-
साधारणम् उक्तं भक्तस्य तु भक्तिर् एव सर्व-पुरुषार्थत्वे हेतुर् इति
पाण्डवान् एव लक्ष्यीकृत्याह यथा हीत्य् एषा । तस्माद् अत्रापि साक्षात् भक्ताव्
एव तात्पर्यम् । अथात्र त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर् भजन्न्
अपक्वोऽथ पतेत् ततो यदि [भ्प् 1.5.17] इत्य्-आदौ भक्तेर् धर्मातिरिक्तत्वेऽपि
श्रवणं कीर्तनं चास्य स्मरणं महतां गता [भ्प् 7.11.10] इत्य्-आदिनोत्तर-
ग्रन्थे धर्मत्व-विधानं सर्वेष्व् अप्पि प्राणिष्व् आवश्यकत्वापेक्षया
परम-श्रेयो-रूपत्वापेक्षया च लाक्षणिकम् एव । वस्तुतस् तु पञ्चमे
तत्रापीत्यादि-गद्ये [भ्प् 5.9.3] भगवतः कर्म-बन्ध-विध्वंसन-
श्रवण-स्मरणेत्यादिना श्री-जडभरतस्य या भक्ति-निष्ठोक्ता तस्या पितर्य्
उपरत इत्य्-आदि-गद्ये [भ्प् 5.9.7] त्रय्यां विद्यायाम् एव पर्यवसित-मतयो न
पर-विद्यायाम् इत्य्-आदिना तद्-अवज्ञातॄणां तद्-भ्रातॄणाम् अज्ञत्व-बोधनेन
धर्मातिरिक्तत्वं पर-विद्यात्वं च बोधितम् । अतएवोक्तं श्री-नारसिंहे -
(पगे 20)
सनकादयो निवृत्ताख्ये ते च धर्मे नियोजिताः ।
प्रवृत्ताख्ये मरीचाद्याम् उक्त्वैकं नारदं मुनिम् ॥ इति । [नार्प् 4.4]
तेन ब्रह्मणेति प्राकरणिकम् । तथा लक्षणामय-कष्ठ-कल्पनया
श्रवणादीनां स्वधर्मान्तर्गणना च बहिर्मुखानाम् अपि साक्षाद्-भक्ति-
प्रवर्तनायैव । एवम् अन्यत्राप्य् अन्य-मिश्र-भक्त्य्-उदेश-वाक्येषु ज्ञेयम् ।
तस्माद् अपि भक्ताव् एव तात्पर्यम् इति ॥
॥ 7.11 ॥ श्री-नारदो युधिष्ठिरम्

6.63

[59-60]
जायन्तेयोपाख्यानेऽपि अत आत्यन्तिकं क्षेमं पृच्छाम [भ्प् 11.2.28] इत्य्
अस्योत्तरम् -
मन्येऽकुतश्चिद् भयम् अच्युतस्य
पादाम्बुजोपासनम् अत्र नित्यम् ।
उद्विग्न-बुद्धे रसदात्म-भावाद्
विशात्मना यत्र निवर्तते भीः ॥ [भ्प् 11.2.33]
टीका च - प्रथमम् आत्यन्तिकं क्षेमं कथयति मन्ये इत्य्-आदिका । पुनश्
च धर्मान् भागवतान् ब्रूते [भ्प् 11.2.31] इत्युत्तरत्वेन ये वै भगवता
प्रोक्ता उपाया ह्य् आत्म-लब्धये [भ्प् 11.2.34] इत्य्-आदि-पद्य-त्रयम् उक्त्वा
भयं द्वितीयाभिनिवेशतः स्याद् इत्य्-आदि-पद्ये बुध आभजेत् तम्
भक्त्यैकयेशम् [भ्प् 11.2.37] इत्य् अत्र भक्त्येत्य् अनेन तस्या ज्ञानाद्य्-अमिश्र-
श्रवण-कीर्तनादि-लक्षणत्वम् । एकयेत्य् अनेन नैरन्तर्य-लक्षणम्
अव्यभिचारित्वं चोपदिष्टम् । तत्र यद्यपि कायेन वाचा मनसेन्द्रियैर् वेत्य्-
आदि-प्राक्तन-वाक्ये [भ्प् 11.2.36] लौकिकस्यापि कर्मणो भगवद्-अर्पणाद्
भागवत-धर्मत्वं सिध्यतीति यथोक्तं तस्य नैरन्तर्यम् अपि
सम्भवति । तथापि श्रवण-कीर्तनादि-लक्षण-मात्रत्वं व्याहन्येत, तस्मात्
तत्राव्यभिचारित्वं, तन्मात्रत्वं च यथा भवेत् तथोपायं तद्-अनन्तरम्
आह द्वाभ्याम् । तत्र प्रथमम् अव्यभिचारित्वोपायम् आह प्रथमेन --
अविद्यमानेऽप्य् अवभाति हि द्वयो
ध्यातुर् धिया स्वप्न-मनोरथौ यथा ।
तत्-कर्म-संकल्प-विकल्पकं मनो
बुधो निरुन्ध्याद् अभयं ततः स्यात् ॥ [भ्प् 11.2.38]
द्वयः प्रधानादि-द्वैत-पञ्चः । यद्यप्य् अविद्यमान आत्मनि शुद्धे न
विद्यत एवेत्य् अर्थस् तथापि ध्यातुर् अविद्यामय-ध्यान-युक्तस्य सतस् तस्य
धियावभाति, तस्मिन् शुद्धेऽपि कल्पत एवेत्य् अर्थः । यथा स्वप्नो
मनोरथश् च तथेत्य् अर्थः । तत् तस्मात् कर्माणि सङ्कल्पयति विकल्पयति च
यन् मनस् तन् नियच्छेत् । ततश् चाव्यभिचारिण्या भक्त्या भजनाद् अभयं
स्याद् इति भावः ।
[61]
ननु तथापि मनो-निरोध-रूपेण योगाभ्यासेन भक्ति-कैवल्य-व्यभिचारः
स्याद् इत्य् आशङ्क्य भक्त्यैव क्रियमाणया तद्-आसक्तत्वेन स्वत एव मनो-
निरोधोऽपि स्याद् इति । तन्-मात्रत्वोपायम् आह द्वितीयेन --
शृण्वन् सुभद्राणि रथाङ्ग-पाणेर्
जन्मानि कर्माणि च यानि लोके ।
गीतानि नामानि तद्-अर्थकानि
गायन् विलज्जो विचरेद् असङ्गः ॥ [भ्प् 11.2.39]
तद्-अर्थकाणि तानि जन्मानि कर्माणि चार्थो येषां तानि नामानि । एतान्य् अपि
साकल्येन ज्ञातुम् अशक्यानीत्य् आशङ्क्याह यानि लोके गीतानि प्रसिद्धानि, तानि
शृण्वन् गायंश् च विचरेत् । असङ्गो निःस्पृहः ॥
॥ 11.2 ॥ श्री-कविर् विदेहम् ॥ 59-61 ॥
[62]
अग्रे च कर्मादीन् परिहरन् साक्षाद् भक्तिम् एव विधत्ते -
परोक्ष-वादो वेदोऽयं बालानाम् अनुशासनम् ।
कर्म-मोक्षाय कर्माणि विधत्ते ह्य् अगदं यथा ॥
नाचरेद् यस् तु वेदोक्तं स्वयम् अज्ञोऽजितेन्द्रियः ।
विकर्मणा ह्य् अधर्मेण मृत्योर् मृत्युम् उपैति सः ॥
वेदोक्तम् एव कुर्वाणो निःसङ्गोऽर्पितम् ईश्वरे ।
नैष्कर्म्यं लभते सिद्धिं रोचनार्था फल-श्रुतिः ॥
य आशु हृदय-ग्रन्थिं निरिजिहीर्षुः परात्मनः ।
विधिना च यजेद् देवं तन्त्रोक्तेन च केशवम् ॥ [भ्प् 11.3.44-47] इत्य् आदि ।
परोक्षेति टीका च - यत्रान्यथा स्थितोऽर्थः सङ्गोपयितुम् अन्यथा कृत्वोच्यते
स परोक्ष-वादः । तथा च श्रुतिः - तं वा एतं चतुर्छुतं (?) सन्तं
चतुर्होतेत्य् आचक्षते परोक्षेण परोक्ष-प्रिया एव हि वेदा इति । परोक्ष-
वादम् एवाह कर्म-मोक्षायेति । ननु स्वर्गाद्य्-अर्थं कर्माणि विधत्ते न
कर्म-मोक्षार्थं तत्राह बालानाम् अनुशासनं यथा तथा । अत्र
दृष्टान्तः अगदम् औषधं यथा पिता बालम् अगदं पाययन् खण्ड-
लड्डुकादिभिः प्रलोभ्यन् पाययति ददाति च तानि खण्ड-लड्डुकादीनि ।
नैतावता अगदस्य तल्-लाभः प्रयोजनम् अपित्वारोग्यम् । तथा वेदोऽप्य्
अवान्तर-फलैः प्रलोभयन् कर्म-मोक्षायैव कर्माणि विधत्त इत्य् एषा ।
अज्ञो न विद्यते ज्ञा श्री-भगवतः कथा-श्रवणादौ श्रद्धा-लक्षणा धी-
वृत्तिर् यस्य सः । अतएव तस्मिन् न प्रवर्तत इत्य् अर्थः । तथैवाजितेन्द्रियो
ब्रह्म-जिज्ञासुः सन् पारमेष्ठ्य-पर्यन्त-भोगे विरक्तो वा न भवतीत्य्
अर्थः । तावत् कर्माणि कुर्वीत इत्य्-आदौ [भ्प् 11.2.9] परसपर-निरपेक्षयोः
श्रद्धा-विरक्तयोर् द्वयोर् एव तत्-तन्-मर्यादात्वेनोक्तेः । विकर्मणा
विहिताकरण-रूपेण मृत्योर् अनन्तरं मृत्युं मरण-तुल्यां यातनाम्
उपैति । पुनः पुनर् मरणम् उपैत् यातनान् चोपैतीत्य् अर्थः । अतस् तेषां
विहित-कर्म-त्यागे कथञ्चिन् न निस्तारः । ईश्वर-प्रयोजक-कर्तृकस्य
कर्मणः ईश्वरार्पण-लक्षण-यथार्थानुष्ठानेन तत्-प्रसादे त्व् असौ
सुतराम् एवं स्याद् इत्य् आह वेदोक्तम् इति । तस्माद् वेदोक्तम् एव कुर्वाणो न
तु निषिद्धम् । नैष्कर्म्यां कर्म-बन्धागोचरता-रूपां सिद्धिं लभते ।
ननु कर्मणि क्रियमाणे तस्मिन्न् आसक्तिस् तत्-फलं च स्यान् न तु नैष्कर्म-
रूपा सिद्धिर् अत आह निःसङ्गोऽनभिनिवेशवान् । ईश्वरे तन्-निमित्तम् एव
तत्रार्पितं न तु फलोद्देशेन ।
ननु फलस्य श्रुतत्वात् कर्मणि कृते फलं भवेद् एव । न, रोचनार्थेति
कर्मणि रुच्य्-उत्पादनार्था अगद-पाने खण्डलड्डुकादिवत् । ततश् च (पगे
22) कर्माभिरुच्या वेदार्थं सम्यग् विचारयति । अथ च -- यो वा एतद्
अक्षरम् अविदित्वा गार्ग्य् अस्माल् लोकात् प्रैति स कृपण [बृहद् 3.8.10] इत्य्
अनेनाब्रह्मज्ञस्य कृपणतां, तम् एतं वेदानुवचनेन बाह्मणा
विविदिषन्ति ब्रह्मचर्येण [बृहद् 4.4.22] इत्य् आदिना यज्ञादीनां ज्ञान-शेषतां
चावधार्य निष्कामेषु कर्मसु प्रवर्तते । ततः स्वर्ग-कामो यजेत इत्य्
आदिभिः कामितस्यैव स्वर्गादेः फलत्वेनावगमाद् अकामितोऽसौ न भवतीति
नैष्कर्म्य-सिद्धिः स्वत एव भवतीति स्थिते किम् उत श्रीमद्-ईश्वरार्पणेन
तत्-प्रसादे सतीत्य् अर्थः ।
तद् एवं विलम्बेनैव नैष्कर्म्य-सिद्धेर् हेतुम् उक्त्वा यथा तरोर् मूल-
निषेचनेन [भ्प् 4.31.14] इति न्यायेन सर्व-धर्म-पर्याप्ति-हेतुंनैष्कर्म-
सिद्धि-साध्य-हृदय-ग्रन्थि-भेदस्यापि शीघ्रोपायं स्वातन्त्र्येनाह य आश्व्
इति । य आशु शीघ्रम् एव देह-द्वयात् परस्य आत्मनो जीवस्य हृदय-ग्रन्थिं
देहाहङ्कारं निरह्र्तुम् इच्छुर् भवति स त्व् अन्यत् कर्मादिक्ं स्वरूपत एव
त्यक्त्वा तन्त्रोक्तेनागम-मार्गेण चकारात् वेदोक्तेन च विधिना प्रकारेण
केशवं देवम् अर्चयेत् ।
[63]
अन्य-देव-दृष्टि-परित्यागार्थस् तथोपसहारश् च ।
एवम् अग्न्य्-अर्क-तोयाद् अतिथौ हृदये च यः ।
यजतीश्वरम् आत्मानम् अचिरान् मुच्यते हि सः ॥ [भ्प् 11.3.55]
आत्मानं परमात्मानम् ॥
॥11.3॥ श्रीमद्-आविर्होत्रो विदेहम्

6.64

[64]
अग्रे च व्यतिरेकमुखेन -
भगवन्तं हरिं प्रायो न भजन्त्य् आत्म-वित्तमाः ।
तेषाम् अशान्त-कामानां का निष्ठा विजितात्मनाम् ॥ [भ्प् 11.5.1]
इत्य्-एतत्-प्रश्नोत्तरम् -
मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥
य एवं पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् ।
न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ [भ्प् 11.5.2-3]
पूर्वं श्री-द्रविडोपदेशेऽपि देव-कृत-श्री-नारायण-स्तुतौ --
त्वां सेवतां सुर-कृता बहवोऽन्तरायाः
स्वौको विलङ्घ्य परमं व्रजतां पदं ते ।
नान्यस्य बर्हिषि बलीन् ददतः स्व-भागान्
धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि ॥ [भ्प् 11.4.10] इत्य् उक्तम् ।
तत्र च यज्ञे स्व-भागान् ददतः सुर-कृता विघ्ना न भवन्ति । त्वां
सेवमानानां तु मात्सर्येण तत्-कृतास् ते भवन्ति किन्तु यदीति निश्चये यदि
वेदाः प्रमाणम् इतिवन् निश्चितम् एव त्वं तेषाम् अवितेति । त्वां सेवमानो
विघ्न-मूर्ध्नि पदं च धत्ते प्रतुत तम् एव सोपानम् इव कृत्वा व्रजतीत्य्
अर्थः । तद् एवं श्रुत्वा संसार एव तिष्ठतां यत् पर्यवसानं भवेत् तत्
पृष्ठं भगवन्तम् इत्य् आदिना तत्रोत्तरयन् प्रथमं तेषां
प्रत्यवायित्वम् आह मुखेति पादोन-द्वयेन । पर्यवसानम् आह स्थानाद्
इति पादेन ॥
॥ 11.5 ॥ श्री-चमसो विदेहम्

6.65

[65]
अग्रे च पूर्वोक्त-प्रकारेण भक्तेर् एवाभिहितत्वे भवेत् तस्य तद्-विशेष-
प्रश्नोऽपि युक्तः । कस्मिन् काल इत्य् आदिना [भ्प् 11.5.18] तथैवोत्तरितम् ।
कृतं त्रेता द्वापरं च कलिर् इत्य् एषु केशवः ।
नाना-वर्णाभिधाकारो नानैव विधिनेज्यते ॥ [भ्प् 11.5.20]
नानैव विधिना विविधेन मार्गेन ॥
॥ 11.5 ॥ श्री-करभाजनो विदेहम्

6.66

[66]
श्री-भगवद्-उद्धव-संवादेऽपि -
त्वं तु सर्वं परित्यज्य स्नेहं स्व-जन-बन्धुषु
मय्य् आवेश्य मनः सम्यक् सम-दृग् विचरस्व गाम् ॥ [भ्प् 11.7.6]
नोद्धवोऽण्व् अपि मन्-न्यून [भ्प् 3.4.31] इत्य्-आदिभिः श्रीमद्-उद्ध्वस्य
सिद्धत्वेनैव प्रसिद्धत्वात् तं लक्ष्यीकृत्य तद्-द्वारान्येभ्य
एवोपदेशोऽयम् । एवम् अन्यत्र ज्ञेयम् । ततश् च जहल्-लक्षणया त्वं त्वदीय-
मार्गानुगतो भक्तो विचरस्व विचरत्व् इत्य् एवार्थः । समदृक्त्वं च मां
विनान्यत्र हेयोपादेयत्वाभावात् । तु-शब्दो बहिर्मुख-निवृत्त्य्-अर्थः ।
तेनापि पूर्वम् इदम् अभिप्रेतम् ।
त्वयोपयुक्त-स्रग्-गन्ध-वासोऽलङ्कार-चर्चिताः ।
उच्छिष्ट-भोजिनो दासास् तव मायां जयेमहि ॥
मुनयो वात-वासनाः[*एन्द्नोते #2] श्रमणा ऊर्ध्व-मन्थिनः ।
ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासिनोऽमलाः ॥
वयं त्व् इह महायोगिन् भ्रमन्तः कर्म-वर्त्मसु ।
त्वद्-वार्तया तरिष्यामस् तावकैर् दुस्तरं तमः ॥
स्मरन्तः कीर्तयन्तश् च कृतानि गदितानि ते ।
गत्य्-उत्स्मितेक्षित-क्ष्वेलि यन् नृलोक-विडम्बनम् ॥ [भ्प् 11.6.46-50] इति ।
॥ 11.7 ॥ श्री-भगवान्

6.85

[67]
अग्रे च ज्ञान-योगस्य केवलयासाध्यत्वं भक्ति-योगस्य तु सुख-
साध्यत्वम् आनुषाङ्गिकतया ज्ञान-जनकत्वं स्वयम् अपि पुरुषार्थत्वं
चेति । यथा -
न कुर्यान् न वदेत् किञ्चिन् न ध्यायेत् साध्व् असाधु वा ।
आत्मारामोऽनया वृत्त्या विचरेज् जडवन् मुनिः ॥ [भ्प् 11.11.17]
इत्य् अन्तेन ज्ञान-योगम् उक्त्वा भक्ति-योगम् उद्द्भावयितुम् आह --
शब्द-ब्रह्मणि निष्णातो निष्णायात् परे यदि ।
श्रुतस् तस्य श्रम-फलो ह्य् अधेनुम् इव रक्षत ॥ [भ्प् 11.11.18]
अत्र पर-ब्रह्म-पदेन पर-तत्त्व-मात्रम् उच्यते ।न तु ब्रह्मत्व-
भगवत्त्वादि-विवेकेनेति ज्ञेयम्, सर्वत्र तत्-साम्यात् । तद् एवं शब्द-
ब्रह्माभ्यासस्य पर-ब्रह्माभ्यासः प्रयोजनम् इत्य् उक्तम् । तत्र सर्वेष्व्
एवांशेषु विशेषतः उपनिषद्-भागेषु शब्द-ब्रह्मणस् तत्-प्रतिपादकत्वे
स्थितेऽपि तद्-विचार-कोटिभिर् अपि पर-ब्रह्म-निष्ठा न जायते, किन्तु तस्मिन्
यस्मिन्न् अंशे श्री-भगवद्-आकार-पर-ब्रह्म-लीलादिकं प्रतिपाद्यते तद्-
अभ्यासेनैव भगवद्-आकारे च निष्ठा जायते । तद् उक्तम् --
संसार-सिन्धुम् अतिदुस्तरम् उत्तितीर्षोर्
नान्यः प्लवो भगवतः पुरुषोत्तमस्य ।
लीला-कथा-रस-निषेवणम् अन्तरेण
पुंसो भवेद् विविध-दुःख-दवार्दितस्य ॥[भ्प् 12.4.40] (पगे24)
श्रेयः-सृतिं भक्तिम् उदस्य ते विभो
क्लिश्यन्ति ये केवेल-बोध-लब्धये ।
तेषाम् असौ क्लेशल एव शिष्यते
नान्यद् यथा स्थूल-तुषावघातिनाम् ॥ [भ्प् 10.14.4] इत्य्-आदि च ।
[68-69]
अतएव मदीय-लीला-शून्यां वैदिकीम् अपि वाचं नाभसेद् इत्य् आह द्वाभ्याम् -
गां दुग्ध-दोहाम् असतीं च भार्यां
देहं पराधीनम् असत्-प्रजां च ।
वित्तं त्वत्-तीर्थीकृतम् अङ्ग वाचं
हीनां मया रक्षति दुःख-दुःखी ॥ [भ्प् 11.11.19]
मया श्री-भगवता हीनां मम लीलादि-शून्याम् । मया हीनां वाचम् इत्य्
उक्तं विवृणोति -
यस्यां न मे पावनम् अङ्ग कर्म
स्थितुद्भव-प्राण-निरोधम् अस्य ।
लीलावतारेप्सित-जन्म- वा स्याद्
बन्ध्यां गिरं तां विभृयान् न धीरः ॥ [भ्प् 11.11.20]
यस्यां मे जगतः शोधकं चरितं न स्यात् किं तद् अस्य विश्वस्य स्थित्य्-आदि-
रूपं तद्-धेतुर् इत्य् अर्थस् ततोऽप्य् उत्कृष्टतमत्वेन विमृष्याह लीलावतारेषु
ईप्सितं जगतः प्रेमास्पदं श्री-कृष्ण-रामादि-जन्म वा न स्यात्, तां
निष्फलां गिरं वेद-लक्षणाम् अपि धीरो धीमान् न धारयेत् । तद् उक्तं
श्री-नारदेन - इदं हि पुंसस् तपमः श्रुतस्य वा [भ्य्प् 1.5.22] इत्य् आदि ।
अतएव गीतं कलि-युग-पावनावतारेण श्री-भगवता -
श्रुतम् अप्य् औपनिषदं दूरे हरि-कथामृतम् ।
यन् न सन्ति द्रवच्-चित्त-कम्पाश्रु-पुलकादयम् ॥ [पद्यावली, 39] इति ।
[70]
तद् एवं भक्त्यैव ज्ञानं सिध्यतीत्य् उक्त्वा तं च ज्ञान-मार्गम्
उपसंहरति -
एवं जिज्ञासयापोह्य नानात्व-भ्रमम् आत्मनि ।
उपारमेत विरजं मनो मय्य् अर्प्य सर्वगे ॥ [भ्प् 11.11.21]
जिज्ञासया बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः [भ्प् 11.11.1] इत्य्-
आदि-पूर्वोक्त-प्रकारक-विचारेण । आत्मनि शुद्ध-जीवे । नानात्वं देवत्व-
मनुष्यत्वादि-भेदम् अपोह्य । एवं मल्-लीलादि-श्रवणेन मनो मयि
ब्रह्माकारे सर्वगे अर्प्य धारयित्वा उपारमेत ।
[71]
तद् एवं ज्ञान-मिश्रां भक्तिम् उपदिश्य तद्-अनादरेणानुषङ्ग-सिद्ध-
ज्ञान-गुणां शुद्धाम् एव भक्तिम् उपदिशति चतुर्भिः -
यद्य् अनीशो धारयितुं मनो ब्रह्मणि निश्चलम् ।
मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ [भ्प् 11.11.22]
यदीति निश्चये । टीकायां धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि [भ्प्
11.4.10] इत्य्-आदिवत् । अत्र ज्ञानेच्छुर् एव प्रकृतेः । श्रीमद्-उद्धवं प्रति च
तादृशत्वम् आरोप्यैवेदम् उच्यते । ततश् च श्रेयः-सृतिं भक्तिम् उदस्य ते
विभो क्लिश्यन्ति [भ्प् 10.14.4] इत्य्-आदि-प्रमाणेन भक्तिं विना केवल-ज्ञान-
मार्गेण मनो ब्रह्मणि धारयितुं निश्चितम् एवानीशो भवसि । ततोऽपि स्वतो
ज्ञानादि-सर्व-गुण-सेवितं भक्ति-योगम् एवाश्रयेति तत्-सोपानम् उपदिशति
मयीत्य्-आदिना ।
[72]
अथवा प्राक्तन-भक्ति-(पगे 25) बलाभावाद् ब्रह्म-ज्ञानेच्छुर् यदि तत्र
मनो धारयितुम् अनीशः स्यात्, तदाधुनाप्य् एवं कुर्वीतेति योज्यम् ।
समाचर अर्पय । निरपेक्षो वाञ्छान्तर-रहितः ।
श्रद्धालुर् मत्-कथाः शृण्वन् सुभद्रा लोक-पावनीः ।
गायन्न् अनुस्मरन् कर्म जन्म चाभिनयन् मुहुः ॥
मद्-अर्थे धर्म-कामार्थान् आचरन् मद्-अपाश्रयः ।
लभते निश्चलां भक्तिं मय्य् उद्धव सनातने ॥ [भ्प् 11.11.23-4]
टीका च - मद्-अर्पणः कर्मभिर् विशुद्ध-सत्त्वस्यान्तरङ्गां भक्तिम् आह
श्रद्धालुर् इतीत्य् एषा ।
अभिनयन् जन्म-कर्म-लीलयोर् मध्ये येऽंशा निजाभीष्ट-भाव-भक्ति-
गतास् तान् स्वयम् अनुकुर्वन् भगवद्-गतां भक्तान्तर-गतांश् च तान् अन्य-
द्वारानुकुर्वन्न् इत्य् अर्थः । किं च, यो धर्मो गोदानादि-लक्षणस् तम् अपि
मद्-अर्थे मदीय-जन्मादि-महोत्सवाङ्गत्वेनैव । यश् च कामो महा-
प्रासाद-वासादि-लक्षणस् तम् अपि मद्-अर्थे मदीय-सेवाद्य्-अर्थे मन्-
मन्दिर-वासादि-लक्सणत्वेनैव । यश् चार्थो धन-सङ्ग्रहस् तम् अपि मद्-
अर्थे मत्-सेवा-मात्रोपयोगित्वेनैवाचरन् सेवमानः । मद्-अपाश्रयः मद्-
अर्थे आश्रयान्तर-शून्य-चेताश् च सन् ताम् एव कथा-श्रवणादि-लक्षणां
भक्तिं मयि निश्चलां काल-त्रयेऽप्य् अव्यभिचारिणीं लभते, तत्-सुखेन
कैवल्यादाव् अप्य् अनादरात् । न च भजनीयस्य चलतया वा सा चलिष्यतीति
मन्तव्यम् इत्य् आह सनातन इति ।
[73-74]
नन्व् एवम्भूत-भक्ति-मार्ग-प्रवृत्तिर् निष्ठा वा कथं स्याद् इत्य् आशङ्क्य
तत्र हेतुम् आह -
सत्-सङ्ग-लब्धया भक्त्या मयि मां स उपासिता ।
इति भक्त्या भक्ति-रुच्या स भक्तो माम् उपासिता भजमानो भवति । तस्य
च भक्तस्य मदीयं ब्रह्माकारं भगवद्-आकारं च सर्वम् अपि स्वरूप-
विज्ञानम् अनायासेनैव भवतीत्य् आह --
स वै मे दर्शितं सद्भिर् अञ्जसा विन्दते पदम् ॥ [भ्प् 11.11.25] इति ।
अञ्जसा भक्त्य्-अनुषङ्गेनैव । पदं स्वरूपम् ॥
॥ 11.11 ॥ श्री-भगवान् ॥ 67-75 ॥
[75]
अग्रे च भक्ति-योगस्यैव प्राक्-सिद्धता, साक्षात् श्री-भगवत्-प्रवर्तितता
स्वयम् एव मुख्यता । परेषाम् अर्वाचीनता यथा-रुचिनानआजन-प्रवर्तितता
तुच्छता चेति । यथा, श्रीमद्-उद्धव उवाच --
वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्म-वादिनः ।
तेषां विकल्प-प्राधान्यम् उताहो एक-मुख्यया ॥
भवतोदाहृतः स्वामिन् भक्तियोगोऽनपेक्षितः ।
निरस्य सर्वतः सङ्गं येन त्वय्य् आविशेन् मनः ॥ [भ्प् 11.14.1-2]
टीका च - श्रेयांसि श्रेयः-साधनानि । किं विकल्पेन प्राधान्यम् उताहो किं
वा एकस्यैव मुख्यता, एक-मुख्यतापेक्षोत्थापने कारणं भवतेति । न
अपेक्षितम् अनपेक्षा यस्मिन् स अहैतुकः । अयम् अर्थो - भवता यो भक्ति-
योग उक्तः, अन्ये च यानि निःश्रेयस-साधनानि वदन्ति त्तेषां किं फल-
साधनत्वेन प्राधान्यम् एव सर्वेषाम् उताङ्गाङ्गित्वम् । प्राधान्येनापि

सर्वेषां किं विकल्पेन तुल्य-फलत्वं यद् वा कश्चिद् विशेष इत्य् एषा ।
[76]
अत्रोत्तरं श्री-भगवान् उवाच --
कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता ।
मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः ॥ [भ्प् 11.14.3]
(पगे 26)
टीका च - तत्र भक्तिर् एव महा-फलत्वेन मुख्या, अन्यानि तु स्वस्व-
प्रकृत्य्-अनुसारेण ख-पुष्प-स्थानीय-स्वर्गादि-फल-बुद्धिभिः प्राणिभिः
प्राधान्येन परिकल्पितानि क्षुल्लक-फलानीति विवेक्तुं प्रकृत्य्-अनुसारेण
बहुधा प्रतिपत्तिम् आह कालेनेति सप्तभिः । मद्-अत्मको मय्य् एवात्मा चित्तं
येन स इत्य् एषा ।
यद् वा मदात्मको मत्-स्वरूप-भूतो निर्गुणत्वास्मत्-स्वरूप-भूतो भक्ति-
लक्षणो धर्मः प्रोक्तः सर्व-समन्वये प्रतिपादितम् इत्य् अर्थः ।
[77-80]
तद् एवं सति तस्याम् एवानेक-विध-श्रेयो-वदने हेतुम् आह --
मन्-माया-मोहित-धियः पुरुषाः पुरुषर्षभ ।
श्रेयो वदन्त्य् अनेकान्तं यथा-कर्म यथ-रुचि ॥ [भ्प् 11.14.9]
तत्-प्रकृतीनां माया-गुण-मूलत्वाद् मन्मायामोहितधियः । अनेकान्तं
नाना-विधम् । श्रेयः पुरुषार्थं तत्-साधनं च । यतः -
न साधयति मां योगो न साङ्ख्यं धर्म उद्धव ।
न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता ॥ [भ्प् 11.14.20]
न साधयति न वशीकरोति । तपो ज्ञानम् । त्यागः सन्न्यासः ।
धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता ।
मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥ [भ्प् 11.14.22]
धर्मो निष्कामः । विद्या शास्त्रीयं ब्रह्म-ज्ञानम् । तपस् तद्-ईक्षणम् ।
भक्ति-लक्षणैस् तु --
यथा यथात्मा परिमृज्यतेऽसौ
मत्-पुण्य-गाथा-श्रवणाभिधानैः ।
तथा तथा पश्यति वस्तु सूक्ष्मं
चक्षुर् यथैवाञ्जन-सम्प्रयुक्तम् ॥ [भ्प् 11.14.26]
टीका च - ननु ब्रह्म-विद् आप्नोति परम् [तैत्तु 2.1.1] तम् एव
विदित्वातिमृत्युम् एति [श्वेतु 6.15] इत्य् आदि-श्रुतिभ्यो ज्ञानाद् एवाविद्या-निवृत्त्या
त्वत्-प्राप्तिर् अवगम्यते कुतो भक्ति-योगेनेत्य् उच्यते । अत्राह यथा यतेति ।
आत्मा चित्तं परिमृज्यते शोद्यते मत्-पुण्य-गाथानां श्रवणैर् अभिधानैश्
च । भक्त-रेवावान्तर-व्यापारो ज्ञानं न पृथग् इत्य् अर्थम् । इत्य् एषा ।
॥ 11.14 ॥ श्री-भगवान् ॥77-80॥
[81-83]
अग्रे च कर्म-ज्ञान-भक्ति-योगान् तत्-तद्-अधिकारितायां पृथग् हेतूंश्
चोक्त्वा ज्ञान-कर्मानादरेण (पगे 27) भक्तेर् एवाभिधेयत्वम् आह
पञ्चभिः । तत्र ज्ञानाभ्यासानादरं वक्तुं तद्-अधिकार-हेतु-
वैराग्याभ्यासानादरं विधत्ते --
प्रोक्तेन भक्ति-योगेन भजतो मासकृन् मुनेः ।
कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥ [भ्प् 11.20.29]
ज्ञानाभ्यासानादरं विधत्ते --
भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः ।
क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥ [भ्प् 11.20.30]
भक्त्यैव दृष्टे साक्षात्-कृते । तथैवाह -
तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥ [भ्प् 11.20.31]
टीका च - तद् एवं व्यवस्ह्तयाधिकारि-त्रयम् उक्तम् । तत्र भक्तेर् अन्य-
निरपेक्षत्वाद् अन्यस्य च तत्-सापेक्षत्वाद् भक्ति-योग एव श्रेष्ठ इत्य्
उपसंहरति तस्माद् इति त्रिभिः ।मद्-आत्मनो मयि आत्मा चित्तं यस्य तस्य
श्रेयः-साधनम् इत्य् एषा ।
अत्र प्रायो-ग्रहणस्यायं भावः । भजतां ज्ञान-वैराग्याभ्यासेन
प्रयोजनं नास्त्य् एव । तत्र यथा-स्थितेऽपि सद्यो मुक्ति-मार्गे केषांचित्
क्रम-मुक्ति-मार्गे प्रवृत्तिर् जायते । तथा ब्रह्म-भूतः प्रसन्नात्मा
[गीता 18.54] इत्य् आदि श्री-गीतानुसारेण यदि क्रम-भक्ति-मार्गे प्रवृत्तिः स्यात्
तदा भवत्व् इति । तद् एवं भक्तेः प्रेम-लक्षणे सर्व-फल-राजे स्व-फले
नास्त्य् एव ज्ञानाद्य्-अपेक्षा ।
[84]
पृथक् पृथक् ज्ञानादि-फलेऽपि साध्ये नास्तीत्य् आह --
यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् ।
योगेन दाम-धर्मेण श्रेयोभिर् इतरैर् अपि ॥
सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ [भ्प् 11.20.32-33]
इतरैस् तीर्थ-यात्रा-व्रतादिभिर् अपि यद् भाव्यं तत् सर्वं मद्-भक्ति-योगेन
मद्-भक्तौ लभते । तत्राप्य् अञ्जसा अनायासेनैव किं तत् सर्वम् । तद् आह -
स्वर्गावर्गम् इति । स्वर्गः प्रापञ्चिक-सुखं सत्त्व-शुद्ध्य्-आदि-
क्रमेणापवर्गो मोक्ष-सुखं च । तद्-अतिक्रमि-सुखं च भवतीत्य् आह -
मद्-धाम वैकुण्ठं चेति । कथञ्चिद् भक्त्य्-उपकरणत्वेनैव यदि
वाञ्छति कश्चित्, तत्र श्री-चित्रकेत्व्-आदिवत् स्वर्ग-वाञ्छा । तस्य भक्त्य्-
उपकरणत्वं चोक्तं - रेमे विद्याधर-स्त्रीभिर् गापयन् हरिम् ईश्वरम्
[भ्प् 6.17.3] इति । श्री-शुकादिवद्-अपवर्ग-वाञ्छा । तत्-प्रार्थनया गो-
शृङ्गोपरि-सर्षप-स्थिति-कालं व्याप्य श्री-कृष्णेन दूरीकृतायां मायायां
सत्यां मातृ-गर्भाद् बहिर्बभूव इति ब्रह्म-वैवर्त-कथा । तत्र च
भक्त्य्-उपकरणत्वं ब्रह्म-भूतः प्रसन्नात्मा इत्य्-आदि-गीता-वचनात् ।
तथा प्राप्त-भगवत्-पार्षद-तदीय-वृन्द-विशेषवद् वैकुण्ठेच्छा । ते
हि प्रेम्णा साक्षात् श्री-भगवच्-चरणारविन्द-सेवेच्छयैव तत्-प्रार्थ्यं
(पगे 28) प्राप्तवन्तः । यच् च व्रजन्त्य् अनिमिषामृषभानु-वृत्त्या [भ्प्
3.15.25]
॥ 11.20 ॥ श्री-भगवान् ॥ 81-84॥
[85]
अन्ते च -
एषा बुद्धिमतां बुद्धिर् मनीषा च मनीषिणाम् ।
यत् सत्यम् अनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ [भ्प् 11.29.22]
टीका च - अतो मद्-भजनम् एव बुद्धेर् विवेकस्य मनीषायाश् चातुर्यस्य
च फलम् इत्य् आह एषेति । ताम् एव दर्शयति सत्यम् अमृतं च मा माम्
अनृतेनासत्येन मर्त्येन विनाशिना मनुष्य-देहेन इह अस्मिन्न् एव जन्मनि
प्राप्नोतीति यत् सैव बुद्धिर् मनीषा चेति । बुद्धिर् विवेको मनीषा चातुर्यम्
इत्य् एषा ।
पूर्वं भक्ति-प्रकरणस्य गतत्वाद् इत्य् अतो हेतूपन्यासः कृतः -
हरिश्चन्द्रो रन्तिदेव उञ्छ-वृत्तिः शिविर् बलिः ।
व्याधः कपोतो बहवो ह्य् अध्रुवेण ध्रुवं गताः ॥ [भ्प् 10.72.19] इति ।
॥ 11.29

6.86

[86]
श्री-शुकोपदेशोपसंहारे च श्रवणम् उपलक्ष्य -
संसार-सिन्धुम् अतिदुस्तरम् उत्तितीर्षोर्
नान्यः प्लवो भगवतः पुरुषोत्तमस्य ।
लीला-कथा-रस-निषेवणम् अन्तरेण
पुंसो भवेद् विविध-दुःख-दवार्दितस्य ॥ [भ्प् 12.4.40]
टीका च - अन्यः प्लव उत्तरण-साधनं न भवेद् उपायान्तराभावाद् इत्य्
एषा । अन्यासाम् अपि भक्तीनां तत्-पूर्वकत्वेनैव प्रवृत्तेर्
उपायान्तरासम्भवत्वम् उक्तम् । एतद्-अनन्तराध्यायश् च
तादृशोपक्रमोपसंहार-मय एव ।
अत्रानुगीयतेऽभीक्ष्णं भगवान् हरिर् ईश्वरः ।
यस्य प्रसादजो ब्रह्मा रुद्रः क्रोध-समुद्भवः ॥ [भ्प् 12.5.1]
इत्य् उपक्रम्य, एतत् कथितं तात यद् आत्मा पृष्टवान् नृपः [भ्प् 1.19.5] हरेर्
विश्वात्मनश् चेष्टां किं भूयः श्रोतुम् इच्छसि [भ्प् 12.5.14] इत्य्
उपसंहारेऽपि । तादृश-महिमत्वेन पूर्वोक्त-लीला-कथा-श्रवणस्यैव
प्राधान्यात् अत उपक्रमोपसंहार-निर्दिष्टत्वात् श्रवणोपलक्षित-भक्तेर्
एवात्रापि प्राधान्यम् । यस् तु तन्-मध्ये त्वं तु राजन् मरिष्यति [भ्प् 12.5.2]
इत्य् आदिना ज्ञानोपदेशः स च तस्य या प्राग् अवगता भक्ति-निष्ठाया एव
स्वयं दर्शयिष्यमाणत्वात् । तत्र प्राचीना तन्-निष्ठा यथा प्रथमे
कृष्णाङ्घ्रि-सेवाम् अधिमन्यमानः [भ्प् 1.19.5] इति । दध्यौ
मुकुन्दाङ्घ्रिम् अनन्य-भावः [भ्प् 1.19.7] इत्य् आदि तन्-निष्ठतैव । तद्-
भय-परित्यागो यथा तद्-वाक्ये - (पगे 29)
द्विजोपसृष्टः कुहकस् तक्षको वा
दशत्व् अलं गायत विष्णु-गाथाः ॥ [भ्प् 1.19.15] इति ।
तज्-ज्ञानोपदेशम् अबहु मत्वा श्रवण-लक्षणया भक्त्यैव स्व-
कृतार्थत्वम् उक्तम् ।
सिद्धोऽस्म्य् अनुगृहीतोऽस्मि भवता करुणात्मना ।
श्रावितो यच् च मे साक्षाद् अनादि-निधनो हरिः ॥
नात्यद्भुतम् अहं मन्ये महताम् अच्युतात्मनाम् ।
अज्ञेषु ताप-तप्तेषु भूतेषु यद्-अनुग्रहः ॥
पुराण-संहिताम् एताम् अश्रौष्म भवतो वयम् ।
यस्यां खलूत्तमःश्लोको भगवान् अनुवर्ण्यते ॥ [भ्प् 12.6.2-4] इति ।
पुनश् चैकेन पद्येन तद्-वाक्य-गौरव-मात्रेणाङ्गीकृतस्य ब्रह्म-
ज्ञानस्य तक्षकादि-भय-निवृत्ति-हेतुत्वम् उक्त्वाप्य् अन्येन तद्-ऊर्ध्वम्
अधोक्षज एव वाक्-चेतसोस् तन्-नाम-कीर्तन-ध्यानावेशानुज्ञा प्रार्थिता ।
भगवंस् तक्षकादिभ्यो मृत्युं यो न बिभेम्य् अहम् ।
प्रविष्टो भ्रम-निर्वाणम् अभयं दर्शितं त्वया ॥
अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्य् अधोक्षजे ।
मुक्त-कामाशयं चेतः प्रवेश्य विसृजाम्य् असून् ॥ [भ्प् 12.6.5-6] इति ।
अथ पुनर् अन्येन पद्येनाज्ञान-निरासक-ज्ञान-विज्ञान-सिद्धिश् च भगवत्-
पदारविन्द-दर्शनानन्दान्तर्भूतैव मम स्फुरतीति विज्ञापितम् । यथा -
अज्ञानं च निरस्तं मे ज्ञा-विज्ञान-निष्ठया ।
भवता दर्शितं क्षेमं परं भगवतः पदम् ॥ [भ्प् 12.6.7] इति ।
अत्र पद-शब्दस्य चरणारविन्दाभिधायकत्वे ज्ञानेन वैयासकि-शब्दितेन
भेजे खगेन्द्र-ध्वज-पाद-मूलम् [भ्प् 1.18.16] इत्य् एवास्ति प्रथमे
साधकम् । तद् एतत् प्रकरणार्थस् तत्र श्री-सूतेनैव स्पष्टीकृतः ।
ब्रह्म-कोपोत्थिताद् यस् तु तक्षकात् प्राण-विप्लवात् ।
न सम्मुमोहोरु-भयाद् भगवत्य् अर्पिताशयः ॥ [भ्प् 1.18.2]
नोत्तमश्लोक-वार्तानां जुषतां तत्-कथामृतम् ।
स्यात् सम्भ्रमोऽन्त-कालेऽपि स्मरतां तत्-पदाम्बुजम् ॥ [भ्प् 1.18.4] इति ।
तथा पूर्वं द्वादशस्यैव तृतीये प्रथम-स्कन्धान्तःस्थस्य -
अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् ।
पुरुषस्येह यत् कार्यं म्रियमाणस्य सर्वथा ॥ [भ्प् 1.19.34]
इत्य् अस्य राज-प्रश्नस्योत्तरत्वेन भगवद्-ध्यान-कीर्तने एव स्वयं श्री-
शुकदेवेनाप्य् उपदिष्टे --
तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् ।
म्रियमाणो ह्य् अवहितस् ततो याति परां गतिम् ॥
म्रियमाणैर् अभिध्येयो भगवान् परमेश्वरः ।
आत्म-भावं नयत्य् अङ्ग सर्वात्मा सर्व-सम्भवः ॥
कलेर् दोष-निधे राजन्न् अस्ति ह्य् एको महान् गुणः
कीर्तनाद् एव कृष्णस्य मुक्त-सङ्गः परं व्रजेत् ॥ [भ्प् 12.3.48-50]
इत्य् आदिना ततस् तत्र केशव अवहितः कृतावधान आत्म-भावम् आत्मनो
भक्तिम् । अस्तु तावद् आयास-(पगे 30) साध्यं ज्ञानम् । हि यस्माद् अनायास-
साध्यात् कीर्तनाद् एवेत्य् अर्थः । द्वितीय-स्कन्धेऽपि न ह्य् अतोऽन्यः शिवः
पन्था [भ्प् 2.2.33] इत्य् आदिना एवम् एतन् निगदितम् [भ्प् 2.3.1] इत्य् अन्तेन
ग्रन्थेन नानाङ्गवान् शुद्ध-भक्ति-योग एव तत्रोत्तरत्वेन पर्यवसितः ।
तत्रापि पिबन्ति ये भगवतः [भ्प् 2.2.37] इत्य् आदिना लीला-कथा-श्रवण एव
परम-पर्यवसानं दृश्यते । तस्मात् साधूक्तं त्वं तु राजन् मरिष्येति इत्य्
आदिकं तद्-भक्ति-निष्ठा-प्रकटनार्थम् एवेति । यथो भक्ताव् एव तद्-
उपदेशस्य तात्पर्यम् ।
अतएव द्वितीयस्याष्टमे राज-प्रार्थना च नान्यथा स्यात् । कृष्णे निवेश्य
निःसङ्गं मनस् त्यक्ष्ये कलेवरम् [भ्प् 2.8.2] इत्य् आदि ।
॥ 12.4 ॥ श्री-शुकः

6.92

[87-91]
श्री-सूतोपदेशान्तेऽपि पञ्चभिः -
नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं
न शोभते ज्ञानम् अलं निरञ्जनम् ।
कुतः पुनः शश्वद् अभद्रम् ईश्वरे
न चार्पितं कर्म यद् अप्य् अकारणम् ॥ [भ्प् 12.12.52]
टीका च - इदानीं ज्ञान-कर्मादराद् अपि भगवत्-कीर्तनादिष्व् एवादरः
कर्तव्य इत्य् आह नैष्कर्म्यं तत्-प्रकाशकं यज् ज्ञानं यतो निरञ्जनम्
उपाधि-निवर्तकं, तद् अपि अच्युत-भक्ति-वर्जितं चेन् न शोभते नापरोक्ष-
पर्यन्तं भवतीत्य् अर्थ इत्य् आदिका ।
यशः-श्रियाम् एव परिश्रमः परो
वर्णाश्रमाचार-तपः-श्रुतादिषु ।
अविस्मृतिः श्रीधर-पाद-पद्मयोर्
गुणानुवाद-श्रवणादिभिर् हरेः ॥ [भ्प् 12.12.53]
टीका च -किं च वर्णाश्रमाचारादिषु यः परो महान् परिश्रमः स यशो-
युक्तायां श्रियाम् एव कीर्तो सम्पदि वा केवलं न परम-पुरुषार्थः ।
गुणानुवादादिभिस् तु श्रीधर-पाद-पद्मयोर् अविस्मृतिर् भवति इत्य् एषा ।
तथा --
अविस्मृतिः कृष्ण-पदारविन्दयोः
क्षिणोत्य् अभद्राणि च शं तनोति च ।
सत्त्वस्य शुद्धिं परमां च भक्तिं
ज्ञानं च विज्ञान-विराग-युक्तम् ॥ [भ्प् 12.12.54]
स्पष्टम् । तथा -
यूयं द्विजाग्र्या बत भूरि-भागा
यच्-छश्वद्-आत्मन्य्-अखिलात्म-भूतम् ।
नारायणं देवम् अदेवम् ईशम्
अजस्र-भावा भजताविवेश्य ॥ [भ्प् 12.12.55]
टीका च - तद् एवं श्रोतॄण् आत्मानं चाभिनन्दयन्न् आह । तथा यूयम् इति
द्वाभ्याम् । त्था हि द्व्जाग्र्या यद् यस्माद् आत्मन्य् अन्तःकरणे श्री-
नारायणम् आविवेश्य शश्वद् भजत । सम्भावनायां लोट् । अतो भूरि-भागा
बहु-पुण्यवन्तः कथम्भूतम् अखिलात्म-भूतं सर्वानर्यामिणम् अत एव
देवं सर्वोपास्यम् । अदेवं न देवोऽन्यो यस्य तम् । कुत ईशम् । यद् वा
यस्माद् यूयं भूरि-भागास् तप आदिना सम्पन्नास् ततो नारायणं भजतेति
विधिः इत्य् एषा । (पगे 31)
अत्र तप-आदि-सम्पत्तेः सार्थकत्वं नारायण-भजनेन भवतीति स्वाम्य्-
अभिप्रायः । तथा -
अहं च संसारित आत्म-तत्त्वं
श्रुतं पुराणे परमर्षि-वक्त्रात् ।
प्रायोपवेशे नृपतेः परीक्षितः सदस्य्
ऋषीणां महतां च शृण्वताम् ॥ [भ्प् 12.12.56]
एतत्-प्रसङ्गेनाहं चात्म-तत्त्वम् अखिलात्म-भूतं नारायणं स्मारितः ।
तं प्रति परमोत्कण्ठितीकृतोऽस्मीत्य् अर्थः । यद् आत्म-तत्त्वं मे मया
महर्षि-वक्त्राच् छ्रुतम् ॥
॥ 12.12 ॥ श्री-सूतः ॥ 87-91 ॥
[92]
तद् एवम् अस्मिन् श्रीमति महा-पुराणे गुरु-शिष्य-भावेन प्रवृत्तानाम्
उपदेश-शिक्षा-वाक्येषु हक्तेर् एवाभिधेयत्वं साधितम् । तथा -
तत् कथ्यतां महा-भाग यदि कृष्ण-कथाश्रयम् ।
अथवास्य पदाम्भोज- मकरन्द-लिहां सताम् ॥ [भ्प् 1.16.6]
इत्य् अनुसारेण सर्वेषाम् इतिहासानाम् अपि तन्-मात्र-तात्पर्यत्वं ज्ञेयम् ।
विस्तर-भिया तु न विव्रियते । अन्यत्र च तद् एव दृश्यते । तत्रान्वयेन यथा -
एतावान् एव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः ।
भक्ति-योगो भगवति तन्-नाम-ग्रहणादिभिः ॥ [भ्प् 6.3.22]
पुंसां जीव-मात्राणां परः धर्मः सार्वभौमो धर्म एतावान् एव
स्मृतो नैतद् अधिकः । एतावत् त्वम् एवाह - तन्-नाम-ग्रहणादिभिर् यो
भक्ति-योगः साक्षाद् भक्तिर् इति । एव-कारेणान्य-व्यावृत्तत्वं स्पष्टयति
भवतीति । नाम-ग्रहणादीन्य् अपि यदि कर्मादौ तत्-साद्गुण्याद्य्-अर्थं
प्रयुज्यन्ते । तदा तस्य परत्वं नास्ति । तुच्छ-फलार्थ-प्रयोज्यत्वेन तद्-
अपराधाद् इत्य् अर्थः । तथैव क्षयिष्णु-फल-दातृत्वं च भवतीति भावः ।
॥ 6.3 ॥ श्री-यमः स्व-भटान्

6.93

[93]
तथा च --
सध्रीचीनो ह्य् अयं लोके पन्थाः क्षेमोऽकुतो-भयः ।
सुशीलाः साधवो यत्र नारायण-परायणाः ॥ [भ्प् 6.10.17]
अयं पन्थाः श्री-नारायण-भक्ति-मार्गः ॥
॥ 6.1 ॥ श्री-शुकः

6.94

[94]
तत्रैवान्वयेन सर्व-शास्त्र-फलत्वं स-कैमुत्यम् आह -
श्रुतस्य पुंसां सुचिर-श्रमस्य
नन्व् अञ्जसा सूरिभिर् ईडितोऽर्थः ।
तत्-तद्-गुणानुश्रवणं मुकुन्द-
पादारविन्दं हृदयेषु येषाम् ॥ [भ्प् 3.13.4] (पगे 32)
पुंसां श्रुतस्य वेदार्थावगतेर् अयम् एवार्थः प्रयोजनम् ईडितः
श्लाघितः । कोऽसौ ? मुकुन्दस्य पादारविन्दं येषां हृदयेषु वर्तते तेषां
तद्-गुणानां भगवद्-भक्त्य्-आत्मकानाम् अनुस्मरणं तत् सोऽयम् इति । ततः
सुतराम् एव श्री-मुकुन्दस्येत्य् अर्थः । एवम् एवोक्तं वासुदेव-परा वेदाः
[भ्प् 2.2.28] इत्य् आदि ।
भगवान् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य मनीषया ।
तद् अध्यवस्यत् कूट-स्थो रतिर् आत्मन् यतो भवेत् ॥ [भ्प् 2.2.34]
तथा च पाद्मे बृहत्-सहस्र-नाम्नि -
स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् ।
सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥
स्कान्दे प्रभास-खण्डे, लिङ्ग-पुराणे च -
आलोड्य सर्व-शास्त्राणि विचार्य च पुनः पुनः ।
इदम् एव सुनिष्पन्नं ध्येयो नारायणः सदा ॥ [लिप् 2.7.11]
अत एव वेदाद्य्-अर्पण-मन्त्र इति -
विद्या-तपो-ध्यान-योनिर् अयोनिर् विष्णुर् ईडितः ।
ब्रह्म-यज्ञस् ततो देवः प्रीयतां मे जनार्दनः ॥
॥ 3.13 ॥ श्री-विदुरः

6.95

[95]
यतो यश् च शास्त्रे वर्णाश्रमाचारो विधीयते तस्याप्य् अनुपम-चरितं फलं
भक्तिर् एव । यथा -
दान-व्रात-तपो-होम- जप-स्वाध्याय-संयमैः ।
श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥ [भ्प् 10.47.21]
दानादिभिः श्री-कृष्ण-सन्तोषार्थेर् इति ज्ञेयम् । तज् जन्म तानि कर्माणि तद्-
आयुस् तन्-मनः [भ्प् 4.31.7] इत्य् आदि । बृहन्-नारदीये (1.39.51) -
जन्म-कोटि-सहस्रेषु पुण्यं यैः समुपार्जितम् ।
तेषां भक्तिर् भवेच् छुद्धा देव-देवे जनार्दने ॥ इति ।
अगस्त्य-संहितायाम् -
व्रतोपवास-नियम-जन्म-कोट्याप्य् अनुष्ठितैः ।
यज्ञैश् च विविधैः सम्यग् भक्तिर् भवति माधवे ॥ इति ।
एतद् एव व्यतिरेकेणोक्तं धर्मः स्वनुष्ठितः पुंसाम् [भ्प् 1.2.8] इत्य् आदौ ।
यशः श्रियाम् एव [भ्प् 12.12.4] इत्य् आदौ च ।
॥ 10.47 ॥ उद्धवः श्री-व्रज-देवीम्

6.96

[96]
यच् च यत्र ज्ञानम् अभिधीयते तद् अपि भक्त्य्-अन्तर्-भूततयिअव लभ्यम् ।
यथा -
पुरेह भूमन् बहवोऽपि योगिनस्
त्वद्-अर्पितेहा निज-कर्म-लब्धया ।
विबुध्य भक्त्यैव कथोपनीतया
प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥ [भ्प् 10.14.5]
हे भूमन्, इह लोके पूर्वं बहवो योगिनोऽपि सन्तो योगैर् ज्ञानम् अप्राप्य
पश्चात् त्वयि अर्पितेहा लौकिक्य् अप्पि चेष्टा । तथार्पितानि यानि निजानि कर्माणि
तैर् लब्धया कथा-रुचिर्-रूपया, पुनश् च (पगे 33) कथोपनीतया त्वत्-
समीपं प्रापितया भक्त्यैवाञ्जसा सुखेन विभुध्यात्म-तत्त्वम् आरभ्य
श्री-भगवत्-तत्त्व-पर्यन्तम् अनुभूय तव परामन्तरङ्गां गतिं
प्राप्ताः । श्री-गीतोपनिषत्सु च अहं सर्वस्य प्रभवो मत्तः [गीता 10.8] इत्य्
आदिभिः शुद्धां भक्तिम् उपदिश्याह --
तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः ।
नाशयाम्य् आत्मभावस्थो ज्ञानदीपेन भास्वता ॥ [गीता 10.11] इति ।
॥ 10.14 ॥ ब्रह्मा श्री-भगवन्तम्

6.97

[97]
यान्य् अन्यानि सर्वाणि तत्र पुरुषार्थ-साधनान्य् उच्यन्ते तान्य् अपि तथैव
भक्ति-मूलान्य् एव । यथा -
स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् ।
सर्वासाम् अपि सिद्धीनां मूलं तच्-चरणार्चनम् ॥ [भ्प् 10.81.19]
मन्त्रतस् तन्त्रतश् छिद्रम् [भ्प् 8.23.16] इत्य् आदि-न्यायेन मुख-बाहूरु-
पादेभ्यः [भ्प् 11.5.2] इत्य् आद्य्-उक्त-नित्यत्वेन च सर्वथा तद्-
बहिर्मुखानां तु तत्-तद्-अलाभ एव स्याद् इत्य् अर्थः । यथा स्कान्दे --
विष्णु-भक्ति-विहीनानां श्रौताः स्मार्ताश् च याः क्रियाः ।
काय-क्लेशः फलं तासां स्वैरिणी-व्यभिचारवत् ॥ इति ।
तद् उक्तं श्री-युधिष्ठिरेण -
त्वत्-पादुके अविरतं परि ये चरन्ति
ध्यायन्त्य् अभद्र-नशने शुचयो गृणन्ति ।
विन्दन्ति ते कमल-नाभ भवापवर्गम्
आशासते यदि त आशिष ईश नान्ये ॥ [भ्प् 10.72.4] इति ।
अत उक्तं बृहन्-नारदीये (1.4.4) -
यथा समस्त-लोकानां जीवनं सलिलं स्मृतम् ।
तथा समस्त-सिद्धीनां जीवनं भक्तिर् इष्यते ॥
॥ 10.82 ॥ श्रीदाम-विप्रः

6.98

[98]
तद् एवं तानि साधनानि भक्ति-जीवनान्य् एवेति भक्तेर् एव
सर्वत्राभिधेयत्वम् । तानि विनापि भक्तेर् एव
श्री-विष्णु-पुराणे (1.11.48) पुलह-वाक्यम् -
यो यज्ञ-पुरुषो यज्ञे योगे च परमः पुमान् ।
तस्मिंस् तुष्टे यद् अप्राप्यं किं तद् अस्ति जनार्दने ॥
अतएव मोक्ष-धर्मे -
या वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये ।
तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इति ।
तस्मात् साधूक्तं सर्व-शास्त्र-श्रवण-फलत्वेन तद्-अभिधेयत्वम् । अतएव
प्रथमं स्वयं भगवता सैव प्रवर्तितेत्य् उक्तं कालेन नष्टा प्रलये
वाणीयं वेद-संज्ञिता मया [भ्प् 11.14.3] इत्य्-आदिना ।
तद् एवं सति ये तु नातिकोविदास् ते तत्-तद्-अर्थं कर्माद्य्-अङ्गत्वेनैव श्री-
विष्णूपासनं कुर्वते । (पगे 34) ततस् तद्-अपराधेन निज-कामना-मात्र-
फल-प्रदत्वम् । न च तत्-तन्-मात्र-दानेन पर्याप्तिः किन्तु पर्यावसाने
परम-फल-प्रदत्वम् एवेति । ततस् तस्या एव परम-हितत्वेनाभिधेयत्वम्
आह --
सत्यं दिशत्य् अर्थितम् अर्थितो नृणां
नैवार्थदो यत् पुनर् अर्थिता यतः ।
स्वयं विधत्ते भजताम् अनिच्छताम्
इच्छापिधानं निज-पाद-पल्लवम् ॥ [भ्प् 5.19.28]
अर्थितः प्रार्थितः सन् नॄणाम् अर्थितं सत्यम् एव ददाति । न तत्र कदाचिद्
व्यभिचार इत्य् अर्थः । किन्तु तथापि तन्-मन्त्रेणार्थदो न भवति, तन्-
मात्रं दत्त्वा निवृत्तो न भवतीत्य् अर्थः । यत उपासकस् तत्रापूर्णत्वाद्
भोग-क्षये सति तदैव पुनर् अर्थिता भवति । न जातु कामः कामानां
[मनुस् 2.94] इत्य् आदेः । तद् एवम् अभिप्रेत्य स तु परम-कारुणिकस् तत्-पाद-
पल्लवम् एव विधत्ते तेभ्यो ददातीत्य् अर्थः । यथा माता चर्व्यमाणां
मृत्तिकां बालक-मुखाद् अपसार्य तत्र खण्डं ददाति तद्वद् इति भावः ।
एवम् अप्य् उक्तं अकामः सर्व-कामो वा [भ्प् 2.3.10] इत्य् आदौ तीव्रत्वं
भक्तेः । तथोक्तं गारुडे -
यद् दुर्लभं यद् अप्राप्तं मनसो यन् न गोचरम् ।
तद् अप्य् अप्रार्थितं ध्यातो ददाति मधुसूदनः ॥ [गर्प् 2.234.12] इति ।
एवं श्री-सनकादीनाम् अपि ब्रह्म-ज्ञानिनां भक्त्य्-अनुवृत्त्या तत्-पाद-
पल्लव-प्राप्तिर् ज्ञेया ॥
॥ 5.19 ॥ देवाः परस्परम्

6.99

[99]
अथ व्यतिरेके कर्मानादरेणाह । तत्र कर्मणः फल-प्राप्ताव्
अनिश्चयवत्त्वं दुःख-रूपत्वं च भक्तेस् तु तस्याम् आवश्यकत्वं,
साधक-दशायाम् अपि सुख-रूपत्वं चेत्य् आहुः -
कर्मण्य् अस्मिन्न् अनाश्वासे धूम-धूम्रात्मनां भवान् ।
आपाययति गोविन्द- पाद-पद्मासवं मधु ॥ [भ्प् 1.18.12]
अस्मिन् कर्मणि सत्र अनाश्वास अविश्वसनीये वैगुण्य-बाहुल्येन कृषिवत्
फल-निश्चयाभावाद् अनेन भक्तेर् विश्वसनीयत्वम् ध्वनितम् । धूमेन
धूम्रो विरञ्जितौ आत्मानौ शरीर-चित्ते येषां, कर्मणि षष्ठी, तान् अस्मान्
इत्य् अर्थः । पाद-पद्मस्य यशो-रूपम् आसवं मकरन्दं मधु
मधुरम् । अत्र सत्रवत् कर्मान्तरम्, यशः-श्रवणवद् भक्त्य्-अन्तरं चेति
ज्ञेयम् ।
तद् एवं भक्तिं विना कर्मादिभिर् अस्माकं दुःखम् एवासीद् इति
व्यतिरेकत्वम् अत्र गम्यते । तद् उक्तं - यशः-श्रियाम् एव परिश्रमः परः
[भ्प् 12.12.40] इत्य् आदि । अतो वै कवयो नित्यम् [भ्प् 1.2.22] इत्य् आदि च । ब्रह्म-
वैवर्ते च शिवं प्रति श्री-विष्णु-वाक्यम् -
यदि मां प्राप्तुम् इच्छन्ति प्रापुन्वन्त्य् एव नान्यथा ।
कलौ कलुष-चित्तानां वृथायुः-प्रभृतीनि च ।
भवन्ति वर्णाश्रमिणां न तु मच्-छरणार्थिनाम् ॥ इति ।
॥ 1.18 ॥ श्री-ऋषयः सूतम्

6.101

[100]
तथा त्यक्ता स्वधर्मं [भ्प् 1.5.17] इत्य् आदिकम् अनुसन्धेयम् । एवं महा-
वित्त-महायासादि-साध्येन कर्मादिना तुच्छं स्वर्गादि-फलं स्वल्पायास-
स्वल्प-वित्तादि-साध्यया भक्त्या (पगे 35) तद्-आभासेन च परम-महत्-
फलं तत्र तत्रानुसन्धाय भक्ताव् एव शास्त्र-तात्पर्यं पर्यालोचनीयम् ।
तस्मात् तत्-तच्-छास्त्राणाम् अपि भक्ति-विधेय-तद्-अनुवादेन प्रवृत्तत्वान् न
वैफल्यम् इत्य् अपि ज्ञेयम् । किं च --
विप्राद् द्वि-षड्-गुण-युताद् अरविन्द-नाभ-
पादारविन्द-विमुखात् श्वपचं वरिष्ठम् ।
मन्ये तद्-अर्पित-मनो-वचनेहितार्थ-
प्राणं पुनाति स कुलं न तु भूरिमानः ॥ [भ्प् 7.9.10]
टीका च - भक्त्यैव केवलया हरेस् तोषः सम्भवतीत्य् उक्तम् । इदानीं
भक्तिं विना नान्यत् किञ्चित् तत्-तोष-हेतुर् इत्य् आह विप्राद् इति ।
मन्ये धनाभिजन-रूप-तपः-श्रुतौजस्-
तेजः-प्रभाव-बल-पौरुष-बुद्धि-योगाः ॥ [भ्प् 7.9.9]
इत्य् आदौ पूर्वोक्ता ये धनादयो द्विषड् द्वादश-गुणास् तैर् युक्ताद् विप्राद्
अपि श्वपचं वरिष्ठं मन्ये । यद् वा सनत्-सुजातोक्ता द्वादश धर्मादयो
गुणा द्रष्टव्याः -
धर्मं च सत्यं च दमस् तपश् च
विमत्सरं ह्रीस् तितिक्षानसूया ।
यज्ञश् च दानं च धृतिः श्रुतं च
व्रतानि वै द्वादश ब्राह्मणस्य ॥ इति ।
कथम्भूतं श्वपचं, तस्मिन्न् अरविन्द-नाभेऽर्पिता मन आदाय येन तम् ।
ईहितं कर्म । वरिष्ठत्वे हेतुः - स एवम्भूतः श्वपचः सर्व-कुलं
पुनाति । भूरि-मानो गर्वो यस्य स तु विप्र आत्मानम् अपि न पुनाति, कुतः
कुलम् । यतो भक्ति-हीनस्यैते गुणा गर्वायैव भवन्ति, न तु शुद्धये । अतो
हीन इति भावः । इत्य् एषा ॥
मुक्ता-फल-टीका - द्विषट् द्वादश-गुणा धनाभिजनादयः । यद् वा -
शमो दमस् तपः शौचं क्षान्त्य्-आर्जव-विरक्तयः ।
ज्ञान-विज्ञान-सन्तोषः सत्यास्तिक्यं द्विषड्-गुणाः ॥ इत्य् अत्रोक्ता इत्य् एषा ।
स्कान्दे श्री-नारद-वाक्यम् -
कुलाचार-विहीनोऽपि दृढ-भक्तिर् जितेन्द्रियः ।
प्रशस्तं सर्व-लोकानां न त्व् अष्टादश-विद्यकः ।
भक्ति-हीनो द्विजः शान्तः सज्-जाति-धर्मिकस् तथा ॥
काशी-खण्डे च -
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वेतरः ।
विष्णु-भक्ति-समायुक्तो ज्ञेयः सर्वोत्तमोत्तमः ॥
बृहन्-नारदीये --
विष्णु-भक्ति-विहीना ये चण्डालाः परिकीर्तिताः ।
चण्डाला अपि वै श्रेष्ठा हरि-भक्ति-परायणाः ॥ [नार्प् 1.37.12]
नारदीये च -
श्वपचोऽपि मही-पाल विष्णोर् भक्तो द्विजाधिकः ।
विष्णु-भक्ति-विहीनो यो द्विजातिः श्वपचाधमः ॥ [नार्प् 1.33.41] इति ।
अत्र मूल-पद्ये स कुलं पुनातीत्य् उक्ते स्वं पुनातीति सुतराम् एव सिद्धम् ।
यथोक्तं -
किरात-हूणान्ध्र-पुलिन्द-पुल्कशा
आभीर-शुम्भा यवनाः खसादयः ।
येऽन्ये च पापा यद्-अपाश्रयाश्रयाः
शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ [भ्प् 2.4.18] इति ।
॥ 7.9 ॥ प्रह्लादः श्री-नृसिंहम् ॥
[101]
अतएवाहुः - (पगे 36)
धिग् जन्म नस् त्रिवृद्-विद्यां धिग् व्रतं धिग् बहुज्ञताम् ।
धिक् कुलं धिक् क्रिया-दीक्षां विमुखा ये त्व् अधोक्षजे ॥ [भ्प् 10.23.40]
टीका च - त्रिवृत् शौक्रं सावित्रं दैक्षम् इति त्रिगुणितं जन्म । व्रतं
ब्रह्मचर्यम् । क्रियाः कर्माणि दाक्ष्यं चेत्य् आदिका । तथोक्तं किं
जन्मभिस् त्रिभिः [भ्प् 4.31.8] इत्य् आदि ॥
॥ 10.13 ॥ याज्ञिक-विप्राः

6.102

[102]
मय्य् एव मन आधत्स्व मयि बुद्धिं निवेशय
निवसिष्यसि मय्य् एव अत ऊर्ध्वं न संशयः
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्
अभ्यासयोगेन ततो माम् इच्छाप्तुं धनंजय
अभ्यासेऽप्य् असमर्थोऽसि मत्कर्मपरमो भव
मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि
अथैतद् अप्य् अशक्तोऽसि कर्तुं मद्योगम् आश्रितः
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ [गीता 12.8-11]
अत्र पाद्मे कार्त्तिक-माहात्म्येतिहासोऽनुसन्धेयः । यथा चोल-देश-राजस्य
कस्यचिद् विष्णु-दास-नाम्ना विप्रेण शुद्धम् अर्चनम् एव कुर्वता सह
कस्य पूर्वं भगवत्-प्राप्तिः स्याद् इति स्पर्धया बहून् यज्ञान् भगवद्-
अर्पितान् अपि सुष्ठु विदधतो न भगवत्-प्राप्तिर् अभूत् । किन्तु विप्रस्य
भगवत्-प्राप्तौ दृष्टायां तान् परित्यज्य -
यत् स्पर्धया मया चैतद् यज्ञ-दानादिकं कृतम् ।
स विष्णु-रूप-धृग् विप्रो याति वैकुण्ठ-मन्दिरम् ॥[पद्मप् 6.109.22]
तस्माद् दानैश् च यज्ञैश् च नैव विष्णुः प्रसीदति ।
भक्तिर् एव परं तस्य निदानं दर्शने विभोः ॥[पद्मप् 6.109.25]
इति मुद्गलं प्रत्य् उक्ता ।
विष्णो भक्तिं स्थिरां देहि मनो-वाक्-काय-कर्मभिः ।
इत्य् उक्त्वा सोऽपतद् वह्नौ सर्वेषाम् एव पश्यताम् ॥[पद्मप् 6.109.29]
इत्य् उक्ता शुद्ध-भक्ति-शरणताम् एव मुहुर् दैन्येनाङ्गीकृत्य होम-कुण्डे
देहं त्येजतः पश्चाद् एव तत्-प्राप्तिर् इति ।
योगानादरेणाह --
युञ्जानानाम् अभक्तानां प्राणायामादिभिर् मनः
अक्षीण-वासनं राजन् दृश्यते पुनर् उत्थितम् ॥ [भ्प् 10.51.60]
उत्थितं विषयाभिमुखम् ॥
॥ 10.51 ॥ श्री-भगवान् मुचुकुन्दम्

6.103

[103]
तथा -
यमादिभिर् योग-पथैः काम-लोभ-हतो मुहुः ।
मुकुन्द-सेवया यद्वत् तथात्माद्धा न शाम्यति ॥ [भ्प् 1.6.36]
(पगे 37) अतः सुतराम् एव न साधयति मां योगः [भ्प् 11.14.20] इत्य्-आदिकम्
इति भावः ।
॥ 1.6 ॥ श्री-नारदो व्यासम्

6.105

[104]
अथ ज्ञानानादरेणोदाह्रियते । तत्र तस्य कृच्छ्र-साधनत्वेनानादरो
दर्शित एव पानेन ते देव-कथा-सुधायाः [भ्प् 3.5.44] इत्य्-आदिभ्याम् । श्री-
गीतासु च -
श्री अर्जुन उवाच --
एवं सततयुक्ता ये भक्तास् त्वां पर्युपासते ।
ये चाप्य् अक्षरम् अव्यक्तं तेषां के योगवित्तमाः ॥
श्री-भगवान् उवाच --
मय्य् आवेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥
ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते ।
सर्वत्रगम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति माम् एव सर्वभूतहिते रताः ॥
क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥ [गीता 12.1-5]
भक्ति-मार्गे तु श्रमो न स्यात् । तद्-वशीकारिता-रूपं फलं चापूर्वम् इत्य्
आह -
ज्ञाने प्रयासम् उदपास्य नमन्त एव
जीवन्ति सन्-मुखरितां भवदीय-वार्ताम् ।
स्थाने स्थिताः श्रुति-गतां तनु-वाङ्-मनोभिर्
ये प्रायशो ञ्जित जितोऽप्य् असि तैस् त्रि-लोक्याम् ॥ [भ्प् 10.14.3]
उदपास्य इषद् अप्य् अकृत्वा स्थाने निवास एव स्थिता अपि यदृच्छया सङ्गतैः
सद्भिर् मुखरितां स्वत एव नित्यं प्रकटितां भवदीय-वार्तां तत् स्वत
एव श्रुति-गतां श्रवणं प्राप्तां तनुवाङ्-मनोभिर् नमन्तः सन्निधि-
मात्रेण कुर्वन्तो ये जीवन्ति केवलं यद्यपि नान्यत् कुर्वन्ति तैः प्रायशस्
त्रि-लोक्याम् अन्यैर् अजितोऽपि त्वं जितोऽसि वशीकृतोऽसि । अतएवोक्तं श्री-नृसिंह-
पुराणे -
पत्रेषु पुष्पेषु फलेषु तोयेष्व्
अक्रीत-लभ्येषु सदैव सत्सु ।
भक्त्या सुलभ्ये पुरुषे पुराणे
मुक्तौ किमर्थं क्रियते प्रयत्नः ॥ इति ।
वस्तुतस् तु -
श्रेयः-सृतिं भक्तिम् उदस्य ते विभो
क्लिश्यन्ति ये केवेल-बोध-लब्धये ।
तेषाम् असौ क्लेशल एव शिष्यते
नान्यद् यथा स्थूल-तुषावघातिनाम् ॥ [भ्प् 10.14.4]
टीका च - भक्तिं विना नैव ज्ञानं सिध्यतीत्य् आह श्रेय इति । श्रेयसाम्
अभ्युदयापवर्ग-लक्षणानां सृतिर् यस्याः सरस इव निर्झराणां तां ते तव
भक्तिम् उदस्य त्यक्त्वा तेषां क्लेशल एवावशिष्यते । अयं भावः । यथाल्प-
प्रमाणं धान्यं परित्यज्यान्तः-कण-हीनान् स्थूल-धान्याभासान्
येऽवघ्नन्ति तेषां न किञ्चित् फलम् । एवं भक्तिं तुच्छिकृत्य ये केवल-
बोधाय प्रयतन्ते
(पगे 38) तेषाम् अपि । इत्य् एषा ।
अत्र विभो इतिवत् केवल-शुद्ध इत्य् अपि सम्बोधनम् । असौ दृश्यमानः
क्लेशलः सन्न्यासादीन्य् एवेति च ज्ञेयम् । श्री-गीतासु च श्री-भगवान् उवाच
अमानित्वम् अदम्भित्वम् [गीता 13.7] इत्य्-आदिकं ज्ञान-योग-मार्गम्
उपक्रम्य, मध्ये तत्त्व-ज्ञानार्थ-दर्शनम् [गीता 13.11] इति समाप्याह --
एतज् ज्ञानम् इति प्रोक्तम् अज्ञानं यद् अतोऽन्यथा [गीता 13.11] इति । ततो भक्ति-
योगं विना ज्ञानं न भवतीत्य् अर्थः । ततोऽनेत्ऽप्य् उक्तं मद्-भक्त एतद्
विज्ञाय मद्-भावायोपपद्यते [गीता 13.18] इति । अन्यत्र च -
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्यु-संसार-वर्त्मनि ॥ [गीता 9.3] इति ।
अस्य सततं कीर्तयन्तो मां [गीता 9.14] इत्य्-आदि-पूर्वोक्त-लक्षणस्येत्य् अर्थः ।
अत एवास्फुट-भक्तीनां मुद्गलादीनाम् अपि कृतचरी साधन-भक्तिर्
अनुसन्धेया ॥
॥ 10.14 ॥ ब्रह्मा श्री-भगवन्तम्

6.106

[106]
आश्रयान्तर-स्वातन्त्र्यानादरेणाह -
अविस्मितं तं परिपूर्ण-कामं
स्वेनैव लाभेन समं प्रशान्तम् ।
विनोपसर्पत्य् अपरं हि बालिशः
श्व-लाङ्गुलेनातितितर्ति सिन्धुम् ॥ [भ्प् 6.9.22]
अविस्मितं ततोऽन्यस्यापूर्व-वस्तुनोऽसद्-भावाद् विस्मय-रहितम् । अतः
स्वेनैव स्वीयेनैव स्वस्यैव कर्म-भूतस्य क्रिया-भूतेन लाभेन
परिपूर्ण-कामं नान्यस्येत्य् अर्थः । अतः सर्वत्र समं प्रशान्तं चित्त-
दोष-रहितम् । अतितितर्ति अतितर्तुम् इच्छतीत्य् अर्थः । तथोक्तं - रजस्-तमः-
प्रकृतयः [भ्प् 1.2.27] इत्य् आदि ।
स्कान्दे श्री-ब्रह्म-नारद-संवादे -
वासुदेवं परित्यज्य योऽन्यं देवम् उपासते ।
स्व-मातरं परित्यज्य श्वपचीं वन्दते हि सः ॥
तथैवान्यत्र च -
वासुदेवं परित्यज्य योऽन्यं देवम् उपासते ।
त्यक्त्वामृतं स मूढात्मा भुङ्क्ते हलाहलं विषम् ॥
महाभारते -
यस् तु विष्णुं परित्यज्य मोहाद् अन्यम् उपासते ।
स हेम-राशिम् उत्सृज्य पांशु-राशिं जिघृक्षति ॥ इति ।
(पगे 39)
अतएवोक्तं श्री-सत्यव्रतेन -
न यत्-प्रसादायुत-भाग-लेशम्
अन्ये न देवा गुरवो जनाः स्वयम् ।
कर्तुं समेताः प्रभवन्ति पुंसस्
तम् ईश्वरं वै शरणं प्रपद्ये ॥ इति ।
श्री-ब्रह्म-शिवाव् अपि वैष्णवत्वेनैव भजेत । स आदि-देवो जगतां परो
गुरुः [भ्प् 2.9.5] वैष्णवानां यथा शम्भुः [भ्प् 12.13.16] इत्य्-आद्य्-
अङ्गीकारात् । अतएव द्वादशे श्री-शिवं प्रति मार्कण्डेय-वचनम् -
वरम् एकं वृणेऽथापि पूर्णात् कामाभिवर्षणात् ।
भगवत्य् अच्युतां भक्तिं तत्-परेषु तथा त्वयि ॥ [भ्प् 12.10.34]
त्वय्य् अपि त्व-पर इत्य् अर्थः । अतएवाष्टमे प्रजापति-कृत-श्री-शिव-स्तुतौ - ये
त्व् आत्मराम-गुरुभिर् हृदि चिन्तिताङ्घ्रि-द्वन्द्वम् [भ्प् 8.7.26] इति । चतुर्थे
श्रीमद्-अष्ट-भुजं प्रति श्री-प्रचेतोभिर् अपि -
वयं तु साक्षाद् भगवन् भवस्य
प्रियस्य सख्युः क्षण-सङ्गमेन । [भ्प् 4.30.38] इति ।
वैष्णवस्य सतः सम-दर्शिनस् तु न भक्ति-लाभः प्रत्यवायश् च । यथा
वैष्णव-तन्त्रे --
न लभेयुः पुनर् भक्तिं हरेर् ऐकान्तिकीं जडाः ।
एकाग्र-मनसश् चापि विष्णु-सामान्य-दर्शिनः ॥
यस् तु नारायणं देवं ब्रह्म-रुद्रादि-दैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेद् ध्रुवम् ॥ इति ।
अतएवाभेद-दृष्टि-वचनं सम-भक्त-ज्ञान्य्-आदि-परम् एव । यथा श्री-
मार्कण्डेयोपाख्याने द्वादश एव श्री-शिव-वाक्यम् -
ब्राह्मणाः साधवः शान्ता निःसङ्गा भूत-वत्सलाः ।
एकान्त-भक्ता अस्मासु निर्वैराः सम-दर्शिनः ॥
स-लोका लोक-पालास् तान् वन्दन्त्य् अर्चन्त्य् उपासते ।
अहं च भगवान् ब्रह्मा स्वयं च हरिर् ईश्वरः ॥
न ते मय्य् अच्युतेऽजे च भिदाम् अण्व् अपि चक्षते ।
नात्मनश् च जनस्यापि तद् युष्मान् वयम् ईमहि ॥ [भ्प् 12.10.20-22] इति ।
तत् ततोऽपि तान् अप्य् अतिक्रम्य युष्मान् मार्कण्डेयादीन् शुद्ध-वैष्णवान्
वयम् ईमहि भजाम् इत्य् अर्थः । तद् उक्तं श्री-शिवेनैव प्रचेतसं प्रति -
अथ भागवता यूयं प्रियाः स्थ भगवान् यथा ।
न मद्-भागवतानां च प्रेयान् अन्योऽस्ति कर्हिचित् ॥ [भ्प् 4.24.26] इति ।
अन्यत्र च प्रीते हरौ भगवति प्रीयेऽहं स-चराचरः इति च । तस्य शुद्ध-
वैष्णवत्वं चोक्तम् एव तत्-पूर्वं -
नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत ।
भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ [भ्प् 12.10.6] इति ।
श्री-मार्कण्डेयम् उद्दिश्य श्री-शिवेन । तथा श्री-शिवस्य तच्-चेतस्य्
आविर्भावात् समाधि-विरामेण तद् एव व्यञ्जितम् । यथा - किम् इदं कुत एवेति
समाधेर् विरतो मुनिः [भ्प् 12.101.6] इति । (पगे 40) किं च ब्राह्मणाः
साधवः [भ्प् 12.10.16] इत्य् आदाव् अभेदाद् अदृष्टि-वचनेऽपि स्वयं च हरि
ईश्वरः [भ्प् 12.10.16] इत्य् अनेन तस्यैव प्राधान्यम् उक्तम् । तस्यैव स्वयं
चेश्वरत्वम् उक्तं पार्थिवाद् दारुणः [भ्प् 1.2.24] इत्य् आदिना । ब्रह्म-पुराणे
श्री-शिव-वाक्यम् अपि तथैव -
यो हि मां द्रष्टुम् इच्छेत ब्रह्माणं वा पितामहम् ।
द्रष्टव्यस् तेन भगवान् वासुदेवः प्रतापवान् ॥ [ब्रह्मप् 226.46] इति ।
तद्-विज्ञानेन सर्व-विज्ञानाद् इति भावः । तद् एवं वैष्णवत्वेनैव शिव-
भजनं युक्तम् । केचित् तु वैष्णवास् तत्-पूजनम् आवश्यकत्वेनोपस्थितं चेत्
तर्हि तस्मिन्न् अधिष्ठाने श्री-भगवन्तम् एव पूजयन्ति । यथा श्री-विष्णु-
धर्मान्तिमोऽयम् इतिहासः - विष्वक्सेन-नामा कश्चिद् विप्र एकान्त-
भागवतः पृथिवीं विचरन्न् आसीत् । स कदाचिद् एक एव वनान्त उपविष्टः ।
तथार्थ ग्रामाध्यक्ष-सुतः कश्चिद् आगतस् तम् उवाच कोऽसीति । ततः कृत-
स्वाख्यानं तम् उवाच - मम शिरः-पीडाद्या जातेति निजेष्ट-देवं शिवं
पूजयितुं न शक्नोमि, ततो मम प्रतिनिधित्वेन त्वम् एव तं पूजयेति । एतद्-
अनन्तरं च तत्रत्यं सार्धं पद्यम् -
एतद् उक्तं प्रत्युवाच वयम् एकान्तिनः श्रुताः ।
चतुरात्मा हरिः पूज्यः प्रादुर्भाव-गतोऽथवा ।
पूजयामश् च नैवान्यं तस्मात् त्वं गच्छ मा चिरम् ॥ [विध्प् 3.354.12-13]
इति ।
ततस् तस्मिंस् तद्-अङ्गीकृतवति स खड्गम् उन्नमितवान् शिरश् छेत्तुम् । ततश्
चासौ विप्रस् तद्-धस्तेन मृत्युम् अनभीप्सन् विचार्योक्तवान् भद्रं तत्र
गच्छाम इति । गत्वा चेदं मनसि चिन्तितम् - अयं रुद्रः प्रलय-हेतुतया
तमो-वर्धनत्वात् तमो-भावः । श्री-नृसिंह-देवश् च तामस-दैत्य-गण-
विदारकतया तमो-भञ्जन-कर्तृत्वात् तद्-भञ्जनार्थम् एव तत्रोदयेत
सूर्य इव तमो-राशेः । अतो रुद्राकाराधिष्ठानेऽपि तद्-उपासकानाम् एषां
तद्-भजन-कृते श्री-नृसिंह-पूजाम् एवास्मिन् करिष्यामीति ।
अथ श्री-नृसिंहाय नम इति गृहीत-पुष्पाञ्जलौ तस्मिन् पुनः क्रोधाविष्टेन
ग्रामाध्यक्ष-पुत्रेण खड्गः समुद्यमितः । ततश् चाकस्मात् तद् एव
लिङ्गं स्फोटयित्वा श्री-नृसिंह-देवः स्वयम् आविर्भूय तं ग्रामाध्यक्ष-
पुत्रं स-परिकरं जघान । दक्षिणस्यां दिशि लिङ्ग-स्फोट-नामा स्वयं च
तत्र स्थितवान् इति । केचित् कदाचित् तद्-अधिष्ठानत्वेनैव वा । अतएवोक्तम् आदि-
वाराहे --
जन्मान्तर-सहस्रेषु समाराध्य वृष-ध्वजम् ।
वैष्णवत्वं लभेद् धीमान् सर्व-पाप-क्षये सति ॥ इति ।
अतएव श्री-नृसिंह-शिव-भक्त्योर् अनन्तरं बृहद् एव श्री-नृसिंह-तापन्यां
श्रुतौ --
अनुपनीत-शतम् एकम् एकेनोपनीतेन तत्-समम् । उपनीत-शतम् एकम् एकेन
गृहस्थेन तत्-समम् । गृहस्थ-शतम् एकम् एकेन वानप्रस्थेन तत् समं ।
वानप्रस्थ-शतम् एकम् एकेन यतिना तत् समं । यतीनां तु शतं पूर्णम्
एकम् एकेन रुद्र-जापकेन तत्-समम् । रुद्र-जापक-शतम् एकम् एकेन
अथर्व-शिरः-शिखाध्यापकेन[*एन्द्नोते #3] तत्-समम् । अथर्वशिरः-
शिखाध्यापक-शतम् एकम् एकेन तापनीयोपनिषद्-अध्यापकेन तत्-समम् ।
तापनीयोपनिषद्-अध्यापक-शतम् एकम् एकेन मन्त्र-राजाध्यापकेन तत्-
समम् । [न्तु 5.8] इति । (पगे 41)
मन्त्र-राजश् च तत्र श्री-नृसिंह-मन्त्र एवेति । स्वतन्त्रत्वेन भजने तु
भृगु-शापो दुरत्ययः । यथा चतुर्थे -

भृगुः प्रत्यसृजच् छापं ब्रह्म-दण्डं दुरत्ययम् ।
भव-व्रत-धरा ये च ये च तान् समनुव्रताः ।
पाषण्डिनस् ते भवन्तु सच्-छास्त्र-परिपन्थिनः ॥ [भ्प् 4.2.27-28] इत्य्-आदि ।
वेद-विहितम् एवात्र भव-व्रतम् अनूद्यते अन्य-विहितत्वे पाषण्डिनत्व-
विधानायोगः स्यात् । पूर्वत एव पाषण्डित्व-सिद्धेः । अथ तत्-परिपन्थिनां
श्री-भागवतादीनां सच्-छास्त्रत्वम् आयातम् । तत्-पुरस्कृतानां सूत-
संहितादीनाम् असच्-छास्त्रत्वं स्पष्टम् एव । तस्मात्
स्वतन्त्रत्वेनैवोपासनायाम् अयं दोषः । यतश् च तत्रैव तेन श्री-
जनार्दनस्यैव वेद-मूलत्वम् उक्तम् -
एष एव हि लोकानां शिवः पन्थाः सनातनः ।
यं पूर्वे चानुसन्तस्थुर् यत्-प्रमाणं जनार्दनः ॥ [भ्प् 4.2.31] इति ।
एष वेद-लक्षणो यत्-प्रमाणं यत्र मूलम् इय् अर्थः । अत एवान्वयेनापि
श्री-विष्णु-भक्तिर् दृढी-कृता सत्त्वं रजस् तमः [भ्प् 1.2.23] इत्य् आदिना । तथा
श्री-हरि-वंशे शिव-वाक्यम् -
हरिर् एव सदा ध्येयो भवद्भिः सत्त्व-संस्थितैः ।
विष्णु-मन्त्रं सदा विप्राः पठध्वं ध्यात केशवम् ॥ इति ।
तस्मात् श्री-शिव-भक्तेर् अप्य् एवम्भूते स्थिते पराणाम् अपि देवतानां
वैष्णवागमादौ तद्-बहिरङ्गावरण-सेवकत्वेनाप्राकृतानाम् एव पूजा-
विधानं श्री-भगवल्-लोक-सङ्ग्रह-पराणां तल्-लीलौपायिक-नर-लीला-
पार्षदानां वा श्री-भगवत्-प्रीणन-यज्ञादौ तु युधिष्ठिर-राजसूयवद्
अन्यासाम् अपि तद्-विभूतित्वेनैवेति ज्ञेयम् ।
ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् ।
भवं प्रजापतीन् देवान् प्रह्रादो भगवत्-कलाः ॥ [भ्प् 7.10.32] इति ।
तद् उक्तं श्री-युधिष्ठिरेणैव -
क्रतु-राजेन गोविन्द राजसूयेन पावनीः
यक्ष्ये विभूतीर् भवतस् तत् सम्पादय नः प्रभो ॥ [भ्प् 10.72.31]
विभूतित्वेनैवम् उक्तं पाद्मे कार्त्तिक-माहात्म्ये श्री-सत्यभामां प्रति
श्री-भगवता --
शैवाः सौराश् च गाणेशा वैष्णवाः शक्ति-पूजकाः ।
माम् एव प्राप्नुवन्तीह वर्षाम्भः सागरं यथा ॥
एकोऽहं पञ्चधा जातः क्रीडयन् नामभिः किल ।
देव-दत्तो यथा कश्चित् पुत्राद्य्-आह्वान-नामभिः ॥ [पद्मप् 6.88.43-44] इति ।
वस्तुतस् तु सर्वापेक्षया श्री-वैष्णवा एव श्रेष्ठाः । तद् उक्तं स्कान्दे
ब्रह्म-नारद-संवादे तथैवान्यत्र प्रह्लाद-संहितायाम् एकादशी-
जागरण-प्रसङ्गे च -
न सौरो न च शैवो वा न ब्राह्मो न च शाक्तिकः ।
न चान्य-देवता-भक्तेः भवेद् भागवतोपमः ॥ इति ।
तादृश-सौरादीनां तत्-प्राप्तिश् च न केवलं तद्-धेतुत्वेन किन्तु भगवत्-
प्रीत्य्-अर्थ-कृत-जप-तपस्-तज्-जात-(पगे 42) -शुद्ध-भक्ति-द्वारा श्री-
विस्णु-क्षेत्र-मरणादि-प्रभावेण वा । यथा तत्रैव वर्णितयोर् देवशर्म-
चन्द्रशर्म-नाम्नोः सूर्यम् आराधयतोः । तद् उक्तं श्री-भगवता -
तत्-क्षेत्रस्य प्रभावेण धर्म-शीलतया पुनः ।
वैकुण्ठ-भवनं नीतौ मत्-परौ मत्-समीपगैः ॥
यावज् जीवन्तु यत् ताभ्यां सूर्य-पूजादिकं कृतम् ।
तेनाहं कर्मणा ताभ्यां सुप्रीतो ह्य् अभवं किल ॥ इति ।
तत्-क्षेत्रं मायापुरी । तौ च श्री-कृष्णावतारे सत्राजिद्-अक्रूराख्यौ जाताव्
इति च तत्र प्रसिद्धिः । एवं पुण्डरीकस्यापि पितृ-सेवया तत्-प्राप्तिश् च
योजनीया ।
स्वतन्त्रोपासनायां तत्-प्राप्तिः श्री-गीतोपनिषदि निषिद्धः --
येऽप्य् अन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि माम् एव कौन्तेय यजन्त्य् अविधिपूर्वकम् ॥
अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च ।
न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥
यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ [गीता 9.23-25]
तस्मात् तदीयत्वेनोपासनायां कश्चिद् गुणोऽपि भवति ।
अवज्ञादौ तु दोषः - श्रद्धां भागवते शास्त्रेऽनिन्दाम् अन्यत्र चापि हि
[भ्प् 11.3.26] इतिवत् । यथा पाद्मे -
हरिर् एव सदाराध्यः सर्व-देवेश्वरेश्वरः ।
इतरे ब्रह्म-रुद्राद्या नावज्ञेयाः कदाचन ॥ इति ।
गौतमीये च -
गोपालं पूजयेद् यस् तु निन्दयेद् अन्य-देवताम् ।
अस्तु तावत् परो धर्मः पूर्व-धर्मोऽपि नश्यति ॥ [गौतमीयत् 33.84] इति ।
अतएव हयशीर्षा मां पथि देव-हेलनात् [भ्प् 6.8.15] इति श्री-नारायण-
वर्मणि तद्-आगः-प्रायश्चित्तम् ।
विष्णु-धर्मे चायम् इतिहासः - पूर्वं श्र्मद्-अम्बरीषो बहु-दिनं श्री-
भगवद्-आराधनं तओप्ऽनुष्ठितवान् । तद्-अन्ते च भगवान् एवेद्न्र-
रूपेणैरावती-कृतं गरुडम् आरुह्य तं वरेण छन्दयामास । स चेन्द्र-
रूपं दृष्ट्वा तं नमस्कारादिभिर् आदृत्यापि तस्माद् वरं नेष्टवान् ।
उक्तवांश् च - ममाराध्याकारो यः स एव मम वर-दाता भवेन् नान्य
इति । अथ तद्-देय-वरम् अहम् एव दास्यामीति पुनर् उक्त्य्वत्य् अपीन्द्रे तं
नेष्टवन्तं तं प्रति वज्रं समुद्यतवान् । तदापि तं वरं नाङ्गीकृतवति
तस्मिन् सुप्रसन्नो भूवा तद्-रूपम् अन्तर्धाप्य स्वरूपम् आविर्भावयन्न्
अनुजग्राहेति ।
तत्र च शिवावज्ञादौ महान् एव दोषः । यथा चतुर्थे एव नन्दीश्वर-
शापः । संसरन्त्व् इह ये चामुम् अनु शर्वावमानिनम् [भ्प् 4.2.24] इति । इदम्
अपि यत् किञ्चिद् एव, श्री-शिवस्य महाभागवतत्वेन दोषस्य स्वयम् एव
सिद्धत्वात् । हेलनं गिरिश-भ्रातुर् धनदस्य त्वया कृतम् [भ्प् 4.11.32] इत्य्
उक्त-रीत्या नूनं तत्-सख्यम् अनुस्मृत्यैव कुबेराद् अपि श्री-ध्रुवेण
भगवद्-भक्ति-स्वभाव-कृत-सर्व-विषयक-विनय-पुनः-पुनर्-भ्भक्त्य्-
अभिलाषाभ्यां युक्तेन सता कृतं भगवद्-भक्ति-वर-प्रार्थनम् इति
चतुर्थाभिप्रायः । अतएवोक्तं --(पगे 43)
यो मां समर्चयेन् नित्यम् एकान्तं भावम् आश्रितः ।
विनिन्दन् देवम् ईशानं स याति नरकं ध्रुवम् ॥ इति ।
दृष्टं च यथा चित्रकेतु-चरिते । श्री-कपिल-देवेन साधारणानाम् अपि
प्राइनाम् अवमानादिकं निन्दितं किम् उत तद्-विधानाम् । तथा हि -
अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा
तम् अवज्ञाय मां मर्त्यः कुरुतेऽर्चा-विडम्बनम् ॥ [भ्प् 3.29.21]
भूतेषु वक्ष्यमाण-रीत्या प्राण-भृज्-जीवम् आरभ्य भगवद्-अर्पितात्म-
जीव-पर्यन्तेषु भूतात्मा तद्-अन्तर्यामी । तं माम् अवज्ञाय तेषाम्
अवज्ञया तद्-अधिष्ठानकस्य ममैवावज्ञां कृत्वेत्य् अर्थः । ततस् तां
कृत्वा योऽर्चां मत्-प्रतिमां कुरुते स तद्-विडम्बनं तस्या अवज्ञाम् एव
कुरुत इत्य् अर्थः । यतः -
यो मां सर्वेषु भूतेषु सन्तम् आत्मानम् ईश्वरम् ।
हित्वार्चां भजते मौढ्याद् भस्मन्य् एव जुहोति सः ॥ [भ्प् 3.29.22]
मौढ्यात् शैली दारुमयो वा काचित् प्रतिमेयम् इति मूढ-बुद्धित्वाद् यं
सर्वेषु भूतेषु वर्तमानं परमात्मानम् ईश्वरं मां हित्वा तस्या
मयैक्यं अविभाव्यार्चां मदीयां प्रतिमां भजते केवल-लोक-रीति-दृष्ट्या
तस्यै जलादिकम् अर्पयति । यथाग्नि-पुराणे दशरथ-मारित-पुत्रस्य
तपस्विनो विलापे -
शिला-बुद्धिः कृता किं वा प्रतिमायां हरेर् मया ।
किं मया पथि दृष्टस्य विष्णु-भक्तस्य कर्हिचित् ॥
तन्-मुद्राङ्कित-देहस्य चेतसानादरः कृतः ।

येन कर्म-विपाकेन पुत्र-शोको ममेदृशः ॥ इति ।
यथा चोक्तं -
विष्ण्व्-अर्चायां शिला-धीर् गुरुषु नर-मतिर् वैष्णवे जाति-बुद्धिर्
विष्णोर् वा वैष्णवानां कलि-मल-मथने पाद-तीर्थेऽम्बु-बुद्धिः ।
श्री-विष्णोर् नाम्नि मन्त्रे सकल-कलुष-हे शब्द-सामान्य-बुद्धिर्
विष्णौ सर्वेश्वरेशे तद्-इतर-सम-धीर् यस्य वा नारकी सः ॥ [प्व् 114] इति ।
तस्य च मूढस्य मद्-दृष्ट्य्-अभावात् सर्व-भूतावज्ञापि भवति । ततस् तद्-
दोषेण भस्मनि यथा जुहोति कश्चित् तथा तस्याश्रद्दधानस्य फलाभाव
इत्य् अर्थः । ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः [गीता 17.1] इत्य्-
आद्य्-उक्त-रीत्या लोक-परम्परा-मात्र-जाते यत्-किञ्चिच्-छ्रद्धा-सद्-भावे तु
कनिष्ठ-भागवतत्वम् एव ।
अर्चायाम् एव हरये पूजां यः श्रद्धयेहते ।
न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ [भ्प् 11.2.47] इत्य्
उक्तेः ।
यद्यपि यथा-कथञ्चिद् भजनस्यैवावश्यक-फलावसानतास्त्य् एव तथापि
झटिति न भवतीत्य् एव तथोक्तम् । वक्ष्यते च साफल्यम् अर्चादाव् अर्चयेत्
तावद् [भ्प् 3.29.20] इत्य् आदिना । अवज्ञा-मात्रस्य तादृशत्वे सुतरां तु -
द्विषतः पर-काये मां मानिनो भिन्न-दर्शिनः ।
भूतेषु बद्ध-वैरस्य न मनः शान्तिम् ऋच्छति ॥ [भ्प् 3.29.18] इत्य् उक्तेः ।
(पगे 44)
भिन्न-दर्शिनः सर्वत्रान्तर्याम्य्-एक-दृष्टि-रहितस्य अतएव मानिन अतएव
तद्-धवैरस्य च । तथा च महाभारते -
पितेव पुत्रं करुणो नोद्वेजयति यो जनः ।
विशुद्धस्य हृषीकेशस् तस्य तूर्णं प्रसीदति ॥
किं च -
अहम् उच्चावचैर् द्रव्यैः क्रिययोत्पन्नयानघे ।
नैव तुष्येऽर्चितोऽर्चायां भूत-ग्रामावमानिनः ॥ [भ्प् 3.29.24]
अवमानिनो निन्दा-कर्तुः । निन्दापि द्वेष-समा । किं वा -
न तथा तप्यते विद्धः पुमान् बाणैर् हि मर्मगैः ।
यथा तुदन्ति मर्मस्था असतां पुरुषेषवः ॥
इत्य्-आद्य्-उक्त-रीत्या ततोऽधिका इति नायं व्युत्क्रम्य इत्य् अभिप्रेत्य न द्वेषात्
पूर्वम् असौ पठिता ।
तद् एवं ईश्वर-ज्ञानाभावाद् भक्ताव् अश्रद्दधानस्य दोष उक्तः । अथ
तच्-छ्रद्धा-हेतु-तज्-ज्ञानस्य स्व-धर्म-संयुक्तं तद्-अर्चनम् एव
कारणम् उपदिशन् तादृशार्चनस्याप्य् अव्यर्थताम् अङ्गीकरोति -
अर्चादाव् अर्चयेत् तावद् ईश्वरं मां स्व-कर्म-कृत् ।
यावन् न वेद स्व-हृदि सर्व-भूतेष्व् अवस्थितम् ॥ [भ्प् 3.29.25]
तावद् एव स्व-कर्म-कृत् सन् अर्चादाव् अर्चयेद् यावत् सर्व-भूतेष्व् अवस्थितम्
ईश्वरं मां न वेद न जानाति । अत्र स्व-कर्म-सहायत्वम् अजात-श्रद्धस्य
शुद्ध-भक्ताव् अनधिकारात् तत् प्रतिपादयिष्यते जात-श्रद्धो मत्-कथासु
[भ्प् 11.20.27] इत्य् आदिना । अतो भगवज्-ज्ञानाद् ऊर्ध्वं जात-श्रद्धस् तु स्व-
कर्म-कृत् सन् नार्चयेत् किन्तु शुद्धम् अर्चादिकम् एव कुर्वीतेत्य् आयातम् । तच्
च प्रतिपादयिष्यते तावत् कर्माणि कुर्वीत [भ्प् 11.20.9] इत्य् आदिना, न त्व् अर्चां
परित्यजेद् इत्य् अर्थः ।
प्रतिष्ठितार्चा न त्याज्या
यावज्-जीवं समर्चयेत् ।
वरं प्राण-परित्यागः
शिरसो वापि कर्तनम् ॥ इति श्री-हयशीर्ष-पञ्चरात्र-विरोधात् ।
अथ स्व-धर्म-पूर्वकम् अर्चनं कुर्वंश् च भूत-दयां विना न
सिद्ध्यतीत्य् आह --
आत्मनश् च परस्यापि यः करोत्य् अन्तरोदरम् ।
तस्य भिन्न-दृशो मृत्युर् विदधे भयम् उल्बणम् ॥ [भ्प् 3.29.26]
अन्तरोदरम् उदर-भेदेन भेदं करोति न तु मद्-अधिष्ठानत्वेनात्म-
समं पश्यति । ततश् च क्षुधितादिकम् अपि दृष्ट्वा स्वोदरादिकम् एव केवलं
बिभर्तीत्य् अर्थः । तस्य भिन्न-दृशो मृत्यु-रूपोऽहम् उल्बणं भयं
संसारम् । निगमयति -
अथ मां सर्व-भूतेषु भूतात्मानं कृतालयम् ।
अर्हयेद् दान-मानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥ [भ्प् 3.29.27]
अथ अतो हेतोः यथा-युक्तं यथा-शक्ति दानेन तद्-अभावे मानेन
चाभिन्नेन चक्षुषेति पूर्ववत् । तथोक्तं सनकादीन् प्रति श्री-वैकुण्ठ-
देवेन -
ये मे तनूर् द्विज-वरान् दुहतीर् मदीया
भूतान्य् अलब्ध-शरणानि च भेद-बुद्ध्या ॥ [भ्प् 3.16.10] इत्य् आदि ।
यद् वाभिन्नेन चक्ष्षान्यत्र या दृष्टिस् ततोऽतिविलक्षणया दृष्ट्या
सर्वोत्कृष्ट-दृष्ट्येत्य् अर्थः । तत्र सर्वेषां साधारण्येनेवार्हणे प्राप्ते
विशेषयति - (पगे 45)
जीवाः श्रेष्ठा ह्य् अजीवानां ततः प्राण-भृतः शुभे ।
ततः स-चित्ताः प्रवरास् ततश् चेन्द्रिय-वृत्तयः ॥
तत्रापि स्पर्श-वेदिभ्यः प्रवरा रस-वेदिनः ।
तेभ्यो गन्ध-विदः श्रेष्ठास् ततः शब्द-विदो वराः ॥
रूप-भेद-विदस् तत्र ततश् चोभयतो-दतः ।
तेषां बहु-पदाः श्रेष्ठाश् चतुष्-पादस् ततो द्वि-पात् ॥
ततो वर्णाश् च चत्वारस् तेषां ब्राह्मण उत्तमः ।
ब्राह्मणेष्व् अपि वेद-ज्ञो ह्य् अर्थ-ज्ञोऽभ्यधिकस् ततः ॥
अर्थ-ज्ञात् संशय-च्छेत्ता ततः श्रेयान् स्व-कर्म-कृत् ।
मुक्त-सङ्गस् ततो भूयान् अदोग्धा धर्मम् आत्मनः ॥
तस्मान् मय्य् अर्पिताशेष- क्रियार्थात्मा निरन्तरः ।
मय्य् अर्पितात्मनः पुंसो मयि सन्न्यस्त-कर्मणः ।
न पश्यामि परं भूतम् अकर्तुः सम-दर्शनात् ॥ [भ्प् 3.29.28-33]
पुर्वस्माद् उत्तरोत्तरस्मिन् एकैक-गुणाधिक्येनाधिक्यम् । धर्मम्
अदोग्धा निष्काम-कर्मा । निरन्तरो ज्ञानाद्य्-अव्यवहित-भक्तिः । अकर्तुर्
अर्पितात्मत्वेन स्वभरणादिकर्मानपेक्षमाणात् । यद् भगवति भक्तिः
क्रियते तत्रापि स्वस्य भगव्द् अधीनत्वं ज्ञात्वा तद्-अभिमान-शून्याच् च ।
सम-दर्शनाद् भगवद्-अधिष्ठातृत्व-साम्येनात्मवत् परेष्व् अपि हितम्
आशंसनेन श्रवणादि-कर्मापेक्षमाणात् जीवाः श्रेष्ठा ह्य् अजीवानाम् इत्य्
आदिना भेदो हि विवक्षितः । ततो मद्-भक्तेष्व् एवादर-बाहुल्यं कर्तव्यम्
अन्यत्र च यथा-प्राप्तं यथा-शक्ति चेति भावः । तथैवोक्तम् -
मनसैतानि भूतानि प्रणमेद् बहु-मानयन् ।
ईश्वरो जीव-कलया प्रविष्टो भगवान् इति ॥ [भ्प् 3.29.34]
जीव-कलया तत्-कलनया तद्-अन्तर्यामितयेत्य् अर्थः । तद् एवं
प्रथमोपासकानां सर्व-भूतादरो विहितः । स-श्रद्ध-साधकानां तु
भगवद्-वैभवस सार्वत्रिकता-स्फूर्त्या भवत्य् एवासौ । यथोक्तं स्कान्दे
एतेन ह्य् अद्भुता व्याध तवाहिंसादयो गुणाः ।
हरि-भक्तौ प्रवृत्ता ये न ते स्युः पर-तापिनः ॥ इति ।
वक्ष्यमाण-रीत्या शुद्ध-बन्धुत्वादि-भाव-साधकानाम् अपि शुद्ध-
बन्धु-भाव-सिद्ध-श्री-गोकुल-वास्य्-अनुशीलनानुसारेण तादृश-भगवद्-
गुणानुस्मरणेन चासौ जायते । जात-भावानां त्व् अहिंसोपरमश् च स्वीय
एव स्वभावः । यथा -
यत्रानुरकात्ः सहसैव धीरा
व्यपोह्य देहादिषु सङ्ग-मूढम् ।
व्रजन्ति तत् पारमहंस्यम् अन्त्यं
यस्मिन् न हिंसा परमः स्व-धर्मः ॥
इत्य् अनुसारेण सिद्ध एव सः । तत्र परम-सिद्धानां च सर्व-भूतेषु यः
पश्येद् भगवद्-भावम् आत्मनः [भ्प् 11.2.45] इत्य्-आद्य्-अनुसारेण सिद्ध एव
सः । तत्र साधकानां यत् तु यथा तरोर् मूल-निषेचनेन [भ्प् 4.31.12] इत्य्
आदौ तद्-अन्योपासनानां पुनरुक्तत्वम् उपलभ्यते, तत् पुनः केवल-
स्वतन्त्र-तत्-तद्-दृष्ट्योपासनानाम् एव । अत्र तु तत्-तद्-अधिष्ठानक-

भगवद्-उपासनम् एव विधीयते । तद्-आदरावश्यकत्वं च तत्-
सम्बन्धेनैव सम्पाद्यत इति भेदः । तच् चान्यत्र झटिति राग-द्वेष-
विश्लेषार्थम् इति ज्ञेयम् । अतएव केवल-भूतानुकम्पया भगवद्-अर्चनं
त्यक्तवतो भरतस्यान्तरायः । तस्माद् भूत-दयैव भगवद्-भक्तिर्
मुख्या नार्चनम् इति निरस्तम् । तथा वैतद् अव्यवहित-पूर्वं निर्गुण-
भक्त्य्-अपायत्वेन (पगे 46) क्रिया-योगेन शस्तेन नातिहिंस्रेण नित्यशः इत्य्
अत्र अति-शब्देन पाञ्चरात्रिकार्चन-लक्षण-क्रिया-योगार्था पत्र-
पुष्पावचयादि-लक्षाणा किञ्चिद् धिंसापि विहिता । तस्माद् अनादरो न कर्तव्यस्
तत्-सम्बन्धेनादरादिकं च कर्तव्यम् । स्वातन्त्र्येणोपासनं तु धिक्-कृतम्
इति साध्व् एवोक्तम् अविस्मितं तं परिपूर्ण-कामम् इत्य् आदि ।
॥ 6.9 ॥ देवाः श्रीमद्-आदि-पुरुषम्

6.107

[107]
तथा --
कः पण्डितस् त्वद् अपरं शरणं समीयाद्
भक्त-प्रियाद् ऋत-गिरः सुहृदः कृत-ज्ञात् ।
सर्वान् ददाति सुहृदो भजतोऽभिकामान्
आत्मनम् अप्य् उपचयापचयौ न यस्य ॥ [भ्प् 10.48.26]
सुहृदो हितकारि-स्वभावात् तत्रापि कृतज्ञाद् उपकाराभासेऽपि बहु-माननात् ।
यो भजतो भजमानाय सर्वान् कामान् अभीष्टान् अभि सर्वतो-भावेन
ददाति । अत्र सुहृदः सुहृदे प्रीतये त्व् आत्मानम् अपि ददाति । न च सर्वतो-
भावेन दाने तादृशेभ्यो बहुभ्यो दाने वा समावेशाभावः स्याद् इत्य् आह
उपचयेति ॥
॥ 10.48 ॥ अक्रूरः श्री-भगवन्तम्

6.108

[108]
तद्-अभक्त-मात्रानादरेणाह -
येऽभ्यर्थिताम् अपि च नो नृ-गतिं प्रपन्ना
ज्ञानं च तत्त्व-विषयं सह-धर्मं यत्र ।
नाराधनं भगवतो वितरन्त्य् अमुष्य
सम्मोहिता विततया बत मायया ते ॥ [भ्प् 3.15.24]
यत्र यस्यां भगवद्-धर्म-पर्यन्तो धर्मो भवति भगवत्-पर्यन्तस्य
तत्त्वस्य ज्ञानं च भवतीत्य् अर्थः । तां प्राप्ता अपि सर्वेषां धर्माणां
ज्ञानानां च मूलं ये भगवद्-आराधनं न वितरन्ति न कुर्वन्ति । तद्
उक्तं - बिले बतोरुक्रम-विक्रमान् ये [भ्प् 2.3.20] इत्य् आदि । तथा च ब्रह्म-
वैवर्ते -
प्राप्यापि दुर्लभतरं मानुष्यं विबुधेप्सितम् ।
यैर् आश्रितो न गोविन्दस् तैर् आत्मा वञ्चितश् चिरम् ॥
अशीति-चतुरश् चैव लक्षांस् तान् जीव-जातिषु ।
भ्रमद्भिः पुरुषैः प्राप्य मानुष्यं जन्म-पर्ययात् ॥
तद् अप्य् अफलतां जातं तेषाम् आत्माभिमानिनाम् ।
वराकानाम् अनाश्रित्य गोविन्द-चरण-द्वयम् ॥ इति ।
॥ 3.15 ॥ श्री-ब्रह्मा देवान्

6.109

[109]
तथा --
यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना
सर्वैर् गुणैस् तत्र समासते सुराः ।
हराव् अभक्तस्य कुतो महद्-गुणा
मनोरथेनासति धावतो बहिः ॥ [भ्प् 5.18.12]
अकिञ्चना निष्कामा । गुणैर् ज्ञान-वैराग्यादिभिः सह सर्वे ब्रह्मादयो
देवाः सम्यग् आसते ।
॥ 5.18 ॥ भद्रश्रवः श्री-हयशीर्षम्

6.110

[110]
अतएव तत्-तन्-मार्ग-सिद्ध-मुनीनाम् अप्य् अनादरः -
अह्न्य् आपृतार्त-करणा निशि निःशयाना
नाना-मनोरथ-धिया क्षण-भग्न-निद्राः ।
दैवाहतार्थ-रचना ऋषयोऽपि देव
युष्मत्-प्रसङ्ग-विमुखा इह संसरन्ति ॥ [भ्प् 3.9.10]
(पगे 47)
अह्न्यापृतार्त इत्य् आदि-स्वभावा युष्मद्-भजन-विमुखाः संसारिणो
भवन्ति । किं बहुना, तत्-तन्-मार्ग-सिद्धा मुनयोऽपि युष्मत्-प्रसङ्ग-
विमुखाश् चेद् इह जगति तद्वद् एव संसरन्ति । अथवा मुनयोऽपि त्वद्-
विमुखाश् चेत् तर्हि संसरन्त्य् एव । कथम्भूताः सन्तः संसरन्ति इत्य् अत्राह
अह्न्यापृतेत्य् आदि । आरुह्य कृच्छ्रेण परं पदम् [भ्प् 10.28.32] इत्य् आदेः । अत
उक्तं श्री-धर्मेण -
धर्मं तु साक्षाद् भगवत्-प्रणीतं
न वै विदुर् ऋषयो नापि देवाः ।
न सिद्ध-मुख्या असुरा मनुष्याः
कुतो नु विद्याधर-चारणादयः ॥
स्वयम्भूर् नारदः शम्भुः कुमारः कपिलो मनुः ।
प्रह्लादो जनको भीष्मो बलिर् वैयासकिर् वयम् ॥
द्वादशैते विजानीमो धर्मं भागवतं भटाः ।
गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतम् अश्नुते ॥
एतावान् एव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः । [भ्प् 6.3.19-22]
एते धर्म-प्रवर्तका विजानीम एव न तु स्व-स्मृत्य्-आदिषु प्रायेणोपदिशाम
इत्य् अर्थः । यतो गुह्यम् अप्रकाश्यं दुर्बोधम् अन्यैस् तथा ग्रहीतुम्
अशक्यं च । गृह्यत्वे हेतुर् यज् ज्ञात्वेति । अतएव वक्ष्यते प्रायेण वेद तद्
इदं न महाजनोऽयम् [भ्प् 6.3.25] इत्य् आदि । महाजनो द्वादशभ्यस् तद्-
अनुगृहीत-सम्प्रदायिभ्यश् चान्यो महागुण-युक्तोऽपीत्य् अर्थः । तस्मात्
साधूक्तम् अह्न्यापृच्छतार्तेत्य् आदि ।
॥ 3.9 ॥ ब्रह्मा गर्भोदशायिनम्

6.111

[111]
तद् एवं श्री-भगवद्-उक्तेर् एव सर्वोर्ध्वम् अभिधेयत्वं स्थितम् -
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥
योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता 6.46-47] इति ।
अत्र योगिनाम् अपि सर्वेषाम् इति च पञ्चम्य् अर्थ एव षष्ठी, तपस्विभ्य इत्य्
आदिना तथैवोपक्रमाद् भजतः सर्वाधिक्य एव विख्यातस्य । सर्व-
शब्दोऽत्र देवम् एवापरे यज्ञं योगिनः पर्युपासते [गीता 4.25] इत्य् आदिना
पूर्व-पूर्वोक्तं न सर्वान् उपायिनो गृह्णातीति ज्ञेयम् ।
तद् एवम् अभक्त-निन्दा-श्रवणात् श्रीमद्-भगवद्-भक्तेः सर्वेषु
नित्यत्वम् अपि सिद्धम् । उक्तं च श्री-भगवता उद्धवं प्रति भिक्षोर्
धर्मः शमोऽहिंसा तप ईक्षा वनौकसः [भ्प् 11.18.44] इत्य् आदौ सर्वेषां
मद्-उपासनम् [भ्प् 11.18.43] इति । तथा नारदेन च सार्ववर्णिक-स्वधर्म-
कथने, श्रवणं कीर्तनं चास्य [भ्प् 7.11.10] इत्य् आदि ।
तथा च महाभारते --
मातृवत् परिरक्षन्तं सृष्टि-संहार-कारकम् ।
यो नार्चयति देवेशं प्तं विद्याद् ब्रह्म-घातकम् ॥ इत्य् आदि ।
श्री-गीतोपनिषत्सु -
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावम् आश्रिताः ॥ [गीता 7.15] (पगे 48)
इत्य् आदि ।
आग्नेये विष्णु-धर्मे च -
द्विविधो भूत-सर्गोऽयं दैव आसुर एव च ।
विष्णु-भक्ति-परो दैव आसुअरस् तद्-विपर्ययः ॥
अन्यद् अप्य् उदाहृतम् - विप्राद् द्वि-षड्-गुण-युताद् अरविन्द-नाभ-
पादारविन्द-विमुखात् [भ्प् 7.9.10] इति श्वपचोऽपि महीपालः इत्य् आदि च ।
तथा गारुडे -
अन्तं गतोऽपि वेदानां सर्व-शास्त्रार्थ-वेद्य् अपि ।
यो न सर्वेश्वरे भक्तस् तं विद्यात् पुरुषाधमम् ॥ [गर्प् 1.231.17]
बृहन्-नारदीये --
हरि-पूजा-विहीनाश् च वेद-विद्वेषिणस् तथा ।
गो-द्विज-द्वेष-निरता राक्षसाः परिकीर्तिता ॥ [नार्प् 1.37.5] इति ।
अपरं च --
येऽन्येऽरविन्दाक्ष विमुक्त-मानिनस्
त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः ।
आरुह्य कृच्छ्रेण परं पदं ततः
पतन्त्य् अधोऽनादृत-युष्मद्-अङ्घ्रयः ॥ [भ्प् 10.2.32] इति ।
प्रथमतस् तावत् त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः ।
धर्मः सत्य-दयोपेतो
विद्या वा तपसान्विता ।
मद्-भक्त्यापेतम् आत्मानं
न सम्यक् प्रपुनाति हि ॥ [भ्प् 11.14.22] इत्य्-आद्य्-उक्तेः ।
तथा ज्ञान-मार्गम् आश्रित्य विमुक्त-मानिनो देह-द्वयातिरिक्तत्वेनात्मानं
भावयन्तः, ततः - क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् [गीता 12.5]
इत्य्-आद्य्-उक्तेः कृच्छ्रेण जीवन्-मुक्ति-रूपाम् आरुह्य प्राप्यापि ततोऽधः
पतन्ति भ्रश्यन्ति । कदेत्य् अपेक्षायाम् आह नादृतेति । यदीति शेषः । तेषां
भक्ति-प्रभावस्याननुवृत्तेर् अबुद्धि-पूर्वकस्य त्वद्-अनादरस्य
निवर्तकाभावात् । तथापि दग्धानाम् अपि पाप-कर्मणां महा-शक्ति-श्री-
भगवत्-पाद-पद्मावज्ञया पुनर् विरोहात् । तथा च वासना-
भाष्योत्थापितं भगवत्-परिशिष्ट-वचनम् -
जीवन्-मुक्ता अपि पुनर् बन्धनं यान्ति कर्मभिः ।
यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥
अतएव तत्रैव -
जीवन्-मुक्ताः प्रपद्यन्ते क्वचित् संसार-वासनाम् ।
योगिनो वै नो लिप्यन्ते कर्मभिर् भगवत्-पराः ॥ इति ।
तथा रथयात्रा-प्रसङ्गे विष्णु-भक्ति-चन्द्रोदयादि-धृतं पुराणान्तर-
वचनम् -
नानुव्रजति यो महाद् व्रजन्तं परमेश्वरम् ।
ज्ञानाग्नि-दग्ध-कर्मापि स भवेद् ब्रह्म-राक्षसः ॥ इति ।
एवम् उक्तं यो नादृती नरक-भाग्भिर् असत्-प्रसङ्गैः [भ्प् 3.9.4] इति ।
अतएवोपदिष्टम् -
तस्माज् ज्ञानेन सहितं ज्ञात्वा स्वात्मानम् उद्धव ।
ज्ञान-विज्ञान-सम्पन्नो भज मां भक्ति-भावतः ॥ [भ्प् 11.19.5]
तस्मात् सुतराम् एव सर्वेषां श्री-हरि-भक्तिर् नित्येत्य् आयातम् ॥
॥ 10.2 ॥ देवाः श्री-भगवन्तम्

6.112

[112]
(पगे 49)
प्रेम-कृत-कर्माशय-निधूननातरम् अपि भक्तिः श्रूयते -
यथाग्निना हेम मलं जहाति
ध्मातं पुनः स्वं भजते च रूपम् ।
आत्मा च कर्मानुशयं विधूय
मद्-भक्ति-योगेन भजत्य् अथो माम् ॥ [भ्प् 11.14.25]
तथैवात्मा जीवो मत्-प्रेम्णा कर्माशयं विधूय ततः शुद्ध-स्वरूपं
च प्राप्य मां भजतीत्य् अर्थः । तद् उक्तं मुक्ता अपि लीलया विग्रहं कृत्वा
भगवन्तं भजन्ते इति ।
॥ 11.14 ॥ श्री-भगवान्

6.113

एवम् अप्य् उक्तं स्कान्दे रेवा-खण्डे -
इन्द्रो महेश्वरो ब्रह्मा परं ब्रह्म तदैव हि ।
श्वपचोऽपि भवत्य् एव यदा तुष्टोऽसि केशव ॥
श्वपचाद् अपकृष्टत्वं ब्रह्मेशानादयः सुराः ।
तदैवाच्युत यान्त्य् एते यदैव त्वं पराङ्मुखः ॥ इति ।
तथैवाह -
यच्-छौच-निःसृत-सरित्-प्रवरोदकेन
तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवोऽभूत् । [भ्प् 3.28.22] इति । स्पष्टम् ।
तस्माद् भक्तेर् महान् इत्य् अत्वेनाप्य् अभिधेयत्वम् आयातम् । अग्रे स्व-कृत-
पुरेषु [भ्प् 10.87.20] इत्य् आदौ जीवानां स्व-भाव-सिद्धा सेवेति व्याख्येयम् ॥
॥ 3.28 ॥ श्री-कपिल-देवः

6.114

[114]
तद् एवम् अवान्तर-तात्पर्येण भक्तेर् एवाभिधेयत्वं षड्-विधैर् अपि लिङ्गैर्
अवगम्यते । तत्रोपक्रमोपसंहारयोर् एक्तवेन यथा जन्माद्य् अस्य यतः
[भ्प् 1.1.1] इत्य् आदाव् उपक्रम-पद्ये सत्यं परं धीमहि इति । अत्र श्री-
गीतासु एवं सतत-युक्ता ये भक्तास् त्वां पर्युपासते [गीता 12.1] इत्य् आदौ
श्री-भगवत्य् एव ध्यानस्याकष्टार्थत्वेन तद्-ध्यानिनो युक्ततमत्वेन
चोक्तत्वात् । ब्रह्मणो हि प्रतिष्ठाहम् [गीता 14.7] इत्य् आदौ परत्वस्य श्री-
भगवद्-रूप एव पर्यवसानात् । तस्यैव सर्वज्ञत्व-सर्व-शक्तित्वाभ्यां
जगज्-जन्मादि-हेतुत्वात् तत्र श्री-भगवत्य् एव ध्यानम् अभिधीयते ।
तथैव हि तत् पद्यं परमात्म-सन्दर्भे विवृतम् अस्ति । कस्मै येन
विभाषितोऽयम् अतुलो ज्ञान-प्रदीपः पुरा [भ्प् 12.13.14] इत्य् आदाव् उपसंहार-
पद्येऽपि सत्यं परं धीमहि [भ्प् 1.1.2] इति । अतएव स्पष्टम् एवास्य श्री-
भगवत्त्वं श्री-भागवत-वक्तृत्वात् । पूर्वं च तेने ब्रह्म हृदा य आदि-
कवये इत्य् उक्तम् । अभ्यासेनोदाहरणं पूर्वं दर्शितम् अदर्शितं चानेक-
विधम् एव । अपूर्वतया फलेन च दर्शितं श्री-व्यास-समाधौ
अनर्थोपशमं साक्षात् [भ्प् 1.7.6] इत्य् आदि । प्रशंसा-लक्षणेनार्थ-वादेन
चाभ्यासवद् बहु-विधम् एव तत्रास्ति । उपपत्त्या च - भयं
द्वितीयाभिनिवेशतः स्यात् [भ्प् 11.2.35] इत्य् आद्य् अनेकम् इति । अत्र गति-सामान्ये
च इदं हि पुंसस् तपसः श्रुतस्य वा [भ्प् 1.5.22] इत्य् आदि । तथाह --
मुनिर् विवक्षुर् भगवद्-गुणानां
सखापि ते भारतम् आह कृष्णः ॥ [भ्प् 3.5.12] इत्य् आदि । स्पष्टम् ।
॥ 3.5 ॥ श्री-विदुरः

6.115

(पगे 50)
[115]
इयम् एव भक्तिः धर्मः प्रोज्झित-कैतवोऽत्र परमो निर्मत्सराणां सताम्
[भ्प् 1.1.2] इत्य् अत्रोक्ता । अत्र सर्गो विसर्गश् च [भ्प् 2.10.1] इत्य् आदौ दश-
लक्षण्याम् अपि सद्-धर्म इत्य् एक-लक्षणत्वेनोक्ता । तस्या अभिधेयत्वं श्री-
भागवत-बीज-रूपायां चतुः-श्लोक्याम् अप्य् उदाहृतम् ।
एतावद् एव जिज्ञास्यं तत्त्व-जिज्ञासुनात्मनः ।
अन्वय-व्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा ॥ [भ्प् 2.9.35]
पूर्वं हि ज्ञान-विज्ञान-रहस्य-तद्-अङ्गानि वक्तव्यत्वेन चत्वार्य् एव
प्रतिज्ञातानि । तत्र चतुः-श्लोक्यां प्राक्तनास् त्रयोऽर्था अपि क्रमेणैव
प्राक्तन-श्लोक-त्रये व्याख्याताः । रहस्य-शब्देनात्र प्रेम-भक्तिः तद्-
अङ्ग-शब्देन साधन-भक्तिर् उच्यते । टीका च - रहस्यं भक्तिस् तद्-अङ्गं
साधनम् इत्य् एषा ।
ततः क्रम-प्राप्तत्वेन -
कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता ।
मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः ॥ [भ्प् 11.14.3]
इति भगवद्-वाक्यानुसारेण च चतुर्थेऽस्मिन् पद्ये साधन-भक्तिर् एव
व्याख्याता । अत्र च पुनर् व्याख्या-विवरणायोत्थाप्यते । तथा हि - आत्मनो
मम भगवतः तत्त्व-जिज्ञासुना प्रेम-रूपं रहस्यम् अनुभवैतुम्
इच्छुना एतावन्-मात्रं जिज्ञासितव्यं, श्री-गुरु-चरणेभ्यः शिक्षणीयम् । किं
तत् ? यद् एकम् एव अन्वयेन विधि-मुखेन व्यतिरेकेण निषेध-मुखेन च
स्याद् उपपद्यते । तत्रान्वयेन यथा एतावान् एव लोकेऽस्मिन् [भ्प् 6.3.22] इत्य्
आदि, मन्-मना भव मद्-भक्तः [गीता 9.24] इत्य् आदि च । व्यतिरेकेण यथा -
मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥
य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् ।
न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ [भ्प् 11.5.2-3]
न मां दुष्कृतिनो मूढा [गीता 7.15] इत्य् आदि ।
यावज् जनो भजति नो भुवि विष्णु-भक्ति-
वार्ता-सुधा-रसम् अशेष-रसैक-सारम् ।
तावज् जरा-मरण-जन्म-शताभिघात-
दुःखानि तानि लभते बहु-देहजानि ॥ [पद्मप् 5.85.33] इति पद्म-पुराणात् ।
कुत्र कुत्रोपपद्यते ? सर्वत्र शास्त्र-कर्तृ-देश-करण-द्रव्य-क्रिया-कार्य-
फलेषु समस्तेष्व् एव । तत्र समस्त-शास्त्रेषु यथा स्कान्दे ब्रह्म-नारद-
संवादे -
संसारेऽस्मिन् महा-घोरे जन्म-मृत्यु-समाकुले ।
पूजनं वासुदेवस्य तारकं वादिभिः स्मृतम् ॥
तत्राप्य् अन्वयेन यथा - भगवन् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य
मनीषया [भ्प् 2.2.34] इत्य् आदि । तथा पाद्मे स्कान्दे च -
आलोड्य सर्व-शास्त्राणि विचार्य च पुनः पुनः ।
इदम् एकं सनिष्पन्नं ध्येयो नारायणः सदा ॥ (पगे 51) इति ।
व्यतिरेकेण यथा - पारङ्गतोऽपि वेदानाम् इत्य् आदिकं सर्वम् अवगन्तव्यम् ।
तच् चान्ते दर्शयिष्यते । सर्व-कर्तृषु, यथा -
ते वै विदन्त्य् अतितरन्ति च देव-मायां
स्त्री-शूद्र-हूण-शबरा अपि पाप-जीवाः ।
यद्य् अद्भुत-क्रम-परायण-शील-शिक्षास्
तिर्यग्-जना अपि किम् उ श्रुत-धारणा ये ॥ [भ्प् 2.7.46] इति ।
गारुडे --
कीट-पक्षि-मृगाणां च हरौ सन्न्यस्त-चेतसाम् ।
ऊर्ध्वम् एव गतिं मन्ये किं पुनर् ज्ञानिनां नॄणाम् ॥ [गर्प् 1.234.31]
अत्रैव साचारे दुराचारे, ज्ञानिन्य् अज्ञानिनि, विरक्ते रागिणि, मुमुक्षौ मुक्ते,
भक्त्य्-असिद्धे भक्ति-सिद्धे, तस्मिन् भगवत्-पार्षदतां प्राप्ते तस्मिन्
नित्य-पार्षदे च सामान्येन दर्शनाद् अपि सार्वत्रिकता ।
तत्र साचारे दुराचारे यथा -
अपि चेत् सुदुराचारो भजते माम् अनन्यभाक् ।
साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥ [गीता 9.30] इति ।
सद्-आचारस् तु किं वक्तव्य इत्य् अपेर् अर्थः ।
ज्ञानिन्य् अज्ञानिनि च - ज्ञात्वाज्ञात्वाथ ये वै माम् [भ्प् 11.11.33] इत्य् आदि ।
हरिर् हरति पापानि दुष्ट-चित्तैर् अपि स्मृतः इत्य् आदि ।
विरक्ते रागिणि च -
बाध्यमानोऽपि मद्-भक्तो विषयैर् अजितेन्द्रियः ।
प्रायः प्रगल्भया भक्त्या विषयैर् नाभिभूयते ॥ [भ्प् 11.14.17] इति ।
अबाध्यमानस् तु सुतरां नाभिभूयत इत्य् अपेर् अर्थः ।
मुमुक्षौ मुक्ते च मुमुक्षवो घोर-रूपान् [भ्प् 1.2.26] इत्य् आदि ।
आत्मारामाश् च मुनयः [भ्प् 1.7.10] इत्य् आदि ।
भक्त्य्-असिद्धे भक्ति-सिद्धे च -
केचित् केवलया भक्त्या वासुदेव-परायणाः ।
अघं धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः ॥ [भ्प् 6.10.15] इति ।
न चलति भगवत्-पदारविन्दाल्
लव-निमिषार्धम् अपि स वैष्णवाग्र्यः ॥ [भ्प् 11.2.51] इति ।
भगवत्-पार्षदतां प्राप्ते -
मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् काल-विप्लुतम् ॥ [भ्प् 9.4.67] इति ।
नित्य-पार्षदे -
वापीषु विद्रुम-तटास्व् अमलामृताप्सु
प्रेष्यान्विता निज-वने तुलसीभिर् ईशम् ।
अभ्यर्चती स्वलकम् उन्नसम् ईक्ष्य वक्त्रम्
उच्छेषितं भगवतेत्य् अमताङ्ग यच्-छ्रीः ॥ [भ्प् 3.15.22]
सर्वेषु वर्षेषु भुवनेषु ब्रह्माण्डेषु तेषां बहिश् च तैस् तैः श्री-
भगवद्-उपासनायाः क्रियमाणायाः श्री-भागवतादिषु प्रसिद्धिः
सिद्धैवेति सर्व-देशोदाहरणं ज्ञेयम् । सर्वेषु करणेषु यथा -
मानसेनोपचारेण परिचर्य हरिं मुदा ।
परेऽवाङ्-मनसागम्यं तं साक्षात् प्रतिपेदिरे ॥ इत्य् आदि ।
एवम्भूत-वचने ह्य् अस्तु तावद्-बहिर्-इन्द्रियेण मनसा वचसापि तत्-सिद्धिर्
इति प्रसिद्धिः । सर्व-द्रव्येषु यथा -
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ॥ [गीता 9.26, भ्प् 10.81.4]
इति ।
(पगे 52)
सर्व-क्रियासु यथा --
श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः ।
सद्यः पुनाति सद्-धर्मो देव-विश्व-द्रुहोऽपि हि ॥ [भ्प् 11.2.11]
यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम् ॥ [गीता 9.27]
एवं भक्त्य्-आभासेषु भक्त्याभासापराधेष्व् अपि अजामिल-मूषिकादयो
दृष्टान्ता गम्याः ।
सर्वेषु कार्येषु यथा -
यस्य स्मृत्या च नामोक्त्या तपो-यज्ञ-क्रियादिषु ।
नूनं सम्पूर्णतां याति सद्यो वन्दे तम् अच्युतम् ॥ इति ।
सर्व-फलेषु यथा - अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः [भ्प्
2.3.10] इत्य् आदि । यथा तरोर् मूल-निषेचनेन [भ्प् 4.31.12] इत्य् आदि-वाक्येन हरि-
परिचर्यायां क्रियमाणायां सर्वेषाम् अन्येषाम् अपि देवादीनाम् उपासना
स्वत एव सिध्यतीत्य् अतोऽपि सार्वत्रिकता । यथोक्तं स्कान्दे ब्रह्म-नारद-
संवादे -
अर्चिते देव-देवेश शङ्ख-चक्र-गदाधरे ।
अर्चिताः सर्व-देवाः स्युर् यतः सर्व-गतो हरिः ॥
एवं यो भक्तिं करोति यद् गवादिकं भगवते दीयते येन द्वार-भूतेन
भक्तिः क्रियते, यस्मै श्री-भगवत्-प्रीणनार्थं दीयते, यस्माद् गवादिकात्
पय-आदिकम् आदाय भगवते निवेद्यते, यस्मिन् देशादौ कुले वा कश्चिद्
भक्तिम् अनुतिष्ठति तेषाम् अपि कृतार्थत्वं पुराणेषु दृश्यते इति कारक-
गता । एवं सार्वत्रिकत्वं साधितम् ।
सदातनत्वम् आह सर्वदेति । तत्र सर्गादौ यथा -- कालेन नष्टा प्रलये
वाणीयं वेद-संज्ञिता [भ्प् 11.14.3] इति विदुर-प्रश्ने ।

सर्वेषु युगेषु --
कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।
द्वापरे परिचर्यायां कलौ तद् धरि-कीर्तनात् ॥ [भ्प् 12.3.52] इति ।
किं बहुना -
सा हानिस् तन् महच् छिद्रं स मोहः स च विभ्रमः ।
यन्-मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥ इति वैष्णवे ।
सर्वावस्थास्व् अपि - गर्भे श्री-नारद-कारित-श्रवणे प्रह्लादे प्रसिद्धम् ।
बाल्ये श्री-ध्रुवादिषु । यौवने श्रीमद्-अम्बरीषादिषु । वार्धक्ये
धृतराष्ट्रादिषु । मरणेऽजामिलादिषु । स्वर्गितायां श्री-चित्रकेत्व्-आदिषु ।
नारकितायाम् अपि -
यथा यथा हरेर् नाम
कीर्तयन्ति स्म नारकाः ।
तथा तथा हरौ भक्तिम्
उद्वहन्तो दिवं ययुः ॥ [नृसिंहप् 8.31] इति श्री-नृसिंह-पुराणात् ।
अतएवोक्तं दुर्वाससा मुच्येत यन्-नाम्न्य् उदिते नारकोऽपि [भ्प् 9.4.45] इति ।
यथा -
एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् ।
योगिनां नृप निर्णीतं हरेर् नामानुकीर्तनम् ॥ [भ्प् 2.1.11] इत्य् अत्रापि ।
(पगे 53)
तत्र तत्र व्यतिरेकोदाहरणानि च कियन्ति दर्श्यन्ते -
किं वेदैः किम् उ शास्त्रैर् वा किं वा तीर्थ-निषेवणैः ।
विष्णु-भक्ति-विहीनानां किं तपोभिः किम् अध्वरैः ॥ [नारदप् 1.30.111] इति ।
किं तस्य बहुभिः शास्त्रैः किं तपोभिः किम् अध्वरैः ।
वाजपेय-सहस्रैर् वा भक्तिर् यस्य जनार्दने ॥
इति बृहन्-नारदीय-पाद्मवचनादीनि ।
तपस्विनो दान-परा यशस्विनो
मनस्विनो मन्त्र-विदः सुमङ्गलाः ।
क्षेमं न विन्दन्ति विना यद्-अर्पणं
तस्मै सुभद्र-श्रवसे नमो नमः ॥ [भ्प् 2.4.17]
न यत्र वैकुण्ठ-कथा-सुधापगा
न साधवो भागवतास् तदाश्रयाः ।
न यत्र यज्ञेश-मखा महोत्सवाः
सुरेश-लोकोऽपि न वै स सेव्यताम् ॥ [भ्प् 5.19.24]
ययाच आनम्य किरीट-कोटिभिः
पादौ स्पृशन्न् अच्युतम् अर्थ-साधनम् ।
सिद्धार्थ एतेन विगृह्यते महान्
अहो सुराणां च तमो धिग् आठ्यताम् ॥ [भ्प् 10.59.41]
सालोक्य-सार्ष्टि-सालोक्य- [भ्प् 3.29.11] इत्य् आदि, नो दानं नो तपो नेज्या [भ्प्
7.7.44] इत्य् आदि । नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितम् [भ्प् 1.5.12] इत्य् आदि ।
नात्यन्तिकं विगणयन्त्य् अपि ते [भ्प् 3.15.48] इत्य् आदि च ।
अथ सदा सर्वत्र यद् उपपद्यते [भ्प् 2.9.35] इत्य् आदि योजनिकार्थो युगपद्
यथा तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा [भ्प् 2.2.36] इत्य् आदि ।
अन्वय-व्यतिरेकाभ्यां सदा सर्वत्र यद् उपपद्यते इत्य् आदि । यथा --
स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् ।
सर्वे विधि-निषेधाः स्युर् एतस्यैव विधिङ्कराः ॥ [पद्मप् 6.71.100] इति ।
अन्वय-व्यतिरेकाभ्यां सदा सर्वत्र यद् उपपद्यते इति साकल्येन यथा न
ह्य् अतोऽन्यः शिवः पन्थाः [भ्प् 2.2.33] इत्य् उपक्रम्य, तद्-उपसंहारे -
तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यो भगवान् नॄणाम् ॥ [भ्प् 2.2.36] इति ।
नॄणां जीवानां इति नृगतिं विविच्य कवयः [भ्प् 10.87.16] इतिवत् । एतद् उक्तं
भवति - यत् कर्म तत् सन्न्यास-भोग-शरीर-प्राप्त्य्-अवधि योगः सिद्ध्य्-
अवधिः । साङ्ख्यम् आत्म-ज्ञानावधि । ज्ञानं मोक्षावधि । तथा तथा तत्-
तद्-योग्यतादिकानि च सर्वाणि । एवं तेषु कर्मादिषु शास्त्रादि-व्यभिचारिता
ज्ञेया । हरि-भक्तेस् तु अन्वय-व्यक्तिरेकाभ्यां सदा सर्वत्र तत्-तन्-
महिमभिर् उपपन्नत्वात् तथा-भूतस्य रहस्यस्याङ्गत्वं युइक्तम् । यतो
रहस्याङ्गत्वेन च ज्ञान-रूपार्थान्तराच्छन्नतयैवेदम् उक्तम् इति ।
तद् एवं श्री-भागवतं सङ्क्षेपेणोपदेक्ष्यन्तं श्री-नारदं श्री-ब्रह्मापि
तथैव सङ्कल्पं कारितवान् --
यथा हरौ भगवति नृणां भक्तिर् भविष्यति
सर्वात्मन्य् अखिलाधारे इति सङ्कल्प्य वर्णय ॥ [भ्प् 2.7.52] (पगे 54)
भविष्यति अवश्यं भवेद् इतीमं प्रकारं सङ्कल्प्य नियमेनाङ्गीकृत्य ।
॥ 2.7 ॥ श्री-ब्रह्मा नारदम्

6.118

[116]
श्री-नारदेनापि तन् महा-पुराणाविर्भावार्थं तथैवोपदिष्टम् -
अथो महा-भाग भवान् अमोघ-दृक्
शुचि-श्रवाः सत्य-रतो धृत-व्रतः ।
उरुक्रमस्याखिल-बन्ध-मुक्तये
समाधिनानुस्मर तद्-विचेष्टितम् ॥ [भ्प् 1.5.13]
अथो अतो नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितम् [भ्प् 1.5.12] इत्य् आदि-
कारणात् ।
[117]
अन्ते च -
त्वम् अप्य् अदभ्र-श्रुत विश्रुतं विभोः
समाप्यते येन विदां बुभुत्सितम् ।
प्राख्याहि दुःखैर् मुहुर् अर्दितात्मनां
सङ्क्लेश-निर्वाणम् उशन्ति नान्यथा ॥ [भ्प् 1.5.40]
विदां विदुषाम् ।
॥ 1.5 ॥ श्री-नारदः श्री-व्यासम् ॥ 116-117 ॥
[118]
श्री-व्यासोऽपि तन्-महा-पुराण-प्रचारणारम्भे भक्तिम् एव परम-श्रेयः-
प्रदत्वेन समाधाव् अनुभूतवान् इति प्रथम-सन्दर्भे दर्शितं भक्ति-
योगेन मनसि [भ्प् 1.7.4] इत्य्-आदि-प्रकरणे । तथैव को लाभ इति
प्रश्नान्तरं 11.19.28] श्री-भगवतैव सम्मतम् । भगो मे [भ्प् 11.19.37]
इत्य् आदौ लाभो मद्-भक्तिर् उत्तमः [भ्प् 11.19.37] इति । स्पष्टम् ॥
॥ 11.19 ॥ श्री-भगवान्

6.119

[119]
अतएव स्वगतं विचारयति स्म --
किं वा भागवता धर्मा न प्रायेण निरूपिताः ।
प्रियाः परमहंसानां त एव ह्य् अच्युत-प्रियाः ॥ [भ्प् 1.4.31]
स्पष्टम् ।
॥ 1.4 ॥ श्री-व्यासः

6.120

[120]
अशेषोपदेष्टुर् अपि तद्-उपदेशेनैव भगवतः परम उत्कर्ष उच्यते ।
यथा -- जितम् अजित तदा भवता यद् आह भागवतं धर्मम् अनवद्यम्
[भ्प् 6.16.40] इति । जितम् इत्य् अत्र भवतेति ज्ञेयम् । आहेत्य् अत्र भगवान् इति ।
॥ 6.16 ॥ चित्रकेतुः श्री-सङ्कर्षणम्

6.121

[121]
तद् एवं भक्तेर् एवाभिधेयत्वं स्थितम् । तत्र यद् बहुत्र कर्मादि-
मिश्रत्वेन तद् धर्म उपदिश्यते, तत् तु तत्-तन्-मार्ग-निष्ठान् भक्ति-
सम्बन्धेन कृतार्थयितुं तान् एव कांश्चिद् भक्त्य्-आस्वादनेन शुद्धायाम्
एव भक्तौ प्रवर्तयितुं चेति ज्ञेयम् । पुनश् च सर्वत्र तस्या
एवाभिधेयत्वं वक्तुं तदीयो महिमा पूर्वत्र व्याख्यातोऽपि क्रमेण
व्याख्यायते सर्वैर् एव । विशेषतो भक्तेर् अन्यत् तु न कर्तव्यम् इत्य्
अभिप्रायेण । तत्र तस्याः परम-धर्मत्वं सर्व-काम-प्रदत्वं च
एतावान् एव लोकेऽस्मिन् [भ्प् 3.25.41] इत्य् आदौ । अकामः सर्व-कामो वा [भ्प्
2.3.10] इत्य् आदौ, सर्वासाम् अपि सिद्धानां [भ्प् 10.81.16] इत्य् आदौ च दर्शितम्
एव । स्कान्दे च श्री-सनात्-कुमार-मार्कण्डेय-संवादे -
विशिष्टः सर्व-धर्माणां धर्मो विष्ण्व्-अर्चनं नृणाम् ।
सर्व-यज्ञ-तपो-होम-तीर्थ-स्नानैश् च यत् फलम् ॥ (पगे 55)
तत्-फलं कोटि-गुणितं विष्णुं सम्पूज्य चाप्नुयात् ।
तस्मात् सर्व-प्रयत्नेन नारायणम् इहार्चयेत् ॥
बृहन्-नारदीये च --
अश्वमेध-सहस्राणां सहस्रं यः करोति वै ।
न तत् फलम् अवाप्नोति मद्-भक्तैर् यद् अवाप्यते ॥ इति ।
अशुभघ्नत्वम् अपि सध्रीचीनो ह्य् अयं लोके पन्थाः [भ्प् 6.1.15] इत्य् आदौ
दर्शितम् । टीका च - अतो न ज्ञान-मार्ग इवासहायता-निमित्तं भयं नापि
कर्म-मार्गवन्-मत्सरादि-युक्तेभ्यो भयम् इति भावः इत्य् एषा ।
तथा च स्कान्दे द्वारका-माहात्म्ये परमेश्वर-वाक्यम् -
मद्-भक्तिं वहतां पुंसाम् इह लोके परेऽपि वा ।
नाशुभं विद्यते लोके कुल-कोटिं नयेद् दिवम् ॥ इति ।
श्री-विष्णु-पुराणे -
स्मृते सकल-कल्याण-भाजनं यत्र जायते ।
पुरुषं तम् अजं नित्यं व्रजामि शरणं हरिम् ॥ [विप् 5.17.17]
सर्वान्तराय-निवारकत्वम् आहुः -
तथा न ते माधव तावकाः क्वचिद्
भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः ।
त्वयाभिगुप्ता विचरन्ति निर्भया
विनायकानीकप-मूर्धसु प्रभो ॥ [भ्प् 10.2.33]
पूर्वं येऽन्येऽरविन्दाक्ष [भ्प् 10.2.26*] इत्य् आदिना मुक्तानाम् अपि भगवद्-
अनादरेण पारमार्थिको भ्रंश उक्तः । भक्तानां स नास्तीत्य् आह तथेति ।
तथा पूर्वं आरूढ-परम-पदत्वावस्थातोऽपि भ्रश्यन्ति तथा तावका
मार्गात् साधनावस्थातोऽपि न भ्रश्यन्तीत्य् अर्थः । श्री-वृत्र-गजेन्द्र-
भरतादीनां सज्-जन्मतो भ्रंशेऽपि भक्ति-वासनानुगति-दर्शनात् ।
मुक्ता अपि प्रपद्यन्ते पुनः संसार-वासनाम् ।
यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥
तेषां तु पुनः संसारवासनानुगतेः । यतस् त्वयि बद्ध-सौहृदाः ।
सौहृदम् अत्र श्रद्धा । मार्गाद् इति साधकत्व-प्रतीतेर् एव । त्वद्-बद्ध-
सौहृदत्वाद् एव त्वयेत्य् आदि । तथोक्तं त्वां सेवतां सुर-कृताः [भ्प् 11.4.10]
इत्य् आदौ । धावन् निमील्य वा नेत्रे न स्खलेन् न पतेत् [भ्प् 11.2.33] इत्य् आदौ
च ।
॥ 10.2 ॥ श्री-ब्रह्मादयः श्री-भगवन्तम्

6.122

[122]
न वै जातु मृषैव स्यात् प्रजाध्यक्ष मद्-अर्हणम् ।
भवद्-विधेष्व् अतितरां मयि सङ्गृभितात्मनाम् ॥ [भ्प् 3.21.24]
मयि संगृभितः संगृहीतो बद्ध आत्मा येषाम् । तथा बाध्यमानोऽपि [भ्प्
11.14.17] इत्य् आदिकम् अत्रोदाहरणीयम् । अत्र प्रायो बाध्यमानत्वं कदाचित्
तद्-ध्यानादित आकृष्यमाणत्वम् एव गम्यते । तथाप्य् अनभिभूतत्वं वेद
दुःखात्मकान् कामान् परित्यागेऽप्य् अनीश्वरः [भ्प् 11.20.27] इत्य्-आदि-
न्यायेन । तत्रापि भगवन्तं प्रति निज-दैन्यादि-वेदनादिना भक्तेर्
एवानुवृत्तिर् इति ज्ञेयम् ।
॥ 3.21 ॥ श्री-शुकः कर्दमम्

6.123

[123]
दुष्ट-जीवादि-भय-निवारकत्वम् आह -
दिग्-गजैर् दन्दशूकेन्द्रैर् अभिचारावपातनैः ।
मायाभिः सन्निरोधैश् च गर-दानैर् अभोजनैः ॥ (पगे 56)
हिम-वाय्व्-अग्नि-सलिलैः पर्वताक्रमणैर् अपि ।
न शशाक यदा हन्तुम् अपापम् असुरः सुतम् ॥
चिन्तां दीर्घतमां प्राप्तस् तत्-कर्तुं नाभ्यपद्यत । [भ्प् 7.5.43-45]
अत्र दन्ता गजानां कुलिशास्त्र-निष्ठुराः [विप् 1.17.44] इत्य् आदिकं वैष्णव-
वचन-जातम् अनुसन्धेयम् । न यत्र श्रवणादीनि [भ्प् 10.6.3] इत्य् आदिकं च ।
यथा बृहन्-नारदीये -
यत्र पूजा-परो विष्णोर् वह्निस् तत्र न बाधते ।
राजा वा तस्करो वापि व्याधयश् च न सन्ति हि ॥
प्रेताः पिशाचाः कूष्माण्ड-ग्रहा बाल-ग्रहास् तथा ।
डाकिन्यो राक्षसाश् चैव न बाधन्तेऽच्युतार्चकम् ॥ [नार्प् 1.10.8-9]
॥ 7.5 ॥ श्री-नारदः श्री-युधिष्ठिरम्

6.124

[124]
तथा -
शारीरा मानसा दिव्या वैयासे ये च मानुषाः ।
भौतिकाश् च कथं क्लेशा बाधन्ते हरि-संश्रयम् ॥ [भ्प् 3.22.37]
एवम् अप्य् उक्तं गारुडे -
न च दुर्वाससः शापो वज्रं चापि शचीपतेः ।
हन्तुं समर्थं पुरुषं हृदिस्थे मधुसूदने ॥ [गर्प् 1.234.33] इति ।
॥ 3.22 ॥ श्री-मैत्रेयो विदुरम्

6.125

[125]
अथ पापघ्नत्वे तावद् अप्रारब्ध-पापघ्नत्वम् आह -
यथाग्निः सु-समृद्धार्चिः करोत्य् एधांसि भस्मसात् ।
तथा मद्-विषया भक्तिर् उद्धवैनांसि कृत्स्नशः ॥ [भ्प् 11.14.19]
टीका च - पादाद्य्-अर्थं प्रज्वालितोऽग्निर् यथा काष्ठानि भस्मीकरोति तथा
रागादिनापि कथञ्चिन् मद्-विषया भक्तिः समस्त-पापानीति । भगवान् अपि
स्व-भक्ति-महिमाश्चर्येण सम्बोधयति - अहो उद्धव । विस्मयं शृणु इत्य्
एषा ।
पाद्म-पाताल-खण्ड-स्थ-वैशाख्य-माहात्म्ये च -
यथाग्निः सु-समृद्धार्चिः करोत्य् एधांसि भस्मसात् ।
पापानि भगवद्-भक्तिस् तथा दहति तत्-क्षणात् ॥ [पद्मप् 5.85.31] इति ।
यद्यॡ हरिर् इत्य् अवशेनापि पुमान् नार्हति यातनार्थम् [भ्प् 6.2.15] इत्य् आदौ
लिङ्गादि-प्रत्यय-विरहेऽपि पूषाप्रविष्ट-भागो यद् आग्नेयाष्टाक-पालो
भवति इत्य् आदिवद् विधित्वम् अस्ति ।
तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेच्छताभयम् ॥ [भ्प् 2.10.5]
इत्य् आदौ साक्षाद् विधित्व-श्रवणम् अप्य् अस्ति । तस्माद् इति हेतुर्-निर्देशश्
चाकरणे दोषं क्रोडीकरोति । तथापि विधि-सापेक्षेयं न भवतीति
तथाभूत-स्वभावाग्नि-लक्षण-वस्तु-दृष्टान्तेन सूचितम् । अतएव यान्
आस्थाय नरो राजन् [भ्प् 11.2.33] इत्य् आदिकम् अपि दृश्यते । सुसमिद्धार्चिर् इत्य्
अनेन साधनान्तर-सापेक्षत्वम् अशक्य-साध्यत्वं विलम्बितत्वं च
निराकृतम् । तद् एव व्यक्तं पाद्मात् तत्-क्षणाद् इति ।
॥ 11.14 ॥ श्री-भगवान्

6.128

(पगे 57)
[126]
तथा च --
केचित् केवलया भक्त्या वासुदेव-परायणाः ।
अघं धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः ॥ [भ्प् 6.1.15]
टीका च - केचिद् इत्य् अनेनैवम्भूता भक्ति-प्राधाना विरला इति दर्शयति ।
केवलया तप-आदि-निरपेक्षया वासुदेव-पारायणा इति नाधिकारि-विशेषणम्
एतत् किन्तु अन्येषाम् अश्रद्धया तत्र प्रवृत्तेर् अर्थात् तेष्व् एव पर्यवसानाद्
अनुवाद-मात्रम् इत्य् एषा ।
अत्र भास्करोऽपि केवलेन स्वरश्मिना स्व-स्व्>अवत एव नीहारं निःशेषं
धुनोति । न तद् अर्थं प्रयत्नतस् तथा वासुदेव-परायणा अपि भक्त्येति
ज्ञेयम् ।
[127]
किं च -
न तथा ह्य् अघवान् राजन् पूयेत तप-आदिभिः ।
यथा कृष्णार्पित-प्राणस् तत्-पुरुष-निषेवया ॥ [भ्प् 6.1.16]
टीका च - एतच् च ज्ञान-मार्गाद् अपि श्रेष्ठम् इत्य् आह न तथा पूयेत
शुध्येत् । तत्-पुरुष-निषेधया कृष्णे अर्पिताः प्राणा येन इत्य् एषा ।
अत्र प्रायश्चित्तं विमर्शनम् [भ्प् 6.1.10] इति ज्ञानस्यापि प्रायश्चित्तत्वं
पूर्वम् उक्तम् । अतएव टीकोक्तम् एतच् चेत्य् आदि । तद् एवं ऋतम्भर-ध्यान-
निवारिताघः [भ्प् 6.13.13] इत्य् आद्य्-उक्त्या भगवद्-ध्यान-निवारित-वृत्र-
हत्या-पापस्येन्द्रस्य तं च [भ्प् 6.13.14] इत्य् आदौ पुनर् अश्वमेध-
विधानं साधारण-लोके पाप-प्रसिद्धेर् एव निवारणार्थम् इति ज्ञेयम् ।
ननु कथं तदानीम् अप्य् आविर्भूत-भगवत्-प्रेमत्वात् परम-
भागवतस्य वृत्रस्य हत्या भगवद्-आराधनेनापि गच्छतु । महद्-
अपराध-मात्रम् अपि भोगैक-नाश्यं तत्-प्रसाद-नाश्यं वेति मतम् ।
उच्यते, तथापि भगवत्-प्रेरणया तत्र प्रवृत्तस्येन्द्रस्य न तादृशो दोष इति
तद्-आराधनम् एवात्र प्रायश्चित्तं विहितम् । श्री-भगवतापि तद्-आसुर-
भव-निवारणायैव तथोपदिष्टम् इत्य् अनवद्यम् ।
॥ 6.1 ॥ श्री-शुकः ॥ 126-127 ॥
[128]
क्वचित् प्रारब्ध-पाप-हार्त्वम् अप्य् आह द्वाभ्याम् -
यन्-नामधेय-श्रवणानुकीर्तनाद्
यत्-प्रह्वणाद् यत्-स्मरणाद् अपि क्वचित् ।
श्वादोऽपि सद्यः सवनाय कल्पते
कुतः पुनस् ते भगवन् नु दर्शनात् ॥
अहो बत श्व-पचोऽतो गरीयान्
यज्-जिह्वाग्रे वर्तते नाम तुभ्यम् ।
तेपुस् तपस् ते जुहुवुः सस्नुर् आर्या
ब्रह्मानूचुर् नाम गृणन्ति ये ते ॥ [भ्प् 3.33.6-7]
श्वादत्वम् अत्र श्व-भक्षक-जाति-विशेषत्वम् एव श्वानम् अत्तीति निरुक्तेर्
वर्तमान-प्रयोगात् क्रव्यादवत् तच्-छीलत्व-प्राप्तेः । कादाचित्क-भक्षण्
प्रायश्चित्त-विवक्षायां त्व् अतीतः प्रयोगः क्रियेत । रूढिर् योगम् अपहरतीति
न्यायेन च तद् विरुध्यते । अतएव श्वपच इति तैर् व्याख्यातम् । सवनं चात्र
सोम-याग उच्यते । ततश् चास्य भगवन्-नाम-श्रवणाद्य्-एकतरात् सद्य एव
सवन-योग्यता-प्रतिकूल-दुर्जातित्व-प्रारम्भक-प्रारब्ध-पाप-नाशः
प्रतिपद्यते । उद्धवं प्रति भगवता च - तस्मात् भक्तिः (पगे 58) पुनाति
मन्-निष्ठा श्वपाकान् अपि सम्भवात् [भ्प् 11.14.20] इति कैमुत्यार्थम् एव
प्रोक्तम् इत्य् आयाति । किन्तु योग्यत्वम् अत्र श्वपचत्व-प्रापक-प्रारब्ध-पाप-
विच्छिन्नत्व-मात्रम् उच्यते । सवनार्थं तु गुणान्तराधानम् अपेक्षत
एव । ब्राह्मण-कुमाराणां शौक्रे जन्मनि योग्यत्वे सत्य् अपि सावित्र-दैक्स्य-
जन्मापेक्षावत् । सावित्रादि-जन्मनि तु सद्-आचार-प्राप्तेर् इति सवने प्रवृत्तिर्
न युज्यते । तस्मात् पूज्यत्व-मात्रे तात्पर्यम् इत्य् अभिप्रेत्य टीका-कृद्भिर् अप्य्
उक्तम् अनेन पूज्यत्वं लक्ष्यत इति । तथापि जाति-दोष-हरत्वेन प्रारब्ध-
हारित्वं तु व्यक्तम् एवायातम् ।
टीका च - तद् उपपादयति अहो बत आश्चर्ये, यस्य जिह्वाग्रे तव नाम वर्तते
श्वपचोऽपि । अतस् तस्माद् एव हेतोर् गरीयान् यद् यस्माद् वर्तत इति वा कुत इत्य्
अत आह त एव तपस् तेपुर् इत्य् आदिका । त्वन्-नाम-कीर्तने तप-आद्य्-अन्तर्-
भूतं ततस् ते पुण्यतमा इत्य् अन्ता ।
उद्धवं प्रति श्री-भगवता चोक्तं भक्तिः पुनाति मन्-निष्ठा श्वपाकान्
अपि सम्भवात् [भ्प् 11.14.20] इति । अत्र जाति-दोष-हरत्वेन प्रारब्ध-हारित्वं
स्पष्टम् । एवं प्रारब्ध-हेतु-व्याध्य्-आदि-हरत्वं च स्कान्दे -
आधयो व्याधयो यस्य स्मरणान् नाम-कीर्तनात् ।
तद् एव विलयं यान्ति तम् अनन्तं नमाम्य् अहम् ॥ इति ।
उक्तं च नाम-कौमुद्याम् - प्रारब्ध-पाप-हरत्वं च क्वचिद्
उपासकेच्छा-वशात् इति ।
॥ 3.33 ॥ श्री-देवहूतिः

6.129

[129]
तद्-वासना-हारित्वम् आह -
तैस् तान्य् अघानि पूयन्ते तपो-दान-व्रतादिभिः ।
नाधर्मजं तद्-धृदयं तद् अपीशाङ्घ्रि-सेवया ॥ [भ्प् 6.20.17]
अधर्माज् जातं तेषाम् अघानां हृदयं संस्काराख्येन शुद्ध्यति तद्
अपीशाङ्घ्रि-सेवया शुद्ध्यतीत्य् अर्थः । पाद्मे च -
अप्रारब्ध-फलं पापं कूटं बीजं फलोन्मुखम् ।
क्रमेणैव प्रलीयेत विष्णु-भक्ति-रतात्मनाम् ॥ इति ।
अप्रारब्ध-फलं वक्ष्यमाणेभ्योऽन्यत् । कूटं बीजत्वोन्मुखं बीजं
प्रारब्धोन्मुखं फलोन्मुखं प्रारब्धम् इत्य् अर्थः ।
॥ 6.2 ॥ श्री-विष्णु-दूता यम-दूतान्

6.130

[130]
अविद्याहरत्वम् आह -
त्वं प्रत्यग्-आत्मनि तदा भगवत्य् अनन्त
आनन्द-मात्र उपपन्न-समस्त-शक्तौ ।
भक्तिं विधाय परमां शनकैर् अविद्या-
ग्रन्थिं विभेत्स्यसि ममाहम् इति प्ररूढम् ॥ [भ्प् 4.11.30]
तथा च पाद्मे -
कृतानुयात्रा-विद्याभिर् हरि-भक्तिर् अनुत्तमा ।
अविद्यां निर्दहत्य् आशु दाव-ज्वालेव पन्नगीम् ॥ इति ।
॥ 4.11 ॥ श्री-मनुर् ध्रुवम्

6.131

[131]
सर्व-प्रीणन-हेतुत्वम् उक्तम् - यथा तरोर् मूल-निषेचनेन [भ्प् 4.31.12] इत्य्
आदिना । तथाह सुरुचिस् तं समुत्थाप्य् अपादावनतम् अर्भकम् ।
परिष्वज्याह जीवेति बाष्प-गद्गदया गिरा । (पगे 59)
यस्य प्रसन्नो भगवान् गुणैर् मैत्र्य्-आदिभिर् हरिः ।
तस्मै नमन्ति भूतानि निम्नम् आप इव स्वयम् ॥ [भ्प् 4.9.47]
सुरुचिर् निज-विद्वेषिणी मातुः सपत्न्य् अपि त# भगवद्-आराधनत आयातं
श्री-ध्रुवम् । यथा पाद्मे -
येनार्चितो हरिस् तेन तर्पितानि जगन्त्य् अपि ।
रज्यन्ति जन्तवस् तत्र जन्गमाः स्थावरा अपि ॥ इति ।
॥ 4.9 ॥ श्री-मैत्रेयः

6.132

[132]
ज्ञान-वैराग्यादि-सद्-गुण-हेतुत्वम् उक्तं -- यस्यास्ति भक्तिर् भगवत्य्
अकिञ्चना [भ्प् 5.18.12] इत्य् आदिना । स्वर्गापवर्ग-भगवद्-धामादि-
सर्वानन्द-हेतुत्वम् अप्य् उक्तं यत् कर्मभिर् यत् तपसा [भ्प् 11.20.32] इत्य्
आदिना । स्वतः परम-सुख-दानेन कर्मादि-ज्ञानानन्त-साधन-साध्य-
वस्तूनां हेयत्व-कारिताम् आह --
न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ [भ्प् 11.14.14]
रसाधिपत्यं पातालादि-स्वाम्यम् । अपुनर्भवं ब्रह्म-कैवल्य-रूपं
मोक्षम् । किं बहुना यत् किञ्चिद् अपि साध्य-जातं तत् सर्वं नेच्छत्य् एव,
किन्तु मद् मां विना तादृश-भक्ति-साध्यं माम् एव सर्व-
पुरुषार्थाधिकम् इच्छतीत्य् अर्थः । मय्य् अर्पितात्मा कृतात्म-निवेदनः ।
॥ 11.14 ॥ श्री-भगवान्

6.138

[133]
अथ साक्षाद् भक्तेर् निर्गुणत्वं वक्तुं भगवद्-अर्पित-कर्मारभ्य
सर्वेषां कर्मणां तावत् सगुणत्वम् आहैकेन -
मद्-अर्पणं निष्फलं वा सात्त्विकं निज-कर्म तत् ।
राजसं फल-सङ्कल्पं हिंसा-प्रायादि तामसम् ॥ [भ्प् 11.25.23]
मयि अर्पणं यस्य मद्-अर्पितम् इत्य् अर्थः । निष्फलं निष्कामम् । फलं
सङ्कल्प्यते यस्मिन् तत् । आदि-शब्दाद् दम्भ-मात्सर्यादिभिः कृतम् ।
[134]
अथानुष्ठानान्तराणां त्रिगुणान्तर्गतत्वं वदन् चतुर्थ-कक्षायां
साक्षाद्-भक्तेर् निर्गुणत्वम् आह चतुःषु --
कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं तु यत् ।
प्राकृतं तामसं ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम् ॥ [भ्प् 11.25.23]
प्राकृतं बाल-मूकादि-ज्ञान-तुल्यम् । वैकल्पिकं देहादि-विषयं यत् तद् रजो
राजसम् । केवलस्य निर्विशेषस्य ब्रह्मणः शुद्ध-जीव-भेदेन ज्ञानं
कैवल्यं, त्वत्-पदार्थ-मात्र-ज्ञानस्य केवलत्वानुपपत्तिः । तत्-पदार्थ-
ज्ञान-सापेक्षत्वात् । सत्त्व-युक्ते हि चित्ते प्रथमतः शुद्धं सूक्स्मं जीव-
चैतन्यं प्रकाशते । ततश् चिद्-एकाकारत्वाभेदेन तस्मिन् शुद्धं पूर्णं
ब्रह्म-चैतन्यम् अप्य् अनुभूयते । ततः सत्त्व-गुणस्यैव तत्र कारणता-
प्राचुर्यात् सात्त्विकत्वम् । तथा च श्री-गीतोपनिषदः - सत्त्वात् सञ्जायते
ज्ञानं [गीता 14.17] इति । भगवज्-ज्ञानस्य तु -
देवानां शुद्ध-सत्त्वानाम् ऋषीणां चामलात्मनाम् ।
भक्तिर् मुकुन्द-चरणे न प्रायेणोपजायते ॥ [भ्प् 6.14.2]
मुक्तानाम् अपि सिद्धानां नारायण-परायणः
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ [भ्प् 6.14.5]
(पगे 60)
इत्य् आद्य्-उक्त्या सत्त्वादि-सद्-भावेऽप्य् अभावात् --
रजस्-तमः-स्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः ।
नारायणे भगवति कथम् आसीद् दृढा मतिः ॥ [भ्प् 6.14.1]
इत्य्-उक्त्या तद्-अभावेऽपि सद्-भावान् न तत्-कारणत्वम् । किन्तु तद्-उत्तरत्वेन
तस्य पूर्व-जन्मनि नारदादि-सङ्ग-वर्णनया ।
नैषां मतिस् तावद् उरुक्रमाङ्घ्रिं
स्पृशत्य् अनर्थापगमो यद्-अर्थः ।
महीयसां पाद-रजो-ऽभिषेकं
निष्किञ्चनानां न वृणीत यावत् ॥ [भ्प् 7.5.32]
इत्य् उक्त्या च भगवत्-कृपा-परिमल-पात्र-भूतस्य श्रीमतो महतः सङ्ग
एव कारणम् । तत्-सङ्गश् च -
तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ [भ्प् 1.18.13, 4.30.33]
इत्य् उक्त्या निर्गुणावस्थातोऽप्य् अधिकत्वात् परम-निर्गुण एव । स तम् अस्य च
प्रथमे च समः प्रियः सुहृद् ब्रह्मन् [भ्प् 7.1.1] इत्य् आदौ स-गुणे
देवादौ तस्य कृपा वास्तवी न भवति, किन्तु श्रीमत्-प्रह्लादादिष्व् एवेति
प्रतिपादनान् महतां निर्गुणत्वाभिव्यक्त्या सत्-सङ्गस्यापि निर्गुणत्वं
व्यक्तम् । तथा भक्तेर् अपि गुण-सङ्ग-निर्धूननानन्तरं चानुवृत्तिः
श्रूयते । यद् उक्तम् उद्धवं प्रति श्री-भगवता --
तस्माद् देहम् इमं लब्ध्वा ज्ञान-विज्ञान-सम्भवम् ।
गुण-सङ्गं विनिर्धूय मां भजन्तु विचक्षणाः ॥ [भ्प् 11.25.33] इति ।
परमेश्वर-ज्ञानस्य नैर्गुण्य-हेतुत्वेन निर्गुणत्वोक्तिस् तु लक्षणा-मय-
कष्ट-कल्पना । तथा कैवल्य-ज्ञानस्यापि नैर्गुण्य-हेतुत्वाद्
अवैशिष्ट्येनोदाहरण-भेदाप्रवृत्तिश् च स्यात् । तस्मात् स्वत एव निर्गुणं
भगवज्-ज्ञानम् । अतएव -
सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोह-दैन्योत्थं निर्गुणं मद्-अपाश्रयम् ॥ [भ्प् 11.25.29]
इत्य् अत्र तत्-सुखस्यापि निर्गुणत्वं वक्ष्यते । श्रवणादि-लक्षण-क्रिया-
रूपाया अपि भक्तेः शुश्रूषोः श्रद्दधानस्य वासुदेव-कथा-रुचिः स्यान्
महत्-सेवया [भ्प् 1.2.13] इत्य् उक्त्या तद्-एक-निदानत्वेन निर्गुणत्वम् एव ।
ननु -
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [भ्प् 8.24.38] इति ।
श्री-मत्स्य-देव-वचनेन ब्रह्म-ज्ञानम् अपि श्री-भगवत्-प्रसादोत्थं
श्रूयते, तत् कथं तस्य सगुणत्वम् ? उच्यते - ब्रह्म-ज्ञानं द्विविधानां
जायते । तत्र भगवद्-उपासकानाम् आनुषङ्गिकत्वेन ब्रह्मोपासकानां
स्वतन्त्रत्वेन । भगवद्-उपासकैस् तु भगवच्-छक्ति-रूपया भक्त्या
किञ्चिद्-भेदेनैव गृह्यते तच् च ब्रह्म-भूतः प्रसन्नात्मा [गीता 18.54] इत्य्-
आदि-श्री-गीतोक्तानुसारेण आत्मारामाश् च (पगे 61) मुनयः [भ्प् 1.7.10] इत्य्
आद्य्-अनुसारेण च भगवतः पराख्य-भक्ति-परिकरो भवति ।
ब्रह्मोपासकैस् तु पूर्ववद् अभेदेनैव गृह्यते । तत्-फलस्य नात्यन्तिकं
विगणयत्य् अपि ते प्रसादम् [भ्प् 6.15.48] इत्य्-उक्त-दिशा परैर् आत्यन्तिकत्वेन
मतस्यापि परम-विद्वद्भिर् आदृतत्वात् । तथा भक्ति-विरुद्धत्वेन
स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः [भ्प् 6.17.23] इत्य् उक्त्या
नरकवद् अपवर्गस्यापि हेयत्वात् प्रसादाभास एवासौ । स्व-मत्य्-अनुसारेण
प्रसादतया गृह्यमाणस् तन्-मति-कल्पितत्वात् स-गुण एव । ततः कैवल्य-
ज्ञानम् अपि तथा । विशेषतस् तस्य स-गुण-सम्बन्धेन जन्माङ्गीकृतम् अस्ति ।
ननु अन्तर् बहिश् च करणं पुरुषस्य गुणमयम् एव । तद्-उद्भवयोर्
भक्ति-रूपयोः कथं निर्गुणत्वम् ? उच्यते, ज्ञान-शक्तिः क्रिया-शक्तिर् वा न
तावज् जडस्य त्रैगुण्यस्य धर्मे घटस्य् एव । न च चिद्-रूपस्यापि जीवस्य
ईश्वराधीन-शक्तित्वेनामुख्यत्वाद् देवताविष्ट-पुरुषस्येवातः
परमात्म-चैतन्यस्येइवेत्य् आयातम् । तथोक्तं --
देहेन्द्रिय-प्राण-मनो-धियोऽमी
यद्-अंश-विद्धाः प्रचरन्ति कर्मसु । [भ्प् 6.16.24] इति ।
तथा च श्रुतिः - प्राणस्य प्राण उत चक्षुषश् चक्षुर् उत श्रोत्रस्य श्रोत्रं
मनसो मन इति न ऋते तत् क्रियते किं च नारे इत्य् आदिका ।
[श्रोत्रस्य श्रोत्रं मनसो मनो यद्
वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश् चक्षुर् अतिमुच्य धीराः
प्रेत्यास्माल् लोकाद् अमृता भवन्ति ॥ केनौ 1.2॥]
तद् एवं सति त्रैगुण्य-कार्य-प्राधान्येन भवन्त्यौ ते
गुणमयत्वेनोच्येते । परमेश्वर-प्राधान्येन तु स्वतो गुणातीते एव ते । तद्
उक्तं देवामृत-पानाध्याये श्री-शुकेन --
यद् युज्यतेऽसु-वसु-कर्म-मनो-वचोभिर्
देहात्मजादिषु नृभिस् तद् असत् पृथक्त्वात् ।
तैर् एव सद् भवति यत् क्रियतेऽपृथक्त्वात्
सर्वस्य तद् भवति मूल-निषेचनं यत् ॥ [भ्प् 8.9.29] इति ।
पृथक्त्वात् परमात्मेतराश्रयत्वात् । अपृथक्त्वात् तद्-एकाश्रयत्वाद् इत्य्
अर्थः । अतो युक्तम् एव ज्ञान-क्रियात्मिकाया हरि-भक्तेर् निर्गुणत्वम् ।
विशेषतस् तस्य भक्तेर् गुण-सम्बन्धेन जन्माभावश् चाङ्गीकृत इति न तु
ब्रह्म-ज्ञानस्येव गुण-सम्बन्धेन जन्म-भाव इति । ततोऽसौ भक्तिस्
तस्यापि प्रीणनत्वादि-गुणैर् उदाहरिष्यते । यत् तु श्री-कपिल-देवेन भक्तेर्
अपि निर्गुण-सगुणावस्थाः कथितास् ताः पुनः पुरुषान्तःकरण-गुणा एव
तस्याम् उपचर्यन्त इति स्थितम् ।
तद् एवम् अभिप्रेत्य ज्ञान-रूपाया भक्तेर् निर्गुणत्वम् उक्त्वा क्रिया-रूपाया
व्याचष्टे । तत्राप्य् अस्तु तावत् श्रवण-कीर्तनादि-रूपाया भगवत्-
सम्बन्धेन वास-मात्र-रूपाया आह --

वनं तु सात्त्विको वासो ग्रामो राजस उच्यते ।
तामसं द्यूत-सदनं मन्-निकेतं तु निर्गुणम् ॥ [भ्प् 11.15.24]
वनं वास इति तत्-सम्बन्धिनी वसन-क्रियेत्य् अर्थो वानप्रस्थानाम् इति
ज्ञेयम् । एवं ग्राम्य इति गृहस्थानाम् । तामसम् इति दुराचाराणाम् । द्यूत-
सदनम् इत्य् उपलक्षणम् । मन्-निकेतम् इति (पगे 62) मत्-सेवा-पराणाम् इति
च । वनादीनां वासेन सह आयुर् घृतम् इतिवद् एकाधिकरणत्वम् । वनस्य
वृक्ष-षण्ड-रूपस्य रजस्-तमः-प्राधान्यात् । अतएव विव्क्तत्व-लक्षण-
तदीय-सात्त्विक-गुणस्यापि तद्-युगल-मिश्रत्वेन गौणत्वम् । वास-क्रियायास्
तु सत्त्वोपपन्नत्वात् तद्-वर्धनत्वाच् च सात्त्विकत्वे मुख्यत्वम् इति तस्या
एवाभिधेयत्वम् उचितम् । अतएव ग्राम्य इति तद्धितान्त एव पठितः । एवं
द्यूत-सदनम् इत्य् अत्र च वास-क्रियैव विवक्षिता । मन्-निकेतम् इत्य् अत्रापि ।
किन्तु भगवत्-सम्बन्ध-माहात्म्येन निकेतस्यापि निर्गुणत्वं भवेत्
स्पर्श-मणि-न्यायेन तादृशत्वं तु तादृश-भक्ति-चक्षुर्भिर्
एवोपलब्धव्यम् । दिविष्ठास् तत्र पश्यन्ति सर्वान् एव चतुर्भुजान् इतिवत् ।
एवम् एव टीका च - भगवन्-निकेतं तु साक्षात् तद्-आविर्भावान् निर्गुणं
स्थानम् इत्य् एषा ।
[136]
एवं वास-मात्रस्य तादृशत्वम् उक्त्वा सर्वासाम् एव तत्-क्रियाणां तादृशत्वम्
आह --
सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः ।
तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः ॥ [भ्प् 11.25.26]
अत्र च क्रियायाम् एव तात्पर्यं न तद्-आश्रिते द्रव्ये । सात्त्विक-कारकस्य
शरीरादिकं हि गुणत्रय-परिणतम् एव ।
[137]
तद् एवं क्रिया-मात्रस्य तादृशत्वम् उक्त्वा तत्-प्रवृत्ति-हेतु-भूतायाः
श्रद्धाया अप्य् आह -
सात्त्विक्य् आध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी ।
तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा ॥ [भ्प् 11.25.27]
अधर्मोऽत्र पर-धर्मः । अन्यत् पूर्ववत् ।
॥ 11.25 ॥ श्री-भगवान् ॥ 133-137 ॥
[138]
अत आह धर्मं भागवतं शुद्धं त्रैविद्यं च गुणाश्रयम् । [भ्प् 6.2.24]
शुद्धं निर्गुणम् इति । त्रैविद्यं वेद-त्रय-प्रतिपाद्यं गुणाश्रयम् इति ।
टीका च - वेद-शब्देनात्र कर्म-काण्डम् एवोच्यते एवं त्रयी-धर्मम्
[गीता 9.21] इत्य् आदेः ।
॥ 6.2 ॥ श्री-शुकः

6.139

[139]
अतएव भक्तेः श्री-भगवत्-स्वरूप-शक्ति-बोधकत्वं स्वयम्-प्रकाशत्वम्
आह -
यज्ञाय धर्म-पतये विधि-नैपुणाय
योगाय साङ्ख्य-शिरसे प्रकृतीश्वराय ।
नारायणाय हरये नम इत्य् उदारं
हास्यन् मृगत्वम् अपि यः समुदाजहार ॥ [भ्प् 5.14.45]
य आर्षभेयो भरतो मरण-समये तत्रापि मृग-शरीरे तद्-वचन-
जन्मात्यन्तासम्भावात् स्व-प्रकाशत्वम् एव तस्याः कीर्तन-लक्षणाया
भक्तेः सिध्यति । एवं गजेन्द्रेऽपि ज्ञेयम् ॥
॥ 5.14 ॥ श्री-शुकः

6.140

[140]
परम-सुख-रूपत्वं च दृश्यते । तत्र साधन-दशायां अतो वै कवयो
नित्यम् [भ्प् 1.2.12] इत्य् आदौ कर्मण्य् अस्मिन्न् अनाश्वासे [भ्प् 1.18.12] इत्य् आदौ
च तद्-रूपत्वाभिव्यक्तिर् दर्शितैव सिद्ध-दशायां तु सुतरां
प्रकटीभवति । यथा -
(पगे 63)
मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् काल-विप्लुतम् ॥ [भ्प् 9.4.67]
अत्रान्यस्य काल-विप्लुतत्वम् इति सेवायास् तद्-अभावे निर्गुणित्वं सिद्धम् ।
अकाल-विप्लुत-सालोक्यादिभ्योऽतिशये किम् उतेति ।
॥ 9.4 ॥ श्री-विष्णुर् दुर्वाससम्

6.141

[141]
श्री-भगवद्-विषयक-रति-प्रदत्वम् उक्तम् । एवं निर्जित-षड्-वर्गैः क्रियते
भक्तिर् ईश्वरे [भ्प् 7.7.33] इत्य् आदिना । यत् तु - अस्त्व् एवम् अङ्ग भगवान्
भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भ्प् 5.6.18]
इत्य् उक्त्यापि तद्-रतिर् न प्राप्यत इति शङ्क्यते तत् खल्व् अविवेकाद् एव । कर्हिचिद्
इति भक्ति-योगाख्य-तद्-रति-पुरुषार्थतायां शैथिल्ये सत्य् एवेत्य् अर्थ-लाभात्
कर्हिचिद् अप्य् अनुक्तत्वात् असाकल्ये तु चिच्-चनौ इत्य् अमर-कोषाच् च । तथा यद्य्
अतिचिरम् आवृत्तिः स्यात् तदा रतिम् अपि ददाति - सत्यं दिशत्य् अर्थितम् अर्थितो
नॄणाम् [भ्प् 5.19.24] इत्य् आदेर् इति च कर्हिचित्-पदेन गम्यते । भक्ति-विषयक-
भगवत्-प्रीत्य्-एक-हेतुत्वम् अप्य् उदाहृतम् । नालं द्विजत्वं देवत्वम् [भ्प्
7.7.43] इत्य् आदि ।
तथा चाह --
मन्ये धनाभिजन-रूप-तपः-श्रुतौजस्-
तेजः-प्रभाव-बल-पौरुष-बुद्धि-योगाः ।
नाराधनाय हि भवन्ति परस्य पुंसो
भक्त्या तुतोष भगवान् गज-यूथ-पाय ॥ [भ्प् 7.9.9]
अभिजनः सत्-कुल-जन्म । बुद्धिर् ज्ञान-योगः । योगोऽष्टाङ्गः ॥
॥ 7.9 ॥ श्री-प्रह्लादः श्री-नृसिंह-देवम्

6.141

[142]
ननु निरतिशय-नित्यानन्द-रूपस्य भगवतः कथं तया सुखम् उत्पद्येत
निरतिशयत्व-नित्यत्वयोर् विरोधात् । उच्यते - शास्त्रे खलु निरतिशयानन्दत्वं
नित्यत्वं च भगवतः श्रूयते । भक्तेर् अपि तथा तत्-प्रीति-हेतुत्वं श्रूयते ।
तत एवं गम्यते - तस्य परमानन्दैक-रूपस्य स्व-परानन्दिनी स्वरूप-
शक्तिर् या ह्लादिनी नाम्नी वर्तते प्रकाश-वस्तुनः स्व-पर-प्रकाशन-
शक्तिवत् परम-वृत्ति-रूपैवैषा । तां च भगवान् स्व-वृन्दे निक्षिपन्न् एव
नित्यं वर्तते । तत्-सम्बन्धेन च स्वयम् अतितरां प्रीणातीति । अतएव तस्य
प्रीति-रूपस्यापि भक्ति-प्रीणनीयत्वम् आह -
यत्-प्रीणनाद् बर्हिषि देव-तिर्यङ्-
मनुष्य-वीरुत्-तृणम् आविरिञ्चात् ।
प्रीयेत सद्यः स ह विश्व-जीवः
प्रीतः स्वयं प्रीतिम् अगाद् गयस्य ॥ [भ्प् 5.15.13]
विश्व-बीजः सर्व-जीवन-हेतुः । देवादीनां द्वन्द्वैक्यम् । प्रीतिः सुख-
रूपोऽपि ॥
॥ 5.15 ॥ श्री-शुकः

6.143

अतएव तथाभूतत्वेनात्मारामस्य पूर्ण-कामस्यापि तस्य क्षुद्र-गुण-वस्त्व्
अपि कल्पत इति दृष्टानेनाह --
(पगे 64)
तत्रोपनीत-बलयो रवेर् दीपम् इवादृताः
आत्मारामं पूर्ण-कामं निज-लाभेन नित्यदा ।
प्रीत्य्-उत्फुल्ल-मुखाः प्रोचुर् हर्ष-गद्गदया गिरा
पितरं सर्व-सुहृदम् अवितारम् इवार्भकाः ॥ [भ्प् 1.11.4-5]
अत्र श्री-द्वारकायां रवेर् उपहार-रूपं दीपम् आदृतवन्तो जना इवेत्य्
अर्थः । एवं स्तुत्यादिकम् अपि तत्-प्रीणनताम् अर्हतीत्य् आह प्रीत्येति । पितरम्
अर्भका इवेति दृष्टान्तः । तस्य प्रीतावसाधारण-गुण-विशेषम् अप्य् आह
सर्व-सुहृदम् इति । सर्व-सुहृत्त्वे लिङ्गम् अवितारम् इति । तथा आत्माराम-
पूर्ण-कामत्वेऽपि तादृशस्य स्व-सम्बन्धाभिमानि-प्रीति-मत्-पुत्रादिषु
प्रीति-विशेषोदयो यथा दृश्यते तेषु तं प्रीतिमन्तम् इत्य् अर्थः । एवं
कल्पतरु-दृष्टान्तेऽपि भगवतो भक्ति-विषयिका कृपा यथार्थम्
एवोपपद्यते ये खलु स्हज-तत्-प्रीतिम् एवात्मनि प्रार्थयमाना भजन्ते
तेभ्यस् तद्-दान-याथार्थ्यअस्यावश्यकत्वात् । तस्माद् अस्त्य् एवानन्द-
रूपस्यापि भक्ताव् आनन्दोल्लास इति ।
॥ 1.11 ॥ श्री-सूतः

6.144

[144]
एवं भक्ति-रूपायास् तच्-छक्तेर् जीवेऽभिव्यक्तौ भगवान् एव कारणम् । तद्-
इन्द्रियादि-प्रवृत्तऔ स च एवेति । तस्मिंस् तया जीवस्योपकाराभासत्वम् एव ।
तथापि भक्तानुरज्यद् आत्मत्वे भगवतः स्व-कृपा-प्राबल्यम् एव कारणम्
इति वदन् पूर्वार्थम् एव साधयति -
किं वर्णये तव विभो यद्-उदीरितोऽसुः
संस्पन्दते तम् अनु वाङ्-मन-इन्द्रियाणि ।
स्पन्दन्ति वै तनु-भृताम् अज-शर्वयोश् च
स्वस्याप्य् अथापि भजताम् असि भाव-बन्धुः ॥ [भ्प् 12.8.40]
हे विभो । तव किम् अहं वर्णये । त्वत्-कृपालुतायाः कियन्तम् अंशं
वर्णयेयम् इत्य् अर्थः । यतो येन त्वयैव उदीरितः प्रेरितोऽसुः प्राणः
संस्पन्दन्ते प्रवर्तते, तम् असुम् अनु च वाग्-आदयः स्पन्दन्ति तत्र हेतुर्
वै अन्वय-व्यतिरेकाभ्यां श्रोत्रस्य श्रोत्रम् [केनौ 1.2] इत्य्-आदि-श्रुतिभ्यश्
च तत्-प्रसिद्ध इत्य् अर्थः । न केवलं प्राकृतानां तनु-भृतां किन्तु अज-
शर्वयोश् च । अतः स्वस्य ममापि तथैव । एवं सत्य् अपि न क्वचिद् अपि कस्यापि
स्वातन्त्र्यम् । तथापि दारु-यन्त्रवत् प्रवर्तितैर् अपि वाग्-आदिभिर् भजतां
पुंसां भावेन स्वदत्तयैव भक्त्या बन्धुर् असीति ।
॥ 12.8 ॥ मार्कण्डेयः श्री-नर-नारायणौ

6.145

[145]
श्री-भगवद्-अनुभव-कर्तृत्वेऽनन्य-हेतुत्वम् आह -
शृण्वन्ति गायन्ति गृणन्त्य् अभीक्ष्णशः
स्मरन्ति नन्दन्ति तवेहितं जनाः ।
त एव पश्यन्त्य् अचिरेण तावकं
भव-प्रवाहोपरमं पदाम्बुजम् ॥ [भ्प् 1.8.36]
स्पष्टम् ॥ 1.8 ॥ श्री-कुन्ती श्री-भगवन्तम्

6.146

[146]
श्री-भगवत्-प्रापकत्वम् आह -
भक्त्योद्धवानपायिन्या सर्व-लोक-महेश्वरम् ।
सर्वोत्पत्त्य्-अप्ययं ब्रह्म कारणं मोपयाति सः ॥ [भ्प् 11.18.45]
(पगे 65) टीका च - महेश्वरत्वे हेतुः सर्वोत्पत्त्य्-अप्ययं सर्वस्योत्पत्त्य्-
अप्ययौ यस्मात् तम् । अतएव तत्-कारणं मां ब्रह्म-स्वरूपं वैकुण्ठ-
निवासिनम् । यद् वा ब्रह्मणो वेदस्य कारणं माम् उपयाति सामीप्येन
प्राप्नोति इत्य् एषा । श्री-गीतासु च पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व्
अनन्यया [गीता 8.22] इति ।
॥ 11.18 ॥ श्री-भगवान्

6.147

[147]
तथा मनसोऽप्य् अगोचर-फल-दाने श्री-ध्रुव-चरितं प्रमाणं परम-
भक्ति-संवलित-स्व-लोक-दानात् । तद्-वशीकारित्वं तूदाहृतं न साधयति
मां योगो [भ्प् 11.14.20] इत्य् आदि । तथा तत्-पद्यान्ते भक्त्याहम् एकया
ग्राह्यः श्रद्धयात्मा प्रियः सताम् [भ्प् 11.14.21] इति ।
अत्रैव विवेचनीयम् । यद्यप्य् अस्य वाक्यस्यैकादश-चतुर्दशाध्याय-
प्रकरणे साध्य-साधन-भक्त्योर् अविविक्ततयैव महिम-निरूपणम् इति
साधन-परत्वं दुर्निर्णेयं, तथापि फल-भक्ति-महिम-द्वारापि
साधन-महिम-परत्वम् एव यत्रेदृशम् अपि फलं भवतीति । वदन्ति
कृष्ण श्रेयांसि [भ्प् 11.14.1] इत्य् आदि-प्रश्नम् आरभ्य
साधनस्योपक्रान्तत्वात् । यथा यथात्मा परिमृज्यतेऽसौ मत्-पुण्य-गाथा-
श्रवणाभिधानैः । [भ्प् 11.14.26] इत्य् आदिना तस्यैवोपसंहृतत्वाच् च ।
विशेषस् तु तत्र बाध्यमानोऽपि मद्-भक्तो [भ्प् 11.14.18] इत्य् आदिकं धर्मः
सत्य-दयोपेतः [भ्प् 11.14.22] इत्य्-आद्य्-अन्त-तदीयम् उक्त-प्रकरणं प्राय-
साधन-महिम-परम् एव । तत्र बाध्यमानोऽपि इति पद्यं साध्य-भक्तौ
जातायां बाध्यमानत्वायोगात् -
दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे
न पुनर् उपासते पुरुष-सार-हरावसथान् ॥ [भ्प् 10.87.35] इत्य् उक्तेः ।
विषयाविष्ट-चित्तानां विष्ण्व्-आवेशः सुदूरतः ।
वारुणी-दिग्-गतं वस्तु व्रजन्न् ऐन्द्रीं किम् आप्नुयात् ॥
इति विष्णु-पुराणाच् च तन्-महिम-परत्वेन गम्यते । अत्रैव तद् वक्ष्यते -
कथं विना रोम-हर्षं द्रवता चेतसा विना ।
विनानन्दाश्रु-कलया शुध्येद् भक्त्या विनाशयः ॥ [भ्प् 11.14.23] इत्य् अनेन,
मद्-भक्ति-युक्तो भुवनं पुनाति [भ्प् 11.14.24] इति कैमुत्य-वाक्येन च
साध्य-भक्तेः संस्कार-हारित्वम् । ततो विषया एव बाध्यमाना
भवन्तीति ।
अथ यथाग्निः सुसमृद्धार्चिः [भ्प् 11.14.19] इति पद्यं नामाभासादेः
सर्व-पाप-क्षय-कारित्व-प्रसिद्धेस् तत्-परम् । अथ न साधयति मां योगः
इत्य् एतत् सार्ध-पद्यं योगादीनां साधन-रूपाणां प्रतियोगित्वेन
निर्दिष्टत्वात् श्रद्धा-सहायत्वेन विधानाच् च तत्-परम् । साध्यायां
श्रद्धोल्लेखः पुनर्-उक्त इति । यद्यपि फल-भक्ति-द्वारैव तद्-
वशीकारित्वं तस्यास् तथाप्य् अत्र साधक-रूपाया मुख्यत्वेन प्रातत्वात्
तत्रैवोदाहृतम् ।
किं वा - (पगे 66)
अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भ्प् 5.6.18]
इति न्यायेन नावशः सन् प्रेमाणं ददातीति तस्या एव साक्षात् तद्-गुणकत्वं
ज्ञेयम् । अथ धर्मः सत्य-दयोपेतः [भ्प् 11.14.21] इति पद्यं च धर्मादि-
साधन-प्रतियोगित्वेन निर्देशात् । साध्य-भक्तेर् एवान्यत्रापि तत्-
फलतयोदाहृतत्वाच् च तत्-परम् । यत् तु कथं विना [भ्प् 11.14.22] इत्य् आदिकं
तच् च साधन-भक्ति-फलस्य शोधकत्वातिशय-प्रतिपादनेन तत्-परम् इति ।
तस्मात् साध्व् एव बाध्यमानोऽपि [भ्प् 11.14.17] इत्य् आदि-पद्यानि तत्-प्रसङ्गे
दर्शितानि ।
॥ 11.14 ॥ श्री-भगवान्

6.148

[148]
तथास्तु तस्याः साक्षाद् भक्तेः पर-धर्मत्वादिकम् । भगवद्-अर्पण-
सिद्ध-तद्-अनुगतिकस्य लौकिक-कर्मणोऽपि पर-धर्मम् उदाहरिष्यते यो
यो मयि परे धर्मः [भ्प् 11.29.21] इत्य् आदौ । तथा पाप-घ्नत्वादिकं
तस्याः श्रवणादिनापि भवतीत्य् उक्तं श्रुतोऽनुपठितो ध्यातः [भ्प् 11.2.3]
इत्य् आदौ । पाद्मे माघ-माहात्म्ये देव-दूत-वाक्यं च -
प्राहास्मान् यमुना-भ्राता सादरं हि पुनः पुनः ।
भवद्भिर् वैष्णवस् त्याज्यो विष्णुं चेद् भजते नरः ॥
वैष्णवो यद्-गृहे भुङ्क्ते येषां वैष्णव-सङ्गतिः ।
तेऽपि वः परिहार्याः स्युस् तत्-सङ्ग-हत-किल्बिषाः ॥ इति ।
बृहन्-नारदीये यज्ञमाल्य्-उपाख्यानान्ते -
हरि-भक्ति-पराणां तु सङ्गिनां सङ्ग-मात्रतः ।
मुच्यते सर्व-पापेभ्यो महा-पातकवान् अपि ॥ [नार्प् 1.36.61] इति ।
ततः सुतराम् एवेदम् आदिदेश -
जिह्वा न वक्ति भगवद्-गुण-नामधेयं
चेतश् च न स्मरति तच्-चरणारविन्दम् ।
कृष्णाय नो नमति यच्-छिर एकदापि
तान् आनयध्वम् असतोऽकृत-विष्णु-कृत्यान् ॥ [भ्प् 6.3.29]
आस्तां तावत् तान् आनयध्वम् इत्य् आदिकेनैतत् पूर्व-द्वितीय-पद्येनोक्तानां
मुकुन्द-पादारविन्द-विमुखानाम् आनयन-वार्ता । तथा ते देव-सिद्धः
[भ्प् 6.3.27] इत्य् आदिकेन तत् पूर्व-तृतीय-पद्येनोक्तानां देव-सिद्ध-परिगीत-
पवित्र-गाथानां साधूनां समदृशां भगवत्-पराणां निकट-गमन-
निषेध-वार्तापि । यद् यस्य जिह्वापि श्री-भगवतो गुणं च नामधेयं
चैकदा जन्म-मध्ये यदा कदाचिद् अपि न वक्ति । जिह्वाया अभावे चेतश् च
तच्-चरणारविन्दम् एकदापि न स्मरति । चेतसो विक्षिप्तत्वे शिरश् च कृष्णाय
कृष्णं लक्षीकृत्य न नमतीति । (पगे 67)
शठेनापि नमस्कारं कुर्वतः शार्ङ्गधन्विने ।
शत-जन्मार्जितं पापं तत्-क्षणाद् एव नश्यति ॥
इति स्कान्दोक्त-महिमानं नमस्कारं न करोति तान् आनयध्वम् । तत्र हेतुर्
असतः । असत्त्वे हेतुर् अकृत-विष्णु-कृत्यान् । यथा स्कान्दे रेवा-खण्डे श्री-
ब्रह्मोक्तौ -
स कर्ता सर्व-धर्माणां भक्तो यस् तव केशव ।
स कर्ता सर्व-पापानां यो न भक्तस् तवाच्युत ॥
पापं भवति धर्मोऽपि तवाभक्तैः कृतो हरे ।
निःशेष-धर्म-कर्ता वाप्य् अभक्तो नरके हरे ।
सदा तिष्ठति भक्तस् ते ब्रह्महापि विमुच्यते ॥
पाद्मे (?) च -
मन्-निमित्तं कृतं पापम् अपि क्षेमाय कल्पते ।
माम् अनादृत्य धर्मोऽपि पापं स्यान् मत्-प्रभावतः ॥
युक्तं चैतत् श्रवणं कीर्तनं चास्य [भ्प् 7.11.10] इत्य् आदिना । मुख-
बाहूरु-पादेभ्यः [भ्प् 11.5.2] इत्य् आदिना । सर्व-विधि-निषेधाः स्युः इत्य्
आदिना च परम-नित्यत्वादि-प्रतिपादनात् । एषां कीर्तनादीनां त्रयाणाम् अपि
सुकराणाम् अभावे परेषां सुतराम् एवाभावो भवेद् इति सामान्येनैव
विष्णु-कृत्य-रहितत्वम् उक्तम् । जिह्वादीनां करण-भूतानाम् अपि कर्तृत्वेन
निर्देशः पुरुषानिच्छयापि यथा कथञ्चित् कीर्तनादिकम् आदत्ते ।
चरणारविन्दम् इति विशेषाङ्ग-निर्देशः श्री-यमस्य भक्ति-ख्यापक एव न
तु तन्-मात्र-स्मरण-नियामकः । अत्राभक्तानाम् आनयनेन भक्तानाम्
आनयनम् एव विधीयते । आनयनस्योत्सर्ग-सिद्धत्वात् वैवस्वतं
संयमनं प्रजानाम् इति श्रुतेः ।
सकृन् मनः कृष्ण-पदारविन्दयोर्
निवेशितं तद्-गुण-रागि यैर् इह ।
न ते यमं पाश-भृतश् च तद्-भटान्
स्वप्नेऽपि पश्यन्ति हि चीर्ण-निष्कृताः ॥ [भ्प् 6.1.19]
इत्य् अत्र तद्-गुण-रागीति विशेषणं तु तेषां तद्-दृष्टि-पथ-गमन-
सामर्थ्यस्यापि घातकं तादृश-तत्-स्मरणस्य प्रभाव-विशेषम् एव
बोधयतीति ज्ञेयम् । यथैव नारसिंहे -
अहम् अमर-गणार्चितेन धात्रा
यम इति लोक-हिताहिते नियुक्तः ।
हरि-गुरु-विमुखान् प्रशास्मि मर्त्यान्
हरि-चरण-प्रणतान् नमस्करोमि ॥ [नृसिंहप् 9.2] इति ।
तथैवामृत-सारोद्धारे स्कान्द-वचनम् -
न ब्रह्मा न शिवाग्नीन्द्रा नाहं नान्ये दिवौकसः ।
शक्तास् तु निग्रहं कर्तुं वैष्णवानां महात्मनाम् ॥ इति ॥
॥ 6.3 ॥ श्री-यमस् तद्-दूतान्

6.149

[149]
तथा सकृद्-भजनेनैव सर्वम् अप्य् आयुः सफलम् इत्य् उदाहृतम् एव श्री-
शौनक-वाक्येन आयुर् हरति वै पुंसाम् उद्यन्न् अस्तं च यन्न् असौ [भ्प्
2.3.17] इत्य् आदि-ग्रन्थेन । एवं भक्त्य्-आभासेनाप्य् अजामिलादेः पापघ्नत्वं
च दृश्यते । तथा सर्व-कर्मादि-विध्वंस-पूर्वक-परम-गति-प्राप्ताव् अपि
स्वलायासेनैव भक्तेः कारणत्वं च श्रूयते । लघु-भागवते -
वर्तमानं च यत् पापं यद् भूतं यद् भविष्यति ।
तत् सर्वं निर्दयत्य् आशु गोविन्दानल-कीर्तनात् ॥ इति ।
(पगे 68)
तथैव च तत्र यथा कथञ्चित् तद्-भक्ति-सम्बन्धस्य कारणत्वं दृश्यते ।
ब्रह्म-वैवर्ते -
स समाराधितो देवो मुक्तिकृत् स्याद् यथा तथा ।
अनिच्छयापि हृतभुक् संस्पृष्टो दहति द्विज ॥ इति ।
स्कान्दे उमा-महेश्वर-संवादे -
दीक्षा-मात्रेण कृष्णस्य नरा मोक्षं लभन्ति वै ।
किं पुनर् ये सदा भक्त्या पूजयन्त्य् अच्युतं नराः ॥
बृहन्-नारदीये-
अकामाद् अपि ये विष्णोः सकृत् पूजां प्रकुर्वते ।
न तेषां भव-बन्धस् तु कदाचिद् अपि जायते ॥ [नार्प् 36.58]
पाद्मे देव-द्युति-स्तुतौ -
सकृद् उच्चारयेद् यस् तु नारायणम् अतन्द्रितः ।
शुद्धान्तःकरणो भूत्वा निर्वाणम् अधिगच्छति ॥
तथान्यत्र -
सम्पर्काद् यदि वा मोहाद् यस् तु पूजयते हरिम् ।
सर्व-पाप-विनिर्मुक्तः प्रयाति परमं पदम् ॥
इतिहास-समुच्चये श्री-नारद-पुण्डरीक-संवादे -
ये नृशंसा दुराचाराः पापाचार-रताः सदा ।
तेऽपि यान्ति परं धाम नारायण-पदाश्रयाः ॥
लिप्यन्ते न च पापेन वैष्णवा वीत-कल्मषाः ।
पुनन्ति सकलान् लोकान् सहस्रांशुर् इवोदितः ॥
जन्मान्तर-सहस्रेषु यस्य स्यान् मतिर् ईदृशी ।
दासोऽहं वासुदेवस्य सर्वान् लोकान् समुद्धरेत् ॥
स याति विष्णु-सालोक्यं पुरुषो नात्र संशयः ।
किं पुनस् तद्-गत-प्राणाः पुरुषाः संयतेन्द्रियाः ॥
अतएव -
सकृद् एव प्रपन्नो यस् तवास्मीति च याचते ।
अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं हरेः ॥
इति च गरुड-पुराणे । तथा चाह -
आपन्नः संसृतिं घोरां यन्-नाम विवशो गृणन् ।
ततः सद्यो विमुच्येत यद् बिभेति स्वयं भयम् ॥ [भ्प् 1.1.14] इति ।
स्पष्टम् ॥ 1.1 ॥ श्री-शौनकः

6.150

[150]
तथा -
न हि भगवन्न् अघटितम् इदं
त्वद्-दर्शनान् नृणाम् अखिल-पाप-क्षयः ।
यन्-नाम सकृच् छ्रवणात्
पुक्कशोऽपि विमुच्यते संसारात् ॥ [भ्प् 6.16.44]
स्पष्टम् ॥ 6.16 ॥ चित्रकेतुः श्री-सङ्कर्षणम्

6.151

[151]
अतएवोक्तं श्री-विष्णु-धर्मोत्तरे -
जीवितं विष्णु-भक्तस्य वरं पञ्च दिनानि वै ।
न तु कल्प-सहस्राणि भक्ति-हीनस्य केशवे ॥ इति ।
अत्र यत् तृतीये गर्भ-स्थस्य जीवस्य स्तुतिः श्रूयते । तस्यैव संसारोऽपि
वर्ण्यते । तत्रोच्यते जात्य्-एकत्वेनैक-वर्णनम् इति । वस्तुतस् तु कश्चिद् एव जीवो
भाग्यवान् भगवन्तं स्तौति । स च (पगे 69) निस्तरत्य् अपि । न तु सर्वस्यापि
भगवज्-ज्ञानं भवति । तथा च नैरुक्ताः पठन्ति नवमे सर्वाङ्ग-
सम्पूर्णो भवतीति पठित्वामृतश् चाहं पुनर् जातो जातश् चाहं पुनर्
मृतः इत्य् आदि-तद्-भावना-पाठान्तरं -
अवाङ्-मुखः पीड्यमानो जन्तुभिश् च समन्वितः ।
साङ्ख्य-योगं समभ्यसेत् पुरुषं वा पञ्चविंशकम् ॥
ततश् च दशमे मासि प्रजायते इत्य् आदि ।
अत्र पुरुषं वेति वाशब्दात् कस्यचिद् एव भगवज्-ज्ञानम् इति गम्यते । सर्वाव्
अप्य् अवस्थासु भक्तेः समर्थत्वं च वर्णितम् । भेदेऽप्य् एकवद्-वर्णनम्
अन्यत्रापि दृश्यते । तृतीये यथा पाद-कल्प-सृष्टि-कथनेऽपि श्री-सनकादीनां
सृष्टिः कथ्यत इति । टीकायां च - ब्रह्म-कृत-सृष्टि-मात्र-कथन-
साम्येनैकीकृत्योर् इयम् इति योजितं श्री-वराहावतारवच् च । तत्र प्रथम-
मन्वन्तरस्यादौ पृथिवी-मज्जने ब्रह्म-नासिकातोऽवतीर्णः श्री-वराहस्
ताम् उद्धरन् हिरण्याक्षेण संग्रामं कृतवान् इति वर्ण्यते । हिरण्याक्षश्
च षष्ठ-मन्वन्तरावसान-जात-प्राचेतस-दक्ष-कन्याया दितेर् जातः ।
तस्मात् तथा वर्णनं तद्-अवतार-मात्रत्व-पृथिवी-मज्जन-मात्रत्वैक्य-
विवक्षयैव घटते तद्वद् अत्रापीति ।
कश्चिद् एवान्यो जीवः स्तौत्य् अन्यः संसरतीत्य् एव मन्तव्यम् । अत्र पूर्ववत्
परम-गति-प्राप्तौ भक्तेः परम्पराकारणत्वं च दृश्यते । बृहन्-
नारदीये ध्वजारोपण-माहात्म्ये -
यतीनां विष्णु-भक्तानां परिचर्या-परायणाः ।
ते दूताः सहसा यान्ति पापिनोऽपि परां गतिम् ॥ [नारदप् 1.20.73]
श्री-विष्णु-धर्मे -
कलानां शतम् आगामि समतीतं तथा शतम् ।
कारयन् भगवद्-धाम नयत्य् अच्युत-लोकताम् ॥
ये भविष्यन्ति येऽतीता आकल्पात् पुरुषाः कुले ।
तांस् तारयति संस्थाप्य देवस्य प्रतिमां हरेः ॥
दूतान् प्रति यमाज्ञा चेयम् -
येनार्चा भगवद्-भक्त्या वासुदेवस्य कारिता ।
नवायुतं तत्-कुलजं भवतां शासनातिगम् ॥ इति ।
यथाह -
त्रिः-सप्तभिः पिता पूतः पितृभिः सह तेऽनघ ।
यत् साधोऽस्य कुले जातो भवान् वै कुल-पावनः ॥ [भ्प् 7.10.18]
त्रिः-सप्तभिः प्राचीन-कल्पागत-तदीय-पूर्व-जन्म-सम्बन्धिभिः पितृभिः
सह अस्मिन् जन्मनि हिरण्यकशिपु-मरीचि-ब्रह्माण एव तत्-पितर इति ॥
॥ 7.10 ॥ श्री-नृसिंहः प्रह्लादम्

6.152

[152]
तथा भक्त्य्-आभासस्यापि सर्व-पाप-क्षय-पूर्वक-श्री-विष्णु-पद-
प्रापकत्वं यथा बृहन्-नारदीये कोकिल-मानिनोर् मदिरोन्मत्तयोर् धृत-
चीर-खण्ड-दण्डयोर् जीर्ण-भगवन्-मन्दिरे नृत्यतोर् ध्वजारोपण-फल-
प्राप्त्या तादृशत्वं जातम् । तथा व्याघतस्य पक्षिणः कुक्कुर-मुख-
गतस्य तत्-पलायन-वृत्त्या भगवन्-मन्दिर-परिक्रमण-फल-प्राप्त्या
तादृशत्व-प्राप्तिर् इति । क्वचित् तत्र महा-भक्ति-प्राप्तिश् च । यथा बृहन्-
नारदीय-पुराण श्री-प्रह्लादस्य । तस्य प्राग्-जन्मनि वेश्यया सह विवादेन
श्री-नृसिंह-चतुर्दश्यां दैवाद् उपवासः सम्पन्नो जागरणं चेति । तथा
चाह -
यस्यावतार-गुण-कर्म-विडम्बनानि
नामानि येऽसु-विगमे विवशा गृणन्ति ।
तेऽनैक-जन्म-शमलं सहसैव हित्वा
संयान्त्य् अपावृतामृतं तम् अजं प्रपद्ये ॥ [भ्प् 3.9.15]
(पगे 70) असुवगमेऽपीति तदानीन्तन-नाम-मात्रत्वम् अशुद्ध-वर्णत्वं
च व्यञ्जितम् । विवशा इति तद्-इच्छां विनापि केनचित् कारणान्तरेणापीत्य् अर्थः ।
वशकान्तौ इत्य् अमरः । तादृश-शक्तित्वे हेतुम् आहावतारेति । अवतारादि-
सदृशानि तत् तुल्य-शक्तीनीत्य् अर्थः । कर्म-विडम्बनानि तद्-विषय-
प्रयुक्तानि गिरिधरेत्य् आदीनि तान्य् अपि । किम् उत साक्षात् तन्-नामानि कृष्ण-
गोविन्देत्य्-आदीनीत्य् अर्थः ।
॥ 3.9 ॥ ब्रह्मा श्री-गर्भोदक-शायिनम्

6.153

[153]
अस्तु तावत् शुद्ध-भक्त्य्-आभासस्य वार्ता । अपराधत्वेन दृश्यमानोऽप्य्
असौ महा-प्रभावो दृश्यते । यथा विष्णु-धर्मे भगवन्-मन्त्रेण कृत-
निज-रक्षं विप्रं प्रति राक्षस-वाक्यं -
त्वाम् अत्तुम् आगतः क्षिप्तौ रक्षया कृतया त्वया ।
तत्-संस्पर्शाच् च मे ब्रह्मन् साध्व् एतन् मनसि स्थितम् ॥
का सा रक्षा न तां वेद्मि वेद्मि नास्याः परायणम् ।
किन्त्व् अस्याः सङ्गमासाद्य निर्वेदं प्रापितः परम् ॥ इति ।
यथा वा विष्णु-धर्माद्य्-उदाहृतायाः श्री-भगवद्-गृह-दीप-तैलं
पिबन्त्याः कस्याश्चिन् मूषिकाया दैवतो मुखोद्धृत-वर्तौ दीपे समुज्ज्वलिते
सति मुख-दाहेन मरणात् राजीत्वं प्राप्य दीप-दानादि-लक्षण-भक्ति-
निष्ठा-प्राप्तिर् अन्ते परम-पद-प्राप्तिश् च । यथा ब्रह्माण्ड-पुराणे
जन्माष्टमी-माहात्म्ये कृत-जन्माष्टमीकाया दास्या दुःसङ्गेनापि
कस्यचित् तत्-फल-प्राप्तिः । तथा च बृहन्-नारदीये तादृश-दुष्टकार्यार्थम्
अपि भगवन्-मन्दिरं मार्जयित्वा कश्चिद् उत्तमां गतिम् अवाप । न त्व्
ईदृशत्वं ब्रह्म-ज्ञानस्यापि ।
यथोक्तं ब्रह्म-वैवर्ते -
दृष्टः पश्येद् अहरहः संश्रितः प्रतिसंश्रयेत् ।
अर्चितश् चार्चयेन् नित्यं स देवो द्विज-पुङ्गव ॥ इति ।
यथा च श्री-विष्णु-धर्मे श्री-नारद-वाक्यम् -
तुलसी-दल-मात्रेण जलस्य चुलुकेन च ।
विक्रीणीते स्वम् आत्मानं भक्तेभ्यो भक्त-वत्सलः ॥ इति ।
तद् ईदृशं माहात्म्य-वृन्दं न प्रशंसा-मात्रम् अजामिलादौ
प्रसिद्धत्वात् । दर्शिताश् च न्यायाः श्री-भगवन्-नाम-कौमुद्य्-आदौ ।
तथैव नाम्न्य् अर्थवाद-कल्पनायां दोषोऽपि श्रूयते तथार्थ-वादो हरि-
नाम्नि [ह्ब्व् 11.284] इति नामापराध-गणने ।
अर्थ-वादं हरेर् नाम्नि
सम्भावयति यो नरः ।
स पापिष्ठो मनुष्याणां
निरये पतति स्फुटम् ॥ इति कात्यायन-संहितायाम् । (पगे 71)
मन्-नाम-कीर्तन-फलं विविधं निशम्य
न श्रद्दधाति मनुते यद् उतार्थ-वादम् ।
यो मानुषस् तम् इह दुःख-चये क्षिपामि
संसार-घोर-विविधार्ति-निपीडिताङ्गम् ॥
इति ब्रह्म-संहितायां बोधायनं प्रति श्री-परमेश्वरोक्तौ । ततोऽन्तर्भूत-
नामानुसन्धानेष्व् अन्येषु तद्-भजनेषु च सुतराम् एवार्थ-वादे
दोषोऽवगम्यते तद् एवं यथार्थ एव तन्-माहात्म्ये सत्य् अपि यत्र सम्प्रति
तद्-भजने फलोदयो न दृश्यते। कुत्रचिच् छास्त्रे च पुरातनानाम् अप्य्
अन्यथा श्रूयते तत्र नामार्थ-वाद-कल्पना वैष्णवानादरादयो दुरन्ता
अपराधा एव प्रतिबन्ध-कारणं वक्तव्यम् । अतएवोक्तं श्री-शौनकेन --
तद् अश्म-सारं हृदयं बतेदं
यद् गृह्यमाणैर् हरि-नाम-धेयैः ।
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्र-रुहेषु हर्षः ॥ [भ्प् 2.3.24] इति ।
यथा प्रायेणाधुनिकानाम् -
ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव ।
स्मृतिर् नाद्यापि विध्वस्ता भवत्-सन्दर्शनार्थिनः ॥ [भ्प् 10.64.25]
तद्-उक्त-रीत्याध्यवसित-भक्तेर् अपि नृगस्य जिह्वा न वक्ति [भ्प् 6.3.29] इत्य्
आदि-यम-वाक्य-विरुद्धं यम-लोक-गमनं प्राप्तवतो विना चार्थवाद-
कल्पनामयं भावं श्रुत-शास्त्रस्यापि तस्य सत्यां तादृश-माहात्म्यायां
भक्तौ श्रीमद्-अम्बरीषादिवत् सेवाग्रहं परित्यज्य दान-कर्माग्रहो न
स्यात् । तादृशापराधे भक्ति-स्तम्भश् च श्रूयते । यथा पाद्मे
नामापराध-भञ्जन-स्तोत्रे -
नामैकं यस्य वाचि स्मरण-पथ-गतं श्रोत्र-मूलं गतं वा
शुद्धं वाशुद्ध-वर्णं व्यवहित-रहितं तारयत्य् एव सत्यम् ।
तच् चेद् देह-द्रविण-जनता-लोभ-पाषण्ड-मध्ये
निक्षिप्तं स्यान् न फल-जनकं शीघ्रम् एवात्र विप्र ॥
देहादि-लोभार्थं ये पाषण्डा गुर्व्-अवज्ञादि-दशापराध-युक्तास् तन्-
मध्य इत्य् अर्थः । स्कान्दे प्रह्लाद-संहितायां द्वारका-माहात्म्ये -
पूजितो भगवान् विष्णुर् जन्मान्तर-शतैर् अपि ।
प्रसीदति न विश्वात्मा हरिस् तस्य पूजां द्वादश-वर्षिकीम् ॥
दृष्ट्वा भागवतं विप्रं नमस्कारेण नार्चयेत् ।
देहिनस् तस्य पापस्य न च वै क्षमते हरिः ॥ इति ।
एवं बहून्य् एवापराधान्तराण्य् अपि दृश्यते ।
एवम् एव श्री-विष्णु-पुराणे शत-धनुर् नाम्नो राज्ञो भगवद्-आराधन-
तत्परस्यापि वेद-वैष्णव-निन्दकाल्प-सम्भाषयैव कुक्कुरादि-योनि-
प्राप्तिर् उक्ता । अतः शुश्रूषोः श्रद्दधानस्य [भ्प् 1.2.16] इत्य् आदौ आवृत्तिर्
असकृद्-उपदेशात् [व्स् 4.1.1] इत्य् आदौ च पुरुषाणां प्रायः सापराधत्वाभि-
(पगे 72) प्रायेणैवावृति-विधानम् । सापराधानाम् आवृत्त्य्-अपेक्षा चोक्ता
पाद्मे नामापराध-भञ्जन-स्तोत्रे नामोपलक्ष्य -
नामापराध-युक्तानां नामान्य् एव हरन्त्य् अघम् ।
अविश्रान्ति-प्रयुक्तानि तान्य् एवार्थ-कराणि च ॥ इति ।
एतद्-अपेक्षयैव त्रैलोक्य-सम्मोहन-तन्त्रादाव् अष्टादशाक्षरादेर् आवृत्ति-
विधानम् । यथा -
इदानीं शृणु देवि त्वं केवलस्य मनोर् विधिम् ।
दश-कृत्वो जपेन् मन्त्रम् आपत्-कल्पेन मुच्यते ॥
सहस्र-जप्तेन यथा मुच्यते महतैनसा ।
अयुतस्य जपेनैव महा-पातक-नाशनम् ॥ इत्य् आदि ।
तथा ब्रह्म-वैवर्ते नामोपलक्ष्य -
हनन् ब्राह्मणम् अत्यन्तं कामतो वा सुरां पिबन् ।
कृष्ण कृष्णेत्य् अहोरात्रं सङ्कीर्त्य शुचिताम् इयात् ॥ इत्य् आदि ।
अत्रापराधालम्बनत्वेनैव वर्तमानानां पाप-वासनानां
सहैवापराधेन नाश इति तात्पर्यम् । एतादृश-प्रतिबन्धोपेक्षयैवोक्तं
विष्णु-धर्मे -
रागादि-दूषितं चित्तं नास्पदं मधुसूदने ।
बध्नाति न रतिं हंसः कदाचित् कर्दमाम्बुनि ॥
न योग्या केशवं स्तोतुं वाग् दुष्टा चानृतादिना ।
तमसो नाशनायालं नेन्दोर् लेखा घनावृता ॥ इति ।
सिद्धानाम् आवृत्तिस् तु प्रतिपदम् एव सुख-विशेषोदयार्था । असिद्धानाम्
आवृत्ति-नियमः फल-पर्यापित्-पर्यन्तः । तद्-अन्तरायेऽपराधावस्थिति-
वितर्कात् । यतः कौटिल्यम् अश्रद्धा भगवन्-निष्ठा-च्यावकस् त्व्
अन्तराभिनिवेशो भक्ति-शैथिल्यं स्व-भक्त्य्-आदि-कृत-मानित्वम् इत्य् एवम्
आदीनि महत्-सङ्गादि-लक्षाण-भक्त्यापि निवर्तयितुं दुष्कराणि चेत् तर्हि
तस्यापराधस्यैव कार्याणि । तान्य् एव च प्राचीनस्य तस्य लिङ्गानि । अतएव
कुटिलात्मनाम् उत्तमम् अपि नानोपचारादिकं नाङ्गीकरोति भगवान् यथा
दूत्य-गतो दुर्योधनस्य । आधुनिकानां च श्रुत-शास्त्राणाम् अपराध-
दोषेन भगवति श्री-गुरौ तद्-भक्तादिषु चान्तरानादरादाव् अपि सति बहिस्
तद्-अर्चनाद्य्-आरम्भः कौटिल्यम् । अतएवाकुटिल-मूढानां
भजनाभासादिनापि कृतार्थत्वम् उक्तम् । कुटिलानां तु भक्त्य्-अनुवृत्तिर् अपि
न सम्भवतीति । स्कान्दे श्री-पराशर-वाक्ये दृश्यते -
अपुण्यवतां लोके मूढानां कुटिलात्मनाम् ।
भक्तिर् भवति गोविन्दे कीर्तनं स्मरणं तथा ॥ इति ।
तद् अपेक्षयैवोक्तं विष्णु-धर्मे -
सत्यं शतेन विघ्नानां सहस्रेण तथा तपः ।
विघ्नायुतेन गोविन्दे नॄणां भक्तिर् निवार्यते ॥ इति ।
अतएवाह -
तं सुखाराध्यम् ऋजुभिर् अनन्य-शरणैर् नृभिः ।
कृतज्ञः को न सेवेत दुराराध्यम् असाधुभिः ॥ [भ्प् 3.19.36]
(पगे 73)
स्पष्टम् ॥ 3.11 । श्री-सूतः

6.154

[154]
यथैव भगवद्-भक्ता अप्य् अकुटिलात्मनोऽज्ञाननुगृह्णन्ति न तु
कुटिलात्मनो विज्ञान् इति दृश्यते । यथा -
दूरे हरि-कथाः केचिद् दूरे चाच्युत-कीर्तनाः
स्त्रियः शूद्रादयश् चैव तेऽनुकम्प्या भवादृशाम् ।
विप्रो राजन्य-वैश्यौ वा हरेः प्राप्ताः पदान्तिकम्
श्रौतेन जन्मनाथापि मुह्यन्त्य् आम्नाय-वादिनः ॥ [भ्प् 11.5.5]
टीका च - तत्र येऽज्ञास् ते भवद्-विधानाम् अनुग्राह्या इत्य् आह दूर इति ।
ज्ञान-बल-दुर्विदग्धास् त्व् अचिकित्स्यत्वाद् उपेक्ष्या इत्य् आशयेत्नाह विप्र इति ।
इत्य् एषा ।
॥ 11.5 ॥ चमसो निमिम्

6.155

[155]
अथाश्रद्धा दृष्टे श्रुतेऽपि तन्-महिमादौ विपरीत-भावनादिना
विश्वासाभावः । यथा दुर्योधनस्यैव विश्वरूप-दर्शनादाव् अपि । अतएव
यथा -- आपन्नः संसृतिं घोरां यन्-नाम विवशो गृणन् [भ्प् 1.1.14] इत्यादि
शौनकस्य, दन्ता गजानां कुलिशाग्र-निष्ठुराः [विप् 1.17.44] इति श्री-
प्रह्लादस्यानुभव-सिद्धं न तथा सर्वेषाम् । ईदृशम् आनुषङ्गिकं
फलं तु शुद्ध-भक्तैर् भगवन्-महिम-ख्यापनेच्छा यदि स्यात्
तदैवेष्यते न तु स्व-रक्षणाय स्व-महिम-दर्शनाय वा । यथैवोक्तं --
दन्ता गजानां कुलिशाग्र-निष्ठुराः
शीर्णा यद् एते न बलं ममैतत् ।
महा-विपत्-पात-विनाशनोऽयं
जनार्दनानुस्मरणानुभावः ॥ [विप् 1.17.44]
श्री-परीक्षित्-प्रभृतिभिस् तु तद् अपि नेष्टं, यथा -
द्विजोपसृष्टः कुहकस् तक्षको वा
दशत्व् अलं गायत विष्णु-गाथाः ॥ [भ्प् 1.19.15]
॥ स्पष्टम् । 1.19 ॥ राजा

6.156

[156]
अतएवाधुनिकेषु महानुभाव-लक्षणवत्सु तद्-अदर्शनेऽपि नाविश्वासः
कर्तव्यः । कुत्रचिद् भगवद्-उपासना-विशेषेणैव तादृशम् आनुषङ्गिकं
फलम् उदयते । यथा -
यदैक-पादेन स पार्थिवार्भकस्
तस्थौ तद्-अङ्गुष्ठ-निपीडिता मही ।
ननाम तत्रार्धम् इभेन्द्र-धिष्ठिता
तरीव सव्येतरतः पदे पदे ॥ [भ्प् 4.8.79]
अत्र सर्वात्मकतयैव विष्णु-समाव्धिना तादृक् फलम् उदितम् । एतादृश्य्
उपासना चास्य भावि-ज्योतिर्-मण्डलात्मक-विश्व-चालन-पदोपयोगितयोदितेति
ज्ञेयम् ॥
॥। 4.9 ॥ श्री-मैत्रेयः

6.157

[157]
अथ भगवन्-निष्ठा-च्यावक-वस्त्व्-अन्तराभिनिवेशो यथा -
एवम् अघटमान-मनोरथाकुल-हृदयो मृग-दारकाभासेन स्वारब्ध-
कर्मणा योगारम्भणतो विभ्रंशितः स योग-तापसो भगवद्-आराधन-
लक्षणाच् च । [भ्प् 5.8.26] इति । (पगे 74)
स श्री-भरतः । अत्रैवं चिन्त्यं भगवद्-भक्त्य्-अन्तरायकं सामान्यम्
आरब्ध-कर्म न भवितुम् अर्हति दुर्बलत्वात् । ततः
^राचीनापराधात्मकम् एव तल् लभ्यत इन्द्रद्युम्नादीनाम् इवेति ॥
॥ 5.8 ॥ श्री-शुकः

6.158

[158]
केचित् तु साधारणस्यैव प्रारब्धस्य तादृशेषु भक्तेषु प्राबल्यं तद्-
उत्कण्ठा-वर्धनार्थं स्वयं भगवतैव क्रियत इति मन्यन्ते । सा च
वर्णिता मृग-देहं प्राप्तस्य तस्य । तथैव श्री-नारदस्य पूर्व-जन्मनि
जात-रतेर् अपि कषाय-रक्षणम् आह -
हन्तास्मिन् जन्मनि भवान् मा मां द्रष्टुम् इहार्हति ।
अविपक्व-कषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ [भ्प् 1.6.22]
स्पष्टम् ॥ 1.6 ॥ श्री-भगवान्

6.161

[160]
तद् एवम् अपराध-हेतुक-तद्-अभिनिवेशोदाहरणं गजेन्द्रादीनां
विषयावस्थायां कार्यम् । अथ भक्ति-शैथिल्यं येनाध्यात्मिकादि-सुख-
दुःख-निष्ठैवोल्लसति । भक्ति-तत्-पराणां तु तत्रानादरो भवति । यथा
सहस्र-नाम-स्तोत्रे -
न वासुदेव-भक्तानाम् अशुभं विद्यते क्वचित् ।
जन्म-मृत्यु-जरा-व्याधि-भयं चाप्य् उपजायते ॥ इति ।
या तु सत्-साधकस्य मनुष्य-देह-रिरक्षिषा जायते साप्य् उपासना-वृद्धि-
लोभेन न तु देह-मात्र-रिरक्षिषयेति । न तया च भक्ति-तात्पर्य-हानिः ।
तद् एवं विवेक-सामर्थ्य-युक्तस्यापि भक्ति-तात्पर्य-व्यतिरेक-गम्यं तच्-
छैथिल्यं मध्ये मध्ये रुच्यमानया भक्त्या यद् दूरीक्रियते तद्-
अपराधालम्बनमे एवेति गम्यते । अतएवापराधानुमानाप्रवृत्तेर् मूढे
चासमर्थे चाल्पेन सिद्धिः समर्थेव । तत्र दीन-दयालोः श्री-भगवतः
कृपा चाधिका प्रवर्तते ।
किं च विवेक-सामर्थ्य-युक्ते स्मप्रत्य् अपि योऽपराधापातो भवति सोऽत्यन्त-
दौरात्म्याद् एव तद्-विपरीते तु नातिदौरात्म्याद् इति विदुषः समर्थस्य
शतधनुपोऽन्तरायोऽनन्त-रवि-हित-भगवद्-उपासनस्यापि युक्त एव ।
मूढानां तु मूषिकादीनाम् अपराधेऽपि सिद्धिस् तथैव युक्ता ।
दौरात्म्याभावेन भजन-स्वरूप-प्रभावस्यापराधम् अतिक्रम्योदयात् ।
अथ भक्त्यादि-कृताभिमानत्वं चापराध-कृतम् एव वैष्णवावमानादि-
लक्सणापराधान्तर-जनकत्वात् । यथा दक्षस्य प्राक्तन-श्री-
शिवापराधेन प्राचेतसत्वावस्थायां श्री-नारदापराध-जन्मापि दृश्यते ।
तद् एवं यः सकृद् भजनादिनैव फलोदय उक्तस् तद् यथावद् एव, यदि
प्राचीनोऽर्वाचीनो वापराधो न स्यात् । मरणे तु सर्वथा सकृद् एव यथा
कथञ्चिद् अपि भजनम् अपेक्षते, तत्र हि तस्यैव सकृद् अपि भगवन्-नाम-
ग्रहणादिकं जायते, यस्य पूर्वत्र वात्र वा जन्मनि सिद्धेन भगवद्-
आराधनादिना तदानीं स्वीय-प्रभावं प्रकटयतानन्तरम् एव भगवत्-
साक्षात्कारो गम्यते ।
यं यं वापि स्मरन् भावं
त्यजन्त्य् अन्ते कलेवरम् ।
तं तम् एवैति कौन्तेय
सदा तद्-भाव-भावितः ॥ [गीता 8.6] (पगे 75) इति श्री-गीतोपनिषद्भ्यः ।
ततोऽपराधाभावा तत्-क्षयार्थं न तत्रावृत्त्य्-अपेक्षया । यथाजामिलस्य
न तथा कृत-तन्-नाम-श्रवणादीनाम् अपि यम-दूतानाम् । यथाह --
अथापि मे दुर्भगस्य विबुधोत्तम-दर्शने ।
भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति ॥ [भ्प् 6.2.32]
पूर्वेण मङ्गलेन महता पुण्येनेति टीका च ।
[160]
व्यतिरेकेणाह --
अन्यथा म्रियमाणस्य नाशुचेर् वृषली-पतेः ।
वैकुण्ठ-नाम-ग्रहणं जिह्वा वक्तुम् इहार्हति ॥ [भ्प् 6.2.33]
स्पष्टम् ॥ 6.2 ॥ श्रीमान् अजामिलः ॥ 159-160 ॥
[161]
यत् तु श्री-भरतस्य मृग-शरीरं त्यजतो नामानि गृहीत्वापि शरीरान्तर-
प्राप्तिस् तत्रापि साक्षाद्-भाव-प्राप्तिर् एव तादृशानां हृदि सदाविर्भावात् ।
एवम् अजामिलस्य पूर्व-शरीर-स्थिताव् अपि ज्ञेयम् । ततो मरण-समये सकृद्-
भजनस्यानन्तरम् एव कृतार्थत्व-प्रापणे व्यभिचारो न स्यात् । अतएवाह -
एतावान् साङ्ख्य-योगाभ्यां स्व-धर्म-परिनिष्ठया ।
भगवत्य् अचलो भावो यद् भागवत-सङ्गतः ॥ [भ्प् 2.3.11]
टीका च - एतावान् एव जन्मनो लाभः फलम् । तम् आह नारायण-स्मृतिर् इति ।
साङ्ख्यादिभिः साध्य इति तेषां स्वातन्त्र्येण लाभत्वं वारयति । अन्ते च
स्मृतिः परो लाभो न तन्-महिमा वक्तुं शक्यते इत्य् एषा ।
नाम-कौमुदी-कारैश् चान्तिम-प्रत्ययोऽभ्यर्हित इत्य् उक्तम् ॥
॥ 2.1 ॥ श्री-शुकः

6.162

[162]
अतएवाजामिलस्यान्यदापि पुत्रोपचारितं नारायण-नाम गृह्णतः -
प्रयाणे चाप्रयाणे च यन् नाम स्मरतां नॄणाम् ।
सद्यो नश्यति पापौघो नमस् तस्मै चिद्-आत्मने ॥
इति पाद्म-देव-द्युति-स्तोत्रानुसारेण जरा-मरण-दशायाम् अपि सकल-
कश्मल-निरसनानि तव गुण-कृत-नाम-धेयानि [भ्प् 5.3.14] इति पञ्चमोक्त-
स्थितापि-शब्देन च प्रथम-नाम-ग्रहणाद् एव क्षीण-सर्व-पापस्यापि
मरणे यन्-नाम-ग्रहणं तत्-प्रशंसैव श्रूयते । तत्राप्य् आवृत्त्या -
अथैनं मापनयत कृताशेषाघ-निष्कृतम् ।
यद् असौ भगवन्-नाम म्रियमाणः समग्रहीत् ॥ [भ्प् 6.2.13]
इत्य् आदि । अशेष-शब्दोऽत्र वासना-पर्यन्तः । अघ-शब्दश् चापराध-पर्यन्त
इति । अत्र मरणे सर्वेषां दैन्यादयोऽपि श्री-भगवत्-कृपातिशय-द्वारम् इति
द्रष्टव्यम् ।
॥ 6.1 ॥ श्री-विष्णु-दूताः यम-दूतान्

6.163

[163]
तद् एवम् अधिकारि-विशेषं प्राप्यैव तत्-तत्-फलोदयो द्रष्टव्यः । यथैव
पूर्वम् उदाहृतम् । यथा च जात-रुचिं प्राप्य -- (पगे 76)
तव विक्रीडितं कृष्ण नृणां परम-मङ्गलम् ।
कर्ण-पीयूषम् आसाद्य त्यजन्त्य् अन्य-स्पृहां जनाः ॥ [भ्प् 11.6.44]
अतएवोक्तम् -
न क्रोधो न च मात्सर्यं न लोभो न शुभा मतिः ।
भवन्ति कृत-पुण्यानां भक्तानां पुरुषोत्तम ॥ इति ॥
॥ 11.6 ॥ श्रीमद्-उद्धवः

6.164

[164]
जात-प्रेमाणं प्राप्य -
नैषातिदुःसहा क्षुन् मां त्यक्तोदम् अपि बाधते ।
पिबन्तं त्वन्-मुखाम्भोज- च्युतं हरि-कथामृतम् ॥ [भ्प् 10.1.13]
स्पष्टम् ॥ 10.1 ॥ श्री-राजा

6.165

[165]
व्याख्याते यथा कथञ्चिद् भजन-सम्यग्-भजनावृत्ती । तद् एवं भगवद्-
अर्पित-धर्मादि-साध्यत्वात् तां विनान्येषाम् अकिञ्चित्करत्वात् तस्याः स्वत एव
समर्थत्वात् स्व-लेशेन स्वाभासादिनापि परमार्थ-पर्यन्त-प्रापकत्वात्
सर्वेषां वर्णानां नित्यत्वात् साक्षाद् भक्ति-रूपं तत्-साम्मुख्यम्
एवात्राभिधेयं वस्त्व् इति स्थितम् । इयम् एव केवलत्वाद् अनन्यताख्या ।
अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्य् अहम् ॥
येऽप्य् अन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि माम् एव कौन्तेय यजन्त्य् अविधिपूर्वकम् ॥ [गीता 9.22-23]
इति वाक्य-द्वयेऽन्वय-व्यतिरेकोक्त्या । अनन्यत्वं नाम ह्य् अन्योपासना-
राहित्येन तद्-भजनम् उच्यते । इत्थम् एवाङ्गीकृतम् -- अपि चेत् सुदुराचारो
भजते माम् अनन्यभाक् [गीता 9.30] इत्य् आदौ । तस्याश् च महा-दुर्बोधत्वं
महा-दुर्लभत्वं चोक्तम् -- धर्मं तु साक्षाद् भगवत्-प्रणीतं न वै
विदुर् ऋषयो नापि देवाः [भ्प् 6.3.19] इत्य् आदौ, येऽभ्यर्थिताम् अपि च नो नृ-
गतिं प्रपन्ना [भ्प् 3.15.24] इत्य् आदौ च ।
तद् एवं तस्याः श्रवणादि-रूपायाः साक्षाद्-भक्तेः सर्व-विघ्न-निवारण-
पूर्वक-साक्षाद्-भगवत्-प्रेम-फलदत्वे स्थिते परम-दुर्लभत्वे च सत्य्
अन्य-कामनया च नाभिधेयत्वम् । तथा चतुर्थे --
तं दुराराध्यम् आराध्य सताम् अपि दुरापया ।
एकान्त-भक्त्या को वाञ्छेत् पाद-मूलं विना बहिः ॥ [भ्प् 4.24.55] इति ।
तन्-मात्रकाम् अनायां च भक्तेर् एवाकिञ्चनत्वम् अकामत्वं च
संज्ञापितम् ।
मत्तोऽप्य् अनन्तात् परतः परस्मात्
स्वर्गापवर्गाधिपतेर् न किञ्चित् ।
येषां किम् उ स्याद् इतरेण तेषाम्
अकिञ्चनानां मयि भक्ति-भाजाम् ॥ [भ्प् 5.5.25]
इति श्री-ऋषभदेव-वाक्यात् । अकामः सर्व-कामो वा इत्य् आदेश् च । तथा इयम्
एवैकान्तितेत्य् उच्यते -
एकान्तिनो यस्य न कञ्चनार्थं
वाञ्छन्ति ये वै भगवत्-प्रपन्नाः [भ्प् 8.3.20] इति गजेन्द्र-वाक्यम् ।
(पगे 77)
एवं प्रलोभ्यमानोऽपि
वरैर् लोक-प्रलोभनैः ।
एकान्तित्वाद् भगवति
नैच्छत् तान् असुरोत्तमः ॥ [भ्प् 7.9.55] इति नारद-वाक्याच् च ।
अतएवोक्तं गारुडे -
एकान्तेन सदा विष्णौ यस्माद् एव परायणाः ।
तस्माद् एकान्तिनः प्रोक्तास् तद्-भागवत-चेतसः ॥ [गर्प् 1.231.14] इति ।
एषैवोपदिष्टा श्री-गीतोपनिषत्सु -
भक्त्या त्व् अनन्यया शक्य अहम् एवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥
मत्-कर्म-कृन् मत्-परमो मद्-भक्तः सङ्ग-वर्जितः ।
निर्वैरः सर्व-भूतेषु यः स माम् एति पाण्डव ॥ [गीता 11.54-55]
मत्-कर्म श्रवण-कीर्तनादि । अहम् एव परमः साधनत्वेन साध्यत्वेन
च यस्य । अतएव साधन-साध्यान्तर-सङ्ग-विवर्जित इति व्याख्येयम् । इमाम्
एव भक्तिम् आह -
तस्माद् अर्थाश् च कामाश् च धर्माश् च यद्-अपाश्रयाः ।
भजतानीहयात्मानम् अनीहं हरिम् ईश्वरम् ॥ [भ्प् 7.7.48]
यद्-अपाश्रया यद्-अधीनाः । तं हरिम् इत्य् अन्वयः । अनीहया कामना-
त्यागेन । अनीहं तथैव कामना-शून्यम् । इच्छाकाङ्क्षा-स्पृहेहातृङ् इत्य्
अमरः ।
॥ 7.7 ॥ श्री-प्रह्लादोऽसुर-बालकान्

6.166

[166]
तथैवोभयोः कामना-शून्यत्वं स्वयम् एवाह -
आशासानो न वै भृत्यः स्वामिन्य् आशिष आत्मनः ।
न स्वामी भृत्यतः स्वाम्यम् इच्छन् यो राति चाशिषः ॥
अहं त्व् अकामस् त्वद्-भक्तस् त्वं च स्वाम्य् अनपाश्रयः ।
नान्यथेहावयोर् अर्थो राज-सेवकयोर् इव ॥ [भ्प् 7.10.5]
स्पष्टम् ॥ 7.10 ॥ श्री-प्रह्लादः श्री-नृसिंहदेवम्

6.167

[167]
एवम् एवाह -
नैवात्मनः प्रभुर् अयं निज-लाभ-पूर्णो
मानं जनाद् अविदुषः करुणो वृणीते ।
यद् यज् जनो भगवते विदधीत मानं
तच् चात्मने प्रति-मुखस्य यथा मुख-श्रीः ॥ [भ्प् 7.9.11]
अयं प्रभुर् आत्मनो मानं जनान् निज-भक्तान् न वृणीते नेच्छति । तत्र
हेतुर् निजस्य भक्तस्यैव लाभेन पूर्णः परम-सन्तुष्टः । हेत्व्-अन्तरं
करुणः पूजार्थं तत्-प्रयासादाव् असहिष्णुः । कथम्भूताज् जनाद्
अविदुषः । पितुर् अग्रे बालकवत् तस्याग्रे न किञ्चिद् अपि जानतः । एषा स्वस्य
जनैक-वर्गत्वेन दैन्योक्तिः यद् वा तद्-आवेशेनान्यत् किञ्चिद् अपि न जानत इत्य्
अर्थः । उभयत्र पक्षेऽपि तच् च तस्य कारुण्य-हेतुर् इति भावः । तर्हि किं
जनस् तस्य पूजां न कुरुत इत्य् आशङ्क्याह यद् इति । स च (पगे 78) जनो यं
यं मानं भगवते विदधीत सम्पादयति स सर्वोऽप्य् आत्मार्थम् एव । तत्-
सम्भावना-मात्रेणैव स्व-सम्माननाभिमननात् सुखं मन्यमानस्
तन्-मानं करोत्य् एवेत्य् अर्थः । तत्-सम्मान-मात्रेण स्व-सम्मानश् च ।
तद्-एक-जीवनस्य तज्-जनस्य युक्त एवेति दृष्टान्तम् आह - यथा मुखे या
शोभा क्रियते तन्-मात्रम् एव प्रतिमुखस्य शोभैव भवति नान्यद् इति ॥
॥ 7.9 ॥ श्री-प्रह्लादः श्री-नृसिंहम्

6.168

[168]
अतएवाह -
नालं द्विजत्वं देवत्वम् ऋषित्वं वासुरात्मजाः ।
प्रीणनाय मुकुन्दस्य न वृत्तं न बहु-ज्ञता ॥
न दानं न तपो नेज्या न शौचं न व्रतानि च ।
प्रीयतेऽमलया भक्त्या हरिर् अन्यद् विडम्बनम् ॥ [भ्प् 7.7.51-52]
अमलया निष्कामया विडम्बनं नटन-मात्रम् । अतः सकाम-भक्तस्यापि
भक्तेर् नटन-मात्रत्वात् । यथा परेषाम् अपि नटानां क्वचित् तद्-
अनुकरणं तथैवेति । तत्र सकामत्वम् ऐहिकं पारलौकिकं चेति द्विविधं
तत् सर्वम् एव निषिध्यते । श्री-नागपत्नी-वचनादौ न पारमेष्ठ्यं न
महेन्द्र-धिष्ण्यम् इत्य् आदिना । तस्माद् वैवस्वत-मनु-पुत्रस्य पृषध्रस्य
तु मुमुक्षोर् अपि एकान्तित्व-व्यपदेशो गौण एव बोद्धव्यः ।
मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर् वरैः ।
तत्-सङ्ग-भीतो निर्विण्णो मुमुक्षुस् त्वाम् उपाश्रितः ॥ [भ्प् 7.10.2]
इत्य् अत्र श्री-प्रह्लाद-वाक्ये मुमुक्षा तु काम-त्यागेच्छैव ।
यदि दास्यसि मे कामान् वरांस् त्वं वरदर्षभ ।
कामानां हृद्य् असंरोहं भवतस् तु वृणे वरम् ॥ [भ्प् 7.10.7] इति
वक्षमाणात् ।
भक्ति-योगस्य तत् सर्वम् अन्तरायतयार्भकः [भ्प् 7.10.1] इति श्री-नारदेन
प्राग् उक्तत्वाच् च । एवं श्रीमद्-अम्बरीषस्य यज्ञ-विधानम् अपि लोक-
सङ्ग्रहार्थकम् एव ज्ञेयम् । तम् उद्दिश्याप्य् एकान्त-भक्ति-भावेनेत्य्
उक्तम् अस्ति । तत्र चैहिकं निष्कामत्वं भक्त्या जीविकाप्य् उपार्जनं यत् तद्
अभाव-मयम् अपि बोद्धव्यम् । विष्णुं यो नोपजीवति इत् गारुडे शुद्ध-
भक्त-लक्षणम् ।
मौन-व्रत-श्रुत-तपो-ऽध्ययन-स्व-धर्म-
व्याख्या-रहो-जप-समाधय आपवर्ग्याः ।
प्रायः परं पुरुष ते त्व् अजितेन्द्रियाणां
वार्ता भवन्त्य् उत न वात्र तु दाम्भिकानाम् ॥ [भ्प् 7.9.46]
इति श्री-प्रह्लाद-वाक्यवत् । मौनादय एवाजितेन्द्रियाणां वार्ता जीवनोपाया
भवन्ति । दाम्भिकानां तु वार्ता अपि भवन्ति न वा दम्भस्यानियत-
फलत्वाद् इत्य् अर्थः । अतएवोक्तं -
आराधनं भगवत ईहमाना निराशिषः ।
ये तु नेच्छन्त्य् अपि परं ते स्वार्थ-कुशलाः स्मृताः ॥ [भ्प् 6.18.74] इति ।
(पगे 79)
परं मोक्षम् अपीति टीका च । तस्मात् साधूक्तं नालं द्विजत्वम् इत्य् आदि ।
॥ 7.7 ॥ श्री-प्रह्लादोऽसुर-बालकान्

6.169

[169]
ततोऽस्या एव भक्तेः सर्व-शास्त्र-सारत्वम् आह -
श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् ।
अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम् ॥
इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा ।
क्रियेत भगवत्य् अद्धा तन् मन्येऽधीतम् उत्तमम् ॥ [भ्प् 7.5.23-24]
श्रवण-कीर्तने तदीय-नामादीनां स्मरणं च । पाद-सेवनं परिचर्या ।
अर्चनं विध्य्-उक्त-पूजा । वन्दनं नमस्कारः । दास्यं तद्-दासोऽस्मीत्य्
अभिमानम् । सख्यं बन्धु-भावेन तदीय-हिताशंसनम् । आत्म-
निवेदनं गवाश्वादि-स्थानीयस्य स्व-देहादि-सङ्घातस्य तद्-एक-
भजनार्थं विक्रय-स्थानीयं तस्मिन्न् अर्पणं, यत्र तद्-भरण-पालन-
चिन्तापि स्वयं न क्रियते । उदाहृतानि चैतानि प्राचीनैः ।
श्री-विष्णोः श्रवणे परीक्षिद् अभवद् वैयासकिः कीर्तने
प्रह्लादः स्मरणे तद्-अङ्घ्रि-भजने लक्ष्मीः पृथुः पूजने ।
अक्रूरस् त्व् अभिवन्दने कपि-पतिर् दास्येऽथ सख्येऽर्जुनः
सर्वस्वात्म-निवेदने बलिर् अभूत् कृष्णाप्तिर् एषां परा ॥ [पद्यावली 53]
इति नव-लक्षणानि यस्याः सा भगवति तद्-विषयिका । अद्धा साक्षाद्-रूपां
न तु कर्माद्य्-अर्पण-रूपा पारम्परिकी भक्तिर् इयम् । तत्रापि श्री-विष्णाव्
एवार्पिता तद्-अर्थम् एवेदम् इति भाविता । न तु धर्मार्थादिष्व् अर्पिता ।
एवम्भूता चेत् क्रियते तदा तेन कर्त्रा यद् अधीतं तद् उत्तमं मन्य इत्य्
अर्थम् । तथा च श्री-गोपाल-तापनी-श्रुतिः -
भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनैवामुष्मिन् मनः-
कल्पनम् । एतद् एव च नैष्कर्म्यम् ॥ [ग्तु 1.14]
अतएव नव-लक्षणेति समुच्चयो नावश्यकः । एकेनैवाङ्गेन
साध्याव्यभिचार-श्रवणात् । क्वचिद् अन्याङ्ग-मिश्रणं तु तथापि भिन्न-
श्रद्धा-रुचित्वात् । ततो नव-लक्षण-शब्देन भक्ति-सामान्योक्त्या तन्-
मात्रानुष्ठानं विधीयत इति ज्ञेयम् । ततो नव-लक्षणत्वं चास्या अन्येषाम्
अप्य् अङ्गानां तद्-अन्तर्भावाद् उक्तम् ॥
॥ 7.5 ॥ श्री-प्रह्लादः स्व-पितरम्

6.172

[170]
अथास्या अकिञ्चनाख्याया भक्तेः सर्वोर्ध्व-भूमिकावस्थितिः । अधिकारि-
विशेष-निष्ठत्वं च दर्शयितुं प्रक्रियान्तरम् । तत्र पर-तत्त्वस्य
वैमुख्यस्य परिहाराय यथा-कथञ्चित् साम्मुख्य-मात्रं कर्तव्यत्वेन
लभ्यते । तच् च त्रिधा - निर्विशेष-रूपस्य तदीय-ब्रह्माख्याविर्भावस्य
ज्ञान-रूपम् । स-विशेष-रूपस्य च तदीय-भगवद्-आख्याविर्भावस्य
भक्ति-रूपम् इति द्वयम् । तृतीयं च तस्य द्वयस्यैव द्वारं कर्मार्पण-
रूपम् इति । तद् एतत् त्रयं पुरुष-योग्यता भेदेन व्यवस्थापयितुं लोके
ज्ञान-कर्म-भक्तीनाम् एवोपायत्वं नान्येषाम् इत्य् अनुवदति -- (पगे 80)
योगास् त्रयो मया प्रोक्ता नॄणां श्रेयो-विधित्सया ।
ज्ञानं कर्म च भक्तिश् च नोपायोऽन्योऽस्ति कुत्रचित् ॥ [भ्प् 11.20.6]
योगाः उपायाः । मया शास्त्र-योनिना श्रेयांसि मुक्ति-त्रि-वर्ग-प्रेमाणि । अनेन
भक्तेः कर्मत्वं च व्यावृत्तम् ।
[171]
तेष्वधिकारि-हेतून् आह द्वाभ्याम् -
निर्विण्णानां ज्ञान-योगो न्यासिनाम् इह कर्मसु ।
तेष्व् अनिर्विण्ण-चित्तानां कर्म-योगस् तु कामिनाम् ॥
यदृच्छया मत्-कथादौ जात-श्रद्धस् तु यः पुमान् ।
न निर्विण्णो नाति-सक्तो भक्ति-योगोऽस्य सिद्धि-दः ॥ [भ्प् 11.20.7-8]
इह एषां मध्ये निर्विण्णाम् ऐहिक-पारलौकिक-विषय-प्रतिष्ठा-सुखेषु
विरक्तानाम् अत एव तत्-साधन-भूतेषु लौकिक-वैदिक-कर्मसु न्यासिनां
तानि त्यक्तवताम् इत्य् अर्थः । पद-द्वयेन दृढ-जात-मुमुक्षूणाम्
अत्राभिप्रेतम् । एषां ज्ञान-योगः सिद्धिद इत्य् उत्तरेणान्वयः । कामिनां तत्-
तत्-सुखेषु रागिणाम् अतएव तेषु कर्मसु अनिर्विण्ण-चित्तानां तानि त्यक्तम्
असमर्थानां कर्म-योगः सिद्धिदः तत्-सङ्कल्पानुरूप-फलदः ।
अथ ते वै विदन्त्य् अतितरन्ति न देव-मायाम् [भ्प् 2.5.45] इत्य् आदौ तिर्यग्-जना
अपि इत्य् अनेन भक्त्य्-अधिकारे कर्मादिवत् जात्यादि-कृत-नियमातिक्रमात्
श्रद्धा-मात्रं हेतुर् इत्य् आह यदृच्छयेति । यदृच्छया केनापि परम-
स्वतन्त्र-भगवद्-भक्त-सङ्ग-तत्-कृपा-जात-मङ्गलोदयेन । यद् उक्तं
शुश्रूषोः श्रद्दधानस्य [भ्प् 1.2.16] इत्य् आदि । तद् एतत् पद्यं स्वयम् एवाग्रे
व्याख्यास्यते द्वाभ्यां --
जात-श्रद्धो मत्-कथासु निर्विण्णः सर्व-कर्मसु
वेद दुःखात्मकं कामान् परित्यागेऽप्य् अनीश्वरः
ततो भजेत मां प्रीतः श्रद्धालुर् दृठ-निश्चयः
जुषमाणश् च तान् कामान् दुःखोदर्कांश् च गर्हयन् ॥ [भ्प् 11.20.27-28]
कथेत्य् उपलक्षणं मत्-कथादिषु एतद् एव केवलं परमं श्रेय इति जात-
विश्वासः । अतएवान्येषु कर्मसु उद्विग्नः किन्तु वर्तमानेषु प्राचीन-पुण्य-
कर्म-फल-भागेषु एवम्भूत इत्य् आह वेदेति ।
ततस् तान् वेदेत्य्-आदि-व्याख्या । तान् न निर्विण्णो नातिसक्त इत्य् एवं-लक्षणाम्
अवस्थां आरभ्यैवेत्य् अर्थः । मां भजेत मदीयानन्याख्य-भक्त्य्-
अधिकारी स्यात्, न तु ज्ञानवज् जाते सम्यग् वैराग्य एव तस्याः स्वतः
शक्तिमत्त्वेनान्य-निरपेक्षत्वाद् इत्य् अर्थः अनन्तरं च वक्ष्यते --
तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥
यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् । [भ्प् 11.20.31-32] इत्य् आदि ।
न च कर्म-निर्वेद सापेक्षत्वम् आपतितम् । स तु भक्तेः सर्वोत्तमत्व-
विश्वासेन स्वत एव प्रवर्तते । निर्विण्ण इत्य् अनुवाद-मात्रम् । अतएव यद्यपि
ज्ञान-कर्मणोर् अपि श्रद्धापेक्षास्त्य् एव (पगे 81) तां विना बहिर् अन्तः
सम्यक् प्रवृत्त्य्-अनुपपत्तेस् तथाप्य् अत्र श्रद्धा-मात्रस्य कारणत्वेन
विशेषतस् तद्-अङ्गीकारः । अत्रापि च तद्-अपेक्षा पूर्ववत् सम्यक्-प्रवृत्त्य्-
अर्थैव, तां विना अनन्यताख्य-भक्तिस् तथा न प्रवर्तते । कदाचित् किञ्चित्
प्रवृत्त्या च नश्यतीति । अतएव न निर्विण्णो नातिसक्तः [भ्प् 11.20.8] इत्य्
अस्यानन्तरम् अपि मत्-कथा-श्रवणादौ वा [भ्प् 11.24.9] इत्य् अत्र श्रद्धायां
जातायाम् एव कर्म-परित्यागो विहितः । भक्ति-मात्रं तु तां विना सिद्ध्यति ।
सकृद् अपि परिगीतं श्रद्धया हेलया वा
भृगुवर नर-मात्रं तारयेत् कृष्ण-नाम । इत्य् आदौ ।
सतां प्रसङ्गान् मम वीर्य-संविदो
भवन्ति हृत्-कर्ण-रसायनाः कथाः ।
तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि
श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥ [भ्प् 3.25.25]
इत्य् आदौ च तत्-पूर्वतोऽपि तस्याः फल-दातृत्व-श्रवणात् ।
म्रियमाणो हरेर् नाम गृणन् पुत्रोपचारितम् ।
अजामिलोऽप्य् अगाद् धाम किम् उत श्रद्धया गृणन् ॥ [भ्प् 6.2.49}
इत्य् आदौ तथा फल-दातृत्व-सौष्ठव-श्रवणाच् च । सा च श्रद्धा
शास्त्राभिधेयावधारणस्यैवाङ्गं तद्-विश्वास-रूपत्वात् । ततो
नानुष्ठानाङ्गे प्रविशति । भक्तिश् च फलोत्पादने विधि-सापेक्षापि न स्याद्
दाहादि-कर्मणि वह्न्य्-आदिवत् । भगवच्-छ्रवण-कीर्तनादीनां स्वरूपस्य
तादृश-शक्तित्वात् । ततस् तस्याः श्रद्धाद्य्-अपेक्षा कुतः स्यात् । अतः श्रद्धां
विना च क्वचिन्-मूढादाव् अपि सिद्धिर् दृश्यते श्रद्धया हेलया वा इत्य् आदौ ।
हेला त्व् अपराध-रूपाद्य्-अबुद्धि-पूर्वक-कृता चेद् दौरात्म्याभावे न
भक्त्या बाध्यत इत्य् उक्तम् एव । ज्ञान-बल-दुर्विदग्धादौ तु तद्-
वैपरीत्येन बाध्यते । यथा मत्सरेण नामादिकं गृह्णाति वेणे । क्वचिद्
वस्तु-शक्तिर् बाधिता दृश्यते । आर्द्रेन्धनादौ वह्नि-शक्तिर् इव ।
श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्य् अपि ।
भूर्य् अप्य् अभक्तोपहृतं न मे तोषाय कल्पते ॥ [भ्प् 11.27.18]
इत्य् अत्र श्रद्धा-भक्ति-शब्दाभ्याम् आदर एवोच्यते । स तु भगवत्-तोष-
लक्षण-फल-विशेषस्योत्पत्तावनादर-लक्षण-तद्-विघातकापराधस्य
निरसन-परः । तस्मात् श्रद्धा न भक्त्य्-अङ्गं किन्तु कर्मण्य् अर्थि-
समर्थ-विद्वत् तावद् अनन्यताख्यायां भक्तौ अधिकारि-विशेषणम् एवेत्य्
अतएव तद्-विशेषणत्वेनैवोक्तं यदृच्छया मत्-कथादौ जात-श्रद्धस् तु
यः पुमान् [भ्प् 11.20.8] इति, जात-श्रद्धो मत्-कथासु [भ्प् 11.20.27] इति च ।
अत्र ताम् आरभ्येत्य् अर्थेन ल्यब्-लोपे पञ्चम्य्-अन्तेन तत इति
पदेनानवधिक-निर्देशेनात्मारामतावस्थायाम् अपि सा केषांचित् प्रवर्तत
इति तस्याः साम्राज्यम् अभिप्रेतम् । अनन्तरं च वक्ष्यते न किञ्चित् साधवो
धीराः [भ्प् 11.20.34] इति । अतः साम्राज्य-ज्ञापनया तां विना कर्म-ज्ञाने अपि
न सिध्यत इति च ज्ञापितम् । तद् एवम् अनन्य-भक्त्य्-अधिकारे हेतुं श्रद्धा-
मात्रम् उक्त्वा स यथा भजेत् तथा शिक्षयति स श्रद्धालुर् विश्वासवान् ।
प्रीतो जातायां रुचाव् आसक्तः । दृढ-निश्चयः साधनाध्यवसाय-भङ्ग-
रहितः सन् सहसा त्यक्तुम् (पगे 82) असमर्थत्वात् कामान् जुषमाणश् च
गर्हयंश् च । गर्हणे हेतुः - दुःखोदर्कान् शोकादि-कृद्-उत्तर-कालान् इति ।
अत्र कामा अपाप-करा एव ज्ञेयाः । शास्त्रे कथञ्चिद् अप्य्
अन्यानुविधानायोगात् । प्रत्युत --
पर-पत्नी-पर-द्रव्य-पर-हिंसासु यो मतिम् ।
न करोति पुमान् भूप तोष्यते तेन् केशवः ॥ [विप् 3.8.14]
इति विष्णु-पुराण-वाक्यादौ कर्मार्पणात् पूर्वम् एव तन्-निषेधात् । अत्रैव

च निष्काम-कर्मण्य् अपि यद्य् अन्यन् न समाचरेत् [भ्प् 11.20.10] इति
वक्ष्यमाण-निषेधात् । कर्म-परित्याग-विधानेन सुतरां दुष्कर्म-
परित्याग-प्रत्यासत्तेः । विष्णु-धर्मे --
मर्यादां च कृतां तेन यो भिनत्ति स मानवः ।
न विष्णु-भक्तो विज्ञेयः साधु-धर्मार्चितो हरिः ॥
इति वैष्णवेष्व् अपि तन्-निषेधात् ।
यत्-पाद-सेवाभिरुचिस् तपस्विनाम्
अशेष-जन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्य् अन्वहम् एधती सती
यथा पदाङ्गुष्ठ-विनिःसृता सरित् ॥ [भ्प् 4.21.31]
इत्य् अत्र सद्यः-शब्द-प्रयोगेण जात-मात्र-रुचीनाम् --
यदा नेच्छति पापानि यदा पुण्यानि वाञ्छति ।
ज्ञेयस् तदा मनुष्येण हृदि तस्य हरिः स्थितः ॥ इति विष्णु-धर्मे ।
नियमेन - विकर्म य चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः
[भ्प् 11.5.38] इत्य् अत्रापि कथञ्चित् शब्द-प्रयोगेण लब्ध-भक्तीनां च स्वतस्
तत्-प्रवृत्त्य्-अयोगात् । नाम्नो बलाद् यस्य हि पाप-बुद्धिर् न विद्यते तस्य
यमैर् हि शुद्धिः इति पाद्मे नामापराध-भञ्जन-स्तोत्रादौ हरि-भक्ति-
बलेनापि तत्-प्रवृत्ताव् अपराधापाताच् च । अपि चेत् सुदुराचारः [गीता 9.30] इति
तु तद्-अनादर-दोष-पर एव, न तु दुराचारता-विधान-परः । क्षिप्रं
भवति धर्मात्मा [गीता 9.31] इत्य् अनन्तर-वाक्ये दुराचारतापगमस्य
श्रेयस् त्व् अनिर्देशाद् इति ॥
॥ 11.20 ॥ श्री-भगवान्

6.175

[173]
नन्व् एवं केवलानां कर्म-ज्ञान-भक्तीनां व्य्वस्थोक्ता । नित्य-नैमित्तिकं
कर्म तु सर्वेष्व् आवश्यकं, तर्हि साङ्कर्ये कथं शुद्धे ज्ञान-भक्ती
प्रवर्तेयातां तद् एतद् आशङ्क्य तयोः कर्माधिकारितां वारयति ।
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ [भ्प् 11.20.9]
कर्माणि नित्य-नैमित्तिकादीनीति टीका च । अतएव -
श्रुति-स्मृती ममैवाज्ञे यस् ते उल्लङ्घ्य वर्तते ।
आज्ञा-च्छेदी मम द्वेषी मद्-भक्तोऽपि न वैष्णवः ॥
इत्य् उक्त-दोषोऽप्य् अत्र नास्ति आज्ञा-करणात् । प्रत्युत तयोर् अपि निर्वेद-
श्रद्धयोस् तत्-करण एवाज्ञा-भङ्गः स्यात् । यथा च व्याख्यातम् आज्ञायैव
गुणान् दोषान् [भ्प् 11.11.32] इत्य् अस्य (पगे 83) टीकायां - भक्ति-दार्ढ्येन
निवृत्ताधिकारतया सन्त्यज्येति । निवृत्ताधिकारित्वं चोक्तं श्रीकर-भाजनेन
देवर्षि-भूताप्त-नृणां पितॄणां
न किङ्करो नायम् ऋणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं
गतो मुकुन्दं परिहृत्य कर्तम् ॥ [भ्प् 11.5.41]
इति तेषां न किङ्करः किन्तु श्री-भगवत एव इत्य् अनधिकारित्वम् । कर्तं
कृत्यम् । कर्तं भेदम् इत्य् अर्थे ततो देवतादीनां स्वातन्त्र्यम् इति यावत् ।
एवम् एवोक्तं गारुडे -
अयं देवो मुनिर् वन्द्य एष ब्रह्मा बृहस्पतिः ।
इत्य् आख्या जायते तावद् यावन् नार्चयते हरिम् ॥ [गर्प् 1.235.20]
न च विकर्म-प्रायश्चित्त-रूपं कर्मान्तरं कर्तव्यं तस्य तच्-छरणस्य
विकर्म-प्रवृत्त्य्-अभावात् । कथञ्चिद् आपतितेऽपि विकर्मणि तद्-
अनुस्मरणेनैव प्रायश्चित्तस्याप्य् आनुषङ्गिक-सिद्धिर् इत्य् अप्य् उक्तम्
अनन्तर-पद्येनैव --
स्व-पाद-मूलं भजतः प्रियस्य
त्यक्तान्य-भावस्य हरिः परेशः ।
विकर्म यच् चोत्पतितं कथञ्चिद्
धुनोति सर्वं हृदि सन्निविष्टः ॥ [भ्प् 11.5.42] इति ।
त्यक्तोऽन्यत्र देवतान्तरे भगवतीव भावो भक्तिर् येनेति व्याख्येयम् । अत्र
कर्म-परित्याग-हेतुत्वेनाभिधानात् श्रद्धा-शरणापत्त्योर् ऐकार्थ्यं
लभ्यते, तच् च युक्तम् । श्रद्धा हि शास्त्रार्थ-विश्वासः । शास्त्रं च तद्-
अशरणस्य भयं तच्-छरणस्याभयं वदति । ततो जातायाः श्रद्धायाः
शरणापत्तिर् एव लिङ्गम् । न च वेदादीनां तर्पण-मात्र-तात्पर्येणापि
पृथक्-पृथग्-आराधनं कर्तव्यम् । यथा तरोर् मूल-निषेचनेन [भ्प्
4.31.12] इत्य् आदौ तत्-पौनरुक्त्य-प्राप्तेः । न च त्यक्त-कर्मणो मध्ये
विघ्न-स्थगितायाम् अपि भक्तौ तत्-त्यागानुतापो युज्यते - त्यक्त्वा स्व-
धर्मं [भ्प् 1.5.17] इत्य्-आद्य्-उक्तेः । श्री-गीतासु -
सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता 18.66]
इत्य् अस्य देवर्षि-भूताप्त-नॄणां [भ्प् 11.5.37] इत्य् आदि-द्वयेनैकार्थ्यं
दृश्यते । अतो भक्त्य्-आरम्भ एव तु स्वरूपत एव कर्म-त्यागः कर्तव्यः ।
परित्यज्येत्य् अत्र परिशब्दस्य हि तथैवार्थः । गौतमीये च -
न जपो नार्चनं नैव ध्यानं नापि विधि-क्रमः ।
केवलं सततं कृष्ण-चरणाम्भोज-भाविनाम् ॥ [गौतमीयत् 33.57]
मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु । [गीता 9.34] इत्य्
आदिना चानन्याम् एव भक्तिम् उपदिदेश । यथा विष्णु-पुराणेऽपि भरतम्
उद्दिश्य -
यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कृष्ण विष्णो हृषीकेशेत्य् आह राजा स केवलम् ।
नान्यज् जगाद मैत्रेय किञ्चित् स्वप्नान्तरेष्व् अपि ॥ [विप् ?]
अत्र वचनान्तरस्यानवकाशात् । सुतराम् एव तद्-वचनमय-कर्मान्तर-
परित्यागोऽङ्गीकृतः । कथञ्चित् (पगे 84) क्रियमाणम् अपि तन्-नाम्नैव
कृतम् इत्य् अवगतेश् च सर्वत्र तद्-ईक्षणाच् छुद्ध-भक्तित्वम्
एवाङ्गीकृतम् । यथोक्तं पाद्मे -
सर्व-धर्मोज्झिता विष्णोर् नाम-मात्रैक-जल्पकः ।
सुखेन यां गतिं यान्ति न तां सर्वेऽपि धर्मिकाः ॥ [पद्मप् 6.71.99] इति ।
तस्मान् मतान्तरेणाप्य् उचितः श्रद्धावतोऽनन्य-भक्त्य्-अधिकारः कर्माद्य्-
अनधिकारश् चेति । किन्तु श्रद्धा-सद्-भाव एव कथं जायते इति विचार्यम् ।
तत्र च लिङ्गत्वेन पूर्वं शरणापत्तिर् उपदिष्टैव । यस्माच् च शरणापत्तौ
वक्ष्यमाणानि आनुकूल्यस्य सङ्कल्पः इत्य् आदीनि लिङ्गानि । तथा व्यवहार-
कार्पण्याद्य्-अभावोऽपि श्रद्धा-लिङ्गं ज्ञेयम् । शास्त्रं हि तथैव श्रद्धाम्
उत्पादयति ।
अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥ [गीता 9.22]
किं च श्रद्धावतः पुरुषस्य भगवत्-सम्बन्धि-द्रव्य-जाति-गुण-
क्रियाणां शास्त्रे श्रूयमाणेष्व् ऐहिक-व्यवहारिक-प्रभावेष्व् अपि न
कथञ्चिद् अनाश्वासो भवति । ततस् तासु प्राकृत-द्रव्यादि-साधारण-दृष्ट्या
दोष-विशेषानुसन्धानतो न कदाचिद् अप्रवृत्तिः स्यात् । ते च तादृश-
प्रभावाः --
अकाल-मृत्यु-शमनं सर्व-व्याधि-विनाशनम् ।
सर्व-दुःखोपशमनं हरि-पादोदकं स्मृतम् ॥ [नार्प् 37.16] इत्य् आदयः ।
केचित् तु तत्र श्रद्धावन्तोऽपि स्वापराध-दोषेण सम्प्रति तत् फलं
नोदेष्यतीति स्थगितायन्ते । यत् तु यः स्मरेत् पुण्डरीकाक्षं स
बाह्याभ्यन्तर-शुचिः इत्य् आदौ श्रद्दधाना अपि स्नानादिकम् आचरन्ति । तत्
खलु श्रीमन्-नारद-व्यासादि-सत्-परम्पराचार-गौरवाद् एव । अन्यथा तद्-
अतिक्रमेऽप्य् अपराधः स्यात् । ते च तथा मर्यादां लोकस्य कदर्य-वृत्त्यादि-
निरोधायैव स्थापितवन्त इति ज्ञेयम् ।
किं च, जातायां श्रद्धायां सिद्धे वासिद्धौ च स्वर्ण-सिद्धि-लिप्सोर् इव सदा
तद्-अनुगति-चेष्टैव स्यात् । सिद्धिश् चात्रान्तःकरण-कामादि-दोष-क्षय-कारि-
परमानन्द-परमाकाष्ठा-गामि-श्री-हरि-स्फुरण-रूपैव ज्ञेया । तस्यां
स्वार्थ-साधनानुप्रवृत्तौ च दम्भ-प्रतिष्ठादि-लिप्सादि-मय-चेष्टा-
लेशोऽपि न भवति । न तेषां सुतरां ज्ञान-पूर्वकं महद्-
अवज्ञादयोऽपराधाश् चापतन्ति, विरोधाद् एव । अतएव चित्रकेतोः श्री-
महादेवापराधः तस्य स्व-चेष्टान्तरेणाच्छन्न-स्वभावस्य भागवत-
तत्त्व-ज्ञानाद् एव मन्तव्यः । यदि वा श्रद्धावतोऽपि प्रारब्धादि-वशेन
विषय-सम्बन्धाभ्यासो भवति । तथापि तद्-बाधया विषय-सम्बन्ध-
समयेऽपि दैन्यात्मिका भक्तिर् एवोच्छलिता स्यात् । यथोक्तं - जुषमाणश् च
तान् कामान् दुःखोदर्कांश् च गर्हयेत् [भ्प् 11.14.17] इत्य् अत्र बाध्यमानोऽपि
मद्-भक्तः [भ्प् 11.14.18] इत्य् आदौ च ।
अपि चेत् सुदुराचारः [गीता 9.30] इत्य्-आद्य्-उक्तस्यानन्य-भाक्त्वेन लक्षिता तु
या श्रद्धा सा खलु ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्विताः [गीता
17.1] इतिवल् लोक-परम्परा-प्राप्ता, न तु शास्त्रावधारण-जाता । शास्त्रीय-
श्रद्धायां तु जातायां सुदुराचारत्वायोगः स्यात् । पर-पत्नी-पर-द्रव्य-
[विप् 3.8.14] (पगे 85) इत्य्-आदि-विष्णु-तोषण-शास्त्र-विरोधात् । मर्यादां कृतां
तेन इत्य् आदिना तद्-भक्तत्व-विरोधाच् च । न तु सा दुराचारता तद्-भक्ति-
महिम-श्रद्धाकृतैव । अपि-शब्देन दुराचारत्वस्य हेयत्व-व्यञ्जनात् ।
तथा क्षिप्रं भवति धर्मात्मा इत्य्-उत्तराप्रतिपत्तेः । नाम्नो बलाद् यस्य

हि पाप-बुद्धिः इत्य् आदिनापराधापाताच् च ।
ततः सा श्रद्धा न शास्त्रीय-भक्त्य्-अधिकारिणां विशेषणत्वे प्रवेशनीया,
किन्तु भक्ति-प्रशंसायाम् एव । तादृश्यापि श्रद्धया भक्तेः सत्त्व-हेतुत्वं
न तु देवान्तर-यजनवत् । ये शास्त्र-विधिम् उत्सृज्य [गीता 17.1] इत्य्-आदाव्
एवोक्तम् अन्यादृशत्वम् इति ।
अस्याः श्रद्धायाः पूर्णतावस्था तु ब्रह्म-वैवर्ते -
किं सत्यम् अनृतं चेति विचारः सम्प्रवर्तते ।
विचारेऽपि कृते राजन्न् असत्य-परिवर्जनम् ।
सिद्धं भवति पूर्णा स्यात् तदा श्रद्धा महा-फला ॥
तद् एवं-लक्सणेषु श्रद्धोत्पत्ति-लक्षणेषु सत्सु विधीयते । मत्-कथा-
श्रवणादौ वा [भ्प् 11.20.9] इत्य् आदि च । अतएवानधिकार्य्-अधिकारि-विषयत्व-
विवक्षयैव श्री-भगवन्-नारदयोर् वाक्ये व्यवतिष्ठते -
न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् ।
जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥ [गीता 3.26] इत्य् आदि ।
जुगुप्सितं धर्म-कृतेऽनुशासतः
स्वभाव-रक्तस्य महान् व्यतिक्रमः ।
यद्-वाक्यतो धर्म इतीतरः स्थितो
न मन्यते तस्य निवारणं जनः ॥ [भ्प् 1.5.15] इति च ।
एवम् अजित-वाक्यं च तद्-अधिकारि-विषयम् एव -
स्वयं निःश्रेयसं विद्वान् न वक्त्य् अज्ञाय कर्म हि ।
न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तमः ॥ इति ।
अत्र यद्यप्य् अधिकारितायां श्रद्धैव हेतुः सा चाज्ञस्य न सम्भवतीति
नैतत् तद्-विषयं स्यात् । तथापि कथम् अपि प्राचीन-संस्कार-वितर्केण तद्-
अधिकारित्व-निर्णयान् न दोष इति ज्ञेयम् । अन्यथोपदेष्टुर् एव दोषापातः
स्यात् । अश्रद्दधाने विमुखेऽप्य् अशृण्वति यश् चोपदेशः इति
वक्ष्यमाणापराध-श्रवणात् ।
अथ प्रकृतम् अनुसरामः । तद् एवं योग-त्रयं तद्-अधिकार-हेतुश् चोक्त्वा
कर्मणोऽपि यथा भगवत्-सम्मुख्य-रूपत्वं स्यात् तथाह -
स्व-धर्म-स्थो यजन् यज्ञैर् अनाशीः-काम उद्धव ।
न याति स्वर्ग-नरकौ यद्य् अन्यन् न समाचरेत् ॥
अस्मिṟ लोके वर्तमानः स्व-धर्म-स्थोऽनघः शुचिः ।
ज्ञानं विशुद्धम् आप्नोति मद्-भक्तिं वा यदृच्छया ॥ [भ्प् 11.20.12-13]
अनाशीः कामोऽफल-कामः । अन्यन् निषिद्ध्## । नरक-यानं हि द्विधैव
भवति विहितान्तिक्रमान् निषिद्धाचरणाद् वा । अतः स्व-धर्म-स्थत्वान्
निषिद्ध-वर्जनाच् च नरकं न याति । अफल-कामत्वान् न स्वर्गम् अपीत्य्
अर्थः । किन्त्व् अस्मिन् लोके अस्मिन्न् एव देहे अनघो निषिद्ध-परित्यागी । अतः
शुचिर् निवृत्त-रागादि-मलः । यदृच्छयेति केवल-ज्ञानाद् अपि भक्ते
दुर्लभतां द्योतयतीत्य् एषा ।(पगे 86)
अत्राफल-कामत्वं केवलेश्वराज्ञा-बुद्ध्या कुर्वाणत्वम् । अत्र ज्ञानि-सङ्गे
सति तन्-मात्रत्वम् एव भगवद्-अर्पणं भवेत् । भक्त-सङ्गे तु
सतोषमयत्वम् अतो यदृच्छयेति पूर्ववद् भक्त-सङ्ग-तत्-कृपा-लक्षणं
भाग्यं बोधितम् । यद् उक्तम् एतावान् एव यजताम् [भ्प् 2.3.11] इत्य् आदि । तद्
एवं कर्मार्पण-केवल-ज्ञान-केवल-भक्तयोऽधिकारि-भेदेन
व्यवस्थापिताः ।
अतः स्वाधिकारानुसारेणैव स्थातव्यम् इत्य् आह --
स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः [भ्प् 11.21.2] स्पष्टम् ।
॥ 11.21 ॥ श्री-भगवान्

6.177

[176]
तत्र साम्मुख्य-द्वार-भूतस्य कर्मणः साक्षात्-साम्मुख्य-रूप-ज्ञान-
भक्त्य्-उदय-पर्यन्तत्वात् स्वयम् एव ताभ्यां न्यक्कारः । तत्र साक्षात्-
साम्मुख्ये च निर्विशेष-साम्मुख्यं ज्ञानम् । स-विशेषस्यापि तत्त्वस्य
भगवत्त्वं परमात्मत्वं चेति मुख्यम् आविर्भाव-द्वयम् इति । स-विशेष-
साम्मुख्य-रूपाया भक्तेस् तु मुख्यं भेद-द्वयं च भगवन्-
निष्ठत्वं परमात्म-निष्ठत्वं च । तद् एतत् त्रयं तत्र श्री-गीतासूक्तम् ।
तत्र अक्षरं ब्रह्म परमम् [गीता 8.3] इत्य् अक्षर-शब्देन पूर्वोक्तं
ब्रह्म । तत्-साम्मुख्य-रूपं ज्ञानात्मकम् उपासनं चोत्तरोक्तं यथा -
यद् अक्षरं वेद-विदो वदन्ति [गीता 8.11] इत्य् आदि । यथा परमात्मानम् अपि
पुरुषश् चाधिदैवतम् [गीता 8.4] इति, अधियज्ञोऽहम् एवात्र देहे देहभृतां
वर [गीता 8.4] इति च, विराड् व्यष्टि-रूपाधिष्ठान-द्वय-भेदेन भिन्न-
प्रायम् उक्त्वा भक्ति-रीति-द्वयी तयोर् एक-प्राया दर्शिता । अभ्यास-योग-
युक्तेन [गीता 8.8] इत्य्-आदिनैका । कवि-पुराणम् अनुशासितारम् [गीता 8.9] इत्य्
आदिनान्या । तथा मत्-शब्दोक्त-श्री-कृष्णाख्यस्य भगवद्-भक्ति-प्रकाशश्
चायम् --
अनन्य-चेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्य-युक्तस्य योगिनः ॥ [गीता 8.14]
तद् एतत् साम्मुख्य-त्रयं श्री-कपिल-देवेनाप्य् उक्तम् ।
ज्ञान-मात्रं परं ब्रह्म परमात्मेश्वरः पुमान् ।
दृश्य्-आदिभिः पृथग् भावैर् भगवान् एक ईयते ॥ [भ्प् 3.32.26] इति ।
दृशिर् ज्ञानं पृथक् परम्परम् अन्यादृशो भावो भावना । येष्यु
तथाविधैर् ज्ञानादिभिर् एक एव परिपूर्ण-स्वरूप-गुणः परं ब्रह्मेयते
परमात्मेयते भगवांश् चेयते । तत्र ज्ञानेन पर-ब्रह्मतया ज्ञायते ।
भक्ति-विशेषेण परमात्मतया पूर्णया भक्त्या भगवत्तयेति ज्ञेयम् ।
पर-ब्रह्मणः स्वरूप-लक्षणं ज्ञान-मात्रम् इति परमात्मन ईश्वरः
पुमान् इति । भगवतो भगवान् इत्य् एव । विवृतं चैतत् साम्मुख्य-त्रयं
भगवत्-परमात्म-सन्दर्भयोः । ब्रह्मणः तथापि भूमन् [भ्प् 10.14.6]
इत्य् आदिना । परमात्मनः केचित् स्वदेहान्तर्-हृदयावकाशे प्रादेश-मात्रं
पुरुषं वसन्तम् [भ्प् 2.2.8] इत्य् आदिना । भगवतो भक्ति-योगेन मनसि
[भ्प् 1.7.4] इत्य् आदिना च ।
तथा च यद्यपि साम्मुख्यत्वेनाविशिष्टं ज्ञानादि-त्रयम् अपि तद्
वैमुख्य-प्रतियोगि भवेत् । तथापि (पगे 87) श्रेयः-सृतिं भक्तिम् उदस्य
ते विभो [भ्प् 10.14.4] इत्य् आदिना भक्तिं विना केवल-ज्ञानस्याकिञ्चित्करत्वात्
तत्रापि च तस्मान् मद्-भक्ति-युक्तस्य [भ्प् 11.20.31] इत्य् आदौ भक्तेस् तन्-
निरपेक्षत्वात् यत् कर्मभिर् यत् तपसा [भ्प् 11.20.32] इत्य् आदाव् आनुसङ्गिक-
सर्व-फलत्वाच् च ज्ञानम् अपि न्यक्कृतम् ।
ततोऽवशिष्टायां स-विशेषोपासन-रूपायां, भक्तौ च श्री-विष्णु-रूपम्
अबहु-मन्यमानाः केचिन् निराकारेश्वरस्य वोपासनां यां मन्यन्ते सापि
न्यक्कृतास्ति । यतो हिरण्यकशिपोर् अपि नित्य आत्माव्ययः शुद्धः [भ्प् 7.2.18]
इत्य् आदि-तद्-वाक्येन यदृच्छयेशः सृजतीदम् अव्ययः [भ्प् 7.2.34] इत्य्-आदि-तद्-
उदाहृतेतिहास-वाक्येन तत्-कृत-ब्रह्म-स्तवेन च ब्रह्म-ज्ञानं
निराकारेश्वर-ज्ञानम् अन्याकारेश्वर-ज्ञानं तस्यास्तीति वर्ण्यते । श्री-विष्णौ
देवता-सामान्य-दृष्टेर् निन्द्यते च स इति । तथान्यत्राहंग्रहोपासना च
न्यक्कृता, पौण्ड्रक-वासुदेवादौ यदुभिर् इव शुद्ध-भक्तैर्
उपहास्यत्वात् । सालोक्य-सार्ष्टि-सारूप्य- [भ्प् 3.29.11] इत्य्-आदिषु तत्-फलस्य
हेयतया निर्देशात् । तद् उक्तं श्री-हनुमता को मूढो दासतां प्राप्य
प्राभवं पदम् इच्छति इति । तद् एतत् सर्वम् अभिप्रेत्य् निष्किञ्चनां भक्तिम्
एव तादृश-भक्त-प्रशंसा-द्वारेण सर्वोर्ध्वम् उपदिशति,
न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम ।
वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम् ॥ [भ्प् 11.20.34]
टीका च - धीरा धीमन्तो यतो ममैकान्तिनो मय्य् एव प्रीति-युक्ताः । अतो
मया दत्तम् अपि न गृह्णन्ति, किं पुनर् वक्तव्यं न वाञ्छन्तीत्य् अर्थः ।
अपुनर्-भवम् आत्यन्तिक-कैवल्यम् इत्य् एषा ।
ईदृशाम् एकान्तिनाम् एव परम-महिमा गारुडे --
ब्राह्मणानां सहस्रेभ्यः सत्र-याजी विशिष्यते ।
सत्र-याजि-सहस्रेभ्यः सर्व-वेदान्त-पारगः ॥
सर्व-वेदान्त-वित्-कोट्यां विष्णु-भक्तो विशिष्यते ।
वैष्णवानां सहस्रेभ्यः एकान्त्य् एको विशिष्यते ॥ इति ।
यस्माद् एवं सर्वानन्दातिक्रम-लिङ्गेन परमानन्द-स्वरूपासौ भक्तिस्
तस्मात् तत्र स्वभावत एव प्रवृत्तिर् गुणः । तथाभूताम् अपि तन्-माधुरीं
स्वदोषेणानुभवितुम् असमर्थानां तु केवल-विधि-निषेध-सम्भव-गुण-
दोष-दृष्ट्यैवप्रवृत्तिर् अपि पूर्वापेक्षया दोष एव । यथोक्तम् एतत्
पूर्वाध्याये शमो मन्-निष्ठता-बुद्धिः [भ्प् 11.19.33] इत्य् आदौ, साक्षाद्-
भक्तेर् अपि विधानाविधानयोर् गुण-दोषतां किं वर्णितेन बहुना [भ्प्
3.29.11] इत्य् अन्तेन ग्रन्थेन प्रतिपाद्य गुण-दोष-दृशिर् दोषो गुणस् तूभय-
वर्जितः [भ्प् 11.19.43] इति । अतएव लब्ध-तन्-माधुर्यानुभावनां तद्-विधि-
निषेध-कृत-गुण-दोषौ नस् त एवेत्य् आह न मय्य् एकान्त-भक्तानां गुण-
दोषोद्भवा गुणाः [भ्प् 11.20.36] ।
टीका च -- गुण-दोषैर् विहित-प्रतिषिद्धैर् उद्भवा येषां ते गुणाः पुण्य-
पापादय इत्य् एषा ।
॥ 11.20 ॥ श्री-भगवान्

6.22

[178]
इयम् अकिञ्चनाख्या भक्तिर् एव जीवानां स्वभावत उचिता । स्वाभाविक-तद्-
आश्रया हि जीवाः । स कारणं कारणाधिपाधिपः इति श्रुतेः । अंशत्वेऽपि
बहिरङ्गव-स्वीकारात् तद्-आश्रयत्वं सूर्य-मण्डल-बहिर्-आतप-
परमाणूनाम् इव । अतएव पाद्मोत्तर-खण्डे प्रणव-व्याख्याने - (पगे
88)
अकारश् चाप्य् उ-कारश् च म-कारश् च ततः परम् ।
वेद-त्रयात्मकं प्रोक्तं प्रणवं ब्रह्मणः पदम्

6.178

अकारेणोच्यते विष्णुः श्रीर् उकारेण चोच्यते ।
म-कारस् त्व् अनयोर् दासः पञ्चविंशः प्रकीर्तितः ॥ [पद्मप् 6.226.22-23]
अन्ते च-बहगवच्-छेष-रूपोऽसौ म-काराख्यः स-चेतनः इति । तथा --
अवधारण-वाच्य् एवम् उ-कारः कैश्चिद् उच्यते ।
श्रीश् च तत्-पक्ष-पातित्वाद् अ-कारेणैव चोच्यते ।
भास्करस्य प्रभा यद्वत् तस्य नित्यानपायिनी ॥ [पद्मप् 6.226.29-30] इत्य्
आदि ।
अतएव श्री-वैष्णवानां प्रणव एव महा-वाक्यम् इति स्थितम् ।
तथाष्टादशाक्षर-व्याख्याने -
श्रीमते विष्णवे तस्मै दास्यं सर्वं करोम्य् अहम् ।
देश-कालाद्य्-अवस्थासु सर्वासु कमलापतेः ॥
इति स्वरूप-संसिद्धं सुखं दास्यम् अवाप्नुयात् ।
एवं विदित्वा मन्त्रार्थं तद् भक्तिं सम्यग् आचरेत् ॥
दास-भूतम् इदं तस्य जगत् स्थावर-जङ्गमम् ।
श्रीमन्-नारायणः स्वामी जगतां प्रभुर् ईश्वरः ॥ [पद्मप् 6.226.36-38] इति ।
तद् एतद् आहुः -
स्व-कृत-पुरेष्व् अमीष्व् अबहिर्-अन्तर-संवरणं
तव पुरुषं वदन्त्य् अखिल-शक्ति-धृतोऽंश-कृतम् ।
इति नृ-गतिं विविच्य कवयो निगमावपनं
भवत उपासतेऽङ्घ्रिम् अभवं भुवि विश्वसिताः ॥ [भ्प् 10.87.20]
स्वयेन त्वा कृतेषु परेषु देहेषु वर्तमानं पुरुषं जनं तवैवांश-
रूपेण कृतं नित्य-सिद्धं वदन्ति । तत्राखिल-शक्ति-धृतस् तव इत्य् उक्त्वा तद्-
अखिल-शक्ति-गुणान्तः-पाति-जीवाख्य-तटस्थ-शक्ति-विशिष्टस्यैव तवांशो न
तु स्वरूप-शक्ति-विशिष्टस्य केवल-स्वरूपस्येत्य् आयातम् । ततो मूल-मण्डल-
स्थानीय-त्वद्-आश्रयकस् त्वदेवजीवनश् चासौ जीव इति तत्त्वं विविच्य ज्ञात्वा
कवयः पण्डिताः विश्वसिताः श्रद्दधाना भवत एवाङ्घ्रिम् उपासते ।
विश्वासे हेतुर् निगमावपनं सकल-वेद-बीजोज्जीवनैकाश्रय-क्सेत्रं शास्त्र-
योनिम् इत्य् अर्थः । अतो नित्यत्वाश्रयैक-जीवनानाम् अपि तेषां त्वद्-
वैमुख्येन यत् संसार-दुःखं भवति तद् अपि स्वयम् एव पलायत इत्य्
आहुः अभवम् इति । न विद्यते भवः संसारो यत्रेति । अथवा भजनीयस्य
नित्यत्वेन भक्तेर् अप्य् अनश्वरत्वं प्रतिपादयन्ति अभवं जन्म-रहितम्
अङ्घ्रिम् इति । तस्माद् अकिञ्चानाख्या भक्तिर् एव सर्वोर्ध्वम् अभिधेया ॥
॥ 10.87 ॥ श्रुतयः श्री-भगवन्तम्

6.179

[179]
अथ तस्या एव प्रकारान्तरेण स्थापनाय प्रकरणान्तरं यावत्-तल्-लक्षण-
प्रकरणम् । तद् एवं परम-दुर्लभ-स्वरूपं परम-दुर्लभ-फलं
चाकिञ्चनाख्य-साक्षाद्-भक्ति-रूपं साम्मुख्यं कथं स्याद् इति वक्तुं
साम्मुख्य-मात्रस्य निदानम् उपलक्षयति । (पगे 89)
भवापवर्गो भ्रमतो यदा भवेज्
जनस्य तर्ह्य् अचुत सत्-समागमः ।
सत्-सङ्गमो यर्हि तदैव सद्-गतौ
परावरेशे त्वयि जायते मतिः ॥ [भ्प् 10.51.53]
यदा भ्रमतः संसरतो भवापवर्गो भवेत् सम्प्राप्त-कालः स्यात्, तदा
सत्-सङ्गमो भवेत् । तदा भवापवर्गो भवेद् इति वक्तव्ये वैपरीत्येन
निर्देशस् तत्र सत्-सङ्गमस्य श्रीघ्रतयावश्यकतया च हेतुता-विवक्षया
तथोक्तं नलकूवर-मणिग्रीवौ प्रति श्री-भगवता --
साधूनां सम-चित्तानां सुतरां मत्-कृतात्मनाम् ।
दर्शनान् नो भवेद् बन्धः पुंसोऽक्ष्णोः सवितुर् यथा ॥ [भ्प् 10.10.41] इति ।
अतएवातिशयोक्ति-नामालङ्कारस्य चतुर्थो भेदोऽयम् इत्य् आलङ्कारिकाः । तद्
उक्तं तद्-विवृत्तौ -
चतुर्थी सा कारणस्य गदितुं शीघ्र-कारिताम् ।
या हि कार्यस्य पूर्वोक्तिः इति ।
तत्र हेतुर् यर्हि यदा सत्-सङ्गमस्य दैव-परावरेशे त्वयि मतिर् भवति
तद्-वैमुख्य-करान् आदि-सिद्ध-तज्-ज्ञान-संसर्गाभावान्ते तत्-
साम्मुख्यकरं तज् ज्ञानं जायत इत्य् अर्थः । अतएवोक्तं श्री-विदुरेण -
जनस्य कृष्णाद् विमुखस्य दैवाद्
अधर्म-शीलस्य सुदुःखितस्य ।
अनुग्रहायेह चरन्ति नूनं
भूतानि भव्यानि जनार्दनस्य ॥ [भ्प् 3.5.3] इति ।
अत्र दैवात् प्राचीन-कर्मणो हेतोस् तदावेशाद् अधर्म-शीलस्य भगवद्-
धर्म-रहितस्येत्य् अर्थः । मूल-पद्ये यर्हि यदेति निर्देशान् न काल-
विलम्बेन । तत्र चैवकारान् नान्यदा कदाचिद् अपीत्य् अर्थः । तेन तन्-मतौ
हेतुः सद्-गतौ यत्र यत्रसन्तः सङ्गच्छन्ते तत्र तत्र गतिः स्फुरणं
यस्य तस्मिंस् त्वयीति । तथा च इतिहास-समुच्चये -
यत्र रागादि-रहिता वासुदेव-परायणाः ।
तत्र सन्निहितो विष्णुर् नृपतेर् नात्र संशयः ॥ इति ।
सतां गताव् इत्य् अत्र व्याखानेऽपि असतां त्व् असौ न गतिः । अतस् तद्-
द्वारैवान्येषां तल्-लाभो युक्त इति पूर्ववद् एव । पिङ्गलाया अपि सत्-सङ्गे
विदेहानां पुरे ह्य् अस्मिन्न् अहम् एकैव मूढ-धीः [भ्प् 11.8.33] इत्य् अत्र
व्यक्तोऽस्ति । टीका च - सत्-सङ्गतौ सत्याम् अप्य् अहो मे मोह इत्य् आह
विदेहानाम् इति इत्य् एषा ।
तद् एवं यत्र नोपलभ्यते सत्-सङ्गस् तत्राप्य् आधुनिकः प्राक्तनो वा
पारम्परिको वानुमेय एव । अत्र कृत-श्री-नारदादि-दर्शनादेर् अपि
देवतादेः श्री-नलकूवरादिवत्तादृशत्व-प्राप्तिर् न श्रूयत इत्य् अत एवं
विवेचनीयम् । यद्यप्य् अपराध-सद्-भावो वर्तते पुरुषे तदा तद्-दोषेण
सत्सु निरादराणां साधारण-पुण्यादि-दृष्टीनां च तद्-दोष-शान्त्य्-अर्थं
सत्-सङ्गस्य भगवत्-साम्मुख्य-कारणत्वेऽपि तत्-कृपा-साहाय्यम् अपेक्षते ।
निरपराधत्वे सति तत्-सङ्गेनैव जात-परमोत्तम-दृष्टीनां तेषु
मनोऽवधानाभावेऽपि सत्-सङ्ग-मात्रं तत्-कारणम् इति । अतः सापराधान्
एवाधिकृत्योक्तम् अजान् अज-देवैः --
(पगे 90)
तान् वै ह्य् असद्-वृत्तिभिर् अक्षिभिर् ये
पराहृतान्तर्-मनसः परेश ।
अथो न पश्यन्त्य् उरुगाय नूनं
ये ते पदन्यास-विलास-लक्ष्याः ॥ [भ्प् 3.5.44]
ते तव पद-न्यास-विलास-क्षण्याः सम्बन्धिओ ये भक्ता इत्य् अर्थः । ते तान्
नूनं प्रायो न पश्यन्ति न कृपा-दृष्टि-विषयीकुर्वन्तीत्य् अर्थः । कान् ? य
असद्-वृत्तिभिः सापराध-चेष्टैर् अक्षिभिर् इन्द्रियैः पर-कृतान्तर्मनसो
दूरीकृतान्तर्मुख-चित्त-वृत्तयो बहिर्मुखा इत्य् एवं व्याख्यानम् अत्राप्य्
अनुसन्धेयम् । अत्र साधारणासद्-वृत्तित्वं न गृह्यते । सर्वस्य तत्-कृपायाः
प्राक् तथाभूतत्वात् । जनस्य कृष्णाद् विमुखस्य दैवाद् [भ्प् 3.5.3] इत्य्
आदिक-विषयं स्याद् इति तस्माद् अपराधासद्-वृत्तौ तेषां कृपा प्रवर्तत एव ।
कथञ्चिद् अपराधाभावेन तद्-अप्रवृत्ताव् अपि सङ्ग-मात्रेणैव तेषां
सम्मतिः स्यात् । यत्र तु सापराधेऽपि स्वैरतयैव कृपां कुर्वन्ति तस्यैव
तन्-मतिः स्यान् नान्यस्य नलकूवरवत् साधारण-देवतावच् चेति । तथा श्री-
भरतस्य रहूगणे यथा चोपरिचर वसोर् वृत्तं विष्णु-धर्मे-स हि देव-
साहाय्यायैव दैत्यान् हत्वा विरज्य च भगवद्-अनुध्यानाय पातालं च
प्रविष्टवान् । तं च निवृत्तम् अपि हन्तुं लब्ध-च्छिद्रा दैत्याः समागत्य
तत्-प्रभावेणोद्यत-शस्त्रा एवातिष्ठन् । ततश् च व्यर्थोद्यमाः पुनः
शक्रोपदेशेन तं प्रति पाषण्ड-मार्गम् उपदिशन्तोऽपि जातया तत्-कृपया
भगवद्-भक्ता बभूवुः [विध्प् 3.346] इति ।
अत उक्तं विष्णु-धर्म एव --
अनेक-जन्म-संसार-रचिते पाप-समुच्चये ।
नाक्षीणे जायते पुंसां गोविन्दाभिमुखी मतिः ॥ इति ।
ननु, नैतान् विहाय कृपणान् विमुमुक्ष एको नान्यं त्वद् अस्य शरणं
भ्रमतोऽनुपश्ये ॥ [भ्प् 7.9.44] इत्य् एवं श्री-प्रह्लादस्य सर्वस्मिन्न् अपि
संसारिणि कृपा जाता तर्हि कथं न सर्व-मुक्तिः स्यात् ? उच्यते, जीवानाम्
अनन्तत्वान् न ते सर्वे मनसि तस्यारूढा यावन्तो दृष्ट्वा श्रुतास् तच्-
चेतस्यारूढास् तावतां तत्-प्रसादाद् भविष्यत्य् एव मोक्षः । नैतान् इत्य् एतच्-
छब्द-प्रयोगात् । ये चान्ये तेषाम् अपि तत्-कीर्तन-स्मरण-मात्रेणैव
कृतार्थतावरं स्वयम् एव कृपया दत्तवान् श्री-नृसिंह-देवः --
य एतत् कीर्तयेन् मह्यं त्वया गीतम् इदं नरः ।
त्वां च मां च स्मरन् काले कर्म-बन्धात् प्रमुच्यते ॥ [भ्प् 7.10.14] इति ।
यस् त्वां कीर्तयेद् अपि किं पुनस् त्वं यान् कृपया स्मरसीति भावः । तस्मात्
साधूक्तं भवापवर्गो भ्रमतो यदा भवेद् इति ।
॥ 10.51 ॥ मुचुकुन्दः श्री-भगवन्तम्

6.180

[180]
ततः सत्-सङ्गस्यैव तत्र निदानत्वं सिद्धम् । तच् च युक्तम् अनादि-सिद्ध-
तज्-ज्ञानमय-तद्-वैमुख्यवताम् । अन्यथा हि तद्-असम्भवः । तद् उक्तम्
तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना
नासाव् ऋषिः यस्य मतं न भिन्नम् ।
धर्मस्य तत्त्वं निहितं गुहायां
महाजनो येन गतः स पन्थाः ॥ [म्भ् 3.313.117]
(पगे 91)
तथैव श्री-प्रह्लाद-वाक्यम् --
मतिर् न कृष्णे परतः स्वतो वा
मिथोऽभिपद्येत गृह-व्रतानाम् । [भ्प् 7.5.30]
इत्य् उपक्रम्य --
नैषां मतिस् तावद् उरुक्रमाङ्घ्रिं
स्पृशत्य् अनर्थापगमो यद्-अर्थः ।
महीयसां पाद-रजो-ऽभिषेकं
निष्किञ्चनानां न वृणीत यावत् ॥ [भ्प् 7.5.32]
तथा तद्-विमुख-कर्मादिभिस् तत्-साम्मुख्य-प्रतिपत्तेश् चात्यान्तायोगः ।
कृताकृताद् अन्यत्र भूताच् च भव्याच् च इति श्रुत्य्-आदेः । तम् एतम् आत्मानं
वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानशकेन [बौ
4.4.2] इति श्रुत्य्-आदिकं तु तत्-साम्मुखेनैव प्रयुक्तानि कर्माण्य्
अभिदधाति । तर्हि तद् एव साम्मुख्यं कथं स्याद् इति पुनर् अपि हेतुर् एव
प्रष्टव्यः स्यात् ।
अथ भगवत्-कृपैव तत्-साम्मुख्ये प्राथमिकं कारणम् इति च गौणम् ।
सा हि संसार-दुरन्तानन्त-सन्ताप-सन्तप्तेष्व् अपि तद्-विमुखेषु स्वतन्त्रा
न प्रवर्तते तद्-असम्भवात् । कृपा-रूपश् चेतो-विकारो हि पर-दुःखस्य स्व-
चेतसि पर्श सत्य् एव जायते । तस्य तु सदा परमानन्दैकरसत्वेनापहत-
कल्मषत्वेन च श्रुतौ जीव-विलक्षणत्व-साधनात् । तेजोमालिनस्
तिमिरायोगवत् तच्-चेतस्य् अपि तमोमय-दुःख-स्पर्शनासम्भवेन । तत्र
तस्या जन्मासम्भवः अतएव सर्वदा विराजमाणेऽपि कर्तुम् अकर्तुम् अन्यथा
कर्तुं समर्थे तस्मिंस् तद्-विमुखानां न संसार-सन्तापाः सन्ति । अतः सत्-
कृपैकावशिष्यते । सन्तोऽपि तदानीं यद्यपि सांसारिक-दुःखैर् न स्पृश्यन्त
एव तथापि लब्ध-जागराः स्वप्न-दुःखवत् ते कदाचित् स्मरेयुर् अपीत्य् अतस्
तेषां संसारिकेऽपि कृपा भवति । यथा श्री-नारदस्य नलकूवर-
मणिग्रीवयोः । तस्मात् प्रस्तुतेऽपि संसारिक-दुःखस्य तद्-धेतुत्वाभावात् ।
परमेश्वर-कृपा तु स एवात्र मम शरणम् इत्य् आदि-दैन्यात्मिका भक्ति-
सम्बन्धेनैव जायते, यथा गजेन्द्रादौ व्यतिरेके नारक्यादौ । भक्तिर् हि
भक्त-कोटि-प्रविष्ट-तद्-आर्द्रीभावयितृ-तच्-छक्ति-विशेष इति विवृतं
विवरिष्यते च । दैन्य-सम्बन्धेन च साध्व् इयम् उच्छलिता भवतीति तत्र
तद्-आधिक्यम् । तस्माद् या कृपा तस्य सत्सु वर्तते सा सत्-सङ्ग-वाहनैव वा
सत्-कृपा-वाहनैव वा सती जीवान्तरे सङ्क्रमते न स्वतन्त्रेति स्थितम् ।
तथैव चाहुः -
स्वयं समुत्तीर्य सुदुस्तरं द्युमन्
भवार्णवं भीमम् अदभ्र-सौहृदाः ।
भवत्-पदाम्भोरुह-नावम् अत्र ते
निधाय याताः सद्-अनुग्रहो भवान् ॥ [भ्प् 10.2.31]
हे द्युमन् स्व-प्रकाश भवत्-पदाम्भोरुह-लक्षणा या नौर् भवार्णव-
तरणोपायस् ताम् अत्र भवार्णव-पारे निधाय उत्तरोत्तर-जनेषु प्रकाश्येत्य्
अर्थः । ननु कथं तां न स्वयं प्रकाशयामि । कथम् इव तेषाम् अपेक्षा ।
तत्र सद्भिर् एव द्वार-भूतैर् अन्यान् अनुगृह्णाति यः स सद्-अनुग्रहो भवान्
इति । यद् वा सन्त एवानुग्रहो यस्य सः । तवानुग्रहो यः प्रापञ्चिके चरति
स तद्-आकारतयैव चरति नान्य-रूपतयेत्य् अर्थः । तथोक्तं श्री-रुद्र-गीते -
- (पगे 92)
अथानघाङ्घ्रेस् तव कीर्ति-तीर्थयोर्
अन्तर्-बहिः-स्नान-विधूत-पाप्मनाम् ।
भूतेष्व् अनुक्रोश-सुसत्त्व-शीलिनां
स्यात् सङ्गमोऽनुग्रह एष नस् तव ॥ [भ्प् 4.24.58] इति ।
सत्स्व् अनुग्रहो यस्येति व्याख्यानेऽपि तद्-विमुखेष्व् असत्सु तवानुग्रहो
नास्तीति प्राप्तेः सद्-द्वारैव तत् प्रकाशनम् उचितम् इत्य् एवायाति । तद् एवं -
जायमानं हि पुरुषं यं पश्येन् मधुसूदनः ।
सात्त्विकस् तु स विज्ञेयो भवेन् मोक्षे च निश्चितः ॥ [म्भ् 12.336.68]
इति मोक्ष-धर्म-वचनम् अपि सत्-सङ्गानन्तर-जन्म-परम् एव
बोद्धव्यम् ।
॥ 10.2 ॥ देवाः भगवन्तम्

6.181

[181]
ततः सत्-सङ्ग-हेतुश् च सतां स्वैर-चारितैव नान्यः । यथाह -
त एकदा निमेः सत्रम् उपजग्मुर् यदृच्छया । [भ्प् 11.2.24]
ते नव-योगेश्वरा यदृच्छया स्वैरतया न तु हेत्व्-अन्तर-प्रयुक्तेत्य् अर्थः ।
यदृच्छा स्वैरिता इत्य् अमरः । सत्सु परमेश्वर-प्रयोक्तृत्वं च सद्-
इच्छानुसारेणैव । तद् उक्तं स्वेच्छामयस्य [भ्प् 10.14.2] इति । अहं भक्त-
पराधीनः [भ्प् 9.4.46] इति च ।
॥ 11.2 ॥ श्री-नारदः

6.182

[182]
तथा -
तस्यैकदा तु भवनम् अङ्गिरा भगवान् ऋषिः ।
लोकान् अनुचरन्न् एतान् उपागच्छद् यदृच्छया ॥ [भ्प् 6.14.14]
तस्य चित्रकेतोः । अत्रापि तदैव तस्य साम्मुख्यं जायम् । कालान्तरे तु
प्रादुर्भूतम् इति मन्तव्यम् । अतएव तद्-विलाप-समये श्रीमताङ्गिरसैव -
ब्रह्मण्यो भगवद्-भक्तो नावसीदितुम् अर्हति [भ्प् 6.15.12] इत्य् उक्तम् ।
॥ 6.14 ॥ श्री-शुकः

6.183

[183]
सतां कृपा च दुरवस्था-दर्शन-मात्रोद्भवा न स्वोपासनाद्य्-अपेक्षा,
यथा श्री-नारदस्य नलकूवर-मणिग्रीवयोः । तद् आह -
भजन्ति ये यथा देवान् देवा अपि तथैव तान् ।
छायेव कर्म-सचिवाः साधवो दीन-वत्सलाः ॥ [भ्प् 11.2.6] इति ।
स्पष्टम् ॥ 11.2 ॥ श्रीमान् आनकदुन्दुभिः

6.184

[184]
तद् एवं सत्-सङ्गमात्रस्य तत्-साम्मुख्य-मात्रे निदानत्वम् उक्तम् । एतद्
एव व्यक्तिरेकेणाह -
न ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः ।
ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः ॥ [भ्प् 10.84.11]
ते कथं नाद्रियन्ते गौणत्वाद् इत्य् आह ते पुनन्तीति ।
॥ 10.84 ॥ श्री-भगवान् मुनि-वर्गम्

6.185

[185]
तद् एवं सत्सङ्गमात्रस्य तत्-साम्मुख्य-मात्रे निदानत्वम् उक्तम् । एतद्
एव व्यतिरेकेणाह --
ज्ञानं विशुद्धं परमार्थम् एकम्
अनन्तरं त्व् अबहिर् ब्रह्म सत्यम् ।
प्रत्यक् प्रशान्तं भगवच्-छब्द-संज्ञं
यद् वासुदेवं कवयो वदन्ति ॥
रहूगणैतत् तपसा न याति
न चेज्यया निर्वपणाद् गृहाद् वा । (पगे 93)
न च्छन्दसा नैव जलाग्नि-सूर्यैर्
विना महत्-पाद-रजो-ऽभिषेकम् ॥ [भ्प् 5.12.12]
तर्हि किं सत्यम् ? ज्ञानं सत्यम् । व्यावहारिक-सत्यत्वं व्यावर्तयति ।
परमार्थम् । वृत्ति-ज्ञान-व्यवच्छेदार्थानि षड्-विशेषणानि । विशुद्धं तत्
तु आविद्यकम् । एकं तत् तु नाना-रूपम् । अनन्तरं तु बहिर् बाह्याभ्यन्तर-
शून्यं तत् तु विपरीतं ब्रह्म परिपूर्णं तत् तु परिच्छिन्नम् । प्रत्यक् तत्
तु विषयाकारम् । प्रशान्तं निर्विकारं, तत् तु स-विकारम् । तद् एवं स्वरूपं
ज्ञानं सत्यम् इत्य् उक्तम् । कीदृशं तत् ? ऐश्वर्यादि-षड्-गुणत्वेन भगवच्-
छब्दः संज्ञा यस्य । यच् च ज्ञानं वासुदेवं वदन्ति । तत्-प्राप्तिश् च
महत्-सेवां विना न भवतीत्य् आह हे रहूगण । एतज् ज्ञानं तपसा पुरुषो
न याति इज्यया वैदिक-कर्मणा निर्वपणाद् अन्नादि-संविभागेन गृहाद् वा
तन्-निमित्त-परोपकारेण छन्दसा वेदाभ्यासेन जलाग्न्य्-आदिभिर् उपासितैर्
इत्य् एषा ।
अत्र ब्रह्मत्वादिना जीव-स्वरूपं सूक्ष्मत्वादि-धर्मकं ज्ञानम् अपि
निरस्तं वेदितव्यम् ॥
॥ 5.12 ॥ श्री-ब्राह्मणो रहूगणम्

6.186

[186]
तद् एवं सत्-सङ्ग एव तत्-साम्मुख्ये द्वारम् इत्य् उक्तम् । ते च सन्तस् तत्-
सम्मुखा एवात्र गृह्यन्ते । न तु वैदिकाचार-मात्र-परा अनुपयोगित्वात् ।
तत्र यादृशः सत्-सङ्गस् तादृशम् एव साम्मुख्यं भवतीति वक्तुं तेषु
सत्सु ये महान्तस् तेषां द्वैविध्यम् आह सार्धेन ।
महान्तस् ते सम-चित्ताः प्रशान्ता
विमन्यवः सुहृदः साधवो ये ।
ये वा मयीशे कृत-सौहृदार्था
जनेषु देहम्भर-वार्तिकेषु ॥
गृहेषु जायात्मज-रातिमत्सु
न प्रीति-युक्ता यावद्-अर्थाश् च लोके ॥ [भ्प् 5.5.2-3]
ये सम-चित्ता निर्विशेष-ब्रह्म-निष्ठास् ते महान्तस् तेषां शीलम् आह
प्रशान्ता इत्य् आदि । महद्-विशेषम् आह ये वेति । वा-शब्दः पक्षान्तरे ।
उत्तर-पक्षत्वाद् अस्यैव श्रेष्ठत्वं मयि कृतं सिद्धं यत् सौहृदं प्रेम
तद् एव अर्थः पुरुषार्थो येषां यथा-भूता ये ते महान्त इति
पूर्वेणान्वयः । यतो मयि सौहृदार्थास् तत एव देअम्भअरवार्तिकेषु
विषय-वार्ता-निष्ठेषु जनेषु तथा गेहेषु जायात्मज-बन्धु-वर्ग-युक्तेषु
न प्रीति-युक्ताः, किन्तु यावद्-अर्थः यावान् अर्थः श्री-भगवद्-
भजनानुरूपं प्रयोजनं तावान् अर्थो धनं येषां तथाभूता इत्य् अर्थः ।
उभयोर् महत्त्वं च महा-ज्ञानित्वान् महा-भागवतत्वाच् च, न तु द्वयोः
साम्याभिप्रायेण । मुक्तानाम् अपि सिद्धानां नारायण-परायणः [भ्प्
6.14.5] इत्य् आद्य्-उक्तेः । अत्र ज्ञान-मार्गे ब्रह्मानुभविनो महान्तो भक्ति-
मार्गे लब्ध-भगवत्-प्रेमाणो महान्त इति लक्षण-सामान्यम् इति ज्ञेयम् ।
॥ 5.5 ॥ श्री-ऋषभः स्व-पुत्रान्

6.202

[187]
अत्र चैवं विवेचनीयम् । तत्-तन्-मार्गे सिद्धा महान्तो द्विविधा दर्शिताः ।
अत्र च ज्ञान-सिद्धाः । देहं च नश्वरम् अवस्थितम् उत्थितं वा सिद्धो न
पश्यति यतोऽध्यगमत् स्वरूपम् [भ्प् 11.13.35] इत्य् आदौ वर्णिताः । (पगे 94)
अत्र भक्त-सिद्धास् त्रिविधाः । प्राप्त-भगवत्-पार्षद-देहा निर्धूत-
कषाया मूर्च्छित-कषायाश् च । यथा श्री-नारदादयः श्री-शुकादयः प्राग्-
जन्म-गत-नारदादयः ।
प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।
आरब्ध-कर्म-निर्वाणो न्यपतत् पाञ्च-भौतिकः ॥ [भ्प् 1.6.29] इत्य् आदौ ।
स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य-भावोऽप्य् अजित-रुचिर-लीलाकृष्ट-सारः
[भ्प् 12.12.52] इत्य् आदौ ।
हन्तास्मिन् जन्मनि भवान्
मा मां द्रष्टुम् इहार्हति ।
अविपक्व-कषायाणां
दुर्दर्शोऽहं कुयोगिनाम् ॥ [भ्प् 1.6.22] इत्य् आदौ च प्रसिद्धेः ।
श्री-नारदस्य पूर्व-जन्मनि स्थित-कषायस्य प्रेम वर्णितं स्वयम् एव ।
प्रेमातिभर-निर्भिन्न- पुलकाङ्गोऽतिनिर्वृतः ।
आनन्द-सम्प्लवे लीनो नापश्यम् उभयं मुने ॥ [भ्प् 1.6.18] इत्य् आदौ ।
श्री-भरत एवात्रोदाहरणीयः । तस्य च भूत-पिपालयिषा-रूपः
प्रारब्धालम्बनः सात्त्विक-कषायो निगूढ आसीत् प्रेमा च वर्णित इति । तद्
एवं आसमान-प्रेम्णि त्रिविधे पूर्व-पूर्वाधिक्यं ज्ञेयम् । क्वचित् स्थ्तितेऽपि
प्राकृत-देहादित्वे यदि प्रेम्णः परिणामतः स्वरूपतो वाधिक्यं दृश्यते
तदा प्रेमाधिक्येनैवाधिक्यं ज्ञेयम् । तच् च भजनीयस्य
भगवतोऽंशांशित्व-भेदेन भजतश् च दास्य-सख्यादि-भेदेन
स्वरूपाधिक्यं, प्रेमाङ्कुर-प्रेमादि-भेदेन परिमाणाधिक्यं च प्रीति-
सन्दर्भे विवृत्य दर्शयिष्यामः । साक्षात्कार-मात्रस्यापि यद्यपि पुरुष-
प्रयोजनत्वं तथापि तस्मिन्न् अपि साक्षात्कारे यावान् यावान् श्री-भगवतः
प्रियत्व-दर्मानुभवस् तावांस् तावान् उत्कर्षः । निरुपाधि-
प्रीत्यास्पदतास्वभावस्य प्रियत्व-धर्मानुभवं विना तु साक्षात्कारोऽप्य्
असाक्षात्कार एव माधुर्यं विना दुष्ट-जिह्वया खण्डस्येव । अतएवोक्तं
श्री-ऋषभदेवेन --
प्रीतिर् न यावन् मयि वासुदेवे; न मुच्यते देह-योगेन तावत् । [भ्प् 5.5.6] इति ।
ततः प्रेम-तारतम्येनैव भक्त-महत्त्व-तारतम्यं मुख्यम् । अतएव
मयीशे कृत-सौहृदार्थाः [भ्प् 5.5.3] इत्य् एव तल्-लक्षणत्वेनोक्तम् । यत्र तु
प्रेमाधिक्यं साक्षात्कारः कषायादि-राहित्यादिकम् अप्य् अस्ति स परमो
मुख्यः । तत्रैकैकाङ्ग-वैकल्ये न्यून इति ज्ञेयम् । तद् एवं ये वा मयीशे
[भ्प् 5.5.3] इत्य् आदिना ये उक्तास् ते तु प्राप्त-पार्षद-देहा न भवन्ति, तथा
विषय-वैराग्येऽपि गूढ-संस्कारवन्तोऽपि सम्भवन्ति । अतस् तद्-विवेचनाय
प्रकरणान्तरम् उत्थाप्यते । यथा राजोवाच --
अथ भागवतं ब्रूत यद्-धर्मो यादृशो नृणाम् ।
यथार्चरति यद् ब्रूते यैर् लिङ्गैर् भगवत्-प्रियः ॥ [भ्प् 11.2.44]
अथानन्तरं भागवतं ब्रूत तज्-ज्ञानार्थम् । स च ब्रूणां मध्ये यद्-
धर्मो यत्-स्वभावस् तं स्वभावं ब्रूत । यथा च स आचरति अनुतिष्ठति
तद्-अनुष्ठानं ब्रूत । यद् ब्रूते तद्-वचनं च ब्रूतेति मानस-कायिक-
वाचिक-लिङ्ग-पृच्छा ।
[188]
ननु पूर्वं शृण्वन् सुभद्राणि रथाङ्ग-पाणेः [भ्प् 11.2.37] इत्य् आदिना
(पगे 95) ग्रन्थेन तत्-तल्-लिङ्गं श्री-कविर् नैवोक्तम् । सत्यम् । तथापि
पुनस् तद्-अनुवादेन तेषु लिङ्गेषु यैर् लिङ्गैर् भगवत्-प्रियो यादृश उत्तम-
मध्यमतादि-भेद-विविक्तो भवति तानि लिङ्गानि विविच्य ब्रूतेत्य् अर्थः ।
तत्रोत्तरं श्री-हरिर् उवाच -
सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः ।
भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः ॥ [भ्प् 11.2.45]
तत्र तत्-तद्-अनुभव-द्वारावगम्येन मानस-लिङ्गेन महा-भागवतं
लक्षयति सर्व-भूतेष्व् इत्य् आदि । एवंव्रतिः स्व-प्रिय-नाम-कीर्त्या जातानुरागो
द्रुत-चित्त उच्चैः [भ्प् 11.2.38] इति श्री-कवि-वाक्योक्त-रीत्या यश् चित्त-द्रव-
हास-रोदनाद्य्-अनुभावकानुराग-वशत्वात् खं वायुम् अग्निम् [भ्प् 11.2.39]
इत्य् आदि-तद्-उक्त-प्रकारेणैव चेतना-चेतनेषु सर्व-भूतेषु आत्मनो
भगवद्-भावम् आत्माभीष्टो यो भगवद्-आद्य्-अनुभवस् तम् एवेत्य् अर्थः
पश्येद् अनुभवति । अतस् तानि च भूतानि आत्मनि स्व-चित्ते तथा स्फुरति यो
भगवान् तस्मिन्न् एव तद्-आश्रितत्वेनैव अनुभवति । एष भागवतोत्तमो
भवति । इदम् एव श्री-व्रजदेवीभिर् उक्तम् - वन-लतास् तरव आत्मनि विष्णुं
व्यञ्जयन्त्य इव पुष्प-फलाढ्याः [भ्प् 10.35.5]
यद् वा आत्मनो यो भगवति भावः प्रेमा, तम् एव चेतनाचेतनेषु भूतेषु
पश्यति । शेषं पूर्ववत् । अतएव भक्त-रूपाधिष्ठान-बुद्धि-जात-भक्त्या
तानि नमस्करोतीति खं वायुम् इत्य् आदौ पूर्वम् उक्तम् इति भावः । तथैव
चोक्तं ताभिर् एव -
नद्यस् तदा तद् उपधार्य मुकुन्द-गीतम्
आवर्त-लक्षित-मनो-भव-भग्न-वेगाः ॥ [भ्प् 10.21.15] इत्य् आदि ।
श्री-पट्ट-महिषीभिर् अपि कुररि विलपसि त्वम् [भ्प् 10.90.7] इत्य् आदि । अत्र न
ब्रह्म-ज्ञानान्य् अभिधीयन्ते भागवतैस् तज्-ज्ञानस्य तत्-फलस्य च
हेयत्वेन जीव-भगवद्-विभागाभावेन च भागवत्व-विरोधात् । अहैतुक्य्
अव्यवहिता [भ्प् 3.29.10] इत्य् आदौ ह्य् ऐकान्तिक-भक्ति-लक्षणानुसारेण
सुतराम् उत्तमत्व-विरोधाच् च । न च निराकारेश्वर-ज्ञानं प्रणय-
रशनया धृताङ्घ्रि-पद्मः [भ्प् 11.2.53] इत्य् उपसंहार-गत-लक्षण-
परम-काष्ठा-विरोधाद् एवेति विवेचनीयम् ।
[189]
अथ मानस-लिङ्ग-विशेषणेनैव मध्यम-भागवतं लक्षयति --
ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥ [भ्प् 11.2.46]
परमेश्वरे प्रेम करोति । तस्मिन् भक्ति-युक्तो भवतीत्य् अर्थः । तथा तद्-
अधीनेषु भक्तेषु च मैत्रीं बन्धु-भावम् । बालिशेषु तद्-भक्तिम्
अजानत्सु उदासीनेषु कृपाम् । यथोक्तं श्री-प्रह्लादेन -
शोचे ततो विमुख-चेतस इन्द्रियार्था
माया-सुखाय भरम् उद्वहतो विमूढान् । [भ्प् 7.9.42] इति ।
आत्मनो द्विषत्सु उपेक्षाम् । तदीय-द्वेषे चित्ताक्षोभेनोदासीन्यम् इत्य् अर्थः ।
तेष्व् अपि बालिशत्वेन कृपांश-सद्-भावात् । यथैव श्री-प्रह्लादो
हिरण्यकशिपौ । भगवतो भागवतस्य वा द्विषत्सु तु सत्य् अपि चित्त-क्षोभे
तत्रानभिनिवेश इत्य् अर्थः । अस्य बालिशेषु कृपायाः स्फुरणं
द्विषत्सूपेक्षाया एव । न तु प्राग्वत् सर्वत्र प्रेम्णा वा स्फुरणम् । ततो
मध्यमत्वम् । अथोत्तमस्यापि (पगे 96) तद्-अधीन-दर्शनेन तत्-
स्फुरणानन्दोदयो विशेषत एव । ततश् च तस्मिन्न् अधिकैव मत्री यद्
भवति तन् न निषिध्यते किन्तु सर्वत्र तद्-भावावश्यकता विधीयते ।
परमोत्तमेऽपि तथा दृष्टम् --
क्षणार्धेनापि तुलये न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ [भ्प् 4.24.57]
अथ भागवता यूयं प्रियाः स्थ भगवान् यथा [भ्प् 4.25.30] इति च रुद्र-
गीतात् ।
हरेर् गुणाक्षिप्त-मतिर्
भगवान् बादरायणिः ।

अध्यगान् महद् आख्यानं
नित्यं विष्णु-जन-प्रियः ॥ [भ्प् 1.7.11] इति सूत-वाक्याच् च ।
एवं भोजानां कुलपांसनाः [भ्प् 10.1.24] इत्य् आदौ तत्र बादरायणि-
प्रभृतीनां द्वेषोऽपि दृश्यते । किन्तु मध्यमानां तत्रानाभिनिवेश एव
स्फुरति । तेषां तु तत्रापि तद्-विध-शास्तृत्वेन निजाभीष्ट-देव-परिस्फूर्तिर्
न व्याहन्येत इति विशेषः । तद्-दृष्ट्यैव च श्रीमद्-उद्धवादीनाम् अपि श्री-
दुर्योधनादौ नमस्कारः ।
सत्त्वं विशुद्धं वसुदेव-शब्दितं
यद् ईयते तत्र पुमान् अपावृतः । [भ्प् 4.3.21] इत्य् आदि श्री-शिव-वाक्यवत् ।
उक्तं च लक्ष्मणा-हरणे - सोऽभिवन्द्याम्बिका-पुत्रम् [भ्प् 10.68.17] इत्य्
आदौ दुर्योधनश् चेति । यत्र पक्षे च स्वकीय-भावस्यैव सर्वत्र
परिस्फूर्तेः श्री-भगवद्-आदि-द्विषत्स्व् अपि सा पर्यवस्यति, तत्र च
नायुक्तता, यतस् ते निज-प्राण-कोटि-निर्मञ्छनीय-तच्-चरण-पङ्कज-
पराग-लेशास् तेषां दुर्व्यवहार-दृष्ट्या क्षुभ्यन्ति । स्वीय-भावानुसारेण
त्व् एवं मन्यन्ते - अहो ईदृशश् चेतनो वा कः स्याद् यः पुनर् अस्मिन्
सर्वानन्द-कदम्बके निरुपाधि-परम-प्रेमास्पदे सकल-लोक-प्रसादक-
सद्-गुण-मणि-भूषिते सर्व-हित-पर्यवसायि-चर्यामृते श्री-पुरुषोत्तमे तत्-
प्रिय-जने वा प्रीतिं न कुर्वीत । तद्-द्वेष-कारणं तु सुतराम् एवास्मद्-
बुद्धि-पद्धतिम् अतीतम् । तस्माद् ब्रह्मादि-स्थावर-पर्यन्ता अदुष्टा
दुष्टाश् च तस्मिन् बाढं रज्यन्त एवेति । तद् उक्तं श्री-शुकेन --
गोविन्द-भुज-गुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीन् नारदोऽभीक्ष्णंकृष्णोपासन-लालसः ॥
को नु राजन्न् इन्द्रिय-वान् मुकुन्द-चरणाम्बुजम् ।
न भजेत् सर्वतो-मृत्युर् उपास्यन् अमरोत्तमैः ॥ [भ्प् 11.2.1-2] इति ।
[190]
अथ भगवद्-धर्माचरण-रूपेण कायिकेन किञ्चिन् मानसेन च लिङ्गेन
कनिष्ठं लक्षयति -
अर्चायाम् एव हरये पूजां यः श्रद्धयेहते ।
न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ [भ्प् 11.2.47]
अर्चायां प्रतिमायाम् एव तद्-भक्तेषु अन्येषु च सुतरां न भगवत्-
प्रेमाभावद् भक्त-माहात्म्य-ज्ञानाभावात् सर्वादर-लक्षण-भक्त-
गुणानुदयाच् च । स प्राकृतः प्रकृति-प्रारब्धोऽधुनैव प्रारब्ध-भक्तिर्
इत्य् अर्थः । इयं च श्रद्धा न शास्त्रार्थावधारण-जाता ।
यस्यात्म-बुद्धिः कुणपे त्रि-धातुके
स्व-धीः कलत्रादिषु भौम इज्य-धीः ।
यत्-तीर्थ-बुद्धिः सलिले न कर्हिचिज् [भ्प् 10.84.13] (पगे 97) इत्य् आदि शास्त्र-
ज्ञानात् ।
तस्माल् लोक-परम्परा-प्राप्तैवेति पूर्ववत् । अतश् चाजात-प्रेमाशास्त्रीय-
श्रद्धा-युक्तः साधकस् तु मुख्यो कनिष्ठो ज्ञेयः ।
[191]
अथ टीका - पुनर् अष्टभिः श्लोकैर् अभ्यर्हितत्वाद् उत्तमस्यैव लक्षणान्य्
आह गृहीत्वा इत्य् एषा । तथा हि -
गृहीत्वापीन्द्रियैर् अर्थान् यो न द्वेष्टि न हृष्यति ।
विष्णोर् मायाम् इदं पश्यन् स वै भागवतोत्तमः ॥ [भ्प् 11.2.48]
पूर्वोक्त-प्रकारेण तदाविष्ट-चित्तो न गृह्णाति तावद्-इन्द्रियैर् अर्थान्
गृहीत्वापीत्य् अपि-शब्दार्थः । इदं विश्वं मायां बहिरङ्ग-शक्ति-विलासत्वाद्
धेयम् इत्य् अर्थः । अत्रापि कायिक-मानसयोः साङ्कर्यम् ।
[192]
अथ केवल-मानस-लिङ्गेनाह यावत् प्रकरणम् -
देहेन्द्रिय-प्राण-मनो-धियां यो
जन्माप्यय-क्षुद्-भय-तर्ष-कृच्छ्रैः ।
संसार-धर्मैर् अविमुह्यमानः
स्मृत्या हरेर् भागवत-प्रधानः ॥ [भ्प् 11.2.49]
यो हरेः स्मृत्या देहादीनां संसार-धर्मैर् जन्माप्ययादिभिर्
अविमुह्यमानो भवति स भागवत-प्रधानः उक्तं च श्री-गीतासु -
येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् ।
ते द्वन्द्व-मोह-निर्मुक्ता भजन्ते मां दृढ-व्रताः ॥ [गीता 7.28]
[193]
तथा -
न काम-कर्म-बीजानां यस्य चेतसि सम्भवः ।
वासुदेवैक-निलयः स वै भागवतोत्तमः ॥ [भ्प् 11.2.50]
बीजानि वासनाः । वासुदेवम् अत्राश्रयः ।
[194]
तथा -
न यस्य जन्म-कर्मभ्यां न वर्णाश्रम-जातिभिः ।
सज्जतेऽस्मिन्न् अहम्-भावो देहे वै स हरेः प्रियः ॥ [भ्प् 11.2.51]
जन्म सत्-कुलम् । कर्म तप-आदि । जातयः अनुलोमजा मूर्धाभिषिक्तादयः ।
एताभिर् यस्यास्मिन् देह अहम्भावो न सज्जते किन्तु भगवत्-सेवौपयिक-
साध्य-देह एव सज्जत इत्य् अर्थः स हरेः प्रियो भागवतोत्तम इति
पूर्वेणान्वयः । प्रकरणार्थत्वाद् धरेः प्रिय इति भागवत-मात्र-वाचि-
भागवतत्वाद् एव ।
[195]
तथा -
न यस्य स्वः पर इति वित्तेष्व् आत्मनि वा भिदा ।
सर्व-भूत-समः शान्तः स वै भागवतोत्तमः ॥ [भ्प् 11.2.52]
वित्तेषु ममतास्पद-मात्रेषु स्वीयं परकीयम् इति आत्मनि स्वः पर इति । अत्र
वित्तवद् आत्मनि च स्व-पक्षपात-मात्रं निषिध्यते न व्यक्ति-भेदः ।
तथोक्तं स्कान्दे मार्कण्डेय-भगीरथ-संवादे -
पर-दुःखेनात्म-दुःखं मन्यन्ते ये नृपोत्तम ।
भगवद्-धर्म-निरतास् ते नरा वैष्णवोत्तमाः ॥
[196]
किं च -
त्रि-भुवन-विभव-हेतवेऽप्य् अकुण्ठ-
स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् ।
न चलति भगवत्-पदारविन्दाल्
लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः ॥ [भ्प् 11.2.53]
अचलेन हेतुस् त्रिभुवनेति । तत्र हेतुर् अजिते हराव् एव आत्मा येषां तैर्
ब्रह्मेश-प्रभृतिभिः सुरादिभिर् अपि विमृग्याद् दुर्लभाद् इत्य् अर्थः । (पगे
98)
[197]
अपि च विषयाभिसन्धिना चलनं कामेनातिसन्तापे सति भवेत् । स तु
भगवत्-सेवा-निर्वृतौ न सम्भवतीत्य् आह -
भगवत उरु-विक्रमाङ्घ्रि-शाखा-
नख-मणि-चन्द्रिकया निरस्त-तापे ।
हृदि कथम् उपसीदतां पुनः स
प्रभवति चन्द्र इवोदितेऽर्क-तापः ॥ [भ्प् 11.2.54]
उरु-विक्रमौ च ताव् अङ्घ्री । तयोः शाखा अङ्ग लयः । चन्द्रिका ताप-हारिणी
दीप्तिः । तापः कामादि-सन्तापः ।
[198]
तथा -
विसृजति हृदयं न यस्य साक्षाद्
धरिर् अवशाभिहितोऽप्य् अघौघ-नाशः ॥ [भ्प् 11.2.55]
टीका च - उक्त-समस्त-लक्षण-सारम् आह - विसृजतीति । हरिर् एव स्वयं
साक्षाद् यस्य हृदयं न विसृजति न मुञ्चति । अवशेनाप्य् अभिहित-मात्रोऽप्य्
अघौघं नाशयति यः सः । तत् किं न विसृजति । यतः प्रणय-रशनया
धृतं हृदये बद्धम् अङ्घ्र्-पद्मं यस्य स भागवत-प्रधान उक्तो
भवति इत्य् एषा ।
अत्र कामादीनाम् असम्भवे हेतुः साक्षाद् इति पदम् उत्तर-कालत्वात्
साक्सात्कारस्य । तथा हरिर् अवशाभिहितोऽपीत्य् आदिना यत् तादृश-प्रणयवांस्
तेनानेन तु सर्वदा पर्मावेशेनैव कीर्त्यमानः सुतराम् एवाघौघ-
नाशः स्याद् इत्य् अभिहितम् । उक्तं च - एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-
भयम् [भ्प् 2.1.11] इत्य् आदि । तत उभयथैव तेषाम् अघ-संस्कारोऽपि न
स्थातुम् इष्ट इति ध्वनितम् । अनेन वाचिक-लिङ्गम् अपि निर्दिश्य यद् ब्रूते [भ्प्
11.2.42] इत्य् अस्योत्तरम् उक्तम् । प्रकरणेऽस्मिन् गृहीत्वापि [भ्प् 11.2.43] इत्य्
आदीनाम् उत्तम-भागवत-लक्षण-पद्यानाम् अमीषाम् अपृथक् पृथक् च
वाक्यत्वं ज्ञेयम् । तथाभूत-भगवद्-वशीकारवति भागवतोत्तमे तत्-तल्-

लक्षणानाम् अन्तर्भावात् । क्वचित् द्वित्रादिमात्र-लक्षण-दर्शनाच् च ।
तत्रापृथग्-वाक्यतायाम् एकैक-वाक्य-गतेनैकैकेनैव लक्षणेन अयम् एव
सर्व-भूतेषु इत्य्-आद्य्-उक्तो महा-भागवतो लक्ष्यते । तत्-तद्-धर्म-
हेतुत्वेन तु विसृततीत्य् आदिना सर्व-लक्ष्ण-सारोपन्यासः । या च तत्रापि
स्मृत्या हरेर् इत्य् आदिना हेतुत्वेन स्मृतिर् उक्ता । तस्या एव विवरणम् इदम्
अन्तिम-वाक्यम् इति समर्थनीयम् । अतएव पृथक् पृथग् भागवतोत्तम इत्य्
आद्य्-अनुवादोऽपि सङ्गच्छते । पृथग्-वाक्यतायां यत्र साक्षाद्-भगवत्-
सम्बन्धो न श्रूयते । तत्र भागवत-पद-बलेनैव प्रकरण-बलेनैव
वा ज्ञेयः । पूर्वोत्तर-पद्य-स्थ-स्मृत्येत्यादि-पदं वा योजनीयम् । तथात्र
पक्षे चापेक्षिकम् एवान्यत्रअ भागवतोत्तमत्वम् । तत्रोत्तर-श्रैष्ठ्य-
क्रमोऽयम् । अर्चायाम् एव इति । न यस्य जन्म-कर्माभ्याम् इति । न यस्य स्वः
परः इति । गृहीत्वापीन्द्रियैः इति । देहेन्द्रिय-प्राण इति । अस्य संस्कारोऽस्ति ।
किन्तु तेन विमोहो न स्याद् इति मूर्च्छित-संस्कारोऽयं जात-नवीन-
प्रेमाङ्कुरः स्यात् । तथा न काम-कर्म-बीजानाम् इत्य् अस्यैव विवरणं
त्रिभुवन-विभव-हेतवेऽपि इति । इयम् एव नैष्ठिकी (पगे 99) भक्तिर्
ध्यानाख्या धुर्वानुस्मृतिर् इत्य् उच्यते । अस्य प्रेमाङ्कुरोऽप्य्
अनाच्छाद्यतया जातोऽस्ति । अन्यथा तादृश-स्मरण-सातत्य-भावः स्यात् । अयं
हि निर्धूत-कषायो निरूद्ःअ-प्रेमाङ्कुर इति लभ्यते । अत ऊर्ध्वं साक्षात्-
प्रेम-जन्मतः ईश्वरे तद्-अधीनेषु इति । अस्य मैत्र्य्-आदिकं त्रयम् अपि
भक्ति-हेतुकम् एवेति न कषाय-स्थितिर् अवगन्तव्या । निर्धूत-कषाय-महा-
प्रेम-सूचकस्य सर्व-भूतेषु इत्य् अस्य तु विवरणं विसृजति इति ।
तापादि-पञ्च-संस्कारो
नवेज्या-कर्म-कारकः ।
अर्थ-पञ्चक-विद् विप्रो
महा-भागवतः स्मृतः ॥ [पद्मप् 6.253.27] इति पाद्मोत्तर-खण्ड-
वचनम् ।
महत्त्वं चार्चन-मार्ग-पराणां मध्य एव ज्ञेयम् असिद्ध-प्रेमत्वात् ।
अत्र तापादि-पञ्च-संस्कारादि तापः पुण्ड्रं तथा नाम [पद्मप् 6.226.6] इत्य्
आदिना तत्रैव दर्शितम् । नवेज्या-कर्म-कारकत्वं चानेन वचनेन दृश्यते
अर्चनं मन्त्र-पठनं योगो यागो हि वन्दनम् ।
नाम-सङ्कीर्तनं सेवा तच्-चिह्नेर् अङ्कनं तथा ॥
तदीयाराधनं चेज्या नवधा भिद्यते शुभे ।
नव-कर्म-विधानेज्या विप्राणां सततं स्मृता ॥ इति ।
अर्थ-पञ्चक-वित्त्वं तु - श्री-भगवान् तत्-परमं-पदं तद्-द्रव्यं तन्-
मन्त्रो जीवात्मा चेति पञ्च-तत्त्व-ज्ञातृत्वम् । तच् च श्री-हायशीर्षे विवृतं
सङ्क्षिप्य लिख्यते -
एक एवेश्वरः कृष्णः सच्-चिद्-आनन्द-विग्रहः ।
पुण्डरीक-विशालाक्षः कृष्ण-च्छुरित-मूर्धजः ॥
वैकुण्ठाधिपतिर् देव्या लीलया चित्-स्वरूपया ।
स्वर्ण-कान्त्या विशालाख्या स्वभावाद् गाढम् आश्रितः ॥
नित्यः सर्वगतः पूर्णो व्यापकः सर्व-कारणम् ।
वेद-गुह्यो गभीरात्मा नाना-शक्त्योदयो नरः ॥ इत्य् आदि ।
स्थान-तत्त्वम् अतो वक्ष्ये प्रकृतेः परम् अव्ययम् ।
शुद्ध-सत्त्व-मयं सूर्य-चन्द्र-कोटि-सम-प्रभम् ॥
चिन्तामणिमयं साक्षात् सच्-चिद्-आनन्द-लक्षणम् ।
आधारं सर्व-भूतानां सर्व-प्रलय-वर्जितम् ॥ इत्य् आदि ।
द्रव्य-तत्त्वं शृणु ब्रह्मन् प्रवक्ष्यामि समासतः ।
सर्व-भोग-प्रदा यत्र पादपाः कल्प-पादपाः ॥
भवन्ति तादृशा वल्ल्यस् तद्-भवं चापि तादृशम् ।
गन्ध-रूपं स्वादु-रूपं द्रव्यं पुष्पादिकं च यत् ॥
हेयांशानाम् अभावाच् च रस-रूपं भवेद् धि तत् ।
त्वग्-बीजं चैव हेयांशं कठिनांशं च यद् भवेत् ॥
सर्व तद् भौतिकं विद्धि न ह्य् अभूतमयं च तत् ।
रसस्य योगतो ब्रह्मन् भौतिकं स्वादुवद् भवेत् ॥
तस्मात् साध्यो रसो ब्रह्मन् रसः स्याद् व्यापकः परः ।
रसवद् भौतिकं द्रव्यम् अत्र स्याद् रस-रूपकम् ॥ इति ।
वाच्यत्वं वाचकत्वं च देव-तन्-मन्त्रयोर् इह ।
अभेदेनोच्यते ब्रह्मंस् तत्त्वविद्भिर् विचारितः ॥ इत्य् आदि ।
मरुत्-सागर-संयोगे तरङ्गात् कणिका यथा ।
जायन्ते तत्-स्वरूपाश् च तद्-उपाधि-समावृताः ॥
आश्लेषाद् उभयोस् तद्वद् आत्मनश् च सहस्रशः ।
सञ्जाताः सर्वतो ब्रह्मन् मूर्तामूर्त-स्वरूपतः ॥ (पगे 100) इत्य् आद्य् अपि ।
किन्तु श्री-भगवद्-आविर्भावादिषु स्व-स्वोपासना-शास्त्रानुसारेणापरोऽपि
भेदः कश्चिज् ज्ञेयः ।
जीव-निरूपणं चेदम् । न घटत उद्भवः [भ्प् 10.87.31] इत्य् आद्य्-
अनुसारेणोपाधि-सहितम् एव कृतम् । निरुपाधिकं तु -
विष्णु-शक्तिः परा प्रोक्ता
क्षेत्रज्ञाख्या तथापरा ।
अविद्या-कर्म-संज्ञान्या
तृतीया शक्तिर् इष्यते ॥ [विप् 6.7.61] इति विष्णु-पुराणानुसारेण ।
तथा -
अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ [गीता 7.5] इति ।
ममैवांशो जीव-लोके जीव-भूतः सनातनः [गीता 15.7] इति च गीतानुसारेण ।
तथा -
यत् तटस्थं तु चिद्-रूपं
स्व-संवेद्याद् विनिर्गतम् ।
रञ्जितं गुण-रागेण
स जीव इति कथ्यते ॥ इति श्री-नारद-पञ्चरात्रानुसारेण ज्ञेयम् ॥
॥ 11.2 ॥ हरि-योगेश्वरो निमिम् ॥ 187-198 ॥
[199]
तद् एवम् उपदिष्टा भागवत-सत्सु मूर्च्छित-कषायादया महद्-भेदां
भागवत-सन्मात्र-भेदाश् च तत्-सन्-मात्र-भेदेषु अर्चायाम् एव हरये
[भ्प् 11.2.45] इत्य् आदिना तत्-तद्-गुणाविर्भाव-तारतम्याल् लब्ध-तारतम्याः
कतिचिद् दर्शिताः ।
अथ साधन-तारतम्येनापि तेषां तारतम्यम् आह पञ्चभिः । तत्रावरं
मिश्र-भक्ति-साधकम् आह त्रिभिः -
कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् ।
सत्य-सारोऽनवद्यात्मा समः सर्वोपकारकः ॥
कामैर् अहत-धीर् दान्तो मृदुः शुचिर् अकिञ्चनः ।
अनीहो मित-भुक् शान्तः स्थिरो मच्-छरणो मुनिः ॥
अप्रमत्तो गभीरात्मा धृति-माञ् जित-षड्-गुणः ।
अमानी मान-दः कल्यो मैत्रः कारुणिकः कविः ॥ [भ्प् 11.11.29-31]
टीका च - कृपालुः पर-दुःखासहिष्णुः । सर्व-देहिनां केषाञ्चिद् अप्य् अकृत-
द्रोहः । तितिक्षुः क्षमावान् । सत्यं सारं स्थिरं बलं वा यस्य सः ।
अनवद्यात्मा असूयादि-रहितः । सुख-दुःखयोः समः । यथा-शक्ति
सर्वेषाम् अप्य् अकारकः । कामैर् अक्षुभित-चित्तः । दान्तः संयत-
बाह्येन्द्रियः । मृदुर् अकठिन-चित्तः । अकिञ्चनः अपरिग्रहः । अनीहो दृष्ट-
क्रिया-शून्यः । मितभुक् लघ्व्-आहारः । शान्तो नियतान्तः-करणः स्थिरः
स्व-धर्मे । मच्-छरणो मद्-एकाश्रयः । मुनिर् मनन-शीलः । अप्रमत्तः
सावधानः । गभीरात्मा निर्विकारः । धृतिमान् विपद्य् अप्य् अकृपणः । जित-
षड्-गुणः शोक-मोहौ जरा-मृत्यू क्ष्त्-पिपासे षड्-ऊर्मय एते जिता येन सः ।
अमानी न मानाकाङ्क्षी । अन्येभ्यो मानदः । कल्यः पर-बोधने दक्षः
मैत्रः अवञ्चकः । कारुणिकः करुणयैव प्रवर्तमानो न तु दृष्ट-
लोभेन । कविः सम्यक् ज्ञानी इत्य् एषा ।
अत्र मच्-छरण इति विशेष्यम् । उत्तरत्र स च सत्तम (पगे 101) इति च-कारेण
तु पूर्वोक्तो यथा सत्तमः तथायम् अपि सत्तम इति व्यक्तिर् एवम् एवम्भूतो

मच्-छरणः सत्तम इत्य् आक्षिप्यते ।
[200]
मध्यमम् अमिश्र-साक्षाद्-भक्ति-साधकम् आह --
आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः ॥ [भ्प् 11.11.32]
टीका च - मया वेद-रूपेणादिष्टान् अपि स्व-धर्मान् सन्त्यज्य यो मां
भजत् सोऽप्य् एवं पूर्वोक्तवत् सत्तमः । किम् अज्ञानाद् नास्तिक्याद् वा ? न ।
धर्माचरणे सत्त्व-शुद्ध्य्-आदीन् गुणान् विपक्षे सन्त्यज्य । यद् वा भक्ति-
दार्ढ्येन निवृत्ताधिकारतया सन्त्यज्य इत्य् एषा । यथा हायशीर्ष-
पञ्चरात्रोक्त-नारायण-व्यूह-स्तवे -
ये त्यक्त-लोक-धर्मार्था विष्णु-भक्ति-वशं गताः ।
ध्यायन्ति परमात्मानं तेभ्योऽपीह नमो नमः ॥ इति ।
अत्र त्व् एवं व्याख्या - यदि च स्वात्मनि तत्-तद्-गुण-योगाभावस् तथाप्य्
एवं पूर्वोक्त-प्रकारेण गुणान् कृपालत्वादीन् दोषांस् तद्-विपरीतांश्
चाज्ञाय हेयोपादेयत्वेन निशिच्त्यापि यो मया तेषु गुणेषु मध्ये
तत्रादिष्टान् अपि स्वकान् नित्य-नैमित्तिक-लक्षणान् सर्वान् एव वर्णाश्रम-
विहितान् धर्मान् तद्-उपलक्षणं ज्ञानम् अपि मद्-अनन्य-भक्ति-
विघातकतया सन्त्यज्य मां भजेत् स च सत्तमः । च-कारात् पूर्वोक्तोऽपि
सत्तम इत्य् उत्तरस्य तत्-तद्-गुणाभावेऽपि पूर्व-साम्यं बोधयति । ततो यस्
तु तत्-तद्-गुणान् लब्ध्वा धर्म-ज्ञान-परित्यागेन मां भजति केवलं स
तु परम-सत्तम एवेति व्यक्त्य्-अनन्य-भक्तस्य पूर्वत आधिक्यं दर्शितम् ।
अत्र अद्वेष्टा सर्व-भूतानां [गीता 12.12] इत्य् आदि श्री-गीता-द्वादशाध्याय-
प्रकरणम् अप्य् अनुसन्धेयम् । सत्तम इत्य् अनेन तद् अवरत्रापि समत्वम्
अप्य् अस्तीति दर्शितम् । अस्तु तावत् सदाचारस्य तद्-भक्तस्य सत्त्वम् । अनन्य-
देवता-भक्तत्व-मात्रेणापि दुराचारस्यापि सत्तान्य-अर्यायं साधुत्वं
विधीयते अपि चेत् सुदुराचारः [गीता 9.30] इत्य् आदौ । अत्र साधु-सङ्ग-
प्रस्तावे यत् तादृशं लक्षणं नोत्थापितं तत् खलु तादृश-सङ्गस्य भक्त्य्-
उन्मुखेऽनुपयुक्तताभिप्रायेण । यथोक्तं श्री-प्रह्लादेन - सङ्गेन
साधु-भक्तानाम् [भ्प् 7.7.25] इति । साधुर् अत्र सद्-आचारः । तद् एवम् ईश्वर-
बुद्ध्या विधि-मार्ग-भक्तयोस् तारतम्यम् उक्तम् ।
तत्रैवोत्तरस्यानन्यत्वेन श्रेष्ठत्वं दर्शितम् । तत्रैवार्चन-मार्गे
त्रिविधत्वं लभ्यते पाद्मोत्तर-खण्डात् । तत्र महत्त्वं तापादि-पञ्च-
संस्कारी इत्य् आदौ ।
मध्यमत्वम् -
तापं पुण्ड्रं तथा नाम मन्त्रो यागश् च पञ्चमः ।
अमी पञ्चैव संस्काराः परमैकान्ति-हेतवः ॥ इत्य् अत्र ।
कनिष्ठत्वं -
शङ्ख-चक्राद्य्-ऊर्ध्व-पुण्ड्र-धारणाद्य्-आत्म-लक्षणम् ।
तन्-नमस्करणं चैव वैष्णवत्वम् इहोच्यते ॥ इत्य् अत्र । (पगे 102)
[201]
अथ शुद्ध-दास्य-सख्यादि-भाव-मात्रेण योऽनन्यः स तु सर्वोत्तम इत्य्
आह -
ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश् चास्मि यादृशः ।
भजन्त्य् अनन्य-भावेन ते मे भक्ततमा मताः ॥ [भ्प् 11.11.33]
यावान् देश-कालाद्य्-अपरिच्छिनः । यश् च सर्वात्मा । यादृशः सच्-चिद्-आनन्द-
रूपः । तं मां ज्ञात्वाज्ञात्वा वा ये केवलम् अनन्य-भावेन श्री-व्रजेन्द्र-
नन्दन आलम्बनो यः स्वभीप्सितो दास्यादीनाम् एकतरो भावस् तेनैव
भजन्ति न कदाचिद् अन्येन इत्य् अर्थः । ते तु मया भक्ततमा मताः । अतएव
चतुर्थे श्री-योगेश्वरैर् अपि प्रार्थितम् --
प्रेयान् न तेऽन्योऽस्त्य् अमुतस् त्वयि प्रभो
विश्वात्मनीक्षेन् न पृथग् य आत्मनः ।
अथापि भक्त्येश तयोपधावताम्
अनन्य-वृत्त्यानुगृहाण वत्सल ॥ [भ्प् 4.7.38] इति ।
श्री-गीतासु -
ज्ञानं तेऽहं सविज्ञानम् इदं वक्ष्याम्य् अशेषतः ।
यज् ज्ञात्वा नेह भूयोऽन्यज् ज्ञातव्यम् अवशिष्यते ॥ [गीता 7.2] इत्य् उक्त्वाह --
भूमिर् आपोऽनलो वायुः खं मनो बुद्धिर् एव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥
अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥
एतद्योनीनि भूतानि सर्वाणीत्य् उपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ॥
मत्तः परतरं नान्यत् किं चिद् अस्ति धनंजय ।
मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव ॥ [गीता 7.4-7] इति ।
प्रधानाख्य-जीवाक्य-निज-शक्ति-द्वारा जगत्-कारणत्वम् । तच्-
छक्तिमयत्वेन जगतस् तद्-अनन्यत्वम् । स्वस्य तु तयोः परत्वं तद्-
आश्रयत्वं च वदन् निज-ज्ञानम् उपदिष्टवान् । प्रसङ्गेन जीव-स्वरूप-
ज्ञानं च । स चैवम्भूतो ज्ञानी-मत्-स्वरूप-मन्-
महिमानुसन्धानकृत्त्वाद् ज्ञानि-भक्तार्त-भक्तादीन् अतिक्रम्य मत्-प्रियो
भवतीत्य् अप्य् अन्तेऽभिहितवान् --
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ ॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर् विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः ॥
उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् ॥ [गीता 7.16-18] इति ।
ततश् चायम् अर्थः । यस् त्वयि विश्वात्मन्य् आत्मनि जीवान् ईक्षेत् त्वच्-छक्त्त्वाद्
अनन्यत्वेनैव जानाति न तु पृथक् स्वतन्त्रत्वेनेक्षेत । मौत अमुष्माद्
यद्यपि ते प्रेयान् नास्ति तथापि हे वत्सल हे भृत्य-प्रिय भृत्येशभावेन ये
भजन्ति तेषां यानन्या वृत्तिर् अव्यभिचारिणी निजा भक्तिस् तयैवानुगृहाण ।
प्रस्तुतत्वेनास्मान् ज्ञानि-भक्तान् इति लभ्यत इति ।
अथ मूल-पद्ये ज्ञात्वाज्ञात्वेत्य् अत्र ज्ञानाज्ञानयोर् हेयोपादेयत्वं
निषिद्धम् । भक्ततमा इत्य् अत्र पूर्व-वाक्य-स्थ-सत्-पदम् अतिक्रम्य
विशेषतो (पगे 103) भक्त-पद-निर्देशाद् भक्तेः स्वरूपाधिक्यम् अत्रैव
विवक्षितम् । ते मे मता इत्य् अत्र मम तु विशिष्टा सम्मतिर् अत्रैवेति सूचितम्
ईदृशानुक्त-चरत्वात् । अतएव प्रकरण-प्राप्तिम् एक-वचन-निर्देशम् अप्य्
अतिक्रम्य गौरवेणैव ये त इति बहु-वचनं निर्दिष्टम् । ततः किम् उत तद्-
भाव-सिद्ध-प्रेमाण इति भावः । एषां भाव-भजन-विवृत्तिर् अग्रे
रागानुगा-कथने ज्ञेया ।
॥ 11.11 ॥ श्री-भगवान् ॥ 200-201 ॥
[202]
एते हि वैष्णवाः सन्तो महत्त्वेन सन्-मात्रत्वेन च विभिद्य निर्दिष्टाः ।
सन्-मात्र-भेदे तारतम्यं चात्र यद् अविविक्तं तद्-भक्ति-भेद-निरूपणे
पुरतो विवेचनीयम् । अन्ये तु स्व-गोष्ठ्य्-अपेक्षया वैष्णवाः । तत्र कर्मिषु
तद्-अपेक्षया यथा स्कान्दे मार्कण्डेय-भगीरथ-संवादे -
धर्मार्थं जीवितं येषां सन्तानार्थं च मैथुनम् ।
पचनं विप्रमुख्यार्थं ज्ञेयास् ते वैष्णवा नराः ॥ इत्य् आदि ।
अत्र श्री-विष्णोर् आज्ञा-बुद्ध्यैव तत् तत् क्रियत इति वैष्णव-पदेन गम्यते ।
श्री-विस्णु-पुराणे च -
न चलति निज-वर्ण-धर्मतो यः
सम-मतिर् आत्म-सुहृद्-विपक्ष-पक्षे ।
न हरति न हन्ति किञ्चिद् उच्चैः
स्थित-मनसं तम् अवेहि विष्णु-भक्तम् ॥ [विप् 3.7.20] इति ।
तद्-अर्पणे तु सुतराम् एव वैष्णवत्वम् । यथा पाताल-खण्डे वैशाख-
माहात्म्ये-
जीवितं यस्य धर्मार्थं धर्मो हर्य्-अर्थम् एव च ।

अहो-रात्राणि पुण्यार्थं तं मन्ये वैष्णवं भुवि ॥ [पद्मप् 5.94.8] इति ।
तथैव शैवेषु तद्-अपेक्षया यथा बृहन्-नारदीये -
शिवे च परमेशाने विष्णौ च परमात्मनि ।
समबुद्ध्या प्रवर्त्तन्ते ते वै भागवतोत्तमाः ॥ [नार्प् 1.5.72] इति ।
शैव-गोष्ठीषु भागवतोत्तमत्वं तत्रैव प्रसिद्धम् इति तथोक्तम् ।
वैष्णव-तन्त्रे तु तन्-निन्दैव -
यस् तु नारायणं देवं ब्रह्म-रुद्रादि-दैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेद् ध्रुवम् ॥ इति ।
तद् एवं तेषां बहु-भेदेषु सत्सु तेषाम् एव प्रभाव-तारतम्येन कृपा-
तारतम्येन भक्ति-वासना-तारतम्येन सत्-सङ्गात् काल-शैघ्र्य-स्वरूप-
वैशिष्ट्याभ्यां भक्तिर् उदयते । एवं ज्ञानि-सङ्गाच् च ज्ञानं ज्ञेयम् । अत्र
यद्यप्य् अकिञ्चना भक्तिर् एवाभिधेयेति तत्-कारणत्वेन तद्-भक्त-सङ्ग
एवाभिधेये भक्तोऽपि स एव लक्षयितव्यस् तथापि तत्-परीक्षार्थम् एव तत्-
तद्-अनुवादः क्रियते । तत्र प्रथमं तावत् तत्-तत्-सङ्गाज् जातेन तत्-तच्-
छ्रद्धा-तत्-तत्-कथा-रुच्य्-आदिना जात-भगवत्-साम्मुख्यस्य तत्-तद्-
अनुषङ्गेनैव तत्-तद्-भजनीये भगवद्-आविर्भाव-विशेषे तत्-तद्-भजन-
मार्ग-विशेषे च रुचिर् जायते । ततश् च विशेष-बुभुत्सायां सत्यान्तेष्व्
एकतोऽनेकतो वा श्री-गुरुत्वेनाश्रिताच् छ्रवणं क्रियते । तच्
चोपक्रमोपसंहारादिभिर् अर्थावधारणं पुनश् चासम्भावनाविपरीत-
भावना-विशेषेवता स्वयं तद्-विचार-रूपं मननम् अपि क्रियते । ततो
भग्वतः सर्वस्मिन्न् एवाविर्भावे तथाविधोऽसौ सदा सर्वत्र विराजत इत्य्
एवंरूपा श्रद्धा जायते । तत्रैकस्मिंस् त्व् अनया प्रथम-जातया रुच्या सह
निजाभीष्ट-दान-सार्थ्याद्य्-अतिशयवता-निर्धार-रूपत्वेन सैव श्रद्धा
समुल्लसति । तत्र यद्यप्य् एकत्रैवातिशयिता-पर्यवसानं सम्भवति न तु
सर्वत्र, तथापि केषांचित् ततो विशिष्टस्याज्ञानाद् अन्यत्रापि तथा-बुद्धि-रूपा
श्रद्धा सम्भवत्य् एवं भजन-मार्ग-विशेषश् च व्याख्यातव्यः । तद् एवं
सिद्धे ज्ञान-विज्ञानार्थं निदिध्यासन-लक्षण-तत्-तद्-उपासना-मार्ग-
भेदोऽनुष्ठीयत इत्य् एवं विचार-प्रधानानां मार्गो दर्शितः ।
रुचि-प्रधानां तु न तादृग् विचारापेक्षा जायते । किन्तु साधु-सङ्ग-लीला-
कथन-श्रवण-रुचि- (पगे 104) श्रद्धा-श्रवणाद्य्-आवृत्ति-रूप एवासौ
मार्गो यथा - शुश्रूषोः श्रद्दधानस्य [भ्प् 1.2.16] इत्य् आदिना पूर्वं
दर्शितः । सतां प्रसङ्गात् मम वीर्य-संविदः [भ्प् 3.25.22] इत्य् आदौ च
द्रष्टव्यः । प्रीति-लक्षण-भक्तीच्छानां तु रुचि-प्रधान-मार्ग एव
श्रेयान् । नाजात-रुचीनाम् इव विचार-प्रधानः । यथोक्तं प्रह्लादेन --
नैते गुणा न गुणिनो महद्-आदयो ये
सर्वे मनः प्रभृतयः सहदेव-मर्त्याः ।
आद्य्-अन्तवन्त उरुगाय विदन्ति हि त्वाम्
एवं विमृश्य सुधियो विरमन्ति शब्दात् ॥
तत् तेऽर्हत्तम नमः स्तुति-कर्म-पूजाः
कर्म स्मृतिश् चरणयोः श्रवणं कथायाम् ।
संसेवया त्वयि विनेति षड्-अङ्गया किं
भक्तिं जनः परमहंस-गतौ लभेत ॥ [भ्प् 7.9.49-50] इति ।
कर्म परिचर्या । कर्म-स्मृतिर् लीला-स्मरणम् । चरणयोर् इति सर्वत्रान्वितं
भक्ति-व्यञ्जकम् ।
तद् एतद् उभयस्मिन्न् अपि तद्-भजन-विधि-शिक्षा-गुरुः । प्राक्तनः श्रवण-
गुरुर् एव भवति तथाविदस्य प्राप्तत्वात् । प्राक्तानां बहुत्वेऽपि प्रायस् तेष्व्
एवान्यतरोऽभिरुचितः । पूर्वस्माद् एव हेतोः - श्री-मन्त्र-गुरुस् त्व् एक एव
निषेत्स्यमानत्वाद् बहूनाम् । अथात्र प्रमाणानि । तत्र तदाविर्भाव-विशेषे
रुचिः - महा-पुरुषम् अभ्यर्चेन् मूर्त्याभिमतयात्मनः [भ्प् 11.3.48] इत्य्
आदौ श्रीमद्-आविर्होत्रादिनाभ्प्रेता । भजन-विशेष-रुचिश् च -
वैदिकस् तान्त्रिको मिश्र इति मे त्रि-विधो मखः ।
त्रयाणाम् ईप्सितेनैव विधिना मां समर्चयेत् ॥ [भ्प् 11.27.7]
इत्य् आदौ श्री-भगवताभिप्रेता । अथ श्रवण-गुरुम् आह --
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥ [भ्प् 11.3.22]
शाब्दे ब्रह्मणि वेदे विचार-तात्पर्येण । परे ब्रह्मणि भगवद्-आदि-
रूपाविर्भावेऽपरोक्षानुभवेन निष्णातं तथैव निष्ठां प्राप्तम् ।
यथोक्तं श्री-पुरञ्जनोपाख्याद्य्-उपसंहारे श्री-नारदेन --
स वै प्रियतमश् चात्मा यतो न भयम् अण्व् अपि ।
इति वेद स वै विद्वान् यो विद्वान् स गुरुर् हरिः ॥ [भ्प् 4.29.51] इति ।
॥ 11.3 ॥ श्री-प्रबुद्धो निमिम्

6.203

[203]
अत्र ब्रह्म-वैवर्ते विशेषः -
वक्ता स-रागो नीरागो द्विविधः परिकीर्तितः ।
स-रागो लोलुपः कामी तद् उक्तं हृन् न संस्पृशेत् ॥
उपदेशं करोत्य् एव न परीक्षां करोति च ।
अपरीक्ष्योपदिष्टं यल् लोक-नाशाय तद् भवेत् ॥
किं च -
कुलं शीलम् अथाचारम् अविचार्य परं गुरुम् ।
भजेत श्रवणाद्य्-अर्थी सरसं सार-सागरम् ॥
सरसत्वादिकं च व्यञ्जितं तत्रैवान्यत्र । (पगे 105)
काम-क्रोधादि-युक्तोऽपि कृपणोऽपि विषादवान् ।
श्रुत्वा विकाशम् आयाति स वक्ता परमो गुरुः ॥ इति ।
एवम्भूत-गुरोर् अभावाद् युक्ति-भेद-बुभुत्सया बहून् अप्य् आश्रयन्ते
केचित् । यथा -
न ह्य् एकस्माद् गुरोर् ज्ञानं सु-स्थिरं स्यात् सु-पुष्कलम् ।
ब्रह्मैतद् अद्वितीयं वै गीयते बहुधर्षिभिः ॥ [भ्प् 11.9.31]
स्पष्टम् ॥ 11.9 ॥ श्री-दत्तात्रेयो यदुम्

6.206

[204]
तत्र रुचि-प्रधानानां श्रवणादिकम् -
तत्रान्वहं कृष्ण-कथाः प्रगायताम्
अनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मेऽनुपदं विशृण्वतः
प्रियश्रवस्य् अङ्ग ममाभवद् रुचिः ॥ [भ्प् 1.5.26] इत्य्-आद्य्-उक्त-प्रकारम् ।
विचार-प्रधानानां श्रवणं यथा चतुःश्लोक्यादीनाम् । मननं यथा
भगवान् ब्रह्म कार्त्स्न्येन [भ्प् 2.2.34] इत्य् आदौ ।
अथ तज्-जाता भगवति श्रद्धा, यथा -
अस्ति यज्ञ-पतिर् नाम केषाञ्चिद् अर्ह-सत्तमाः ।
इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद् भुवः ॥
मनोर् उत्तानपादस्य ध्रुवस्यापि महीपतेः ।
प्रियव्रतस्य राजर्षेर् अङ्गस्यास्मत्-पितुः पितुः ॥
ईदृशानाम् अथान्येषाम् अजस्य च भवस्य च ।
प्रह्लादस्य बलेश् चापि कृत्यम् अस्ति गदाभृता ॥
दौहित्रादीन् ऋते मृत्योः शोच्यान् धर्म-विमोहितान् ।
वर्ग-स्वर्गापवर्गाणां प्रायेणैकात्म्य-हेतुना ॥ [भ्प् 4.21.27-30]
हे अर्ह-सत्तमाः यज्ञ-पतिर् नाम सर्व-कर्म-फल-दातृत्वेन श्रुति-
प्रतिपादितः परमेश्वरः केषांचित् श्रुत्य्-अर्थ-तत्त्व-विज्ञानां मते तावद्
अस्ति तथापि विप्रतिपत्तेर् न तत्-सिद्धिर् इत्य् आशङ्क्य तत्र जगद्-
वैचित्र्यान्यथानुपपत्ति-प्रमाणम् अप्य् उपोद्वलकम् इत्य् आह । इह
प्रत्यक्षेणामुत्र-शास्त्रेण तद्वद् इत्य् अनुमानेन च ज्योत्स्नावत्यः
कान्तमत्यो भुवो भोग-भूमयो देहाश् च क्वचिद् एवोपलभ्यन्ते न
सर्वत्रेत्य् अयं भावः । न तावज् जडस्य कर्मणस् तत्-तत्-फल-दातृत्वं
घञते फलम् अत उपपत्तेः [व्स् 3.2.38] इति न्यायात् । न चार्वाग्-देवतानां
स्वातन्त्र्यम् अन्तर्यामि-श्रुतिः । न च कर्म-साम्ये फल-तारतम्यं क्वचिच्
च तद्-असिद्धिः सम्भवति । अतः स्वतन्त्रेण परमेश्वरेण भाव्यम् ।
अत्र विद्वद्-अनुभवोऽपि प्रमाणम् इत्य् आह मनोर् इति त्रिभिः । अस्मत्-
पितामहस्याङ्गस्य । प्रह्लाद-बली तदानीं शास्त्राद् एव ज्ञात्वा गणितौ ।
गदाभृता परमेश्वरेण कृत्यम् अस्ति हृदये बहिर् अप्य् आविर्भूय तेषां
मुहुः कृत्य-सम्पादनात् तेन यत् कृत्यं करणीयं तत् तेषाम् अस्तीत्य् अर्थः ।
तेषाम् एव तेन सह कृत्यम् अस्ति नान्येषाम् इत्य् अर्थो वा । तद्-अन्यांस् तु
निन्दितत्वेनाह मृत्योर् दौहित्रादीन् वेण-प्रभृतीन् धर्म-विमोहितान् । (पगे
106)
गदाभृच्-छब्देन तन्-नाम्ना प्रसिद्धात् श्री-विष्णोर् अन्यत्र
परमेश्वरत्वं वारयति । श्रुति-युक्ति-विद्वद्-अनुभवेषु तं गदाभृतं
विशिनष्टि । वर्गेति वर्गोऽत्र त्रिवर्गः । स्वर्गो धर्धरस्य फलम् । अपवर्गो
मोक्षः । तेषाम् ऐकात्म्येनैक-रूपेण सर्वान्तर्गतेन हेतुना । तत्रापि
प्रायेण प्रचरेण हेतुना । तद् उक्तं स्कान्दे -
बन्धको भव-पाशेन भव-पाशाच् च मोचकः ।
कैवल्यदः परं ब्रह्म विष्णुर् एव सनातनः ॥ इति ।
[205]
अथ भजन-श्रद्धा -
यत्-पाद-सेवाभिरुचिस् तपस्विनाम्
अशेष-जन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्य् अन्वहम् एधती सती
यथा पदाङ्गुष्ठ-विनिःसृता सरित् ॥
विनिर्धुताशेष-मनो-मलः पुमान्
असङ्ग-विज्ञान-विशेष-वीर्यवान् ।
यद्-अङ्घ्रि-मूले कृत-केतनः पुनर्
न संसृतिं क्लेश-वहां प्रपद्यते ॥ [भ्प् 4.21.31-32]
तपस्विनां संसार-तप्तानम् । तत्-पाद-सम्बन्धस्यैवेष महिमेति
दृष्टान्तेनाह यथेति । असङ्गस् ततोऽन्यत्रानासक्तिस् तेन विज्ञान-विशेषो
भगवतो नानाविर्भावत्वात् तेषां मध्ये कस्याप्य् आविर्भावस्य
साक्षात्कारस् तद् एव वीर्यं विद्यते यस्य सः । यस्याङ्क्घ्रि-मूले कृताश्रमः
सन् ।
॥ 4.21 ॥ श्री-पृथु-राजः सभ्यान् ॥ 204-205 ॥
[206]
अथ श्रवण-गुरु-भजन-शिक्षा-गुर्वोः प्रायिकम् एकत्वम् इति तथैवेत्य् आह
तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः ।
अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः ॥ [भ्प् 11.3.22]
तस्माद् गुरुं प्रपद्येत इति पूर्वोक्तेस् तत्र श्रवण-गुरौ । गुरुर् एवात्मा
जीवनं दैवतं निजेष्ट-देवततयाभिमतश् च यस्य तथाभूतः सन् ।
अमायया निर्दम्भयानुवृत्त्या तद्-अनुगत्या शिक्षेत् । यैर् धर्मैः । आत्मा
परमात्मा । भक्तेभ्यः आत्म-प्रदः श्री-बलि-प्रभृतिभ्य इव । अस्य शिक्षा-
गुरोर् बहुत्वम् अपि प्राग्वज् ज्ञेयम् ।
॥ 11.3 ॥ श्री-प्रबुद्धो निमिम्

6.207

[207]
मन्त्र-गुरुस् त्व् एक एवेत्य् आह -
लब्ध्वानुग्रह आचार्यात् तेन सन्दर्शितागमः ।
महा-पुरुषम् अभ्यर्चेन् मूर्त्याभिमतयात्मनः ॥ [भ्प् 11.3.48]
अनुग्रहो मन्त्र-दीक्षा-रूपः । आगमो मन्त्र-विधि-शास्त्रम् । अस्यैकत्वम्
एक-वचनत्वेन बोध्यते ।
बोधः कलुषितस् तेन दौरात्म्यं प्रकटीकृतम् ।
गुरुर् येन परित्यक्तस् तेन त्यक्तः पुरा हरिः ॥
इति ब्रह्म-वैवर्तादौ तत्-त्याग-निषेधात् । तद्-अपरितोषेणाप्य् अन्यो गुरुः
क्रियते ततोऽनेक-गुरु-करणे पूर्व-त्याग एव सिद्धः । एतच् चापवाद-वचन-
द्वारापि श्री-नारद-पञ्चरात्रे बोधितम् --
अवैष्णवोपदिष्टेन मन्त्रेण निरयं व्रजेत् ।
पुनश् च विधिना सम्यग् ग्राहयेद् वैष्णवाद् गुरोः ॥ इति ।[*एन्द्नोते #4]
॥ 11.3 ॥ श्री-आविर्होत्रो निमिम्

6.208

[208]
तत्र श्रवण-गुरु-संसर्गेणैव शास्त्रीय-विज्ञानोत्पत्तिः स्यात् नान्यथेत्य् आह
आचार्योऽरणिर् आद्यः स्याद् अन्ते-वास्य् उत्तरारणिः ।
तत्-सन्धानं प्रवचनं विद्या-सन्धिः सुखावहः ॥ [भ्प् 11.10.12]
(पगे 107)
आद्योऽधरः । तत्-सन्धानं तयोर् मध्यमं मन्थन-काष्ठं
प्रवचनम् उपदेशः । विद्या शास्त्रोक्त-ज्ञानं तु सन्धौ भवोऽग्निर् इव ।
तथा च श्रुतिः - आचार्यः पूर्व-रूपम् इत्य् आदि । अतएव तद्-विज्ञानार्थं स
गुरुम् एवाभिगच्छेद् [मुण्डु 1.1.12] इति, आचार्यवान् पुरुषो वेद [छाउ
6.14.2] इति, नैषा तर्केण मतिर् अपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठा
[कठु 1.2.9] इति ।
॥ 11.10 ॥ श्री-भगवान्

6.209

[209]
शिक्षा-गुरोर् अप्य् अवश्यकत्वम् आहुः -
विजित-हृषीक-वायुभिर् अदान्त-मनस् तुर-गं
य इह यतन्ति यन्तुम् अति-लोलम् उपाय-खिदः ।
व्यसन-शतान्विताः समवहाय गुरोश् चरणं
वणिज इवाज सन्त्य् अकृत-कर्ण-धरा जलधौ ॥ [भ्प् 10.87.33]
ये गुरोश् चरणं समवहाय अतिलोलम् अदान्तम् अदमितं मन एव तुरगं
विजितैर् इन्द्रियैः प्राणैश् च कृत्वा यन्तुं भगवद् उन्मुखीकर्तुं
प्रयतन्ते ते उपाय-खिदः । तेषु तेषु उपायेषु खिद्यन्ते । अतो व्यसन-
शतान्विता भवन्ति । अतएव इह संसारे तिष्ठन्त्य् एव । हे अज अकृत-
कर्णधरा अस्वीकृत-नाविका जलधा यथा तद्वत् । श्री-गुरु-पद-दर्शित-
भगवद्-भजन-प्रकारेण भगवद्-वर्त्म-ज्ञाने सति तत्-कृपया
व्यसनानभिभूतौ सत्यां शीघ्रम् एव मनो निश्चलं भवतीति भावः । अतो
ब्रह्म-वैवर्ते -
गुरु-भक्त्या स मिलति स्मरणात् सेव्यते बुधैः ।
मिलितोऽपि न लभ्येत जीवैर् अहमिका-परैः ॥
श्रुतिश् च -
यस्य देवे परा भक्तिर् यथा देवे तथा गुरुः ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [श्वेतु 6.23]
॥ 10.87 ॥ श्रुतयः

6.210

[210]
अतो मन्त्र-गुरोर् आवश्यक्तवं सुतराम् एव । तद् एतत् परमार्थ-गुर्व्-
आश्रयो व्यवहारिक-गुर्व्-आदि-त्यागेनापि कर्तव्य इत्य् आह -
गुरुर् न स स्यात् स्व-जनो न स स्यात्
पिता न स स्याज् जननी न सा स्यात् ।
दैवं न तत् स्यान् न पतिश् च स स्यान्
न मोचयेद् यः समुपेत-मृत्युम् ॥ [भ्प् 5.5.18]
समुपेतः सम्प्राप्तो मृत्युः संसारो येन तम् । अत उक्तं श्री-नारदेन -
जुगुप्सितं धर्म-कृतेऽनुशासतः
स्वभाव-रक्तस्य महान् व्यतिक्रमः । [भ्प् 1.5.15] इत्य् आदि ।
तस्मात् तावद् एव तेषां गुर्व्-आदि-व्यवहारो यावत् मृत्यु-मोचकं श्री-गुरु-
चरणं नाश्रियत इत्य् अर्थः ।
॥ 5.5 ॥ श्री-ऋषभदेवः स्व-पुत्रान्

6.211

[211]
अन्यदा स्व-गुरौ कर्मिभिर् अपि भगवद्-दृष्टिः कर्तव्येत्य् आह -
आचार्यं मां विजानीयान् नावमन्येत कर्हिचित् ।
न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः ॥ [भ्प् 11.17.27]
ब्रह्मचारि-धर्मान्तः-पठितम् इदम् ।
॥ 11.17 ॥ श्री-भगवान्

6.212

[212]
अतः सुतराम् एव परमार्थिभिस् तादृशे गुराव् इत्य् आह - (पगे 108)
यस्य साक्षाद् भगवति ज्ञान-दीप-प्रदे गुरौ ।
मर्त्यासद्-धीः श्रुतं तस्य सर्वं कुञ्जर-शौचवत् ॥
एष वै भगवान् साक्षात् प्रधान-पुरुषेश्वरः ।
योगेश्वरैर् विमृग्याङ्घ्रिर् लोको यं मन्यते नरम् ॥ [भ्प् 7.15.26-27]
एष श्री-कृष्ण-लक्षणोऽपि । ततः प्राकृत-दृष्टिर् न भगवत्-तत्त्व-ग्रहणे
प्रमाणम् इति भावः ।
॥ 7.15 ॥ श्री-नारदो युधिष्ठिरम्

6.213

[213]
शुद्ध-भक्तास् त्व् एके श्री-गुरोः श्री-शिवस्य च भगवता सहाभेद-दृष्टिं
तत्-प्रियतमत्वेनैव मन्यन्ते । यथा -
वयं तु साक्षाद् भगवन् भवस्य
प्रियस्य सख्युः क्षण-सङ्गमेन ।
सुदुश्चिकित्स्यस्य भवस्य मृत्योर्
भिषक्तमं त्वाद्य गतिं गताः स्म ॥ [भ्प् 4.30.38]
टीका च - तव यः प्रियः सखा तस्य भवस्य । अत्यन्तम् अचिकित्सस्य भवस्य
जन्मनो मृत्योश् च भिषक्तमं सद् वैद्यं त्वां गतिं प्राप्ता इत्य् एषा । श्री-
शिवो ह्य् एषां वकृणां गुरुः ।
॥ 4.30 ॥ श्री-प्रचेतसः श्रीअद्-अष्ट-भुज-पुरुषम्

6.214

[214]
तद् एवं रुच्य्-आदिना गुर्व्-आश्रयान्ते उपासना-पूर्वाङ्ग-रूपः साम्मुख्य-
भेदो बहु-विधो दर्शितः । अथ साक्षाद् उपासना-लक्षणस् तद्-भेदोऽपि
बहु-विधो दर्श्यते । अत्र साम्मुख्यं द्विविधं निर्विशेष-मयं स-विशेष-
मयं च । अत्र पूर्वं ज्ञानम् । उत्तरं तु द्विविधम् - अहङ्ग्रहोपासना-
रूपं भक्ति-रूपं च । अस्य ज्ञानस्य लक्षणं ज्ञानं चैकात्म्य-दर्शनम्
[भ्प् 11.19.25] इति । अभेदोपासनं ज्ञानम् इत्य् अर्थः ।
॥ 11.19 ॥ श्री-भगवान्

6.215

[215]
तत्-साधन-प्रकारं चैवं बहु-विधस् तत्र तत्रोक्तिः । स च ज्ञानम्
एवोच्यते । तत्र श्रवणं श्री-पृथु-सनत्कुमार-संवादादौ द्रष्टव्यम् ।
तद्-अनुसारेण मननं च ज्ञेयम् । प्रथमतः श्रोतॄणां हि विवेकस् तावान्
एव यावता जडातिरिक्त-चिन्-मात्रं वस्तूपस्थितं भवति । तस्मिंश् चिन्-
मात्रेऽपि वस्तुनि ये विशेषाः स्वरूप-भूत-शक्ति-सिद्धा भगवत्तादि-रूपा
वर्तन्ते तांस् तु ते विवेक्तुं न क्षमन्ते, यथा दिवा-रजनी-खण्डिनि ज्योतिषि
ज्योतिर्-मात्रत्वेऽपि ये मण्डलान्तर्-बहिश् च दिव्य-विमानादि-परस्पर-पृथग्-
भूत-रश्मि-परमाणु-रूपा विशेषास् तांश् चर्म-चक्षुषो विवेक्तुं न
क्षमन्ते तद्वत् । पूर्ववच् च यदि महत्-कृपा-विशेषण-दिव्य-दृष्टिता
भवति तदा विशेषोपलब्धिश् च भवेत् । न चेन् निर्विशेष-चिन्-मात्र-
ब्रह्मानुभवेन तल्-लीनम् एव भवति । तथैव निदिध्यासनम् अपि तेषाम् ।
तद् यथा --
स्थिरं सुखं चासनम् आस्थितो यतिर्
यदा जिहासुर् इमम् अङ्ग लोकम् ।
काले च देशे च मनो न सज्जयेत्
प्राणान् नियच्छेन् मनसा जितासुः ॥
मनः स्व-बुद्ध्यामलया नियम्य
क्षेत्र-ज्ञ एतां निनयेत् तम् आत्मनि ।
आत्मानम् आत्मन्य् अवरुध्य धीरो
लब्धोपशान्तिर् विरमेत कृत्यात् ॥ [भ्प् 2.2.15-16]
एतां बुद्धिं क्षेत्रज्ञे बुद्ध्यादि-द्रष्टरि निलयेत् प्रविलापयेत् । तं च
क्षेत्रज्ञं स्वरूप-भूतया बुद्ध्या आत्मनि तद्-द्रष्टृत्वादि-रहिते शुद्धे
जीवे, तं च शुद्धम् आत्मानम् आत्मनि ब्रह्मण्य् अवरुध्य तद्-एकत्वेन
विचिन्त्य लब्धोपशान्तिः प्राप्त-निर्वृतिः सन् कृत्याद् विरमेत्, तस्य ततः परं
प्राप्याभावात् ।
॥ 2.2 ॥ श्री-शुकः

6.216

(पगे 109)
तद् एवं ज्ञान-मुक्तिम् इदम् एव स्वाभावोऽध्यात्मम् उच्यते इत्य् अनेन श्री-
गीतासूक्तम् । स्वस्य शुद्धस्यात्मनो भावो भावना आत्मन्य् अधिकृत्य
वर्तमानत्वाद् अध्यात्म-शब्देनोच्यत इत्य् अर्थः ।
अथाहंग्रहोपासनं तच्-छक्ति-विशिष्ट ईश्वर एवाहम् इति चिन्तनम् । अस्य
फलं स्वस्मिंस् तच्-छक्त्य्-आद्य्-आविर्भावः यथा विष्णु-पुराणे नागपाशादि-
यन्त्रितः श्री-प्रह्लादस् तादृशम् आत्मानं स्मरन् नागपाशादिकम्
उत्सारितवान् । अत्रान्तिम-फलं च कीट-पेशस्कृत्न्-न्यायेन सारूप्य-
सार्ष्ट्यादिकं ज्ञेयम् ।
अथ भक्तिः । तस्यास् तटस्थ-लक्षणं स्वरूप-लक्षणं च यथा गरुड-
पुराणे --
विष्णु-भक्तिं प्रवक्ष्यामि यया सर्वम् अवाप्यते ।
यथा भक्त्या हरिस् तुष्येत तथा नान्येन केनचित् ॥
इत्य् उक्त्वाह -
भज इत्य् एष वै धातुः सेवायां परिकीर्तितः ।
तस्मात् सेवा बुधैः प्रोक्ता भक्तिः साधन-भूयसी ॥ इति ।
यया सर्वम् अवाप्यते इति तटस्थ-लक्सणम् । अत्र च अकामः सर्व-कामो वा
इत्य् आदि-सिद्धत्वाद् अव्याप्त्य्-अभावः । यथा भक्त्या इत्य्-आद्य्-उक्तत्वाद्
अतिव्याप्त्य्-अभाव । बुधैः प्रोक्तत्वाद् असम्भवाभावश् च । सेवा-शब्देन
स्वरूप-लक्षणम् । सा च सेवा कायिक-वाचिक-मासआत्मिका त्रिविधैवानुगतिर्
उच्यते । अतएव भय-द्वेषादीनाम् अहङ्ग्रहोपासनायाश् च व्यावृत्तिः ।
साधन-भूयसी साधनेषु श्रेष्ठेत्य् अर्थः ।
तद् एवं लक्षण-द्वयं प्रकारान्तरेणाह --
ये वै भगवता प्रोक्ता उपाया ह्य् आत्म-लब्धये ।
अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान् ॥ [भ्प् 11.2.34]
अविदुषां पुंसां तन्-माहात्म्यम् अविद्वद्भिर् अपि कर्तृभिः । आत्मनो ब्रह्म
परमात्मा भगवान् इत्य् आविर्भाव-भेदवतः स्वस्य धर्म-भूतस्य अञ्जः
अनायासेनैव लब्धये लाभाय उपायाः साधनानि स्वयं भगवता --
कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता ।
मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः ॥ [भ्प् 11.14.3]
इत्य् अनुसारेण प्रोक्ताः । तान् उपायान् भागवतान् धर्मान् विद्धि भागवतीं
भक्तिं जानीहीत्य् अर्थः । हि प्रसिद्धौ । तत्र साक्षाद् भक्तेर् अपि भागवत-
धर्माख्यत्वं एतावान् एव लोकेऽस्मिन् [भ्प् 11.3.23] इत्य् अत्र परम-
धर्मत्व-ख्यापनाय दर्शितम् । अत्र आत्म-लब्धये प्रोक्ता इति तटस्थ-
लक्सणम् । अन्येन तद्-अलाभाद् अव्यभिचारि । आत्म-लब्धय उपाया इति
स्वरूप-लक्षणम् । तल्-लाभोपायो हि तद्-अनुगतिर् एव ।
॥ 11.2 ॥ श्री-कविर् निमिम्

6.217

[217]
सा भक्तिस् त्रिविधा । आरोप-सिद्धा, सङ्ग-सिद्धा, स्वरूप-सिद्धा च ।
तत्रारोप-सिद्धा स्वतो भक्तित्वाभावेऽपि भगवद्-अर्पणादिना भक्तित्वं
प्राप्ता कर्मादि-रूपा । सङ्ग-सिद्धा स्वतो भक्तित्वाभावेऽपि तत्-परिकरतया
संस्थापनेन तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः [भ्प्
11.3.24] इत्य् आदि-प्रकरणेषु सर्वतो मनसोऽसङ्गम् [भ्प् 7.5.18] इत्य् आदिना
लब्ध-तद्-अन्तः-पाता ज्ञान-कर्म-तद्-अङ्ग-रूपा । स्वरूप-सिद्धा
चाज्ञानादिनापि तत्-प्रादुर्भावे भक्तित्वाव्यभिचारिणी साक्षात् तद्-
अनुगत्यात्मा तदीय-श्रवण-कीर्तनादि-रूपा । श्रवणं कीर्तनं विष्णोः
(पगे 110) इत्य् आदौ विष्णोः श्रवणं विष्णोः कीर्तनम् इति विशिष्टस्यैव
विवक्षितत्वत् तेषाम् अपि नारोप-सिद्धत्वं प्रत्युत मूढ-प्रोन्म्मत्तादिषु
तद्-अनुकर्तृष्व् अपि कथञ्चित् सम्बन्धेन फल-प्रापकत्वात् स्वरूप-
सिद्धत्वं, यथा श्री-प्रह्लादस्य पूर्व-जन्मनि श्री-नृसिंह-चतुर्दश्य्-
उपवासः । यथा कुक्कुर-मुख-गतस्य श्येनस्य भगवन्-मन्दिर-
परिक्रमः । एवम् अन्य-दृष्ट्यादिना मूढादिभिः कृतस्य वन्दनस्यापि
ज्ञेयम् ।
तद् एवं त्रिविधापि सा पुनर् अकैतवा सकैतवा चेति द्विविधा ज्ञेया ।
तत्रारोप-सङ्ग-सिद्धयोर् यस्या भक्तः सम्बन्धेन भक्ति-पद-प्राप्त्यां
सामर्थ्यं तन्-मात्रापेक्षत्वं चेद् अकैतवत्वं स्वीयान्यदीय-फलापेक्ष-
परिकरत्वं चेद् अकैतवत्वं प्रयोजनान्तरापेक्षया कर्म-ज्ञान-
परिकरत्वं चेत् सकैतवत्वम् । स्वरूप-सिद्धायाश् च यस्य भगवतः
सम्बन्धेन तादृशं माहात्म्यं तन्-मात्रापेक्ष-परिकरत्वं चेद्
अकैतवत्वं प्रयोजनान्तरापेक्षया कर्म-ज्ञान-परिकरत्वं चेत्
सकैतवत्वम् । इयम् एवाकैतवाकिञ्चनाख्यत्वेन पूर्वम् उक्ता । धर्मः
प्रोज्झित-कैतवोऽत्र परमः [भ्प् 1.1.2] इत्य् अत्र चास्यास् तद्-उभय-विधत्वे
प्रमाणं ज्ञेयम् । तथोक्तं - प्रीयतेऽमलया भक्त्या हरिर् अन्यद्-
विडम्बनम् [भ्प् 7.7.52] इति ।
अथारोप-सिद्धा - एतद्-अर्थम् एव नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितम्
[भ्प् 1.5.12] इत्य् आदौ सकाम-निष्कामयोर् द्वयोर् अपि कर्मणोर् निन्दा ।
भगवद्-वैमुख्याविशेषात् ।
तत्र यादृच्छिक-चेष्टाया अपि भगवद्-अर्पितत्वे भगवद्-धर्मत्वं
भवति किम् उत वैदिक-कर्मण इति वक्तुं तस्या अपि तद्-रूपत्वम् आह -
कायेन वाचा मनसेन्द्रियैर् वा
बुद्ध्यात्मना वानुसृत-स्वभावात् ।
करोति यद् यत् सकलं परस्मै
नारायणायेति समर्पयेत् तत् ॥ [भ्प् 11.2.36]
पूर्वं हि धर्मान् भागवतान् ब्रूत [भ्प् 11.2.31] इति प्रश्नानन्तरं ये वै
भगवता प्रोक्ता [भ्प् 11.2.34] इत्य् आदिना मुख्यत्वेन साक्षात्-तल्-लब्धये
उपाय-भूताः श्रवण-कीर्तनादयो भागवता धर्मा लक्षिताः ते चात्रैव
शृण्वन् सु-भद्राणि रथाङ्ग-पाणेर् [भ्प् 11.2.39] इत्य्-आदिना कतिचिद् दर्शिताः ।
उत्तराध्याये च -- तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः
[भ्प् 11.3.22] इत्य् उपक्रम-वाक्याद् अनन्तरं इति भागवतान् धर्मान्
शिक्षयन् भक्त्या तद्-उत्थया [भ्प् 11.3.33] इत्य् उपसंहार-वाक्यस्य प्राग्
भागवत-धर्मत्वेनान्य-सङ्ग-त्यागादिकम् अपि वक्ष्यते । सर्वतो
मनसोऽसङ्गम् [भ्प् 11.3.23] इत्य् आदिना । तस्मात् लौकिक-कर्माद्य्-अर्पणम्
इदं यथा कथञ्चित् तद्-धर्म-सिद्ध्य्-अर्थम् एवोच्यते ।
अर्थश् चायं टीकायाम् - आत्मना चित्तेनाहङ्कारेण वा अनुसृतो यः स्वभावस्
तस्मात् । अयम् अर्थः - न केवलं विधितः कृतम् एवेति नियमः
स्वभावानुसारि लौकिकम् अपीति । श्री-गीतासु च -
यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥ [गीता 9.27] इति ।
इतः पूर्वं प्राण-बुद्धि-धर्माधिकारतः इत्य् आदि-मन्त्रश् च तथा । अत्र
स्वाभाविक-कर्मणोऽर्पणे दुष्कर्मणो द्विविधा गतिः । ज्ञानेच्छूनाम्
अविशेषेण । भक्तीच्छूनां तु अनेन दुर्वासन-दुःख-दर्शनेन च स
करुणामयः करुणां करोत्व् इति वा (पगे 111)
या प्रीतिर् अविवेकानां
विषयेष्व् अनपायिनी ।
त्वाम् अनुस्मरतः सा मे
हृदयान् नापसर्पतु ॥ [विप् 1.20.19] इति विष्णु-पुराणोक्त-प्रकारेण ।
युवतीनां यथा यूनि यूनां च युवतौ यथा ।
मनोऽभिरमते तद्वन् मनोऽभिरमतां त्वयि ॥ [पद्मप् 6.128.258]
इति पाद्मोक्त-प्रकारेण च मम सुकर्मणि दुष्कर्मणि यद्-राग-सामान्यं
तत् सर्वतो-भावेन भगवद्-विषयम् एव भवत्व् इति समाध्येयम् ।
कामिनां तु न सर्वथैव सर्व-दुष्कर्मार्पणम् । वेदोक्तम् एव कुर्वाणो
निःसङ्गोऽर्पितम् ईश्वरे [भ्प् 11.3.4] इत्य् अत्र पुनर् वैदिकम् एवेश्वरेऽर्पितं
कुर्वाण इत्य् उक्तम् ॥
॥ 11.2 ॥ श्री-कविर् निमिम्

6.218

[218]
अथ वैदिक-कर्मार्पणस्य प्रशंसाम् आहुः -
क्लेश-भूर्य्-अल्प-साराणि कर्माणि विफलानि वा ।
देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥ [भ्प् 8.5.47]
विषयार्तानां कर्माणि क्वचित् क्लेशो भूरिर् येषु तथाप्य् अल्पं फलं येषु
तथाप्य् अभूतानि भवन्ति, क्वचित् कृष्यादिवद् विफलानि वा भवन्ति, त्वय्य्
अर्पितं कर्म तु न तथा । किन्तु क्लेशं विना यथा कथञ्चित् कृतस्य
कामनयाप्य् अर्पणे तत्-कामस्यावश्यक-प्राप्तिः । सा च सर्वत उत्कृष्टा
भवति । तथा तन्-मात्र-फलेन च पर्याप्तिर् न भवति संसार-विध्वंसादि-
फलत्वाद् इत्य् अर्थः । तद् उक्तम् --
यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् ।
धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह ॥ [भ्प् 11.2.35] इति ।
सत्यं दिशत्य् अर्थितम् अर्थितो नॄणाम् [भ्प् 5.19.28] इत्य् आदि च । यथैव नाभिः
ऋषभ-देव-रूपं भगवन्तं पुत्रत्वेनापि लेभे । श्री-गीतासु च --
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥ [गीता 2.40] इति ।
॥ 8.5 ॥ देवाः श्रीमद्-अजितम्

6.223

[219]
तद् एव कर्मार्पणम् उपपादयति त्रिभिः -
एतत् संसूचितं ब्रह्मंस् ताप-त्रय-चिकित्सितम् ।
यद् ईश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ [भ्प् 1.5.32]
ब्रह्मन् हे श्री-वेद-व्यास एतत् ताप-त्रयस्य चिकित्सितं चिकित्सा तैश्
चातुर्मास्य-वासिभिः परमहंसैः सूचितम् । किं तत् ? भगवति कर्म यत्
समर्पितं भवति । तत्र कर्म समर्पणम् एवेत्य् अर्थः । कथम्भूते ?
स्वयं भगवति पूर्ण-स्वरूपैक्श्वर्यादि-मत्तया सर्वांशिन्य् एव केनचिद्
अंशेन जीवादि-नियन्तृतया ईश्वरे परमात्म-शब्द-वाच्ये स्वरूप-भूत-
विशेषणेन विना केवल-चिन्-मात्रतया प्रतिपाद्यत्वेन ब्रह्मनि तच्-छब्द-
वाच्ये ।
[220]
ननु उत्पत्त्यैव तत्-तत्-सङ्कल्पेन विहितत्वात् संसार-हेतोः कर्मणः कथं
ताप-त्रय-निवर्तकत्वम् । उच्यते सामग्री-भेदेन घटत इति यथा --
(पगे 112)
आमयो यश् च भूतानां जायते येन सुव्रत ।
तद् एव ह्य् आमयं द्रव्यं न पुनाति चिकित्सितम् ॥ [भ्प् 1.5.33]
आमयो रोगो येन घृतादिना जायते तद् एव केवलम् आमय-कारणं द्रव्यं
तम् आमयं न निवर्तयति किन्तु चिकित्सितं द्रव्यान्तरैर् भावितं सत्
निवर्तयत्य् एव ।
[221]
एवं नृणां क्रिया-योगाः सर्वे संसृति-हेतवः ।
त एवात्म-विनाशाय कल्पन्ते कल्पिताः परे ॥ [भ्प् 1.5.34]
परे भगवति कल्पिताः कामनयाप्य् अर्पिताः सन्तः संसार-ध्वंस-पर्यन्त-
फलत्वाद् आत्म-विनाशाय कर्म-निवृत्तये कल्पन्ते ।
॥ 1.5 ॥ श्री-नारदो व्यासम् ॥ 219-221 ॥
[222]
किं च कर्म-फलं वस्तुतो भगवद्-आश्रयम् एव । तत् तु दुर्बुद्धेर् आत्म-
सात्-कुर्वतो युक्त्यवतुछ-फल-प्राप्तिः संसारश् च । सुधियस् तु तत्-साक्षात्-
कुर्वतस् तद्-वैपरीत्यम् इत्य् आह गद्याभ्याम् --
सम्प्रचरत्सु नाना-यागेषु विरचिताङ्ग-क्रियेष्व् अपूर्वं यत् तत् क्रिया-फलं
धर्माख्यं परे ब्रह्मणि यज्ञ-पुरुषे सर्व-देवता-लिङ्गानां
मन्त्राणाम् अर्थ-नियाम-कतया साक्षात्-कर्तरि पर-देवतायां भगवति
वासुदेव एव भावयमान आत्म-नैपुण्य-मृदित-कषायो हविःष्व्
अध्वर्युभिर् गृह्यमाणेषु स यजमानो यज्ञ-भाजो देवांस् तान्
पुरुषावयवेष्व् अभ्यध्यायत् । [भ्प् 5.7.6] इति ।
टीका च - सम्प्रचरत्सु प्रवर्तमानेषु विरचिता अनुष्ठिता अङ्ग-क्रिया
येषां तेषु यद् अपूर्वं तद् वासुदेव एव भावयमानश् चिन्तयन् स
यजमानो यज्ञ-भाग-भाजो ये देवास् तान् पुरुषस्य वासुदेवस्य आवयवेषु
चक्सुर्-आदिषु अभ्यध्यायत्, न तु तत्-पृथक्त्वेनेत्य् अन्वयः ।
अपूर्वे पक्ष-द्वयं मीमांसकानाम् । तदानीम् एव सूक्ष्मत्वेनोत्पन्नं
फलम् एवापूर्वं कालान्तर-फलोत्पादिका कर्म-शक्तिर् वेति । तद् उक्तम् --
यागाद् एव फलं तद् धि शक्ति-द्वारेण सिध्यति ।
सूक्ष्म-शक्त्य्-आत्मकं वापि फलम् एवोपजायते ॥ इति ।
तद् एतद् आह क्रिया-फलं धर्माख्यम् [भ्प् 5.7.6] इति च ।
ननु यद्य् अङ्गं देवता कर्म प्रधानम् इति मतं तर्हि कर्तृ-निष्ठम्
अपूर्वं स्यात् । तद् उक्तम् -
कर्मभ्यः प्राग् अयोग्यस्य कर्मणः पुरुषस्य वा ।
योग्यता शास्त्र-गम्या या परा सापूर्वम् इष्यते ॥ इति ।
अथ देवता प्रधानं कर्म तु देवताराधनार्थं, तदा देवता-प्रसाद्-
रूपत्वाद् अपूर्वस्य देवताश्रत्वम् एव युक्तं प्रोक्षणाद्य्-अपूर्वस्येव
व्रीह्य्-आद्य्-आश्रयत्वम् । कुतो वासुदेवाश्रयम् अपूर्वं भावयति ? उच्यते ।
यदि कर्तृ-निष्ठम् अपूर्वं स्यात् तर्हि वासुदेवस्यान्तर्यामिणः
प्रवर्तकत्वेन मुख्य-कर्तृत्वात् तद्-आश्रयम् एवापूर्वं, न तु तत्-प्रयोज्य-
यजमानाश्रयं, शास्त्र-फलं प्रयोक्तरीति न्यायात् । अन्यथा ऋत्विजाम् अप्य्
अपूर्वाश्रयत्व-प्रसङ्गात् । तद् एवाह - साक्षात्-कर्तरीति । देवताश्रयत्वेऽपि
वासुदेवाश्रयत्वम् एवेत्य् आह - पर-देवतायाम् इति । परदेवतात्वे हेतुः
सर्वदेवता-लिङ्गानां तत्-तद्-देवता-प्रकाशकानां मन्त्राणां येऽर्था
इन्द्रादि-देवतास् तेषां नियामकतया तस्यैव प्रसादनीयत्वात् फल-दातृत्वाच्
च युक्त-सेवाश्रयत्वम् इत्य् अर्थः । एवं भावनम् एवात्मनो नैपुण्यं
कौशलं तेन मृदिताः क्षीणाः कषाया रागादयो यस्य । अध्वर्युभिर् इति
बहु-वचनं नाना-कर्माभिप्रायेण इत्य् एषा ।
(पगे 116)
अत्र विष्णोर् अङ्गित्वेन तद्-भजनं च दोष इति लभ्यते । अत्र पाद्मोत्तर-
खण्डे यथा -
उद्दिश्य देवता एव जुहोति च ददाति च ।
स पाषण्डीति विज्ञेयः स्वतन्त्रो वापि कर्मसु ॥ [पद्मप् 6.235.8] इति ।
पाषण्डत्वम् अत्र वैष्णव-मार्गाद् भ्रष्टत्वम् इत्य् अर्थः । श्री-गीतासु -
येऽप्य् अन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि माम् एव कौन्तेय यजन्त्य् अविधिपूर्वकम् ॥
अहं हि सर्वयज्ञानां भोक्ता च प्रभुर् एव च ।
न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥ [गीता 9.23.-24]
अतो वास्तव-विचारे सर्व एव वेद-मार्गाः श्री-भगवत्य् एव पर्यवस्यन्तीत्य्
अभिप्रेत्योक्तं श्रीमद्-अक्रूरेण --
सर्व एव यजन्ति त्वां सर्व-देव-मयेश्वरम् ।
येऽप्य् अन्य-देवता-भक्ता यद्य् अप्य् अन्य-धियः प्रभो ॥
यथाद्रि-प्रभवा नद्यः पर्जन्यापूरिताः प्रभो ।
विशन्ति सर्वतः सिन्धुं तद्वत् त्वां गतयोऽन्ततः ॥ [भ्प् 10.40.9-10] इति ।
गतयो मार्गाः । अन्ततो विचार-पर्यवसानेन । अथ द्वितीयं गद्यम् -
एवं कर्म-विशुद्ध्या विशुद्ध-सत्त्वस्यान्तर्-हृदयाकाश-शरीरे ब्रह्मणि
भगवति वासुदेवे महा-पुरुष-रूपोपलक्षणे श्रीवत्स-कौस्तुभ-वन-
मालारि-दर-गदादिभिर् उपलक्षिते निज-पुरुष-हृल्-लिखितेनात्मनि पुरुष-
रूपेण विरोचमान उच्चैस्तरां भक्तिर् अनुदिनम् एधमान-रयाजायत [भ्प्
5.7.7] इति ।
एवं पूर्वोक्त-प्रकारेण कर्म-विशुद्ध्या विशुद्ध-सत्त्वस्य भक्तिः स-
श्रद्ध-श्रवण-कीर्तनादि-लक्षणा जायतेत्य् अन्वयः । क्व ? भगवति
वासुदेवे पूर्ण-स्वरूप-भगाभ्यां सर्व-निवासेन च तत्-तन्-नाम्ना
प्रसिद्धोऽन्तर्-हृदये य आकाशः स एव शरीरं स्वस्यैवाविर्भाव-
विशेषाधिष्ठानं यस्य तस्मिन् अन्तर्यामिणि परमात्माख्ये ब्रह्मणि
निर्विशेषाविर्भावात् तद्-आख्ये च भगवतो निराकारत्वं वारयति महा-
पुरुषस्य यद् रूपं शास्त्रे श्रूयते तद् रूपं लक्ष्यते दृश्यते यत्र तस्मिन् ।
किं च श्रीवत्सादिभिर् अपि चिह्निते । एधमान-रया वर्धमान-प्रकर्षा ।
॥ 5.7 ॥ श्री-शुकः

6.224

[224]
तद् एतत् कर्मार्पणं द्विविधम् । भगवत्-प्रीणन-रूपं, तस्मिंस् तत्-त्याग-
रूपं चेति । यथोक्तं कौर्मे -
प्रीणातु भगवान् ईशः कर्मणानेन शाश्वतः ।
करोति सततं बुद्ध्या ब्रह्मार्पणम् इदं परम् ॥
यद् वा फलानां सन्न्यासं प्रकुर्यात् परमेश्वरे ।
कर्मणाम् एतद् अप्य् आहुर् ब्रह्मार्पणम् अनुत्तमम् ॥ इति ।
अत्र निमित्तानि च त्रीणि - कामना नैष्कर्म्यं भक्ति-मात्रं चेति । निष्कामस्
तु केवलं न सम्भवति । यद् यद् धि कुरुते जन्तुस् तत् तत् कामस्य चेष्टितम्
इत्य् उक्तेः । अत्र कामना-नैष्कर्म्ययोः प्रायः कर्म-त्यागः । प्रीणनं तु
तद्-आभास एव स्वार्थ-परत्वात् । भक्तौ पुनः प्रीणनम् एव भक्तेस् तु
तद्-एक-जीवनत्वात् ।
कामना-प्राप्तिर् यथा - क्लेश-भूर्य्-अल्प-साराणि इत्य् आदि । यथा चाङ्गस्य
राज्ञः पुत्राथके (पगे 114) यज्ञे । नैष्कर्म्य-प्राप्तिश् च -
वेदोक्तम् एव कुर्वाणो निःसङ्गोऽर्पितम् ईश्वरे ।
नैष्कर्म्यां लभते सिद्धिं [भ्प् 11.3.47] इत्य् अत्र ।
भक्ति-प्राप्तिश् च - एवं कर्म-विशुद्धिं [भ्प् 5.7.7] इत्य्-आदि-गद्ये दर्शितैव ।
यद् अत्र क्रियते कर्म भगवत्-परितोषणम् ।
ज्ञानं यत् तद् अधीनं हि भक्ति-योग-समन्वितम् ॥ [भ्प् 1.5.35] इत्य् अत्र च ।
भक्ति-योगसयचरअत्वाद् ज्ञानम् अत्र भगवज्-ज्ञानम् । परम-भक्तास् तु
भगवत्-परितोषणं प्रीणनम् एव प्रार्थयन्ते --
यन् नः स्वधीतं गुरवः प्रसादिता
विप्राश् च वृद्धाश् च सद्-आनुवृत्त्या ।
आर्या नताः सुहृदो भ्रातरश् च
सर्वाणि भूतान्य् अनसूययैव ॥ [भ्प् 4.30.39]
ते तव परितोषणाय भवत्व् इति वृणीमहे ।
॥ 4.30 ॥ प्रचेतसः श्रीमद्-अष्टभुजं पुरुषम्

6.225

[225]
तद् एवम् आरोप-सिद्धा दर्शिता । अथ सङ्ग-सिद्धोदाहरण-प्राप्ता मिश्रा
भक्तिर् दर्श्यते । स्वरूप-सिद्धासङ्गेन ह्य् अन्येषाम् अपि भक्तित्वं
दर्शितम् । तत्र भागवतान् धर्मान् इत्य् आदि-श्री-प्रबुद्ध-वाक्य-प्रकरणे
सर्वासङ्ग-दया-मैत्रादीनाम् अपि भागवत-धर्मत्वाभिधानात् ।
तत्र कर्म-मिश्रा त्रिविधा सम्भवति - स-कामा कैवल्य-कामा, भक्ति-
मात्र-कामा च । यद्यपि काम-वैकल्ये अपि -
या वै साधन-सम्पत्तिः पुर्षार्थ-चतुष्टये ।
तया विना तद् आप्नोति नरो नारायणाश्रयः ॥
इत्य् उक्तेः केवलयैव भक्त्या सम्भवतस् तथापि तत्-तद्-वासनानुसारेण
तत्र तत्र रुचिर् जायते इत्य् एवं तत्-तद्-अर्थं तन्-मिश्रता जायत इत्य्
अवगन्तव्यम् । ततः सकामा प्रायः कर्म-मिश्रैव । तत्र कर्म-शब्देन
धर्म एव गृह्यते । तल्-लक्षणं च यम-दूतैः सामान्यत उक्तं वेद-
प्रणिहितो धर्मः [भ्प् 6.2.36] इति । वेदोऽत्र त्रैगुण्य-विषयः त्रैगुण्य-
विषया वेदाः [गीता 2.45] इति श्री-गीतोक्तेः । तत्-प्रवर्तन-मात्रत्वेन सिद्धः
न तु भक्तिवद् अज्ञानेनापीत्य् अर्थः । श्री-गीतास्व् एवान्यत्र तस्य कर्म-
संज्ञितत्वं चोक्तं भूत-भावोद्भव-करो विसर्गः कर्म-संज्ञितः [गीता
8.3] इति । विसर्गो देवतोद्देशेन द्रव्य-त्यागः । तद्-उपलक्षितः सर्वोऽपि
धर्मः कर्म-संज्ञित इत्य् अर्थः । स च भूतानां प्राणिनां ये भावा
वासनास् तेषाम् उद्भव-कर इति विशेषणाद् भगवद्-भक्तिर् व्यावृत्ता ।
अथ भक्ति-सङ्गाय धर्मस्य वैशेष्ट्यं चैकादशे । श्री-भगवतोक्तं -
धर्मो मद्-भक्ति-कृत् प्रोक्तः [भ्प् 11.19.25] इति । भगवद्-अर्पणेन भक्ति-
परिकरीकृतत्वेन च भक्तिकृत्त्वम् उच्यते । तद् एवम् ईदृशेन कर्मणा मिश्रा
स-कामा भक्तिर् यथा --
(पगे 115)
प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः ।
सरस्वत्यां तपस् तेपे सहस्राणां समा दश ॥
ततः समाधि-युक्तेन क्रिया-योगेन कर्दमः ।
सम्प्रपेदे हरिं भक्त्या प्रपन्न-वरदाशुषम् ॥ [भ्प् 3.21.6-7]
अत्र तद्-दर्शन-जात-भगवद्-अश्रु-पात-लिङ्गेन निष्कामस्याप्य् अस्य ।
ब्रह्मादेश-गौरवेणैव कामना ज्ञेया ।
॥ 3.21 ॥ श्री-मैत्रेयः

6.226

[226]
अथ कैवल्य-कामा क्वचित् कर्म-ज्ञान-मिश्रा क्वचिद् ज्ञान-मिश्रा च । तत्र
ज्ञानं ज्ञानं चैकात्म्य-दर्शनम् इति दर्शितम् । तदीय-श्रवणादीनां
वैराग्य-योग-साङ्ख्यानां च तद्-अङ्गत्वात् तद्-अन्तः-पातः । अथ कर्म-
ज्ञान-मिश्रा । यथा --
अनिमित्त-निमित्तेन स्व-धर्मेणामलात्मना ।
तीव्रया मयि भक्त्या च श्रुत-सम्भृतया चिरम् ॥
ज्ञानेन दृष्ट-तत्त्वेन वैराग्येण बलीयसा ।
तपो-युक्तेन योगेन तीव्रेणात्म-समाधिना ॥
प्रकृतिः पुरुषस्येह दह्यमाना त्व् अहर्-निशम् ।
तिरो-भवित्री शनकैर् अग्नेर् योनिर् इवारणिः ॥ [भ्प् 3.27.21-23]
निमित्तं फलं न तन्-निमित्तं प्रवर्तकं यस्मिन् तेन निष्कामेन ।
अमलात्मना निर्मलेन मनसा । ज्ञानेन शास्त्रोत्थेन । योगो जीवात्म-
परमात्मनो ध्यानं योगः सन्नहनोपाय-ध्यान-सङ्गति-युक्तिषु इति
नानार्थ-वर्गात् । ध्यानम् एव ध्यातृ-ध्येय-विवेक-रहितं समाधिः । अत्र
सर्वासाम् एव सिद्धीनां मूलं तच्-चरणार्चनम् [भ्प् 10.81.16] इत्य् उक्त्या
भक्तेर् अङ्गित्वेऽपि अङ्गवन् निर्देशस् तेषां तत्र साधनान्तर-सामान्य-
दृष्टिर् इत्य् अभिप्रायेण । अतएव तेषां मोक्ष-मात्र-फलम् इति ।
॥ 3.27 ॥ श्री-कपिल-देवः

6.227

[227]
ज्ञान-मिश्राम् आह -
विविक्त-क्षेम-शरणो मद्-भाव-विमलाशयः ।
आत्मानं चिन्तयेद् एकम् अभेदेन मया मुनिः ॥ [भ्प् 11.18.21]
भावो भावना ।
॥ 11.18 ॥ श्री-भगवान्

6.228

[228]
तद् एवं कैवल्य-कामायां ज्ञान-मिश्रोक्ता । अथ भक्ति-मात्र-कामायां
कर्म-मिश्रा यथा -
श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् ।
परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ [भ्प् 11.19.20] इति ।
मद्-अर्थेऽर्थ-परित्यागो भोगस्य च सुखस्य च ।
इष्टं दत्तं हुतं जप्तं मद्-अर्थं यद् व्रतं तपः ॥
एवं धर्मैर् मनुष्याणाम् उद्धवात्म-निवेदिनाम् ।
मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥ [भ्प् 11.19.23-24] (पगे 116)
इत्य् अन्तम् ।
मद्-अर्थे मद्-भजनार्थं तद्-विरोधितोऽर्थस्य परित्यागः । भोगस्य तत्-
साधनस्य चन्दनादेः । सुखस्य पुत्रोपलालनादेः । इष्टादि-वैदिकं यत्
कर्म तद् अपि मद्-अर्थं कृतं भक्तेः कारणम् इत्य् अर्थः । धर्मैर्
भागवताभिधैः । एवं काय-वाङ्-मनोभिस् तद्-अर्थ-मात्र-
चेष्टावत्त्वेनानुष्ठितैर् भगवद्-धर्मैर् आत्म-निवेदिनाम् । यस्यास्ति
भक्तिर् भगवत्य् अकिञ्चना [भ्प् 5.18.12] इत्य् आदि-न्यायेनास्य भक्ति-मात्र-
कामस्य अन्यः कोऽर्थः साधन-रूपः साध्य-रूपो वावशिष्यते ।
सर्वोऽस्यानादृतोऽपि तद्-आश्रितो भवतीत्य् अर्थः ।
॥ 11.19 ॥ श्री-भगवान्

6.229

[229]
कर्म-ज्ञान-मिश्रा यथा -
निषेवितेनानिमित्तेन स्व-धर्मेण महीयसा ।
क्रिया-योगेन शस्तेन नातिहिंस्रेण नित्यशः ॥
मद्-धिष्ण्य-दर्शन-स्पर्श- पूजा-स्तुत्य्-अभिवन्दनैः ।
भूतेषु मद्-भावनया सत्त्वेनासङ्गमेन च ॥
महतां बहु-मानेन दीनानाम् अनुकम्पया ।
मैत्र्या चैवात्म-तुल्येषु यमेन नियमेन च ॥
आध्यात्मिकानुश्रवणान् नाम-सङ्कीर्तनाच् च मे ।
आर्जवेनार्य-सङ्गेन निरहङ्क्रियया तथा ॥
मद्-धर्मणो गुणैर् एतैः परिसंशुद्ध आशयः ।
पुरुषस्याञ्जसाभ्येति श्रुत-मात्र-गुणं हि माम् ॥ [भ्प् 3.29.15-19]
निषेवितेन सम्यग् अनुष्ठितेन अनिमित्तेन च निषामेन स्व-धर्मेण ।
महीयसा श्रद्धादि-युक्तेन । क्रिया-योगेन पञ्चरात्राद्य्-उक्त-
वैष्णवानुष्ठानेन । शस्तेन उत्तम-देश-कालादिमता निष्कामेन च ।
नातिहिंस्रेण अतिहिंसा-रहितेन । अति-शब्दः प्राणादि-पीडा-परित्याग-फल-
पत्रादि-जीवावयव-स्वीकारार्थः । मद्-धिष्ण्यं मद्-अर्चादि । भूतेष्व्
अन्तर्यामित्वेन मद्-भावनया । सत्त्वेन धैर्येण । असङ्गमेन वैराग्येण
च । अहिंसास्तेय-ब्रह्मचर्य-परिग्रहा यमाः । शौच-सन्तोष-तपः-
स्वाध्याएश्वर-प्रणिधानानि नियमाः । आध्यात्मिकम् आत्मानम् आत्म-
विवेक-शास्त्रम् । निरहङ्क्रियया गर्व-राहित्येन । मद्-धर्मणः मद्-
धर्मानुष्ठातुः पुरुषस्याशयः । श्रुत-मात्र-गुणं माम् अञ्जसाभ्येति
मद्-गुण-श्रुति-मात्रेण मयि [भ्प् 3.29.11] इत्य्-आद्य्-उक्त-लक्षणां
ध्रुवानुस्मृतिं प्राप्नोतीत्य् अर्थः । अत्राध्यात्मिक-श्रवणादिना ज्ञान-
मिश्रत्वम् अपि ।
॥ 3.29 ॥ श्री-कपिल-देवः

6.230

[230]
अथ ज्ञान-मिश्रा -
दृष्ट-श्रुताभिर् मात्राभिर् निर्मुक्तः स्वेन तेजसा ।
ज्ञान-विज्ञान-सन्तृप्तो मद्-भक्तः पुरुषो भवेत् ॥ [भ्प् 6.16.62]
दृष्टेति ऐहिकामुष्मिक-विषयैः । स्वेन तेजसा विवेक-बलेन ।
॥ 6.16 ॥ श्री-सङ्कर्षणश् चित्रकेतुम्

6.235

[231]
अथ केवल-स्वरूप-सिद्धोदाह्रियते । तत्र सकामा कैवल्य-कामा चोपासक-
सङ्कल्प-गुणैस् तत्-तद्-गुणत्वेनोपचर्यते । ततः सकामा द्विविधा तामसी
राजसी च । पूर्वा यथा -
अभिसन्धाय यो हिंसां दम्भं मात्सर्यम् एव वा ।
संरम्भी भिन्न-दृग् भावं मयि कुर्यात् स तामसः ॥ [भ्प् 3.29.8]
अभिसन्धाय सङ्कल्प्य । संरम्भी स-क्रोधः । भिन्न-दृक् स्वस्मिन्न् इव
सर्वत्र यत्र सुखं दुःखं च तत्-तद्-देवता निरनुकम्प इत्य् अर्थः ।
[232]
उत्तरा यथा - (पगे 117)
विषयान् अभिसन्धाय यश ऐश्वर्यम् एव वा ।
अर्चादाव् अर्चयेद् यो मां पृथग्-भावः स राजसः ॥ [भ्प् 3.29.9]
पृथक् मत्तोऽन्यत्र विषयादिष्व् एव भावः स्पृहा यस्य न तु मयीति
राजसत्व-हेतुता दर्शिता ।
[233]
अथ कैवल्य-कामा सात्त्विक्य् एव । सा यथा --
कर्म-निर्हारम् उद्दिश्य परस्मिन् वा तद्-अर्पणम् ।
यजेद् यष्टव्यम् इति वा पृथग्-भावः स सात्त्विकः ॥ [भ्प् 3.29.10]
[234]
अथ यस्या एवोत्कर्ष-ज्ञानार्थम् एते भक्ति-भेदा निरूपिताः सा भक्ति-
मात्र-कामत्वान् निष्कामा निर्गुणा केवला स्वरूप-सिद्धा निरूप्यते । इयम्
एवाकिञ्चनाख्यत्वेन सर्वोर्ध्वं पूर्वम् अप्य् अभिहिता । ताम् आह --
मद्-गुण-श्रुति-मात्रेण मयि सर्व-गुहाशये ।
मनो-गतिर् अविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥
लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् ।
अहैतुक्य् अव्यवहिता या भक्तिः पुरुषोत्तमे ॥
सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत ।
दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥
स एव भक्ति-योगाख्य आत्यन्तिक उदाहृतः ।
येनातिव्रज्य त्रि-गुणं मद्-भावायोपपद्यते ॥ [भ्प् 3.29.11-15]
मद्-गुण-श्रुति-मात्रेण न तु तत्रोद्देशान्तर-सिद्ध्य्-अभिप्रायेण । प्राकृत-
गुण-मय-करणानां सर्वेषां गुहा करणागोचर-पदवी तस्यां शेते
गुह्यतया निश्चलतया च तिष्ठति यस् तस्मिन् मयि अविच्छिन्ना विषयान्तरेण
व्च्चेत्तुम् अशक्या या मनोगतिः सा । अविच्छिन्नत्वे दृष्टान्तो यथेति । गतिर् इति
पूर्वस्माद् आकृष्यते नित्यापेक्षात्वात् । लक्षणं स्वरूपम् ।
ननु तस्या गुण-श्रुतेः का वार्ता उद्देश्यान्तराभावेन मनोगतित्वाभावेन
च द्विधापि निर्देष्टुम् अशक्त्यत्वात् । तत्राह - अहैतुकी फलानुसन्धान-
रहिता । अव्यवहिता स्वरूप-सिद्धत्वेन साक्षाद्-रूपा न त्व् आरोप-सिद्धत्वेन
व्यवधानात्मिका । तादृशी या भक्तिः श्रोत्रादिना सेवन-मात्रं सा च तस्य
स्वरूपम् इत्य् अर्थः । मात्र-पदेनाविच्छिन्नेत्य् अनेन च मनो-गतेर्
अहैतुकीत्वादि-सिद्धेः पृथग्-योजनानर्हत्त्वात् । सात्त्विकः कारकोऽसङ्गी [भ्प्
11.25.25] इत्य् आदिषु निर्गुणो मद्-अपाश्रयः [भ्प् 11.25.25] इत्य् आदिभिस् तद्-
आश्रय-क्रियादीनां निर्गुणत्व-स्थापनात् --
(पगे 118)
मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।
सुहृदं प्रियम् आत्मानं साम्यासङ्गादयोऽगुणाः ॥ [भ्प् 11.13.40]
इत्य् अत्र तद्-गुणानाम् अप्य् अप्राकृतत्व-श्रवणाद् अहैतुकीत्वम् एव विशेषतो
दर्शयति । जना मदीयाः । सालोक्यादिकम् अपि उत अपि दीयमानम् अपि न
गृह्णाति । मत्-सेवनं विनेति गृह्णन्ति चेत् तर्हि मत्-सेवार्थम् एव गृह्णन्ति न
तु तद्-अर्थम् एवेत्य् अर्थः । सार्ष्टिः समानैश्वर्यम् । एकत्वं भगवत्-
सायुज्यं ब्रह्म-सायुज्यं च । अनयोस् तल्-लीनात्मकत्वेन तत्-
सेवनार्थत्वाभावाद् अग्रहणावश्यकत्वम् एवेति भावः । तस्मात् स एव
चात्यन्तिक-फलतया भवतीत्य् अपवर्ग इत्य् अर्थः । नात्यन्तिकं विगणयन्ति
[भ्प् 3.15.48] इत्य् आदेर् आत्यन्तिक-प्रलयतया तत्-प्रसिद्धेश् च ।
ननु गुण-त्रयात्यय-पूर्वक-भगवत्-साक्षात्कार एवापवर्ग इति चेत् तस्यापि
तादृश-धर्मत्वं स्वतः सिद्धम् एवेत्य् आह येनेति । येन कदाचिद् अप्य्
अपरित्याज्येन मम भावाय विद्यमानतायै साक्षात्कारायेत्य् अर्थः ।
उपपद्यते समर्थो भवति । यथोक्तं पञ्चमे यथा वर्ण-विधानम्
अपवर्गश् च भवति [भ्प् 5.19.19] योऽसौ भगवति [भ्प् 5.19.20] इत्य् आदिकम्
अनन्य-निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थिर् अन्धन-
द्वारेण [भ्प् 5.19.20] इत्य् अन्तम् ।
अतो निर्गुणापि बहुधैवावगन्तव्या । एवम् उक्तम् एतत्-प्रकरणारम्भे -
भक्ति-योगो बहु-विधो मार्गैर् भामिनि भाव्यते ।
स्वभाव-गुण-मार्गेण पुंसां भावो विभिद्यते ॥ [भ्प् 3.29.7] इति ।
मार्गः प्रकार-विशेषैः । अतः स्वस्य भक्ति-योगस्यैव मार्गेण वृत्ति-
भेदेन श्रवणादिना भावयाभिमानस्य तद्-भेदेन दास्यादिना गुणानां
तम-आदीनां च तद्-भेदेन हिंसादिना पुंसां भावोऽभिप्रायो विभिद्यत इत्य्
अर्थः ।
अत्र मुक्ता-फल-टीका च - अयम् आत्यन्तिकस् ततः परं
प्रकारान्तराभावात् । अस्यैव भक्ति-योग इत्य् आख्या । अन्वर्थेन भक्ति-
शब्दस्यात्रैव मुख्यत्वात् । इतरेषु फल एवानुरागो न तु विष्णौ फल-
लाभेन भक्ति-त्यागात् इत्य् एषा ।
श्री-गोपाल-तापनी-श्रुतौ च -- भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-
नैरास्येनैवामुष्मिन् मनः-कल्पनम् । एतद् एव च नैष्कर्म्यम् [ग्तु 1.14]
इति । शतपथ-श्रुतौ - स होवाच याज्ञवल्क्यस् तत् पुमान् आत्म-हिताय
प्रेम्णा हरिं भजेत् इति । प्रेम्णा प्रीति-मात्र-कामनया यद्-आत्म-हितं
तस्मै इत्य् अर्थः ।
॥ 3.29 ॥ श्री-कपिल-देवः ॥ 231-234 ॥
(पगे 119)
[235]
तद् एवं बहुधा साधितैषाकिञ्चनात्यन्तिकीत्य् आदि-संज्ञा भक्तिर् द्विविधा
वैधी रागानुगा च इति । तत्र वैधी शास्त्रोक्त-विधिना प्रवर्तिता । स च
विधिर् द्विविधः । तत्र प्रथमः प्रवृत्ति-हेतुर्ः । तद्-अनुक्रम-
कर्तव्याकर्तव्यानां ज्ञान-हेतुश् च । प्रथमस् तूदाहृतः --
तस्माद् एकेन मनसा भगवान् सात्वतां पतिः ।
श्रोतव्यः कीर्तितव्यश् च ध्येयः पूज्यश् च नित्यदा ॥ [भ्प् 1.2.14] इत्य् आदिना ।
द्वितीयश् चार्चन-व्रतादि-गतः । तम् आह -
माम् एव नैरपेक्ष्येण भक्ति-योगेन विन्दति ।
भक्ति-योगं स लभत एवं यः पूजयेत माम् ॥ [भ्प् 11.27.53]
नैरपेक्ष्येण अहैतुकेन । अहैतुक-भक्ति-योग एव कथं स्यात् तत्राह
भक्ति-योगम् इति । एवं -
यदा स्व-निगमेनोक्तं द्विजत्वं प्राप्य पूरुषः ।
यथा यजेत मां भक्त्या श्रद्धया तन् निबोध मे ॥ [भ्प् 11.27.8]
इत्य् आद्य् उक्त-विधिना ।
॥ 11.27 ॥ श्री-भगवान्

6.236

[236]
एवम् एकादशी-जन्माष्टम्यादिगतोऽपि ज्ञेयः । अथ वैधी-भेदाः
शरणापत्ति-श्री-गुर्व्-आदि-सत्-सेवा-श्रवण-कीर्तनादयः । एते च प्रत्येकम्
अपि द्वित्रादयः समुत्यापि कारणानि भवन्ति । तथा श्रवणात् । तत्र
प्रथमतः शरणापत्तिः । षड्-वर्गाद्य्-अविकृत-संसार-भय-बाध्यमान
एव हि शरणं प्रविशत्य् अनन्य-गतिः । भक्ति-मात्र-कामोऽपि तत्-कृत-
भगवद्-वैमुख्य-बाध्यमानः ।
अनन्य-गतित्वं च द्विधा दर्श्यते । आश्रयान्त्रस्याभाव-कथनेन अति-
प्रज्ञया कथञ्चिद् आश्रितस्यान्यस्य त्याजनेनअ च । पूर्वेण यथा -
मर्त्यो मृत्यु-व्याल-भीतः पलायन्
लोकान् सर्वान् निर्भयं नाध्यगच्छत् ।
त्वत् पादाब्जं प्राप्य यदृच्छयाद्य
सुस्थः शेते मृत्युर् अस्माद् अपैति ॥ [भ्प् 10.3.27]
उत्तरेण यथा -
तस्मात् त्वम् उद्धवोत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतम् एव च ॥
माम् एकम् एव शरणम् आत्मानं सर्व-देहिनाम् ।
याहि सर्वात्म-भावेन मया स्या ह्य् अकुतो-भयः ॥ [भ्प् 11.12.14-15] इति ।
चोदनां श्रुतिं प्रतिचोदनां स्मृतिम् इति टीका च ।
श्री-गीतासु च - सर्व-धर्मान् परित्यज्य [गीता 18.66] इत्य् आदि । तस्या
शरणापत्तेर् लक्षणं वैष्णव-तन्त्रे -
आनुकूल्यस्य सङ्कल्पः प्रतिकूल्य-विवर्जनम् ।
रक्षिष्यतीति विश्वासो गोप्तृत्वे वरणं तथा ।
आत्म-निक्षेप-कार्पण्ये षड्-विधा शरणागतिः ॥ इति ।
अङ्गाङ्गि-भेदेन षड्-विधा । तत्र गोप्तृत्वे वरणम् एवाङ्गि शरणागति-
शब्देनैकार्थ्यात् । (पगे 120) अन्यानि त्व् अङ्गानि तत्-परिकरत्वात् । आनुकूल्य-
प्रातिकूल्ये तद्-भक्तादीनां शरणागतस्य भावस्य वा । रक्षिष्यतीति
विश्वासः । क्षेमं विधास्यति स नो भगवांस् त्र्य्-अधीशस् तत्रास्मदीय-
विमृशे न कियान् इहार्थः [भ्प् 3.16.35] इत्य् आदि-प्रकारः ।
आत्म-निक्षेपः केनापि देवेन ऋदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि इति
गौतमीय-तन्त्रोक्त-प्रकारः । यथोक्तं पाद्मोत्तर-खण्डे चाष्टाक्षरस्य
नमः-शब्द-व्याख्याने -
अहङ्कृतिर् म-कारः स्यान् न-कारस् तन्-निषेधकः ।
तस्मात् तु नमसा चात्र स्वातन्त्र्यं प्रतिषिध्यते ॥
भगवत्-पर-तन्त्रोऽसौ तदा यत्तश् च जीवति ।
तस्मात् स्व-सामर्थ्य-विधिं त्यजेत् सर्वम् अशेषतः ॥
ईश्वरस्य तु सामर्थ्यान् नालभ्यं तस्य विद्यते ।
तस्मिन् न्यस्त-भवः शेते तत्-कर्मैव समाचरेत् ॥ [पद्मप् 6.226.41-46]
अतएव ब्रह्म-वैवर्ते -
अहैकार-निवृत्तानां केशवो न हि दूरगः ।
अहङ्कार-युतानां हि मध्ये पर्वत-राशयः ॥ [भ्प् 3.9.9] इति ।
कार्पण्यं - परम-कारुणिको न भवेत् परः परम-शोच्यतमो न च मत्-
पर इत्य् आदि-प्रकारम् । गोप्तृत्वे वरणं च यथा नारसिंहे -
त्वां प्रपन्नोऽस्मि शरणं देव-देवं जनार्दनम् ।
इति यः शरणं प्राप्तस् तं क्लेशाद् उद्धराम्य् अहम् ॥ इति प्रकारम् ।
तद् अपि त्रि-प्रकारं कायिकत्वादि-भेदेन यथोक्तं ब्रह्म-पुराणे -
कर्मणा मनसा वाचा येऽच्युतं शरणं गताः ।
न समर्थो यमस् तेषां ते मुक्ति-फल-भागिनः ॥ इति ।
व्याख्यातं श्री-हरि-भक्ति-विलासे -
तवास्मीति वदन् वाचा तथैव मनसा विदन् ।
तत्-स्थानम् आश्रितस् तन्वा मोदते शरणागतः ॥ [ह्ब्व् 11.677] इति ।
तद् एवं यस्य सर्वाङ्ग-सम्पन्ना शरणापत्तिस् तस्य झटित्य् एव सम्पूर्ण-
फला अन्येषां तु यथा-सम्पत्ति यथा-क्रमं चेति ज्ञेयम् । ताम् एतां
शरणापत्तिं श्लाघते -
ताप-त्रयेणाभिहतस्य घोरे
सन्तप्यमानस्य भवाध्वनीश ।
पश्यामि नान्यच् छरणं तवाङ्घ्रि-
द्वन्द्वातपत्राद् अमृताभिवर्षात् ॥ [भ्प् 11.19.9]
शरणागतानां सर्व-दुःख-दूरीकरणं निज-माधुरीणां सर्वतो-वर्षं
चात्राभिहितम् ।
॥ 11.19 ॥ उद्धवः श्री-भगवन्तम्

6.237

[237]
तद् एवं शरणापत्तिर् विवृता । अस्याश् च पूर्वत्वं तां विना तदीयत्वासिद्धिः ।
तत्र शरणापत्त्यैव यद्यपि सर्वं सिध्यति ।
शरणं तं प्रपन्ना ये ध्यान-योग-विवर्जिताः ।
ते वै मृत्युम् अतिक्रम्य यान्ति तद् वैष्णवं पदम् ॥ (पगे 121) इति गारुडात् ।
तथापि वैशिष्ठ्य-लिप्सुः शक्तश् चेत् ततो भगवच्-छास्त्रोपदेष्टॄणां
भगवन्-मन्त्रोपदेष्टॄणां वा श्री-गुरु-चरणानां नित्यम् एव विशेषतः
सेवां कुर्यात् । तत्-प्रसादः स्व-स्व-नाना-प्रतीकार-दुस्त्यजान् अर्थ-हानौ
परम-भगवत्-प्रसाद-सिद्धौ च मूलम् । पूर्वत्र यथा सप्तमे श्री-
नारद-वाक्यम् -
असङ्कल्पाज् जयेत् कामं क्रोधं काम-विवर्जनात् ।
अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ॥
आन्वीक्षिक्या शोक-मोहौ दम्भं महद्-उपासया ।
योगान्तरायान् मौनेन हिंसां कामाद्य्-अनीहया ॥
कृपया भूतजं दुःखं दैवं जह्यात् समाधिना ।
आत्मजं योग-वीर्येण निद्रां सत्त्व-निषेवया ॥
रजस् तमश् च सत्त्वेन सत्त्वं चोपशमेन च ।
एतत् सर्वं गुरौ भक्त्या पुरुषो ह्य् अञ्जसा जयेत् ॥ [भ्प् 7.15.22-25] इति ।
उत्तरत्र वामन-कल्पे ब्रह्म-वाक्यम् -
यो मन्त्रः स गुरुः साक्षाद् यो गुरुः स हरिः स्वयम् ।
गुरुर् यस्य भवेत् तुष्टस् तस्य तुष्टो हरिः स्वयम् ॥ इति ।
अन्यत्र -
हरौ रुष्टे गुरुस् त्राता गुरौ रुष्टे न कश्चन ।
तस्मात् सर्व-प्रयत्नेन गुरुम् एव प्रसादयेत् ॥ इति ।
अतएव सेवा-मात्रं तु नित्यम् एव । यथा चान्यत्र परमेश्वर-वाक्यम् -
प्रथमं तु गुरुः पूज्यः ततश् चैव ममार्चनम् ।
कुर्वन् सिद्धिम् अवाप्नोति ह्य् अन्यथा निष्फलं भवेत् ॥ इति ।
अतएव नारद-पञ्चरात्रे -
वैष्णवं ज्ञान-वक्तारं यो विद्याद् विष्णुवद् गुरुम् ।
पूजयेद् वाङ्-मनः-कायैः स शास्त्रज्ञः स वैष्णवः ॥
श्लोक-पादस्य वक्तापि यः पूज्यः स सदैव हि ।
किं पुनर् भगवद्-विष्णोः स्वरूपं वितनोति यः ॥ इत्य् आदि ।
पाद्मे देवहूति-स्तुतौ -
भक्तिर् यथा हरौ मेऽस्ति तद्वन् निष्ठा गुरौ यदि ।
ममास्ति तेन सत्येन स्वं दर्शयतु हरिः ॥ इति ।
तस्माद् अन्यद्-भगवज्-जनम् अपि नापेक्षते । यथोक्तम् आगमे पुरश्चरण-
फल-प्रसङ्गे -
यथा सिद्ध-रस-स्पर्शात् ताम्रं भवति काञ्चनम् ।
सन्निधानाद् गुरोर् एवं शिष्यो विष्णुमयो भवेत् ॥ इति ।
तद् एतद् आह -
नाहम् इज्या-प्रजातिभ्यां तपसोपशमेन वा ।
तुष्येयं सर्व-भूतात्मा गुरु-शुश्रूषया यथा ॥ [भ्प् 10.80.34]
टीका च -- ज्ञान-प्रदाद् गुरोर् अधिकः सेव्यो नास्तीत्य् उक्तम् । अतएव तद्-
भजनाद् अधिको धर्मश् च नास्तीत्य् आह नाहम् इति । इज्या गृहस्थ-धर्मः ।
प्रजातिः प्रकृष्टं जन्म उपनयनं तेन ब्रह्मचारि-धर्म उपलक्ष्यते
ताभ्याम् । तथा तपसा वनस्थ-धर्मेण । उपशमेन यति-धर्मेण वा ।
अहं परमेश्वरस् तथा न तुष्येय यथा सर्व-भूतात्मापि गुरु-
शुश्रूषया । इत्य् एषा ।
अत्र ज्ञानं ब्रह्म-निष्ठं भगवन्-निष्ठं चेति द्विविधम् । तत्र पूर्वत्र
तथैव व्याख्या । उक्तं त्व् एवम् -- (पगे 122) इज्या पूजा । प्रजाति वैष्णव-
दीक्षा । तपः समाधिः । उपशमो भगवन्-निष्ठेति ॥
॥ 10.80 ॥ श्री-भगवान् श्रीदाम-विप्रम्

6.243

[238]
श्री-गुर्व्-आज्ञया तत्-सेवनाविरोधेन चान्येषाम् अपि वैष्णवानां सेवनं
श्रेयः । अन्यथा दोषः स्यात् । यथा श्री-नारदोक्तौ -
गुरौ सन्निहिते यस् तु पूजयेद् अन्यम् अग्रतः ।
स दुर्गतिम् अवाप्नोति पूजनं तस्य निष्फलम् ॥ इति ।
यः प्रथमं शाब्दे परे च निष्णातं [भ्प् 11.3.21] इत्य् आद्य् उक्त-लक्षणं
गुरुं नाश्रितवान् तादृश-गुरोश् च मत्सरादितो महाभागवत-सत्कारादाव्
अनुमतिं न लभते स प्रथमत एव त्यक्त-शास्त्रो न विचार्यते । उभय-
सङ्कट-पातो हि तस्मिन् भवत्य् एव ।
एवम्-आदिकाभिप्रायेणैव -
यो वक्ति न्याय-रहितम् अन्यायेन शृणोति यः ।
ताव् उभौ नरकं घोरं व्रजतः कालम् अक्षयम् ॥ इति नारद-पञ्चरात्रे ।
अत एव दूरत एवाराध्यस् तादृशो गुरुः । वैष्णव-विद्वेषी चेत् परित्याज्य एव ।
गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः ।
उत्पथप्रतिपन्नस्य कार्यं भवति शासनम् ॥ [म्भ् 5.178.24] इति स्मरणात् ।
तस्य वैष्णव-भाव-राहित्येणावैष्णवतया अवैष्णवोपदिष्टेनेत्य् आदि-
वचन-विषयत्वाच् च । यथोक्त-लक्षणस्य गुरोर् अविद्यमानायां तु तस्यैव
महा-भागवतस्यैकस्य नित्य-सेवनं परम-श्रेयः । स च श्री-गुरुवत्
समवासनः स्वस्मिन् कृपालु-चित्तश् च ग्राह्यः ।
यस्य यत्-सङ्गतिः पुंसो मणिवत् स्यात् स तद्-गुणः ।
स्व-कुलर्द्ध्यै ततो धीमान् स्व-यूथान्य् एव संश्रयेत् ॥
इति श्री-हरि-भक्ति-सुधोदय-दृष्ट्या कृपां विना तस्मिन् चित्तारत्या च । अथ
सर्वस्यैव भागवत-चिह्न-धारि-मात्रस्य तु यथा-योग्यं सेवा-विधानम् ।
तत्र महा-भागवत-सेवा द्विविधः - प्रसङ्ग-रूपा परिचर्या-रूपा च ।
तत्र प्रसङ्ग-रूपा यथा -
नो रोधयति मां योगो न साङ्ख्यं धर्म एव च ।
न स्वाध्यायस् तपस् त्यागो नेष्टा-पूर्तं न दक्षिणा ॥
व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः ।
यथावरुन्धे सत्-सङ्गः सर्व-सङ्गापहो हि माम् ॥ [भ्प् 11.12.1-2]
पूर्वाध्याये -
इष्टा-पूर्तेन माम् एवं यो यजेत समाहितः ।
लभते मयि सद्-भक्तिं मत्-स्मृतिः साधु-सेवया ॥ [भ्प् 11.11.47]
इत्य् अनेन साधु-सेवया भक्ति-निष्ठा-जनने साधनानन्तर-सेव्य्
अपेक्षत्वम् इवोक्तम् ।
अत्रेष्ट-शब्देन सप्तम-स्कन्धोक्त-रीत्याग्निहोत्र-दर्श-पौर्णमास-
चातुर्मास्ययागपशु-याग-वैश्वदेव-बलि-हरणान्य् उच्यन्ते [भ्प् 7.15.48-49] ।
पूर्त-शब्देन सुराल-याराम-कूप-वापी-तडाग-प्रपा । सत्राण्य् उच्यन्ते [भ्प्
7.15.49]
अत्र तु इष्टं हविषाग्नौ यजेत माम् [भ्प् 11.11.42] (पगे 123) । इत्य् आदौ
अग्निहोत्राद्य् उपलक्षितं पूर्तम् उद्यानोपवनाक्रीडेत्य् आद्य् उपलक्षितं
ज्ञेयम् । एवं पूर्वोक्त-प्रकारेणेष्टा-पूर्तेन यो मां यजेत स मत्-स्मृतिस्
तत्र साधु-सेवया सतां प्रसङ्गेन स-भक्तिम् । अन्तरङ्गभक्ति-निष्ठां
प्राप्नोतीत्य् अर्थः । तत्राग्नि-होत्रादीनां भक्तौ प्रवेशोऽग्न्य्-अन्तर्यामि-
रूप-भगवद्-अधिष्ठानत्वेनाग्न्यादि-सन्तर्पणात् । कूपारामादीनां च तत्-
परिचर्यार्थं क्रियमाणत्वात् तत्र प्रवेशः । तद् एवं सत्-सङ्गस्य
सर्वापेक्षत्वम् उक्तम् । पुनश् च तत्र च तस्य स्वातन्त्र्येण यथेष्ट-फल-
दातृत्वं सर्वापेक्षया परम-सामर्थ्यं च वक्तुं परम-गुह्यम्
उपदिष्टम् ।
अथैतत् परमं गुह्यं शृण्वतो यदु-नन्दन ।
सु-गोप्यम् अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा ॥ [भ्प् 11.11.49] इति ।
एतादृश-महिमत्वेनानूक्तत्वात् तद् एतत् परम-गुह्यत्वम् आह न
रोध्यतीति । त्यागः सन्न्यासः । दक्षिणा दान-मात्रम् । यज्ञो देव-पूजा ।
छन्दांसि रहस्य-मन्त्राः । यथा सत्सङ्गो माम् अवरुन्धे वशीकरोतीति
तथा योगो न वशीकरोति न च साङ्ख्यम् इत्य् आदिकोऽन्वयः । ततस् तेऽपि किञ्चिद्
वशीकुर्वन्तीत्य् अर्थ-लब्धेर् भगवत्-परा एव ज्ञेया न च साधारणाः ।
अतएव च व्रतान्य् एकादश्यादीनीति टीका-काराः । न चैतावतैषां नित्यानां
वैष्णव-व्रतानाम् अकर्तव्यत्वं प्राप्तम् एकस्य फलातिशय-सामर्थ्य-
प्रशंसयेतरस्य नित्यत्व-निराकरणायोगात् । यथा कर्माधिकारिणः --
न ह्य् अग्नि-मुखतोऽयं वै भगवान् सर्व-यज्ञ-भुक् ।
इज्येत हविषा राजन् यथा विप्र-मुखे हुतैः ॥ [भ्प् 7.14.17]
इति श्रुत्वापि पूर्वोक्तम् अग्निहोत्रादिना यजेत इति विधिं न परित्यक्तुं
शक्नुवन्ति तद्वत् भक्त्य्-अधिकारिणश् च यथा मद्-भक्त-पूजाभ्यधिका
[भ्प् 11.19.29] इत्य् श्रुत्वापि दीक्षानन्तरं नित्यतया प्राप्तां भगवत्-पूजां
त्यक्तुं न शक्नुवन्ति तद्वद् इति । अत एव -
षड्भिर् मासोपवासैस् तु यत् फलं परिकीर्तितम् ।
विष्णोर् नैवेद्य-सिक्थेन तत् फलं भुञ्जतां कलौ ॥ इत्य् अपि न बाधकम् ।
एकादश्य्-आदौ हि नित्यत्वेऽप्य् आनुषङ्गिकम् एव महाफलकत्वं तत्र तत्र
मतम् । अतएव नित्यत्व-रक्षणार्थम् अपि तादृशं वैष्णवं व्रतम् अवश्यम्
एव कर्तव्यम् इत्य् आगतम् । नित्य-वैष्णव-व्रतत्वादिकं चैकादश्यादेर्
अर्चन-प्रसङ्गं किञ्चिद् दर्शयिष्यामः । अतएव पूर्वाध्याये टीकाकारैर् अपि
आज्ञायैव गुणान् दोषान् [भ्प् 11.11.32] इत्य् अत्र बिद्धैकादशी-कृष्णैकादश्य्-
उपवासानुपवासानिवेद्य-श्राद्धादयो ये भक्ति-विरुद्धा धर्मास् तान्
सन्त्यज्य इत्य् अर्थ इत्य् उक्तम् । प्रथमे च श्री-भीष्म-युधिष्ठिर-संवादे
भगवद्-धर्मान् [भ्प् 1.9.24] इत्य् अत्र हरि-तोषणाद् द्वादश्य्-आदि-नियम-
रूपान् इत्य् व्याख्यातम् । व्रतानि चेरे हरि-तोषणानि [भ्प् 3.1.19] इत्य् अत्र तृतीय
एकादश्यादीनीति । अतएव भगवन्-महा-प्रसादैक-व्रतस्य श्रीमद्-
अम्बरीषस्य सच्-छिरोमणे`र् आचार-दर्शनाय तद् एव निश्चीयत इति ।
अथ प्रस्तुतम् अनुसरामः । वशीकरणम् अत्र द्विविधम् - मुख्यं गौणं
च । तत्र मुख्येन प्रेम लभ्यते । (पगे 124)
अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भ्प् 5.6.18] इति न्यायेन ।
अतएव गौणेनान्यत् फलम् । अत्र मुख्यं श्री-गोप्यादौ । गौणं बाणादौ ।
उत्तरत्र वशीकरणत्वं फल-दानोन्मुखीकरणतयोपचर्यते । तद् एतद्
वशीकरणे दृष्टान्तम् आह --
सत्-सङ्गेन हि दैतेया यातुधाना मृगाः खगाः ।
गन्धर्वाप्सरसो नागाः सिद्धाश् चारण-गुह्यकाः ॥
विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः ।
रजस्-तमः-प्रकृतय तस्मिंस् तस्मिन् युगे युगे ॥
बहवो मत्-पदं प्राप्तास् त्वाष्ट्र-कायाधवादयः ।
वृष-पर्वा बलिर् बाणो मयश् चाथ विभीषणः ॥
सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्-पथः ।
व्याधः कुब्जा व्रजे गोप्यो यज्ञ-पत्न्यस् तथापरे ॥ [भ्प् 11.12.3-6]
दैतेयास् तद्-उपलक्षितासुर-दानवाश् च । यातुधाना राक्षसाः । तज्-जातिषु
दिग्-दर्शनं त्वाष्ट्रेत्य् आदि । त्वाष्ट्रा वृत्रासुरः । वृतासुरस्य सत्-सङ्गः
प्राग्-जन्मनि श्री-नारदाङ्गिरसोः सङ्गः श्री-सङ्कर्षण-सङ्गश् च
प्रसिद्धः ।
कायाधवः कयाधु-पुत्रः प्रह्लादः । अस्य गर्भे श्री-नारद-सङ्गः ।
आदि-शब्द-गृहीतान् पूर्वोक्त-जाति-क्रमेण कतिचिद् गणयति वृषेति । वृष-पर्वा
दानवः । अयं हि जात-मात्र-मातृ-परित्यक्तो मुनि-पालिता विष्णु-भक्तो

बभूवेति पुराणान्तर-प्रसिद्धिः ।
बलेः श्री-प्रह्लाद-सङ्गः श्री-वामन-सङ्गश् च । तद्-अनन्तरम् एव भक्त्य्-
उद्बोध-दर्शनात् । बाणस्य बलि-महेश-भगवत्-सङ्गः । अस्य भुज-
कर्तनानन्तरं ज्ञात-विष्णु-महिम्नो महा-भागवत-महेश-प्राप्तिर् एव
स्व-प्राप्तिर् इत्य् उच्यते । मयो दानवः । अस्य सभा-निर्माणादौ पाण्डव-
सङ्गो भगवत्-सङ्गश् च । अन्ते तत्-प्राप्तिस् तु ज्ञेया । विभीषणो यातुधानः ।
अस्य हनूम-सङ्गो भगवत्-सङ्गश् च ।
सुग्रीवाद्या गजान्ता मृगाः । तत्र ऋक्षो जाम्बवान् । अस्य भगवत्-सङ्गः ।
गजो गजेन्द्रः । अस्य पूर्व-जन्मनि सत्-सङ्ग उन्नेयः । उत्तर-जन्मान्ते
भगवत्-सङ्गश् च । गृध्रो जटायु-नामा खगः । अस्य श्री-गरुड-
दशरथादि-सङ्गः । श्री-सीता-दर्शनं श्री-भगवद्-दर्शनं च ।
गन्धर्वादीस् त्व् अनति-प्रसिद्धत्वेनानुदाहृत्य मनुष्येषु वैश्यादीन्
उदाहरति । वणिक्-पथस् तुलाधारः । अस्य भारते जाजलि-मुनि-गन्धर्व-
प्रसङ्गे प्रोक्त-महिम्नः सत्-सङ्गोऽन्वेषणीयः ।
व्याधो धर्म-व्याधः शूद्रोऽन्त्यजोऽपि । अत्र आदिवाराहे कथेयम् - क्वचित्
प्राचीन-कलि-युगे वसु-नाम्ना वैष्णवेन राज्ञा प्राग्-जन्मनि मृग-
भ्रान्त्या निहतो ब्राह्मणो ब्रह्म-राक्षसतां प्राप्तस् तस्य राज्ञः
प्रापञ्चिक-विष्णु-लोक-गमन-समये तच्-छरीरं प्रविष्टः । पुनश् च
तस्य तद्-भोगान्ते राजतां प्राप्तस्य देहात् तत्-कर्तृक-ब्रह्म-
पाराख्यस्तव-पाठ-तेजसा निर्गतस् तत्-कृत-धर्म-व्याध-संज्ञो
हिंसातिशय-विमुखः पर्यवसाने दृष्ट-नीलाद्रि-नाथस् तं च स्तुतवान् ।
प्राप्त-तद्-आलिङ्गनस् तत्-सायुज्यम् अवापेति ।
कुब्जाया भगवत्-सङ्गः पूर्व-जन्मनि च नारद-सङ्ग इति माथुर-हरि-
वंश-प्रसिद्धम् । गोप्योऽत्र साधारण्यः श्री-कृष्ण-व्रजे तदानीं
विवाहादिना समागताः । आसां तन्-नित्य-प्रेयसी-वृन्द-सङ्गः श्री-कृष्ण-
दर्शनादि-रूपो भगवत्-सङ्गश् च । यज्ञ-पत्नीनां श्री-कृष्ण-गुण-
कथक-लोक-सङ्गस् तत्-सङ्गश् च । अपरे दैतेयादयोऽनेय् च ।
[240]
तेषां सत्-सङ्ग-व्यतिरिक्त-साधनाभावम् आह --
ते नाधीत-श्रुति-गणा नोपासित-महत्तमाः ।
अव्रतातप्त-तपसो मत्-सङ्गान् माम् उपागताः ॥ [भ्प् 11.12.7] (पगे 125)
नाधीताः श्रुति-गणाः यैः । तद्-अर्थं च नोपासिता महत्तमा यैः । किं च
अकृत-व्रता अकृत-तपस्काश् च । पूर्ववद् अध्ययनादिकं भगवत्-प्रीणनम्
एव ग्राह्यम् । अत्रैकेषां वृत्रादीनां प्राग्-जन्मादौ साधनानन्तरं यत्
तद् अपि सत्-सङ्गानुषङ्ग-सिद्धम् इत्य् अभिप्रेत्य सत्-सङ्गस्यैव तत् तत्
फलम् उक्तम् । धर्म-व्याधादीनां तु केवलस्यैव तस्येति ज्ञेयम् ।
सत्-सङ्ग-शब्देनात्र मम सङ्गो मदीयादीनां च सङ्ग इत्य् अभिधाप्यते ।
उभयतापि मत्-सम्बन्धित्वादित्य् अभिप्रायेण । तत्र स्वस्यापि सत्त्वात् सत्-
सङ्गोऽप्य् अन्त्रभावितः । यत् तु पुरा भागवत-सङ्गेनैव भगवत्-कृपा
भवतीत्य् उक्तं तत् तु तत्-साम्मुख्य-जन्मन्य् एव । अत्र तु स एव भागवत-
सङ्गः साधन-विशेषत्वेनोच्यत इति न दोषः । यदि वात्र कुत्रचित्
साम्मुख्य-जन्म-कारणम् अपि भगवत्-सङ्गो भवेत् तदाप्य् एवम्
आचक्ष्महे । सच्-छब्दार्थम् अवतार-सङ्गी-कृत्य यत् कदाचित् सर्वत्र कृपां
वितनोति भगवान् तच् च सत्-सम्बन्धेनैवेत्य् अतो नाभ्युपगम-हानिर् इति ।
[241]
अथ मुख्यं वशीकरणम् असम्भावित-साधनान्तरेण सत्-सङ्ग-मात्रेण
श्री-गोप्य्-आदीनां दर्शयति --
केवलेन हि भावेन गोप्यो गावो नगा मृगाः ।
येऽन्ये मूठ-धियो नागाः सिद्धा माम् ईयुर् अञ्जसा ॥ [भ्प् 11.12.8]
भावेन प्रकरण-प्राप्त-मत्-सङ्गमात्र-जन्मना प्रीत्या । भावोऽत्र
वशीकार-मुख्यत्वे चिह्नम् । वशे कुर्वन्ति मां भक्त्या सत्-स्त्रियः सत्-पतिं
यथा [भ्प् 9.4.48] इत्य् आदेः । भक्त्याहम् एकया ग्राह्यः [भ्प् 11.14.20] इत्य्
आदेश् च । गावोऽपि गोपीवद् आगन्तुक्य एव ज्ञेयाः । नगा यमलार्जुनादयः ।
मृगा अपि पूर्ववत् । नागाः कालियादयः । यमलार्जुन-कालिययोः प्राप्तिस्
तदानीन्तन-तत्-क्षणिक-भगवत्-प्राप्त्य्-आवश्यम्भावि-नित्य-प्राप्तिम्
अपेक्ष्योक्ता । सिद्धाः पूर्ववद् द्विविधात् सत्-सङ्गात् । स तु तेषां भावो
योगादिभिर् अप्राप्य एवेति । यथावरुन्धे [भ्प् 11.12.2] इत्य् अत्र यथा-
शब्दार्थस्य पराकाष्ठा ।
[242]
ताम् एव व्यनक्ति -
यं न योगेन साङ्ख्येन दान-व्रत-तपो-ऽध्वरैः ।
व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥ [भ्प् 11.12.9]
यं भावम् । अत्रापि योगादयो भगवत्-परा एव । योगादिभिर् यत्नवान् अपीत्य्
अनेन तत्-प्राप्त्य्-अर्थं प्रयुज्यमानत्वावगमात् । एष्व् अपि श्री-गोपीनां
परमकाष्ठा-प्राप्तिं दर्शयितुम् - अस्यैतत् परमं गुह्यं शृण्वतो
यदुनन्दन इत्य् एतत्-पूर्वोक्त-परम-गुह्यत्वस्य [भ्प् 11.11.48] परम-
काष्ठां दर्शयितुं रामेण सार्धं [भ्प् 11.12.9]इत्य्-आदि-प्रकरणम्
अनुसन्धेयम् ।
॥ 11.12 ॥ श्री-भगवान् ॥ 238-242 ॥
[243]
एष च सत्-सङ्गो ज्ञानं विनापि कृतोऽर्थद एव स्याद् इत्य् आह -
सङ्गो यः संसृतेर् हेतुर् असत्सु विहितोऽधिया ।
स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ॥ [भ्प् 3.23.55]
अधिया अज्ञानेन । यत् तु पूर्वं श्री-नारदादौ मुन्यन्तर-साधारण-
दृष्टिर् निन्दिता तद् इहास्निग्धे ज्ञान-लव-दुर्विदग्धे च ज्ञेयम् ।
॥ 3.23 ॥ श्री-देवहूतिः

6.244

[244]
तद् एवं महा-भागवत-प्रसङ्ग-फलम् उक्तम् । तत्-परिचर्या-फलम् आह
यत्-सेवया भगवतः कूट-स्थस्य मधु-द्विषः ।
रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः ॥ [भ्प् 3.7.19] (पगे 126)
येषां युष्माकं महा-भागवतानां सेवया परिचर्यया कूटस्थस्य
नित्यस्य भगवतः पादयो रति-रासः प्रेमोत्सवो भवेत् । तीव्र इति विशेषणं
प्रसङ्ग-मात्रात् परिचर्यायां विशिष्टं फलं द्योतयति । आनुषङ्गिकं
फलम् आह व्यसनार्दन इति । व्यसनं संसारः । यत एवोक्तं मद्-भक्त-
पूजाभ्यधिका [भ्प् 11.19.19] इति । मम पूजातोऽप्य् अभि सर्वतो-भावेनाधिका
अधिक-मत्-प्रीति-अकरीत्य् अर्थः ।
एवं पाद्मोत्तर-खण्डे --
आराधनानां सर्वेषां विष्णोर् आराधनं परम् ।
तस्मात् परतरं देवि तदीयानां समर्चनम् ॥ [पद्मप् 6.253.176] इति ।
॥ 3.7 ॥ विदुरः श्री-मैत्रेयम्

6.245

[245]
व्यतिरेकेणाह -
यस्यात्म-बुद्धिः कुणपे त्रि-धातुके
स्व-धीः कलत्रादिषु भौम इज्य-धीः ।
यत्-तीर्थ-बुद्धिः सलिले न कर्हिचिज्
जनेष्व् अभिज्ञेषु स एव गो-खरः ॥ [भ्प् 10.84.13]
जडत्वात् कुणपे स्वयं मृत-तुल्ये शरीरे । चिद्-योगेऽपि त्रिभिर् वात-पित्तादिभिर्
दूषित इत्य् अर्थः । भौमे देवता-प्रतिमादौ । यत् यस्य । अभिज्ञेषु
तत्त्ववित्सु ता बुद्धयो न सन्ति । तत्रात्म-बुद्धिः परम-प्रीत्यास्पदत्वम् ।
स एव गोखरो गो-निकृष्ट उच्यते । यद् वा सिन्धु-सौवीर-प्रसिद्धो वन्य-
गर्दभ-जाति-विशेषो म्लेच्च-जाति-विशेषो वा स न त्व् अन्यः प्रसिद्धः ।
विवेकित्वाभिमानितायां सत्याम् अप्य् अविवेकित्वात् ततोऽपि निकृष्टत्वं तस्येति ।
भौम इज्य-धीर् इति साधारण-देवता-विषयकम् एव पूर्वं
तथैवोपक्रान्तत्वात् । अर्चायाम् एव हरये [भ्प् 11.2.45] इत्य् आदि-विरोधाच् च ।
तद् एवं यथा तरोर् मूल-निषेचनेन [भ्प् 4.31.12] इत्य् आदि-वाक्यम् अत्र
नावतार्यितवम् ॥
॥ 10.84 ॥ भगवान् मुनि-वृन्दम्

6.246

[246]
अथ महाभागवत-सेवा-सिद्ध-लक्षणम् -
ते न स्मरन्त्य् अतितरां प्रियम् ईश मर्त्यं
ये चान्व् अदः सुत-सुहृद्-गृह-वित्त-दाराः ।
ये त्व् अब्ज-नाभ भवदीय-पदारविन्द-
सौगन्ध्य-लुब्ध-हृदयेषु कृत-प्रसङ्गाः ॥ [भ्प् 4.9.12]
परम-प्रियम् अपि मर्त्यं वपुः । ये चादो वपुर् अनुलक्षीकृत्य सुतादयो
वर्तन्ते तान् अपि न स्मरन्ति । के त इत्य् अपेक्षायाम् आह - ये त्व् इति ।
॥ 4.9 ॥ ध्रुवः श्री-ध्रुव-प्रियम्

6.247

[247]
वैष्णव-मात्राणां च यथायोग्यम् आराधनं यथा इतिहास-समुच्चये -
तस्माद् विष्णु-प्रसादाय वैष्णवान् परितोषयेत् ।
प्रसाद-सुमुखो विष्णुस् तेनैव स्यान् न संशयः ॥ इति ।
तत्र -
सर्वत्रास्खलितादेशः सप्त-द्वीपैक-दण्ड-धृक् ।
अन्यत्र ब्राह्मण-कुलाद् अन्यत्राच्युत-गोत्रतः ॥ [भ्प् 4.21.12]
इति श्री-पृथु-चरितानुसारेण यत् किञ्चिज् जाताव् अप्य् उत्तमत्वम् एव मन्तव्यम् ।
यस्य यल् लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् ।
यद् अन्यत्रापि दृश्येत तत् तेनैव विनिर्दिशेत् ॥ [भ्प् 7.11.35]
(पगे 127) इति नारदोक्ति-दृष्टान्तेन वा । यथोक्तं पाद्म-माघ-माहात्म्ये
श्वपाकम् इव नेक्षेत लोके विप्रम् अवैष्णवम् ।
वैष्णवो वर्ण-बाह्योऽपि पुनाति भुवन-त्रयम् ॥
न शूद्रा भगवद्-भक्तास् ते तु भागवता नराः ।
सर्व-वर्णेषु ते शूद्रा ये न भक्ता जनार्दने ॥
इतिहास-समुच्चये -
स्मृतः सम्भाषितो वापि पूजितो वा द्विजोत्तम ।
पुनाति भगवद्-भक्तश् चाण्डालोऽपि यदृच्छया ॥
अन्यथा दोष-श्रवणं च तत्रैव -
शूद्रं वा भगवद्-भक्तं निषादं श्वपचं तथा ।
वीक्षते जाति-सामान्यात् स याति नरकं ध्रुवम् ॥ इति ।
भक्ति-वैशिष्ट्येन तु वैशिष्ट्यम् अपि दृश्यते । यथा गारुडे-
मद्-भक्त-जन-वात्सल्यं पूजायां चानुमोदनम् ।
मत्-कथा-श्रवणे प्रीतिः स्वर-नेत्रादि-विक्रिया ॥
विष्णोश् च कारणं नृत्यं तद्-अर्थे दम्भ-वर्जनम् ।
स्वयम् अभ्यर्चनं चैव यो विष्णुं नोपजीवति ॥
भक्तिर् अष्ट-विधा ह्य् एषा यस्मिन् म्लेच्छेऽपि वर्तते ।
स विप्रेन्द्रो मुनि-श्रेष्ठः स ज्ञानी स च पण्डितः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा हरिः ॥ इति ।
अत एवाह भगवान् -
न मे भक्तश् चतुर्-वेदी मद्-भक्तः श्वपचः प्रियः ।
तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्य् अहम् ॥ इति ।
अतएव भक्ति-महिम्ना सता दुर्वाससापि श्रीमद्-अम्बरीषस्य तत्रैव
वन्दनाच् च पाद-ग्रहणम् अप्य् आचरितम् । किन्तु अम्बरीषस्यानभीष्टम्
एव तद् इति तत्रैव व्यक्तत्वात् श्री-भगवता श्रीमद्-उद्धवादिभिश् च
ब्राह्मण-मात्रस्य वन्दनाच् च इतर-वैष्णवैस् तु तत् सर्वथा न
मन्तव्यम् ।
विप्रं कृतागसम् अपि नैव द्रुह्यत मामकाः ।
घ्नन्तं बहु शपन्तं वा नमस्-कुरुत नित्यशः ॥ [भ्प् 10.64.41]
इति भगवद्-आदेश-भङ्ग-प्रसङ्गाच् च । श्वपाकम् इव नेक्षेत इत्य् आदिकं
तु तद्-दर्शनासक्ति-निषेध-परत्वेन समाधेयम् । दृश्यते युधिष्ठिर-
द्रौपद्य्-आदीनाम् अश्वत्थाम्नि तथा व्यवहारः । वैष्णव-पूजकैस् तु
वैष्णवानाम् आचारोऽपि न विचारणीयः । अपि चेत् सुदुराचारः [गीता 9.30] इत्य्
आदेः । यथोक्तं गारुडे -
विष्णु-भक्ति-समायुक्तो मिथ्याचारोऽप्य् अनाश्रमी ।
पुनाति सकलान् लोकान् सहस्रांशुर् इवोदितः ॥ इति ।
तद् एतद् उदाहृतम् एव - अहो बत श्वपचोऽतो गरीयान् यज् जिह्वाग्रे वर्तते
नाम तुभ्यम् [भ्प् 3.33.7] इत्य् आदौ । अत्र श्वपच-शब्दो यौगिकार्थ-
पुरस्कारेणैव वर्तते । ततो दुर्जातित्वेन दुराचारत्वेनापि नावमन्तव्यस्
तद्-भक्त-जनः । स्ववमन्तृत्वे तु सुतराम् । अतएवोक्तं गारुडे -
रुक्षाक्षरं तु शृण्वन् वै तथा भागवतेरितम् ।
प्रणाम-पर्वं तं क्षान्त्या यो वदेद् वैष्णवो हिस् सः ॥ इति । (पगे 128)
तद् एवं महद्-आदि-सेवा दर्शिता । अस्याश् च श्रवणादितः पूर्वत्वं महत्-
सेवां द्वारम् आहुर् विमुक्तेस् तमो-द्वारं योषितां सङ्गि-सङ्गम् [भ्प् 5.5.2]
इत्य् उक्तेः तेभ्यो महद्भ्यस् त्व् अन्यद् अपि किम् अपि परम-मङ्गलायनं
जायते । यथा --
तेषु नित्यं महा-भाग महा-भागेषु मत्-कथाः ।
सम्भवन्ति हि ता न्.णां जुषतां प्रपुनन्त्य् अघम् ॥
ता ये शृण्वन्ति गायन्ति ह्य् अनुमोदन्ति चादृताः ।
मत्-पराः श्रद्दधानाश् च भक्तिं विन्दन्ति ते मयि ॥
भक्तिं लब्धवतः साधोः किम् अन्यद् अवशिष्यते ।
मय्य् अनन्त-गुणे ब्रह्मण्य् आनन्दानुभवात्मनि ॥
यथोपश्रयमाणस्य भगवन्तं विभावसुम् ।
शीतं भयं तमोऽप्येति साधून् संसेवतस् तथा ॥ [भ्प् 11.26.28-31]
तेषु सन्तोऽनपेक्षा मच्-चित्ताः [भ्प् 11.26.27] इत्य्-आद्य्-उक्त-लक्षणेषु । भक्तिं
प्रेम । अतएवोक्तं श्री-रुद्रेण --
क्षणार्धेनापि तुलये न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ [भ्प् 4.24.57] इति ।
श्री-शौनकेनापि तुलयाम लवेनापि न स्वर्गम् इत्य् आदि पूर्ववत् ।
ततानुषङ्गिकं फलं स-दृष्टान्तम् आह यथेति । विभावसुम् अग्निम् ।
उपास्य-बुद्ध्या श्रयमानस्य होमाद्य्-अर्थं ज्वालयत इत्य् अर्थः । तस्य
तथा शीतादिकम् अपैति । भयं दुष्ट-जीवादि-कृतम् । तथा साधून्
सेवमानस्य कर्मादि-जाड्यम् । आगामि संसार-भयं तन्-मूलम् अज्ञानं
च नश्यतीत्य् अर्थः ।
॥ 11.26 ॥ श्री-भगवान्

6.248

[248]
अथ क्रम-प्राप्तं श्रवणम् । तच् च नाम-रूप-गुण-लीलामय-शब्दानां
श्रोत्र-स्पर्शः । तत्र नाम-श्रवणं यथा -
न हि भगवन्न् अघटितम् इदं
त्वद्-दर्शनान् नृणाम् अखिल-पाप-क्षयः ।
यन्-नाम सकृच् छ्रवणात्
पुक्कशोऽपि विमुच्यते संसारात् ॥ [भ्प् 6.16.44]
तादृशस्यापि सकृच्-छ्रवणेऽपि मुक्ति-फल-प्राप्तेर् उत्तमस्य तच्-छ्रवणे तु
परम-भक्तिर् एव फलम् इत्य् अभिप्रेतम् ।
॥ 6.16 ॥ चित्रकेतुः श्री-सङ्कर्षणम्

6.249

[249]
अथ रूप-श्रवणम् -
ये तु त्वदीय-चरणाम्बुज-कोश-गन्धं
जिघ्रन्ति कर्ण-विवरैः श्रुति-वात-नीतम् ।
भक्त्या गृहीत-चरणः परया च तेषां
नापैषि नाथ हृदयाम्बुरुहात् स्व-पुंसाम् ॥ [भ्प् 3.9.5]
तु-शब्दो यो नादृतो नरक-भाग्भिर् असत्-प्रसङ्गैः [भ्प् 3.9.4] इति पूर्वोक्त-
निन्दितानां भगवद्-रूपानादरवतां प्रतियोग्य्-अर्थ-निर्देशे निर्दिष्टः ।
अनेन येऽत्र एतद्-विरोधिनो भवन्ति त एव (पगे 129) पूर्वोक्ता असत्-प्रसङ्गा
इति गम्यते । चरण-मात्र-निर्देशो भक्त्य्-अतिशयेन । गन्धं वर्णाकारादि-
माधुर्यं कर्ण-विवरैर् जिघ्रन्ति नासा-विवरैः परमामोदम् इव तैर्
आस्वादयन्तीत्य् अर्थः । श्रुतिर् वेदस् तद्-अनुगामि-शब्दान्तरं च सैव वातस्
तेन प्रापितम् । ततः परया च भक्त्या प्रेम-लक्षणया गृहीत-चरणस् त्वं
नापयातुं शक्नोषि ।
॥ 3.9 ॥ ब्रह्मा श्री-गर्भोदशायिनम्

6.250

[250]
अथ गुण-श्रवणम् --
कथा इमास् ते कथिता महीयसां
विताय लोकेषु यशः परेयुषाम् ।
विज्ञान-वैराग्य-विवक्षया विभो
वचो-विभूतीर् न तु पारमार्थ्यम् ॥
यत् तूत्तमः-श्लोक-गुणानुवादः
सङ्गीयतेऽभीक्ष्णम् अमङ्गल-घ्नः ।
तम् एव नित्यं शृणुयाद् अभीक्ष्णं
कृष्णेऽमलां भक्तिम् अभीप्समानः ॥ [भ्प् 12.3.14-15]
टीका च - राज-वंशानुकीर्तनस्य तात्पर्यम् आह कथा इमा इति । विज्ञानं
विषयासारता-ज्ञानम् । ततो वैराग्यम् । तयोर् विवक्षया । परेयुषां मृतानां
वचो-विभूतीर् वाग्-विलास-मात्र-रूपीअः । पारमार्थ्यं परमार्थ-युक्तं
कथनं न भवतीत्य् अर्थ । कस् तर्हि पुरुषाणाम् उपादेयः परमार्थस्
तम् आह यस् त्व् इति । नित्यं प्रत्यहम् । तत्राआअप्य् अभीक्ष्णम् इत्य् एषा ।
अत्र यत क्वचिच् छ्री-राम-लक्ष्मणादयोऽपि तेषां राज्ञां मध्ये
वैराग्यार्थअ छत्रि-न्यायेन पठ्यन्ते तन् निरस्यते । अतो यद्यपि निगम-
कल्प-तरोर् इत्य् आद्य्-अनुसारेण सर्वस्यैव प्रसङ्गस्य रस-रूपत्वं तथापि
क्वचित् साक्षाद्-भक्ति-मय-शान्तादि-रस-रूपत्वं क्वचित् तद्-उपकरण-
शान्तादि-रस-रूपत्वं च समर्थनीयम् । अस्ति हि तत्र तत्र भक्ति-रसेष्व् अपि
तारतम्यम् इति । गुणाः कारुण्यादयः । तद्-गुण-कीर्तिः स्वभाव एवासाव् इति
श्री-गीतास्व् अपि दृष्टम् - स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्य्
अनुरज्यते च [गीता 11.36] इत्य् आदौ ।
अत्र महाभागवतानाम् अपि भगवत इव गुण-श्रवणं मतम् --
तत् कथ्यतां महा-भाग यदि कृष्ण-कथाश्रयम् ।
अथवास्य पदाम्भोज- मकरन्द-लिहां सताम् ॥ [भ्प् 1.16.6]
इति शौनकोक्तेः । यद्यप्य् अत्र गुण-शब्देन रूप-लीलयोर् अपि सौष्ठवं
गृह्यते तथापि तत्-प्राधान्य-निर्देशात् पृथग्-ग्रहणम् । एवम् उत्तरत्रापि
ज्ञेयम् । भक्तिं प्रेमाणम् । अमलां कैवल्यादीच्छा-रहिताम् ।
॥ 12.3 ॥ श्री-शुकः

6.251

[251]
किं च --
यत्रोत्तमश्लोक-गुणानुवादः
प्रस्तूयते ग्राम्य-कथा-विघातः ।
निषेव्यमाणोऽनुदिनं मुमुक्षोर्
मतिं सतीं यच्छति वासुदेवे ॥ [भ्प् 5.12.13]
मुमुक्षोर् अपि किं पुनर् भक्ति-मात्रेच्छोः । सतीं मुमुक्षाद्य्-अन्य-
कामना-रहिताम् । तद् अन्या तु व्यभिचारिणीति भावः ।
॥ 3.9 ॥ श्री-ब्राह्मणो रहूगणम्

6.252

(पगे 130)
[252]
व्यतिरेकेण च -
निवृत्त-तर्षैर् उपगीयमानाद्
भवौषधाच् छ्रोत्र-मनो-ऽभिरामात् ।
क उत्तमश्लोक-गुणानुवादात्
पुमान् विरज्येत विना पशुघ्नात् ॥ [भ्प् 10.1.4]
निवृत्त्य्-आदि-विशेषण-त्रयेण मुक्त-मुमुक्षु-विषयि-जनानां ग्रहणम् ।
पशुघ्नो व्याधः । तस्य हि -
राज-पुत्र चिरं जीव
मा जीव मुनि-पुत्रक ।
जीव वा मर वा साधो
व्याधो मा जीव मा मर ॥ इति न्यायेन विषय-सुखेऽपि तात्पर्यं नास्ति ।
न च तद्-अभिज्ञत्वम् अस्ति विशेषतस् तु कथा-रस-ज्ञाने । परम-मूढत्वात्
सामर्थ्यं नास्त्य् एव । यद् वा दैत्य-स्वभावस्य यस्य निन्दा-मात्र-
तात्पर्यं स एव हिंसकत्वेन पश्यघ्न-शब्देनोच्यते । पशुघ्नो व्याधः ।
सोऽपि मृगादीनां सौन्दर्यादिक-गुणम् अगणयन्न् एव हिंसा-मात्र-तत्पर
इति । ततो रस-ग्रहणाभावाद् युक्तम् उक्तं विना पशुघ्नाद् इति । उभयथापि
तद्-बहिर्मुखेभ्यो गालि-प्रदान एव तात्पर्यम् । यथा तृतीये श्री-
मैत्रेयस्य --
को नाम लोके पुरुषार्थ-सारवित्
पुरा-कथानां भगवत्-कथा-सुधाम् ।
आपीय कर्णाञ्जलिभिर् भवापहाम्
अहो विरज्येत विना नरेतरम् ॥ [भ्प् 3.13.51] इति ।
॥ 10.1 ॥ श्री-राजा श्री-शुकम्

6.253

[253]
अथ लीला-श्रवणम् --
ज्ञानं यद् आप्रतिनिवृत्त-गुणोर्मि-चक्रम्
आत्म-प्रसाद उत यत्र गुणेष्व् असङ्गः ।
कैवल्य-सम्मत-पथस् त्व् अथ भक्ति-योगः
को निर्वृतो हरि-कथासु रतिं न कुर्यात् ॥ [भ्प् 2.3.12]
यत् यासु कथासु ज्ञानं भवति । कीदृशं ? आ सर्वतः प्रतिनिवृत्तं उपरतं
गुणोर्मीआं रागादीनां चक्रं समूहो यस्मात् । यतो यत्र यासु कथासु तद्-
धेतुर् आत्म-प्रसादश् च तत्-प्रसाद-हेतुर् विषयानासक्तिश् च । किं बहुना ?
तत्-फलं यत् कैवल्यं तद् अपि । ब्रह्म-भूतः प्रसन्नात्मा इत्य् आद्य्-
उक्तानुसारेण । सम्मतः पन्थाः प्राप्ति-द्वारं यत्र स प्रेमाख्यो भक्ति-
योगोऽपि । यास श्रुत-मात्रासु तत्-तद्-अनपेक्ष्यैव भवति तासु हरि-कथासु
तच्-चरितेषु कं श्रवण-सुखेन निर्वृतः सन् अन्यत्रानिर्वृतो वा रतिं रागं
न कुर्यात् ।
॥ 2.3 ॥ श्री-शुकः

6.254

[254]
किं बहुना, एतद्-अर्थम् एवास्य महा-पुराणाविर्भाव इति भवतानुदित-
प्रायं यशो भगवतोऽमलम् [भ्प् 1.5.8] इत्य् आदौ समाधिनानुस्मर तद्-
विचेष्टितम् [भ्प् 1.5.16] इत्य् आदौ च वर्णितम् ।
सा च लीला द्विविधा - सृष्ट्य्-आदि-रूपा लीलावतार-विनोद-रूपा च । तयोर् उत्तरा
तु प्रशस्ततरेत्य् आशयेनाह -
प्राधान्यतो यान् ऋष आमनन्ति
लीलावतारान् पुरुषस्य भूम्नः ।
आपीयतां कर्ण-कषाय-शोषान्
अनुक्रमिष्ये त इमान् सुपेशान् ॥ [भ्प् 2.6.46]
यद्यपि पूर्वम् आद्योऽवतारः पुरुषः परस्य [भ्प् 2.6.40] इत्य् आदि-ग्रन्थेन
पुरुषं कालादि- (पगे 131) तच्-छक्तिं मन आदि-तत्-कार्यं ब्रह्मादि-तद्-
गुणावतारान् दक्षादि-तत्-तद्-विभूतींश् चोक्तवान् अस्मि, तेन च सृष्ट्य्-आदि-
लीलाः, तथापि यान् हे ऋषे पुरुषस्य भूम्नो लीलावतारान् प्राधान्येन
आमनन्ति तान् एव इमान् मम हृदयाधिरूढान् कर्णकषाय-शोषान् तद्-
इतर-श्रवण-राग-हन्तॄन् किं च सुपेशाम् । परम-मनोहरान्
अनुक्रमिष्ये । तद्-अनुक्रमेण आ सम्यक् पीयताम् ।
॥ 2.6 ॥ श्री-ब्रह्मा नारदेन

6.255

[255]
एवं दुरवगमात्म-तत्त्व-निगमाय [भ्प् 10.87.17] इत्य् आदौ वेद-स्तुताव् अपि
तच्-छ्लाघा द्रष्टव्या । अतएव प्रथमे भावयत्य् एषः [भ्प् 1.2.33] इत्य्
आदौ, लीलावतारानुरत [भ्प् 1.2.33] इति तद्-विशेषणं दत्तम् । तथा च श्री-
भगवद्-गीतासु -
जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति माम् एति सोऽर्जुन ॥ [गीता 4.9] इति ।
एषा खलु मर्त्य-शरीरम् अपि पार्षद-भावेन जित-मृत्यकं विदधाति । यद्
आह -
साधु वीर त्वया पृष्टम् अवतार-कथां हरेः ।
यत् त्वं पृच्छसि मर्त्यानां मृत्यु-पाश-विशातनीम् ॥
ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः ।
मृत्योः कृत्वैव मूर्ध्न्य् अङ्घ्रिम् आरुरोह हरेः पदम् ॥ [भ्प् 3.14.5-6]
मुनिना श्री-नारदेन । अतस् तेन भगवद्-अवतार-कथापि तं प्रति
श्रावितास्तीति गम्यते । तेन शरीरेणैव मृत्यु-जयः पार्षदत्वं चोक्तम् --
परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदाव् अभिवन्द्य च ।
इयेष तद् अधिष्ठातुं बिभ्रद् रूपं हिरण्मयम् ॥ [भ्प् 4.12.29] इति ।
॥ 3.14 ॥ श्री-मैत्रेयः

6.256

[256]
तद् एवं नामादि-श्रवणम् उक्तम् अत्र तत्-परिकर-श्रवणम् अपि ज्ञेयम् -
श्रुतस्य पुंसां सुचिर-श्रमस्य
नन्व् अञ्जसा सूरिभिर् ईडितोऽर्थः ।
तत्-तद्-गुणानुश्रवणं मुकुन्द-
पादारविन्दं हृदयेषु येषाम् ॥ [भ्प् 3.13.4] इत्य् आदौ ।
तत्र यद्यप्य् एकतरेणापि व्युत्क्रमेणापि सिद्धिर् भवत्य् एव तथापि
प्रथमं नाम्नः श्रवणम् अन्तःकरण-शुद्ध्य्-अर्थम् अपेक्ष्यम् ।
शुद्धे चान्तःकरणे रूप-श्रवणेन तद्-उदय-योग्यता भवति । सम्यग्-
उदिते च रूपे गुणानां स्फुरणं सम्पद्यते । ततस् तेषु नाम-रूप-गुणेषु
तत्-परिकरेषु च सम्यक् स्फुरितेष्व् एव लीलानां स्फुरणं सुष्ठु भवतीत्य्
अभिप्रेत्य साधन-क्रमो लिखितः । एवं कीर्तन-स्मरणयोर् ज्ञेयम् ।
इदं च श्रवणं श्रीमन्-महन्-मुखरितं चेन् महा-माहात्म्यं जात-
रुचीनां परम-सुखदं च । तच् च द्विविधं - महद्-आविर्भावितं महत्-
कीर्त्यमानं चेति । तत्र श्री-भागवतम् उपलक्ष्य पूर्वं यथा --
इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् ।
उत्तम-श्लोक-चरितं चकार भगवान् ऋषिः ॥ [भ्प् 1.3.40]
अत्र तन्-माहात्म्य-सूचनार्थम् एव तत्-कर्तृकत्व-वचनम् ।
॥ 1.3 ॥ श्री-सूतः

6.257

[257]
यथा वा निगम-कल्प-तरोर् गलितं फलं शुक-मुखाद् अमृत-द्रव-
संयुतम् [भ्प् 1.1.3] (पगे 132) इत्य् आदौ । अत्र श्री-शुक-मुखाद् अमृत-
द्रव-संयुतत्वेन परम-सुखदत्वम् उक्तम् । एतद्-उपलक्षणत्वेन श्री-
लीला-शुकाद्यार्भावित-कर्णामृतादि-ग्रन्था अपि क्रोडीकर्तव्याः ।
अथ महत्-कीर्त्यमानं यथा --
स उत्तमश्लोक महन्-मुख-च्युतो
भवत्-पदाम्भोज-सुधा कणानिलः ।
स्मृतिं पुनर् विस्मृत-तत्त्व-वर्त्मनां
कुयोगिनां नो वितरत्य् अलं वरैः ॥ [भ्प् 4.20.25]
न कामये नाथ तद् अपि [भ्प् 4.20.21] इत्य् आदि पूर्वोक्तानुसारात् स्व-
सुखातिशयेन कैवल्य-सुख-तिरस्कारी महतां मुखाद् विगलितो भवत्-
पादाम्भोज-माधुर्य-लेशस्यापि सम्बन्धी शब्दात्मकोऽनिलो । विस्मृत-
परम-तत्त्वात्मक-त्वदीय-ज्ञानानाम् अस्माकं त्वदीयां स्मृतिम् अपि यच्
चेति । त्स्मात् तथाविधस्य तस्य परम-साध्य-साधनात्मकत्वाद् अलम्
अन्यैर् वरैर् इत्य् अर्थः ।
॥ 4.20 ॥ पृथुः श्री-विष्णुम्

6.260

[258-259 ]
तद् एव महा-माहात्म्यं महा-सुख-प्रदत्वं चोक्तम् । तद् एतद् उभयम्
अप्य् अत्राह द्वाभ्याम् -
तस्मिन् महन्-मुखरिता मधुभिच्-
चरित्र-पीयूष-शेष-सरितः परितः स्रवन्ति ।
ता ये पिबन्त्य् अवितृषो नृप गाढ-कर्णैस्
तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहाः ॥ [भ्प् 4.29.40]
अस्मिन् साधु-सङ्गे । महद्भिर् मुखरिताः कीर्तिताः । शेषः सारः ।
अवितृषोऽलं-बुद्धि-शून्याः । गाढत्वं सावधानत्वम् । अशनं क्षुत् ।
एतैर् उपद्रुतो नित्यं जीव-लोकः स्वभावजैः ।
न करोति हरेर् नूनं कथामृत-निधौ रतिम् ॥ [भ्प् 4.29.41]
यैर् एतैर् अशनादिभिर् उपद्रुतैः सन् कथामृत-निधौ रतिं न करोति तान्
एतान् महत्-कीर्त्यमानानि भगवद्-यशांसि स्व-माहात्म्येन दूरीकृत्य स्व-
सुखम् अनुभावयन्तीति पद्य-द्वय-योजनार्थः ॥
॥ 3.29 ॥ श्री-नारदः प्राचीनबर्हिषम् ॥ 258-259 ॥
[260]
तत्रापि श्रवणे श्री-भागवत-श्रवणं तु परम-श्रेष्ठम् । तस्य तादृश-
प्रभावमय-शब्दात्मकत्वात् परम-रसमयत्वाच् च । तत्र पूर्वस्माद्
यथा -
श्रीमद्-भागवते महा-मुनि-कृते किं वा परैर् ईश्वरः
सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् ॥ [भ्प् 1.1.2] इति ।
महामुनिः सर्व-महन्-महनीय-चरण-पङ्कजः श्री-भगवान् । अत्र किं
वा परैर् इत्य् आदिना शब्द-स्वाभाविक-माहात्म्यं दर्शितम् ।
॥ 1.1 ॥ श्री-व्यासः

6.261

[261]
उत्तरस्माद् यथा -
सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते ।
तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ [भ्प् 12.13.12]
तद्-रस एवामृतं तेन तृप्तस्य ।
॥ 12.13 ॥ श्री-सूतः

6.262

[262]
अत्रैव विवेचनीयम् - श्री-भगवन्-नामादेः श्रवणं तावत् परमं
श्रेयः । तत्रापि महद्-आविर्भावित् प्रबन्धादेः । तत्र महत्-कीर्त्यमानस्य
ततोऽपि श्री-भागवतस्य । तत्रापि च महत्-कीर्त्यमानस्येति । अत्र
मूर्त्याभिमतयात्मनः इतिवत् निजाभीस्ट-नामादि-श्रवणं तु मुहुर्
आवर्तयितव्यम् । (पगे 133) तत्रापि सवासन-महानुभव-मुखात् सर्वस्य
श्री-कृष्ण-नामादि-श्रवणं तु परम-भाग्याद् एव सम्पद्यते तस्य पूर्ण-
भगवत्त्वाद् इति । एवं कीर्तनादिष्व् अप्य् अनुसन्धेयम् । तत्र यत् स्वयं
सम्प्रति कीर्त्यते तद् अपि श्री-शुकदेवादि महत् कीर्तित-चरत्वेनानुसन्धाय
कीर्तनीयम् इति ।
तद् एव श्रवणं दर्शितम् । अस्य च कीर्तनादितः पूर्वत्वं तद् विना तत्-तद्-
अज्ञानात् । विशेषतश् च यदि साक्षाद् एव महत्-कृतस्य श्रवण-भाग्यं न
सम्पद्यते तदैवं स्वयं पृथक्-कीर्तनीयम् इति तत्-प्राधान्यात् । अतएवोक्तं
तद्-वाग्-विसर्गो जनताघ-विप्लवः [भ्प् 1.5.11, 12.12.52] इत्य् आदौ ।
टीकाकृद्भिः यद् यानि नामानि वक्तरि सति शृण्वन्ति श्रोतरि सति गृणन्ति
अन्यदा तु स्वयम् एव गायन्ति इति ।
अथातः कीर्तनम् । तत्र पूर्ववन् नामादिक्रमो ज्ञेयः । नाम्नो यथा -
सर्वेषाम् अप्य् अघवताम् इदम् एव सुनिष्कृतम् ।
नाम-व्याहरणं विष्णोर् यतस् तद्-विषया मतिः ॥ [भ्प् 6.2.10]
टीका च - सुनिष्कृतं श्रेष्ठं प्रायश्चित्तम् इदम् एव । तत्र हेतुः - यतो
नाम-व्याहरणात् तद्-विषया नामोच्चारक-पुरुष-विषया मदीयोऽयं मया
सर्वतो रक्षणीय इति विष्णोर् मतिर् भवति इत्य् एषा ।
अतः स्वाभाविक-तदीयावेश-हेतुत्वेन तदीय-स्वरूप-भूतत्वात् परम-
भागवतानां तद्-एक-देश-श्रवणम् अपि प्रीतिकरम् । यथा पाद्मोत्तर-
खण्डे श्री-रामाष्टोत्तर-शत-नाम-स्तोत्रे श्री-शिव-वाक्यम् -
रकारादीनि नामानि शृण्वतो देवि जायते ।
प्रीतिर् मे मनसो नित्यं राम-नाम-विशङ्कया ॥ [पद्मप् 6.254.21*] इति ।
तद् एवं सति पाप-क्षय-मात्र-फलं कियद् इति भावः ।
॥ 6.2 ॥ श्री-विष्णुदूता यम-दूतान्

6.263

[263]
फलं त्व् इदम् एव, यद् आह --
एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या
जातानुरागो द्रुत-चित्त उच्चैः ।
हसत्य् अथो रोदिति रौति गायत्य्
उन्माद-वन् नृत्यति लोक-बाह्यः ॥ [भ्प् 11.2.40]
एवं शृण्वन् सुभद्राणि रथाङ्गपाणेः [भ्प् 11.2.38] इत्य्-आद्य्-उक्त-प्रकारं
व्रतं वृत्तं यस्य तथाभूतोऽपि स्व-प्रियाणि स्वाभीष्टानि यानि नामानि तेषां
कीर्तनेन जातानुरागस् तत एव चित्त-द्रवाद् द्रुत-चित्तः । तत्रोचित-भाव-
वैचित्रीभिर् हसतीत्य् आदि । अत्र तृतीयाश्रुत्या नाम-कीर्तनस्यैव
साधकत्वमत्वं लब्धम् । तद् एवं व्रत इत्य् अत्रापि शब्दोऽप्य् अध्याहृतः ।
अतएव भक्तिः परेशानुभवो विरक्तिः [भ्प् 11.2.40] इत्य् आद्य्-उत्तर-पद्ये
टीका-चूर्णिका - नन्व् इयम् आरूढ-योगिनाम् अपि बहु-जन्मभिर् दुर्लभा
गतिः कथं नाम-कीर्तन-मात्रेणैकास्मिन् जन्मनि भवेद् इत्य् आशङ्क्य स-
दृष्टान्तम् आह भक्तिर् इति इत्य् एषा ।
इत्थम् उत्थापितं च श्री-भगवन्-नाम-कौमुद्यां सहस्र-नाम-भाष्ये
च पुराणान्तर-वचनम् -
नक्तं दिवा च गत-भीर् जित-निद्र एको
निर्विण्ण ईक्षित-पथो मित-भुक् प्रशान्तः ।
यद्य् अच्युते भगवति स मनो न सज्जेन्
नामानि तद्-रति-कराणि पठेद् विलज्जः ॥ इति ।
अत्र गत-भीत्यादयो गुणा नामैक-तत्परता-सम्पादनार्था न तु
कीर्तनाङ्ग-भूता । भक्ति- (पगे 134) मात्रस्य निरपेक्षत्वं तस्य तु
सुतरां तादृशत्वम् इति । यथा विष्णुधर्म-सर्व-पातकातिपातक-
महापातक-कारि-द्वितीय-क्षत्र-बन्धूपाख्याने ब्राह्मण उवाच -
यद्य् एतद् अखिलं कर्तुं न शक्नोषि ब्रवीमि ते ।
स्वल्पम् अनन्यन् मयोक्तं भो करिष्यति भवान् यदि ॥
क्षत्र-बन्धुर् उवाच -
अशक्यम् उक्तं भवता चञ्चलत्वाद् धि चेतसः ।
वाक्-शरीर-विनिष्पाद्यं यच् छक्यं तद् उदीरय ॥
ब्राह्मण उवाच -
उत्तिष्ठता प्रस्वपता प्रस्थितेन गमिष्यता ।
गोविन्देति सदा वाच्यं क्षुत्-तृट्-प्रस्खलितादिषु ॥ इति ।
॥ 11.3 ॥ श्री-कविर् विदेहम्

6.265

[264]
अन्यत्र च -
न निष्कृतैर् उदितैर् ब्रह्म-वादिभिस्
तथा विशुद्ध्यत्य् अघवान् व्रतादिभिः ।
यथा हरेर् नाम-पदैर् उदाहृतैस्
तद् उत्तमश्लोक-गुणोपलम्भकम् ॥ [भ्प् 6.2.11]
[265]
अतएव प्रथम-स्कन्धान्त-स्थितानां राज्ञः श्रेयो-विविदिषा-वाक्यानाम्
अनन्तरं द्वितीय-स्कन्धारम्भे सर्वोत्तमम् उत्तरं वक्तुम् --
इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् ।
अधीतवान् द्वापरादौ पितुर् द्वैपायनाद् अहम् ॥
परिनिष्ठितोऽपि नैर्गुण्य उत्तम-श्लोक-लीलया ।
गृहीत-चेता राजर्षे आख्यानं यद् अधीतवान् ॥
तद् अहं तेऽभिधास्यामि महा-पौरुषिको भवान् ।
यस्य श्रद्दधताम् आशु स्यान् मुकुन्दे मतिः सती ॥ [भ्प् 2.1.8-10]
इति श्री-भागवतस्य परम-महिमानम् उक्त्वा तद्-अनन्तरं श्री-
भागवतम् उपक्रममाण एव तस्य नानाङ्गवतः श्री-भगवद्-
उन्मुखतया तन्-नाम-कीर्तनम् एवोपदिशति । तत्रापि सर्वेषाम् एव परम-
साधनत्वेन परम-साध्यत्वेन चोपदिशति --
एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् ।
योगिनां नृप निर्णीतं हरेर् नामानुकीर्तनम् ॥ [भ्प् 2.1.11]
टीका च - साधकानां सिद्धानां च नातः परम् अन्यच्-छ्रेयोऽस्तीत्य् आह एतद्
इति । इच्छतां कामिनां तत्-तत्-फल-साधनम् एतद् एव । निर्विद्यमानानां
मुमुक्षूणां मोक्ष-साधनम् एतद् एव । योगिनां ज्ञानिनां फलं चैतद्
एव निर्णीतम् । नात्र प्रमाणं वक्तव्यम् इत्य् अर्थः । इत्य् एषा ।
नाम-कीर्तनं चेदम् उच्चैर् एव प्रशस्तम् - नामान्य् अनन्तस्य हत-त्रपः
पठन् [भ्प् 1.5.11] इत्य् आदौ ।
अथ पाद्मोक्ता दशाप्य् अपराधाः परित्याज्याः । यथा सनत्-कुमार-वाक्यम्
सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयात् ।
हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांसवः ॥
नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः ।
नाम्नोऽपि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः ॥ इति ।
अपराधाश् चैते --
सतां निन्दा नाम्नः परमम् अपराधं वितनुते
यतः ख्यातिं यातं कथम् उ सहते तद्-विगर्हाम् ।
शिवस्य श्री-विष्णोर् य इह गुण-नामादि-सकलं
धिया भिन्नं पश्येत् स खलु हरि-नामाहित-करः ॥
(पगे 135)
गुरोर् अवज्ञा श्रुति-शास्त्र-निन्दनम्
तथार्थ-वादो हरि-नाम्नि कल्पनम् ।
नाम्नो बलाद् यस्य हि पाप-बुद्धिर्
न विद्यते तस्य यमैर् हि शुद्धिः ॥
धर्म-व्रत-त्याग-हुतादि-सर्व-
शुभ-क्रिया-साम्यम् अपि प्रमादः ।
अश्रद्दधाने विमुखेऽप्य् अशृण्वति
यश् चोपदेशः शिव-नामापराधः ॥
श्रुत्वापि नाम-माहात्म्ये
यः प्रीति-रहितोऽधमः ।
अहं-ममादि-परमो
नाम्नि सोऽप्य् अपराध-कृत् ॥ इति ।
अत्र सर्वापराध-कृद् अपि इत्यादौ श्री-विष्णु-यामल-वाक्यम् अप्य्
अनुसन्धेयम् -
मम नामानि लोकेऽस्मिन् श्रद्धया यस् तु कीर्तयेत् ।
तस्यापराध-कोटीस् तु क्षमाम्य् एव न संशयः ॥ इति ।
सतां निन्दा इत्य् अनेन हिंसादीनां वचनागोचरत्वं दर्शितम् । निन्दादयस्
तु यथा स्कान्दे श्री-मार्कण्डेय-भगीरथ-संवादे -
निन्दां कुर्वन्ति ये मूढा वैष्णवानां महात्मनाम् ।
पतन्ति पितृभिः सार्धं महारौरव-संज्ञिते ॥
हन्ति निन्दन्ति वै द्वेष्टि वैष्णवान् नाभिनन्दति ।
क्रुध्यते याति नो हर्षं दर्शने पतनानि षट् ॥ इति ।
तन्-निन्दा-श्रवणेऽपि दोष उक्तः -
निन्दां भगवतः शृण्वन् तत्-परस्य जनस्य वा ।
ततो नापैति यः सोऽपि यात्य् अधः सुकृताच् च्युतः ॥ [भ्प् 10.76.26] इति ।
ततोऽपगमश् चासमर्थस्यैव । समर्थेन तु निन्दक-जिह्वा छेत्तव्या ।
तत्राप्य् असमर्थन-स्वप्राण-परित्यागोऽपि कर्तव्यः । यथोक्तं देव्या -
कर्णौ पिधाय निरयाद् यद् अकल्प ईशे
धर्मावितर्य् असृणिभिर् नृभिर् अस्यमाने ।
छिन्द्यात् प्रसह्य रुशतीम् असतीं प्रभुश् चेज्
जिह्वाम् असून् अपि ततो विसृजेत् स धर्मः ॥ [भ्प् 4.4.17] इति ।
शिवस्य श्री-विष्णोर् इत्य् अत्रैवम् अनुसन्धेयम् । श्रूयतेऽपि -
यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा ।
तत् तद् एवावगच्छ त्वं मम तेजोऽंशसंभवम् ॥ [गीता 10.41] इति ।
ब्रह्मा भवोऽहम् अपि यस्य कलाः कलायाः [भ्प् 10.68.26] इति ।
यत्-पाद-निःसृत-सरित्-प्रवरोदकेन
तीर्थेन मूर्ध्नाधिकृतेन शिवः शिवोऽभूत् [भ्प् 3.28.22] इति ।
सृजामि तन्-नियुक्तोऽहं हरो हरति तद्-वशः ।
विश्वं पुरुष-रूपेण परिपाति त्रिशक्ति-धृक् ॥ [भ्प् 2.6.30]
तथा माध्व-भाष्य-दर्शितानि वचनानि ब्रह्माण्डे -
रुजं द्रावयते यस्माद् रुद्रस् तस्माज् जनार्दनः ।
ईशनाद् एव चेशानो महा-देवो महत्त्वतः ॥
पिबन्ति ये नरा नाकं मुक्ताः संसार-सागरात् ।
तद्-आधारो यतो विष्णुः पिनाकीति ततः स्मृतः ॥
शिवः सुखात्मकत्वेन सर्व-सरोधनाद् धरः ।
कृत्यात्मकम् इमं देहं यतो वस्ते प्रवर्तयन् ॥
कृत्तिवासास् ततो देवो विरिञ्चिश् च विरेचनात् ।
बृंहणाद् ब्रह्म-नामासौ ऐश्वर्याद् इन्द्र उच्यते ॥
एवं नाना-विधैः शब्दैर् एक एव त्रिविक्रमः ।
वेदेषु च पुराणेषु गीयते पुरुषोत्तमः ॥ इति ।
वामने -
न तु नारायणादीनां नाम्नाम् अन्यत्र संशयः ।
अन्य-नाम्नां गतिर् विष्णुर् एक एव प्रकीर्तितः ॥ इति ।
स्कान्दे -
ऋते नारायणादीनि नामानि पुरुषोत्तमः ।
अदाद् अन्यत्र भगवान् राजेवर्ते स्वकं पुरम् ॥ इति ।
ब्राह्मे -
चतुर्मुखः शतानन्दो ब्रह्मणः पद्मभूर् इति।
उग्रो भस्मधरो नग्नः कपालीति शिवस्य च ।
विशेष्-नामानि ददौ स्वकीयान्य् अपि केशवः ॥ इति ।
तद् एवं श्री-विष्णोः सर्वात्मकत्वेन प्रसिद्धत्वात् तस्मात् सकाशात् शिवस्य
गुण-नामादिकं भिन्नं शक्त्य्-अन्तर-सिद्धम् इति यो धियापि पश्येद् इत्य्
अर्थः । द्वयोर् अभेद-तात्पर्येण षष्ठ्य्-अन्तत्वे सति श्री-विष्णोश् चेत्य्
अपेक्ष्य च-शब्दः क्रियेत । तत्-प्राधान्य-विवक्षयैव श्री-शब्दश् च तत्रैव
दत्तः । अतएव शिव-नामापराध इति शिव-शब्देन मुख्यतया श्री-विष्णुर्
एव प्रतिपादित इत्य् अभिप्रेतम् । सहस्र-नामादौ च स्ह्ताणु-शिवादि-शब्दास्
तथैव ।
अथ श्रुति-शास्त्र-निन्दनम् - यथा पाषण्ड-मार्गेण दत्तात्रेय-र्षभ-
देवोपासकानां पाषण्डिनाम् ।
तथार्थ-वादः स्तुति-मात्रम् इदम् इति मननम् । कल्पनं तन्-माहात्म्य-
गौणताकरणाय गत्य्-अन्तर-चिन्तनम् । यथोक्तं कौर्मे व्यास-गीतायां -
देव-द्रोहाद् गुरु-द्रोहः कोटि-कोटि-गुणाधिकः ।
ज्ञानापवादो नास्तिक्यं तस्मात् कोटि-गुणाधिकम् ॥ इति ।
यत् तु श्रुत-नाम्-माहात्म्यस्याप्य् अजामिलस्य सोऽहं व्यक्तं पतिष्यामि
नरके भृश-दारुणे [भ्प् 6.2.27] इत्य् एतद् वाक्यं तत् खलु स्व-दौरात्म्य-
मात्र-दृष्ट्या । नाम-माहात्म्य-दृष्ट्या त्व् अग्रे वक्ष्यते तथापि मे
दुर्भगस्य [भ्प् 6.2.30] इत्य् आदि द्वयम् ।
नाम्नो बलाद् इति । यद्यॡ भवेन् नाम्नो बलेनापि कृतस्य पापस्य तेन
नाम्ना क्षयः । तथापि येन नाम्नो बलेन परम-पुरुषार्थ-स्वरूपं सच्-
चिद्-आनन्द-सान्द्रं साक्षाच्-छ्री-भगवच्-चरणारविन्दं साधयितुं
प्रवृत्तस् तेनैव परम-घृणास्पदं पाप-विषयं साधयतीति परम-
दौरात्म्यम् । ततः कदर्थयत्य् एव तं तन् नाम चेति तत्-पाप-कोटि-

महत्तमस्यापराधस्यापातो बाढम् एव । ततो यमैर् बहुभिर् यम-
नियमादिभिः कृत-प्रायश्चित्तस्य क्रमेण पात्पाधिकारैर् अनेकैर् अपि दण्ड-
धरैर् वा कृत-दण्डस्य तस्य शुद्ध्य्-अभावो युक्त एव । नामापराध-
युक्तानाम् इत्य् आदि वक्ष्यमाणानुसारेण पुनर् अपि सतत-नाम-कीर्तन-
मात्रस्य तत्र प्रायश्चित्तत्वात् । सर्वापराध-कृद् अपि इत्य् आद्य् उक्त्य्-अनुसारेण
नामापराध-युक्तस्य भगवद्-भक्तिमतोऽप्य् अधःपात-लक्षण-भोग-
नियमाच् च । तत इन्द्रस्याश्वमेधाख्य-भगवद्-यजन-बलेन वृत्र-हत्या-
प्रवृत्तिस् तु लोकोपद्रव-शान्तिं तदीयासुर-भाव-खण्डनं चेच्छूआम्
ऋषीणाम् अङ्गीकृतत्वान् न दोष इति मन्तव्यम् । (प्137)
अथ धर्म-व्रत-त्यागेति धर्मादिभिः साम्य-मननम् अपि प्रमादः ।
अपराधो भवतीत्य् अर्थः । अत एव च -
वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः ।
तावन्ति हरि-नामानि कीर्तितानि न संशयः ॥
इत्य् अतिदेशेनापि नाम्न एव माहात्म्यम् आयाति । उक्तं हि मधुर-मधुरम्
एतन् मङ्गलं मङ्गलानां सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् इति ।
तथा श्री-विष्णु-धर्मे -
ऋग्-वेदो हि यजुर्-वेदः साम-वेदोऽप्य् अथर्वणः ।
अधीतास् तेन येनोक्तं हरिर् इत्य् अक्षर-द्वयम् ॥
स्कान्दे पार्वत्य्-उक्तौ -
मा ऋचो मा यजुस् तात मा साम पठ किञ्चन ।
गोविन्देति हरेर् नाम गेयं गायस्व नित्यशः ॥
पाद्मे श्री-रामाष्टोत्तर-शत-नाम-स्तोत्रे -
विष्णोर् एकैक-नामैव सर्व-वेदाधिकं मतम् [पद्मप् 6.254.27] इति ।
अथ अश्रद्दधाने इत्य् आदिनोपदेष्टुर् अपराधं दर्शयित्वोपदेशस्याह -
श्रुत्वेति । यतः अहं-ममादि-परमः अहन्ता-ममताद्य्-एक-तात्पर्येण
तस्मिन्न् अनादरवान् इत्य् अर्थः । नामैकं यस्य वाचि स्मरण-पथ-गतम्
इत्य् आदौ देह-द्रविणादि-निमित्तक-पाषण्ड-शब्देनन् च दशापराधा
लक्ष्यन्ते पाषण्ड-मयत्वात् तेषाम् । तथा तद्-विधानाम् एवापराधान्तरम्
उक्तं पाद्म-वैशाख-माहात्म्ये -
अवमन्य च ये यान्ति भगवत्-कीर्तनं नराः ।
ते यान्ति नरकं घोरं तेन पापेन कर्मणा ॥ [पद्मप् 5.96.63] इति ।
एषां चापराधानाम् अनन्य-प्रायश्चित्तत्वम् एवोक्तं तत्रैव -
नामापराध-युक्तानां नामान्य् एव हरन्त्य् अघम् ।
अविश्रान्त-प्रयुक्तानि तान्य् एवार्थ-कराणि च ॥ इति ।
अत्र स्त-प्रभृतिष्व् अपराधे तु तत्-सन्तोषार्थम् एव सन्तत-नाम-
कीर्तनादिकं समुचितम् । अम्बरीष-चरितादौ तद्-एक-
क्षम्यत्वेनापराधानां दर्शनात् । उक्तं च नाम-कौमुद्याम् -- महद्-
अपराधस्य भोग एव निवर्तकः तद्-अनुग्रहो वा इति । तस्माद् अगत्य्-
अन्तराभावात् साधूक्तं एतन्-निर्विद्यमानानाम् [भ्प् 2.1.11] इति ।
॥ 2.1 ॥ श्री-शुकः

6.266

[266]
एवं श्री-नारदेनोक्तं बृहन्-नारदीये -
महिम्नाम् अपि यन्-नाम्नः पारं गन्तुम् अनीश्वरः ।
मनवोऽपि मुनीन्द्राश् च कथं तं क्षुण्ण-धीर् भजे ॥ इति ।
अथ श्री-रूप-कीर्तनम् । प्रत्याक्रष्टुं नयनम् अबला इत्य् आदौ -
यच् छ्रीर् वाचां जनयति रतिं कीर्त्यमाना कवीनाम् ॥ [भ्प् 11.30.3] इति ।
यस्य श्री-कृष्ण-रूपस्य शोभा-सम्पत्तिः कीर्त्यमाना सती कवीनां तत्-
कीर्तकानां वाचां तत्-कीर्तनेष्व् एव रागं जनयति । अथोक्तं श्री-
चतुःसनेन कामं भवः सवृजिनैर् निरयेषु नस्तात् [भ्प् 3.15.49] इत्य् आदौ ।
वाचश् च नस् तुलसिवद् यदि तेऽङ्घ्रि-शोभाः इति ।
॥ 11.30 ॥ राजा श्री-शुकम्

6.267

[267]
अथ गुण-कीर्तनम् --
इदं हि पुंसस् तपसः श्रुतस्य वा
स्विष्टस्य सूक्तस्य च बुद्धि-दत्तयोः ।
अविच्युतोऽर्थः कविभिर् निरूपितो
यद् उत्तमःश्लोक-गुणानुवर्णनम्

6.267

[भ्प् 1.5.22]
(प्138) श्रुतं वेदाध्ययनम् । स्विष्टं यागादि । सूक्तं मन्त्रादि-जयः ।
बुद्ध`अशास्त्रीय-बोधः । दत्तं दानम् । एतेषां भगवद्-अर्पितानां सताम्
एवाविच्युतोऽर्थः नित्यं फलम् । किं तत् ? उत्तमःश्लोकस्य गुणानुकीर्तनं
यत् । जातायाम् अपि गुणानुवर्णन-साध्यायां परम-पुरुषार्थ-रूपायां
रतौ गुणानुवर्णनस्य प्रत्युत नित्य-नित्योल्लासाद् अविच्युतत्वम् उक्तम् ।
तस्माद् अविच्युतत्वेन रतिम् एवास्य फलं सूचयति ।
॥ 1.5 ॥ श्री-नारदः श्री-व्यासम्

6.268

[268]
अथ लीला-कीर्तनम् -
शृण्वतः श्रद्धया नित्यं गृणतश् च स्व-चेष्टितम् ।
कालेन नाति-दीर्घेन भगवान् विशते हृदि ॥ [भ्प् 2.8.3]
नातिदीर्घेन स्वल्पेनैव । विशते स्फुरति ।
॥ 2.8 ॥ श्री-परीक्षित्

6.269

[269]
तथा -
मृषा गिरस् ता ह्य् असतीर् असत्-कथा
न कथ्यते यद् भगवान् अधोक्षजः ।
तद् एव सत्यं तद् उ हैव मङ्गलं
तद् एव पुण्यं भगवद्-गुणोदयम् ॥ [भ्प् 12.12.49] इत्य् आदि ।
यद् उत्तमःश्लोक-यशोऽनुगीयते [भ्प् 12.12.50]
असतीर् असत्यः । असतां भगवतस् तद्-भक्तेभ्यश् चान्येषां कथा यासु ताः ।
यद् यासु गीर्षु न कथ्यते । उत्तमःश्लोकस्य यशोऽनुगीयअ इति तु यत् तत्
तदीय-लीलामयानुगानम् एव । सत्यम् इत्य् आदि । कथं सत्यत्वं मङ्गलत्वं
च । तत्राह भगवद्-गुणानाम् उदयो गायक-हृदि स्फूर्तिर् यस्मात् तत् ।
तदीय-रति-प्रदम् इत्य् अर्थः । स्कान्दे -
यत्र यत्र महीपाल वैष्णवी वर्तते कथा ।
तत्र तत्र हरिर् याति गौर् यथा सुत-वत्सला ॥
विष्णुधर्मे स्कान्दे च भगवद्-उक्तौ -
मत्-कथा-वाचकं नित्यं मत्-कथा-श्रवणे रतम् ।
मत्-कथा-प्रीति-मनसं नाहं त्यक्ष्यामि तंनरम् ॥ इति ।
अत्र चानुगीयत इत्य् अनेन सुकण्ठता चेद् गानम् एव कर्तव्यं तच् च
प्रशस्तम् इत्य् आयातम् । एवं नामादीनाम् अपि । उक्तं च -
गीतानि नामानि तद्-अर्थकानि
गायन् विलज्जो विचरेद् असङ्गः ।
एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या
जातानुरागो द्रुत-चित्त उच्चैः ॥ [भ्प् 12.2.37] इति ।
अन्यत्र च -
यानीह विश्व-विलयोद्भव-वृत्ति-हेतुः
कर्माण्य् अनन्य-विषयाणि हरिश् चकार ।
यस् त्व् अङ्ग गायति शृणोत्य् अनुमोदते वा
भक्तिर् भवेद् भगवति ह्य् अपवर्ग-मार्गे ॥ [भ्प् 10.69.29] इति ।
गान-शक्त्य्-अभावे स्वस्माद् उत्कृष्टतरस्य प्राप्तौ वा तच् छृणोति । तदा
शक्त्य्-अभावे तद् अनुमोदतेऽपीत्य् अर्थः । श्री-विष्णु-धर्मे श्री-विष्णूक्तौ -
रागेणाकृष्यते चेतो गान्धर्वाभिमुखं यदि ।
मयि बुद्धिं समास्थाय गायेथा मम सत्-कथाः ॥ इति ।
पाद्मे च कार्त्तिक-माहात्म्ये श्री-भगवद्-उक्तौ -
नाहं वसामि वैकुण्ठे योगिनां हृदये न च ।
मद्-भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद ॥
तेषां पूजादिकं गन्ध-धूपाद्यैः क्रियते नरैः ।
तेन प्रीतिं परां यामि न तथा मम पूजनात् ॥ इति ।
ते च प्राणि-मात्राणाम् एव परमोपकर्तारः किम् उत स्वेषाम् । यथोक्तं
नारसिंहे श्री-प्रह्लादेन - (पगे 139)
ते सन्तः सर्व-भूतानां निरुपाधिक-बान्धवाः ।
ये नृसिंह भवन्-नाम गायन्त्य् उच्चैर् मुदान्विताः ॥ इति ।
अत्र च बहुभिर् मिलित्वा कीर्तनं सङ्कीर्तनम् इत्य् उच्यते । त्त् तु चमत्कार-
विशेष-पोषात् पूर्वतोऽप्य् अधिकम् इति ज्ञेयम् । अस्त्र च नाम-सङ्कीर्तने
यथोपदिष्टं कलि-युग-पावनावतारेण श्री-भगवता -
तृणाद् अपि सुनीचेन तरोर् अपि सहिष्णुना ।
अमानिना मानदेन कीर्तनीयः सदा हरिः ॥ [पद्यावली 32] इति ।
॥ 12.12 ॥ श्री-सूतः

6.270

[270}
इयं च कीर्तनाख्या भक्तिर् भगवतो द्रव्य-जाति-गुण-क्रियाभिर् दीन-
जनैक-विषयापार-करुणामयीति श्रुति-पुराणादि-विश्रुतिः । कलौ च दीनत्वं
यथा ब्रह्म-वैवर्ते -
अतः कलौ तपो-योग-विद्या-याज्ञादिकाः क्रियाः ।
साङ्गाः भवन्ति न कृताः कुशलैर् अपि देहिभिः ॥ इति ।
अतएव कलौ स्वभावत एवातिदीनेषु लोकेष्व् आविर्भूय तान् अनायासेनैव तत्-
तद्-युग-गत-महासाध्नानां सर्वम् एव फलं ददाना सा कृतार्थयति ।
अतएव तयैव कलौ भगवतो विशेषतश् च सन्तोषो भवति ।
तथा चैवोत्तमं लोके तपः श्री-हरि-कीर्तनम् ।
कलौ युगे विशेषेण विष्णु-प्रीत्यै समाचरेत् ॥
इति स्कान्द-चातुर्मास्य-माहात्म्य-वचनानुसारेण । तद् एवम् आह -
कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः ।
द्वापरे परिचर्यायां कलौ तद् धरि-कीर्तनात् ॥ [भ्प् 12.3.52]
यद् यत् कृतादिषु तेन तेन साधनेन स्यात् तत् सर्वं कलौ हरि-कीर्तनाद्
भवतीति । अन्यत्र च [विप् 6.2.17] -
ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरेऽर्चयन् ।
यद् आप्नोति तद् आप्नोति कलौ सङ्कीर्त्य केशवम् ॥ इति ।
॥12.3॥ श्री-शुकः

6.274

[271]
अतएव -
कलिं सभाजयन्त्य् आर्या गुण-ज्ञाः सार-भागिनः ।
यत्र सङ्कीर्तनेनैव सर्व-स्वार्थोऽभिलभ्यते ॥ [भ्प् 11.5.36]
गुण-ज्ञाः कीर्तन-प्रचार-रूपं तद्-गुणं जानन्तः । अतएव तद्-दोष-
ग्रहणात् सार-भागिनः सार-मात्र-ग्रहणाः कलिं सभाजयन्ति । गुणम् एव
दर्शयति यत्र प्रचारितेन सङ्कीर्तनेनैव साधनान्तर-निरपेक्षेण तेनेत्य्
अर्थः । सर्वो ध्यानादिभिः कृतादिषु साधन-सहस्रैः साध्यः ।
[272]
कीर्तनस्यैव महिमानम् आह -
न ह्य् अतः परमो लाभो देहिनां भ्राम्यताम् इह ।
यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ [भ्प् 11.5.37]
अतः कीर्तनात् । यतो यस्मात् कीर्तनात् । परमां शान्तिं शमो मन्-निष्ठता
बुद्धिः इति भगवद्-वाक्यानुसारेण ध्यानादिभिर् अप्य् असाध्यां
सर्वोत्कृष्टां भगवन्-निष्ठां प्राप्नोति । अनुषङ्गेण (पगे 140) संसारश्
च नश्यति । अत एव ध्यान-निष्ठा अपि कृतादि-प्रजा एतादृशीं भगवन्-
निष्ठां न प्राप्तवत्यः । महा-भागवता नित्यं कलौ कुर्वन्ति कीर्तनम्
इति स्कान्दाद्य्-अनुसारेण कृतादिषु प्रजा राजन् कलाव् इच्छन्ति सम्भवम्
तादृश-निष्ठा-कारणं कीर्तन-माहात्म्यं च । दीनैक-कृपातिशय-शालिना
भगवता तदानीं तत्-तत्-सामर्थ्यावसरे यस्मात् न प्रकाशितं तस्मात्
ध्यानादि-समर्थास् ताः प्रजा जिह्वौष्ठ-स्पन्दन-मात्रस्य
नातिसाधनत्वं भवेद् इति मत्वा तन् न श्रद्धितवत्यश् च ।
[273]
ततः कलि-प्रजानां परम-भगवन्-निष्ठतां श्रुत्वा तद्-अर्थं कलाव् एव
केवलं निज-जन्म प्रार्थयन्त इत्य् आह -
कृतादिषु प्रजा राजन् कलाव् इच्छन्ति सम्भवम् ।
कलौ खलु भविष्यन्ति नारायण-परायणाः ॥ [भ्प् 11.5.35]
तत्-परायणत्वम् अत्र तदीय-प्रेमातिशयवत्त्वम् । एतद् एव परमां शान्तिम्
इत्य् अनेन कार्य-द्वारा व्यञ्जितं मुक्तानाम् अपि सिद्धानां नारायण-
परायणः सुदुर्लभः प्रशान्तात्मा [भ्प् 6.14.5] इत्य् अत्र यद्वत् ।
अत्र कलि-सङ्गेन कीर्तनस्य गुणोत्कर्ष इति न वक्तव्यं भक्ति-मात्रे काल-
देश-नियमस्य निषिद्धत्वात् । विशेषतो नामोपलक्ष्य च विष्णु-धर्मे च
चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् इति । स्कान्द एव च -
न देश-कालावस्थात्म-शुद्ध्य्-आदिकम् अपेक्षते ।
किन्तु स्वतन्त्रम् एवैदं तन् नाम कामित-कामदम् ॥ इति ।
विष्णु-धर्मे च -
कलौ कृत-युगं तस्य कलिस् तस्य कृते युगे ।
यस्य चेतसि गोविन्दो हृदये यस्य नाच्युत ॥ इति ।
न च कलाव् अन्य-साधन-समर्थत्वाद् एव तेनाल्पेनापि महत् फलं भवति
न तु तस्य गरीयस्त्वेनेति मन्तव्यम् ।
यस्मिन् न्यस्त-मतिर् न याति नरकं स्वर्गोऽपि यच्-चिन्तने
विघ्नो यत्र निवेशितात्म-मनसां ब्राह्मोऽपि लोकोऽल्पकः ।
मुक्तिं चेतसि यः स्थितोऽमल-धियां पुंसां ददात्य् अव्ययः
किं चित्रं यद् अघं प्रयाति विलयं तत्राच्युते कीर्तिते ॥ [विप् 6.8.57}
इति समाधि-पर्यन्ताद् अपि स्मरणात् कौमुत्येन कीर्तनस्यैव गरीयस्त्वं
श्री-विष्णु-पुराणे दर्शितम् । अतएवोक्तम् एतन्-निर्विद्यमानानां [भ्प् 2.1.11]
इत्य् आदि । तथा च -
अघच्छित्-स्मरणं विष्णोर्
बह्व्-आयासेन साध्यते ।
ओष्ठ-स्पन्दन-मात्रेण
कीर्तनं तु ततो वरम् ॥ इति वैष्णव-चिन्तामणौ ।
येन जन्म-शतैः पूर्वं वासुदेवः समर्चितः ।
तन्-मुखे हरि-नामानि सदा तिष्ठन्ति भारत ॥ इत्य् अन्यत्र ।
सर्वापराध-कृद् अपि इत्य् आदि-नामापराध-भजन-स्तोत्रे च । तस्मात्
सर्वत्रैव युगे श्रीमत्-कीर्तनस्य समानम् एव सामर्थ्यम् । कलौ च श्री-
भगवता कृपया तद् ग्राह्यत इत्य् अपेक्षयैव तत्र त-प्रशंसेति स्थितम् ।
अतएव यद्यपि अन्य-भक्तिः कलौ कर्तव्या तदा तत्-संयोगेनैवेत्य् उक्तम् --
यज्ञैः सङ्कीर्तन-(पगे 141) प्रायैर् यजन्ति हि सु-मेधसः [भ्प् 11.5.29] इति ।
अत्र च स्वतन्त्रम् एव नाम-कीर्तनम् अत्यन्त-प्रशस्तम् -
हरेर् नाम हरेर् नाम हरेर् नामैव केवलम् ।
कलौ नास्त्य् एव नास्त्य् एव नास्त्य् एव गतिर् अन्यथा ॥ इत्य् आदौ ।
तस्मात् साधूक्तं कलिं सभाजयन्त्य् आर्याः [भ्प् 11.5.3] इत्य् आदि-त्रयम् ॥
॥11.5॥ श्री-करभाजनो निमिम् ॥ 271-273 ॥
[274]
तद् एवं कलौ नाम-कीर्तन-प्रचार-प्रभावेणैव परम-भगवत्-
परायणत्व-सिद्धिर् दर्शिता । तत्र पाषण्ड-प्रवेशेन नामापराधिनो ये
तेषां तु तद्-बहिर्मुखत्वम् एव स्याद् इति व्यतिरेकेण तद् द्रढयति -
कलौ न राजन् जगतां परं गुरुं
त्रि-लोक-नाथानत-पाद-पङ्कजम् ।
प्रायेण मर्त्या भगवन्तम् अच्युतं
यक्ष्यन्ति पाषण्ड-विभिन्न-चेतसः ॥
यन्-नामधेयं म्रियमाण आतुरः
पतन् स्खलन् वा विवशो गृणन् पुमान् ।
विमुक्त-कर्मार्गल उत्तमां गतिं
प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ [भ्प् 12.3.37-38]
स्पष्टम् ॥
॥ 12.3 ॥ श्री-शुकः

6.275

[275]
तद् एवं कीर्तनं व्याख्यातम् । तत्रास्मिन् कीर्तने निज-दैन्य-निजाभीष्ट-
विज्ञप्ति-स्तव-पाठाव् अप्य् अन्तर्भाव्यौ । तथा तत्र श्री-भागवत-स्थित-
नामादि-कीर्तनं तु पूर्ववद् अन्यदीया नामादि-कीर्तनाद् अधिकं ज्ञेयम् ।
कलौ तु प्रशस्तं तत् ।
कृष्णे स्वधामोपगते धर्म-ज्ञानादिभिः सह ।
कलौ नष्ट-दृशाम् एष पुराणार्कोऽधुनोदितः ॥ [भ्प् 1.3.42] इति ।
अथ शरणापत्त्य्-आदिभिः शुद्धान्तः-करणश् चेत् एतन्-निर्विध्यमानानाम्
इच्छताम् अकुतोभयम् [भ्प् 2.1.11] इत्य् आद्य्-उक्तत्वान् नाम-
कीर्तनापरित्यागेन स्मरणं कुर्यात् । तच् च मनसानुसन्धानम् । यद् एव
नामादि-सम्बन्धित्वेन बहु-विधं भवति । तत्र स्मरण-सामान्यम् -
एतावान् योग आदिष्टो मच्-छिष्यैः सनकादिभिः ।
सर्वतोमन आकृष्य मय्य् अद्धावेश्यते यथा ॥ [भ्प् 11.13.14]
यथा यथावत् मय्य् आवेश्यत इत्य् एतावान् इत्य् अर्थः । तथा च स्कान्दे
ब्रह्मोक्तौ - आलोड्य सर्व-शास्त्राणि विचार्य च पुनः पुनः इत्यादि ॥
॥ 11.13 ॥ श्री-भगवान्

6.276

[276]
तत्र नाम-स्मरणम् -
हरेर् नाम परं जप्यं ध्येयं गेयं निरन्तरम् ।
कीर्तनीयं च बहुधा निर्वृतीर् बहुधेय्च्छता ॥
इति जाबालि-संहिताद्य्-अनुसारेण ज्ञेयम् । नाम-स्मरणं तु शुद्धान्तः-
करणताम् अपेक्षते । तत् कीर्तनाच् चावरम् इति मूले तु नोदाररण-स्पष्टता ।
रूप-स्मरणम् आह -
अविस्मृतिः कृष्ण-पदारविन्दयोः
क्षिणोत्य् अभद्राणि च शं तनोति ।
सत्त्वस्य शुद्धिं परमात्म-भक्तिं
ज्ञानं च विज्ञान-विराग-युक्तम् ॥ [भ्प् 12.12.50]
(पगे 142) परमात्मनि श्री-कृष्णे प्रेम-लक्षणां भक्तिम् इति मुख्यं
फलम् अन्यानि त्व् आनुषङ्गिकाणि ।
॥ 12.12 ॥ श्री-सूतः

6.277

[277]
किं च -
स्मरतः पाद-कमलम् आत्मानम् अपि यच्छति ।
किं न्व् अर्थ-कामान् भजतो नात्य्-अभीष्टान् जगद्-गुरुः ॥ [भ्प् 10.80.11]
स्मरतः स्मरते । साक्षात् प्रादुर्भूय आत्मानं स्मर्तुर् वशीकरोतीत्य्
अर्थः । अर्थकामान् इति बहुवचनं मोक्षम् अप्य् अन्तर्भावयैत् लिङ्ग-
समवाय-न्यायेन । यस्माद् एवं तन्-माहात्म्यं तस्माद् एव गारुडेऽपीदम्
उक्तम् ।
एकस्मिन्न् अप्य् अतिक्रान्ते मुहूर्ते ध्यान-वर्जिते ।
दस्युभिर् मुषितेनैव युक्तम् आक्रन्दितुं भृशम् ॥ इति ।
॥ 10.80 ॥ श्रीदाम-विप्र-भार्या तम्

6.278

[278]
अथ पूर्ववत् क्रम-सोपान-रीत्या सुख-लभ्यं गुण-परिकर-सेवा-लीला-
स्मरणं चानुसन्धेयम् । तद् इदं स्मरणं पञ्च-विधम् । यत् किञ्चिद्
अनुसन्धानं स्मरणम् । सर्वतश् चित्तम् आकृष्य सामान्याकारेण मनो-
धारणं धारणा । विशेषतो रूपादि-विचिन्तनं ध्यानम् । अमृत-धारावद्
अविच्छिन्नं तद् ध्रुवानुस्मृतिः । ध्येय-मात्र-स्फुरणं समाधिर् इति ।
तत्र स्मरणम् -
येन केनाप्य् उपायेन
स्मृतो नारायणोऽव्ययः ।
अपि पातक-युक्तस्य
प्रसन्नः स्यान् न संशयः ॥ [नार्प् 1.1.77] इति बृहन्-नारदीयादौ ।
धारणा -
विषयान् ध्यायतश् चित्तं विषयेषु विसज्जते ।
माम् अनुस्मरतश् चित्तं मय्य् एव प्रविलीयते ॥ [भ्प् 11.14.27] इत्य् आदौ ।
ध्यानम् --
भगवच्-चरण-द्वन्द्व-ध्यानं निर्द्वन्द्वम् ईरितम् ।
पापिनोऽपि प्रसङ्गेन विहितं सुहितं परम् ॥ इति नारसिंहादौ ।
तत्र निर्द्वन्दवं शीतोष्णादिमय-दुःख-परम्परातीतम् । ईरितं शास्त्र-
विहितम् । तच् च पापिनोऽपि प्रसङ्गेनापि परम् उत्कृष्टं सुहितं विहितं
तत्रैवेत्य् अर्थः ।
ध्रुवानुस्मृतिश् च मद्-गुण-स्मृति-मात्रेण [भ्प् 3.29.10] इत्य् आदौ
त्रिभुवन-विभव-हेतवेऽप्य् अकुण्ठ-स्मृतिः [भ्प् 11.2.51] इत्य् आदौ च । एषैव
श्री-रामानुज-भगवत्-पादैः प्रथम-सूत्रे दर्शितास्ति ।
समाधिम् आह -
तयोर् आगमनं साक्षाद् ईशयोर् जगद्-आत्मनोः ।
न वेद रुद्ध-धी-वृत्तिर् आत्मानं विश्वम् एव च ॥ [भ्प् 12.10.9]
तयो रुद्र-तत्-पत्न्योः । भगवद्-अंश-तच्-छक्तित्वात् जगद्-आत्मनोः तत्-
प्रवर्तकयोर् अपि । तत्र हेतुः रुद्ध-धी-वृत्तिर् भगवद्-आविष्ट-चित्तः
भक्तिं परां भगवति लब्धवान् [भ्प् 12.10.6] इति पूर्वोक्तेः । तस्माद्
असम्प्रज्ञात-नाम्नो ब्रह्म-समाधितो भिन्न एवासौ ।
॥ 12.10 ॥ श्री-सूतः

6.279

[279]
क्वचिल् लीलादि-युक्ते च तस्मिन्न् अनन्या स्फूर्तिः समाधिः स्यात् । यथाह -
उरुक्रमस्याखिल-बन्ध-मुक्तये
समाधिनानुस्मर तद्-विचेष्टितम् ॥ [भ्प् 1.5.13] (पगे 143)
इति स्पष्टम् । एतद्-रूपो दासादि-भक्तानाम् । पूर्वं तु प्रायः शान्त-
भक्तानाम् । स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य-भावोऽप्य् अजित-रुचिर-
लीलाकृष्ट-सारः [भ्प् 12.12.69] इत्य् आद्य्-उक्तिभ्यः ।
॥ 1.5 ॥ श्री-नारदो व्यासम्

6.280

[280]
अथ रुचिः शक्तिश् च चेत् तद्-अपरित्यागेन पाद-सेवा च कर्तव्या । सेवा
स्मरण-सिद्ध्य्-अर्थं च सा कैश्चित् क्रियते । तथा च विष्णु-रहस्ये
परमेश्वर-वाक्यम् --
न मे ध्यान-रताः सम्यग् योगिनः परितुष्टये ।
तथा भक्तिश् च देवर्षे क्रिया-योग-रता यथा ।
क्रियाक्रमेण योगोऽपि ध्यानिनः सम्प्रवर्तते ॥ इति ।
योगोऽत्र समाधिः । पाद-सेवायां पाद-शब्दो भक्त्यैव निर्दिष्टः । ततः
सेवायाः सादरत्वं विधीयते । सेवा च काल-देशाद्य्-उचिता परिचर्यादि-
पर्याया । सा यथा -
यत्-पाद-सेवाभिरुचिस् तपस्विनाम्
अशेष-जन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्य् अन्वहम् एधती सती
यथा पदाङ्गुष्ठ-विनिःसृता सरित् ॥ [भ्प् 4.21.31]
तपस्विनां संसार-तप्तानाम् अलं तत्-तद्-वासनाम् । तत्-पादस्यैवैष
महिमेति दृष्टान्तेनाह यथेति ।
॥ 4.21 ॥ पृथुः श्री-विष्णुम्

6.282

[281]
तथा -
न कामयेऽन्यं तव पाद-सेवनाद्
अकिञ्चन-प्रार्थ्यतमाद् वरं विभो ।
आराध्य कस् त्वां ह्य् अपवर्ग-दं हरे
वृणीत आर्यो वरम् आत्म-बन्धनम् ॥ [भ्प् 10.51.55]
अकिञ्चना मोक्ष-पर्यन्त-कामना-रहिताः । तत्र हेतुः त्वाम् आराध्य कस्
त्वाम् अपवर्गदं सन्तं अपवर्गदतयाविर्भवन्तं वृणीत समाश्रयेतेत्य्
अर्थः । वरम् इत्य् अव्ययम् ईषत् प्रिये । वरम् आत्मनो बन्धनम् एव वृणीत ।
अनन्तरं चास्य तस्माद् विसृज्याशिषः [भ्प् 10.51.56] इत्य् आदि-वाक्ये निरञ्जनम्
इत्य् आदि ।
अत्र सेव्य-पादत्वेनैव प्राप्तस्य तस्य पुरुषोत्तमस्य सच्-चिद्-आनन्दत्वम्
एवाभिप्रेतम् ।
॥ 10.51 ॥ मुचुकुन्दः श्री-भगवन्तम्

6.286

[283]
अत्र पाद-सेवायां श्री-मूर्ति-दर्शन-स्पर्श-परिक्रमानुव्रजन-भगवन्-
मन्दिर-गङ्गा-पुरुषोत्तम-द्वारका-मथुरादि-तदीय-तीर्थ-स्नान-
गमनादयोऽप्य् अन्तर्भाव्याः । तत्-परिकर-प्रायत्वात् । यावज्-जीवं तन्-
मन्दिरादि-निवासस् तु शरणापत्ताव् अन्तर्भवति । गङ्गादीनां तत्-स्थ-प्राणि-
वृन्दानां च परम-भागवतत्वम् एवेति । पक्षे तु तत्-सेवादिकं महत्-
सेवादाव् एव पर्यवस्यति । ततो गङ्गादिष्व् अपि भक्ति-निदानत्वं भवेत् ।
अतएव -
शुश्रूषोः श्रद्दधानस्य वासुदेव-कथा-रुचिः ।
स्यान् महत्-सेवया विप्राः पुण्य-तीर्थ-निषेवणात् ॥ [भ्प् 1.2.16] (पगे 144)
इत्य् अत्र पुण्य-तीर्थ-शब्दोक्तस्य गङ्गादेः पृथक्-कारणत्वं व्याख्येयम् ।
यथा तृतीये -- यत्-पाद-निःसृत-सरित्-प्रवरोदकेन तीर्थेन मूर्ध्न्य्
अधिकृतेन शिवः शिवोऽभूत् [भ्प् 3.28.22] इति । शिवत्वं नाम ह्य् अत्र परम-
सुख-प्राप्तिर् इति टीका-कृन्-मतम् । तादृश-सुखत्वं च भक्ताव् एव
पर्यवसितम् । तत ऊर्ध्वं सुखान्तराभावात् । ब्राह्मे पुरुषोत्तमम्
उद्दिश्य -
अहो क्षेत्रस्य माहात्म्यं समन्ताद् दश-योजनम् ।
दिविष्ठा यत्र पश्यन्ति सर्वान् एव चतुर्भुजान् ॥
स्कान्दे -
संवत्सरं वा षण्-मासान् मासं मासार्धम् एव वा ।
द्वारका-वासिनः सर्व-नरा नार्यश् चतुर्भुजाः ॥
पाद्म-पाताल-खण्डे -
अहो मधुपुरी धन्या वैकुण्ठाच् च गरीयसी ।
दिनम् एकं निवासेन हरौ भक्तिः प्रजायते ॥
आदि-वाराहे ताम् उद्दिश्य जन्म-भूमिः प्रिया मम इति । एषु च स्वोपासना-
स्थानम् अधिकं सेव्यम् । श्री-कृष्णस्य पूर्ण-भगवत्त्वात् तत्-स्थानं तु
सर्वेषाम् एव पूर्ण-पुरुषार्थदं भवेत् । अतएव आदिवाराहे -
मथुरां च परित्यज्य योऽन्यत्र कुरुते रतिम् ।
मूढो भ्रमति संसारे मोहितो मम मायया ॥ इति ।
तद् एवं तुलसी-सेवा च सत्-सेवायाम् अन्तर्भाव्या परम-भगवत्-प्रियत्वात्
तस्याः । यथा अगस्त्य-संहितायां गारुड-संहितायां च -
विष्णोस् त्रैलोक्य-नाथस्य रामस्य जनकात्मजा ।
प्रिया तथैव तुलसी सर्व-लोकैक-पावनी ॥ इति ।
स्कान्दे -
रतिं बध्नाति नान्यत्र तुलसी-काननं विना ।
देव-देवो जगत्-स्वामी कलि-काले विशेषतः ॥
निरीक्षिता नरैर् यैस् तु तुलसी-वन-वाटिका ।
रोपिता यैस् तु विधिना सम्प्राप्तं परमं पदम् ॥
स्कान्द एव तुलसी-स्तवे - तुलसी-नाम-मात्रेण प्रीणात्य् असुर-दर्प-हा इति ।
तद् एवं पाद-सेवा व्याख्याता । प्रसङ्ग-सङ्गत्या गङ्गादि-सेवा च ।
तच् चागमोक्तावाहनादि-क्रमकम् । तन्-मार्गे श्रद्धा चेद् आश्रित-मन्त्र-
गुरुस् तं विशेषतः पृच्छेत् । तथोदाहृतम् - लब्ध्वानुग्रह आचार्यात् तेन
सन्दर्शितागमः [भ्प् 11.3.48] इत्य् आदिना ।
यद्यपि श्री-भागवत-मते पञ्चरात्रादिवद् अर्चन-मार्गस्यावश्यकत्वं
नास्ति, तद् विनापि शरणापत्त्य्-आदीनाम् एकतरेणापि पुरुषार्थ-सिद्धेर्
अभिहितत्वात्, तथापि श्री-नारदादि-वर्त्मानुसरद्भिः श्री-भगवता सह
सम्बन्ध-विशेषं दीक्षा-विधानेन श्री-गुरु-चरण-सम्पादितं
चिकीर्षद्भिः कृतायां दीक्षायाम् अर्चनम् अवश्यं क्रियेतैव ।
दिव्यं ज्ञानं यतो दद्यात् कुर्यात् पापस्य सङ्क्षयम् ।
तस्माद् दीक्षेति सा प्रोक्ता देशिकैस् तत्त्व-कोविदैः ॥
अतो गुरुं प्रणम्यैवं सर्वस्वं विनिवेद्य च ।
गृह्णीयाद् वैष्णवं मन्त्रं दीक्षा-पूर्वं विधानतः ॥ [ह्ब्व् 2.9-10] (पगे
145) इत्य् आगमात् ।
दिव्यं ज्ञानं ह्य् अत्र श्रीमति मन्त्रे भगवत्-स्वरूप-ज्ञानं, तेन
भगवता सम्बन्ध-विशेष-ज्ञानं च । यथा पाद्मोत्तर-खण्डादाव्
अष्टाक्षरादिकम् अधिकृत्य विवृतम् अस्ति ये तु सम्पत्तिमन्तो गृहस्थास् तेषां
त्व् अर्चन-मार्ग एव मुख्यः । यथोक्तं श्री-वासुदेवं प्रति मुनिभिः -
अयं स्वस्त्य्-अयनः पन्था द्वि-जातेर् गृह-मेधिनः ।
यच् छ्रद्धयाप्त-वित्तेन शुक्लेनेज्येत पूरुषः ॥ [भ्प् 10.84.37] इति ।
तद् अकृत्वा हि निष्किञ्चनवत् केवल-स्मरणादि-निष्ठत्वे वित्त-शाठ्य-
विप्रतिपत्तिः स्यात् । पर-द्वारा तत्-सम्पादनं व्यवहार-
निष्ठत्वस्यालसत्वस्य वा प्रतिपादकम् । ततोऽश्रद्धामयत्वाद् धिनम् एव
तत् । ततश् च योऽमायया सततयानुवृत्त्या इत्य् आद्य्-उपदेशाद् भ्रश्येत् ।
किं च गृहस्थानां परिचर्या-मार्गे द्रव्य-साध्यतयार्चन-मार्गाद्
अविशेषेण प्राप्तेऽप्य् अर्चन-मार्गस्यैव प्राधान्यम् अत्यन्त-विधि-
सापेक्षत्वात् तेषाम् । तथा गार्हस्थ्य-धर्मस्य देवता-यागस्य शाखा-
पल्लवादि-सेक-स्थानीयस्य मूल-सेक-रूपं तद्-अर्चनम् इत्य् अपि तद्-अकरणे
महान् दोषः । अतः स्कान्दे श्री-प्रह्लाद-वाक्यम् -
केशवार्चा गृहे यस्य न तिष्ठति महीपते ।
तस्यान्नं नैव भोक्तव्यम् अभक्ष्येण समं स्मृतम् ॥ इति ।
दीक्षितानां तु सर्वेषां तद्-अकरणे नरक-पातः श्रूयते । यथा विष्णु-
धर्मोत्तरे -
एक-कालं द्वि-कालं वा त्रि-कालं पूजयेद् धरिम् ।
अपूज्य-भोजनं कुर्वन् नरकाणि व्रजेन् नरः ॥ इत्य् आदि ।
अशक्तम् अयोग्यं प्रति च आग्नेये -
पूजितं पूज्यमानं वा यः पश्येद् भक्तिमतो हरिम् ।
श्रद्धया मोदयेद् यस् तु सोऽपि योग-फलं लभेत् ॥ इति ।
योगोऽत्र पञ्चरात्राद्य्-उक्तः क्रिया-योगः । क्वचिद् अत्र मानस-पूजा च
विहितास्ति । तथा च पाद्मोत्तर-खण्डे - साधारणं हि सर्वेषां मानसेज्या
नॄणां प्रिया इति ।
किं चास्मिन्न् अर्चन-मार्गेऽवश्यं विधिर् अपेक्षणीयः । ततः पूर्वं दीक्षा
कर्तव्या । अथ शास्त्रीयं विधानं च शिक्षणीयम् ।
दीक्षा यथागमे --
द्विजानाम् अनुपेतानां स्व-कर्माध्ययनादिषु ।
यथाधिकारो नास्तीह स्याच् चोपनयनाद् अनु ॥
तथात्रादीक्षितानां तु मन्त्र-देवार्चनादिषु ।
नाधिकारोऽस्त्य् अतः कुर्याद् आत्मानं शिव-संस्तुतम् ॥ [ह्ब्व् 2.3-4] इति ।
शास्त्रीय-विधानं च यथा विष्णु-रहस्ये -
अविज्ञाय विधानोक्तं हरि-पूजा-विधि-क्रियाम् ।
कुर्वन् भक्त्या समाप्नोति शत-भागं विधानतः ॥ इति ।
भक्त्या परमादरेणैव शत-भागवं प्राप्नोति । अन्यथा ताव् अन्तम् अपि
नेत्य् अर्थः । विधौ तु वैष्णव-सम्प्रदायानुसार एव प्रमाणम् । यतो
विष्णु-रहस्ये -
अर्चयन्ति सदा विष्णुं मनो-वाक्-काय-कर्मभिः ।
तेषां हि वचनं ग्राह्यं ते हि विष्णु-समा मताः ॥
कौर्मे -
संस्पृष्ट्वा वैष्णवान् विप्रान् विष्णु-शास्त्र-विशारदान् ।
चीर्ण-व्रतान् सदाचारान् तद् उक्तं यत्नतश् चरेत् ॥ (पगे 146)
वैष्णव-तन्त्रे -
येषां गुरौ च जप्ये च विष्णौ च परमात्मनि ।
नास्ति भक्तिः सदा तेषां वचनं परिवर्जयेत् ॥ इति ।
तथाह एवं सदा इत्य् आदौ तन्-निष्ठ-विप्राभिहितः शशास ह [भ्प् 3.4.18]
इति । अम्बरीष इति प्रकरण-लब्धम् ॥
॥ 9.4 ॥ श्री-शुकः

6.284

[287]
ननु भगवन्-नामात्मका एव मन्त्राः । तत्र विशेषेण नमः-शब्दाद्य्-
अलंकृताः श्रीभगवता श्रीमद्-ऋषिभिश् चाहित-शक्ति-विशेषाः श्रीभगवता
समम् आत्म-सम्बन्ध-विशेष-प्रतिपादकाश् च । तत्र केवलानि श्रीभगवन्-
नामान्य् अपि निरपेक्षाण्य् एव परम-पुरुषार्थ-फल-पर्यन्त-दान-
समर्थानि । ततो मन्त्रेषु नामतोऽप्य् अधिक-सामर्थ्ये लब्धे कथं
दीक्षाद्य्-अपेक्षा । उच्यते । यद्यपि स्वरूपतो नास्ति तथापि प्रायः स्वभावतो
देहादि-सम्बन्धेन कदर्थ-शीलानां विक्षिप्त-चित्तानां जनानां तत्-तत्-
संकोचीकरणाय श्रीमद्-ऋषि-प्रभृतिभिर् अत्रार्चन-मार्गे क्वचित् क्वचित् काचित्
काचिन् मर्यादा स्थापितास्ति । ततस् तद्-उल्लङ्घने शास्त्रं प्रायश्चित्तम्
उद्भावयति ।
तत उभयम् अपि नासमञ्जसम् इति तत्र तत्-तद्-अपेक्षा नास्ति । यथा श्री-
रामचन्द्रम् उद्दिश्य रामार्चन-चन्द्रिकायां -
वैष्णवेष्व् अपि मन्त्रेषु राम-मन्त्राः फलाधिकाः ।
गाणपत्य्-आदि-मन्त्रेभ्यः कोटि-कोटि-गुणाधिकाः ॥
विनैव दीक्षां विप्रेन्द्र पुरश्चर्यां विनैव हि ।
विनैव न्यास-विधिना जप-मात्रेण सिद्धिदाः ॥ इति ।
एवं साध्यत्वादि-परीक्षानपेक्षा च क्वचित् श्रूयते । यथोक्तं मन्त्र-देव-
प्रकाशिकायाम् -
सौर-मन्त्राश् च येऽपि स्युर् वैष्णवा नारसिंहकाः ।
साध्य-सिद्ध-सुसिद्धारि-विचार-परिवर्जिताः ॥ इति ।
तन्त्रान्तरे -
नृसिंहार्क-वराहाणां प्रसाद-प्रवणस्य च ।
वैदिकस्य च मन्त्रस्य सिद्धादीन् नैव शोधयेत् ॥ इति ।
सनत्-कुमार-संहितायाम् -
साध्यः सिद्धः सुसिद्धश् च अरिश् चैव च नारद ।
गोपालेषु न बोद्धव्यः स्व-प्रकाशो यतः स्मृतः ॥
अन्यत्र -
सर्वेषु वर्णेषु तथाश्रमेषु
नारीषु नानाह्वय-जन्मभेषु ।
दाता फलानाम् अभिवाञ्छितानां
प्राग् एव गोपालक-मन्त्र एषः ॥ इत्य् आदि ।
मर्यादा यथा ब्रह्म-यामले -
श्रुति-स्मृति-पुराणादि-प चरात्र-विधिं विना ।
ऐकान्तिकी हरेर् भक्तिर् उत्पातायैव कल्पते ॥
इत्थम् अभिप्रेतं श्री-पृथिव्या चतुर्थे -
अस्मिन् लोकेऽथवामुष्मिन् मुनिभिस् तत्त्व-दर्शिभिः ।
दृष्टा योगाः प्रयुक्ताश् च पुंसां श्रेयः-प्रसिद्धये ॥
तान् आतिष्ठति यः सम्यग् उपायान् पूर्व-दर्शितान् ।
अवरः श्रद्धयोपेत उपेयान् विन्दतेऽञ्जसा ॥
तान् अनादृत्य योऽविद्वान् अर्थान् आरभते स्वयम् ।
तस्य व्यभिचरन्त्य् अर्था आरब्धाश् च पुनः पुनः ॥ [भ्प् 4.18.3-5]
अतएवोक्तं पाद्मे श्री-नारायण-नारद-संवादे - (पगे 147)
मद्-भक्तो यो मद्-अर्चां च करोति विधिवद् ऋषे ।
तस्यान्तरायाः स्वप्नेऽपि न भवन्त्य् अभयो हि सः ॥ इति ।
तद् एतद्-अर्चनं द्विविधं केवलं कर्म-मिश्रं च । तयोः पूर्वं
निरपेक्षाणां श्रद्धावतां दर्शितम् आविर्होत्रेण य आशु हृदय-ग्रन्थिम्
इत्य् आदौ । उक्तं च श्री-नारदेन -
यदा यस्यानुगृह्णाति भगवान् अत्म-भावितः ।
न जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ [भ्प् 4.29.47] इति ।
अत्र श्रीमद्-अगस्त्य-संहिता च --
यथा विधि-निषेधौ च मुक्तं नैवोपसर्पतः ।
तथा न स्पृशतो रामोपासकं विधि-पूर्वकम् ॥ इति ।
उत्तरं व्यवहार-चेष्टातिशयवत्तायादृच्छिक-भक्त्य्-
अनुष्ठानवतादिलक्षण-लक्षित-श्रद्धानां तथा तद्-वैपरीत्य-लक्षित-
श्रद्धानाम् ऐ प्रतिष्ठितानां भक्ति-वार्तानभिज्ञ-बुद्धिषु साधारण-
वैदिक-कर्मानुष्ठान-लोपोऽपि माभूद् इति लोक-सङ्ग्रह-पराणां
गृहस्थानां दर्शितम् । यथा न ह्य् अन्तोऽनन्त-पारस्य [भ्प् 11.27.6] इत्य् आदौ
सन्ध्योपास्त्यादि-कर्माणि वेदेनाचोदितानि मे ।
पूजां तैः कल्पयेत् सम्यक्-सङ्कल्पः कर्म-पावनीम् ॥ [भ्प् 11.27.11] इत्य्
आदि ।
स्पष्टम् ।
॥ 11.27 ॥ श्री-भगवान्

6.285

[285]
श्री-नारद-पञ्चरात्रे चैवम् एव श्री-नारायण-वाक्यं श्राद्ध-
कथनारम्भे -
नाचरेद् यस् तु सिद्धोऽपि लौकिकं धर्मम् अग्रतः ।
उपप्लवाच् च धर्मस्य ग्लानिर् भवति नारदः ॥
विवेकज्ञैर् अतः सर्वैर् लोकाचारो यथा-स्थितः ।
आदेह-पाताद् यत्नेन रक्षणीयः प्रयत्नतः ॥ इति ।
एतेषां च द्विविधा कर्म-व्यवस्था श्री-नारद-पञ्चरात्रादौ अन्तर्यामि-
श्री-भगवद्-दृष्ट्यैव सर्वाराधानं विहितं विष्णु-यामलादौ तु -
विष्णु-पादोदकेनैव पितॄणां तर्पण-क्रिया ।
विष्णोर् निवेदितान्नेन यष्टव्यं देवतान्तरम् ॥ इत्य् आदि-प्रकारेण विहितम्
इति ।
ये तु तत्र श्री-भगवत्-पीठावरण-पूजायां गणेश-दुर्गाद्या वर्तन्ते ते
हि विष्वक्सेनादिवद् भगवतो नित्य-वैकुण्ठ-सेवकाः । ततश् च ते गणेश-
दुर्गाद्या, ये परे माया-शक्त्यात्मका गणेश-दुर्गाद्यास् ते तु न भवन्ति ।
न यत्र माया किम् उतापरे हरेः [भ्प् 2.9.10] इति द्वितीयोक्तेः । ततो भगवत्-
स्वरूप-भूत-शक्त्यात्मका एव ते । यत एव च श्री-कृष्ण-स्वरूप-भूत-
शक्ति-वृत्ति-विशेषस्याधिष्ठातृत्वं श्रूति-तन्त्रादिष्व् आदिष्व् अपि दृश्यते । यथा
नारद-पञ्चरात्रे श्रुति-विद्या-संवादे -
भक्तिर् भजन-सम्पत्तिर् भजते प्रकृतिः प्रियम् ।
ज्ञायतेऽत्यन्त-दुःखेन सेयं प्रकृतिर् आत्मनः ॥
दुर्गेति गीयते सद्भिर् अखण्ड-रस-वल्लभा ॥ इति ।
अतएव श्री-भगवद्-अभेदेनोक्तं गौतमीय-कल्पे - यः कृष्णः सैव दुर्गा
स्याद् या दुर्गा कृष्ण एव सः इति । त्वम् एव परमेशानि अस्याधिष्ठातृ-देवता
इत्य् आदिकं तु विराट्-पुरुष-महा-पुरुषयोर् इव (पगे 148) केषांचिद्
अभेदोपासना-विवक्षयैवोक्तम् । सा हि मायांश-रूपा तद्-अधीने
प्राकृतेऽस्मिन् लोके मन्त्र-रक्षा-लक्षण-सेवार्थं नियुक्ता चिच्-छक्त्यात्मक-
दुर्गाया दासीयते न तु सेवाधिष्ठात्री । मायातीत-वैकुण्ठावरण-
कथने पाद्मोत्तर-खण्डे --
सत्याच्युतानन्त-दुर्गा-विष्वक्सेन-गजाननाः ।
शङ्ख-पद्म-निधी लोकाश् चतुर्थावरणं शुभम् ॥
ऐन्द्र-पावक-याम्यानि नैरृतं वारुणं तथा ।
वायव्यं सौम्यम् ऐशानं सप्तमं मुनिभिः स्मृतम् ॥
साध्या मरुद्-गणाश् चैव विश्वेदेवास् तथैव च ।
नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकसः ॥
ते वै प्राकृत-लोकेऽस्मिन्न् अनित्यास् त्रिदशेश्वराः ।
ते ह नाकं महिमानः सचन्त इति वै श्रुतिः ॥ [पद्मप् 6.228.60, 64-66] इति ।
किं च भगवत्-स्वरूपा एव ते । यथोक्तं त्रैलोक्य-सम्मोहन-तन्त्रे
अष्टादशाक्षर-षड्-अङ्गादि-देवताभेद-कथनारम्भे -
सर्वत्र देव-देवोऽसौ गोप-वेश-धरो हरिः ।
केवलं रूप-भेदेन नाम-भेदः प्रकीर्तितः ॥ इति ।
अतो नाम-मात्र-साधारण्येनानन्य-भक्तैर् न भेतव्यम् । किन्तु भगवतो
नित्य-वैकुण्ठ-सेवकत्वाद् विष्वक्सेनादिवत् सत्-कार्या एव ते । यस्यात्म-
बुद्धिः कुणपे त्रि-धातुके [भ्प् 10.84.8] इत्य् आदौ, अर्चयित्वा तु गोविन्दं
तदीयान् नार्चयेत् तु यः [पद्मप् 6.253.177] इत्य् आदि-पाद्मोत्तर-खण्ड-
वचनेन तद्-असत्कारे दोष-श्रवणात् । अतस् तान् एवोद्धिश्याह --
दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् ।
स्वे स्वे स्थाने त्व् अभिमुखान् पूजयेत् प्रोक्षणादिभिः ॥ [भ्प् 11.27.29]
पाद्मोत्तर-खण्ड एव च -
तस्माद् अवैदिकानां च देवानाम् अर्चनं त्यजेत् ।
स्वतन्त्र-पूजनं यत्र वैदिकानाम् अपि त्यजेत् ॥
अर्चयित्वा जगद्-वन्द्यं देवं नारायणं हरिम् ।
तद्-आवरण-संस्थानं देवस्य परितोऽर्चयेत् ॥
हरेर् भुक्तावशेषेण बलिं तेभ्यो विनिःक्षिपेत् ।
होमं चैव प्रकुर्वीत तच्-छेषेणैव वैष्णवः ॥ [पद्मप् 6.253.103-6] इत्य्
आदि ।
॥ 11.27 ॥ श्री-भगवान्

6.294

[286]
भूतादि-पूजा तु तत्-पूजाङ्गत्वे विहितापि न कर्तव्या । तद्-आवरण-
देवतात्वाभावात् । निषिद्धं च तत्रैव -
यक्षाणां च पिशाचानां मद्य-मांस-भुजां तथा ।
दिवौकसां तु भजनं सुरापान-समं स्मृतम् ॥ [पद्मप् 6.253.95] इति ।
अतएवावश्यक-पूज्यानाम् अन्येषां तत्-स्वीकृतैर् अपि मद्यादिभिः पूजा
निषिद्धा । यथा सङ्कर्षणादीनाम् ।
अथ पीठ-पूजायां येऽप्य् अधर्माद्या वर्तन्ते गुण-त्रयं च । तानि तु
पाद्मोत्तर-खण्डे स्पष्टान्य् अपि न सन्ति । तथा स्वायम्भुवागमेऽपि ।
तस्मान् नादरणीयानि । केचित् तु नारद-पञ्चरात्र-दृष्ट्या तान्य् अन्यथैव
व्याचक्षते । यथोक्तं तत्रैव - अधर्माद्य्-आद्य-चतुष्कं तु अश्रेयसि
नियोजनम् इति अधार्मिकादिषु तत्-तद्-अन्तर्यामि-शक्तिर् अधर्माद्यम् इत्य्
अर्थः । तथा पीठ-पूजायां भगवद्-धामे श्री-गुरु-पादुका-पूजनम्
एवं सङ्गच्छते । यथा य एव भगवान् अत्र व्यष्टि-रूपतया
भक्तावतारत्वेन श्री-गुरु-रूपो वर्तते, स एव तत्र समष्टि-रूपतया स्व-
वाम-प्रदेशे साक्षाद्-अवतारत्वेनापि तद्-रूपो वर्तत इति ।
तथा -- (पगे 149) ये चात्र श्री-रामाद्य्-उपासनायां ऐन्द्र-द्विविदादय
आवरण-देवतास् ते तु तदीय-नित्य-धाम-गता नित्याः शुद्धाश् च ज्ञेयाः ।
यथाक्रूराघमर्षणे तेन श्री-प्रह्लादादयो दृष्टाः । य एव श्री-प्रह्लादः
पृथ्वी-दोहनेऽपि वत्सोऽभूत्, तदानीं तज्-जन्माभावात् । चाक्षुष-मन्वन्तर
एव हिरण्य-कशिपोर् जातत्वात् ।
अन्ये तु स्व-स्व-धाम्नि नित्य-प्राकट्यस्यैव श्री-रामादेः प्रपञ्च-
प्राकाट्यावसरं प्राप्य तत्-साहाय्यार्थं नित्य-पार्षदम् ऐन्द्र-द्विविदादि-
शक्त्यावेशिनो जीवाः सुग्रीवादि-भागवत-द्वेषि-बालि-प्रभृति=सम्बन्धाद्
उत्तर-काले भगवद्-विद्वेषि-नरकासुरादि-सङ्गाच् च दुष्ट-भावा
भवन्तीत्य् अवधेयम् । प्रपञ्च-लोक-मिश्रत्वेनैव प्राकट्य-सम्भवात् ।
अथ श्री-कृष्ण-गोकुलोपासनायाम् अपि यत् श्री-रुक्मिण्य्-आदीनाम् आवरणत्वं
तत् तु तच्-छक्ति-विशेष-रूपाणां तासां विमलादीनाम् इवान्तर्धान-
गतत्वेनैव । न तु तत्-तल्-लीला-गत-प्राकट्येनेति ज्ञेयम् । अतएव ध्याने ता
नोक्ताः । केचित् तु रुक्मिण्य्-आदि-नामानि श्री-राधादि-नामान्तरत्वेनैव
मन्यन्ते । यथा ते शङ्ख-चक्र-गदा-मुद्रादि-धारणं श्री-कृष्ण-चरण-
चिह्नत्वेनैव स्वीकुर्वन्ति, यथा च द्वारान्तः-पार्श्वयोर् गङ्गा-यमुनयोः
पूज्यमानयोर् गङ्गा श्री-गोवर्धने प्रसिद्धा मानस-गङ्गेति मन्यन्ते ।
तथा च विष्वक्सेनादयो भद्रसेनादय इति । श्री-कृष्ण-पीठ-पूजायां
श्वेतद्वीप-क्षीर-समुद्र-पूजा च गोलोकाख्यस्य तद्-धाम्नोऽपि
श्वेतद्वीपेति-नामत्वात् । कामधेनु-कोटि-निःसृत-दुग्ध-पर-विशेषस्य च
तत्र स्थितत्वात् । यथोक्तं ब्रह्म-संहितायां तद्-वर्णनान्ते --
स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सु-महान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं
विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये ॥ इति ।
एवम् अन्यत्रापि ज्ञेयम् । तथा सोम-सूर्याग्नि-मण्डलान्य् अप्राकृतान्य्
अतिशैत्य-ताप-गुण-परित्यागेनैव वर्तन्ते । तत्र सर्व-कल्याण-गुण-
वस्तूनाम् एवाभिधानाय प्राकृत-निषेधात् । यथा नृसिंह-तापन्याम् - तद्
वा एतत् परमं धाम मन्त्र-राजाध्यापकस्य यत्र न दुःखादि यत्र न
सूर्यस् तपति यत्र न वायुर् वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि
भान्ति यत्र नाग्निर् दहति यत्र न मृत्युः प्रविशति यत्र न दोषः ।
[नृसिंहताप् 5.9] इत्य् आदि ।
तद् एवं कर्म-मिश्रत्वादि-निरसन-प्रसङ्ग-सङ्गत्या तत्-परिकरा
व्याख्याताः ।
अथ तेषां शुद्ध-भक्तानां भूत-शुद्ध्य्-आदिकं यथामति व्याख्यायते ।
तत्र भूत-शुद्धिर् निजाभिलषित-भगवत्-सेवौपयिक-तत्-पार्षद-देह-
भावना-पर्यन्तैव तत्-सेवैक-पुरुषार्थिभिः कार्या निजनुकुल्यत् । एवं
यत्र यत्रात्मनो निजाभीष्ट-देवता-रूपत्वेन चिन्तनं विधीयते तत्र
तत्रैव पार्षदत्वे ग्रहणं भाव्यम् । अहङ्ग्रहोपासनायाः शुद्ध-
भक्तैर् द्विष्टत्वात् । ऐक्यं च तत्र साधारण्य-प्रायम् एव । तदीय-चिच्-
छक्ति-वृत्ति-विशुद्ध-सत्त्वांश-विग्रहत्वात् पार्षदानाम् । (पगे 150)
अथ केशवादि-न्यासादीनां यत्राधमाङ्ग-विषयत्वं तत्र तन्-मूर्तिं
ध्यात्वा तत्-तन्-मन्त्रांश् च जप्त्वैव तत्-तद्-अङ्ग-स्पर्श-मात्रं कुर्यात् ।
न तु तत्-तन्-मन्त्र-देवतास् तत्र तत्र न्यस्ता ध्यायेत् । भक्तानां तद्-
अनौचित्यात् ।
अथ मुख्यं ध्यानं श्री-भगवद्-धाम-गतम् एव । हृदय-कमल-
गतं तु योगि-मतम् । स्मरेद् वृन्दावने रम्ये इत्य् आद्य्-उक्तत्वात् । अतएव
मानस-पूजा च तत्रैव चिन्तनीया । काम-गायत्री-ध्यानं च यत् सूर्य-
मण्डले श्रूयते तत्रैव चिन्त्यम् । गोलोक एव निवसत्य् अखिलात्म-भूतः इत्य्
अत्रैव-कारात् । तत्र श्री-वृन्दावन-नाथः साक्षान् न तिष्ठति किन्तु
तेजोमय-प्रतिमाकारेणैवेति ।
अथ बहिर् उपचारैर् अन्तः-पूजायां वेण्व्-आदि-पूजा तद्-अङ्ग-ज्योतिर्-
विलीनाङ्गस्य स्वस्याङ्गे तानि भाव्यन्त इति पूर्व-हेतोर् एव । तथा मानसादि-
पूजायां भूत-पूर्व-तत्-परिकर-लीला-संवलितत्वम् अपि न कल्पनामयं
किन्तु यथार्थम् एव । यतस् तस्य प्राकट्य-समये लीलास् तत्-परिकराश् च ये
प्रादुर्बभूवुस् तादृशाश् चाप्रकटम् अपि नित्यं तदीये धाम्नि सङ्ख्यातीता
एव वर्तन्ते । असुरास् तु न तत्र चेतना किन्तु मन्त्रमय-तत्-प्रतिमा-निभा
ज्ञेयाः । एवं विहारैः [भ्प् 10.14.57] इत्य् आदौ, निलायनैः सेतु-बन्धैर्
मर्कट-प्लवनादिभिः [भ्प् 10.14.57] इतिवत् तत्-तल्-लीलानां नाना-प्रकाशैः
कौतुकेनानुक्रियमाणत्वाद् भगवत्-सन्दर्भादौ हि तथा स-न्यायं
दर्शितास्ति ।
अथ मानस-पूजा-माहात्म्यं यथा नारद-पञ्चरात्रे श्री-नारायण-
वाक्यम् - अयं यो मानसो योगो जरा-व्याधि-भयापहः इत्य् आदौ -
यश् चैतत् परया भक्त्या सकृत् कुर्यान् महामते ।
क्रमोदितेन विधिना तस्य तुष्याम्य् अहं मुने ॥ इति ।
एषा क्वचित् स्वतन्त्रापि भवति । मनोमय्यां मूर्तेर् अष्टमतया
स्वातन्त्र्येण विधानात् - अर्चादौ हृदये वापि यथोपलब्धोपचारकैः [भ्प्
11.3.51] इत्य् आविर्होत्र-वचनेन वा-शब्दात् ।
अथ पूजा-स्थानानि विचार्यन्ते । तानि च विविधानि । तत्र शालग्रामादिकं तत्-
तद्-भगवद्-आकाराधिष्ठानम् इति चिन्त्यम् । आकार-वैलक्षण्यात् ।
शालग्राम-शिला यत्र तत्र सन्निहितो हरिः इत्य् आद्य्-उक्तेः । तत्र च
स्वेष्टाकारस्यैव भगवतोऽधिष्ठानं सुष्ठु सिद्धि-करम् । तस्मिन्न्
एवायत्नतस् तदीय-प्राकट्यात् । मूर्त्याभिमतयात्मनः [भ्प् 11.3.49] इत्य्
उक्तेः । श्री-कृष्णादीनां तु मथुरादि-क्षेत्रं महाधिष्ठानम् । मथुरा
भगवान् यत्र नित्यं सन्निहितो हरिः [भ्प् 1.10.28] इत्य्-आद्य्-उक्तेः । तथा तत्-
तन्-मन्त्र-ध्येय-वैभवत्वेन मथुरा-वृन्दावनादीनां श्री-गोपाल-
तापन्यादौ प्रख्यातत्वात् । मथुरादि-क्षेत्राण्य् एवान्यत्राधिष्ठाने
ध्यानेन प्रकाश्य तेषु भगवांश् चिन्त्यते ।

अथ श्रीमत्-प्रतिमायां तु तद्-आकारक-रूपतयैव चिन्तयन्ति आकारैक्यात् ।
शिला-बुद्धिः (पगे 151) कृता किं वा प्रतिमायां हरेर् मया इति भावनान्तरे
दोष-श्रवणाच् च । एवम् एव श्री-भगवता चलाचलेति द्विविधा प्रतिष्ठा
जीव-मन्दिरम् [भ्प् 11.27.13] इत्य् उक्तम् । प्रतिष्ठा प्रतिमा जीवस्य जीवयितुः
परमात्मनो मम मन्दिरं मद्-अङ्ग-प्रत्यङ्गैर् एकाकारतास्पदम् इत्य्
अर्थः । यद् वा प्रतिष्ठा-लक्षणेन कर्मणा पूर्वोक्ता प्रतिमा मम तद्-
आस्पदं भवतीत्य् अर्थः । तथा च श्री-हयशीर्ष-पञ्चरात्रे श्री-मूर्ति-
प्रतिष्ठा-प्रसङ्गे विष्णो सन्निहितो भव इति सान्निध्य-करण-मन्त्र-
विशेषानन्तरं मन्त्रान्तरम् --
यच् च ते परमं तत्त्वं यच् च ज्ञान-मयं वपुः ।
तत् सर्वम् एकतो लीनम् अस्मिन् देहे विबुध्यताम् ॥ इति ।
अथवा जीव-मन्दिरं सर्व-जीवानां परमाश्रयः साक्षाद् भगवान् एव
प्रतिष्ठेत्य् अर्थः । परमोपासकाश् च साक्षात् परमेश्वरत्वेनैव तां
पश्यन्ति । भेद-स्फूर्तेर् भक्ति-विच्छेदकत्वात् तथैव ह्य् उचितम् । इत्थम्
एवोक्तं भगवता -
वस्त्रोपवीताभरण- पत्र-स्रग्-गन्ध-लेपनैः ।
अलङ्कुर्वीत स-प्रेम मद्-भक्तो मां यथोचितम् ॥ [भ्प् 11.27.28]
इत्य् अत्र माम् इति स-प्रेमेति च । अतएव विष्णुधर्मे ताम् अधिकृत्य अम्बरीषं
प्रति श्री-विष्णु-वाक्यम् -
तस्यां चित्तं समावेश्य त्यज चान्यान् व्यापाश्रयान् ।
पूजिता सैव ते भक्त्या ध्याता चैवोपकारिणी ॥
गच्छंस् तिष्ठन् स्वपन् भुञ्जंस् ताम् एवाग्रे च पृष्ठतः ।
उपर्य्-अधस् तथा पार्श्वे चित्नयंस् ताम् अथात्मनः ॥ इत्य् आदि ।
अतएव तत्-पूजायाम् आवाहनादिकम् इत्थं व्याख्यातम् आगमे -
आवाहनं चादरेण सम्मुखीकरणं प्रभोः ।
भक्त्या निवेशनं तस्य संस्थापनम् उदाहृतम् ॥
तवास्मीति तदीयत्व-दर्शनं सन्निधापनम् ।
क्रिया-समाप्ति-पर्यन्त-स्थापनं सन्निबोधनम् ॥
सकलीकरणं प्रोक्तं तत्-सर्वाङ्ग-प्रकाशनम् ॥ इति ।
अत्र शूद्रादि-पूजितार्चा-पूजा-निषेध-वचनम् अवैष्णव-शूद्रादि-परम् एव -
न शूद्रा भगवद्-भक्तास् ते तु भागवता नराः ।
सर्व-वर्णेषु ते शूद्रा ये न भक्ता जनार्दने ॥ इत्य् उक्तेः ।
अथ सप्तमे पात्रम् [भ्प् 7.14.28] इत्य् आदौ श्री-नारदोक्तौ अधिष्ठान-
विचारे श्रीमद्-अर्चातोऽपि यः पूरुष-मात्रातिशयस् तत्रापि ज्ञानिनः, स च
कैवल्य-कामो भक्त्य्-आश्रयः, तस्मिन् प्रकरणे ज्ञान-निष्ठाय देयानि
[भ्प् 7.25.1] इत्य् उपसंहारे ज्ञानिन एव दान-पात्रत्वेन पर्मोत्कर्षोक्तेः ।
अन्यत्र तु न मे भक्तश् चतुर्वेदी, नायं सुखापो भगवान् इत्य् आदौ,
मुक्तानाम् अपि सिद्धानाम् [भ्प् 6.14.4] इत्य् आदौ च भक्तस्यैव ततोऽप्य्
उत्कर्षः । किम् उत तद्-उपास्यायाः श्रीमद्-अर्चायाः । अतएव ताम् उद्दिश्योक्तं
- नानुव्रजति यो मोहात् [भ्प् 6.14.4] इत्य् आदि । तथापि पात्रम् इत्य् आदीनाम्
अर्थोऽपि क्रमेण दर्श्यते - (पगे 152)
पात्रं त्व् अत्र निरुक्तं वै कविभिः पात्र-वित्तमैः ।
हरिर् एवैक उर्वीश यन्-मयं वै चराचरम् ॥
देवर्ष्य्-अर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु ।
राजन् यद् अग्र-पूजायां मतः पात्रतयाच्युतः ॥ [भ्प् 7.14.34-35]
[287]
तत्र राजसूये -- जीव-राशिभिर् आकीर्ण [भ्प् 7.14.36] इत्य् आदि ।
[288]
सर्वेषाम् जीवानाम् आत्मनश् च तर्पण-रूपा सैव भवतीत्य् अर्थः -- पुराण्य्
अनेन [भ्प् 7.14.37] इत्य् आदि ।
[289]
जीवेन जीवयित्वा जीवान्तर्यामि-रूपेणेत्य् अर्थः -- तेष्व् एव भगवान् [भ्प्
7.14.38] इत्य् आदि । तस्मात् तारतम्य-वर्तनात् पुरुषः प्रायो मनुष्यः पात्रम् ।
तत्र ज्ञानादिकं विशिष्टम् इति भगवद्-वर्तनस्यातिशयात् । तत्रापि आत्मा
यावान् यथा ज्ञानादि-परिमाणादिकस् तथासौ पात्रम् इत्य् अर्थः ।
[290]
एवं स्थितेऽपि कालेनोपासक-दोषोत्पत्तौ सत्यां भेद-दृष्ट्या विशिष्टम्
अधिष्ठानान्तरं प्रकाशितम् इत्य् आह -
दृष्ट्वा तेषां मिथो नृणाम् अवज्ञानात्मतां नृप ।
त्रेतादिषु हरेर् अर्चा क्रियायै कविभिः कृता ॥ [भ्प् 7.14.38]
मिथोऽवज्ञानम् असम्मानंस् तस्मिन्न् आत्मा बुद्धिर् येषां भावं दृष्ट्वा
क्रियायै पूजाद्य्-अर्थम् अर्चा कृता तत्-परिचर्या-मार्ग-दर्शनाय सा
प्रकाशितेत्य् अर्थः । एतेन तादृश-दोष-युक्तेष्व् अपि कार्य-साधकत्वात्
श्रीमद्-अर्चाया आधिक्यम् एव व्यञ्जितम् । प्रतिमा स्वल्प-बुद्धीनाम् इत्य् अत्र
च अल्प-बुद्धीनाम् अपीत्य् अर्थः । नृसिंह-पुरानादौ
ब्रह्माम्बरीषादीनाम् अपि तत्-पूजा-श्रवणात् ।
[291]
ततोऽर्चायां [भ्प् 7.14.40] । तत एवं प्रभावात् । केचिद् इत्य् अधिष्ठान-
वैशिष्ट्येन पूर्वतोऽप्य् उत्तम-साधन-तत्-परा इत्य् अर्थः । नन्व् अवज्ञावद्
द्वेषेऽपि सिद्धिः स्याद् इत्य् आशङ्क्यातिप्रसङ्ग-वारणेच्छया प्रस्तुत-पुरुष-
रूपाधिष्ठानादर-रक्षेच्छया च तं वारयति उपास्तापि इति ।
[292]
अथ पुरुषेषु पूर्वोक्त-विशेषं जात्य्-आदिना विवृणोति -- पुरुषेष्व् अपि [भ्प्
7.14.41] इति । यो धत्ते तं सुपात्रं विदुः ।
[293]
पूर्वोक्तं ब्राह्मण-रूपं पात्रम् एव स्तौति -- नन्व् अस्य [भ्प् 7.14.42] इत्य्
आदिना । जगद्-आत्मनो जगति लोक-सङ्ग्रह-धर्माधि-प्रवर्तनेन तन्-
नियन्तुर् इत्य् अर्थः । दैवतं पूज्यत्वेन दर्शितम् ।
॥ 7.14 ॥ श्री-नारदो युधिष्ठिरम् ॥ 286-293 ॥
[294]
अथ तद्-अनन्तराध्यायस्यादाव् एव तेषु सर्वोत्कृष्टम् आह द्वाभ्याम् --
कर्म-निष्ठाः [भ्प् 7.15.1] इत्य् आदि ।
अनेन यथात्र मुमुक्षु-प्रभृतीनां ज्ञानि-पूजैव मुख्या, पुरुषान्तर-
पूजा तु तद्-अभाव एव तथा प्रेम-भक्ति-कामानां प्रेम-भक्त-पूजा
ज्ञेया । ततः प्रेम-भक्तानाम् अपि यच् चित्तस्य परमाश्रय-रूपं (पगे 153)
तद् अभिव्यक्तेः सुतराम् एवार्चाया आधिक्यम् अपि । एवं तद्-आश्रय-रूपस्य
विलक्षण-प्रकाश-स्थानत्वाद् एव श्री-विष्णोर् व्यापकत्वेऽपि शालग्रामादिषु
निर्धारणम् । तच् च पुरुषवन् नान्तर्यामि-दृष्ट्य्-अपेक्षम् । किन्तु
स्वभाव-निर्देश-परम् एव । तन्-निवास-क्षेत्रादीनां महा-
तीर्थत्वापादनादिना कीकटादीनाम् अपि कृतार्तह्त्व-कथनात् । तथा च
स्कान्दे -
शालग्राम-शिला यत्र तत्-तीर्थं योजन-त्रयम् ।
तत्र दानं जपो होमः सर्वं कोटि-गुणं भवेत् ॥
पाद्मे -
शालग्राम-समीपे तु क्रोश-मात्रं समन्ततः ।
कीकटेऽपि मृतो याति वैकुण्ठ-भुवनं नरः ॥ इति ।
तस्माद् अर्चाया आधिक्यम् एव हि स्थितम् ।
॥ 7.15 ॥ श्री-नारदो युधिष्ठिरम्

6.295

[295]
अथाधिष्ठानन्तराणि चैवम् । यथा -
सूर्योऽग्निर् ब्राह्मणा गावो वैष्णवः खं मरुज् जलम् ।
भूर् आत्मा सर्व-भूतानि भद्र पूजा-पदानि मे ॥
सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।
आतिथ्येन तु विप्राग्र्ये गोष्व् अङ्ग यवसादिना ॥
वैष्णवे बन्धु-सत्-कृत्या हृदि खे ध्यान-निष्ठया ।
वायौ मुख्य-धिया तोये द्रव्यैस् तोय-पुरः-सरैः ॥
स्थण्डिले मन्त्र-हृदयैर् भोगैर् आत्मानम् आत्मनि ।
क्षेत्र-ज्ञं सर्व-भूतेषु समत्वेन यजेत माम् ॥
धिष्ण्येष्व् इत्य् एषु मद्-रूपं शङ्ख-चक्र-गदाम्बुजैः ।
युक्तं चतुर्-भुजं शान्तं ध्यायन्न् अर्चेत् समाहितः ॥ [भ्प् 11.11.42-46]
टीका च - इदानीम् एकादश पूजाधिष्ठानान्य् आह सूर्य इति । हे भद्र !
अधिष्ठान-भेदेन पूजा-साधन-भेदम् आह सूर्य इति त्रिभिः । त्रय्या
विद्यया सूक्तैर् उपस्थानादिना । अङ्ग हे उद्धव ! मुख्य-धिया प्राण-
दृष्ट्या । तोये तोयादिभिर् द्रव्यैस् तर्पणादिना । स्थण्डिले भुवि । मन्त्र-
हृदयै रहस्य-मन्त्र-न्यासैः । सर्वाधिष्ठानेषु ध्येयम् आह धिष्णेष्व्
एतेष्व् इति । इति अनेन प्रकारेण एष धिस्ण्येषु । इत्य् एषा ।
अत्र सर्वत्र चतुर्भुजस्यैवानुसन्धाने सत्य् अपि द्विधा गतिः ।
एकाधिष्ठान-परिचर्यैवाधिष्ठातुर् उपासना-लक्षणा । मन्दिर-
लेपनादिना तद्-अधिष्ठातृ-प्रतिष्ठाया इव । यथा वैष्णवे बन्धु-सत्-
कृत्या गोष्व् अङ्ग यवसादिनेत्य् आदि । यतो बन्धु-सत्कारो वैष्णव-विषयक
ईश्वरे तु प्रभु-भाव उपदिश्यते । ईश्वरे तद्-अधीनेषु [भ्प् 11.2.44] इत्य्
आदौ । तथा गो-सम्प्रदानकम् एव यवसादि-भोजन-दानं युज्यते । न तु
श्री-चतुर्भुज-सम-प्रदानकम् अभक्ष्यत्वात् ।
यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः ।
तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते ॥ [भ्प् 11.11.41]
इति तत्र च पूर्वम् उक्तम् । अन्या तु साक्षाद् अधिष्ठातुर् उपासना-लक्षणा ।
यथा हृदि खे ध्यान-निष्ठया तोये द्रव्यैस् तोय-पुरस्कृतैर् इत्य् आदि ।
अत्राग्न्य्-आदौ तद्-अन्तर्यामि-रूपस्यैव चिन्तनं कार्यम् ।
न जातु निज-प्रेम-सेवा-विशेषाश्रय-स्वाभीष्ट-रूप-विशेषस्य । स तु
सर्वथा परम-सुकुमारत्वादि-बुद्धि-जनितया प्रीत्यैव सेवनीयः ।
यथोक्तं श्री-भगवतैव - वस्त्रोपवीताभरणैः [भ्प् 11.27.29] (पगे 154)
इत्य् आदि । तेषां यथा-भक्ति-रीत्या परमेश्वरस्यापि तथा-भावः श्रूयते ।
यथा नारदीये -
भक्ति-ग्राह्यो हृषीकेशो न धनैर् धरणी-धर ।
भक्त्या संपूजितो विष्णुः प्रददाति मनोरथम् ॥
तस्माद् विप्राः सदा भक्तिः कर्तव्या चक्र-पाणिनः ।
जनेनापि जगन्नाथः पूजितः क्लेशहा भवेत् ॥ [नार्प् 2.3.3-4] इति ।
अत्र दृष्टान्त उपजीव्यः । वैपरीत्ये दोषश् च । यथा ग्रीष्मे जलस्य पूजा
प्रशस्ता वर्षासु निन्दिता । यद् उक्तं गारुडे -
शुचि-शुक्र-गते काले येऽर्चयिष्यन्ति केशवम् ।
जलस्थं विविधैः पुष्पैर् मुच्यन्ते यम-ताडनात् ॥
धनागमे प्रकुर्वन्ति जलस्थं वै जनार्दनम् ।
ये जना नृपति-श्रेष्ठ तेषां वै नरकं ध्रुवम् ॥ इति ।
एवम् अन्यत्रापि परिचर्या-विधौ तद्-देश-काल-सुखदानि शतशो विहितानि ।
तद्-विपरीतानि निषिद्धानि च । विष्णु-यामले - विष्णोः सर्व-र्तु-चर्याम् इति ।
अतएवोक्तं यद् यद् इष्टतमो लोके [भ्प् 11.11.40] इत्य् आदि । तत्र तत्रेष्ट-
मन्त्र-ध्यान-स्थलं च सर्वर्तु-मुख-मय-मनोहर-रूप-रस-गन्ध-
स्पर्श-शब्द-मयत्वेनैव ध्यातुं विहितम् अस्ति । अन्यथा तत्-तद्-आग्रहस्य
वैयर्थ्यं स्यात् । तस्माद् अग्न्य्-आदौ तत्-तद्-अन्तर्यामि-रूप एव भाव्य इति
स्थितम् ।
॥ 11.11 ॥ श्री-भगवान्

6.298

[296-297]
अथ नैवेद्यार्पण-प्रसङ्गे यः क्रम-दीपिका-दर्शितो निरुद्ध-
नामात्मको मन्त्रस् तस्य स्थाने श्री-कृष्णैकान्तिक-भक्तास् तु तन्-मूल-
मन्त्रम् एवेच्छन्ति । तथा यच् च तन्-मुख-ज्योतिर्-अनुगतत्वेन ध्यातुं
विधीयते, तत् तु भोजन-समये तन्-मुख-प्रसादम् एव मन्यन्ते ।
भोजनं तु यथा लोक-सिद्धम् एव नर-लीलात्वात् श्री-कृष्णस्य ।
अथ जपे मन्त्रार्थस्य नानात्वेऽपि पुरुषार्थानुकूल एवासौ चिन्त्यः । यथा
श्रीमद्-अष्टाक्षरादाव् आत्मनिवेदन-लक्षण-चतुर्थ्याद्य-भाववति मन्त्रे
तद्-अनुसन्धानेनएति । एवम् अन्येऽपि पूजा-विधयो यथायथं योजनीयाः ।
शुद्ध-भक्ति-सिद्ध्य्-अर्थं सर्वासां भक्तीनाम् एव शुद्धत्वाशुद्धत्व-
रूपेण द्विविधो हि भेदः सम्मत इति । तद् एतद्-अर्चनं फलेनाह -
एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः ।
अर्चन्न् उभयतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् ॥ [भ्प् 11.27.49]
उभयत इहामुत्र च । यथा --
माम् एव नैरपेक्ष्येण भक्ति-योगेन विन्दति ।
भक्ति-योगं स लभत एवं यः पूजयेत माम् ॥ [भ्प् 11.27.53]
नैरपेक्ष्येण निरुपाधिना भक्ति-योगेन प्रेम्णा । स च भक्ति-योग एवं
पूजायाः स्याद् इत्य् आह भक्तीति ।
॥ 11.27 ॥ श्री-भगवान् ॥ 296-297 ॥
[298]
यानि चात्र वैष्णव-चिह्नान निर्माल्य-धारण-चरणामृत-पानादीन्य् अङ्गानि
तेषां च पृथक् पृथक् माहात्म्य-वृन्दं शास्त्र-सहस्रेष्व् अनुसन्धेयम् ।
अथार्चनाधिकारि-निर्णयः ।
एतद् वै सर्व-वर्णानाम् आश्रमाणां च सम्मतम् ।
श्रेयसाम् उत्तमं मन्ये स्त्री-शूद्राणां च मान-द ॥ [भ्प् 11.27.4] (पगे
155)
सर्व-वर्णानां त्रैवर्णिकानाम् । तथा च स्मृत्य्-अर्थ-सारे पाद्मे च
वैशाख-माहात्म्ये -
आगमोक्तेन मार्गेण स्त्री-शूद्रैर् अपि पूजनम् ।
कर्तव्यं श्रद्धया विष्णोश् चिन्तयित्वा पतिं हृदि ॥
शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् ।
सर्वेऽप्य् आगम-मार्गेण कुर्युर् वेदानुकारिणा ॥
स्त्रीणाम् अप्य् अधिकारोऽस्ति विष्णोर् आराधनादिषु ।
पति-प्रिय-रतानां च श्रुतिर् एषा सनातनी ॥ [पद्मप् 6.84.48, 52-4] इति ।
विष्णु-धर्मे[*एन्द्नोते #5] -
देवतायां च मन्त्रे च तथा मन्त्र-प्रदे गुरौ ।
भक्तिर् अष्ट-विधा यस्य तस्य कृष्णः प्रसीदति ॥
तद्-भक्त-जन-वात्सल्यं पूजायां चानुमोदनम् ।
सुमना अर्चयेन् नित्यं तद्-अर्थे दम्भ-वर्जनम् ॥
तत्-कथा-श्रवणे रागस् तद्-अर्थे चाङ्ग-विक्रिया ।
तद्-अनुस्मरणं नित्यं यस् तन्-नामोपजीवति ॥
भक्तिर् अष्ट-विधा ह्य् एषा यस्मिन् म्लेच्छेऽपि वर्तते ।
स मुनिः सत्य-वादी च कीर्तिमान् स भवेन् नरः ॥ इति ।
किं च तत्त्व-सागरे -
यथा काञ्चनतां याति कांस्यं रस-विधानतः ।
तथा दीक्षा-विधानेन द्विजत्वं जायते नॄणाम् ॥ इति ।
अथ कृते शुक्लश् चतुर्-बाहुः [भ्प् 11.5.19] इत्य् आदिना युग-भेदे यश्
चोपासनायाम् आविर्भाव-भेद उच्यते, स च प्रायिक एव । तेभ्यश्
चतुर्भ्योऽन्येषाम् उपासना शास्त्राद् एव । अन्यथेतरोपासनायाः
कालासमावेशः स्यात् । श्रूयन्ते च सर्वत्र युगे सर्वोपासकाः । तस्मात् सर्वैर्
अपि सर्वदापि यथेच्छं सर्व एवाविर्भावाः पूज्या इति स्थ्तिअम् । अत एतद् वै
सर्व-वर्णानां [भ्प् 11.27.4] इत्य् आदिकं सर्व-सम्मतम् एव ॥
॥ 11.27 ॥ उद्धवः श्री-भगवन्तम्

6.299

[299]
तद् एतद्-अर्चनं व्याख्यातम् । अस्याङ्गानि चागमादौ ज्ञेयानि । तथा श्री-
कृष्ण-जन्माष्टमी-कार्त्तिक-व्रतैकादशी-माघ-स्नानादिकम् अत्रैवान्तर-
भाव्यम् । तत्र जन्माष्टमी यथा विष्णु-रहस्ये ब्रह्म-नारद-संवादे -
तुष्ट्य्-अर्थं देवकी-सूनोर् जयन्ती-सम्भवं व्रतम् ।
कर्तव्यं वित्ता-शाठ्येन भक्त्या भक्त-जनैर् अपि ।
अकुर्वन् याति निरयं यावद् इन्द्राश् चतुर्दश ॥ इति ।
तथा -
कृष्ण-जन्माष्टमीं त्यक्त्वा योऽन्यद् व्रतम् उपासते ।
नाप्नोति सुकृतं किञ्चिद् दृष्टं श्रुतम् अथापि वा ॥ इति ।
वित्ता-शाठ्यं चोक्तम् अष्टमे -
धर्माय यशसेऽर्थाय कामाय स्व-जनाय च ।
पञ्चधा विभजन् वित्तम् इहामुत्र च मोदते ॥ [भ्प् 8.19.37] इति ।
अथ कार्त्तिको यथा स्कान्दे एकतः सर्व-तीर्थानि इत्य् आदिकम् उक्त्वा -
एकतः कार्त्तिको वत्स सर्वदा केशव-प्रियः ।
यत् किञ्चित् क्रियते पुण्यं विष्णुम् उद्दिश्य कार्त्तिके ।
तद्-अक्षयं भवेत् सर्वं सत्योक्तं तव नारद ॥ इति ।
अव्रतेन क्षिपेद् यस् तु मासं दामोदर-प्रियम् ।
तिर्यग् योनिम् अवाप्नोति सर्व-धर्म-बहिष्कृतः ॥ इति ।
अथैकादशी - तत्र तावद् अस्या अवैष्णवेऽपि नित्यत्वम् । तत्र सामान्यतः
विष्णु-धर्मे - वैष्णवो वाथ सौरो वा कुर्याद् एकादशी-व्रतम् इति ।
सौर-पुराणे -
वैष्णवो वाथ शैवो वा सौरोऽ (पगे 156) प्य् एतत् समाचरेत् इति । विशेषतश् च
नारद-पञ्चरात्रे दीक्षानन्तरावश्य-कृत्य-कथने समयाश् च
प्रवक्ष्यामि इत्य् आदौ ।
एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ।
जागरं निशि कुर्वीत विशेषाच् चार्चयेद् विभुम् ॥ इति ।
विष्णु-यामलेऽपि तत्-कथने दिग् । बिद्धैकादशी-व्रतम् -
शुक्लाकृष्णाविभेदश् चासद्-व्यापारो व्रते तथा ।
शक्तौ फलादि-भुक्तिश् च श्राद्धं चैकादशी-दिने ॥
द्वादश्यां च दिवा-स्वापस् तुलस्यावचयस् तथा ॥
तत्र विष्णोर् दिवा स्नानम् अपि निषिद्धत्वेनोक्तम् । पाद्मोत्तर-खण्डे च
वैष्णव-धर्म-कथने द्वादशी-व्रत-निष्ठता इति । तथा स्कान्दे काशी-
खण्डे सौपर्ण-द्वारका-माहात्म्ये चचन्द्र-शर्मणो भगवद्-धर्म-
प्रतिज्ञा -
अद्य-प्रभृति कर्तव्यं यन् मया कृष्ण तच् छृणु ।
एकादश्यां न भोक्तव्यं कर्तव्यो जागरः सदा ॥
महा-भक्त्यात्र कर्तव्यं प्रत्यहं पूजनं तव ।
पलार्धेनापि बिद्धं तु मोक्तव्यं वासरं तव ॥
त्वत्-प्रीत्याष्टौ मया कार्या द्वादश्यां व्रत-संयुताः ॥ इत्य् आदिकाः ।
अत उक्तम् आग्नेये एकादश्यां न भोक्तव्यं तद् व्रतं वैष्णवं महत् । इति ।
गौतमीये -
वैष्णवो यदि भुञ्जीत एकादश्यां प्रमादतः ।
विष्ण्व्-अर्चनं वृथा तस्य नरकं घोरम् आप्नुयात् ॥
मत्स्य-भविष्य-पुराणयोः -
एकादश्यां निराहारो यो भुङ्क्ते द्वादशी-दिने ।
शुक्ला वा यदि वा कृष्णा तद् व्रतं वैष्णवं महत् ॥ इति ।
स्कान्दे -
मातृहा पितृहा चैव भ्रातृहा गुरुहा तथा ।
एकादश्यां तु यो भुङ्क्ते विष्णु-लोक-च्युतो भवेत् ॥ इति ।
अत्र वैष्णवानां निराहारत्वं नाम महा-प्रसादान्न-परित्याग एव ।
तेषाम् अन्य-भोजनस्य नित्यम् एव निषिद्धत्वात् । यथोक्तं नारद-
पञ्चरात्रे -
प्रसादान्नं सदा ग्राह्यम् एकादश्यां न नारद ।
रमादि-सर्व-भक्तानाम् इतरेषां च का कथा ॥ इति ।
ब्रह्माण्ड-पुराणे -
पत्रं पुष्पं फलं तोयम् अन्न-पानाद्यम् औषधम् ।
अनिवेद्य च भुञ्जीत यद् आहाराय कल्पितम् ॥
अनिवेद्यं तु भुञ्जानः प्रायश्चित्ती भवेन् नरः ।
तस्मात् सर्वं निवेद्यैव विष्णोर् भुञ्जीत सर्वदा ॥ इति ।
जागरस्यापि नित्यत्वं यथा स्कान्दे उमा-महेश्वर-संवादे -
सम्प्राप्ते वासरे विष्णोर् ये न कुर्वन्ति जागरम् ।
भ्रश्यते सुकृतं तेषां वैष्णवानां च निन्दया ॥
मतिर् न जायते यस्य द्वादश्यां जागरं प्रति ।
न हि तस्याधिकारोऽस्ति पूजने केशवस्य हि ॥ इति ।
तद्वत् तस्य विष्णु-प्रीतिदत्वं च श्रूयते पाद्मोत्तर-खण्डे - (पगे 157)
शृणु देवि प्रवक्ष्यामि द्वादश्याश् च विधानकम् ।
तस्याः स्मरण-मात्रेण सन्तुष्टः स्याज् जनार्दनः ॥ [पद्मप् 6.234.3]
भविष्ये -
एकादशी महा-पुण्या सर्व-पाप-विनाशिनी ।
भक्तेस् तु दीपनी विष्णोः परमार्थ-गति-प्रदा ॥ इति ।
अतएव श्रीमद्-अम्बरीषादीनां भक्त्य्-एक-निष्ठानां महा-प्रसाद-भुजां
तद्-व्रतं दर्शयता श्री-भागवतेनापि तद्-अन्तरङ्ग-वैष्णव-धर्मत्वेन
सम्मतम् इति दिक् । पाद्मे कार्त्तिक-माहात्म्ये च ब्राह्मण-कन्यायाः
कार्त्तिक-व्रतैकादशी-व्रत-प्रभावात् श्रीमत्-सत्यभामाख्य-भगवत्-
प्रयसी-पद-प्राप्तिर् अपि श्रूयते । किं बहुना । अथ माघः सौपर्णे -
दुर्लभो माघ-मासस् तु वैष्णवानाम् अति-प्रियः ।
देवतानाम् ऋषीणां च मुनीनां सुर-नायक ।
विशेषेण शचीनाथ माघवस्यातिवल्लभः ॥ इति ।
स्कान्दे ब्रह्म-नारद-संवादे -
सर्व-पाप-विनाशाय कृष्ण-सन्तोषणाय च ।
माघ-स्नानं सदा कार्यं वर्षे वर्षे च नारद ॥ इति ।
भविष्योत्तरे -
एकविंश-गणैः सार्धं भोगान् त्यक्त्वा यथेप्सितम् ।
माघ-मास्य् उषसि स्नात्वा विष्णु-लोकं स गच्छति ॥ इति ।
एवं श्री-राम-नवमी-वैशाख-व्रतादयश् चात्र ज्ञेयाः । एतत् सर्वम् अपि
सद्-आचार-कथन-द्वारा विधत्ते - गां पर्यटन् [भ्प् 3.1.18] इत्य् आदौ
व्रतानि चेरे हर-तोषणानि इति ॥
व्रतानि एकादश्यादीनीति । विदुर इति प्रकरण-लब्धम् ।
॥ 3.1 ॥ श्री-शुकः

6.300

[300]
एवं तादृश-व्रतेष्व् अपि तत्-तद्-उपासकानां स्व-स्वेष्ट-दैवत-व्रतं सुष्ठ्व्
एव विधेयम् इत्य् आगतम् । तथास्मिन् पाद-सेवार्चन-मार्गे यानैर् वा
पादुकैर् वापि गमनं भगवद्-गृहे इत्य् आदिना आगमोक्ता ये द्वात्रिंशद्-
अपराधास् तथा राजन्न् अभक्षणं चैवम् इत्य् आदिना तद्-उक्ता ये चान्ये
बहवस् ते सर्वे -
ममार्चनापराधा ये कीर्त्यन्ते वसुधे मया ।
वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः ॥ इति वाराहानुसारेण ।
परित्याज्या इत्य् आशयेनाह --
श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्य् अपि ।
भूर्य् अप्य् अभक्तोपहृतं न मे तोषाय कल्पते ॥ [भ्प् 11.27.18]
श्रद्धा-भक्ति-शब्दाभ्याम् अत्रादर एव विधीयते । अपराधास् तु
सर्वेऽनादरात्मका एव । प्रभुत्ववमानतश् च आज्ञावमानतश् च । तस्माद्
अपराध-निदानम् अत्रानादर एव परित्याज्य इत्य् अर्थः ।
॥ 11.27 ॥ श्री-भगवान्

6.301

[301]
महताम् अनादरस् तु सर्व-नाशक इत्य् आह -
न भजति कुमनीषिणां स इज्यां
हरिर् अधनात्म-धन-प्रियो रस-ज्ञः ।
श्रुत-धन-कुल-कर्मणां मदैर् ये
विदधति पापम् अकिञ्चनेषु सत्सु ॥ [भ्प् 4.31.21] (पगे 158)
अधनाश् च ते आत्म-धनाश् च ते प्रिया यस्य सः । रसज्ञो भक्ति-रसिको
हरिः । के कुमनीषिण इत्य् अपेक्षायाम् आह - श्रुतेति । पापम् अपराधम् ॥
॥ 4.31 ॥ श्री-नारदः प्रचेतसः

6.302

[302]
किं च -
न विक्रिया विश्व-सुहृत्-सखस्य
साम्येन वीताभिमतेस् तवापि ।
महद्-विमानात् स्व-कृताद् धि मादृङ्
नङ्क्ष्यत्य् अदूराद् अपि शूलपाणिः ॥ [भ्प् 5.10.25]
स्पष्टम् ॥ 5.10 ॥ रहूगनः श्री-भरतम्

6.303

[303]
अथ तथापि प्रामादिके भगवद्-अपराधे पुनर् भगवत्-प्रसादनानि
कर्तव्यानि । यथा स्कान्दे अवन्ती-खण्डे श्री-व्यासोक्तौ -
अहन्य् अहनि यो मर्त्यो गीताध्यायं पठेत् तु वै ।
द्वात्रिंशद्-अपराधांस् तु क्षमते तस्य केशवः ॥ इति ।
तत्रैव द्वारका-माहात्म्ये -
सहस्र-नाम-माहात्म्यं यः पठेच् छृणुयाद् अपि ।
अपराध-सहस्रेण न स लिप्येत् कदाचन ॥ इति ।
तत्रैव रेवा-खण्डे -
द्वादश्यां जागरे विष्णोर् यः पठेत् तुलसी-स्तवम् ।
द्वात्रिंशद्-अपराधानि क्षमते तस्य केशवः ॥ इति ।
तत्रैवान्यत्र -
तुलस्या रोपणं कार्यं श्रावणेषु विशेषतः ।
अपराध-सहस्राणि क्षमते पुरुषोत्तमः ॥ इति ।
तत्र वान्यत्र कार्त्तिक-माहात्म्ये -
तुलस्या कुरुते यस् तु शाग्राम-शिलार्चनम् ।
द्वात्रिंशद्-अपराधांश् च क्षमते तस्य केशवः ॥ इति ।
अन्यत्र -
यः करोति हरेः पूजां कृष्ण-शत्राङ्कितो नरः ।
अपराध-सहस्राणि नित्यं हरति केशवः ॥ इति ।
आदि-वाराहे -
संवत्सरस्य मध्ये तु तीर्थे शौकरके मम ।
कृतोपवासः स्नानेन गङ्गायां शुद्धिम् आप्नुयात् ॥
मथुरायां तथाप्य् एवं सापराधः शुचि भवेत् ।
अनयोस् तीर्थयोर् एकं यः सेवेत सुकृती नरः ॥
सहस्र-जन्म-जनितान् अपराधान् जहाति सः ॥ इति ।
शौकरके शूकर-क्षेत्राख्ये । महद्-अपराधस् तु चाटुकारादिना वा तत्-
प्रीत्य्-अर्थ-कृतेन निरन्तर=दीर्घ-कालीन-भगवन्-नाम-कीर्तनेन वा तं
प्रसाद्य क्षमापनीय इत्य् अवोचामैव । तत्-प्रसादं विना तद्-असिद्धेः ।
अतएवोक्तं श्री-शिवं दक्षेण -
योऽसौ मयाविदित-तत्त्व-दृशा सभायां
क्षिप्तो दुरुक्ति-विशिखैर् विगणय्य तन् माम् ।
अर्वाक् पतन्तम् अर्हत्तम-निन्दयापाद्
दृष्ट्यार्द्रया स भगवान् स्व-कृतेन तुष्येत् ॥ [भ्प् 4.7.15] इति ।
एवम् उत्तरत्रापि ज्ञेयम् ।
अथ वन्दनम् । तच् च यद्यप्य् अर्चनाङ्गत्वेनापि वर्तते तथापि कीर्तन-
स्मरणवत् स्वातन्त्र्येणादीत्य् अभिप्रेत्य पृथग् विधीयते । एवम् अन्यत्रापि
ज्ञेयम् । वन्दनस्य पृथग्-विधानं चानन्त-गुणैश्वर्य-श्रवणात् तद्-
गुणानुसन्धान-पाद-सेवादौ विधृत-दैन्यानां नमस्कार-मात्रे
कृताध्यवसायानाम् अर्थे । स एव नमस्कारस् तस्यार्चनत्वेनाप्य् अतिदिष्टः ।
यथा नारसिंहे - (पगे 159)
नमस्कारः स्मृतो यज्ञः सर्व-यज्ञेषु चोत्तमः ।
नमस्कारेण चकेन साष्टाङ्गेन हरिं व्रजेत् ॥ इति ।
तद् एतद्-वन्दनं यथा -
तत् तेऽनुकम्पां सु-समीक्षमाणो
भुञ्जान एवात्म-कृतं विपाकम् ।
हृद्-वाग्-वपुर्भिर् विदधन् नमस् ते
जीवेत यो मुक्ति-पदे स दाय-भाक् ॥ [भ्प् 10.14.8]
यस्माद् गुणात्मनस् तेऽपि गुणान् विमातुम् [भ्प् 10.14.7] इत्य् आदिना तादृशत्वम्
उच्यते तत् तस्मात् । नमो नमस्कारम् । मुक्ति-पदे नवम-पदार्थस्य
मुक्तेर् अप्य् आश्रये परिपूर्ण-दशम-पदार्थे । यद् वा मुक्तिर् इह पञ्चम-
स्थ-गद्यानुसारेण प्रेमैव तत्-पदे तद्-विषये परिपूर्ण-भगवल्-लक्षणे
त्वयि दाय-भाग् भवति । भ्रातृ-वण्टन इव त्वं तस्य दायत्वेन वर्तस इत्य्
अर्थः । मुक्ति-मात्रं तु सकृन् नमस्कारेणैवासन्नं स्यात् । यथा विष्णु-
धर्मे -
दुर्ग-संसार-कान्तारम् अपारम् अभिधावताम् ।
एकः कृष्णे नमस्कारो मुक्ति-तीरस्य देशिकः ॥ इति ।
तत् ते इत्य् अत्र सुसमीक्षमाणः इति टीका । यद् वा प्रतिक्षणं निरुपाधि-
कृपयैव प्रभुणा तथा तथा क्रियमाणाम् अनुकम्पां सुष्ठु-रूपाम्
ईक्षमाणस् तत्रानन्दीभवन् तां सम्यक् पश्यन् विभावयन् तथा हृदा यद्
वा वाचा यद् वा वपुषा नमो विदधज् जन इत्य् आदि व्याख्या ज्ञेया ।
नमस्कारेऽप्य् अपराधाश् चैते परिहर्तव्याः विष्णु-स्मृत्य्-आदि-दृष्ट्या । ये
खलु एक-हस्त-कृतत्व-वस्त्रावृत-देहत्व-भगवद्-अग्र-पृष्ठ-वाम-
भागात्यन्त-निकट-गर्भ-मन्दिर-गतत्वादि-मयाः ।
॥ 10.14 ॥ श्री-ब्रह्मा भगवन्तम्

6.304

[304]
अथ दास्यम् । तच् च श्री-विष्णोर् दासं-मन्यत्वम् ।
जन्मान्तर-सहस्रेषु यस्य स्यान् मतिर् ईदृशी ।
दासोऽहं वासुदेवस्य सर्वान् लोकान् समुद्धरेत् ॥ इत्य् उक्त-लक्षणम् ।
अस्तु तावद्-भजन-प्रयासः केवल-तादृशत्वाभिमानेनापि सिद्धिर् भवतीत्य्
अभिप्रेत्यैवोत्तरत्र निर्देशश् च तस्य । यथोक्तं जन्मान्तर- इत्य् एतत्-
पद्यस्यैवान्ते किं पुनस् तद्-गत-प्राणाः पुरुषाः संयतेन्द्रियाः इति । श्री-
प्रह्लाद-स्तुतौ तत् तेऽर्हत्तम [भ्प् 7.9.49] इत्य् आदि-पद्ये तु नम-स्तुति-सर्व-
कर्मार्पण-परिचर्या-चरण-स्मृति-कथा-श्रवणात्मकं दास्यं टीकायां
सम्मतम् । श्रीमद्-उद्धव-वाक्ये च -
त्वयोपभुक्त-स्रग्-गन्ध- वासो-ऽलङ्कार-चर्चिताः ।
उच्छिष्ट-भोजिनो दासास् तव मायां जयेम हि ॥ [भ्प् 11.6.46] इति ।
तत्र तत्र च कार्य-द्वारैव निर्दिष्टम् । उदाहरणं तु - स वै मनः
कृष्ण-पदारविन्दयोः [भ्प् 9.4.15] इत्य् आदौ । कामं च दास्ये न तु काम-
काम्यया [भ्प् 9.4.17] भोगेच्छया तं चकार इति वासनान्तर-व्यवच्छेदः ॥
॥ 9.4 ॥ श्री-शुकः

6.305

[305]
तद् एतद्-दास्य-सम्बन्धेनैव सर्वम् अपि भजनं महत्तरं भवतीत्य्
आह -
यन्-नाम-श्रुति-मात्रेण पुमान् भवति निर्मलः ।
तस्य तीर्थ-पदः किं वा दासानाम् अवशिष्यते ॥ [भ्प् 9.5.16]
यस्य भगवतो नाम-श्रवण-मात्रेण यथा कथञ्चित् तच्-छ्रवणेन किं
पुनः सम्यक् तत्-तद्-भजनेनेत्य् अर्थः । (पगे 160) तर्हि दासोऽस्मीत्य्
अभिमानेन सम्यग् एव भजतां सर्वत्र साधने साध्ये च किम् अवशिष्यते ।
तद्-अधिकम् अन्यत् किम् अपि नास्तीत्य् अर्थः ॥
॥ 9.5 ॥ दुर्वासा श्रीमद्-अम्बरीषम्

6.306

[306]
अथ सख्यम् । तच् च हिताशंसन-मयं बन्धु-भाव-लक्षणम् । यन्-
मित्रं परमानन्दम् [भ्प् 10.14.30] इत्य् अत्र तथैव मित्र-पद-न्यासात् ।
यथा रामार्चन-चन्द्रिकायाम् -
परिचर्या-पराः केचित् प्रासादादिषु शेरते ।
मनुष्यम् इव तं द्रष्टुं व्यवहर्तुं च बन्धुवत् ॥ इति ।
अस्य चोत्तरत्र पाठः प्रेम-विश्रम्भवद् भावनामयत्वेन दास्याद् अप्य्
उत्तमत्वापेक्षया । किं च परमेश्वरेऽपि यत् सख्यं शास्त्रे विधीयते तन्
नाश्चर्यम् । न देवो देवम् अर्चयेत् इति तद्-भावस्यापि विधान-श्रवणात् ।
किन्तु तद्-भावस् तत्-सेवाविरुद्ध इति शुद्ध-भक्तैर् उपेक्ष्यते । सख्यं तु
परम-सेवानुकूलम् इत्य् उपादीयत इति । तद् एतत् साक्षाद् भजनात्मकं
दास्यं सख्यं च टीकायाम् अपि दर्शितम् अस्ति -
तस्यैव मे सौहृद-सख्य-मैत्री-
दास्यं पुनर् जन्मनि जन्मनि स्यात् । [भ्प् 10.81.29] इत्य् अत्र श्रीदाम-विप्र-
वाक्ये ।
यथा श्री-कृष्णस्य भक्त-वात्सल्यं दृष्ट्वा तद्-भक्तिं प्रार्थयते तस्येति ।
सौहृदं प्रेम च सख्यं हिताशंसनं च मैत्री उपकारित्वं च दास्यं
सेवकत्वं च । तत्-समाहार एक-वचनम् । तस्य सम्बन्धि मे मम स्यात्,
न तु विभूतिर् इत्य् एतत् । तत्र नव-विधायां साध्यत्वात् प्रेमा
नान्तर्भाव्यते । मैत्री तु सख्य एवान्तर्भाव्येति दास्य-सख्ये द्वे एव
गृहीते । अत्र च ताभ्यां कर्मार्पण-विश्वासौ न व्याख्यातौ साक्साद्-
भक्तित्वाभावात् । कर्मार्पणस्य फलं भक्तिर् विश्वासश् च भक्त्य्-
अभिनिवेश-हेतुर् इतीह पूर्वम् उक्तम् । तच् च भगवद्-विषय-हिताशंसन-
मयं सख्यम् । भगवत्-कृत-हिताशंसनस्य नित्यत्वात्, तेन सह तस्य नित्य-
सहवासाच् च । भजन-विशेषेणापि विशिष्टं सम्पादयितुं नातिदुष्करं स्याद्
इत्य् आह -
कोऽति-प्रयासोऽसुर-बालका हरेर्
उपासने स्वे हृदि छिद्रवत् सतः ।
स्वस्यात्मनः सख्युर् अशेष-देहिनां
सामान्यतः किं विषयोपपादनैः ॥ [भ्प् 7.7.38]
छिद्रवद् आकाशवद् अलिप्तत्वेन सदा वर्तमानस्य । नातिप्रयासे हेतुः -
सर्वेषां देहिनां य आत्मा शुद्धं स्वरूपं तस्य । सामान्यतः सर्वत्र
निर्विशेषतयैव सखा । यथावसरं बहिर्-अन्तःकरण-विषयादि-लक्षण-
मायिक्या निज-प्रेमादि-लक्षणा-मायिक्याश् च सम्पत्तेर् दानेन हिताशंसी यस्
तस्य हरेः । तस्माद् आरोपितानां नश्वराणां विषयाणां जायापत्यादीनाम्
उपार्जनैः किम् इति ।
॥ 7.7 ॥ श्री-प्रह्लादोऽसुर-बालकान्

6.307

[307]
तद् यथा -
मयि निर्बद्ध-हृदयाः साधवः सम-दर्शनाः ।
वशे कुर्वन्ति मां भक्त्या सत्-स्त्रियः सत्-पतिं यथा ॥ [भ्प् 9.4.66]
अत्र दृष्टान्तेनांशतः सख्यात्मका भक्तिर् लक्ष्यते ।
॥ 9.4 ॥ श्री-वैकुण्ठो दुर्वाससम्

6.308

[308]
एवं च -
शान्ताः सम-दृशः शुद्धाः सर्व-भूतानुरञ्जनाः ।
यान्त्य् अञ्जसाच्युत-पदम् अच्युत-प्रिय-बान्धवाः ॥ [भ्प् 4.12.37] (पगे 161)
अच्युत एव प्रिय-बान्धवो येषाम् । अच्युतस्य पदं तत्-सनाथं लोकम् ।
अच्युत-शब्दावृत्त्या फलस्य केनाप्य् अंशेन व्यभिचारित्वं नेति दृश्यते ॥
॥ 4.12 ॥ श्री-मैत्रेयः

6.309

[309]
अथ आत्म-निवेदनम् । तच् च देहादि-शुद्धात्म-पर्यन्तस्य सर्वतो-भावेन
तस्मिन्न् एवार्पणम् । तत्-कार्यं चात्मार्थ-चेष्टा-शून्यत्वं तन्-न्यस्तात्म-
साधन-साध्यत्वं तद्-अर्थैक-चेष्टामयत्वं च । इदं ह्य् आत्मार्पणं गो-
विक्रयवत विक्रीतस्य गोर् वर्तनार्थं विर्कीतवता चेष्टा न क्रियते । तस्य
च श्रेयः-साधकस् तत्-क्रीतवान् एव स्यात् । स च गौस् तस्यैव कर्म कुर्यात् ।
न पुनर् विक्रीतवतोऽपीति । इदम् एवात्मार्पणं श्री-रुक्मिणी-वाक्ये -
तन् मे भवान् खलु वृतः पतिर् अङ्ग जायाम्
आत्मार्पितश् च भवतोऽत्र विभो विधेहि । [भ्प् 10.52.39] इति ।
अथ केचिद् देहार्पणम् एवात्मार्पणम् इति मन्यन्ते । यथा भक्ति-विवेके -
चिन्तां कुर्यान् न रक्षायै विक्रीतस्य यथा पशोः ।
तथार्पयन् हरौ देहं विरमेद् अस्य रक्षणात् ॥ इति ।
केचिच् छुद्ध-क्षेत्रज्ञार्पणम् एव । यथा श्रीमद्-आलबन्दारु-स्तोत्रे -
वपुर्-आदिषु योऽपि कोऽपि वा
गुणतोऽमानि यथा-तथा-विधः ।
तद् अयं तव पाद-पद्मयोर्
अहम् अद्यैव मया समर्पितः ॥ [स्तोत्र-रत्नम् 49] इति ।
केचिच् च दक्षिण-हस्तादिकम् अप्य् अर्पयन्तस् तेन तत्-कर्म-मात्रं कुर्वते,
न तु देहादिकर्मेत्य् अद्यापि दृश्यते । तद् एतत् सर्वात्मकं सकार्यम् आत्म-
निवेदनं यथा --
स वै मनः कृष्ण-पदारविन्दयोर्
वचांसि वैकुण्ठ-गुणानुवर्णने
करौ हरेर् मन्दिर-मार्जनादिषु
श्रुतिं चकाराच्युत-सत्-कथोदये ॥
मुकुन्द-लिङ्गालय-दर्शने दृशौ
तद्-भृत्य-गात्र-स्पर्शेऽङ्ग-सङ्गमम् ।
घ्राणं च तत्-पाद-सरोज-सौरभे
श्रीमत्-तुलस्या रसनां तद्-अर्पिते ॥
पादौ हरेः क्षेत्र-पदानुसर्पणे
शिरो हृषीकेश-पदाभिवन्दने ।
कामं च दास्ये न तु काम-काम्यया
यथोत्तमश्लोक-जनाश्रया रतिः ॥ [भ्प् 9.4.18-20]
चकार अर्पयामास । कृष्ण-पदारविन्दयोर् इत्य् आदिकम् उपलक्षणं तत्-
सेवादीनाम् । लिङ्गं श्री-मूर्तिः । आलयस् तद्-भक्तस् तन्-मन्दिरादिः । श्रीमत्-
तुलस्यास् तत्-पाद-सरोज-सम्बन्धि यत् सौरभं तस्मिन् । तद्-अर्पिते महा-
प्रसादान् नादौ । कामं सङ्कल्पं च दास्ये निमित्ते कथं चकार । यथा
येन प्रकारेण उत्तमः-श्लोक-जनाश्रया रतिः सा भवेद् इति । अत्र सर्वथा
तत्रैव सङ्ख्यातात्म-निक्षेपः कृत इति वैशिष्ट्यापत्त्या
स्मरणादिमयोपासनस्यैवात्मार्पणत्वम् । एवम् एवोक्तम् --श्रद्धामृत-
कथायां मे शश्वन् मद्-अनुकीर्तनम् [भ्प् 11.19.19] इत्य् आरभ्य एवं
धर्मे मनुष्याणां [भ्प् 11.19.22] इति । यथा स्मरण-कीर्तन-पाद-सेवन-
मयम् उपासनम् एव आगमोक्त-विधिमयत्व-वैशिष्ट्यापत्त्यार्चनम् इत्य्
अभिधीयते । ततो नाविविक्तत्वम् । स्नान-परिधानादि-क्रिया चास्य भगवत्-
सेवा-योग्यत्वायैवेति तत्रापि नात्मार्पण-भक्ति-हानिर् इत्य् अनुसन्धेयम् ।
(पगे 162)
एतद् आत्मार्पणं श्री-बलाव् अपि स्फुटं दृश्यते । उदाहृतं चेदम्
आत्मार्पणं धर्मार्थ-कामः [भ्प् 7.6.24] इत्य् आदिना श्री-प्रह्लाद-मते ।
मर्त्यो यदा त्यक्त-समस्त-कर्मा निवेदितात्मा [भ्प् 11.29.32] इत्य् आदिना श्री-
भगवन्-मतेऽपि ।
तद् एतद् आत्म-निवेदनं भावं विना भाव-वैशिष्ट्येन च दृश्यते । पूर्वं
यथा मर्त्यो यदा इत्य् आदि । उत्तरं यथैकादश एव दास्येनात्म-निवेदनम्
[भ्प् 11.11.35] इति । यथा च रुक्मिणी-वाक्ये मात्मार्पितश् च भवतः [भ्प्
10.52.1] इति ।
॥ 9.4 ॥ श्री-शुकः

6.311

[310]
तद् एवं वैधी भक्तिर् दर्शिता । अस्याश् चोक्तानाम् अङ्गानाम् अनुक्तानां च
कुत्रचित् कस्याप्य् अङ्गस्यान्य् अत्र तु तद्-इतरस्य यन्-महिमाधिक्यं वर्ण्यते ।
तत्-तच्-छ्रद्धा-भेदेन तत्-तत्-प्रभावोल्लासापेक्षयेति न परस्पर-
विरुद्धत्वम् । अधिकार-भेदेन ह्य् औषधादीनाम् अपि तादृशत्वं दृश्यते ।
अथ रागानुगा । तत्र विषयिणः स्वाभाविको विषय-संसर्गेच्छातिशयमयः
प्रेमा रागः । यथा चक्षुर्-आदीनां सौन्दर्यादौ । तादृश एवात्र भक्तस्य
श्री-भगवत्य् अपि राग इत्य् उच्यते । स रागो विशेषण-भेदेन बहुधा दृश्यते
-- येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् [भ्प्
3.25.35] इत्य् आदौ । तत्र प्रियो यथा तदीय-प्रेयसीनाम् । आत्मा पर-ब्रह्म-
रूपः श्री-सनकादीनाम् । सुतः श्री-व्रजेश्वरादीनाम् । सखा श्री-
श्रीदामादीनाम् । गुरुः श्री-प्रद्युम्नादीनाम् । कस्यापि भ्राता कस्यापि
मातुलेयः कस्यापि वैवाहिक इत्य्-आदि-रूपः स एक एव तेषु बहु-प्रकारत्वेन
सुहृदः सम्बन्धिनाम् । दैवम् इष्टं तदीय-सेवकानां श्री-दारुक-
प्रभृतीनाम् इति प्रसिद्धम् ।
अत्र श्रीमत्यां मोहिन्यां यः खलु रुद्रस्य भावो जातः स तु नाङ्गीकृतः,
अनुक्तत्वात् । तस्य माया-मोहिततयैव तादृश-भावाभ्युपगमाच् च ।
तद् एवं तत्-तद्-अभिमान-लक्षण-भाव-विशेषणेन स्वाभाविक-रागस्य
वैशिष्ट्ये सति तत्-तद्-राग-प्रयुक्ता श्रवण-कीर्तन-स्मरण-पाद-सेवन-
वन्दनात्म-निवेदन-प्राया भक्तिस् तेषां रागात्मिका भक्तिर् इत्य् उच्यते ।
तस्याश् च साध्यायां राग-लक्षणायां भक्ति-गङ्गायां तरङ्ग-रूपत्वात्
साध्यत्वम् एवेति न तु साधन-प्रकरणेऽस्मिन् प्रवेशः ।
अतो रागानुग कथ्यते । यस्य पूर्वोक्तं राग-विशेषे रुचिर् एव जातास्ति न तु
राग-विशेष एव स्वयं, तस्य तादृश-राग-सुधाकर-कराभास-समुल्लसित-
हृदय-स्फटिक-मणेः शास्त्रादि-श्रुतासु तादृश्या रागात्मिकाया भक्तेः
परिपाटीष्व् अपि रुचिर् जायते । ततस् तदीयं रागं रुच्य्-अनुगच्छन्ती सा
रागानुगा तस्यैव प्रवर्तते । एषैवाविहितेति केषाञ्चित् संज्ञा । रुचि-मात्र-
प्रवृत्त्या विधि-प्रयुक्तत्वेनाप्रवृत्तत्वात् । न च वक्तव्यं विध्य्-
अनधीनस्य न सम्भवति भक्तिर् इति ।
प्रायेण मुनयो राजन् निवृत्ता विधि-षेधतः ।
नैर्गुण्य-स्था रमन्ते स्म गुणानुकथने हरेः ॥ [भ्प् 2.1.7] इति श्रूयते ।
ततो विधि-मार्ग-भक्तिर् विधि-सापेक्षेति सा दुर्बला । इयं तु स्वतन्त्रैव
प्रवर्तते इति प्रबला च ज्ञेया । अतएवास्या जन्म-लक्षणं भक्ति-
व्यतिरेकेणान्य-त्रानभिरुचिम् उपलक्ष्य -
सा श्रद्दधानस्य विवर्धमाना
विरक्तिम् अन्यत्र करोति पुंसः ।
हरेः पदानुस्मृति-निर्वृतस्य
समस्त-दुःखाप्ययम् आशु धत्ते ॥ [भ्प् 3.5.13] इति । (पगे 163)
सा पूर्वोक्ता कथा गृहीता मतिस् तद्-रुचिर् इत्य् अर्थः । विधि-निरपेक्षत्वाद् एव
पूर्वाभ्यां दास्य-सख्याभ्याम् एतदीययोस् तयोर् भेदश् च ज्ञेयः । एवम्
एवोक्तं तन् मन्येऽधीतम् उत्तमम् इति । अतएव विध्य्-उक्त-क्रमोऽपि नास्याम्
अत्यादृतः । किन्तु रागात्मिकाश्रुत-क्रम एव ।
तत्र रागात्मिकायां रुचिर् यथा -
सुहृत् प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।
तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥ [भ्प् 11.8.35]
अत्र स्वाभाविक-सौहृद्यादि-धर्मैस् तस्मिन्न् एव स्वाभावैक-पतित्वं
स्थापयित्वा परस्यौपाधिक-पतित्वम् इत्य् अभिप्रेतम् । अन्यत्र पत्याव् एकत्वं
सा गता यस्माच् चरु-मन्त्राहुति-व्रता इति छान्दोग्य-परिशिष्टानुसारेण
कृत्रिमम् एवात्मत्वम् । तस्मिन् परमात्मनि तु स्वभावत एवेत्य् आत्म-
शब्दस्याप्य् अभिप्रायः । इदं यद्यपि तस्मिन् पतित्वम् अनाहार्यम् एवास्ति
तथापि आत्मनैव मूल-भूतेनैव तं विशेषतः क्रीत्वा यथान्यापि कन्या
विवाहात्मकेन स्वात्म-समर्पणेन कञ्चित् पतित्वेनोपादत्ते ।
तथाभावेनाश्रित्यानेन परमम् अनाहर-रूपेण तेन सह रमे रमा
लक्ष्मीर् यथा ।
[311]
तद् एवं तस्याः पिङ्गलाया रागे स्व-रुचिर् द्योतिता । रागानुगायां प्रवृत्तिर्
अपीदृशी ।
सन्तुष्टा श्रद्दधत्य् एतद् यथा-लाभेन जीवती ।
विहराम्य् अमुनैवाहम् आत्मना रमणेन वै ॥ [भ्प् 11.8.40]
अमुनेति भाव-गर्भ-रमणेन सह । आत्मना मनसैव तावद् विहरामि ।
रुचि-प्रधानस्य मार्गस्यास्य मनः-प्रधानत्वम् । तत् प्रेयसी-
रूपेणासिद्धायास् तादृश-भजने प्रायो मनसैव युक्तत्वात् । अनेन श्रीमत्-
प्रतिमादौ तादृशीनाम् अप्य् औद्धत्यं परिहृतम् । एवं पितृत्वादि-भावेष्व्
अप्य् अनुसन्धेयम् ॥
॥ 11.8 ॥ श्री-पिङ्गला

6.324

[312-314]
एवं प्रेयसीत्वाभिमान-मयी दर्शिता । एषा ब्रह्म-वैवर्ते काम-कलायाम्
अपि दृष्टा । सेवकत्वाद्याभिमानमय्यां रुचि-भक्तिश् चान्यत्र ज्ञेया । तस्मा
अमूस् तनु-भृताम् [भ्प् 7.9.24] इत्य् आदौ उपनय मां निज-भृत्य-पार्श्वम्
इति श्री-प्रह्लाद-वचनम् । यथा श्री-नारद-पञ्चरात्रे -
कदा गम्भीरया वाचा श्रिया युक्तो जगत्-पते ।
चामर-व्यग्र-हस्तं माम् एवं कुर्व् इति वक्ष्यसि ॥ इति ।
यथा स्कान्दे सनत्कुमार-प्रोक्त-संहितायां प्राभाकर-राजोपाख्याने -
अपुत्रोऽपि स वै नैच्छत् पुत्रं कर्मानुचिन्तयन् ।
वासुदेवं जगन्नाथं सर्वात्मानं सनातनम् ॥
अशेषोपनिषद्-वेद्यं पुत्रीकृत्य विधानतः ।
अभिषेचयितुं राजा स्वराज उपचक्रमे ॥
न पुत्रम् अभ्यर्थितवान् साक्षाद् भूताज् जनार्दनात् ।
अग्रे भगवद्-वरश् च अहं ते भविता पुत्रः ॥ इत्य् आदि ।
अतएवोक्तं श्री-नारायण-व्यूह-स्तवः -
पति-पुत्र-सुहृद्-भ्रातृ-पितृवन् मैत्रवद् धरिम् ।
ये ध्यायन्ति सदोद्युक्तास् तेभ्योऽपीह नमो नमः ॥ इति ।
अत्र पत्य्-आदिवद् इति ध्येयस्य पितृवद् इति ध्यातुर् विशेषणं ज्ञेयम् । तथा
मातृवद् इति वतिप्रत्ययेन प्रसिद्ध-तन्-मातृ-जनाभेद-भावना
नैवाङ्गीक्रियते । किन्तु तद्-अनुगत-भावनैव । एवं पितृ-भावादाव् अपि
ज्ञेयम् । अन्यथा भगवत्य् अहङ्ग्रहोपासनावत् तेष्व् अपि दोषः स्यात् । तथा
(पगे 164) ध्यायन्तीति पूर्वोक्तं मनः-प्रधानत्वम् एवोरीकृतम् । अपि-
शब्देन तत्-तद्-राग-सिद्धानां कैमुत्यम् आक्षिप्यते ।
ननु, चोदना-लक्षणोऽर्थो धर्मः [पूर्व-मीमांसा 1.1.2] इत्य् अनेन पूर्व-
मीमांसायां विधिनैवापूर्वं जायत इति श्रूयते । तथा श्रुति-स्मृति-
पुराणादि-पञ्चरात्र-विधिं विना इत्य् आदिना यामले श्रुत्य्-आद्य्-एकतरोक्त-
क्रम-नियमं विना दोषः श्रूयते । तथा -
श्रुति-स्मृती ममैवाज्ञे यस् ते उल्लङ्घ्य वर्तते ।
आज्ञा-च्छेदी मम द्वेषी मद्-भक्तोऽपि न वैष्णवः ॥ इति ।
अत्र श्रुत्य्-आद्य्-उक्तावश्यक-क्रिया-निषेधयोर् उल्लङ्घनं वैष्णवत्व-
व्याघातकं श्रूयते । कथं तर्हि विधि-निरपेक्षया तया सिद्धिः । उच्यते -
श्री-भगवन्-नाम-गुणादिषु वस्तु-शक्तेः सिद्धत्वान् न धर्मवद् भक्तेश्
चोदना-सापेक्षत्वम् । अतो ज्ञानादिकं विनापि फल-लाभो बहुत्र श्रुतोऽस्ति ।
चोदना तु यस्य स्वतः-प्रवृत्तिर् नास्ति तद्-विषयैव । तथा क्रमा-विधिश् च
तद्-विषयः । तस्मिन्न् एव नाना-विक्षेपवति रुच्य्-अभावेन रागात्मिक-भक्ति-
शैलीम् अनभिजानाति । सत्याम् अपि धावन् निमील्य वा नेत्रे [भ्प् 11.2.35] इत्य्
आदि-न्यायेन यथा कथञ्चिद् अनुष्ठानतः सिद्धौ सुष्ठु वर्त्म-
प्रवेशाय क्रमशश् चित्ताभिनिवेशाय च मर्यादा-रूपः स निर्मीयते ।
अन्यथा सन्तत-तद्-भक्त्य्-उन्मुखता-करतादृश-रुच्य्-अभावान्
मर्यादानभिपत्तेश् चाध्यात्मिकादिभिर् उत्पातैर् विहन्यते च स इति । न तु
स्वयं प्रवृत्तिमत्य् अपि मर्यादा-निर्माणम् । तस्य रुच्यैव भगवन्-
मनोरम-रागात्मिका-क्रम-विशेषाभिनिवेशात् । तद् उक्तं स्वयम् एव -
ज्ञात्वाज्ञात्वाथ ये वै माम् [भ्प् 11.11.33] इत्य् आदिना ।
रागात्मिक-भक्तिमतां दुरभिसन्धिताप्य् अनुकरण-मात्रेण तादृशत्व-
प्राप्तिः श्रूयते । यथा धात्रीत्वानुकरणेन पूतनायाः । तद् उक्तम् - सद्-
वेशाद् इव पूतनापि सकुला [भ्प् 10.14.35] इति । किम् उत तदीय-रुचिमद्भिस्
तादृश-निरन्तर-सम्यग्-भक्त्य्-अनुष्ठानेन । तद् उक्तम् -
पूतना लोक-बाल-घ्नी राक्षसी रुधिराशना ।
जिघांसयापि हरये स्तनं दत्त्वाप सद्-गतिम् ॥
किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने ।
यच्छन् प्रियतमं किं नु रक्तास् तन्-मातरो यथा ॥ [भ्प् 10.6.26-27] इति ।
अत उक्तं - न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः [भ्प् 10.20.4]
इति । एकान्तित्वं खलु भक्ति-निष्ठा । सा रुच्यैव वा शास्त्र-विध्य्-आदरेणैव
वा जायते । ततो रुचेर् विरलत्वाद् उत्तराभावेनापि यद् ऐकान्तिकीत्वं तत्-
तस्यैकान्तिक-मानिनो दम्भ-मात्रम् इत्य् अर्थः । ततस् तद्-अनद्यैव निन्दा
श्रुति-स्मृति-पुराण इत्य् आदिना, न तु रुचि-भावेऽपि तन्-निन्दा युक्ता पूतना इत्य्
आदेः । तथा चोक्तं पाद्मोत्तर-खण्डे -
स्वातन्त्र्यात् क्रियते कर्म न च वेदोदितं महत् ।
विनैव भगवत्-प्रीत्या ते वै पाषण्डिनः स्मृताः ॥ इति ।
प्रीतिर् अत्र तादृश-रुचिः । तद् एवम् अत्र शात्रानादरस्यैव निन्दा । न तु तद्-
अज्ञानस्य धावन् निमील्य वै इत्य् आदेः । गौतमीय-तन्त्रे त्व् इदम् अप्य् उक्तम्
- (पगे 165)
न जपो नार्चनं नैव ध्यानं नापि विधि-क्रमः ।
केवलं सन्ततं कृष्ण-चरणाम्भोज-भाविनाम् ॥
अजात-तादृश-रुचिना तु सद्-विशेषादर-मात्रादृता रागानुगापि वैधी-
संवलितैवानुष्ठेया । तथा लोक-संग्रहार्थं प्रतिष्ठितेन जात-तादृश-
रुचिना च । अत्र मिश्रत्वे च यथा-योग्यं रागानुगयैकीकृत्यैव वैधी
कर्तव्या । केचिद् अष्टादशाक्षर-ध्यानं गो-दोहन-समय-वंशी-वाद्य-
समाकृष्ट-तत्-तत्-सर्वमयत्वेन भावयन्ति । यथा चैके तादृशम् उपासनं
साक्षाद् व्रज-जन-विशेषायैव मह्यं श्री-गुरु-चरणैर् मद्-अभीष्ट-
विशेष-सिद्ध्य्-अर्थम् उपदिष्टं भावयामि । साक्षात् तु श्री-व्रजेन्द्र-
नन्दनं सेव्यमान एवासा इति भावयन्ति ।
अथ श्रुति-स्मृती ममैवाज्ञे इत्य्-आदि-निन्दित-मात्र-स्वावश्यक-क्रिया-
निषेधयोर् उल्लङ्घनं द्विविधम् । तौ हि धर्म-शास्त्रोक्तौ भक्ति-
शास्त्रोक्तौ चेतै । भगवद्-भक्ति-विश्वासेन दौःशील्येन वा
पूर्वयोरकरण-करण-प्रत्यासत्तौ न वैष्णव-भावाद् भ्रंशः । देवर्षि-
भूताप्त-नॄणां [भ्प् 11.5.37] इत्य् आद्य्-उक्तेः, अपि चेत् सुदुराचारः [गीता 9.30]
इत्य्-आद्य्-उक्तेश् च । तादृश-रुचिमति तु तयैव रुच्या द्विष्टत्वाद्
अपुनर्भवाद्य्-आनन्दस्यापि वाञ्छा नास्ति किम् उत परम-घृणास्पदस्य ।
अतस् तत्र स्वत एव न प्रवृत्तिः । प्रमादादिना कदाचिज् जातं चेद् विकर्म तत्-
क्षणाद् एव नश्यत्य् अपि । उक्तं च-विकर्म यच् चोत्पतितं कथंचिद् धुनोति
सर्वं हृदि सन्निविष्टः [भ्प् 11.5.38] इति ।
अथ वैष्णव-शास्त्रोक्तौ । तौ तर्हि विष्णु-सन्तोषैक-प्रयोजनाव् एव
भवतः । तयोश् च तादृशत्वे श्रुते सति तदीय-राग-रुचिमतः स्वत एव
प्रवृत्त्य्-अप्रवृत्तौ स्याताम् । तत्-सन्तोषैक-जीवनत्वात् प्रीति-जातेः । अतएव न
तत्र स्वानुगम्यमान-रागात्मक-सिद्ध-भक्त-विशेषेण कृतत्वाकृतत्वयोर्
अनुसन्धानं चापेक्ष्यं स्यात् । किन्तु तत्-कृतत्वे सति विशेषणाग्रहो भवतीत्य्
एव विशेषः ।
अत्र क्वचिच् छास्त्रोक्त-क्रम-विध्य्-अपेक्षा च राग-रुच्यैव प्रवर्तितेति
रागानुगान्तःपात एव । ये च श्री-गोकुलादि-विराजि-रागात्मिकानुगास् तत्-परास्
ते तु श्री-कृष्ण-क्षेम-तत्-संसर्गान्तरायाभावादि-काम्यात्मक-तद्-
अभिप्राय-रीत्यैव विअष्णव-लौकिक-धर्मानुष्ठानं कुर्वन्ति । अतएव
रागानुगायां रुचेर् एव सद्-धर्म-प्रवर्तकत्वात् श्रुति-स्मृती ममैवाज्ञे
इत्य् एतद्-वाक्यस्य न तद्-वर्त्म-भक्ति-विषयत्वम् । किन्तु बाह्य-शास्त्र-

निर्मित-बुद्ध-र्षभ-दत्तात्रेयादि-भजन-वर्त्म-विषयत्वम् एव ।
तथोक्तम् -
वेद-धर्म-विरुद्धात्मा यदि देव प्रपूजयेत् ।
स याति नरकं घोरं यावद् आहूत-सम्प्लवम् ॥
इति रागानुगायां विध्य्-अप्रवर्तितायाम् अपि न वेद-बाह्यत्वम् । वेद-वैदिक-
प्रसिद्धैव सा तत्र तत्र रुचित्वात् । वेदेषु बुद्धादीनां तु वर्णनं वेद-
बाह्यं विरुद्धत्वेनैव यथा --
ततः कलौ सम्प्रवृत्ते सम्मोहाय सुर-द्विषाम् ।
बुद्धो नाम्नाञ्जन-सुतः कीकटेषु भविष्यति ॥ [भ्प् 1.3.24] इत्य् आदि ।
तस्माद् भवत्य् एव रागानुगा समीचीना । तथा वैधीतोऽप्य् अतिशयवती च ।
मर्यादा-वचनं ह्य् आवेशार्थम् एवेति दर्शितम् । स पुनर् आवेशो यथा रुचि-
विशेष-लक्षण-मानस-भावेन स्यान् न तथा (पगे 166) विधि-प्रेरणया ।
स्वारसिक-मनो-धर्मत्वात् तस्य । तत्र चास्तां तावद्-अनुकूल-भावः ।
परम-निषिद्धेन प्रतिकूल-भावेनाप्य् आवेशो झटिति स्यात् । तद्-आवेश-
सामर्थ्येन प्रतिकूल-दोष-हानिः स्यात् । सर्वानर्थ-निवृत्तिश् च स्याद् इति
भाव-मार्गस्य बलवत्त्वे दृष्टान्तोऽपि दृश्यते । तत्र यद्य् अनुकूल-भावः
स्यात् तदा परमैकान्ति-साध्य एवाप्तौ ।
अथ भाव-मार्ग-सामान्यस्य बलवत्त्वं प्रकरणम् उत्थाप्यते । श्री-
युधिष्ठिर उवाच --
अहो अत्य्-अद्भुतं ह्य् एतद् दुर्लभैकान्तिनाम् अपि ।
वासुदेवे परे तत्त्वे प्राप्तिश् चैद्यस्य विद्विषः ॥ [भ्प् 7.1.15]
एकान्तिनां परम-ज्ञानिनाम् अपि यतस् तस्य सा न सम्भवति ।
एतद् वेदितुम् इच्छामः सर्व एव वयं मुने ।
भगवन्-निन्दया वेनो द्विजैस् तमसि पातितः ॥ [भ्प् 7.1.16]
तमसि नरके । बहु-नरकादि-भोगानन्तरम् एव पृथु-जन्म-
प्रभावोदयेन तस्य सद्-गति-श्रवणात् । एषः --
दमघोष-सुतः पाप आरभ्य कल-भाषणात् ।
सम्प्रत्य् अमर्षी गोविन्दे दन्तवक्रश् च दुर्मतिः ॥ [भ्प् 7.1.17] इत्य् आदि ।
स्पष्टं ।
॥ 7.1 ॥ युधिष्ठिरो नारदम् ॥ 312-314 ॥
[315-320]
तत्रोत्तरम् श्री-नारद उवाच - अहो भगवन्-निन्दकस्य नरक-पातेन
भाव्यम् इति वदतस् तव कोऽभिप्रायः ? भगवत्-पीडा-करत्वाद् वा तद्-
अभावेऽपि सुरापानादिवन् निषिद्ध-निन्दा-श्रवणाद् वा । तत्र तावद्
विमूढैर् जनैर् निन्दादिकं प्राकृतान् तम आदेइ-गुणान् उद्धिश्यैव
प्रवर्तते । ततः प्रकृति-पर्यन्ताश्रयस्य तत्-कृत-निन्दादेर् अप्राकृत-गुण-
विग्रहादौ तस्मिन् प्रवृत्तिर् नास्त्य् एव । न च जीववत् प्रकृति-पर्यन्ते वस्तु-
जाते भगवद्-अभिमानोऽस्ति । ततश् च तेन तस्य पीडापि नास्त्य् एव । तद् एतद्
आह सार्धैस् त्रिभिः --
निन्दन-स्तव-सत्कार- न्यक्कारार्थं कलेवरम् ।
प्रधान-परयो राजन्न् अविवेकेन कल्पितम् ॥ [भ्प् 7.1.22]
निन्दनं दोष-कीर्तनम् । न्यक्-कारस् तिरस्कारः । निन्दन-स्तुत्य्-आदि-
ज्ञानार्थं प्रधान-पुरुषयोर् अविवेकेन जीवानां कलेवरं कल्पितं
रचितम् । ततश् च -
हिंसा तद्-अभिमानेन दण्ड-पारुष्ययोर् यथा ।
वैषम्यम् इह भूतानां ममाहम् इति पार्थिव ॥
यन्-निबद्धोऽभिमानोऽयं तद्-वधात् प्राणिनां वधः ।
तथा न यस्य कैवल्याद् अभिमानोऽखिलात्मनः ॥
परस्य दम-कर्तुर् हि हिंसा केनास्य कल्प्यते ॥ [भ्प् 7.1.23-25]
इह प्राकृते लोके । यथा तत्-कलेवराभिमानेन भूतानां ममाहम् इति
वैषम्यं भवति, यथा तत्-कृताभ्यां दण्ड-पारुष्याभ्यां ताडन-
निन्दाभ्यां निमित्त-भूताभ्यां हिंसा च भवति, यथा यस्मिन्
निबद्धोऽभिमानस् तस्य देहस्य वधात् प्राणिनां वधश् च भवति, यथा
यस्याभिमानो नास्तीत्य् अर्थः । अस्य परमेश्वरस्य हिंसा केन हेतुना
कल्प्यते । अपि तु न केनापीत्य् अर्थः । तथाभिमाभावे हेतुः कैवल्यात् ।
देहेन्द्रियासुहीनानां वैकुण्ठ-पुर-वासिनाम् [भ्प् 7.1.35] इति कैमुत्यादि-
प्राप्त-शुद्धत्वात् । तादृश-निन्दाद्य्-अगम्य-शुद्ध-सच्-चिदानन्द-
विग्रहादित्वाद् इत्य् अर्थः । तस्य तद्-अगम्यत्वं च (पगे 167) नाहं प्रकाशः
सर्वस्य योग-माया-समावृतः [गीता 7.25] इति श्री-भगवद्-गीतातः ।
तादृश-वैलक्षण्येन हेतुः अखिलानाम् आत्मभूतस्य । तत्र हेतुः परस्य
प्रकृति-वैभव-सङ्ग-रहितस्य । हिंसाया अविषयत्वे हेत्व्-अन्तरं दमकतुः
परमाशर्यानन्त-शक्तित्वात् सर्वेषाम् एव शिक्षा-कर्तुर् इति । तद् एवं यस्माद्
भगवतो निन्दादि-कृतम् वैषम्यं नास्ति तस्माद् येन केनाप्य् उपायेन सकृद्
यद्-अङ्ग-प्रतिमान्त-राहिता [भ्प् 10.12.39] इत्य् आदिवत् तद्-आभासम् अपि
ध्यायतस् तद्-आवेशात् तत्र वैरेणापि ध्यायतस् तद्-आवेशेनैव निन्दादि-कृत-
पापस्यापि नाशात् तत्-सायुज्यादिकं युक्तम् इत्य् आशयेनाह तस्माद् इत्य् आदिभिः ।
तथा हि -
तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा ।
स्नेहात् कामेन वा युञ्ज्यात् कथञ्चिन् नेक्षते पृथक् ॥ [भ्प् 7.1.26]
युञ्ज्याद् इति स्नेह-कामादीनां विधातुम् अशक्यत्वात् सम्भावनायाम् एव
लिङ् । वैरानुबन्धादीनाम् एकतरेणापि युञ्ज्याद् ध्यायेच् चेत् तदा भगवतः
पृथग् नेक्षते तद्-आविष्टो भवतीत्य् अर्थः । वैरानुबन्धो वैर-
भावाविच्छेदः । निर्वैरो वैराभाव-मात्रम् औदासीन्यम् उच्यते । तेन
कामादि-राहित्यम् अप्य् आयाति । वैरादि-भाव-राहित्यम् इत्य् अर्थः । तेन वा
वैराद्-भाव-राहित्येन युञ्ज्यात् । विहितत्व-मात्र-बुद्ध्या ध्यायेत ।
ध्यानोपलक्षितं भक्ति-योगं कुर्याद् इत्य् अर्थः । स्नेहः कामातिरक्तः
परस्परम् अकृत्रिमः प्रेम-विशेषः । स तु साधके तद्-अभिरुचिर् एव । तद्
एवं सर्वेषां तद्-आवेश एव फलम् इति स्थिते झटिति तद्-आवश-सिद्धये तेषु
भाव-मय-मार्गेषु निन्दितेनापि वैरेण विधि-मय्या भक्तेर् न साम्यम्
इत्य् आह --
यथा वैरानुबन्धेन मर्त्यस् तन्-मयताम् इयात् ।
न तथा भक्ति-योगेन इति मे निश्चिता मतिः ॥ [भ्प् 7.1.27]
वैरानुबन्धेनेति भयस्याप्य् उपलक्षणम् । यथा-शैघ्र्येण तन्-मयतां
तद्-आविष्टता भक्ति-योगेन विहितत्व-मात्र-बुद्ध्या क्रियमाणेन तु न
तथा । आस्तां तादृश-वस्तु-शक्ति-युक्तस्य तेषु प्रकाशमानस्य भगवतो
भगवद्-विग्रहाभासस्य वा वार्ता । प्राकृतेऽपि तद्-भाव-मात्रस्य
भाव्यावेश-फलं महद् दृश्यत इति स-दृष्टान्तं तद् एव प्रतिपादयति -
कीटः पेशस्कृता रुद्धः कुड्यायां तम् अनुस्मरन् ।
संरम्भ-भय-योगेन विन्दते तत्-स्वरूपताम् ॥
एवं कृष्णे भगवति माया-मनुज ईश्वरे ।
वैरेण पूत-पाप्मानस् तम् आपुर् अनुचिन्तया ॥ [भ्प् 7.1.28-29]
संरम्भो द्वेषो भयं च ताभ्यां योगस् तद्-आवेशस् तेन । तत्-स्वरूपतां
तस्य स्वम् आत्मीय-रूपम् आकृतिर् यत्र तत् ताम् तत् सारूप्यम् इत्य् अर्थः । एवम्
इति एव अपीयर्थः । नराकृति-पर-ब्रह्मत्वाद् माययैव प्राकृत-मनुजतया
प्रतीयमाने ।
ननु कीटस्य प्रेशस्कृद्-द्वेषे पापं न भवति । तत्र तु तत् स्याद् इत्य्
आशङ्क्याह - वैरेण यानुचिन्ता तद्-आवेशस् तयैव पूत-पाप्मानस् तद्-
ध्यानावेशस्य तादृक्-शक्तित्वाद् इति भावः ।
न च शास्त्र-विहितेनैव भगवद्-धर्मेण सिद्धिः स्यान् न च तद्-विहितेन
कामादिनेति वाच्यम् । (पगे 168)

कामाद् द्वेषाद् भयात् स्नेहाद् यथा भक्त्येश्वरे मनः ।
आवेश्य तद्-अघं हित्वा बहवस् तद्-गतिं गताः ॥ [भ्प् 7.1.29]
यथा विहितया भक्त्य ईश्वरे मन आविश्य तद्-गतिं गच्छन्ति
तथिअवाविहितेनापि कामादिना बहवो गता इत्य् अर्थः । तद्-अघं तेषु
कामादिषु मध्ये यद्-द्वेष-भययोर् अघं भवति तद् धित्वैव ।
भयस्यापि द्वेष-संवलितत्वाद् अघोत्पादकत्वं ज्ञेयम् ।
अत्र केचित् कामम् अप्य् अघं मन्यन्ते । तत्रेदं विचार्यते भगवति केवलं
काम एव केवल-पापावहः किं वा पति-भाव-युक्तः । अथवा उपपति-
भाव-युक्त इति । स एव केवल इति चेत् स किं द्वेषादि-गणपतित्वात् तद्वत्
स्वरूपेणैव वा । परम-शुद्धे भगवति यद्-अधर-पानादिकं यच् च
कामुकाद्य्-आरोपणं तेनातिक्रमेण वा पाप-श्रवणेन वा । नाद्येन --
उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथा गतः ।
द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः ॥ [भ्प् 10.29.13]
इत्य् अत्र द्वेषादेर् न्यक्कृतत्वात् तस्य तु स्तुतत्वात् । अतश् च प्रिया इति स्नेहवत्
कामस्यापि प्रीत्यात्मकत्वेन तद्वद् एव न दोषः । तादृशीनां कामो हि
प्रेमैक-रूपः । यत् ते सुजात-चरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय
दधीमहि कर्कशेषु [भ्प् 10.31.19] इत्य् आदाव् अतिक्रम्यापि स्व-सुखं
तदानुकूल्य एव तात्पर्य-दर्शनात् सैरिन्ध्र्यास् तु भावो रिरंसा-प्रायत्वेन
श्री-गोपिकानाम् इव केवल-तत्-तात्पर्याभावात् तद्-अपेक्षयैव निन्द्यते न तु
स्वरूपतः । सानङ्ग-तप्त-कुचयोः [भ्प् 10.48.6] इत्य् आदौ अनन्त-चरणेन
रुजो मृजन्ति इति परिरभ्य कान्तम् आनन्द-मूर्तिम् इति कार्य-द्वारा तत्-
स्तुतैः । तत्रापि सहोष्यताम् इह प्रेष्ठ [भ्प् 10.48.8] इत्य् अत्र प्रीत्य्-
अभिव्यक्तश् च ।
अतएव -
सैवं कैवल्य-नाथं तं प्राप्य दुष्प्राप्यम् ईश्वरम् ।
अङ्ग-रागार्पणेनाहो दुर्भगेदम् अयाचत ॥ [भ्प् 10.48.8]
दुराराध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् ।
यो वृणीते मनो-ग्राह्यम् असत्त्वात् कुमनीष्य् असौ ॥ [भ्प् 10.48.11]
इति चैवं योजयन्ति । कैवल्यम् एकान्तित्वम् । तेन यो नाथः सेवनीयस् तम् ।
पुरा तादृश-त्रिवक्रत्वादि-लक्षण-दौर्भाग्यवत्य् अपि । अहो आश्चर्यम् अङ्ग-
रागार्पण-लक्षणेन भगवद्-धर्मांशेन कारणेन सम्प्रतीदं
सहोष्यताम् इह प्रेष्ठ दिनानि कतिचिन् मया रमस्व [भ्प् 10.48.8] इत्य् आदि-
लक्षणं सौभाग्यम् अयाचत इति । अतः -
किम् अनेन कृतं पुण्यम् अवधूतेन भिक्षुणा ।
श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च ॥ [भ्प् 10.80.25]
इति श्रीदाम-विप्रम् उद्दिश्य पुरजन-वचनवद् एव तथोक्तिः । ननु कामुकी
सा किम् इति श्लाघ्यते । तत्राह दुराराध्यम् इति । यो मनो-ग्राह्यं प्राकृतम्
एव विषयं वृणीते कामयत असाव् एव कुमनीषी । सा तु भगवन्तकेव
कामयत इति परम-सुमनीषिण्येवेति भावः । तद् एवं तस्य (पगे 169)
कामस्य द्वेषादि-गणान्तःपातित्वं परिहृत्य तेन पापावहत्वं परिहृतम् ।
अथ कामुकत्वाद्य्-आरोपणाद्य्-अधर-पानादि-रूपस् तत्र व्यवहारोऽपि
नातिक्रम-हेतुः । यतो लोकवत् तु लीला-कैवल्यम् इति न्यायेन लीला तत्र
स्वभावत एव सिद्धा । अत्र च श्री-भूर्-लीलादीभिस् तस्य तादृश-लीलायाः श्री-
वैकुण्ठादिषु नित्य-सिद्धत्वेन स्वतन्त्र-लीला-विनोदस्य तस्याभिरुचि-
तत्त्वेनैवावगम्यते । तथा तत्-प्रेयसी-जनानाम् अपि तत्-स्वरूप-शक्ति-
विग्रहत्वेन परम्-शुद्ध-रूपत्वात् ततो न्यानताभावाच् च तद्-अधर-
पानादिकम् अपि नानुरूपं पूर्व-युक्त्या तद्-अभिरुचितम् एव च । न च
प्राकृत-वामा-जनेन दोषः प्रसञ्जनीयः । तद्-योग्यं तादृशं भावं
स्वरूप-शक्ति-विग्रहत्वं च प्राप्यैव तद्-इच्छयैव तत्-प्राप्तेः ।
अथ पाप-श्रवणेन च न पापावहोऽसौ कामः । तद्-अश्रवणाद् एव । अततः
पति-भाव-युक्ते च तत्र सुतरां न दोषः, प्रत्युत स्तुतिः श्रूयते ।
याः सम्पर्यचरन् प्रेम्णा पाद-संवाहनादिभिः ।
जगद्-गुरुं भर्तृ-बुद्ध्या तासां किं वर्ण्यते तपः ॥ [भ्प् 10.9.27] इति ।
महानुभाव-मुनीनाम् अपि तद्-भावः श्रूयते । यथा श्री-माध्वाचार्य-
धृतं कौर्म-वचनम् -
अग्नि-पुत्रा महात्मानस् तपसा स्त्रीत्वम् आपिरे ।
भर्तारं च जगद्-योनिं वासुदेवम् अजं विभुम् ॥ इति ।
अतएव वन्दितं पति-पुत्र-सुहृद्-भ्रातृ इत्य् आदिना ।
अथोपपति-भावेन न च पापावहोऽसौ यत् पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर्
अङ्ग [भ्प् 10.29.19] इत्य् आदिना ताभिर् एवोत्तरितत्वात् । गोपीनां तत्-पतीनां च
[भ्प् 10.33.35] इत्य् आदिना श्री-शुक-वचनेन च ।
न पारयेऽहं निरवद्य-संयुजां
स्व-साधु-कृत्यं विबुधायुषापि वः [भ्प् 10.32.22]
इत्य् अत्र निरवद्य-संयुजाम् इत्य् अनेन स्वयं श्री-भगवता च । तादृशानाम्
अन्येषाम् अपि तद्-भावो दृश्यते । यथा पाद्मोत्तर-खण्ड-वचनम् -
पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छत् सुविग्रहम् ॥
ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूतास् तु गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ [पद्मप् 6.245.164] इति ।
अतः पुरुषेष्व् अपि स्त्री-भावेनोद्भवाद् भगवद्-विषयत्वान् न प्राकृत-
काम-देवोद्भावितः प्राकृतः कामोऽसौ किन्तु साक्षान् मन्मथ-मन्मथः
[भ्प् 10.32.2] इति श्रवणात् । आगमादौ तस्य कामत्वेनोपासनाच् च
भगवतैवोद्भावितोऽप्राकृत एवासौ काम इति ज्ञेयम् । श्रीमद्-
उद्धवादीनां परम-भक्तानाम् अपि च तच्-छ्लाघा श्रूयते - एताः परं
तनु-भृतो भुवि गोप-वध्वः [भ्प् 10.47.51] इत्य् आदौ । किं बहुना श्रुतीनाम्
अपि तद्-भावो बृहद्-वामने प्रसिद्धः । यतस् तत्र श्रुतयोऽपि नित्य- (पगे
170) सिद्ध-गोपिका-भावाभिलाषिण्यस् तद्-रूपेणैव तद्-गणान्तःपातिन्यो
बभूवुर् इति प्रसिद्धिः । एतत् प्रसिद्धि-सूचकम् एवैतद् उक्त ताभिर् एव --
निभृत-मरुन्-मनो-ऽक्ष-दृठ-योग-युजो हृदि यन्
मुनय उपासते तद् अरयोऽपि ययुः स्मरणात् ।
स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो
वयम् अपि ते समाः सम-दृशोऽङ्घ्रि-सरोज-सुधाः ॥ [भ्प् 10.87.23] इति ।
विस्पष्टश् चायम् अर्थः । यद् ब्रह्माख्यं तत्त्वं शास्त्र-दृष्ट्या प्रयास-
बाहुल्येन मुनय उपासते तद् अरयोऽपि यस्य स्मरणात् तद्-उपासनं विनैव
ययुः । तथा स्त्रियः श्री-गोप-सुभ्रुवस् ते तव श्री-नन्दनन्दन-रूपस्य
उरुगेन्द्र-देहत्-तुल्यौ यौ भुज-दण्डौ तव विषक्त-धियः सत्यस्
तवैवाङ्घ्रि-सरोज-सुधास् तदीय-स्पर्श-विशेष-जाति-प्रेम-माधुर्याणि
ययुः । वयं श्रुतयोऽपि समदृशस् तत्-तुल्य-भावाः सत्यः समास् तादृश-
गोपिकात्व-प्राप्त्या तत्-साम्यम् आप्तास् ता एवाङ्घ्रि-रजो-सुधां यातवत्य इत्य्
अर्थः ।
अर्थ-वशाद् विभक्ति-परिणामः ।अङ्घ्रीति सादरोक्तिः । अत्र तद् अरयोऽपि ययुः
स्मरणाद् इत्य् अनेन भाव-मार्गस्य झटित्य् अर्थ-साधनत्वं दर्शितम् ।
सम-दृश इत्य् अनेन रागानुगाया एव तत्र साधकतमत्वं व्यञ्जितम् ।
अन्यथा सर्व-साधन-साध्य-विदुष्यः श्रुतयोऽन्यत्रैव प्रवर्तेरन् । तथा

स्मरण-पर-युग्म-द्वयेऽस्मिन् स्व-स्व-युग्मे प्रथमस्य मुख्यत्वं
द्वितीयस्य गौणत्वं दर्शितम् । उभयत्राप्य् अपि-शब्द-साहित्येनोत्तरत्र
पाठाद् एकार्थता-प्राप्तेः । अतः स्त्रिय इति नित्याः श्री-गोपिका एव ता ज्ञेयाः ।
तथैव श्रुतिभिर् इति श्री-कृष्ण-नित्य-धाम्नि ता दृष्टा इति बृहद्-वामन एव
प्रसिद्धम् । तद् एवं साधु व्याख्यातम् कामाद् द्वेषात् इत्य् आदौ तद्-अघं
हित्वा इत्य् अत्र तेषु मध्ये द्वेष-भययोर् यद्-अघम् इत्य् आदि ।
[321]
अथ बहवस् तद्-गतिं गता इत्य् अत्र निदर्शयम् आह --
गोप्यः कामाद् भयात् कंसो द्वेषाच् चैद्यादयो नृपाः ।
सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ॥ [भ्प् 7.10.30]
गोप्य इति साधक-चरीणां गोपी-विशेषाणां पूर्वावस्थाम् एवावलम्ब्योच्यते ।
वयम् इति यथा श्री-नारदस्य हि प्र्युज्यमाने मयि तां शुद्धां भागवतीं
तनुम् [भ्प् 1.6.28] इत्य्-आद्य्-उक्त-रीत्या पार्षद-देहत्वे सिद्धे तेन स्वयं
वयम् इति पूर्वावस्थाम् अवलम्ब्योच्यते । तत्रैव वैधी भक्तिः । अधुना
लब्ध-रागस्य तस्य न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः
[भ्प् 11.20.36] इति न्यायेन विध्य्-अनधीना रागात्मिकैव विराजत इति । अतएव
तद्-गतिं गताः इति तेषां फल-प्राप्तेर् अप्य् अतीतत्व-निर्देशः । अत्र ता गोप्य
इवाधुन्क्यश् च तद्-गुणादि-श्रवणेनैव तद्-भावा भवेयुः । यथोक्तम् --
श्रुत-मात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।
उरु-गायोरु-गीतो वा पश्यन्तीनां च किं पुनः ॥ [भ्प् 10.90.17] इति ।
अथवा पार्षद-चरस्यापि चैद्यस्यागन्तुकोपद्रवाभास-नाश-दर्शनेनैव
साधकत्व-निर्देशः । सम्बन्धाद् यः स्नेहो रागस् तस्माद् वृष्णयो यूयं
च इत्य् एकम् । तस्माद् वैरानुबन्धेन इत्य् आदौ कामात् इत्य् आदौ
चोक्तस्यैवार्थस्यो-दाहरण-वाक्येऽस्मिन् तद्-ऐकार्त्याकश्यमत्वात् ।
पञ्चानाम् (पगे 171) इति वक्ष्यमाणानुरोधात् । उभयत्रापि सम्बन्ध-
स्नेहयोर् द्वयोर् अपि विद्यमानत्वाच् च सम्बन्ध-ग्रहणं रागस्यैव
विशेषत्व-ज्ञापनार्थम् । गोपीवद् अत्रापि साधक-चरा वृष्णि-विशेषाः
पाण्डव-सम्बन्धि-विशेषाश् च पूर्वावस्थाम् अवलम्ब्य साधकत्वेन
निर्दिष्टाः । अतः सम्बन्धज-स्नेहेऽपि तद्-अभिरुचि-मात्रं ज्ञेयम् । भक्त्या
विहितया । अस्या एव प्रतिलब्धत्वेन भाव-मार्गं निर्देष्टुम्
उपक्रान्तत्वात् ।
[322]
यदि द्वेषेणापि सिद्धिस् तर्हि वेणः किम् इति नरके पातित इत्य् आशङ्क्याह --
कतमोऽपि न वेनः स्यात् पञ्चानां पुरुषं प्रति [भ्प् 7.1.31]
पुरुषं भगवन्तं प्रति लक्ष्यीकृत्य पञ्चानां वैरानुबन्धादीनां
मध्ये वेणः कतमोऽपि न स्यात् । तस्य तं प्रति प्रासङ्गिक-निन्दा-
मात्रात्मकं वैरं न तु वैरानुबन्धः । ततस् तीव्र-ध्यानाभावात्
पापम् एव तत्र प्रतिफलितम् इति भावः । ततोऽसुर-तुल्य-स्वभावैर् अपि
तस्मिन् स्व-मोक्षार्थं वैर-भावानुष्ठान-साहसं न कर्तव्यम् इत्य्
अभिप्रेतम् । अतएव ये वै भगवता प्रोक्ताः [भ्प् 11.2.32] इत्य् आदेर् अप्य्
अतिव्याप्तिर् व्याहन्यते अनभिप्रेतत्वेना-प्रोक्तत्वात् ।
[323]
यस्माद् एवं -
तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् ॥ [भ्प् 7.1.31] इति ।
अत्रापि पूर्ववन् निवेशयेद् इति सम्मति-मात्रं न विधिः । केनापि तेष्व् अप्य्
उपायेषु युक्ततमेनैकेनेत्य् अर्थः । अज्प् उअस् तदृच-बहु-प्रयत्न-साध्य-
वैधी-भक्ति-मार्गेण चिरात् साध्यते स एवाचिराद् भाव-विशेष-मात्रेण तत्र
च द्वेषादिनापि । तस्माद् एवंभूते परम-सद्-गुण-स्वभावे तस्मिन्
दूरेऽस्तु पामर-जन-भाव्यस्य वैरस्य वार्ता को वाधम औदास्यम्
अवलम्ब्य प्रीतिम् अपि न कुर्याद् इति रागानुगायाम् एव तच् च युक्ततमत्वम्
अङ्गीकृतं भवति ।
॥ 7.1 ॥ श्री-नारदः युधिष्ठिरम् ॥ 312-323 ॥
[324]
तद् एवं भाव-मार्ग-सामान्यस्यैव बलवत्त्वेऽपि कैमुत्येन रागानुगायाम्
एवाभिधेयत्वम् आह -
वैरेण यं नृपतयः शिशुपाल-पौण्ड्र-
शाल्वादयो गति-विलास-विलोकनाद्यैः ।
ध्यायन्त आकृत-धियः शयनासनादौ
तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम् ॥ [भ्प् 11.5.48]
आकृति-धियस् तत्-तद्-आकारा धीर् येषाम् । एवम् एवोक्तं गारुडे -
अज्ञानिनः सुर-वरं समधिक्षिपन्तो
यं पापिनोऽपि शिशुपाल-सुयोधनाद्याः ।
मुक्तिं गताः स्मरण-मात्र-विधूत-पापाः
कः संशयः परम-भक्ति-मतां जनानाम् ॥ इति ।
अत्प् यथा वैरानुबन्धेन [भ्प् 7.1.26] इत्य् अत्र वैरानुबन्धस्य सर्वत
आधिक्यं न योजनीयम् । यच् च -
मयि संरम्भ-योगेन निस्तीर्य ब्रह्म-हेलनम् ।
प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ [भ्प् 3.16.30] इति ।
इति जय-विजयौ प्रति वैकुण्ठ-वचनम् । तद् अपि तद्-अपराधाभास-
भोगार्थम् एव संरम्भ-योगाभासं विधत्ते तत्-प्राप्तेस् तयोः
स्वाभावैक-सिद्धत्वात् । युद्ध-लीलार्थम् एव तत्-प्रपञ्चनात् ।
अत्र द्वेषादाव् अपि केचिद् भक्तित्वं मन्यन्ते । तद् असत् । भक्ति-सेवादि-
शब्दानाम् आनुकूल्य एव (पगे 172) प्रसिद्धेर् वैरे तद्-विरोधत्वेन तद्-
असिद्धेश् च । पाद्मोत्तर-खण्डे च भक्ति-द्वेषादीनां च भेदोऽवगम्यते -
योगिभिर् दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचित् ।
द्रष्टुं न शक्यो रोषाच् च मत्सराद् वा जनार्दनः । [पद्मप् 6.238.83] इत्य्
अत्र च ।
ननु मन्येऽसुरान् भागवतान् [भ्प् 3.2.24] इत्य् आदौ श्रीमद्-उद्धव-वाक्ये
तेषाम् अपि भागवतत्वं निर्दिश्यते । मैवं । यतो मन्य इत्य्
अनेनोत्प्रेक्षावगमान् न स्वयं भागवतत्वं तत्रास्तीय् एवं सिध्यतीति । सा
चोत्प्रेक्षा तेन तच्-छोकौत्कण्ठ्यवता केवल-दर्शन-भाग्यांशेनैव
रचिता युक्तैव । यथा हन्त वयम् एव बहिर्मुखाः । येषाम् अन्ति-समये
तन्-मुख-चन्द्रमसो दर्शन-सम्भावनापि न विद्यते । येभ्यश् चासुरा
अपि भागवताः । ये खलु तदानीं तन्-मुख-चन्द्रमसो दर्शन-
सौभाग्यं प्रापुर् इति । तस्मान् न द्वेषादौ कथञ्चिद् अपि भक्तित्वम् ।
॥ 11.5 ॥ श्री-नारदः श्री-वसुदेवम्

6.325

[325]
तद् एवं रागानुगा साधिता । सा च श्री-कृष्ण एव मुख्या । गोप्यः कामात्
[भ्प् 7.1.29] इत्य् आदिना तस्मिन्न् एव दर्शितत्वात् । दैत्यानाम् अपि द्वेषेणापि
तस्मिन्न् एवावेश-लाभ-दर्शनात् । सिद्धि-प्राप्तेश् च । नान्यत्र तु कुत्राप्य्
अंशिन्य् अंशे वा । अतएवोक्तम् तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत्
इत्य् आदि । अतस् तादृश-झटित्य्-आवेश-हेतूपासना-लाभाद् एव स्वयम् एकादशे
वैधोपासना स्वस्मिन् नोक्ता । किन्त्व् अन्यत्र चतुर्भुजाकार एव । तत्र च
शुद्धस्य रागस्य श्री-गोकुल एव दर्शनात् तत्र तु रागानुगा मुख्यतमा
यत्र खलु स्वयं भगवान् अपि तेषां पुत्रादि-भावेनैव विलसति । ये यथा
मां प्रपद्यन्ते [गीता 4.11] इत्य् आदेः । मल्लानाम् अशनिर् [भ्प् 10.43.14]
इत्यादेः । स्वेच्छामयस्य [भ्प् 10.14.2] इत्य् अस्माच् च । ततश् च भक्त-कर्तृक-
भोजन-पान-स्नपन-बीजनादि-लक्षण-लालनेच्छापि तस्याकृत्रिमैव जायते ।
साधारण-भक्ति-सद्-भावेनैव हि -
पत्रं पुष्पं फलंतोयं यो मे भक्त्या प्रयच्छति ।
तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ॥ [भ्प् 10.81.3] इत्य् उक्तम् ।
श्री-शुकदेवेन च तद् एतद् एवाकाङ्क्षया श्लाघितम् ।
पाद-संवाहनं चक्रुः केचित् तस्य महात्मनः ।
अपरे हत-पाप्मानो व्यजनैः समबीजयत् ॥ [भ्प् 10.15.15] इत्य् आदिना ।
नानेन चैश्वर्यस्य हानिः । तदानीम् अपि तस्यैश्वर्यस्यान्यत्र स्फुरद्-
रूपत्वात् । भक्तेच्छामयत्वस्य चेशितरि प्रशंसनीय-स्वभावत्वाद् एव ।
यथा श्री-व्रजेश्वरी-बद्ध एव यमलार्जुन-मोक्षं कृतवान्
तादृशैश्वर्येऽपि तस्मिन् श्री-व्रजेश्वरी-वश्यतैव श्री-शुकदेवेन वन्दिता
एवं सन्दर्शिता ह्य् अङ्ग [भ्प् 10.9.19] इत्य् आदिना । तस्माद् ये चाद्यापि तदीय-
रागानुगा-परास् तेषाम् अपि श्री-व्रजेन्द्र-नन्दनत्वादि-मात्र-धर्मैर्
उपासना युक्ता । यथा श्री-गोवर्धनोद्धरण-लब्ध-विस्मयान् श्री-गोपान्
प्रत्युक्तं स्वयं भगवतैव विष्णु-पुराणे --
यदि वोऽस्ति मयि प्रीतिः श्लाघ्योऽहं भवतां यदि ।
तद्-आत्म-बन्धु-सदृशी बुद्धिर् वः क्रियतां मयि ॥ [विप् 5.13.11] इति । (पगे
173)
तदार्चा बन्धु-सदृशीं बान्धवाः क्रियतां मयि इति वा पाठः । तथा -
नाहं देवो न गन्धर्वो न यक्षो न च दानवः ।
अहं वो बान्धवो जातो नातश् चिन्त्यम् अतोऽन्यथा ॥ [विप् 5.13.12] इति ।
युवां मां पुत्र-भावेन वासकृत् [भ्प् 10.3.36] इत्य् अत्र तु श्री-
वसुदेवादीनाम् ऐश्वर्य-ज्ञान-प्रधानत्वाद् द्व्यत्मिकैव भगवद्-
अनुमतिर् ज्ञेया । प्राग्-जन्मन्य् अपि तयोस् तप-आदि-प्रधानैव भक्तिर् उक्ता ।
अतः श्री-व्रजेश्वर्याः पुनस् तन्-मुख-दृष्ट-वैभवत्वम् अश्लाघित्वा
पुत्र-स्नेह-मयीं मायाद्य्-एक-पर्यायां तत्-कृपाम् एव बहु-मन्यमानस्
तादृश-भाग्यं च श्री-व्रजेश्वरस्य च भाग्यं तादृश-बाल्य-
लीलोच्छल्यमान-पुत्र-भावेन राजमान-मति-श्लाघितवान् राजा नन्दः किम्
अकरोद् ब्रह्मन् [भ्प् 10.8.36] इत्य् आदि-द्वयेन । श्री-मुनिराजश् च तादृश-तत्-
प्रेमैव श्लाघितवान् - एवं सन्दर्शिता ह्य् अङ्ग हरिणा [भ्प् 10.9.29] इत्य्
आदिना ।
तद् एवं श्री-वसुदेव-देवक्याव् उपलक्ष्य श्री-नारदो साधकान् प्रति
दर्शनालिङ्गनालापैः [भ्प् 11.5.43] इत्य् आदिना यद् उपदिष्टवान् । तत्र टीका
च - यथा पुत्रोपलालनेनैव भागवत-धर्म-सर्वस्व-निष्पत्तेः इत्य् एषा ।
तथा मापत्य-बुद्धिम् अकृथाः कृष्णे सर्वेश्वरेश्वरे [भ्प् 11.5.45] इति । एतद्
अपि तद्-अविरोधेन टीकायाम् एवम् अवतारितम् । यथा ननु, पुत्र-स्नेहश् चेन्
मोक्ष-हेतुस् तर्हि सर्वेऽपि मुच्येरन् तत्राह मापत्य-बुद्धिम् इति इत्य् एतत् ।
तस्मिन्न् अपत्यत्वं प्राप्तेऽपि तस्मिंस् तादृश-भावना-वशं गतेऽपि अस्ति
स्वाभाविकं पारमैश्वर्यम् अधिकम् इति भावः । यद् वा पूर्ववन्न्
आर्षोऽडागमः किन्त्व् अ-कारो निषेधे अभावे न ह्य् अनो न इत्य् शब्द-कोषात् ।
ततो निषेध-द्वयाद् अपत्य-बुद्धिम् एव कुरु इत्य् अर्थः ।
अतएव ज्ञानाज्ञानयोर् अनादरेण केवल-रागानुगाया एवानुष्ठितिः प्रशस्ता ।
ज्ञात्वाज्ञात्वाथ ये वै माम् [भ्प् 11.11.33] इत्य् आदिना । तस्मात् श्री-गोकुल एव
रागात्मिकायाः शुद्धत्वात् तद्-अनुगा भक्तिर् एव मुख्यतमा इति साद्व्
एवोक्तम् ।
तद् एवम् अन्यत्रासम्भवतया रागानुगाम् आत्म-दृष्ट्या पूर्ण-भगवत्ता-
दृष्ट्या च श्री-कृष्ण-भजनस्य माहात्म्यं महद् एव सिद्धम् । तत्रापि
गोकुल-लीलात्मकस्य । अथ तद्-भजन-मात्रस्य माहात्म्यम् उपक्रमत एव
यथा --
मुनयः साधु पृष्टोऽहं भवद्भिर् लोक-मङ्गल ।
यत् कृतः कृष्ण-सम्प्रश्नो येनात्मा सुप्रसीदति ॥ [भ्प् 1.2.5] इति ।
तत्रैतद् वक्तव्यं पूर्वं मनसः प्रसाद-हेतुः पृष्टः । अनेन तु श्री-
कृष्ण-प्रश्न-मात्रस्य तद्-धेतुनोक्ता । न तु स वै पुंसां परो धर्मः
[भ्प् 1.2.6] इत्य् आदिना तदीयानन्तर-प्रकरणे यथा महता प्रयत्नेन
कर्मार्पणम् आरभ्य भक्ति-निष्ठा-पर्यन्त एव जाते प्रादुर्भावानन्तर-
भजनस्य तद्-धेतुनोक्ता तथेति । अतएवावतारान्तर-कथाया अपि तद्-
अभिनिवेश एव फलम् इत्य् आह --
हरेर् अद्भुत-वीर्यस्य कथा लोक-सुमङ्गलाः ।
कथयस्व महाभाग यथाहम् अखिलात्मनि ॥
कृष्णे निवेश्य निःसङ्गं मनस् त्यक्ष्ये कलेवरम् । [भ्प् 2.8.3-4] इति ।
हरेस् तद्-अवतार-रूपस्य । अखिलात्मनि सर्वांशिनि कृष्णे श्रीमद्-अर्जुन-
सखे ॥
॥ 2.8 ॥ राजा

6.335

(पगे 174)
[326]
तथा श्रीमद्-उद्धव-संवादान्ते च यथा । तत्र यद्यपि पूर्वाध्याय-
समाप्तौ उक्ताया ज्ञान-योग-चर्याया भक्ति-सह-भावेनैव स्वफल-
जनकत्वं श्री-भगवतोक्तं तथापि तां ज्ञान-योग-चर्याम् अंशतोऽप्य्
अनङ्गीकुर्वता परमैकान्तिना श्रीमद्-उद्धवेन -
सु-दुस्तराम् इमां मन्ये योग-चर्याम् अनात्मनः ।
यथाञ्जसा पुमान् सिध्येत् तन् मे ब्रूह्य् अञ्जसाच्युत ॥
प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः ।
विषीदन्त्य् असमाधानान् मनो-निग्रह-कर्शिताः ॥ [भ्प् 11.29.1-2] इति ।
अत्र स्व-वाक्ये तस्या दुष्करत्वेन प्रायः फल-पर्यवसायित्वाभावेन
चोक्तत्वात् । शुश्रूष्यमाणाया भक्तेस् तु सुकरत्वेनावश्यक-फल-
पर्यवसायित्वेन चाभिप्रेतत्वात् । तद्-भक्तिर् एव कर्तव्येति स्वाभिप्रायो
दर्शितः । तद् एवं तां ज्ञान-योग-चर्याम् अनादृत्य भक्तिम् एवापि कुर्वाणास्
तव श्री-कृष्ण-रूपस्यैव भक्तिं तादृशास् तु ज्ञान-योगादि-फलानादरेणैव
कुर्वन्तीति पुनर् आह चतुर्भिः
अथात आनन्द-दुघं पदाम्बुजं
हंसाः श्रयेरन्न् अरविन्द-लोचन ।
सुखं नु विश्वेश्वर योग-कर्मभिस्
त्वन्-माययामी विहता न मानिनः ॥ [भ्प् 11.29.3]
यस्माद् एवं केचन विषीदन्ति - अथान्त अत एव ये हंसा सारासार-विवेक-
चतुराः ते तु समस्तानन्द-पूरकं पदाम्बुजम् एव तु निशिच्तं सुखं
यथा स्यात् तथा श्रयेरन् सेवन्ते । पदाम्बुजस्य सम्बन्धि-पदानुरक्तिः
साक्षाद् दृश्यमान-त्वदीय-पदाम्बुजाभिव्यञ्जनार्था । अमी च शुद्ध-
भक्ता योग-कर्माभिस् त्वन्-मायया च विहता कृत-भक्तानुष्ठानान्तराया
न भवन्ति । यतो न च मानिनस् ते मानिनोऽपि न भवन्ति । पुरुषार्थ-
साधने भगवतो निरुपाधि-दीन-जन-कृपाया एव साधकतमत्वं
मन्यन्ते न योगि-प्रभृतिवत् स्व-प्रयत्नस्येत्य् अर्थः ।
[327]
एवम्भूतस्य भक्तस्य ज्ञान-योगादीनां यत् फलं तन्-मात्रं न किन्त्व्
अन्यन् महद् एवेत्य् आह -
किं चित्रम् अच्युत तवैतद् अशेष-बन्धो
दासेष्व् अनन्य-शरणेषु यद् आत्म-सात्त्वम् ।
योऽरोचयत् सह मृगैः स्वयम् ईश्वराणां
श्रीमत्-किरीट-तट-पीडित-पाद-पीठः ॥ [भ्प् 11.29.4]
अशेष-बन्धो दासेष्व् अनन्य-शरणेषु, यद् वा अशेषाणाम् असुर-पर्यन्तानां
यो बन्धुर् मोक्षादि-दानैर् निरुपाधि-हित-कारी हे तथाभूत तवैतत् किं
चित्रं यद्-अनन्य-शरणेषु ज्ञान-योग-कर्माद्य्-अनुष्ठान-विमुखेषु
दासेषु शुद्ध-भक्तेषु बलि-प्रभृतिषु आत्म-सत्त्वं तेषां य आत्मा तद्-
अधीनत्वम् इत्य् अर्थः । तद् उक्तम् - न साधयति मां योगः [भ्प् 11.12.1] इत्य्
आदि । तस्य तव तथा-भूतेषु न जाति-गुणाद्य्-अपेक्षा चेत्य् अन्तरङ्ग-लीलायाम्
अपि दृश्यत इत्य् आह यः इति । सहेति सह-भावं सख्यम् इत्य् अर्थः । मृगैर्
वृन्दावन-चारिभिः । स्वयं तु कथम्भूतोऽपि ईश्वराणाम् इत्य् आदि-
लक्षणोऽपि । ईश्वराः श्री-शिव-ब्रह्मादयः । ज्ञान-योगादि-परम-फल-
रूपाणि या मुक्तिस् तां दैत्येभ्यो ददासि । पाण्डवादि-सख्य-दौत्य-
वीरासनादि-स्थितिवद् दासानां तु स्वयम् अधीनो भवसि । अतएवम्भूतस्य
श्री-कृष्णस्यैव तव भक्तिर् मुख्येति भावः ।
[328]
फलितम् आह --(पगे 175)
तं त्वाखिलात्म-दयितेश्वरम् आश्रितानां
सर्वार्थ-दं स्व-कृत-विद् विसृजेत को नु ।
को वा भजेत् किम् अपि विस्मृतयेऽनु भूत्यै
किं वा भवेन् न तव पाद-रजो-जुषां नः ॥ [भ्प् 11.29.5]
तम् एवम्भूतं त्वां स्व-कृत-वित् प्रसन्न-वदनाम्भोजं पद्म-
गर्भारुणेक्षणम् [भ्प् 7.28.13] इत्य् आदि-श्री-कपिल-देवोपदेशतः स्व-
सौन्दर्यादि-स्फूर्ति-लक्षणं स्वस्मिन् कृतं त्वदीयोपकारं यो वेत्ति स को नु
विसृजेत् तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते [भ्प् 7.28.34] इति तद्-
उपदिषीओआधिकारि-विशेषवत् परित्यज्यते ? न कोऽपीत्य् अर्थः । तस्माद् यस्
त्यजति स कृतघ्न एवेति भावः । कथम्भूतं त्वाम् ? स्वरूपत
एवाखिलानाम् आत्मना दयितं प्राण-कोटि-प्रेष्ठम् ईश्वरं चेत्य् आदि । तथा
नु वितर्के, त्वद्-व्यतिरिक्तं किम् अपि देवतान्तरं धर्म-ज्ञानादि-साधनं
भूत्यै ऐश्वर्याय संसारस्य विस्मृतये मोक्षाय वा को भजेत । न कोऽपीत्य्
अर्थः । अस्माकं तु तत् तत् फलम् अपि त्व-भक्तेर् एवान्तर्भूतम् इत्य् आह किं
चेति । वाशब्देन तत्राप्य् अनादरः सूचितः । तद् उक्तं यत् कर्मभिर् यत् तपसा
[भ्प् 11.20.32] इत्य् आदि ।
नैवोपयन्त्य् अपचितिं कवयस् तवेश
ब्रह्मायुषापि कृतम् ऋद्ध-मुदः स्मरन्तः ।
योऽन्तर् बहिस् तनु-भृताम् अशुभं विधुन्वन्न्
आचार्य-चैत्त्य-वपुषा स्व-गतिं व्यनक्ति ॥ [भ्प् 11.29.6]
हे ईश ! कवयः सर्वज्ञाः ब्रह्म-तुल्यायुषोऽपि तत्-काल-पर्यन्तं
भजन्तोऽपीत्य् अर्थः । तव कृतम् उपकारम् ऋद्ध-मुद उपचित-त्वद्-भक्ति-
परमानन्दाः सन्तः स्मरन्तोऽपचितिं प्रत्युपकारम् आनृण्यम् इति यावत् ।
तां न उपयन्ति पश्यन्ति । तस्मान् न विसृजेद् इत्य् उक्तम् । कृतम् आह - यो
भवान् तनु-भृतां त्वत्-कृपा-भाजनत्वेन केषांचित् सकल-तनु-धारिणां
बहिर् आचार्य-वपुषा गुरु-रूपेण, अन्तश् चैत्त्य-वपुषा चित्त-स्फुरित-
ध्येयाकारेणाशुभं त्वद्-भक्ति-प्रतियोगि सर्वं विधुन्वन् स्व-गतिं
स्वानुभवं व्यनक्ति इति ।
॥ 11.29 ॥ श्रीमद्-उद्धवः ॥ 326-329 ॥
[330]
तथैव स्व-भक्तेर् अतिशयित्वं श्री-भगवान् अपि तद्-अनन्तरम् उवाच । तत्र
च तादृशान् प्रति शुद्धां स्व-भक्तिं हन्त ते कथयिष्यामि [भ्प् 11.29.8] इत्य्
आदि-चतुर्भिर् उक्त्वाप्य् एतादृशान् प्रति च करुणया स्व-भजन-
प्रवर्तनार्थम् अन्यद्-विचारितवान् चतुर्भिः । यतः प्रायशो लोकाः
स्पर्धादि-पराः कथञ्चिद् अन्तर्मुखत्वेऽपि सर्वान्तर्यामि-रूप-त्वद्-
भजन-मात्र-ज्ञानिन इत्य् आलोच्य कृपया तेषां स्पर्धादीन् झटिति
दूरीकर्तुं स्वस्मिन्न् एवान्तर्-मुखी-कर्तुं च विष्टभ्याहम् इदं कृत्स्नम्
एकांशेन स्थितो जगत् [गीता 10.42] इत्य् आद्य्-उक्त-तद्-अन्तर्यामि-रूप-स्वांशस्य
भजन-स्थाने स्व-भजनम् उपदिष्टवान् । यथा --
माम् एव सर्व-भूतेषु बहिर् अन्तर् अपावृतम् ।
ईक्षेतात्मनि चात्मानं यथा खम् अमलाशयः ॥ [भ्प् 11.29.12]
टीका च - अन्तरङ्गां भक्तिम् आह माम् इति त्रिभिः । सर्व-भूतेष्व् आत्मनि
चात्मानम् ईश्वर-स्थितं माम् एव ईक्षेत इत्य् एषा । (पगे 176)
कथम्भूतम् ईश्वरम् ? बहिर् अन्तः पूर्णम् इत्य् अर्थः । तत् कुतः ?
अपावृतम् अनावरणम् । तद् अपि कुतः ? यथा खम् अनङ्गत्वाद् विभुत्वाच्
चेत्य् अर्थः । अत्र माम् एवेति श्री-कृष्ण-रूपम् एवेक्षत, न तु
केवलान्तर्यामि-रूपम् इत्य् अभिप्रायेणैवान्तरङ्गां भक्तिम् आहेति
व्याख्यातम् ।
[331]
ततश् च -
इति सर्वाणि भूतानि मद्-भावेन महा-द्युते ।
सभाजयन् मन्यमानो ज्ञानं केवलम् आश्रितः ॥
ब्राह्मणे पुक्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके ।
अक्रूरे क्रूरके चैव सम-दृक् पण्डितो मतः ॥ [भ्प् 11.29.13-14]
केवलं ज्ञानम् अन्तर्यामि-दृष्टिम् आश्रितोऽपीति पूर्वोक्त-प्रकारेण सर्वाणि
भूतानि मद्-भावेन तेषु मम श्री-कृष्ण-रूपस्य यो भावोऽस्तित्वं तद्-

विशिष्टतया मन्यमानः सभाजयन् पण्डितो मतः । मद्-दृष्ट्या
ब्राह्मणादिषु सम-दृक् समं माम् एव पश्यतीति ।
[332]
ततश् च नरेष्व् अभीक्ष्णम् [भ्प् 11.29.15] इत्य् आदिना तादृश-स्वोपासना-
विशेषस्य झटिति स्पर्धादि-क्सय-लक्षणं फलम् उक्त्वा विसृज्य [भ्प्
11.29.16] इत्यादिना तथा-दृष्ट-साधनं सर्व-नमस्कारम् उपदिश्य यावत्
[भ्प् 11.29.17] इत्य् आदिना तादृशोपासनाया अवधिं च सर्वत्र स्वतः स्व-
स्फूर्तिम् उक्त्वा सर्वं [भ्प् 11.29.18] इत्य् आदिना --
नव्यवद् धृदये यज् ज्ञो ब्रह्मैतद् ब्रह्म-वादिभिः ।
न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ [भ्प् 4.30.20]
इति प्रचेतसः प्रति श्री-भगवद्-वाक्ये तट्-टीकायां च तस्य भगवतः
प्रतिपद-नव्य-स्फूर्तिर् एव ब्रह्मेतीति यद् उक्तं तद् एव तत् फलम् इत्य्
उक्त्वा, यद् वा कथम् अन्यावतारस्य ब्रह्मता भवतीति गोपाल-तापनी-
प्रसिद्ध-ब्रह्मेत्य्-अभिधान-नराकृति-पर-ब्रह्म-रूप-स्फूर्तिस् तत्-
फलम् इत्य् उक्त्वा तेनैव तादृशोपासनां सर्वोर्ध्वम् अपि प्रशंसति -
अयं हि सर्व-कल्पानां सध्रीचीनो मतो मम ।
मद्-भावः सर्व-भूतेषु मनो-वाक्-काय-वृत्तिभिः ॥ [भ्प् 11.29.19]
सर्व-कल्पानां सर्वोपायानां सध्रीचीनः समीचीनः । मद्-भावो मम
श्री-कृष्ण-रूपस्य भावना ।
[333]
एतच् च श्री-कृष्ण-भजनस्यान्तर्यामि-भजनाद् अप्य् आधिक्यं श्री-
गीतोपसंहारानुसारेणैवोक्तम् --
ईश्वरः सर्व-भूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥
तम् एव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥
इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया ।
विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु ॥
पगे 177)
सर्व-गुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥
मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु ।
माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥
सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज ।
अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता 18.61-66] इति ।
अत्र च गुह्यं पूर्वाध्यायोक्तं ज्ञानम् । गुयतरम् अन्तर्यामि-ज्ञानम् ।
सर्व-गुह्यतमं तन्-मनस्त्वादि-लक्षणं तद्-एक-शरणत्व-लक्षणं च
तद्-उपासनम् इति समानम् । एवं श्री-गीतास्व् एव नवमाध्यायेऽपि --
इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे ।
ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ [गीता 9.1]
राज-विद्या राज-गुह्यम् [गीता 9.2] इत्य् आदिना वक्ष्यमानार्थं प्रशस्य श्री-
कृष्ण-रूप-स्व-भजन-श्रद्धा-हीनान् निन्दंस् तच्-छ्रद्धावतः
प्रशस्तवान् स्वयम् एव । यथा -
अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् ।
परं भावम् अजानन्तो मम भूत-महेश्वरम् ॥
मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः ।
राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥
महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः ।
भजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम् ॥ [गीता 9.11-13] इति ।
माम् एव अनादरेण मानुषीं तनुम् आश्रितं जानन्तीत्य् अर्थः । तस्मात्
सर्वान्तर्यामि-भजनाद् अप्य् उत्तमत्वेन तद्-अनन्तरं च सर्व-गुह्यतमम्
इत्य् अत्र सर्व-ग्रहणात् सर्वत उत्तमत्वेन श्री-कृष्ण-भजने सिद्धे तद्-
अवतारान्तर-भजनात् सुतराम् एवोत्तमता सिध्यति । अथ ताम् एव
कैमुत्येनाप्य् आह --
यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् ।
तद्-आयासो निरर्थः स्याद् भयादेर् इव सत्तम ॥ [भ्प् 11.29.21]
मयि मद्-अर्पितत्वेन कृतो यो योउ धर्मो वेद-विहितः स स यदि निष्फलाय
फलाभावाय कल्प्यते फल-कामनया नार्प्यत इत्य् अर्थः । तदा तत्र
तत्रायासः श्रान्तिर् अनिरर्थः स्याद् व्यर्थो न भवति । निष्फलायेति विशेषणं
फल-भोगादि-रूप-तद्-भक्त्य्-अन्तरायाभावेनानिरर्थतातिशय-तात्पर्यम् ।
तत्रानिरर्थत्वे कैमुत्येन श्री-कृष्ण-लक्षणस्य स्वस्यासाधारण-
भजनीयता-व्यञ्जको दृष्टान्तो भयादेर् इवेति । यथा कंसादौ मत्-
सम्बन्ध-मात्रेण भयादेर् अप्य् आयासो निरर्थो न भवति मोक्ष-
सम्पादकत्वाद् इत्य् अर्थः ।
[334]
अथ श्रीमद्-उद्धववत् श्री-कृष्णैकानुगतानां साधनत्वे साध्यत्वे च
स्वयं श्री-कृष्ण-रूप एव परमोपादेय इत्य् आह -- (पगे 178)
ज्ञाने कर्मणि योगे च वार्तायां दण्ड-धारणे
यावान् अर्थो नृणां तात तावांस् तेऽहं चतुर्-विधः ॥ [भ्प् 11.29.33]
ज्ञानादौ यावान् धर्मादि-लक्षणश् चतुर्विधोऽर्थस् तावान् सर्वोऽप्य् अहम्
एव । तत्र ज्ञाने मोक्षः । कर्मणि धर्मः कामश् च । योगे नाना-विध-
सिद्धि-लक्षणो लौकिको वार्तायां दण्ड-धारणे च नाना-विध-लौकिकश्
चार्थ इति चतुर्विधत्वं ज्ञेयम् ।
॥ 11.29 ॥ श्री-भगवान् ॥ 330-334 ॥
[335]
पुनर् एवम् एव श्रीमद्-उद्धवोऽपि प्रार्थितवान् -
नमोऽस्तु ते महा-योगिन् प्रपन्नम् अनुशाधि माम्
यथा त्वच्-चरणाम्भोजे रतिः स्याद् अनपायिनी ॥ [भ्प् 11.29.40]
टीका च - एवं यद्यपि त्वया बहु कृतं तथाप्य् एतावत् प्रार्थय इत्य् आह
नमोऽस्त्व् इति । अनुशाधि अनुशिक्षय । अनुशासनीयत्वम् एवाह यथेति । मुक्ताव्
अप्य् अनपायिनी इत्य् एषा ।
॥ 11.29 ॥ श्रीमान् उद्धवः

6.336

[336]
अतएवान्यत्राय् अभिप्रायाय -
यथा त्वाम् अरविन्दाक्ष यादृशं वा यद्-आत्मकम् ।
ध्यायेन् मुमुक्षुर् एतन् मे ध्यानं त्वं वक्तुम् अर्हसि ॥ [भ्प् 11.14.31]
टीका च - मुमुक्षुस् त्वां यथा ध्यायेत् तन् मे वकुत्म् अर्हसि जिज्ञासोः
कथनाय मे । पुनर् एतत् त्वद्-दास्यम् एव पुरुषार्थः । न तु ध्यानेन
कृत्यम् अस्तीति । तद् उक्तम् त्वयोपभुक्त-स्रग्-गन्ध [भ्प् 11.6.31] इत्य्-आदि इत्य्
एषा ।
॥ 11.14 ॥ श्रीमान् उद्धवः

6.337

[337]
तस्य सर्वावतारावतारिष्व् अप्रकटितं परम-शुभ-स्वभावत्वं च
स्मृत्वाह --
अहो बकी यं स्तन-काल-कूटं
जिघांसयापाययद् अप्य् असाध्वी ।
लेभे गतिं धात्र्य्-उचितां ततोऽन्यं
कं वा दयालुं शरणं व्रजेम ॥ [भ्प् 3.2.23]
धात्र्या या उचिता गतिस् ताम् एव ॥
॥ 3.2 ॥ स एव

6.338

[338]
अथ गोकुलेऽपि श्रीमद्-व्रज-वधू-सहित-रासादि-लीलात्मकस्य परम-
वैशिष्ट्यम् आह -
विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः
श्रद्धान्वितो यः शृणुयाद् अथ वर्णयेद् वा ।
भक्तिं परां भगवति परिलभ्य कामं
हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ [भ्प् 10.33.39]
च-काराद् अन्यच् च । अथेति वाथ । शृणुयाद् वा वर्णयेद् वा । उपलक्षणं
चैतद् ध्यानादेः । परां यतः परा नान्या कुत्रचिद् विद्यते तादृशीम् । हृद्-
रोगं कामादिकम् अपि शीघ्रम् एव त्यजति । अत्र सामान्यतोऽपि परमत्व-
सिद्धेस् तत्रापि परम-श्रेष्ठ-श्री-राधा-संवलित-लीला-मय-तद्-भजनं
तु परमतमम् एवेति स्वतः सिध्यति । किन्तु रहस्य-लीला तु पौरुष-
विकारवद् इन्द्रियैः पितृ-पुत्र-दास-भावैश् च नोपास्या (पगे 179) स्वीय-
भाव-विरोधात् । रहस्यत्वं च तस्याः क्वचिद् अल्पांशेन क्वचित् तु
सर्वांशेनेति ज्ञेयम् ।
॥ 10.33 ॥ श्री-शुकः

6.339

[339]
तत्र ते भक्ति-मार्गाः दर्शिताः । अत्र च श्री-गुरोः श्री-भगवतो वा प्रसाद-
लब्धं साधन-साध्य-गतं स्वीय-सर्वस्व-भूतं यत् किम् अपि रहस्यं तत्
तु न कस्मैचित् प्रकाशनीयम् । यथाह -
नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन ।
सर्वं सम्पद्यते देवि देव-गुह्यं सुसंवृतम् ॥ [भ्प् 8.17.20]
सम्पद्यते फलदं भवति ।
॥ 8.17 ॥ श्री-विष्णुर् अदितिम्

6.340

[340]
तद् एवं साधनात्मिका भक्तिर् दर्शिता । तत्र सिद्धि-क्रमश् च श्री-
सूतोपदेशारम्भे शुश्रूषोः श्रद्दधानस्य [भ्प् 1.2.16] इत्य् आदिना दर्शितः ।
यथा च श्री-नारद-वाक्ये अहं पुरातीत-भवेऽभवम् [भ्प् 1.5.23] इत्य्
आदौ । यथा च श्री-कपिल-देव-वाक्ये सतां प्रसङ्गान् मम वीर्य-संविदः
[भ्प् 3.25.22] इत्य् आदौ । अत्र कैवल्य-कामायां भक्त्या पुमान् जात-विरागः
[भ्प् 3.25.23] इत्य् आदिना । शुद्धायां नैकात्मतां मे स्पृहयन्ति केचित् [भ्प्
3.25.31] इत्य् आदिना क्रमो ज्ञेयः । तथा शुद्धायाम् एव श्री-प्रह्लाद-कृत-
दैत्य-बालानुशासने गुरु-शुश्रूषया [भ्प् 7.7.25] इत्य् आदिना । तम् एवं
क्रमम् एव सङ्क्षिप्य स-दृष्टान्तम् आह --
भक्तिः परेशानुभवो विरक्तिर्
अन्यत्र चैष त्रिक एक-कालः ।
प्रपद्यमानस्य यथाश्नतः स्युस्
तुष्टिः पुष्टिः क्षुद्-अपायोऽनु-घासम् ॥
इत्य् अच्युताङ्घ्रिं भजतोऽनुवृत्त्या
भक्तिर् विरक्तिर् भगवत्-प्रबोधः ।
भवन्ति वै भागवतस्य राजंस्
ततः परां शान्तिम् उपैति साक्षात् ॥ [भ्प् 11.2.42-43]
टीका च - प्रपद्यमानस्य हरिं भजतः पुंसो भक्तिः प्रेम-लक्षणा
परेशानुभवः प्रेमास्पद-भगवद्-रूप-स्फूर्तिस् तया निर्वृतस्य
ततोऽन्यत्र गृहादिषु विरक्तिर् इत्य् एषा । त्रिक एक-कालो भजन-सम-काल एव
स्यात् । यथाश्नतो भुञ्जानस्य तुष्टिः सुखं पुष्टिर् उदर-भरणं क्ष्न्-
निवृत्तिश् च प्रतिग्रासं स्युः । उपलक्षणम् एतत् प्रतिसिक्थम् अपि यथा स्युस्
तद्वत् । एवम् एवैकस्मिन् भजने किञ्चित् प्रेमादि-त्रिके जायमान अनुवृत्त्या
भजतः परम-प्रेमादि जायते बहु-ग्रास-भोजिन इव परम-तुष्ट्य्-आदि ।
ततश् च भगवत्-प्रसादेन कृतार्थो भवतीत्य् आह - इत्य् अच्युताङ्घ्रिम् इत्य्
एषा ।
शान्तिं कृतार्थत्वम् । साक्षाद् अन्तर् बहिश् च प्रकटित-परम-
पुरुषार्थत्वाद् अव्यवधानेनैवेत्य् अर्थः । पूर्व-पद्य-भक्त्य्-आदीनां
तुष्ट्य्-आदयः क्रमेणैव दृष्टान्ता ज्ञेयाः । उत्तरत्राप्य् एतत्-क्रमेण
भक्ति-तुष्ट्योः सुखैक-रूपत्वात् पुष्ट्य्-अनुभवयोर् आत्म-भरणैक-
रूपत्वात् । क्षुद्-अपाय-विरक्त्योः शान्त्य्-एक-रूपत्वात् । यद्यपि
भुक्तवतोऽन्नेऽपि वैतृष्ण्यं जायते भगवद्-अनुभविनस् तु विषयान्तर एवेति
वैधर्म्यम् । तथापि वस्त्व्-अन्तर-वैतृष्ण्यांश एव दृष्टान्तो गम्यत इति ॥
॥ 11.2 ॥ श्री-कविर् निमिम्

मूल पाठ: Satsamdarbha with Baladevavidyābhūṣaṇa's Ṭippaṇī · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc