भाषा

ENहिગુ
ग्रंथ पाठ

Satsamdarbha · अध्याय 5

5.1

[120]
अथ तत्-पूर्वकं विदुषां भक्त्यैव साक्षाद् अनुभवतीयत्वम् आह त्रिभिः -
न पश्यति त्वां परमात्मनोऽजनो
न बुध्यतेऽद्यापि समाधि-युक्तिभिः ।
कुतोऽपरे तस्य मनः शरीर-धीर्
विसर्ग-सृष्टा वयम् अप्रकाशाः ॥ [भ्प् 9.8.21]
अपरे अर्वाचीनास् तु कुतस् त्वां पश्येयुर् बुध्येरन् अर्वाचीनत्वे हेतुः तस्य
ब्रह्मणः । मनश् च शरीरं च धीश् च सत्त्व-तमो-रजः-कार्याणि ताभिर्
विविधा ये देव-तिर्यङ्-नराणां सर्गास् तेषां सृष्टाः । तत्रापि वयम्
अप्रकाशाः अतो कुतः पश्येम इत्य् अर्थः ।
[121]
अपरे तर्हि किं पश्यन्ति तत्राह ।
ये देह-भाजस् त्रिगुण-प्रधाना
गुणान् विपश्यत्य् उत वा तमश् च ।
मन्-मायया मोहित-चेतसस् त्वां विदुः
स्व-संस्थं न बहिः प्रकाशाः ॥ [भ्प् 9.8.22]
ये देह-भाहस् ते स्वस्मिन् सम्यक्-स्थितम् अपि त्वां न विदुः । किन्तु गुणान्
एव विपश्यन्ति कदाचिच् च केवलं तम एव पश्यन्ति यतस् त्रिगुणा बुद्धिर् एव
प्रधानं येषां । बुद्धि-परतन्त्रतया जाग्रत्-स्वप्नयोर् विषयान् पश्यन्ति
सुषुप्तौ तु तम एव न तु स्वस्तुतो निर्गुणानां सर्वेषां आत्मारामाणाम्
आत्म-भूतं त्वाम् । सर्वत्र हेतुः ! यत् यतः मायया यस्य तव मायया वा
मोहितं चेतो येषां ते तथापि त्वं विचारेण ज्ञास्यसीति । यतो नास्मद्-
विधानां ज्ञान-गोचरस् त्वं किन्तु भक्तानाम् एवेत्य् आह ।
तं त्वाम् अहं ज्ञान-घनं स्वभाव-
प्रध्वस्त-माया-गुण-भेद-मोहैः ।
सनन्दनाद्यैर् हृदि संविभाव्यम्
कथं विमूढः परिभावयामि ॥[*एन्द्नोते #62] [भ्प् 9.8.23]
तं नानाश्चर्य-वृत्तिक-पर-शक्ति-निधानं त्वां कथं परिभावयामि । किं
स्वरूपं ज्ञान-घनं सत्य-ज्ञानानन्तानन्दैक-रस-मूर्तिं अतएव
अनिर्देश्य-वपुर् इति सहस्र-नाम-स्तवे । अयं भावः । ज्ञान-घनत्वान् न
तावत् ज्ञान-विषयस् त्वं विचार-विषयत्वेऽपि माया-गुणैर् अभिभूतोऽहं न
विचारे समर्थ इति ।
ननु तर्हि मम तथाविधत्वे किं प्रमाणं तत्राह । स्वेन त्वदीयेन
भावेन भक्त्या स्वस्यात्मनो स्वभावेनाविर्भावेनैव वा प्रध्वस्ता
माया-गुण-प्रकार-कृत-मोहा येभ्यस् तैः सनन्दनाद्यैर् भगवत्-तत्त्व-
विद्भिर् मुनिभिर् विभाव्यं विचार्यं साक्षाद् अनुभवईयं चेत्य् अर्थः ।
तस्माद् उलूकैः प्रकाश-गुणकत्वेनासम्मतेऽपि रवौ यथान्यैर्
उपलभ्यमान-तद्-गुणकत्वम् अस्त्य् एव तथार्वाग्-दृष्टिभिर्
असम्भाव्यमानम् अपि त्वयि तद्-गुणकत्वं तद्-भक्त-विद्वत्-प्रत्यक्ष-
सिद्धम् अस्त्य् एवेति भावः ।
तथा च श्रुतिः -
पराञ्चि खानि व्यतृणत् स्वयम्भू-
स्तस्मात्पराङ्पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्श-
दावृत्तचक्शुरमृतत्वमिच्छन् ॥ [कठौ 2.1.1]
भक्तिर् एवैनं नयति
भक्तिर् एवैनं दर्शयति ।
भक्ति-वशः पुरुषः
भक्तिर् एव भूयसी ॥ [माठर-श्रुति]
यम् एवैष वृणुते तेन लभ्यः
तस्यैष आत्मा विवृणुते तनूं स्वाम् [कठौ 1.2.23]
॥ 9.8 ॥ अंशुमान् श्री-कपिल-देवम् ॥ 120-121 ॥
विवृतौ ब्रह्म-भगवन्तौ ॥
इति श्री-कलि-युग-पावन-स्व-भजन-विभाजन-प्रयोजनावतार-श्री-श्री-
भगवत्-कृष्ण-चैतन्य-देव-चरणानुचर-विश्व-वैष्णव-राज-सभाजन-
भाजन-श्री-रूप-सनातनानुशासन-भारती-गर्भे श्री-भागवत-सन्दर्भे
भगवत्-सन्दर्भो नाम द्वितीयः सन्दर्भः ॥
[*एन्द्नोते #1] इत् इस् लुदिच्रोउस् तो चोन्सिदेर् थे मङ्गलाचरण वेर्सेस् अस्
सेपरतेल्य् नुम्बेरेद् सेच्तिओन्स्.
[*एन्द्नोते #2] fरोम् थिस्, इ wओउल्द् अस्सुमे थत् थिस् इस् नोत् मेअन्त् तो बे अ
सेपरते सेच्तिओन्, बुत् रेfएर्स् बच्क् तो थे प्रेविओउस् #8.
[*एन्द्नोते #3] थिस् परग्रफ् इस् तकेन् अस् अ सेपरते सेच्तिओन् नुम्बेर् 24 इन्
थे यदव्पुर् एदितिओन्, बुत् थिस् दोएस्न्ऽत् सेएम् तो बे नेचेस्सर्य्.
[*एन्द्नोते #4] नोत् fओउन्द् इन् महोपनिषद्.
[*एन्द्नोते #5] सेए सेच्तिओन् 30.
[*एन्द्नोते #6] थे वेर्से थत् fओल्लोwस् थिस् इन् ल्भाग्: द्वारवत्यां यथा
कृष्णः प्रत्यक्षं प्रति मन्दिरम् । चित्रं बतैतद् इत्यादि-प्रमाणेन स
सेत्स्यति ॥
[*एन्द्नोते #7] सेए qउओते fरोम् कालिका-पुराण इन् सेच्तिओन् 26 अबोवे.
[*एन्द्नोते #8] थे मेत्रे ओन् थिस् वेर्से इस् इन्चोर्रेच्त्, मिxएद् जगती अन्द्
त्रिष्टुभ्. थे सेचोन्द् लिने अप्पेअर्स् तो बे मिस्सिन्ग् अ स्य्ल्लब्ले. इत् इस् प्रोबब्ल्य् fरोम्
पद्मप्, उत्तरखण्ड.
[*एन्द्नोते #9] सो wहेरे दोएस् थिस् रेfएरेन्चे चोमे fरोम्? भ्प् 12.12.69? थिस्
इस् fइर्स्त् मेन्तिओन् हेरे.
[*एन्द्नोते #10] थिस् इस् थे गित प्रेस्स् रेअदिन्ग्. ग्प् अल्सो हस् प्रमाणानि नोत्
प्रमाणानाम्.
[*एन्द्नोते #11] इन् सेच्तिओन् 21 अबोवे.
[*एन्द्नोते #12] त्वम् अस्य लोकस्य विभो रिरक्षिषुर् गृहेऽवतीर्णोऽसि
ममाखिलेश्वरः ।
राजन्य-संज्ञासुर-कोटि-यूथपैर् निर्व्यूह्यमाना निहनिष्यसे चमूः ॥
[*एन्द्नोते #13] हन्तृ-जीववद्-
[*एन्द्नोते #14] कर्तरीय-
[*एन्द्नोते #15] रूपं यत् तत् प्राहुर् अव्यक्तम् आद्यं
ब्रह्म ज्योतिर् निर्गुणं निर्विकारम् ।
सत्ता-मात्रं निर्विशेषं निरीहं
स त्वं साक्षाद् विष्णुर् अध्यात्म-दीपः ॥
[*एन्द्नोते #16] qउओतेद् fरोम् नारायणाध्यात्म इन् सेच्तिओन् 47 अबोवे.
[*एन्द्नोते #17] दिस्चुस्सेद् अबोवे इन् सेच्तिओन् 8.
[*एन्द्नोते #18] यतो
[*एन्द्नोते #19] थे भगवत् सन्दर्भ रेअदिन्ग् wअस् परीत्य लोकान्
कर्म-चितान्... नात्यकृतः.
[*एन्द्नोते #20] मुण्डकौ 2.2.7: दिव्ये ब्रह्म-पुरे ह्य् एष व्योम्न्य् आत्मा
प्रतिष्ठितः ॥
[*एन्द्नोते #21] तद् वा एतत् परमं धाम मन्त्रराजाध्यापकस्य यत्र
न सूर्यस् तपति यत्र न वायुर् वाति यत्र न चन्द्रमा भाति यत्र न
नक्षत्राणि भान्ति यत्र नाग्निर् दहति यत्र न मृत्युः प्रविशति यत्र न
दुःखं सदानन्दं परमानन्दं शान्तं शाश्वतं सदा-शिवं ब्रह्मादि-
वन्दितं योगि-ध्येयं परमं पदं यत्र गत्वा न निवर्तन्ते योगिनः ॥
[*एन्द्नोते #22] न्तु 5.10 qउओतेद् अबोवे.
[*एन्द्नोते #23] थिस् सेच्तिओन् इस् fउल्ल् ओf qउओतेस् fरोम् स्रुति थत् स्होउल्द् बे
पोइन्तेद् ओउत्. थे सेच्तिओन् इस् अल्सो qउओतेद् इन् ल्भाग् 1.5.247-250.
[*एन्द्नोते #24] अल्तेर्नतिवे नुम्बेरिन्ग् गिवेन् अस् 6.255.56-64
[*एन्द्नोते #25] अल्त्. अत्रोपसृष्टम्. सेए 3.15.42 अबोवे.
[*एन्द्नोते #26] वरिअन्त् - सनन्दनाद्यैर् मुनिभिर् विभाव्यम्.
[*एन्द्नोते #27] इ चोउल्द्न्ऽत् fइन्द् थिस् वेर्से इन् थे विप्.
[*एन्द्नोते #28] थिस् वेर्से हस् अल्रेअद्य् बेएन् रेfएरेद् तो इन् सेच्तिओन्स् 48 अन्द् 56.
थे चोम्प्लेते वेर्से इस्:
रूपं यत् तत् प्राहुर् अव्यक्तम् आद्यं ब्रह्म-ज्योतिर् निर्गुणं निर्विकारम् ।
सत्ता-मात्रं निर्विशेषं निरीहं स त्वं साक्षाद् विष्णुर् अध्यात्म-दीपः ॥
[*एन्द्नोते #29] पदं इन् ओरिगिनल् ह्व्. थेसे वेर्सेस् अरे 104.9-13 इन् थे
च्रितिचल् एदितिओन्.
[*एन्द्नोते #30] माम् एव इन् ओरिगिनल् ह्व्.
[*एन्द्नोते #31] qउओतेद् अबोवे इन् सेच्तिओन् 51.
[*एन्द्नोते #32] थे भग्स् रेअद्स् सर्वगस्य तथात्मा, wहिछ् इस् ओब्विओउस्ल्य्
wरोन्ग्.
[*एन्द्नोते #33] थे विप् रेअदिन्ग् इस् समस्त-शक्ति-रूपाणि तत् करोति
जनेश्वर । देव-तिर्यङ्-मनुष्यादि-चेष्टावन्ति स्वलीलया ॥
[*एन्द्नोते #34] थिस् वेर्से इस् अल्सो चितेद् इन् सेच्तिओन्स् 48 अन्द् 107.

[*एन्द्नोते #35] सेच्तिओन् 18 अबोवे.
[*एन्द्नोते #36] इ चन्ऽत् fइन्द् थे सोउर्चे ओf थिस् अन्द् थे प्रेविओउस् वेर्से. थे
रेअदिन्ग् सेएम्स् तो बे चोर्रुप्त् - क्वाचिदजयत्त्मना...
[*एन्द्नोते #37] qउओतेद् अबोवे इन् 4.10.
[*एन्द्नोते #38] थिस् फ्रसे इस् fओउन्द् इन् मन्य् प्लचेस् इस् थे बृहद्-आरण्यक
उपनिषद्.
[*एन्द्नोते #39] देहान्ते देवः परमं ब्रह्म तारकं व्याचष्टे । थे
भग्स् तेxत् हस् तारकः fओर् तावकम्.
[*एन्द्नोते #40] qउओतेद् अबोवे इन् सेच्तिओन् 94.
[*एन्द्नोते #41] सेच्तिओन्स् 4 अन्द् 95 अबोवे.
[*एन्द्नोते #42] थिस् एन्तिरे सेच्तिओन् एन्दिन्ग् wइथ् स्पर्शाभावाद्
विशुद्धत्वम् इस् fओउन्द् इन् राधा-कृष्णीअर्चन-दीपिका, पगेस् 10-11.
[*एन्द्नोते #43] नोत् qउइते सुरे wहेरे श्रीधर स्वामीऽस् चोम्मेन्तर्य् एन्द्स्.
[*एन्द्नोते #44] बोथ् वेर्सेस् qउओतेद् अबोवे इन् सेच्तिओन् 8. थिस् wहोले सेच्तिओन्
इस् fओउन्द् थेरे, wओर्द्-fओर् wओर्द्. थिस् इस् प्रोबब्ल्य् अन् एर्रोर्, सुर्प्रिसिन्ग्ल्य् नोत् चल्लेद्
इन्तो qउएस्तिओन् ब्य् थे जदव्पुर् एदितोर्. अनोथेर् म्स् इस् नेएदेद् fओर् चोम्परिसोन्.
[*एन्द्नोते #45] थिस् wओर्द् इस् नोत् इन् थे व्याख्या गिवेन् इन् सेच्तिओन् 7, wहिछ्
ओथेर्wइसे fओल्लोwस् wओर्द्-fओर्-wओर्द् उन्तिल् ??. थिस् इस् प्रोबब्ल्य् अन् एर्रोर्,
सुर्प्रिसिन्ग्ल्य् नोत् चल्लेद् इन्तो qउएस्तिओन् ब्य् थे जदव्पुर् एदितोर्. अनोथेर् म्स् इस्
नेएदेद् fओर् चोम्परिसोन्.
[*एन्द्नोते #46] थे सेच्तिओन् बेत्wएएन् सुपेर्स्च्रिप्त् अऽस् इस् नोत् इन् थे एअर्लिएर्
व्याख्या ओf थेसे वेर्सेस्, बुत् ओब्विओउस्ल्य् बेलोन्ग्स् अन्द् इस् लिकेल्य् इन् थे ओरिगिनल्
वेर्सिओन्. थे समे गोएस् fओर् ओथेर् फ्रसेस् इन् बेत्wएएन् सुपेर्स्च्रिप्तेद् लेत्तेर्स् इन् थे
पस्सगे बेलोw.
[*एन्द्नोते #47] अतः
[*एन्द्नोते #48] मिश्रस्यापि
[*एन्द्नोते #49] निर्देशोभयम्
[*एन्द्नोते #50] ए. नोत् इन् थे सेच्तिओन् 117 वेर्सिओन्.
[*एन्द्नोते #51] f. नोत् इन् थे सेच्तिओन् 117 वेर्सिओन्.
[*एन्द्नोते #52] नोत् इन् थे सेच्तिओन् 8 वेर्सिओन्.
[*एन्द्नोते #53] नोत् इन् थे सेच्तिओन् 8 वेर्सिओन्.
[*एन्द्नोते #54] नोत् इन् 117.
[*एन्द्नोते #55] इन् सेच्तिओन् 117 तमः
[*एन्द्नोते #56] नोत् इन् सेच्तिओन् 8.
[*एन्द्नोते #57] थिस् सेएम्स् तो बे थे एन्द् ओf थे चोम्मोन् मतेरिअल्.
[*एन्द्नोते #58] थिस् अप्पेअर्स् तो बे एविदेन्चे थत् 8 इस् थे ओरिगिनल् सोउर्चे ओf
थे मतेरिअल्, नोत् 117. तो बे fओल्लोwएद्.
[*एन्द्नोते #59] क्. थिस् सेच्तिओन् चन् बे fओउन्द् इन् र्कद् 12-13.
[*एन्द्नोते #60] क्. थिस् सेच्तिओन् इस् fओउन्द् इन् र्कद् 13-14.
[*एन्द्नोते #61] मुहूर्तादि इन् थे विप् वेर्सिओन्. थेरे इस् अनोथेर् वेर्से थत्
बेगिन्स् थिस् wअय् अत् 3.5.18.
[*एन्द्नोते #62] दिस्चुस्सेद् अबोवे इन् सेच्तिओन् 85.
षट्-सन्दर्भ-नामक-श्री-भागवत-सन्दर्भे तृतीयः
परमात्म-सन्दर्भः
तौ सन्तोषयता सन्तौ श्रील-रूप-सनातनौ ।
दाक्षिणात्येन भट्टेन प्नुअर् एतद् विविच्यते ॥इ॥
तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥इइ॥
[1]
अथ परमात्मा विव्रियते । अत्र तं जगद्-गत-जीव-निरूपण-पूर्वकं
निरूपयति द्वाभ्याम् -
क्षेत्रज्ञ एता मनसो विभूतीर्
जीवस्य माया-रचितस्य नित्याः ।
आविर्हिताः क्वापि तिरोहिताश् च
शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः ॥ [भ्प् 5.11.12]
क्षेत्रज्ञ आत्मा पुरुषः पुराणः
साक्षात् स्वयं ज्योतिर् अजः परेशः ।
नारायणो भगवान् वासुदेवः
स्व-माययात्मन्य् अवधीयमानः ॥ [भ्प् 5.11.13]
यः शुद्धोऽपि मायातः परोऽपि माया-रचितस्य वक्ष्यमाणस्य सर्व-
क्षेत्रस्य मायया कल्पितस्य मनसोऽन्तः-करणस्यैताः विभूतीर् वृत्तीर्
विचष्टे विशेषेण पश्यति, पश्यंस् तत्राविष्टो भवति, स खल्व् असौ जीव-नामा
स्व-शरीर-द्वय-लक्षण-क्षेत्रस्य ज्ञातृत्वात् क्षेत्रज्ञ उच्यते इत्य् अर्थः ।
तद् उक्तम् -
यया संमोहितो जीवो
आत्मानं त्रिगुणात्मकं
परोऽपि मनुतेऽनर्थं
तत्-कृतं चाभिपद्यते ॥ [भ्प् 1.7.5] इति ।
तस्य मनसः कीदृशतया माया-रचितस्य तत्राह - जीवध्य जीवोपाधितया
जीव-तादात्म्येन रचितस्य । ततश् च तत् तयोपचर्यमाणस्येत्य् अर्थः । ततश्
च कीदृशस्य, अविशुद्धं भगवद्-बहिर्मुखं कर्म करोतीति तादृशस्य ।
कीदृशीर् विभूतीर् नित्या अनादित एवानुगताः ।
अत्र स कदा कीदृशीर् इत्य् अपेक्षायाम् आह - जाग्रत् स्वप्नयोर् आविर्भूताः
सुषुप्तौ तिरोहिताश् चेति । यस् तु पुराणो जगत्-कारण-भूतः पुरुषः
आद्योऽवतारः पुरुषः परस्येत्य् आदि [भ्प् 2.6.41] द्वितीयादौ प्रसिद्धः ।
साक्षाद् एव स्वयं ज्योतिः स्वप्रकाशो तनु जीववद् अन्यापेक्षया । अजो
जन्मादि-शून्यः । परेषां ब्रह्मादीनां अपीशः । नारं जीव-समूहः
स्वनियम्यत्वेनायनं यस्य सः । भगवान् ऐश्वर्याद्य्-अंशत्वात् । वासुदेवः
सर्व-भूतानाम् आश्रयः । स्व-मायया स्व-स्वरूप-शक्त्या आत्मनि स्व-
स्वरूपे अवधीयमानः अवस्थाप्य-मानः । कर्म-कर्तृ-प्रयोगः ।
मायायां मयिकेऽप्य् अन्तर्यामितया प्रविष्टोऽपि स्वरूप-शक्त्या स्वरूपस्य एव
न तु तत्-संसक्त इत्य् अर्थः । वासुदेवत्वेन सर्व-क्षेत्र-ज्ञातृत्वात् सोऽपरः ।
माया-मोहितात् जीवाद् अन्यः माया-रहितः शुद्धः । क्षेत्रज्ञः आत्मा
परमात्मेति ।
तद् एवम् अपि मुख्यं क्षेत्रज्ञत्वं परमात्मन्य् एव । तद् उक्तम् -
सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो
न वेद सर्वज्ञम् अनन्तम् ईडे इति [भ्प् 6.4.25] ।
श्री-गीतोपनिषत्सु -
इदं शरीरं कौन्तेय क्षेत्रम् इत्य् अभिधीयते ।
एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ [गीता 13.1]
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर् ज्ञानं यत् तज् ज्ञानं मतं मम ॥ [गीता 13.1]
अत्र खलु क्षेत्रज्ञं चापि मां विद्धीति सर्वेष्व् अपि क्षेत्रेषु मां च
क्षेत्रज्ञं विद्धि, न तु जीवम् इव स्वक्षेत्र एव इत्य् एवार्थं वहति । न च
जीवेशयोः समानाधिकरण्येन निर्विशेष-चिद्-वस्त्व् एव ज्ञेयतया निर्दिशति ।
सर्व-क्षेत्रेष्व् इत्य् अस्य विअयर्थ्यापत्तेः । ज्ञेयं यत् तत् प्रवक्ष्यामीत्य् आदौ
सर्वतः पाणि-पादं तद् सर्वतोऽक्षि-शिरो-मुखम् इत्य् [गीता 13.13] आदिना
सविशेषस्यैव निर्देक्ष्यमाणत्वात् । अमानित्वम् इत्य् आदिना ज्ञानस्य च
तथौपदेक्ष्यमाणत्वात् ।
किं च क्षेत्रज्ञं चापीत्य् अत्र त्त्वम् असीतिवत् सामानाधिकरण्येन तन्-
निर्विशेष-ज्ञाने विवक्षिते क्षेत्रज्ञेश्वरयोर् ज्ञानम् इत्य् एवनानूद्येत न तु
क्षेत्र-क्षेत्रज्ञयोत् ज्ञानम् इति । किन्तु क्षेत्र-क्षेत्रज्ञयोर् इत्य् अस्यायम् अर्थः ।
द्विव्दिहयोर् अपि क्षेत्र-क्षेत्रज्ञयोर् ज्ञानं तन् ममैव ज्ञानं मतम् ।
अन्यार्थस् तु परामर्श इति न्यायेन यज्-ज्ञानैकतात्-पर्यकम् इत्य् अर्थः ।
ज्ञेयस्यैकत्वेनैव निर्दिष्टत्वात् योग्यत्वाच् च । न च निरीश्वर-साङ्ख्यवत्
क्षेत्र-क्षेत्रज्ञ-मात्र-विभागाद् अत्र ज्ञानं मतं ममेत्य्
अनेनेश्वरस्यावेक्षितत्वात् । न च विवर्त-वादवद् ईश्वरस्यापि भ्रम-मात्र-
प्रतीत-पुरुषत्वम् । तद्-वचन-लक्षण-सवेद-गीतादि-शास्त्राणाम्
अप्रामाण्याद् बौद्ध-वादापत्तेः । तस्यां च सत्यां बौद्धानाम् इव विवर्त-
वादिनां तद्-व्याख्यानायुक्तेः । न च तस्य सत्य-पुरुषत्वेऽपि निर्विशेष-
ज्ञानम् एव मोक्ष-साधनम् इति तदीय-शास्त्रान्तरतः समाहार्यम् ।

एवं सतत-युक्ता ये [12.1] इत्य् आदि पूर्वाध्याये निर्विशेष-ज्ञानस्य हेयत्वेन
विवक्षितत्वात् । तत्रैव च ये तु सर्वाणि कर्माणि इत्य् [12.6] आदिनानन्य-भक्तान्
उद्दिश्य तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागराद् इत्य् [12.7] अनेन तज्
ज्ञानापेक्षापि नादृतेति । तद् उक्तम् एकादशे स्वयं भगवता - यत् कर्मभिर्
यत् तपसेत्य् आदि [भ्प् 11.20.32] । मोक्ष-धर्मे च -
य वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये ।
तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इति ।
अत्र तु पूर्वाध्याय-विश्लाघितं तद् एवावृथाकर्तुं सविशेषतया निर्दिश्य
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः
मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते ॥ [गीता 13.18]
इत्य् अन्तेन भक्ति-संवलिततया सुकरार्थ-प्रायं कृतम् । अतएवात्र व्यष्टि-
क्षेत्रज्ञ एव भक्तत्वेन निर्दिष्टः समष्टि-क्षेत्रज्ञस् तु ज्ञेयत्वेनेति
क्षेत्र-ज्ञानाभ्यां सह ज्ञेयस्य पाठाद् अनुस्मार्य तद्-अनन्तरं च तस्य
तस्य च जीवत्वम् ईश्वरत्वं च क्षरं नेति दर्शितम् । यतः -
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृति-जान् गुणान् ।
कारणं गुण-सङ्गोऽस्य सद्-असद्-योनि-जन्मसु ॥ [गीता 13.21]
इति जीवस्य प्रकृतिस्थत्वं निर्दिश्य स्वतस् तस्याप्राकृतत्व-दर्शनया स्फुटम्
एवाक्षरत्वं ज्ञापितम् ।
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः
परमात्मेति चाप्य् उक्तो देहे ऽस्मिन् पुरुषः परः ॥ [गीता 13.22]
इति जीवात् परत्वेन निर्दिष्टस्य परमात्माख्य-पुरुषस्य तु कैमुत्येनैव
तद् दर्शितम् ।
द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च
क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ [गीता 15.16]
उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः
यो लोकत्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥ [गीता 15.17]
इत्य् अत्र जीवस्याप्य् अक्षरत्वं कण्ठोक्तम् एव । तत्रोपद्रष्टा परम-साक्षी,
अनुमन्ता तत्-तत्-कर्मानुरूपः प्रवर्तकः । भर्ता पोषकः । भोक्ता
पालयिता । महेश्वरः सर्वाधिकर्ता । परमात्मा सर्वान्तर्यामीति
व्याख्येयम् ।
उत्तरपद्ययोस् तु । कूटस्थ एक-रूपतया तु यः काल-व्यापी स कूटस्थ इत्य्
अमरकोषाद् अवगतार्थः । असौ शुद्ध-जीव एव उत्तमः पुरुषस् त्व् अन्य इत्य्
उत्तरात् । तद् एवम् अत्रापि क्षेत्र-क्षेत्रज्ञ-सर्व-क्षेत्रज्ञा उक्ताः । अत्र
चोत्तरयोर् अन्य इत्य् अनेन भिन्नयोर् एव सतोर् अक्षरयोर्न तत्-तद्-रूपता-
परित्यागः सम्भवेद् इति न कदाचिद् अपि निर्विशेष-रूपेनावस्थितिर् इति
दर्शितम् । तस्मान् मद्-भावायोपपद्यते इति यद् उक्तं तद् अपि तत्-सार्ष्टि-
प्राप्ति-तात्पर्यकम्[*एन्द्नोते #1] । तद् एवं द्वयोर् अक्षरत्वेन साम्येऽपि
जीवस्य हीन-शक्तित्वात् प्रकृत्य्-आविष्टस्य तन्-निवृत्त्य्-अर्थम् ईश्वर एव
भजनीयत्वेन ज्ञेय इति भावः ।
तस्माद् इदं शरीरम् इत्य् आदिकं पुनर् इत्थं विवेचनीयम् । इदं स्व-
स्वापरोक्षम् इत्य् अर्थः । शरीर-क्षेत्रयोर् एकैकत्वेन ग्रहणम् अत्र व्यक्ति-
पर्यवसानेन जाति-पुरस्कारेणैवेति गम्यते । सर्व-क्षेत्रेष्व् इति बहु-
वचनेनानुवादात् । एतद् यो वेत्ति इत्य् अत्र देहो ऽसवो ऽक्षा-मनव इत्य् आदौ
सर्वं पुमान् वेद-गुणांश् च तज्-ज्ञः [भ्प् 6.4.25] इत्य्-उक्त-दिशा क्षेत्रज्ञ एता
मनसो विभूतीर् इत्य्-उक्त-दिशा च जानातीत्य् अर्थः ।
क्षेत्रज्ञं चापि मां विद्धीति । तद् उक्तम् -- विष्टभ्याहम् इदं कृत्स्नम्
एकांशेन स्थितो जगत् [गीता 10.42] । यत्र गत्य्-अन्तरं नास्ति तत्रैव लक्षणा-
मय-कष्टम् आश्रीयेत । तथापि तेन सामानाधिकरण्यं यदि विवक्षितं
स्यात् तर्हि क्षेत्रज्ञं चापि मां विद्धीत्य् एतावद् एव तं च मां विद्धीत्य्
एतावद् एव वा प्रोच्येत, न तु सर्व-क्स्रेषु भारतेत्य् अधिकम् अपि । किन्तु
क्षेत्रज्ञ एता मनसो व्भूतीर् इत्य् आदिवत् क्षेत्रज्ञ-द्वयम् अपि वक्तव्यम् एव
स्यात् ।
तथा च ब्रह्म-सूत्रं गुहां प्रविष्टावात्मानौ हि तद्-दर्शनाद् इति [व्स्
1.2.11] तद्-वैध्यम् एव चोपसंहृतम् । पुरुषः प्रकृतिस्थो हीत्य् आदिना ।
तस्माद् उपक्रमार्थस्योपसंहाराधीनत्वाद् एष एवार्थः समञ्जसः ।
यथोक्तं ब्रह्म-सूत्र-कृद्भिः - असद् व्यपदेशान् नेति चेन् न
धर्मान्तरेण वाक्य-शेषाद् इति [व्स् 2.1.17] ।
अथ क्षेत्र-क्षेत्रज्ञयोर् ज्ञानम् इत्य् अत्र यत् क्षेत्रे ज्ञानेन्द्रिय-गतं चेतना-
गतं च ज्ञानं दर्शयिष्यते यच् च पूर्व-क्षेत्र-ज्ञे निज-निज-क्षेत्र-ज्ञानं
दर्शितं तत् तत् मज्-ज्ञानांशस्य क्षेत्रेषु च्छाया-रूपत्वात् क्षेत्र-ज्ञेषु यत्
किञ्चिद् अंशांशतया प्रवेशान् ममैव ज्ञानं मतम् इति । तस्मात् साधूक्तं
मुख्यं क्षेत्रज्ञत्वं परमात्मन्य् एवेति ।
अत्र श्री-भगवतः परमात्म-रूपेणाविर्भावोऽपि । अजनि च यन् मयं तद्-
अविमुच्य-नियन्तृ भवेद् इत्य्-उक्त-दिशा [भ्प् 10.87.30] शक्ति-विशेषालिङ्गित्वाद्
यस्माद् एवांशाज् जीवानाम् आविर्भावस् तेनैवेति ज्ञेयम् । तद् उक्तं तत्रैव
विष्टभ्याहम् इत्य् आदि । श्री-विष्णु-पुराणे च -
यस्यायुतांशांशे विश्व-शक्तिर् इयं स्थिता ।
पर-ब्रह्म-स्वरूपस्य प्रणमाम तम् अव्ययम् ॥ इति [विप् 1.9.53]
पूर्ण-शुद्ध-शक्तिस् तु कला-काष्ठा-निमेषाद् इत्य् अनेन दर्शिता । तथा श्री-
नारद-पञ्चरात्रे --
नारद उवाच -
शुद्ध-सर्गम् अहं देव ज्ञातुम् इच्छामि तत्त्वतः ।
सर्ग-द्वयस्य चैवस्य यः परत्वेन वर्तते ॥
तत्रैतत् पूर्वोक्तः प्राधानिकः शाक्तश् चेत्य् एतत् सर्गद्वयस्येति ज्ञेयम् ।
श्री-भगवान् उवाच -
यः सर्व-व्यापको देवः पर-ब्रह्म च शाश्वतम् ।
चित्-सामान्यं जगत्य् अस्मिन् परमानन्द-लक्षणम् ॥
वासुदेवाद् अभिन्नस् तु बह्न्-अर्केन्दु-शत-प्रभम् ।
वासुदेवोऽपि भगवांस् तद्-धर्मा परमेश्वरः ॥
स्वां दीप्तिं क्षोभयत्य् एव तेजसा तेन वै युतम् ।
प्रकाश-रूपो भगवान् अच्युतं चासकृद् द्विज ॥
सोऽच्युतोऽच्युत-तेजाश् च स्वरूपं वितनोति वै ।
आश्रित्य वासुदेवं च स्वस्थो मेघो जलं यथा ॥
क्षोभयित्वा स्वम् आत्मानं सत्य-भास्वर-विग्रहम् ।
उत्पादयामास तदा समुद्रोर्मि-जलं यथा ॥
स चिन्मयः प्रकाशात्मा उत्पाद्यात्मानम् आत्मना ।
पुरुषाख्यम् अनन्तं च प्रकाश-प्रसरं महत् ॥
स च वै सर्व-जीवानाम् आश्रयः परमेश्वरः ।
अन्तर्यामी च तेषां वै तारकाणाम् इवाम्बरम् ॥
सेन्धनः पावको यद्वत् स्फुलिङ्ग-निचयं द्विज ।
अनिच्छातः प्रेरयति तद्वद् एव परः प्रभुः ॥
प्राग्-वासना-निबन्धानां बन्धानां च विमुक्तये ।
तस्माद् विद्धि तद्-अंशांशस् तान् सर्वांशत्वम् अजम् प्रभुम् ॥ इति ।
अतएव यत् तु ब्रह्मादौ श्री-प्रद्युम्नस्य मन्वादौ श्री-विष्णोः, रुद्रादौ
श्री-सङ्कर्षणस्यान्तर्यामित्वं श्रूयते तन् नानांशम् आदायावतीर्णस्य
तस्यैव तत्-तद्-अंशेन तत्-तद्-अन्तर्यामित्वम् इति मन्तव्यम् । अतएव रुद्रस्य
सङ्कर्षण-प्रकृतित्वं पुरुष-प्रकृतित्वं चेत्य् उभयम् अप्य् आम्नातं
प्रकृतिम् आत्मनः सङ्कर्षण-संज्ञां भव उपधावतीत्य् आदौ [भ्प् 5.17.16]
आदाव् अभूच् छत-धृतिर् इत्य् आदौ च [भ्प् 11.4.5] । एष एव--
भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वम् एकः पञ्चधा स्थितः ॥

इत्य् [विप् 5.18.50] आदौ विवृतम् । तस्मात् सर्वान्तर्यामी पुरुष एव ब्रह्मेति
परमात्मेतीत्य् आदौ परमात्मत्वेन निर्दिस्ट इति स्थितम् । व्याख्यातं च
स्वामिभिः । नमस् तुभ्यं भगवते ब्रह्मणे परमात्मन [भ्प् 10.28.6]
इत्य् अत्र वरुण-स्तुतौ । परमात्मने सर्व-जीव-नियन्त्रे इति । अस्य
परमात्मनो मायोपाधितया पुरुषत्वं तूपचरितम् एव । तद् उक्तं
वैष्णवे एव -
नान्तोऽस्ति यस्य न च यस्य समुद्भवोऽस्ति
वृद्धिर् न यस्य परिणाम-विवर्जितस्य ।
नापेक्षयं च समुपैत्य विकल्प-स्वस्तु
यस् तं नतोऽस्मि पुरुषोत्तमम् आद्यम् ईड्यम् ॥ [विप् 6.8.60]
तस्यैव योऽनुगुण-भुग् बहुधैक एव
शुद्धोऽप्य् अशुद्ध इव मूर्ति-विभाग-भेदैः ।
ज्ञानान्वितः सकल-सत्त्व-विभूति-कर्ता
तस्मै नतोऽस्मि पुरुषाय सदाव्ययाय ॥ [विप् 6.8.61] इति ।
तस्यैवानुपूर्वोक्तात् परमेश्वरात् समनन्तरम् । बहुधा ब्रह्मादि-
रूपेण । अशुद्ध इव सृष्ट्य्-आदिष्व् आसक्त इव । मूर्ति-विभागानां दक्षादि-
मन्व्-आदि-रूपाणां भेदैः । अर्व-सत्त्वानां विभूतीकर्ता विस्तारकृत् इति
स्वामी ।
तत्र गुण-भुग् इति षाड्-गुण्यानन्द-भोक्तेत्य् अर्थः ।
यत् तत् सूक्ष्मम् अविज्ञानम् अव्यक्तम् अचलं ध्रुवम् ।
इन्द्रियैर् इन्द्रियार्थैश् च सर्व-भूतैश् च वर्जितम् ॥
स ह्य् अन्तरात्मा भूतानां क्षेत्रज्ञश् चेति कथ्यते ।
त्रिगुण-व्यतिरिक्तो वै पुरुषश् चेति कल्पितः ॥ [म्भ् 12.321.28-29]
इति मोक्षधर्मेऽपि नारायणीयोपाख्याने । श्रुतयोऽप्य् एनं शुद्धत्वेनैव
वर्णयन्ति
एको देवो सर्व-भूतेषु गूढः
सर्व-व्यापी सर्व-भूतान्तरात्मा ।
कर्माध्यक्षः सर्व-भूताधिवासः
साक्सी चेताः केवलो निर्गुणश् च ॥ [श्वेतु 6.11] ।
अजाम् एकां लोहित-शुक्ल-कृष्णां
बह्वीः प्रजाः सृजमाना सरूपाः ।
अजो ह्य् एको जूषमाणोऽनुशेते जहात्य्
एनां भुक्त-भोगाम् अजोऽन्यः ॥ इत्य् आद्याः [श्वेतु 4.5]
तस्मात् साधु व्याख्यातं क्षेत्रज्ञ एता इत्य् आदि-पद्य-द्वयम् ॥
॥ 5.11 ॥ श्री-ब्राह्मणो रहूगणम्

5.2

[2]
अथ तस्याविर्भावे योग्यता-प्राग्वद् भक्तिर् एव ज्ञेया । आविर्भावस् तु त्रिधा
यथा नारदीये तन्त्रे[*एन्द्नोते #2] -
विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः ।
एकं तु महतः स्रष्टृ द्वितीयं तन्तु-संस्थितम् ।
तृतीयं सर्व-भूतस्थं तानि ज्ञात्वा विमुच्यते ॥
अत्र प्रथमो यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति स
ऐक्षतेत्याद्युक्तेः । महा-समष्टि-जीव-प्रकृत्योर् एकतापन्नयोर् द्रष्टेत्य्
एक एव । अयम् एव सङ्कर्षण इति महाविष्णुर् इति च । ब्रह्म-संहितायां
यथा --
तल्-लिङ्गं भगवान् शम्भुर् ज्योती-रूपं सनातनम् ।
तस्मिन्न् आविरभूल् लिङ्गे महा-विष्णुर् जगत्-पतिः ॥ [ब्रह्मस् 5.8]
सहस्र-शीर्षा पुरुष इत्य् आरभ्य [ब्रह्मस् 5.11]
नारायणः स भगवान् आपस् तस्मात् सनातनात् ।
आविरासन् कारणार्णोनिधिं सङ्कर्षणात्मकः ।
योग-निद्रां गतस् तस्मिन् सहस्रांशः स्वयं महान् ॥ [ब्रह्मस् 5.12]
तद्-रोम-बिल-जालेषु बीजं सङ्कर्षणस्य च ।
हैमान्य् अण्डानि जातानि महा-भूतावृतानि तु ॥ ईत्य् आदि [ब्रह्मस् 5.13]
लिङ्गम् इति यस्यायुतायुतांशांशे विश्व-शक्तिर् इयं स्थितेत्य् [विप् 1.9.53]
अनुसारेण तस्य महा-भगवतः श्री-गोविन्दस्य पुरुषोत्पादकत्वाल् लिङ्गम्
इव लिङ्गं यः खल्व् अंअ-विशेषस् तद् एव शम्भुः । शम्भु-शब्दस्य
मुख्याया वृत्तेर् आश्रय इत्य् अर्थः ।
अथ द्वितीय-पुरुषस् तत् सृष्ट्वा तद् एवानुप्रविशद् इत्य् आद्य् उक्तः समष्टि-
जीवान्तर्यामी । तेषां ब्रह्माण्डात्मकानां बहु-भेदाद् बहु-भेदः ।
तत्रैव सूक्ष्मान्तर्यामी प्रद्युम्नः स्थूलान्तर्याम्य् अनिरुद्ध इति क्वचित् ।
अनेन महा-वैकुण्ठ-स्थाः सङ्कर्षणादयस् तद्-अंशिनः । ये तु चित्ताद्य्-
अधिष्ठातारो वासुदेवादयस् ते तद्-अंशा एवेत्य् आदि विवेचनीयम् ।
तृतीयोऽपि पुरुषः --
द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परिषस्वजाते ।
तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य्
अनश्नन्न् अन्यो ऽभिचाकशीति ॥ [ऋग्-वेद 1.163.20, मुण्डु 7.1.1]
इत्य्-आद्य्-उक्तो व्यष्ट्य्-अन्तर्यामी । तेषाम् बहुभेदाद् बहुभेदः ।
तत्र प्रथमस्याविर्भावो यथा आद्योऽवतारः पुरुषः परस्येति [भ्प् 2.6.41] ।
टीका च परस्य भूम्नः पुरुषः प्रकृति-प्रवर्तकः । यस्य सहस्र-शीर्षेत्य्
आद्य् उक्तो लीला-विग्रहः स आद्योवतारः । इत्य् एषा ॥ अत्र चान्यत्र चावतारत्वं
नामैक-पाद-विभूत्य्-आविर्भावत्वं ज्ञेयम् ॥ 2.6 ॥ श्री-ब्रह्मा
नारदम्

5.3

[3]
द्वितीयस्य यथा -
कालेन सोऽजः पुरुषायुषाभि-
प्रवृत्त-योगेन विरूढ-बोधः
स्वयं तद् अन्तर्-हृदये ऽवभातम्
अपश्यतापश्यत यन् न पूर्वम् ॥
मृणाल-गौरायत-शेष-भोग-
पर्यङ्क एकं पुरुषं शयानम् । [भ्प् 3.8.23]
अयं गर्भोदक-स्थः सहस्र-शीर्षा प्रद्युम्न एव । पुरुषायुषा वत्सर-
शतेन । योगो भक्ति-योगः । एतद् अग्रेऽप्य् अव्यक्त-मूलम् इत्य् अत्र अव्यक्तं
प्रधानं मूलम् अधोभागो यस्येत्य् अर्थः । भुवनाङ्घ्रिपेन्द्रम् इति ।
भुवनानि चतुर्दश तद्-रूपा अङ्घ्रिपास् तेषाम् इन्द्रं तन्-नियन्तृत्वेन
वर्तमानम् इत्य् अर्थः ॥ 3.8 ॥ श्री-मैत्रेयो विदुरम्

5.4

[4]
तृतीयस्याविर्भावो यथा -
केचित् स्व-देहान्तर्-हृदयावकाशे
प्रादेश-मात्रं पुरुषं वसन्तम् ।
चतुर्-भुजं कञ्ज-रथाङ्ग-शङ्ख-
गदा-धरं धारणया स्मरन्ति ॥ [भ्प् 2.2.8]
प्रादेशस् तर्जन्य्-अङ्गुष्ठेयोर् विस्तारस् तत् प्रमाणं हृद्य् अपेक्षया
मनुष्याधिकारत्वाद् इति न्यायेन ॥ 2.2 ॥ श्री-शुकः

5.5

[5]
एवं पुरुषस्यानेक-विधत्वेऽपि दृष्टान्तेनैक्यम् उपपादयति ।
यथानिलः स्थावर-जङ्गमानाम्
आत्म-स्वरूपेण निविष्ट ईशेत् ।
एवं परो भगवान् वासुदेवः
क्षेत्रज्ञ आत्मेदम् अनुप्रविष्टः ॥ [भ्प् 5.11.14]
आत्म-स्वरूपेण प्राण-रूपेण ईशेद् ईशेत नियमयति । इदं विश्वम् । श्रुतिश्
च -
वायुर् यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस् तथा सर्व-भूतान्तरात्मा
रूपं रूपं प्रतिरूपो बहिश् च ॥ इति काठके [कठु 2.2.10]
॥ 5.11 ॥ श्री-ब्राह्मणो रहूगणम्

5.6

[6]
तथा,
एक एव परो ह्य् आत्मा सर्वेषाम् एव देहिनाम् ।
नानेव गृह्यते मूढैर् यथा ज्योतिर् यथा नभः ॥ [भ्प् 10.54.44]
देहिनां जीवानाम् । आत्मा परमात्मा ॥ 10.54 ॥ श्री-बलदेवः श्री-
रुक्मिणीम्

5.7

[7]
एवम् एक एव परो ह्य् आत्मा भूतेष्व् आत्मन्य् अवस्थितः ।
यथेन्दुर् उदपात्रेषु भूतान्य् एकात्मकानि च ॥ [भ्प् 11.18.32]
भूतेषु जीवेषु एक एव पर आत्मा न त्व् असौ जीववत् तत्र तत्र लिप्तो भवति
इत्य् आह आत्मनि स्व-स्वरूप एवावस्थितः । भूतानि जीव-देहा अपि येन कारण-
रूपेणैकात्मकानीति ॥ 11.18 ॥ श्री-भगवान् उद्धवम्

5.8

[8]
एवम् एकस्य पुरुषस्य नानात्वम् उपपाद्य तस्य पुनर् अंशा विव्रियन्ते । अत्र
द्विविधा अंशा स्वांशा विभिन्नांशाश् च । विभिन्नांशा तटस्थ-शक्त्य्-आत्मका
जीवा इति वक्ष्यते । स्वांशास् तु गुण-लीलाद्य्-अवतार-भेदेन विविधाः । तत्र
लीलाद्य्-अवताराः प्रसङ्ग-सङ्गत्या श्री-कृष्ण-सन्दर्भे वक्ष्यते ।
गुणावतारा यथा -
आदाव् अभूच् छत-धृती रजसास्य सर्गे,
विष्णुः स्थितौ क्रतुपतिर् द्विज-धर्म-सेतुः ।
रुद्रोऽप्ययाय तमसा पुरुषः स आद्य
इत्य् उद्भव-स्थिति-लयाः सततं प्रजासु ॥ [भ्प् 11.4.5]
स युगपत् गुण-त्रयाधिष्ठाद्यः पुरुषः पृथक् पृथग् अपि तत्-तद्-
गुणाधिष्ठान-लीलयैव आदौ रजसा अस्य जगतः सर्गे विसर्गे कार्ये शत-
धृतिर् ब्रह्माभूत् । स्थितौ विष्णुः सत्त्वेनेति शेषः । तत्र साक्षाद्-गुणानुक्तिश्
च तयातिरोहित-स्वरूपतया तत्-सम्बन्धोपचारस्याप्य् उट्टङ्कनम् अयुक्तम्
इत्य् अभिप्रायेण । पालन-कर्तृत्वेन क्रतुपतिस् तत्-फल-दाता । यज्ञ-रूपस् तु
लीलावतार-मध्य एव श्री-ब्रह्मणा द्वितीये गणितः । द्विजानां धर्मानां
च सेतुः पालक इत्य् अर्थः । नमसा तस्याप्ययाय रुद्रोऽभूत् इत्य् अनेन
प्रकारेणोद्भव-स्थिति-लया भवन्तीति । अत्र ब्रह्म-रुद्रयोर् अवतारावसरो
मोक्ष-धर्मे विवृत्तोऽस्ति । यथा --
ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्य् अमित-तेजसः
प्रसादात् प्रादुरभवत् पद्मं पद्म-निभेक्षण
तत्र ब्रह्मा समभवत् स तस्यैव प्रसादजः
अह्नः क्षये ललाताच् च सुतो देवस्य वै तथा
क्रोधाविष्टस्य संजज्ञे रुद्रः संहार-कारकः [म्भ् 12.328.15-16]
श्री-विष्णोस् तु तृतीये दृश्यते -
तल्-लोक-पद्मं स उ एव विष्णुः
प्रावीविशत् सर्व-गुणावभासम् ।
तस्मिन् स्वयं वेद-मयो विधाता
स्वयम्भुवं यं स्म वदन्ति सोऽभूत् ॥ [भ्प् 3.8.15]
अस्यार्थः - तल्-लोकात्मकं पद्मम् । सर्व-गुणान् जीवभोग्यान् अर्थान्
अवभासयतीति तथा । तत् यस्माज् जातं श्री-नारायणाख्यः पुरुष एव विष्णु-
संज्ञः सन् स्थापन-रूपान्तर्यामितायै प्रावीविशत् प्रकर्षेनालुप्त-
शक्तितयैवाविशत् । स्वार्थे णिच् । तस्मिन् श्री-विष्णुना लब्ध-स्थितौ पद्मं
पुनः सृष्ट्य्-अर्थं स्वयम् एव ब्रह्माभूत् स्थितस्यैव मृदादेर्
घटादितया सृष्टेः । अतएव स्थित्य्-आदये हरि-विरिञ्चिर् एति संज्ञा इत्य्
अन्यत्रापि ॥
॥ 11.4 ॥ द्रुमिलो निमिम्

5.9

[9]
एवं - यो वा अहं च गिरिशं च विभुः स्वयं चे इत्य् [भ्प् 3.9.3] आदौ त्रिपाद्
इति ।
टीका च - यो वै एकस् त्रिपात् त्रयो ब्रह्मादयः पादाः स्कन्धा यस्य इत्य्
एषा । वृक्ष-रूपत्वेन तद्-वर्णनाद् एषां स्कन्धत्वम् ॥3.9॥ ब्रह्मा
गर्भोदशायिनम्

5.10

[10]
तेषाम् आविर्भावो यथा -
तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना ।
निर्गतेन मुनेर् मूर्ध्नः समीक्ष्य प्रभवस् त्रयः ॥
अप्सरो-मुनि-गन्धर्व-सिद्ध-विद्याधरोरगैः ।
वितायमान-यशसस् तद्-आश्रम-पदं ययुः ॥ इत्य् आदि ॥ [भ्प् 4.1.21-22]
मुनेर् अत्रेः । श्री-मैत्रेयः

5.11

[11]
यथा वा -
सरस्वत्यास् तटे राजन् ऋषयः सत्रम् आसते ।
वितर्कः समभूत् तेषां त्रिष्व् अधीशेषु को महान् ॥ [भ्प् 10.89.1]
इत्य् आदिर् इतिहासः । श्री-विष्णोः स्थानं च क्षीरोदादिकं पाद्मोत्तर-
खण्डादौ जगत्-पालन-निमित्तक-निवेदनार्थं ब्रह्मादयस् तत्र मुहुर्
गच्छतीति प्रसिद्धेः । विष्णु-लोकतया प्रसिद्धेश् च । बृहत्-सहस्र-नाम्नि च
क्षीराब्धि-मन्दिर इति तन्-नाम-गणे पठ्यते । श्वेत-द्वीप-पतेः क्वचिद्
अनिरुद्धतया ख्यातिश् च तस्य साक्षाद् एवाविर्भाव इत्य् अपेक्षयेति ॥
॥ 10.89 ॥ श्री-शुकः

5.13

[12]
एवं परोक्षया तत्र त्रिदेव्यास् तारतम्यम् अपि स्फुटम् । तथा चान्यत्र
द्वयेनाह -
सत्त्वं रजस् तम इति प्रकृतेर् गुणास् तैर्
युक्तः परम-पुरुष एक इहास्य धत्ते ।
स्थित्य्-आदये हरि-विरिञ्चि-हरेति संज्ञाः
श्रेयांसि तत्र खलु सत्त्व-तनोर् नॄणां स्युः ॥ [भ्प् 1.2.23]
इह यद्यप्य् एक एव परः पुमान् अस्य विश्वस्य स्थित्य्-आदये सृष्टि-स्थिति-
लयार्थं तैः सत्त्वादिभिर् युक्तः सन् हरि-विरिञ्च-हरेति संज्ञा भिन्ना धत्ते
तत्-तद्-रूपेणाविर्भवतीत्य् अर्थः । तथापि तत्र तेषां मध्ये श्रेयांसि
धर्मार्थ-काम-मोक्ष-भक्त्य्-आख्यानि शुभ-फलानि सत्त्व-तनोर्
अधिष्ठित-सत्त्व-शक्तेः श्री-विष्णोर् एव स्युः । अयं भावः । उपाधि-दृष्ट्या
तौ द्वौ सेव्यमाने रजस्-तमसोर् घोर-मूढत्वात् भवन्तोऽपि धर्मार्थ-
कामा नाति-सुखदा भवन्ति तथोपाधि-त्यागेन सेवमाने भवन्न् अपि
मोक्षो न साक्षान् न च झटिति किन्तु कथम् अपि परमात्वांश एवायम् इत्य्
अनुसन्धाना-भ्यासेनैव परमात्मन एव भवति । अथोपाधि-दृष्ट्यापि
श्री-विष्णुं सेव्यमाने सत्त्वस्य शान्त्तत्वात् धर्मार्थ-कामा अपि सुखदाः ।
तत्र निष्कामत्वेन तु तं सेव्यमाने सत्त्वात् सञ्जायते ज्ञानम् इति [गीता 14.17]
कैवल्यं सात्त्विकं ज्ञानम् [भ्प् 11.25.24] इति चोक्तेर् मोक्षस्य साक्षात् ।
अत उक्तं स्कान्दे -
बन्धको भव-पाशेन भव-पाशाच् च मोचकः ।
कैवल्यदः परं ब्रह्म विष्णुर् एव सनातनः ॥ इति ।
उपाधि-परित्यागेन तु पञ्चम-पुरुषार्थो भक्तिर् एव भवति तस्य
परमात्माकारेणैव प्रकाशात् । तस्मात् श्री-विष्णोर् एव श्रेयांसि स्युर् इति । अत्र
तु यत् त्रयाणाम् अभेद-वाक्येनोपजप्त-मतयो विवदन्ते तत्रेदं ब्रूमः ।
यद्यपि तारतम्यम् इदम् अधिष्ठान-गतम् एव अधिष्ठाता तु परः पुरुष
एक एवेति भेदासम्भवात् सत्यम् एवाभेद-वाक्यं तथापि तस्य तत्र तत्र
साक्षात् त्वासाक्षात् त्व् अभेदेन प्रकाशेन तारतम्यं दुर्निवारम् एवेति
सट्टष्टान्तम् आह ॥
[13]
पार्थिवाद् दारुणो धूमस्
तस्माद् अग्निस् त्रयीमयः ।
तमसस् तु रजस् तस्मात्
सत्त्वं यद् ब्रह्म-दर्शनम् ॥ [भ्प् 1.2.24]
पार्थिवान् न तु धूमवद्-अंशेनाग्नेयात् तत एव वेदोक्त-कर्मणः साक्षात्
प्रवृत्ति-प्रकाश-रहिताद् दारुणो यज्ञीयान् मथन-काष्ठात् सकाशाद्
अंशेनाग्नेयो धूमस् त्रयीमयः पूर्वापेक्षया वेदोक्त-कर्म-स्थानीयस्य
तत्-तद्-अवतारिणः पुरुषस्य प्रकाश-द्वारम् । तु-शब्देन लयात्मकात्
तमसः सकाशाद् रजसः सोपाधिक-ज्ञान-हेतुत्वेनेषद्-गुण-विप्रादुर्भाव-
रूपं किञ्चित् ब्रह्म-दर्शन-प्रत्यासत्ति-मात्रम् उक्तं न तु सर्वथा
विक्षेपकत्वम् । यद् अग्नि-स्थानीयं सत्त्वं तत् साक्षात् ब्रह्मणो दर्शनम् ।
साक्षाद् एव सम्यक् तत्-तद्-गुण-रूपाविर्भाव-द्वारं शान्त-स्वच्छ-
स्वभावात्मकत्वात् । अतो ब्रह्म-शिवयोर् असाक्षात्त्वं श्री-विष्णौ तु
साक्षात्त्वं सिद्धम् इति भावः । तथा च श्री-वामन-पुराणे --
ब्रह्म-विष्ण्व्-ईश-रूपाणि
त्रीणि विष्णोर् महात्मनः ।
ब्रह्मणि ब्रह्म-रूपः
स शिव-रूपः शिवे स्थितः ॥
पृथग् एव स्थितो देवो
विष्णु-रूपी जनार्दनः ॥ इति ।
तद् उक्तं ब्रह्म-संहितायां -
भास्वान् यथाश्म-शकलेषु निजेषु तेजः
स्वीयं कियत् प्रकटयत्य् अपि तद्वद् अत्र ।
ब्रह्मा य एव जगद्-अण्ड-विधान-कर्त्रा
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्रह्मस् 5.48]
क्षीरं यथा दधि-विकार-विशेष-योगात्
सञ्जायते न तु ततः पृथग् अस्ति हेतोः ।
यः शम्भुताम् अपि तथा समुपैति कार्याद्
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्रह्मस् 5.45]
दीपार्चिर् एव हि दशान्तरम् अभ्युपेत्य
दीपायते विवृत-हेतु-समान-धर्मा ।
यस् तादृग् एव हि च विष्णुतया विभाति
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इत्य् आदि [ब्रह्मस् 5.46]।
न च दधि-दृष्टान्तेन विकारित्वम् आयातम् । तस्य श्रुतेस् तु शब्द-मूलत्वाद्
इति न्यायेन मुहुः परिहृतत्वात् । यथोक्तम् - यत उदयास्तमयौ विकृतेर् मृद्
इवाविकृताद् इति ।
दृष्टान्त-त्रयेण तु क्रमेणेदं लभ्यते । सूर्य-कान्त-स्थानीये
ब्रह्मोपाधौ सूर्यस्येव तस्य किञ्चित् प्रकाशः । दधि-स्थानीये
शम्भूपाधौ क्षीर-स्थानीयस्य न तादृग् अपि प्रकाशः । दशान्तर-
स्थानीये विष्णूपाधौ तु पूर्ण एव प्रकाश इति ॥ 1.2 ॥ श्री-सूतः

5.14

[14]
एवम् एवाह त्रिभिः -
शिवः शक्ति-युतः शश्वत्
त्रिलिङ्गो गुण-संवृतः ।
वैकारिकस् तैजसश् च
तामसश् चेत्य् अहं त्रिधा ॥ [भ्प् 10.88.3]
ततो विकारा अभवन्
षोडशामीषु कञ्चन ।
उपधावन् विभूतीनां
सर्वासाम् अश्नुते गतिम् ॥ [भ्प् 10.88.4]
हरिर् हि निर्गुणः साक्षात्
पुरुषः प्रकृतेः परः ।
स सर्व-दृग् उपद्रष्टा
तं भजन् निर्गुणो भवेत् ॥ इति [भ्प् 10.88.5]
शश्वच्-छक्ति-युतः प्रथमतस् तावन् नित्यम् एव शक्त्या गुण-साम्यावस्थ-
प्रकृति-रूपोपाधिना युक्तः । गुण-क्षोभे सति त्रिलिङ्गो गुण-त्रयोपाधिः ।
प्रकटेश् च सद्भिस् तैर् गुणैः संवृतश् च ।
ननु तम-उपाधित्वम् एव तस्य श्रूयते कथं तत्-तद्-उपाधित्वं
तत्रावैकारिक इति । अहम् अहं-तत्त्वं हि तत्-तद्-रूपेण त्रिधा । स च तद्-
अधिष्ठात्य् अर्थः । ततस् तेन भगवत्-प्रतिनिधि-रूपेणाधिष्ठिताद् अहन्-
तत्त्वात् षोडश-विकारा ये अभवन् अमीषु विकारेषु मध्ये सर्वासां
विभूतीनां सम्बन्धिनं कञ्चन उपधावन् तद्-उपाधिकत्वेन तम्
उपासीनो गतिं प्राप्यं फलं लभते । हि प्रसिद्धौ हेतौ वा । हरिस् तु
प्रकृतेर् उपाधितः परस् तद्-धर्मैर् अस्पृष्टः । अतएव त्रिर् गुणोऽपि कुतस्
त्रिलिङ्गत्वादिकम् इति भावः । तत्र हेतुः साक्षाद् एव पुरुष ईश्वरः । न तु
प्रतिबिम्बवद् व्यवधानेनेत्य् अर्थः । अतो विद्याविद्ये मम तनू [भ्प्
11.11.3] इतिवत् तनु-शब्दोपादानात् कुत्रचित् सत्त्व-शक्तित्व-श्रवणम् अपि
प्रेक्षादि-मात्रेणोपकारित्वाद् इति भावः । अतएव सर्वेषां शिव-ब्रह्मादीनां
दृक् ज्ञानं यस्मात् तथाभूतः सन्न् उपद्रष्टा तद्-आदि-साक्षी भवति । अतः
स तं भजन् निर्गुणो भवेद् गुणातीत-फल-भाग् भवतीति ॥ 10.88 ॥ श्री-
शुकः

5.15

[15]
अतएव विष्णोर् एव परम-पुरुषेण साक्षाद् अभेदोक्तिम् आह -
सृजामि तन्-नियुक्तोऽहं हरो हरति तद्-वशः ।
विश्वं पुरुष-रूपेण परिपाति त्रि-शक्ति-धृक् ॥ इति [भ्प् 2.6.31]
अहं ब्रह्मा । श्रुतिश् चात्र --
स ब्रह्मणा सृजति स रुद्रेण विलापयति ।
सोऽनुत्पत्तिर् अलय एव हरिः परः परमानन्दः ॥ इति
महोपनिषदि[*एन्द्नोते #3] ॥
॥ 2.6 ॥ ब्रह्मा नारदम्

5.16

[16]
तत्रैवाह --
अत्रानुवर्ण्यतेऽभीक्ष्णं
विश्वात्मा भगवान् हरिः ।
यस्य प्रसाद-जो ब्रह्मा
रुद्रः क्रोध-समुद्भवः ॥ [भ्प् 12.5.1]
अत्र श्री-विष्णुर् न कथित इति तेन साक्षाद् अभेद एवेत्य् आयातम् । तद् उक्तम् -
स उ एव विष्णुर् इति [भ्प् 3.8.15] । श्रुतिश् च पुरुषो वै नारायणोऽकामयत अथ
नारायणाद् अजोऽजायत यतः प्रजाः सर्वाणि भूतानि [नारायणौ] ।
नारायणः परं ब्रह्म
तत्त्वं नारायणः परम् ।
ऋतं सत्यं परं ब्रह्म
पुरुषं कृष्ण-पिङ्गलम् ॥ इति । [महानु 13.4]
एको ह नारायण आसीन् न ब्रह्मा न च शङ्करः ।
स मुनिर् भूत्वा समचिन्तयत् ।
तत एव व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर् वरुण-रुद्रेन्द्रा इति च ।
तस्मात् तस्यैव वर्णनीयत्वम् अपि युक्तम् ॥12.5॥ श्री-सूतः

5.17

[17]
ननु त्रयाणाम् एक-भावानां यो न पश्यति वै भिदां, तथा - न ते मय्य्
अच्युतेऽजे च भिदाम् अण्व् अपि चक्षते इत्य् [भ्प् 12.10.17] आदाव् अभेदः श्रूयत
पुराणान्तरे च विष्णुतस् तयोर् भेदे नरकः श्रूयते सत्यं वयम् अपि भेदं
न ब्रूमः ।
परम-पुरुषस्यैव तत्-तद्-रूपम् इत्य् एकात्मत्वेनैवोपक्रान्तत्वात् । शिवो
ब्रह्मा च भिन्न-स्वभावादितया दृश्यमानोऽपि प्रलये सृष्टौ न तस्मात्
स्वतन्त्र एकान्य ईश्वर इति न मन्तव्यं किन्तु विष्वात्मक एव सः इति हि
तत्रार्थः । तद् उक्तं ब्रह्मणि ब्रह्म-रूपः स इत्य् [वामनप्] आदि ।
न च प्रकाशस्य साक्षाद् असाक्षाद्-रूपत्वाद्-तारतम्यं वयं कल्पयामः
परं शास्त्रम् एव वक्ति । शास्त्रं तु दर्शितम् । एवं भगवद्-
अवतारानुक्रमणिकासु त्रयाणां भेदम् अङ्गीकृत्यैव केवलस्य श्री-दत्तस्य
गणना सीम-दूर्वासोस् त्व् अगणना । किं च ब्राह्मे ब्रह्म-वैवर्ते च
ब्रह्म-वाक्यं -
नाहं शिवो न चान्ये च
तच्-छक्त्येकांअ-भागिनः ।
बाल-क्रीडनकैर् यद्वत्
क्रीडतेऽस्माभिर् अच्युतः ॥ इति ।
अतएव श्रुतौ - यं कामये तम् उग्रं कृणोमि तं ब्रह्माणं तमुषिं तं
सुमेधाम् इत्य् उक्त्वा मम योनिर् अप्स्व् अन्तर् इति [ऋग्-वेद 10.125.5,7] शक्ति-
वचनम् । अप्स्व् अन्तर् इति कारणोदशायी सूच्यते । आपो नारा इति प्रोक्ता इत्य् आदेः ।
योनिः कारणम् । एवम् एव स्कान्दे
ब्रह्मेशानादिभिर् देवैर्
यत् प्राप्तुं नैव शक्यते ।
तद्वत् स्वभावः कैवल्यं
स भवान् केवओल् हरे ॥ इति ।
तथा विष्णु-सामान्य-दर्शिनो दोषः श्रूयते । यथा वैष्णव-तन्त्रे -
न लभेयुः पुनर् भक्तिं हरेर् ऐकान्तिकीं जडाः ।
ऐका यं मनसश् चापि विष्णु-सामान्य-दर्शिनः ॥ इति ।
अन्यत्र-
यस् तु नारायणं देवं ब्रह्म-रुद्रादि-दैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेद् ध्रुवम् ॥ इति [वैष्णव-तन्त्र] ।
तथा च मन्त्र-वर्णः । मध्ये वामनम् आसीनं विश्वे देवा उपासत
[कठौ 2.2.3] इति ।
ननु क्वचिद् अन्य-शास्त्रे शिवस्यैव परम-देवत्वम् उच्यते सत्यं तथापि
शास्त्रस्य सारासारत्व-विवेकेन तद् वाधितम् इति । तथा च पाद्म-शैवयोर्
उमां प्रति श्री-शिवेन श्री-विष्णु-वाक्यम् अनुकृतम् -
त्वाम् आराध्य तया शम्भो ग्रहीष्यामि वरं सदा ।
द्वापरादौ युगे भूत्वा प्रलया मनुषादिषु ॥
स्वागमैः कल्पितैस् त्वं तु जनान् मद्-विमुखं कुरु ।
मां च गोपय येन स्यात् सृष्टिर् एषोत्तरोत्तरा ॥ इति ।
वाराहे च -
एष महीं सृजाम्य् आशु यो जनान् मोहयिष्यति ।
त्वं च रुद्र महाबाहो मोह-शास्त्राणि कारय ॥
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।
प्रकाशं कुरु चात्मानम् अप्रकाशं च मां कुरु ॥ इति ।
पुराणानां च मध्ये यद् यत् तामस-कल्प-कथामयं तच् छिवादि-महिम-
परम् इति श्री-विष्णु-प्रतिपादक-पुराणस्यैव सम्यग्-ज्ञान-प्रदत्वम् ।
सत्त्वात् सञ्जायते ज्ञानम् इति दर्शनात् । तथा च मात्स्ये -
सात्त्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः ।
राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ॥
तद्वद् अग्नेश् च माहात्म्यं तामसेषु शिवस्य च ।
सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥ इति ।
अत उक्तं स्कान्दे षण्मुखं प्रति श्री-शिवेन -
शिव-शास्त्रेषु तद् ग्राह्यं भगवच्-छास्त्र-योगिषत् ।
परमो विष्णुर् एवैकस् तज्-ज्ञानं मोक्ष-साधनम् ।
शास्त्राणां निर्णयस् त्व् एषस् तद् अन्यन् मोहनाय हि ॥ इति ।
तथैव च द्रष्टुं मोक्ष-धर्मे नारायणोपाख्याने -
सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा ।
ज्ञानान्य् एतानि राजर्षे विद्धि नाना मतानि वै ॥
सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते ।
हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ॥
अपान्तरतमाश् चैव वेदाचार्यः स उच्यते ।
प्राचीन गर्भं तम् ऋषिं प्रवदन्तीह के चन ॥
उमापतिर् भूतपतिः श्रीकन्थो ब्रह्मणः सुतः ।
उक्तवान् इदम् अव्यग्रो ज्ञानं पाशुपतं शिवः ॥
पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान् स्वयम् ।
सर्वेषु च नृप-श्रेष्ठ ज्ञानेष्व् एतेषु दृश्यते ॥
यथागमं यथा ज्ञानं निष्ठा नारायणः प्रभुः ।
न चैनम् एवं जानन्ति तमो भूता विशां पते ॥
तम् एव शास्त्र-कर्तारं प्रवदन्ति मनीषिणः ।
निष्ठां नारायणम् ऋषिं नान्यो ऽस्तीति च वादिनः ॥
निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः ।
ससंशयान् हेतु-बलान् नाध्यावसति माधवः ॥
पञ्चरात्र-विदो ये तु यथा-क्रम-परा नृप ।
एकान्त-भावोपगतास् ते हरिं प्रविशन्ति वै ॥
सांख्यं च योगं च सनातने द्वे
वेदाश् च सर्वे निखिलेन राजन् ।
सर्वैः समस्तैर् ऋषिभिर् निरुक्तो
नारायणो विश्वम् इदं पुराणम् ॥ इति [म्भ् 12.337.59-68]
अत्रोपान्तरतमा इति श्री-कृष्ण-द्वैपायनस्यैव जन्मान्तर-नाम-विशेष इति
तत्रैव ज्ञेयम् । अत्रैवं व्याख्येयम् । पञ्चरात्र-सम्मतं श्री-नारायणम्
एव सर्वोत्तमत्वेन वक्तुं नानामतं दर्शयति । साङ्ख्यम् इति । तत्र
पञ्चरात्रम् एव गरिष्ठम् आचष्टै पञ्चरात्रस्यैत्नादौ भगवान् स्वयम्
इति । अथ - द्वौ भूतसर्गौ लोके ऽस्मिन् दैव आसुर एव च इति श्री-गीतासु [गीता
16.6] श्रूयते । यद् एव तानि नानामतानीत्य् उक्तं तत्त्वासुर-प्रकृत्य्-
अनुसारेणेति ज्ञेयम् । दैव-प्रकृतयस् तु तत्-तत्-सर्वावलोकेन पञ्चरात्र-
प्रतिपाद्ये श्री-नारायण एव पर्यवस्यन्तीत्य् आह सर्वेष्व् इति । आसुरास् तु
निन्दति न चैनम् इति । तद् उक्तं विष्णु-धर्माग्निपुराणयोः
द्वौ भूत-सर्गौ लोकेऽस्मिन् दैव आसुर एव च ।
विष्णु-भक्ति-परो दैव आसुरस् तद्-विपर्ययः ॥ इति ।
ननु तत्र तत्र नाना-मतय एव दृश्यन्ते तत्राह तम् एव इति ।
पञ्चरात्रेतर-शास्त्र-कर्तारो हि द्वि-विधाः किञ्चिज्-ज्ञाः सर्व-ज्ञाश् च ।
तत्राद्या यथा - स्व-स्व-ज्ञानानुसारेण यत् किञ्चित् तत्त्वैक-देशं वदन्ति
नासाभिर् आसुराणां मोहनार्थम् एव कृतानि शास्त्राणि किन्तु दैवानां
व्यतिरेकेण बोधनार्थम् । ते हि रजस्-तमः-शबलस्य खण्डस्य च तत्त्वस्य
तथा क्लेश-बहुलस्य साधनस्य प्रतिपादकान्य् एतानि शास्त्राणि दृष्ट्वा
वेदांश् च दुर्गान् दृष्ट्वा निर्विद्य सर्व-वेदार्थ-सारस्य शुद्धाखण्ड-
तत्त्व-श्री-नारायणस्य सुखमय-तद्-आराधनस्य च सुष्ठु प्रतिपादके
पञ्चरात्रे एवे गाढं प्रवेक्ष्यन्तीति । तद् एतद् आह निःसंशयेष्व् इति । तस्माज्
झटिति वेदार्थ-प्रतिपत्तये पञ्चरात्रम् एवाधेतव्यम् इत्य् आह ।
पञ्चरात्रेति । यत एवं तत उपसंहरति साङ्ख्यं च योगश् चेति । तद् एवं
पञ्चरात्र-प्रतिपाद्यस्य श्री-भगवत एवम् उत्कर्षे स्थिते आत्मारामाश् च
मुनय इत्य् आद्य् असकृद् अपूर्वम् उपदिशता श्री-भागवतेन प्रतिपाद्य-
रूपस्य तस्य किम् उतेत्य् अपि विवेचनीयम् । तद् एतद् उक्तानुसारेण सदा-
शिवेश्वर-त्रिदेवी-रूप-व्यूहोऽपि निरस्तः । तस्माद् एव च श्री-भगवत्-
पुरुषयोर् एव शैवागमे सदा-शिवादि-संज्ञे तन्-महिम-ख्यापनाय धृत
इति गम्यते । सर्व-शास्त्र-शिरोमणौ श्री-भागवते तु त्रिदेव्याम् एव तत्
तारतम्य-जिज्ञासा पुरुष-भगवतोस् तु तत् प्रसङ्ग एव नास्ति ।

ननु न ते गिरित्राखिल-लोकपाल-विरिञ्चि-वैकुण्ठ-सुरेन्द्र-गम्यम् । ज्योतिः
परं यत्र रजस् तमश् च सत्त्वं न यद् ब्रह्म निरस्त-भेदम् इत्य् [भ्प्
8.7.31] अत्र तस्य परत्वं श्रूयते एवाष्टमे । मैवम् । महिम्ना स्तूयमाना
हि देवा वीर्येण वर्धतु इति वैदिक-
न्यायेन तद्-युक्तेः । स हि स्तवः काल-कूट-नाशनार्थ इति । तत्रैव प्रीते
हरौ भगवति प्रीयेऽहं सचराचर इति [भ्प् 8.7.40] । तथा नवमे -
वयं न तात प्रभवाम भूम्नि
यस्मिन् परेऽन्येऽप्य् अजजीव-कोषाः ।
भवन्ति काले न भवन्ति हीदृशाः
सहस्रशो यत्र वयं भ्रमामः ॥ इति [भ्प् 9.4.56]
एते वयं यस्य वशे मतात्मनः स्थिताः शकुन्ता इव सूत्र-यन्त्रिताः । इति च
तद्-वाक्य-विरोधात् अथवा यत् शिवस्य ज्योतिस् तत्र स्थितं परमात्माख्यं
चैतन्यं तत्-सम्यग्-ज्ञाने तस्याप्य् अक्षमता युक्तैव । यद् उक्तम् -
द्युपतयः एव ते न ययुर् अन्तम् अनन्ततया त्वम् असीति [भ्प् 10.87.41] ।
ब्रह्म-संहित-मते तु भगवद्-अंश-विशेष एव सदा-शिवो न त्व् अन्यः ।
यथा तत्रैव सर्वादि-कारण-गोविन्द-कथने -
नियतिः सा रमा-देवी तत्-प्रिया तद्-वशंवदा ।
तल्-लिङ्गे भगवान् शम्भुर् ज्योती रूपः सनातनः ॥
या योनिः सा परा शक्तिर् इत्य् आदि
तस्मिन् आविर्भभूल् लिङ्गे महाविष्णुर् इत्य् आद्य् अन्तम् ॥
तद् एतद् अभिप्रेत्य सदाशिवत्वादि-प्रसिद्धिम् अप्य् आक्षिप्याह ।
अथापि यत्-पद-नखावसृष्टं
जगद्-विरिञ्चोपहृतार्हणाम्भः ।
सेशं पुनात्य् अन्यतमो मुकुन्दात्
को नाम लोके भगवत् पदार्थः ॥ [भ्प् 1.18.21]
स्पष्टम् ॥ 1.18 ॥ श्री-सूतः

5.18

[18]
तस्मान् नाहं न च शिवोऽन्ये च तच्-छक्त्य्-एकांश-भागिनः इत्य् एवोक्तं
साध्येव इत्य् आह । ब्रह्मा भवोऽहम् अपि यस्य कलाः कलाया इति [भ्प्
10.68.37] ।
शेषं स्पष्टम् ॥ 10.68 ॥ श्री-बलदेवः

5.19

[19]
अथ परमात्म-परिकरेषु जीवस् तस्य च तटस्थ-लक्षणं क्षेत्रज्ञ एता इत्य्
एवोक्तं स्वरूप-लक्षणं पाद्मोत्तर-खण्डादिकम् अनुसृत्य श्री-
रामानुजाचार्याद् अति-प्राचीनेन श्री-वैष्णव-सम्प्रदाय-गुरुणा श्री-
जामातृ-मुनिनोपदिष्टम् । तत्र प्रणव-व्याख्याने पाद्मोत्तर-खण्डं
यथा -
ज्ञानाश्रयो ज्ञान-गुणश् चेतनः प्रकृतेः परः ।
न जातो निर्विकारश् च एकरूपः स्वरूप-भाक् ॥
अणुर् नित्यो व्याप्ति-शीलश् चिद्-आनन्दात्मकस् तथा ।
अहम् अर्थोऽव्ययः क्षेत्री भिन्न-रूपः सनातनः ॥
अदाह्योऽच्छेद्य अक्लेद्य अशोष्योऽक्षर एव च ।
एवम् आधि-गुणैर् युक्तः शेष-भूतः परस्य वै ॥
म-कारेणोच्यते जीवः क्षेत्र-ज्ञः परवान् सदा ।
दास-भूतो हरेर् एव नान्यस्यैव कदाचन ॥ इति ।
श्री-जामातृ-मुनिनाप्य् उपदिष्टं, यथा -
आत्मा न देवो न नरो न तिर्यक् स्थावरो न च ।
न देहो नेन्द्रियं नैव मनः प्राणो न नापि धीः ॥
न जडो न विकारी च ज्ञान-मात्रात्मको न च ।
स्वस्मै स्वयं प्रकाशः स्याद् एकरूपः स्वरूप-भाक् ॥
चेतनो व्याप्ति-शीलश् च चिदानन्दात्मकस् तथा ।
अहम् अर्थः प्रतिक्षेत्रं भिन्नोऽणुर् नित्य-निर्मलः ॥
तथा ज्ञातृत्व-कर्तृत्व-भोक्तृत्व-निज-धर्मकः ।
परमात्मैक-शेषत्व-स्वभावः सर्वदा स्वतः ॥ इति ।
श्री-रामानुज-भाष्यानुसारेण व्याख्या चेयम् । तत्र देवादित्वं निरस्तम्
एवास्ति तत्त्व-सन्दर्भे ।
अण्डेषु पेशिषु तरुष्व् अविनिश्चितेषु
प्राणो हि जीवम् उपधावति तत्र तत्र ।
सन्ने यद् इन्द्रिय-गणेऽहमि च प्रसुप्ते
कूटस्थ आशयम् ऋते तद् अनुस्मृतिर् नः ॥ [भ्प् 11.3.39] इत्य् अनेन ॥
देहादित्वं निरस्यन्न् आह -
विलक्षणः स्थूल-सूक्ष्माद्
देहाद् आत्मेक्षिता स्वदृक् ।
यथाग्निर् दारुणो दाह्याद्
दाहकोऽन्यः प्रकाशकः ॥ [भ्प् 11.10.8]
विलक्षणत्वे हेतुर् ईक्षिता तस्य द्रष्टा प्रकाशकश् च स्वयं तु स्वदृक् स्व-
प्रकाश इति ॥ श्री-भगवान्

5.20

[20]
जडत्वं निरस्यन्न् आह -
जाग्रत्-स्वप्न-सुषुप्तं च गुणतो बुद्धि-वृत्तयः ।
तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ [भ्प् 11.13.27]
या तु मयि तुर्ये स्थितो जह्याद् इत्यादौ [भ्प् 11.13.28] परमेश्वरेऽपि तुर्यत्व-
प्रसिद्धिः सान्यथैव ।
विराट् हिरण्यगर्भश् च कारणं चेत्य् उपाधयः ।
ईश्वरस्य यत् त्रिभिर् हीनं तुरीयं तत्-पदं विदुः ॥[*एन्द्नोते #4]
इत्य् आद्य्-उक्तेर् वासुदेवस्य चतुर्-व्यूहे तुर्य-कक्षाक्रान्तत्वाद्
वा ॥ 11.13 ॥ श्री-भगवान्

5.21

[21]
विकारित्वं निरस्यन्न् आह -
विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः ।
कलानाम् इव चन्द्रस्य कालेनाव्यक्त-वर्त्मना ॥ [भ्प् 11.7.48]
चन्द्रस्य जलमय-मण्डलत्वात् कलानां सूर्य-प्रतिच्छवि-रूप-ज्योतिर्-
आत्मत्वात् यथा कलानाम् एव जन्माद्या नाशान्ता भावा न तु चन्द्रस्य
तथा देहस्यैव ते भावा अव्यक्त-वर्त्मना कालेन भवन्ति न त्व् आत्मन
इत्य् अर्थः । श्री-दत्तात्रेयो यदुम्

5.22

[22]
ज्ञानात्मको न चेति किं तर्हि ज्ञान-मात्रत्वेऽपि ज्ञान-शक्तित्वं प्रकाशस्य
प्रकाशन-शक्तित्ववत् तादृक्त्वम् अपि ।
नात्मा जजान न मरिष्यति नैधतेऽसौ
न क्षीयते सवन-विद् व्यभिचारिणां हि ।
सर्वत्र शश्वद् अनपाय्य् उपलब्धि-मात्रं
प्राणो यथेन्द्रिय-बलेन विकल्पितं सत्॥ इत्य् अनेन [भ्प् 11.3.37]
तत्त्व-सन्दर्भ एव दर्शितम् । उपलब्धि-मात्रत्वेऽपि सबलवत्त्वेनोक्तेः ।
अतएव शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुर् इत्य् उक्तम् । प्रकारान्तरेणापि तद्
आह -
गुणैर् विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः ।
विलोक्य मुमुहे सद्यः स इह ज्ञान-गूहया ॥ [भ्प् 3.26.5]
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः [गीता 5.15] इति
॥ 3.26 ॥ श्री-कपिलदेवः

5.23

[23]
शक्त्य्-अन्तरं चाहुः - स यद् अजया त्व् अजाम् अनुशयीत गुणांश् च जुषन्
भजति सरूपतां तद् अनु मृत्युम् उपेत-भग इति [भ्प् 10.87.38] ॥
टीका च -- स तु जीवः यद् यस्माद् अजया मायया अजाम् अविद्याम् अनुशयीत
आलिङ्ग्येत ततो गुणांश् च देहेन्द्रियादीन् गुषन् सेवमानः आत्मतया
अध्यस्यन् तद् अनु तद्-अनन्तरं स-रूपतां तद्-धर्म-योगं च जुषन् अपेत-
भगः पिहितानन्दादि-गुणः सन् मृत्युं संसारं भजति प्राप्नोति इत्य्
एषा ॥ 10.87 ॥ श्रुतयः

5.24

[24]
तथा -
तत्-सङ्ग-भ्रंइतैश्वर्यं
संसरन्तं कुभार्यवत् ।
तद्-गतीर् अबुधस्येह
किम् असत्-कर्मभिर् भवेत् ॥[भ्प् 6.5.15]
तस्याः पुंश्चली-रूपाया मायायाः सङ्गेन भ्रंशितम् ऐश्वर्यं किञ्चित्
स्वीय-ज्ञानादि-सामर्थ्यं यस्य तम् । तस्या गतीः संस्मरन्तं गच्छन्तं
जीवं स्व-स्वरूपम् अबुधस्याजानत इत्य् अर्थः ॥6.5॥ हर्यश्वाः

5.25

[25]
तथा --
ईश्वरस्य विमुक्तस्य
कार्पण्यम् उत बन्धनम् ॥ [भ्प् 3.7.9]
ईश्वरस्य किञ्चिज्-ज्ञानादि-शक्तिमतः ॥ 3.7 ॥ मैत्रेयः

5.26

[26]
तथा -
विप्रलब्धो महिष्यैवं
सर्व-प्रकृति-वञ्चितः ।
नेच्छन्न् अनुकरोत्य् अज्ञः
क्लैब्यात् क्रीडा-मृगो यथा ॥ [भ्प् 4.25.62]
महिष्या पुरञ्जन्या विप्रलब्धः पुरञ्जनः सर्वया प्रकृत्या
ज्ञानादिरूपया वञ्चितः त्याजितः सन् नेच्छन् तद्-इच्छयैवेत्य् अर्थः ।
अनुकरोति तद्-धर्मात्मन्य् अध्यस्यति । अत्र जीवस्य शक्तिमत्तायां
पराभिध्यानात् तु तिरोहितं ततो ह्य् अस्य बन्ध-विपर्ययाव् इत्य् एतत् सूत्रम्
अप्य् अनुसन्धेयम् ॥ श्री-नारदः प्राचीनबर्हिषम्

5.27

[27}
पूर्वोक्तम् एवार्थं व्यञ्जयितुं स्वस्मै स्वयं प्रकाश इत्य् उक्तम् ।
तथाभूतत्वं च विलक्षण इत्य् आद्य् उक्त-पद्य एव स्वदृग् इत्य् अनेन व्यक्तम्
अस्ति । तत्र प्रकाशस् तावद् गुण-द्रव्य-भेदेन द्विविधः । प्रथमो
निजाश्रयस्य स्फूर्ति-रूपः । द्वितीयः स्व-पर-स्फूर्ति-निदानं वस्तु-विशेषः ।
तत्रात्मनो द्रव्यत्वाद् अयम् एव गृह्यते । यथा दीपश् चक्षुः प्रकाशयन्
स्वरूप-स्फूर्तिं स्वयम् एव करोति न तु घटादि-प्रकाशवत् तद्-आदि-
साक्षेपः । तस्माद् अयं स्वयं प्रकाशः । तथापि स्वं प्रति न प्रकाशते
यत एव जड इत्य् उच्यते । तस्मात् तु स्वं परं च प्रकाशयन् स्वात्मानं प्रति
प्रकाशमानत्वात् स्वस्मै स्वयं प्रकाशः । यत एव चिद्-रूप उच्यते । तद्
उक्तम् अन्यैर् अपि । स्वयं प्रकाशत्वं स्व-व्यवहारे परान् अपेक्षत्वात्
अवेद्यत्वे सत्य-परोक्ष-व्यवहार-योग्यत्वं चेति ।तत्र पूर्वत्र-
स्वस्मैपदम् अपेक्ष्यम् उत्तरत्र तु स्पष्टार्थम् । अतः स्वदृक् स्वस्मै
स्वयं प्रकाश इत्य् अर्थः । न चासौ परमात्म-प्रकाश्यत्वे घटवत् पर-
प्रकाश्यः परमात्मनस् तत्-परम-स्वरूपत्वेन पर-प्रकाश्यत्वाभावात् ।
एवम् एवाह द्वाभ्याम् ।
ममाङ्ग माया गुण-मय्य् अनेकधा
विकल्प-बुद्धीश् च गुणैर् विधत्ते ।
वैकारिकस् त्रिविधोऽध्यात्मम् एकम्
अथाधिभूतम् अधिदैवम् अन्यत् ॥
दृग्-रूपम् आर्कं वपुर् अत्र रन्ध्रे
परस्परं सिध्यति यः स्वतः खे ।
आत्मा यद् एषाम् अपरो य आद्यः
स्वयानुभूत्याखिल-सिद्ध-सिद्धिः ॥ [भ्प् 11.12.30-31]
विकल्पं भेदं तद्-बुद्धीश् च । अनेकधात्वं प्रपञ्चयति वैकारिक इति ।
अनेक-विकारवान् अप्य् अस्यौ स्थूल-दृष्ट्या तावत् त्रिविधः । त्रैविध्यम् आह
अध्यात्म इत्य् आदिना । तानि क्रमेणाह दृग्-आदि-त्रयेण । वपुर् अंशः । अत्र
रन्ध्रे दृग्-गोलके प्रविष्टं तत् त्रयं च परस्परम् एव सिध्यति न तु
स्वतः । यस् तु खे आकाशे अर्को वर्तते स पुनः स्वतः सिध्यति । चक्षुर्
विषयत्वेऽपि स्व-विरोधिनः प्रतियोग्य-प्रेक्षाभाव-मात्रेण स्वत इत्य् उक्तम् ।
एवं यथा मण्डलात्मार्कः स्वतः सिध्यति तथात्मापीत्याह । यद् यतः
पूर्वोक्त-दृष्टान्त-हेतोर् आत्मा एषाम् अध्यात्मादीनां योऽपर आद्यस् तेषाम्
आश्रयः । सोऽपि स्वतः सिध्यति किन्तु स्वयानुभूत्येति चिद्-रूपत्वाद् विशेषः ।
न केवलम् एतावद् अपि तु अखिलानां परस्पर-सिद्धानां सिद्धिर् यस्मात्
तथाभूतः सन्न् इति ॥
॥ 11.12 ॥ श्री-भगवान्

5.28

[28]
यस्मात् स्वरूप-भूतयैव शक्त्या तथा प्रकाशते तस्माद् एक-रूप-स्वरूप-
भाक्त्वम् अपि दीपवद् एव । नात्मा जजानेत्य् आदाव् [भ्प्
11.3.37][*एन्द्नोते #5] उपलब्धि-मात्रम् इत्य् अनेनैवोक्तं मात्र-पदं
तद्-धर्माणाम् अपि स्वरूपानतिरिक्तत्वं ध्वनयति । अथ चेतनत्वं नाम
स्वस्य चिद्-रूपत्वेऽप्य् अन्यस्य देहादेश् चेतयितृत्वं दीपादि-प्रकाशयितृत्ववत् ।
तद् एतद् विलक्षण इत्य् आदाव् एव दृष्टान्तेनोक्तम् । प्रकाशक इति चेतयितृत्वे
हेतुः । व्याप्ति-शीलत्वम् उदाहरिष्यमाण आत्मेत्य् आदौ श्री-प्रह्लाद-वाक्ये
व्यापक इत्य् अनेनोक्तं व्याप्ति-शीलत्वम् अति-सूक्ष्मतया सर्वाचेतनान्तः-
प्रवेश-स्वभावत्वम् । ज्ञान-मात्रात्मको न चेत्य् अत्र चिद्-आनन्दात्मक इत्य्
अपि हेत्व्-अन्तरम् । तत्र तस्य जड-प्रतियोगित्वेन ज्ञानत्वं दुःख-
प्रतियोगित्वेन तु ज्ञानत्वम् आनन्दत्वं च । ज्ञानत्वं तूदाहृतम् ।
आनन्दत्वं निरुपाधिप्रेमास्पदत्वेन साधयति ।
तस्मात् प्रियतमः स्वात्मा
सर्वेषाम् एव देहिनाम् ।
तद् अर्थम् एव सकलं
जगच् चैतच् चराचरम् ॥ [भ्प् 10.14.54]
स्पष्टम् ॥ 10.14 ॥ श्री-शुकः

5.29

[29]
तस्मिंश् चानन्दात्मके ज्ञाने प्रतिस्वं युष्मद्-अर्थत्वं न भवति । किन्त्व्
आत्मत्वाद् अस्मद्-अर्थत्वम् एव । तच् चास्मद्-अर्थत्वम् अहम्भाव एव ।
ततोऽहम् इत्य् एतच् छब्दाभिधेयाकारम् एवअ ज्ञानं शुद्ध आत्मा
प्रकृत्यावेशोऽन्यथा नोपपद्यते । यत एवावेशात् तदीय-सङ्खात एवाहम्
इत्य् अहस्मावान्तरं प्राप्नोति तद् एतद् अभिप्रेत्य तस्याहमत्वम् आह ।
एवं पराभिध्यानेन
कर्तृत्वं प्रकृतेः पुमान् ।
कर्मसु क्रियमाणेषु
गुणैर् आत्मनि मन्यते ॥ [भ्प् 3.26.6]
पराभिध्यानेन प्रकृत्यावेशेन प्रकृतिर् एवाहम् इति मननेन प्रकृति-
गुणैः क्रियमाणेषु कर्मसु कर्तृत्वम् आत्मनि मन्यते । अत्र
निरहम्भावस्य पराभिध्यानासम्भवात् परावेशजाताहङ्कारस्य
चावरकत्वाद् अस्त्य् एव तस्मिन्न् अन्योऽहम्भाव-विशेषः । स च शुद्ध-
स्वरूप-मात्र-निष्ठत्वान् न संसार-हेतुर् इति स्पष्टम् । एतद् एवाहङ्कार-
द्वयं सन्ने यद् इन्द्रिय-गणेऽहमि च प्रसुप्ते कूटस्थ आशयम् ऋते तद्-
अनुस्मृतिर् न इत्य् अत्र [भ्प् 11.3.39] दर्शितम्[*एन्द्नोते #6] ।
उपाध्वभिमानात्मकस्याहङ्कारस्य प्रसुप्तत्वात् तद्-अनुस्मृतिर् न इत्य्
अनेन सुखम् अहम् अस्वाप्स्वम् इत्य् आत्मनोऽहतयैव परामर्शाच् च अतएव
माम् अहं नाज्ञासिषम् इत्य् अत्र परामर्शेऽपि
उपाध्यभिमानिनोऽनुसन्धानाभावः अन्यस्य त्व् अज्ञान-
साक्षित्वेनानुसन्धानम् इति दिक् ।
॥ 3.26 ॥ श्री-कपिलदेवः

5.30

[30]
तथा -
नृत्यतो गायतः पश्यन्
यथैवानुकरोति तान् ।
एवं बुद्धि-गुणान् पश्यन्न्
अनीहोऽप्य् अनुकार्यते ॥ [भ्प् 11.12.53]
पूर्ववत् ॥ 11.12 ॥ श्रीभगवान्

5.31

[31]
एवम् एव स्वप्न-दृष्टान्तम् अपि घटयन्न् आह ।
यद्-अर्थेन विनामुष्य
पुंस आत्म-विपर्ययः ।
प्रतीयत उपद्रष्टुः
स्व-शिरश् छेदनादिकः ॥ [भ्प् 3.7.10]
उपद्रष्टुर् अमुष्येति स्वप्न-द्रष्ट्रा अमुना जीवेनेत्य् अर्थः ॥ 3.7 ॥ श्री-
मैत्रेयः

5.32

[32]
साधिते च सव्रूप-भूतेऽहम्भावे प्रतिक्षेत्रं भिन्नत्वम् अपि साधितम् ।
यत् तु
वस्तुनो यद्य् अनानात्वम्
आत्मनः प्रश्न ईदृशः ।
कथं घटेत वो विप्रा
वक्तुर् वा मे क आश्रयः ॥ [भ्प् 11.13.22]
इत्यादौ ज्ञानिनो लौकिक-गुरु-रीतिं तदीय-प्राकृत-दृष्टिं वानुसृत्य स्वस्य
जीवान्तर-साधारण्य-कल्पना-मये श्री-हंस-देव-वाक्ये जीवात्मनाम्
एकत्वम् । तत् खलु अंश-भेदेऽपि ज्ञानेच्छून् प्रति ज्ञानोपयोगित्वेन तम्
अविविच्यैव समानाकारत्वेन । भेद-व्यपदेशः यथा तत्रैव ।
पञ्चात्मकेषु भूतेषु समानेष्व् अपि वस्तुतः ।
को भवान् इति वः प्रश्नो वाचारम्भो ह्य् अनर्थकः ॥ [भ्प् 11.13.23] इति ।
तत्राप्य् अंश-भेदोऽस्त्य् एव । अत उक्तं स्वयं भगवता -- शुनि चैव श्वपाके
च पण्डिताः समदर्शिनः [गीता 5.18] इति । निर्दोषं हि समं ब्रह्म इत्य् आदि
च [गीता 5.19] । अत्र ब्रह्मेति जीव-ब्रह्मैवोच्यते । यथा यथाहम् एतत् सद्-
असत् स्व-मायया पश्ये मयि ब्रह्मणि कल्पितं परे इति । मयि ब्रह्मणि
देहात्मकं परे ब्रह्मणि च जगद्-आत्मकं सद्-असत् कार्य-कारण-
सङ्घातं स्व-विषयक-मायया जीव-मायाख्यया देह एवाहं तथा इन्द्र-
चन्द्राद्य्-आत्मकं जगद् एवेश्वर इतीदं कल्पितम् एव यया मत्या पश्ये
पश्यामीत्य् अर्थः । समान-कारणत्वाद् एव पूर्ववद् अन्यत्र च सोऽहं स च
त्वम् इति । तद् एवं सर्वेषाम् एव जीवानाम् एकाकारत्वे सति । यावत् स्याद् गुण-
वैषम्यं तावन् नानात्वम् आत्मनः । नानात्वम् आत्मनो यावत् पारतन्त्र्यं
तदैव हीत्य्-आदिषु देवादि-देह-भेद-कृतागन्तुक-नानात्वं निगद्यते ।
वेणु-रन्ध्र-विभेदेन
भेदः षड्-जादि-संज्ञ्तः ।
अभेद-व्यापिनी वायोस्
तथा तस्य महात्मनः ॥ इत्य् [विप् 2.14.32] आदिकं तु परमात्म-विषयकम्
एव ।
तद् एतत् सर्वम् अभिप्रेत्य जीवानां प्रतिक्षेत्रं भिन्नत्वं स्व-पक्षत्वेन
निर्दिशन्ति । अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गता इति ॥ [भ्प् 10.87.30]
अत्र यदि-शब्दात् पूर्व-पाठेनापरिमितत्वं ध्रुवत्वं चासन्दिग्धम् इति
तत्र स्वपक्षत्वं पश्चात्-पाठेन सर्व-गतत्वं तु सन्दिग्धम् इति । तत्र
पर-पक्षत्वं स्पष्टम् एव । अतएव एको देवः सर्व-भूतेषु गूढ इत्य्
आदिकं पर्मात्म-परं वाक्यं जीवानाम् एकत्वं
बोधयति ॥ 10.87 ॥ श्रुतयः

5.33

[33]
प्रति-क्षेत्र-भिन्नत्वे हेत्व्-अन्तरम् अणुर् इति । अणुः परमाणुर् इत्य् अर्थः ।
परमाणुश् च यस्य दिग्-भेदेऽप्य् अंशो न कल्पयितुं शक्यते स एवांशस्य
परा काष्ठेति तद्-विदः । अणोर् अप्य् अखण्ड-देह-चेतयितृत्वं प्रभाव-
विशेषाद् गुणाद् एव भवति । यथा शिर आदुअ धार्यमाणस्य जतु-
जठितस्यापि महौषधि-खण्डस्याखण्ड-देह-पुष्टीकरणादि-हेतुः
प्रभावः । यथा वायस्कान्तादेर् लौह-चालनादि-हेतुः प्रभाव एव तद्वत् ।
तद् एतद् अणुत्वम् आह सूक्ष्माणाम् अप्य् अहं जीव इति [भ्प् 11.16.11]
तस्मात् सूक्ष्मता-पराकाष्ठा-प्राप्तो जीव इत्य् अर्थः । दुर्ज्ञेयत्वाद् यत्
सूक्ष्मत्वं तद् अत्र न विवक्षितम् । महतां च महान् अहं सूक्ष्माणाम्
अप्य् अहं जीव इति परस्पर-प्रतियोगित्वेन वाक्य-द्वयस्यानन्दर्यौक्तौ
स्वारस्य-भङ्गात् । प्रपञ्च-मध्ये हि सर्व-कारणत्वान् महत्-तत्त्वस्य
महत्त्वं नाम व्यापकत्वं न तु पृथिव्याद्य्-अपेक्षया सुज्ञेयत्वं यथा
तद्वत् प्रपञ्चे जीवानाम् अपि सूक्ष्मत्वं परमाणुत्वम् एवेति स्वारस्यम् ।
श्रुतयश् च - एषोऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा
संविवेशेति [मुण्डु 3.1.9] ।
बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः [श्वेतु 5.9] इति ।
आराग्र-मात्रो ह्य् अपरोऽपि दृष्ट इति च ॥ 11.16 ॥ श्री-भगवान्

5.34

[34]
तथा -
अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गतास्
तर्हि न शास्यतेति नियमो ध्रुव नेतरथा ।
अजनि च यन् मयं तद् अविमुच्य नियन्तृ भवेत्
समम् अनुजानतां यद् अमतं मत-दुष्टतया ॥ [भ्प् 10.87.30]
अयम् अर्थः - परमात्मनोऽंशत्वं तस्माज् जायमानत्वं च जीवस्य
श्रूयते । तत्र ममैवांशो जीव लोके [गीता 15.7] इत्य् आदि सिद्धेऽंशत्वे तावत्
तस्य विभुत्वम् उक्तम् इत्य् आहुः । अपरिमिता वस्तुत एवानन्त-सङ्ख्या नित्याश्
च ये तनु-भृतो जीवास् ते यदि सर्वगता विभवाः स्युः, तर्हि तेषां
व्याप्यत्वाभावेन समत्वात् शास्यतेति नियमो न स्यात् । ईश्वरो नियन्ता जीवो
नियम्य इति वेद-कृत-नियमो न घटत इत्य् अर्थः । हे ध्रुव इतरथा
जीवस्याणुत्वेन व्याप्य-भावे तु सति न तन्-नियमो न अपि तु स घटत एवेत्य्
अर्थः ।
अथ यतो वा इमानि भूतानि जायन्ते इति जायमानत्वावस्थायाम् अपि व्याप्य-
व्यापकत्वेनैव नियन्तृत्वं भवति । सर्वत्रैव कार्य-कारणयोस्
तथाभाव-दर्शनाद् इत्य् आहुः अजनीति । यन्-मयं यद्-उपादानकं यद् अजनि
जायत इत्य् अर्थः । तद्-उपादानं कर्तृ तस्य जायमानस्य यन्-नियन्तृ भवेत्
तद् अविमुच्य किञ्चिद् अप्य् अनुक्ता व्याप्यैवेत्य् अर्थः । किं च यद्-उपादान-
रूपं परमात्माख्यं तत्त्वं केनाप्य् अपरेण समं समानम् इत्य्
अनुजानतां यः कश्चित् तथा वदति तत्रानुज्ञाम् अपि ददताम् अमतं ज्ञातं
न भवतीत्य् अर्थः । तत्र हेतुः मत-दुष्टतया तस्य मतस्याशुद्धत्वेन ।
तत्राशुद्धत्वं श्रुत्वा च विरोधात् । श्रुतिश् च असमो वा एष परो न हि
कश्चिद् एव दृश्यते सर्वे त्व् एते न वा जायन्ते च म्रियते सर्वे ह्य् अपूर्णाश् च
भवन्तीति चतुर्वेद-शिखायाम् । न तत्-समश् चाभ्यधिकश् च दृश्यते इति ।
अथ कस्माद् उच्यते ब्रह्मा बृंहति बृंहयति चेति चान्यत्र । बृहत्वाद्
बृंहणत्वाच् च यद् ब्रह्म परमं विदुर् इति [विप् 1.12.57] श्री-विष्णु-पुराणे ।
अतः परमात्मन एव सर्व-व्यापकत्वम् । एको देवः सर्व-भूतेषु गूढः
सर्व-व्यापी सर्व-भूतान्तरात्मा इत्य् आदौ । तस्माद् अणुर् एव जीव इति ।
यत् तु श्री-भगवद्-गीतासु नित्यः सर्व-गतः स्थाणुर् इत्य् आदिना जीव-
निरूपणं तत्र सर्व-गतः श्री-भगवान् एव तत्-स्थस् तद्-आश्रितश् चासाव्
अगुणश् च इति सर्वगतः स्थाणुर् जीवः प्रोक्तः ॥ 10.87 ॥ श्रुतयः

5.35

[35]
अथ शुद्ध-स्वरूपत्वान् नित्य-निर्मलत्वम् उदाहृतम् एव । शुद्धो विचष्टे
ह्य् अविशुद्ध-कर्तुर् इत्य् अनेन । तथा तेनैव शुद्धस्यापि ज्ञातृत्वम् अप्य्
उदाहृतम् । ज्ञानं च नित्यस्य स्वाभाविक-धर्मत्वान् नित्यम् । अतएव न
विक्रियात्मकम् अपि । तथा चैतन्य-सम्बन्धेन देहादेः कर्तृत्व-दर्शनात् ।
क्वचिद् अचेतनस्य कर्तृत्वं च । न ऋते तत् क्रियते किं च नारे इत्य् आदाव्
अन्तर्यामि-चैतन्य-सम्बन्धेन भवतीत्य् अङ्गीकाराच् च शुद्धाद् एव
कर्तृत्वं प्रवर्तते । तद् उक्तम् - देहेन्द्रिय-प्राण-मनो-धियोऽमी यद्-अंश-
बिद्धाः प्रचरन्ति कर्मस्व् इति [भ्प् 6.16.24] । तत् तूपाधि-प्राधान्येन
प्रवर्तमानम् उपाधि-धर्मत्वेन व्यपदिश्यते । यथा - कार्य-कारण-
कर्तृत्वे कारणं प्रकृतिं विदुर् इत्य् [भ्प् 3.26.8] आदौ । परमात्म-
प्राधान्येन प्रवर्तमानं तु निरुपाधिकम् एवेत्य् आह ।
सात्त्विकः कारकोऽसङ्गी
रागान्धो राजसः स्मृतः ।
तामसः स्मृति-विभ्रष्टो
निर्गुणो मद्-अपाश्रयः ॥ [भ्प् 11.25.26]
स्पष्टम् ॥ 11.25 ॥ श्री-भगवान्

5.36

[36]
अथ भोक्तृत्वं संवेदन-रूपत्वेन यथा तथा तत्रैव चिद्-रूपे
पर्यवस्यतीत्य् आह भोक्तृत्वे सुख-दुःखानां पुरुषं प्रकृतेः परम् इति
[भ्प् 3.26.8] ॥ कारणम् इति पूर्वेणैवान्वयः ॥ 3.26 ॥ श्री-कपिल-देवः

5.37

[37]
अथ परमात्मैक-शेषत्वेति व्याख्येयम् । एकः परमात्मनोऽन्यः
शेषोऽंशः । स चासौ स च एक-शेषः । परमात्मन एक-शेषः परमात्मैक-
शेषः । तस्य भावस् तत्त्वं तद् एव स्वभावः प्रकृतिर् यस्य स
परमात्मैक-शेषत्व-स्वभावः । तथाभूतश् चायं सर्वदा मोक्ष-
दशायाम् अपीत्य् अर्थः । एतादृशत्वं चास्य स्वतः स्वरूपत एव न तु
परिच्छेदादिना । तदीय-स्वाभाविकाचिन्त्य-शक्त्या स्वाभाविक-तदीय-रश्मि-
परमाणु-स्थानीयत्वात् औपाधिकावथायास् त्व् अंशेन प्रकृति-शेषत्वम् अपि
भवति इति च स्वत इत्य् अस्य भावः । शक्ति-रूपत्वं चास्य तटस्थ-शक्त्य्-
आत्मकत्वात्, तथा तदीय-रश्मि-स्थानीयत्वेऽपि नित्य-तद्-आश्रयित्वात् तद्-
व्यतिरेकेण व्यतिरेकात् । हेतुर् भावोऽस्य सर्गादेर् इत्य् अनुसारेण जगत्-सृष्टौ
तत्-साधनत्वात् । द्रव्य-स्वरूपत्वेऽपि प्रधान-साम्याच् चावगम्यते । उक्तं
च प्रकृति-विशेषत्वेन तस्य शक्तित्वम् -
विष्णु-शक्तिः परा प्रोक्ता
क्षेत्रज्ञाख्या तथा परा ।
अविद्या कर्म-संज्ञाख्या
तृतीया शक्तिर् उच्यते ॥ इति विष्णु-पुराणे [विप् 6.7.61] ।
भूमिर् आपोऽनलो वायुर् इत्य् [गीता 7.4] आदौ भिन्ना प्रकृतिर् अष्टधेत्य्
अनन्तरम् ।
अपरेयम् इतस् त्व् अन्यां
प्रकृतिं विद्धि मे पराम् ।
जीव-भूतां महाबाहो
ययेदं धार्यते जगत् ॥ इति श्री-गीतोपनिषत्सु च ।
विष्णु-शक्तिः परा प्रोक्तेत्य् आदि विष्णु-पुराण-वचने तु तिसॄणाम् एव पृथक्
शक्तित्व-निर्देशात् क्षेत्रज्ञस्याविद्या-कर्म-सम्बन्धेन शक्तित्वम् इति परास्
तम् । किन्तु स्वरूपेनैवेत्य् आयातम् । तथा च गीतम् ममैवांश इति ।
अतएवापरेयम् इतस् त्व् अन्याम् इत्य् उक्तम् । क्षेत्रज्ञ एता मनसो विभूतीर् इत्य्
आदौ क्षेत्रज्ञ-शब्दश् च शुद्धेऽपि प्रवर्तते क्षेत्र-शब्दस्योपलक्षण-
मात्रत्वात् ।
तद् एवं शक्तित्वेऽप्य् अन्यत्वम् अस्य तटस्थत्वात् । तटस्थत्वं च माया-शक्त्य्-
अतीतत्वात् । अस्याविद्यापराभवादि-रूपेण दोषेण परमात्मनो लेपाभावाच्
चोभय-कोटाव् अप्रवेशात् । तस्य तच्-छक्तित्वे सत्य् अपि परमात्मनस् तल्-
लेपाभावश् च यथा क्वचिद् एक-देश-स्थे रश्मौ छायया तिरस्कृतेऽपि
सूर्यस्यातिरस्कारस् तद्वत् । उक्तं च तटस्थत्वं श्री-नारद-पञ्चरात्रे -
यत् तटस्थं तु चिद्-रूपं
स्व-संवेद्याद् विनिर्गतम् ।
रञ्जितं गुण-रागेण
स जीव इति कथ्यते ॥ इत्य् आदौ ।
अतो विष्णु-पुराणेऽप्य् अन्तराल एव पठितोऽसौ । अन्यत्वं च श्रुतौ अस्मान्
मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया संनिरुद्धः [श्वेतु 4.9] ।
तयोर् अन्यः पिप्पलं स्वाद्व् अत्ति इत्य् आदौ । अतएवोक्तं वैष्णवे विभेद-जनके
ज्ञाने नाशम् आत्यन्तिकं गते । आत्मनो ब्रह्मणो भेदम् असन्तं कः
करिष्यतीति । देवत्व-मनुष्यत्वादि-लक्षणो विशेषतो यो भेदस् तस्य जनकेऽप्य्
अज्ञाने नाशं गते ब्रह्मणः परमात्मनः सकाशाद् आत्मनो जीवस्य यो
भेदः स्वाभाविकस् तं भेदम् असन्तं कः करिष्यति अपि तु सन्तं
विद्यमानम् एव सर्व एव करिष्यतीत्य् अर्थः । उत्तरत्र पाठे नासन्तम् इत्य्
एतस्य विधेयत्वाद् अन्यार्थः कष्ट-सृष्ट एवेति मोक्षदायाम् अपि तद्-
अंशत्वाव्यभिचारः स्वाभाविक-शक्तित्वाद् एव । अतएवाविद्या-विमोक्ष-
पूर्वक-स्वरूपावस्ह्तिति-लक्षणायां मुक्तौ तल्-लीनस्य तत्-साधर्म्यापत्तिर्
भवति । निरञ्जनः परमं साम्यम् उपैतीत्य् आदि-श्रुतिभ्यः । इदं ज्ञानम्
उपाश्रित्य मम साधर्म्यम् आगताः । स्वर्गेऽपि नोपजायते प्रलये न
व्यथन्ति चेति श्री-गीतोपनिषद्भ्यश् च । अतएव ब्रह्म वेद ब्रह्मैव
भवतीत्य् [मुण्ड् 3.2.9] आदिषु च ब्रह्म-तादात्म्यम् एव बोधयति ।
स्वाभाव्यापत्तिर् उपपत्तेर् इतिवत् । तद् एवं शक्तित्वे सिद्धे शक्ति-शक्तिमतोः
परस्परानुप्रवेशात् शक्तिमद्-व्यतिरेके शक्ति-व्यतिरेकात् चित्त्वाविशेषाच् च
क्वचिद् अभेद-निर्देश एकस्मिन्न् अपि वस्तुनि शक्ति-वैविध्य-दर्शनात् भेद-
निर्देशश् च नासमञ्जसः । श्री-रामानुजीयास् तु अधिष्ठानाधिष्ठात्रोर् अपि
जीवेशयोर् अभेद-व्यपदेशो व्यक्ति-जात्योर् गवादि-व्यपदेशवद् इति मन्यन्ते ।
यथा श्री-विष्णु-पुराणे[*एन्द्नोते #7]-
योऽयं तवागतो देव-
समीपं देवता-गणः ।
स त्वम् एव जगत्-स्रष्टा
यतः सर्व-गतो भवान् ॥ इति ।
श्री-गीतासु च - सर्वं समाप्नोषि ततोऽसि सर्व इति । तत्र ज्ञानेच्छून् प्रति
शास्त्रम् अभेदम् उपदिशति भक्तीच्छून् प्रति तु भेदम् एव । क्वचित् तु
परमात्म-प्रतिबिम्बत्वं यद् अस्य श्रूयते, यथा -
यथा पुरुष आत्मानम् एकम् आदर्श-चक्षुषोर् द्विधा-भूतम् एवेक्षेत
तथैवान्तरम् आवयोर् इति । तद् अपि ज्ञानेच्छून् प्रत्य् अभेद-दृष्टि-
पोषणार्थम् एवोच्यते न वास्तव-वृत्त्यैव प्रतिबिम्बत्वेन । अद्वयवाद-
गुरु-मतेऽप्य् अम्बुवद् अग्रहणाद्[*एन्द्नोते #8] इति [व्स् 3.2.19] न्याय-
विरोधाद् वृद्धि-ह्रास-भाक्त्वम् अन्त्रभावाद् उभय-सामञ्जस्याद् एवम् इति
[व्स् 3.2.20] न्यायेन यथा-कथञ्चित् प्रतिबिम्ब-सादृश्य-मात्राङ्गीकाराच् च ।
तद् एतत् तस्य पर्मात्मांश-रूपताया नित्यत्वं श्री-गीतोपनिषद्भिर् अपि
दर्शितम् ममैवांशो जीव-लोके जीव-भूतः सनातन इति । तद् एवं अंशत्वं
तावद् आह तत्र समष्टेः --
एष ह्य् अशेष-सत्त्वानाम्
आत्मांशः परमात्मनः ।
आद्यो ऽवतारो यत्रासौ
भूत-ग्रामो विभाव्यते ॥ [भ्प् 3.6.8]
टीका च - अशेष-सत्त्वानाम् प्राणिनाम् आत्मा व्यष्टीनां तद्-अंशत्वात् अंशो
जीवः । अवतारतोक्तिस् तस्मिन् नारायणाविर्भावाभिप्रायेणेत्य् एषा ॥ 3.6 ॥ श्री-
शुकः

5.38

[38]
अथ व्यष्टेः -
एकस्यैव ममांशस्य
जीवस्यैव महामते ।
बन्धोऽस्याविद्ययानादेर्
विद्यया च तथेतरः ॥ [भ्प् 11.11.4]
इतरो मोक्षः । अत्र रश्मि-परमाणु-स्थानीयो व्यष्टिः । तत्र सर्वाभिमानी
कश्चित् समष्टिर् इति ज्ञेयम् ॥ 11.11 ॥ श्री-भगवान्

5.39

[39]
तत्र शक्तित्वेनैवांशत्वं व्यञ्जयन्ति -
स्व-कृत-पुरेऽप्य् अमीष्व् अबहिर्-अन्तर-संवरणं
तव पुरुषं वदन्त्य् अखिल-शक्ति-धृतोऽंश-कृतम् । [भ्प् 10.87.20] इति ।
अबहिर्-अन्तर-संवर्णं बहिर् बहिरङ्गाणि कारणानि कार्याणि अन्तर्
अन्तरङ्गानि तैर् असंवरणं कार्य-कारणैर् असंस्पृष्टम् । अंश-कृतम्
अंशम् इत्य् अर्थः । अखिल-शक्ति-धृतः सर्व-शक्ति-धरस्येति विशेषणं जीव-
शक्ति-विशिष्टस्यैव तव जीवोऽंशो न तु शुद्धस्येति गमयित्वा जीवस्य तच्-
छक्ति-रूपत्वेनैवांशत्वम् इत्य् अनेनैवांशत्वम् इत्य् एतद् व्यञ्जयन्ति । अथ
तटस्थत्वं च स यद् अजया त्यजाम् अनुशयीतेत्य् आदौ व्यक्तम् अस्ति
उभयकोटाव् अप्रविष्टत्वाद् एव ॥ 10.87 ॥ श्रुतयः श्री-भगवन्तम्

5.40

[40]
अथ ज्ञानेच्छुं प्रति जीवेशयोर् अभेदम् आह --
अहं भवान् न चान्यस् त्वं
त्वम् एवाहं विचक्ष्व भोः ।
न नौ पश्यन्ति कवयश्
छिद्रं जातु मनाग् अपि ॥ [भ्प् 4.28.62]
स्पष्टं ॥ 4.28 ॥ श्री-परमात्मा पुरञ्जनम्

5.41

[41]
तत्र पूर्वोक्त-रीत्या प्रथमं तावत् सर्वेषाम् एव तत्त्वानां
परस्परानुप्रवेश-
विवक्षयैक्यं प्रतीयते इत्य् एवं शक्तिमति परमात्मनि जीवाख्य-शक्त्य्-
अनुप्रवेश-विवक्षैव तयोर् ऐक्य-पक्षे हेतुर् इत्य् अभिप्रैते श्री-भगवान् --
परस्परानुप्रवेशात्
तत्त्वानां पुरुषर्षभम् ।
पौर्वापर्य-प्रसङ्ख्यानं
यथा वक्तुर् विवक्षितम् ॥ [भ्प् 11.22.7]
टीका च - अन्योन्यस्मिन्न् अनुप्रवेशाद् वक्तुर् यथा विवक्षितं तथा पूर्वा
अल्प-सङ्ख्या अपरा अधिक-सङ्ख्या तयोर् भावः परुवापर्यं तेन
प्रसङ्ख्यानं गणनम् इत्य् एषा ॥ 11.22॥ श्री-भगवान्

5.42

[42]
अथाव्यतिरेकेण चिद्-रूपत्वाविशेषेणापि तयोर् ऐक्यम् उपदिशति -
पुरुषेश्वरयोर् अत्र न वैलक्षण्यम् अण्व् अपि ।
तद्-अन्य-कल्पनापार्था इति [भ्प् 11.22.11] ।
टीका च - कथं तर्हि पञ्चविंशति-पक्षस् तत्राह पुरुषेति । वैलक्षण्यं
विसदृशत्वं नास्ति द्वयोर् अपि चिद्-रूपत्वात् । अतस् तयोर् अत्यन्तम् अन्यत्व-
कल्पना-पार्था इत्य् एषा । अत्र सदृशत्वानन्यत्वाभ्यां तयोः शक्ति-
शक्तिमत्त्वं दर्शितम् । तेनाव्यतिरेकोऽपि ॥ 11.21 ॥ श्री-भगवान्

5.43

[43]
अथ भक्तीच्छुं प्रति तयोर् भेदम् उपदिशति ।
यदा रहितम् आत्मानं
भूतेन्द्रिय-गुणाशयैः ।
स्वरूपेण मयोपेतं
पश्यन् स्वाराज्यम् ऋच्छति ॥ [भ्प् 3.9.33]
आत्मानं जीवं स्वरूपेण तस्या जीव-शक्तेर् आश्रय-भूतेन शक्तिमता मया
उपेतं युक्तम् । स्वाराज्यं सार्ष्ट्यादिकम् ॥ 3.9 ॥ ग्रभोदशायी
ब्रह्माणम्

5.44

[44]
तत्र भेदे हेतुम् आह -
अनाद्य्-अविद्या-युक्तस्य
पुरुषस्यात्म-वेदनम् ।
स्वतो न सम्भवाद् अन्यस्
तत्त्वज्ञो ज्ञानदो भवेत् ॥ [भ्प् 11.22.10]
टीका च - स्वतो न सम्भवति, अन्यतस् तु सम्भवात् । स्वतः सर्वज्ञः
पर्मेश्वरोऽन्यो भवेद् इति अड्-विंशति-तत्त्व-पोअक्षाभिप्रायः इत्य् एषा ।
ज्ञानदत्वम् अत्र ज्ञानाज् ज्ञातुश् च वैलक्षण्यम् ईश्वरस्य बोधयत्य् एवेति
भावः । एवं त्वत्तो ज्ञानं हि जीवानां प्रमोषस् तेऽत्र शक्तितः [भ्प् 11.22.28]
इत्य् उद्धव-वाक्यं चाग्रे ।
अत्र यदि जीवाज्ञानकल्पितम् एव तस्य परमेश्वरत्वं स्यात् तर्हि स्थाणु-
पुरुषवत् तस्य ज्ञान-दत्तम् अपि न स्याद् इत्य् अतः सत्य एव जीवेश्वर-भेद
इत्य् एवं श्रीमद्-ईश्वरेणैव स्वयं तस्य
पारमर्थिकेश्वराभिमानित्वेनैवास्तित्वं मूढान् प्रति बोधितम् इति
स्पष्टम् । भेद-वादिनश् चात्रैव प्रकरणे यथा विविक्तं यद् वक्त्रं
गृह्णीमो युक्ति-सम्भवाद् इत्य् अत्र परम-विवेकजस् तु भेद एवेति । तथा,
मायां मदीयाम् उदगृह्य वदतां किं नु दुर्घटम् इति [भ्प् 11.22.4] च
मन्यते ।
ननु,
श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् ।
प्रमाणेष्व् अनवस्थानाद् विकल्पान् स विरज्यते ॥ इत्य् [भ्प् 11.19.17]
अत्र भेद-मात्रं निषिध्यते विकल्प-शब्दस्य संशयार्थत्वात् । संशयं
परित्यज्य वस्तुन्य् एव निष्ठा करोतीत्य् अर्थः । अतएव कर्मणां
परिणामित्वाद् आविरिञ्च्याद् अमङ्गलम् । विपश्चिन् नश्वरं पश्येद् अदृष्टम्
अपि दृष्टवद् इत्य् अत्रास्योत्तर-श्लोकेऽपि विरिञ्चम् एवावधिं कृत्वा नश्वरत्व-
दृष्टिर् उक्ता न तु वैकुण्ठादिकम् अपीति ॥ 11.19 ॥ श्री-भगवान्

5.45

[45]
अन्यत्रापि श्री-जामातृ-मुनिभिर् उपदिष्टस्य जीव-लक्षणस्यविओपजीव्यत्वेन
तं लक्षयति त्रिभिः -
अहं ममाभिमानोत्थैः
काम-लोभादिभिर् मलैः ।
वीतं यदा मनः शुद्धम्
अदुःखम् असुखं समम् ॥ [भ्प् 3.25.16]
तदा पुरुष आत्मानं
केवलं प्रकृतेः परम् ।
निरन्तरं स्वयं-ज्योतिर्
अणिमानम् अखण्डितम् ॥ [भ्प् 3.25.17]
ज्ञान-वैराग्य-युक्तेन
भक्ति-युक्तेन चात्मना ।
परिपश्यत्य् उदासीनं
प्रकृतिं च हतौजसम् ॥ [भ्प् 3.25.18]
स्पष्टैव योजना । तवाहम् इति पद्येन स आत्मा नित्य-निर्मल इति । आत्मानम्
इत्य् अनेनैवाहम् अर्थ इति । अन्यथा ह्य् आत्मत्व-प्रतीत्य्-अभावः स्यात् ।
केवलम् इत्य् अनेनैक-रूप-स्वरूप-भाग् इति । प्रकृतेः परम् इत्य् अनेन विकार-
रहितः । भक्ति-युक्तेनेत्य् अनेन परमात्म-प्रसादाधीन-तत्-प्रकाशत्वात्
निरन्तरम् इत्य् अनेन नित्यत्वात् परमात्मैक-शेषत्वम् इति । स्वयं ज्योतिर् इत्य्
अनेन स्वस्मै स्वयं प्रकाश इति ज्ञान-मात्रात्मको न च इति च । अणिमानम्
इत्य् अनेनाणुर् एवेति प्रति-क्षेत्रं भिन्न इति च । अखण्डितम् इत्य् अनेन विच्छिन्न-
ज्ञानादि-शक्तित्वात् ज्ञातृत्व-कर्तृत्व-भोक्तृत्व-निज-धर्मक इति
व्यञ्जितम् ॥ 3.25 ॥ श्री-कपिलदेवः

5.46

[46]
तथेदम् अपि प्राक्तन-लक्षणा-विरुद्धम् -
आत्मा नित्यो ऽव्ययः शुद्ध
एकः क्षेत्र-ज्ञ आश्रयः ।
अविक्रियः स्व-दृग् हेतुर्
व्यापको ऽसङ्ग्य् अनावृतः ॥ [भ्प् 7.7.19]
एतैर् द्वादशभिर् विद्वान्
आत्मनो लक्षणैः परैः ।
अहं ममेत्य् असद्-भावं
देहादौ मोहजं त्यजेत् ॥ [भ्प् 7.7.20]
अव्ययः अपक्षय-शून्यः । एको न तु देहेद्रियादि-सङ्घात-रूपः । क्षेत्रज्ञो
ज्ञातृत्वादि-धर्मकः । इन्द्रियादीनाम् आश्रयः । स्वाभाविक-ज्ञातृत्वाद्
एवाविक्रियः । स्वदृक् स्वस्मै स्वयं प्रकाशः । हेतुः सर्गादि-निमित्तम् । तद्
उक्तं श्री-सूतेन - हेतुर् जीवोऽस्य सर्गादेर् अविद्या-कर्म-कारक [भ्प् 12.7.18]
इति । व्यापको व्याप्ति-शीलः । असङ्गी अनावृतश् च स्वतः प्रकाश-रूपत्वात् ।
अहं ममेत्य् असद्भावं देहादौ मोहजं त्यजेद् इति देहाद्य्-अधिकरणकस्य
मोहजस्यैव त्यागो न तु स्वरूप-भूतस्येत्य् अहम अर्थ इति । व्यज्जते । तद्
एवं जीवस् तअद् -अंशत्वात् सूक्ष्म-ज्योती-रूप इत्य् एके । तथैव हि
कौस्तुभांशत्वेन व्यञ्जितम् । तथा च स्कान्द-प्रभास-खण्डे जीव-
निरूपणे -
न तस्य रूपं वर्णा वा प्रमाणं दृश्यते क्वचित् ।
न शक्यं कथितुं वापि सूक्ष्मश् चानन्त-विग्रहः ॥
बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।
तस्मात् सूक्ष्मतरो देवः स चानन्त्याय कल्प्य्ते ॥
आदित्य-वर्णं सूक्ष्माभम् अब्-बिन्दुम् इव पुष्करे ।
नक्षत्रम् इव पश्यन्ति योगिनो ज्ञान-चक्षुषा ॥ इति ॥
॥7.9॥ श्री-प्रह्लादोऽसुर-बालकान्

5.47

[47]
तद् एवम् अनन्ता एव जीवाख्यास् तटस्थाः शक्तयः । तत्र तासां वर्ग-
द्वयम् । एको वर्गोऽनादित एव भगवद्-उन्मुखः अन्यस् त्व् अनादित एव
भगवत्-पराङ्मुखः । स्वभावतस् तदीय-ज्ञान-भावात् तदीय-
ज्ञानाभावाच् च । अत्र प्रथमोऽन्तरङ्गाशक्ति-विलासानुगृहीतो नित्य-
भगवत्-परिकर-रूपो गरुडादिकः । यथोक्तं पाद्मोत्तर-खण्डे त्रिपाद्-
विभूतेर् लोकास् त्व् इत्य् आदौ भगवत्-सन्दर्भोदाहृते (81) । अस्य च
तटस्थत्वं जीवत्व-प्रसिद्धेर् ईश्वरत्व-कोटाव् अप्रवेशात् । अपरस्य तत्-
पराङ्मुखत्व-दोषेण लब्ध-च्छिद्रया मायया परिभूतः संसारी ।
यथोक्तं हंस-गुह्य-स्तवे - सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो न वेद
सर्वज्ञम् अनन्तम् ईडे इति [भ्प् 6.4.25] । एकादशे च -- भयं
द्वितीयाभिनिवेशतः स्याद् इति [भ्प् 11.2.37] ।
तद्-वर्ग-द्वयम् एवोक्तं श्री-विदुरेणापि -
तत्त्वानां भगवंस् तेषां
कतिधा प्रति-सङ्क्रमः ।
तत्रेमं क उपासीरन्
क उ स्विद् अनुशेरते ॥ [भ्प् 3.7.37] इत्य् अनेन ।
तत्र परमेश्वर-पराड्मुखानां शुद्धानाम् अपि तच्-छक्ति-विशिष्टान्
परमेश्वरात् सोपाधिकं जन्म भवति । तच् च जन्म निजोपाधि-जन्मना
निज-ज्नमाभिमान-हेतुकाध्यात्मिकावस्था-प्राप्तिर् एव । तद् एतद् आहुः --
न घटत उद्भवः प्रकृति-पुरुषयोर् अजयोर्
उभय-युजा भवन्य् असुभृतो जल-बुद्बुदवत् ।
त्वयि न इमे ततो विविध-नाम-गुणैः परमे
सरित इवार्णवे मधुनि लिख्युर् अशेष-रसाः ॥ [भ्प् 10.87.31]
प्रकृतेस् त्रैगुण्यं पुरुषं शुद्धौ जीवस् तयोर् द्वयोर् अप्य् अजत्वाद् उद्भवो
न घटते ये चासुभृत आध्यात्मिक-रूपाः सोपाधयो जीवा जायन्ते तत्-तद्-
उभय-शक्ति-युजा परमात्मनैव कारणेन जायन्ते प्रकृति-विकार-प्रलयेण
सुप्त-वासनत्वात् शुद्धास् ताः परमात्मनि लीना जीवाख्याः शक्तयः सृष्टि-
काले विकारिणीं प्रकृतिम् आसृज्य क्ष्भित-वासनाः सत्यः सोपाधिकावस्थां
प्राप्नुवन्त्य एव व्युच्चरन्तीत्य् अर्थः । एतद् अभिप्रेत्यैव भगवान् एक
आसेदम् इत्य् [3.5.23] आदि तृतीय-स्कन्ध-प्रकरणे -
काल-वृत्त्या तु मायायां
गुण-मय्याम् अधोक्षजः ।
पुरुषेणात्म-भूतेन
वीर्यम् आधत्त वीर्यवान् ॥ [भ्प् 3.5.26]
इत्य् अनेन वीर्य-शब्दोक्तस्य जीवस्य प्रकृतावाधानम् उक्तम् । एवं श्री-
गीतोपनिषत्स्व् अपि मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम्
इत्य् [गीता 14.3] अत्रोक्तम् । टीकाकारैश् च ब्रह्म-शब्देन प्रकृतिर् व्याख्याता
गर्भ-शब्देन जीव इति । पुनर् एष एव तृतीये -
दैवात् क्षुभित-धर्मिण्यां
स्वस्यां योनौ परः पुमान् ।
आधत्त वीर्यं सासूत
महत् तत्त्वं हिरण्मयम् ॥ [भ्प् 3.26.19]
इत्य् अत्र वीर्यं चिच्-छक्तिम् इति टीकायां व्याख्यातमतः शक्तित्वम् अस्य टीका-
सम्मतम् । ततोऽकस्माद् उद्भव-मात्रांशे दृष्टान्तः । जल-बुद्बुदवद् इति ।
अतः पुनर् अपि प्रलय-समये इमे सोपाधिका जीवास् त्वयि बिम्बस्थानीय-
मूल-चिद्-रूपे रश्मि-स्थानीय-चिद्-एक-लक्षण-शुद्ध-जीव-शक्तिमये । तत
एव स्वम् अपीतो भवतीत्य् आदि श्रुतौ स्व-शब्दाभिधेये परमे परमात्मनि
विविध-नाम-गुणैर् विविधाभिर् देवादि संज्ञाभिर् विविधैः शुभाशुभ-
गुणैश् च सह लिल्युर् लीयन्ते । पूर्ववत् प्रलयेऽपि दृष्टान्तः सरित इवार्णव
इति अशेष-रसा इव मधुनि इति च । अत्र देव-मनुष्यादि-नाम-रूप-
परित्यागेन तस्मिन् लीनेऽपि स्वरूप-भेदोऽस्त्य् एव तत्-तद्-अंश-सद्-भावाद् इत्य्
अभिप्रायः । अत्र श्रुतयः अजाम् एकाम् इत्य् [श्वेतु 5.5] आदि ।
यथा नद्यः स्यन्दमानाः समुद्रे
ऽस्तं गच्छन्ति नाम-रूपे विहाय ।
तथा विद्वान् नाम-रूपाद् विमुक्तः
परात् परं पुरुषम् उपैति दिव्यम् ॥ [मुण्डु 3.2.8] इति ।
यथा सौम्येमा मधु-कृतो निस्तिष्ठन्ति नाना-रूपाणाम् वृक्षाणां रसान्
समवहारम्
एकतां रसं गमयन्ति ॥ [छाउ 6.9.1]
ते यथा विवेकं न लभन्ते अमुषाहं वृक्षस्य रसोऽस्मीत्य् एवं खलु
सौम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति ॥ इति
[छाउ 6.9.2]
॥ 10.87 ॥ श्रुतयः श्री-भगवन्तम्

5.48

[48]
तद् एवं परमात्मनस् तटस्थाख्या शक्तिर् विवृता । अन्तराङ्गाख्या तु
पूर्ववद् एव ज्ञेया । अथ बहिरङ्गाख्या विव्रियते ।
एषा माया भगवतः
सृष्टि-स्थित्य्-अन्त-कारिणी
त्रि-वर्णा वर्णितास्माभिः
किं भूयः श्रोतुम् इच्छसि ॥ [भ्प् 11.3.18]
भगवतः स्वरूप-भूतैश्वर्यादेः । परमात्मन एषा तटस्थ-लक्षणेन
पूर्वोक्ता जगत्-सृष्ट्य्-आदि-कारिणी मायाख्या शक्तिः । त्रयो वर्णा यस्याः सा ।
तथा चाथर्वणिकाः पठन्ति । सितासिता च कृष्णा च सर्व-काम-दुघा विभोर्
इति । उक्तं च दैवी ह्य् एषा गुणमयी मम माया दुरत्यया [गीता 7.14]
इति ॥11.3॥ अन्तरीक्षो विदेहम्

5.49

[49]
तस्या मायायाश् चांश-द्वयम् । तत्र गुण-रूपस्य मायाख्यस्य
निमित्तांशस्य द्रव-रूपस्य प्रधानाख्यस्योपादानांशस्य च परस्परं
भेदम् आह चतुर्भिः ।
अथ ते सम्प्रवक्ष्यामि
साङ्ख्यं पूर्व-विनिश्चितम् ।
यद् विज्ञाय पुमान् सद्यो
जह्याद् वैकल्पिकं भ्रमम् ॥ [भ्प् 11.24.1]
टीका च - अद्वितीयात् परमात्मनो मायया प्रकृति-पुरुष-द्वारा सर्वं
द्वैतम् उदेति पुनस् तत्रैव लीयते इत्य् अनुसन्दधानस्य पुरुषस्य द्वन्द्व-
भ्रमो निवर्तते इति वक्तुं साङ्ख्यं प्रस्तौति अथ ते इत्य् एषा । अत्र प्रधान-
पर्यायः प्रकृति-शब्धः

5.50

[50]
आसीज् ज्ञान-मयो अर्थं
एकम् एवाविकल्पितम् ।
यदा विवेक-निपुणा
आदौ कृत-युगे युगे ॥ [भ्प् 11.24.2]
टीका च - अथो शब्दः कार्त्स्न्ये । ज्ञानं द्रष्टृ । तेन दृश्य-रूपः कृत्स्नोऽप्य्
अर्थश् च विकल्प-शून्यम् एकम् एव । ब्रह्मण्य् एव लीनम् आसीद् इत्य् अर्थः ।
इत्य् एषा ।
तृतीय-स्कन्धे च भगवान् एक आसेदम् अग्र आत्मात्मनां विभुर् इत्य् [भ्प्
3.5.23] आदौ यद् भगवत्त्वेन शब्द्यते तद् एवात्र ब्रह्मत्वेन शब्द्यते इति
वदन्तीत्य् आदिवद् उभत्रैकम् एव वस्तु प्रतिपाद्यम् । अन्ते तु एष साङ्ख्य-
विधिः प्रोक्त इत्य् आदौ परावर-दृशा मयेत्य् अनेन भगवद्-रूपेणाप्य्
अवस्थितिः स्पष्टैव । कदेत्य् अपेक्षायाम् आह । यदा आदौ कृत-युगे विवेक-
निपुणा जना भवन्ति तस्मिन् युगे तत् पूर्वस्मिन् प्रलय-समय इत्य्
अर्थः

5.51

[51]
तन्-माया-फल-रूपेण
केवलं निर्विकल्पितम् ।
वाङ्-मनो-गोचरं सत्यं
द्विधा समभवद् बृहत् ॥ [भ्प् 11.24.3]
टीका च - तद् बृहद् ब्रह्म वाङ्-मनो-गोचरं यथा भवति तथा । माया
दृश्यम् । फलं तत्-प्रकाशः । तद्-रूपेण माया-रूपेण विलास-रूपेण च
द्विधाभूद् इत्य् एषा । अत्र माया दृश्यम् इति फलं तत्-प्रकाश इति छेदः ।
तेन ब्रह्मणा यद् दृश्यं वस्तु तन् माया । तस्य ब्रह्मणो यः प्रकाश-
विकाशः स फलम् इत्य् अर्थः

5.52

[52]
तयोर् एकतरो ह्य् अर्थः
प्रकृतिः सोभयात्मिका ।
जानन्त्य् अन्यतमो भावः
पुरुषः सोऽभिधीयते ॥ [भ्प् 11.24.4]
टीका च - तयोर् द्विधाभूतयोर् अंशयोर् मध्ये उभयात्मिका कार्य-कारण-
रूपिणी । इत्य् एषा । श्री-विष्णु-पुराणे - विष्णोः स्वरूपात् परतो हि तेऽन्ये रूपं
प्रधानं पुरुषश् च विप्र इत्य् [विप् 1.2.24] अत्र तेषाम् एव टीका च - परतो
निरुपादेर् विष्णोः स्वरूपात् ते प्राग् उक्ते प्रधानं पुरुषं चेति द्वे रूपे
अन्ये माया-कृते इति ॥ 11.24 ॥ भगवान्

5.52

[53]
अन्यत्र तयोर् उपादान-निमित्तयोर् अंशयोर् वृत्ति-भेदेन भेदान् अप्य् आह --
कालो दैवं कर्म जीवः स्वभावो
द्रव्यं क्षेत्रं प्राणम् आत्मा विकारः ।
तत्-सङ्घातो बीजरोह-प्रवाहस्
तन्-मायैषा तन्-निषेधं प्रपद्ये ॥ [भ्प् 10.63.26]
टीका च - कालः क्षोभकः । कर्म निमित्तं तद् एव फलाभिमुखम्
अभिव्यक्तं दैवम् । स्वभावस् तत्-संस्कारः । जीवस् तद्वान् । द्रव्यं भूत-
सूक्ष्माणि । क्षेत्रं प्रकृतिः । प्राणः सूत्रम् । आत्मा अहङ्कारः । विकार
एकादेशेन्द्रियाणि महाभूतानि चेति षोडशकः तत्-सङ्घातो देहः । तस्य च
बीज-रोहवत् प्रवाहः । रोहोऽङ्कुरः । देहाद् बीज-रूपं कर्म । ततोऽङ्कुर-
रूपो देहः । ततः पुनर् एवम् इति प्रवाहः । तं त्वां निषेधावधि-भूतं
प्रपद्ये भजे इति । इत्य् एषा ।
अत्र काल-दैव-कर्म-स्वभावा निमित्तांशाः अन्ये उपादानांशास् तद्वान्
जीवस् तूभयात्मकस् तथोपादान-वर्गे निमित्त-शक्त्य्-अंशोऽप्य् अनुवर्तते ।
यथा जीवोपाधि-लक्षणेऽहम्-आख्ये तत्त्वे तदीयाहम् (अंह?)-भावः स ह्य्
अविद्या-परिणाम इत्य् आदि । यथोक्तं तृतीयस्य षष्ठे -
आत्मानं चास्य निर्भिन्नम्
अभिमानो ऽविशत् पदम् ।
कर्मणांशेन येनासौ
कर्तव्यं प्रतिपद्यते ॥ [भ्प् 3.6.25] इति ।
अत्रात्मानम् अहङ्कारम् अभिमानो रुद्रः कर्मणाहं-वृत्त्या इति टीका च ।
अत्र च यन् निर्भिन्नं तद्-अधिष्ठात्नं वाग्-आदीन्द्रियं तृतीयान्त-
मध्यात्मम् इति प्रकरण-निर्णयष् टीकायाम् एव कृतोऽस्ति । बीज-रूपत्वं
कारणता-मात्र-विवक्षया । तद् एवम् अत्रापि मूल-मायायाः
सर्वोपादानांश-मूल-भूतं क्षेत्र-शब्दोक्तं प्रधानम् अप्य् अंश-रूपम्
इत्य् अधिगतम् । जीवस् तद्वान् इत्य् अनेन शुद्ध-जीवस्य मायातीतत्वं
बोधयति ॥ 10.62 ॥ ज्वरः श्री-भगवन्तम्

5.54

[54]
अथ निमित्त-रूपांशस्य प्रथमे द्वे वृत्ती आह -
विद्याविद्ये मम तनू
विद्ध्य् उद्धव शरीरिणाम् ।
बन्ध-मोक्ष-करी आद्ये
मायया मे विनिर्मित्ते ॥ [भ्प् 11.11.3]
टीका च -तन्येते बन्ध-मोक्षाव् आवाभ्याम् इति तनू शक्ती मे मायया
विनिर्मिते । माया-वृत्ति-रूपत्वाद् बन्ध-मोक्ष-करीत्य् एक-वचनं द्वि-
वचनार्थे । ननु तत्-कार्यत्वे बन्ध-मोक्षयोर् अनादित्व-नित्यत्वे न स्यातां
तत्राह आद्ये अनादी । ततो यावद् अविद्यां प्रेरयामि तावद् बन्धः यदा
विद्यां ददामि तदा मोक्षः स्फुरतीत्य् अर्थः । इत्य् एषा ।
अत्र माया-वृत्तित्वाद् इति वस्तुतो माया-वृत्ती एव ते । विनिर्मितत्वं त्व्
अपरानन्त-वृत्तिकया तया प्रकाशमानत्वाद् एवोच्यते । यतोऽनादी इत्य् अर्थः ।
तथा स्फुरतीत्य् अस्य मोक्ष इत्य् अनेनैवान्वयः । जीवस्य स्वतो मुक्तत्वम्
एव । बन्धस् त्व् अविद्या-मात्रेण प्रतीतः । विद्योदये तु तत् प्रकाशते
मात्रम् । ततो नित्य एव मोक्ष इति भावः । न च वाच्यम् एषा मायेत्य् आदौ
सामान्य-लक्षणो मोक्ष-प्रदत्वं तस्या नोक्तम् इत्य् असम्यअक्त्वम् इति ।
अन्तकारित्वेनात्यन्त-प्रलय-रूपस्य मोक्षस्याप्य् उपलक्षितत्वात् । अत्र
व्दियाख्या वृत्तिर् इयं स्वरूप-शक्ति-वृत्ति-विशेष-विद्या-प्रकाशे द्वारम् एव
न तु स्वयम् एव सेति ज्ञेयम् । अथाविद्याख्यस्य भागस्य देव वृत्ती ।
आवरणात्मिका विक्षेपात्मिका च । तत्र पूर्वा जीव एव तिष्ठन्ती तदीयं
स्वाभाविकं ज्ञानम् आवृण्वाना । उत्तरा च तं तद्-अन्यथा-ज्ञानेन
सञ्चयन्ती वर्तत इति ॥ 11.11 ॥ श्री-भगवान्

5.55

[55]
अत्र निमित्तांशस् त्व् एवं विवेचनीयः । यथा निमित्तांश-रूपया
मायाख्ययैव प्रसिद्धा शक्तिस् त्रिधा दृश्यते ज्ञानेच्छा-क्रिया-रूपत्वेन ।
तत्र तस्याः परमेश्वर-ज्ञान-रूपत्वं यथा तृतीये ।
सा वा एतस्य संद्रष्टुः
शक्तिः सद्-असद्-आत्मिका ।
माया नाम महा-भाग
ययेदं निर्ममे विभुः ॥ [भ्प् 3.5.25] इति ।
अस्य टीकायाम् । सा वै दृअष्टृ-दृश्यानुसन्धान-रूपा । सह-दृश्यम् असद्-
दृश्यम् आत्मा स्वरूपम् । सद्-असतीर् आत्मा यस्यास् तद्-उभयानुसन्धान-
रूपत्वाद् इति । तद्-इच्छा-रूपत्वं यथा तत्रैव । आत्मेच्छानुगताव् आत्मेत्य्
अस्य टीकायाम् । आत्मेच्छा माया तस्यानुगतौ लये सतीति । तत्-क्रिया-रूपत्वं
चैकादशे एषा माया भगवत इत्य् उदाहृत-वचने एव द्रष्टव्यम् । यद् यदि
परमेश्वरस्य साक्षाज् ज्ञानादिकं न माया । किन्तु स्वरूप-शक्तिर् एव ।
तथापि तज्-ज्ञानादिकं प्राकृते कार्ये न तद्-अर्थं प्रवर्तते । किन्तु
भक्तार्थम् एव प्रवर्तमानम् अनुषङ्गेन्नैव प्रवर्तत इत्य् अग्रे
विवेचनीयत्वात् । तत्-प्रवृत्त्याभास-संवलितं यन् माया-वृत्ति-रूपं
ज्ञानादिकम् अन्यत् तद् एव तज्-ज्ञानादि-शब्देनोच्यते । तथाभूतं च तज्-
ज्ञानादिकं द्विविधम् । स्वभाव-सिद्धत्वात् केवल-परमेश्वर-निष्ठं
तद्-दत्तत्वात् जीव-निष्ठं च । तत्र प्रथमं द्रष्टृ-दृश्यानुसन्धान-
सिसृक्षा-कालादि-रूपं द्वितीयं विद्याविद्या-भोगेच्छा-कर्मादि-रूपम् इति ।
अथो-पादानांशस्य प्रधानस्य लक्षणम् ।
यत् तत् त्रि-गुणम् अव्यक्तं
नित्यं सद्-असद्-आत्मकम् ।
प्रधानं प्रकृतिं प्राहुर्
अविशेषं विशेषवत् ॥ [भ्प् 3.26.10]
यत् खलु त्रि-गुणं सत्त्वादि-गुण-त्रय-समाहारस् तद् एवाव्यक्तं प्रधानं
प्रकृतिं च प्राहुः । तत्राव्यक्त-संज्ञत्वे हेतुर् अविशेषं गुण-त्रय-साम्य-
रूपत्वाद् अनभिव्यक्त-विशेषम् अतएवाव्याकृत-संज्ञं चेति गमितम् ।
प्रधान-संज्ञत्वे हेतुः विशेषवत् स्वकार्य-रूपाणां महद्-आदि-विशेषाणाम्
आश्रय-रूपतया तेभ्यः श्रेष्ठम् । प्रकृति-संज्ञत्वे हेतुः । सद्-असद्-
आत्मकं सद्-असत्सु कार्य-कारण-रूपेषु महद्-आदिषु कारणत्वाद् अनुगत
आत्मा स्वरूपं यस्य तत् । तथा नित्यं प्रलये कारण-मात्रात्मनावस्थित-
सर्वांशत्वेन सृष्टि-स्थित्योश् च पञ्चीकृतांशत्वेनाविकृतं स्वरूपं यस्य
तादृशम् इति ब्रह्मत्वं महद्-आदि-रूपत्वं च व्यावृत्तम् । ब्रह्मणो
निर्गुणत्वात् महद्-आदीनां चाव्यक्तापेक्षया कार्यरूपत्वात् । एवं च श्री-
विष्णु-पुराणे --
अव्यक्तं कारणं यत् तत्
प्रधानम् ऋषि-सत्तमैः ।
प्रोच्यते प्रकृतिः सूक्ष्मा
नित्यं सद्-असद्-आत्मकम् ॥
अक्षय्यं नान्यद् आधारम्
अमेयम् अजरं ध्रुवम् ।
शब्द-स्पर्श-विहीनं तद्-
रूपादिभिर् असंहितम् ॥
त्रिगुणं तज्-जगद्-योनिर्
अनादि-प्रभवाप्ययम् ।
तेनाग्रे सर्वम् एवासीद्
व्याप्तं वै प्रलयाद् अनु ॥ इत्य् आदि [विप् 1.2.19-21] ।
इदम् एव प्रधानम् अनादेर् जगतः सूक्ष्मावस्था-रूपम्
अव्याकृताव्यक्ताद्य्-अभिधं वेदान्तिभिर् अपि परमेश्वराधीनतया मन्यते
तद्-अधीनत्वाद् अर्थवद् इत्य् [व्स् 1.4.3] आदि-न्यायेषु निषिध्यते तु साङ्ख्यवत्
स्वतन्त्रतया आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-
गृहीतेर् दर्शयति च इत्य् आदि-न्यायेषु [व्स् 1.4.1] । श्वेताश्वतरोपनिषदि
प्रधान-शब्दश् च श्रूयते । प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः संसार-
बन्ध-स्थिति-मोक्ष-हेतुर् इत्य् आदौ ॥3.26॥ श्री-कपिलदेवः

5.56

[56]
तद् एवं सन्दर्भ-द्वये शक्ति-त्रय-विवृतिः कृता । तत्र नामाभिन्नता-जनित-
भ्रान्ति-हानाय सङ्ग्रह-श्लोकाः -
माया स्याद् अन्तरङ्गायां बहिरङ्गा च सा स्मृता ।
प्रधानेऽपि क्वचिद् दृष्टा तद्-वृत्तिर् मोहिनी च सा ।
आद्ये त्रये स्यात् प्रकृतिश् चिच्-छक्तिस् त्व् अन्तरङ्गिका ।
शुद्ध-जीवेऽपि ते दृष्टे तथेश-ज्ञान-वीर्ययोः ॥
चिन्माया-शक्ति-वृत्त्योस् तु विद्या-शक्तिर् उदीर्यते ।
चिच्-छक्ति-वृत्तौ मायायां योग-माया समा स्मृता ॥
प्रधानाव्याकृताव्यक्तं त्रैगुण्ये प्रकृतौ परम् ।
न मायायां न चिच्-छक्ताव् इत्य् आद्य् ऊह्यं विवेकिभिः ॥ इति ।
अथ माया-कार्यं जगल् लक्ष्यते -
ततस् तेनानुविद्धेभ्यो
युक्तेभ्यो ऽण्डम् अचेतनम् ।
उत्थितं पुरुषो यस्माद्
उदतिष्ठद् असौ विराट् ॥ [भ्प् 3.26.51]
एतद् अण्डं विशेषाख्यं
क्रम-वृद्धैर् दशोत्तरैः ।
तोयादिभिः परिवृतं
प्रधानेनावृतैर् बहिः
यत्र लोक-वितानो ऽयं
रूपं भगवतो हरेः ॥ [भ्प् 3.26.52]
तेनेश्वरेणानुबिद्धेभ्यः क्षुभ्तेभ्यो महद्-आदिभ्योऽण्डम् अचेतनम्
उत्थितम् । यस्माद् अण्डासौ विराट् पुरुषस् तूदतिष्ठत् । भगवतः
पुरुषस्य ॥ 3.26 ॥ श्री-कपिलदेवः

5.57

[57]
तद् एवं भगवतो रूपम् इत्य् उक्तेस् तस्यापि प्राग्वद्-अप्राकृतत्वम् आपतति ।
तन्-निषेधायाह ।
अमुनी भगवद्-रूपे
मया ते ह्य् अनुवर्णिते ।
उभे अपि न गृह्णन्ति
माया-सृष्टे विपश्चितः ॥ [भ्प् 2.10.35]
अमुनी अमू उपासनार्थं भगवत्य् आरोपिते जगद्-आत्मके स्थूल-
सूक्ष्माख्ये विराट् हिरण्य-गर्भापर-पर्याये समष्टि-शरीरे ये मया
तुभ्यम् अनुवर्णिते ते उभे अपि विपश्चितो न गृह्णन्ति वस्तुतया नोपासते किं
तर्हि तदीय-बहिरङ्गाधिष्ठानतयैवेत्य् अर्थः । तद् उक्तं वैष्णवे -
यद् एतद् दृश्यते मूर्तम्
एतज्-ज्ञानात्मनस् तव ।
भ्रान्ति-ज्ञानेन पश्यन्ति
जगद्-रूपम् अयोगिनः ॥ इति [विप् 1.4.39] ।
एतन्-मूर्तं जगद् भ्रान्ति-ज्ञानेनैव तव रूपं जानन्तीत्य् अर्थः । श्रुतिश् च
- नेदं यद् इदम् उपासत इति । यद् इदं जगद् उपासते प्राणिनः नेदं
ब्रह्मेति श्री-रामानुज-भाष्यम् । अतएव न गृह्णन्तीत्य् अत्र हेतुर् माया-
सृष्टे न तु स्वरूप-शक्ति-प्रादुर्भाविते । अनेन चतुर्भुजादि-लक्षणस्य
साक्षाद्-रूपस्य मायातीतत्वम् अपि व्यक्तम् । अत्रास्य जगतो मायामयस्य
पुरुष-रूपत्वे पुरुष-गुणावताराणां विष्ण्व्-आदीनां सत्त्वादिअमयास् तद्-
अंशा रूपाणीति ज्ञेयम् । तान्य् अपेक्ष्य चोक्तं मार्कण्डेये --
विष्णुः शरीर-ग्रहणम् अहम् ईशान एव च ।
कारितास् ते यतोऽतस् त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ इति ।
शरीर-शब्दस्य तत्-तन्-निज-शरीर-वाचित्वे तु तद्-ग्रहणात् पूर्वं विष्ण्व्-आदि-
भेदासम्भवात् तन्-निर्देशानुपपत्तेः ॥ 2.10 ॥ श्री-शुकः

5.58

[58]
पूर्वं माया-सृष्टे इत्य् उक्तम् । तत्र माया-शब्दस्य नाज्ञानार्थत्वम् । तद्-
वादे हि सर्वम् एव जीवादि-द्वैतम् अज्ञानेनैव स्व-स्वरूपे ब्रह्मणि कल्प्यते
इति मतम् । निरहङ्कारस्य केनचिद् धर्मान्तरेणापि रहितस्य सर्व-
विलक्षणस्य चिन्-मात्रस्य ब्रह्मणस् तु नाज्ञानाश्रयत्वं न चाज्ञान-
विषयत्वं न च ब्रह्म-हेतुत्वं सम्भवतीति । परमालौकिक-वस्तुत्वाद्
अचिन्त्य-शक्तित्वं तु सम्भवेत् । यत् खलु चिन्तामण्य्-आदाव् अपि दृश्यते,यता
त्रिदोषघ्नौषधिवत् परस्पर-विरोधिनाम् अपि गुणानां धारिण्या तस्य
निरवयवत्वादिके सत्य् अपि सावयवत्वादिकम् अङ्गीकृतम् । तत्र शब्दश् चास्ति
प्रमाणम् । विचित्र-शक्तिः पुरुषः पुराणः चान्वेषां शक्तयस् तादृशः स्युर्
इत्य् आदिकाः श्वेताश्वतरोपनिषद्-आदौ । आत्मेश्वरोऽतर्क्य-सहस्र-शक्तिर् इत्य्
[भ्प् 3.33.3] आदिकः श्री-भागवतादिषु । तथा च ब्रह्म-सूत्रम् - आत्मनि
चैवं विचित्राश् च हि इति [व्स्. 2.1.28] ।
तत्र द्वैतान्यथानुपपत्त्यापि ब्रह्मण्य्-अज्ञानादिकं कल्पयितुं न शक्तये
असम्भवाद् एव । ब्रह्मण्य् अचिन्त्य-शक्ति-सद्-भावस्य युक्ति-लब्धत्वात्
श्रुतत्वाच् च द्वैतान्यथानुपपत्तिश् च दूरे गता । ततश् चाचिन्त्य-शक्तिर् एव
द्वैतोपपत्तीकारणं पर्यवसीयते । तस्मान् निर्विकारादिस्वभावेन सतोऽपि
परमात्मनोऽचिन्त्य-शक्त्या विश्वाकारत्वादिना परिणामादिकं भवति
चिन्तामण्य्-अयस्कान्तादीनां सर्वार्थ-प्रसव-लोह-चालवादिवत् । तद् एतद्
अङ्गीकृतं श्री-बादरायणेन श्रुतेस् तु शब्द-मूलत्वाद् इति [व्स् 2.1.27] ।
ततस् तस्य तादृश-शक्तित्वात् प्राकृतवन्-माया-शब्दस्येन्द्र-जाल-विद्या-
वाचित्वम् अपि न युक्तम् । किन्तु मीयते विचित्रं निर्मीयतेऽनयेति विचित्रार्थ-
कर-शक्ति-वाचित्वम् एव । तस्मात् परमात्म-परिणाम एव शास्त्र-
सिद्धान्तः । तद् एतच् च भगवत्-सन्दर्भे विवृतम् अस्ति । तत्र
चापरिणतस्यैव मतोऽचिन्तया शक्त्या परिणाम इत्य् आसौ सन्-
मात्रतावभासमान-स्वरूप-व्यूह-रूप-द्रव्याख्य-शक्ति-रूपेणैव
परिणमते न तु स्वरूपेणेति गम्यते । यथैव चिन्तामणिः । अतस् तन्-
मूलत्वान् न परमात्मोपादानता-सम्प्रतिपत्ति-भङ्गः । तद् उक्तम्
एकादशे श्री-भगवता -
प्रकृतिर् यस्योपादानम्
आधारः पुरुषः परः ।
सतोऽभिव्यञ्जकः कालो
ब्रह्म तत्-त्रितयस् त्व् अहम् ॥ [भ्प् 11.24.19] इति ।
अतएव क्वचिद् अस्य ब्रह्मोपादानत्वं क्वचित् प्रधानोपादानत्वं श्रूयते ।
तत्र सा मायाख्या परिणाम-शक्तिश् च द्विविधा वर्ण्यते । निमित्तांशो माया
उपादानांशः प्रधानम् इति । तत्र केवला शक्तिर् निमित्तं तद् व्यूह-मयी
तूपादानम् इति विवेकः । अतएव श्रुताव् अपि विज्ञानं चाविज्ञानं चेति [तैत्तु
2.6.1] कस्च्यचिद् भागस्याचेतनता श्रूयते ।
अथ मूल-प्रमाणे श्री-भागवतेऽपि तृतीयादौ मुख्य एव सृष्टि-प्रस्तावे
च ज्ञान-वैराग्याङ्गत्वेन च पुर्णान्तर-गति-सामान्य-सेवितः प्रधान-
परिणाम एव स्फुटम् उपलभ्यते । क्व च स्तुत्य्-आदौ ज्ञान-
वैराग्याङ्गतयैव विवर्तोऽपि यः श्रूयते सोऽपि जगतो नान्यथा-सिद्धतापरः
किन्तु परमात्म-यूह-प्रधान-परिणामेन सिद्धस्यैव तस्य समष्टि-
व्यष्टि-रूपस्य यथायथं शुद्धे परमात्मनि तद्-अंश-रूपात्मनि
वात्मात्मीयताध्यारोपितापरः ।
तत्र परमात्मनि विराद्धुपासना-वाक्यादि-श्रवणं हेतुर् आत्मनि तु तत्-
तद्-आवेशो हेतुर् इति विवेचनीयम् । अन्यत्र सिद्धस्य वस्तुन एवान्यत्रारोपो
मिथ्या-खपुष्पादेर् आरोपासम्भवात् पूर्व-पूर्व-विवर्त-मात्र-
सिद्धानादि-परम्परात्वे दृष्टान्ताभावाच् च । किं च पूर्वं वारि-दर्शनाद्
वार्य्-आकारा वृत्तिर् जातापि तद्-अप्रसङ्ग-समये सुप्ता तिष्ठति तत् तुल्य-वस्तु-
दर्शनेन तु जागर्ति, तद् विशेषानुसन्धानं विना तद्-अभेदेन स्व-
तन्त्रारोपयति तस्मान् न वारि मिथ्या, न वा स्मरण-मयी तद्-आकारा वृत्तिर्,
न वा तत्-तुल्यं मरीचिकादि वस्तु किन्तु तद्-अभेदेनारोप एवायथार्थत्वान्
मिथ्या । स्वप्ने च माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वाद् इति
न्यायेन [व्स् 3.2.3] जाग्रद्-दृष्ट-वस्त्व्-आकारायां मनो-वृत्तौ परमात्म-
माया तद्-वस्त्व्-अभेदम् आरोपयतीति पूर्ववत् । तस्माद् वस्तु तस्य न क्वचिद्
अपि मिथ्यात्वम् । शुद्ध आत्मनि परमात्मनि वा तादृश-तद्-आरोप एव
मिथ्या न तु विश्वं मिथ्येति । ततो जगतः परमात्म-जातत्वेन साक्षात्-तद्-
आत्मीयत्वाभावाद् अबुधानाम् एव तत्र शुद्धे तत्-तद्-बुद्धिः ।
यद्यपि शुद्धाश्रयम् एव जगत् तथापि जगता तत्-संसर्गो नास्ति । तद् उक्तम्
असक्तं सर्वभृच् चैव इति गीतासु [गीता 13.14] । तथा देह-गेहादाव्
आत्मात्मीयताज्ञानं तेषाम् एव स्याद् इत्य् उभयत्रैवारोपः शास्त्रे श्रूयते ।
यथा यद् एतद् दृश्यते मूर्तम् इत्य् [विप् 1.4.39] आदिकं विष्णु-पुराणे । यथा
वा
त्वाम् आत्मानं परं मत्वा
परमात्मानम् एव च ।
आत्मा पुनर् बहिर् मृग्य
अहो अक्षजनाज्ञता ॥ इति [भ्प् 10.14.27] ।
त्वाम् आत्मानं सर्वेषां मूल-रूपं परम् इतरं तद्-विपरीतं मत्वा तथा
परम् इतरं जीवम् एव च मूल-रूपात्मानं मत्वा साङ्ख्य-विद इव तस्य
तथा मन्यमानस्य पुनः स जीवात्मा बहिर् मृग्यो भवति । तस्य तेनैव
हेतुना लब्ध-च्छिद्रया मायया देहात्म-बुद्धिः कार्यत इत्य् अर्थः । अहो
अज्ञ-जनताया अज्ञता क्रमाज् ज्ञान-भ्रंश इत्य् अर्थः । तद् उक्तं हंस-
गुह्य-स्तवे -
देहो ऽसवो ऽक्षा मनवो भूत-मात्राम्
आत्मानम् अन्यं च विदुः परं यत् ।
सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो
न वेद सर्व-ज्ञम् अनन्तम् ईडे ॥ [भ्प् 6.4.25] इति ।
तथा श्री-भगवद्-उद्धव-संवादे -
आत्मा परिज्ञानमयो विवादो
ह्य् अस्तीति नास्तीति भिदात्म-निष्ठः ।
व्यर्थोऽपि नैवोपरमेत पुंसां
मत्तः परावृत्त-धियां स्वलोकात् ॥ इति [भ्प् 11.22.34]
किं च विवर्तस्य ज्ञानादि-प्रकरण-पठित्वेन गौणत्वात् परिणामस्य तु
स्व-प्रकरण-पठितत्वेन मुख्यत्वात् ज्ञानाद्य्-उभय-प्रकरण-
पठितत्वेन सद्-अंश-न्याय-सिद्ध-प्राबल्याच् च परिणाम एव श्री-
भागवत-तात्पर्यम् इति गम्यते । तच् च भगवद्-अचिन्त्यैश्वर्य-ज्ञानार्थं
मिथ्यात्वाभिधानं तु नश्वरत्वाभिधानवत् विश्वस्य परमात्म-
बहिर्मुखत्वापादकत्वाद् धेयताज्ञान-मात्रार्थं न तु वस्त्व् एव तन् न
भवतीति जीवेश-स्वरूपैक्य-ज्ञान-मात्रार्थं वैधर्म्याच् च न
स्वप्नादिवत् [व्स् 2.2.29] इति न्यायेन । तथा च नारदीये -
जगद्-विलापयामासुर्
इत्य् उच्येताथ तत् स्मृतेः ।
न च तत्-स्मृति-मात्रेण
लयो भवति निश्चितम् ॥ इति ।
तत्र मुख्य एव सृष्टि-प्रस्तावे प्रधान-परिणामम् आह --
काल-वृत्त्या तु मायायां
गुण-मय्याम् अधोक्षजः ।
पुरुषेणात्म-भूतेन
वीर्यम् आधत्त वीर्यवान् ॥ [भ्प् 3.5.26]
ततो ऽभवन् महत्-तत्त्वम्
अव्यक्तात् काल-चोदितात् ।
विज्ञानात्मात्म-देह-स्थं
विश्वं व्यञ्जंस् तमो-नुदः ॥ [भ्प् 3.5.27]
भगवान् एक आसेदम् इति [भ्प् 3.5.23] प्राक्तनानन्तर-ग्रन्थाद् अधोक्षजो
भगवान् पुरुषेण प्रकृति-द्रष्ट्र्-आत्म-भूतेन स्वांशेन द्वार-भूतेन

कालो वृत्तिर् यस्यास् तया मायया निमित्त-भूतया गुण-मय्यां मायायाम्
अव्यक्ते वीर्यं जीवाख्यम् आधत्त । हन्तेमास् तिस्रो देवता इत्य् आदि-श्रुतेः ।
विज्ञानात्मैव महत्-तत्त्वम् । तमो-नुदः प्रल्य-गताज्ञान-ध्वंस-
कर्ता ॥ 3.5 ॥ श्री-मैत्रेयः

5.59

[59]
ज्ञानाद्य्-अङ्गत्वेऽप्य् आह --
एको नारायणो देवः पूर्व-सृष्टं स्व-मायया ।
संहृत्य काल-कलया कल्पन्त इदम् ईश्वरः ॥
एक एवाद्वितीयोऽभूद् आत्माधारोऽखिलाश्रयः ।
कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ।
सत्त्वादिष्व् आदि-पुरुषः प्रधान-पुरुषेश्वरः ॥
परावराणां परम आस्ते कैवल्य-संज्ञितः ।
केवलानुभवानन्द-सन्दोहो निरुपाधिकः ॥
केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् ।
सङ्क्षोभयन् सृजत्य् आदौ तया सूत्रम् अरिन्दम ॥
ताम् आहुस् त्रिगुण-व्यक्तिं सृजन्तीं विश्वतोमुखम् ।
यस्मिन् प्रोतम् इदं विश्वं येन संसरते पुमान् ॥
यथोर्ण-नाभिर् हृदयाद् ऊर्णां सन्तत्य वक्त्रतः ।
तया विहृत्य भूयस्तां ग्रसत्य् एवं महेश्वरः ॥ [भ्प् 11.9.16-21]
कालः कला यस्यास् तया स्वाधीनतया मायया । श्रुतिश् च -
यथोर्णनाभिः सृजते गृह्णते च
यथा पृथिव्यामोषधयः संभवन्ति ।
यथा सतः पुरुषात् केशलोमानि
तथाऽक्षरात् संभवतीह विश्वम् ॥ इति [मुण्डु 1.1.7]
॥ 11.9 ॥ श्री-दत्तात्रेयो यदुम्

5.60

[60]
तद् एवं सूक्ष्म-चिद्-अचिद्-वस्तु रूप-शुद्ध-जीवाव्यक्त-शक्तेः
परमात्मनः स्थूल-चेतनाचेतन-वस्तु-रूपाण्य् आध्यात्मिक-जीवादि-पृथिव्य्-
अन्तानि जायन्त इत्य् उक्तम् । ततः केवलस्य परमात्मनो निमित्तत्वं शक्ति-
विशिष्टस्योपादानत्वम् इत्य् उभय-रूपताम् एव मन्यन्ते । प्रकृइतिं च
प्रतिज्ञा दृष्टान्तानुरोधाद् इत्य् आदौ । तद् एवं तस्य सदा शुद्धत्वम् एव ।
तत्र शक्तेः शक्तिमद्-अव्यतिरेकाद् अननयत्वम् उक्तम् । तथा सत्-कार्य-
वादाङ्गीकारे स्वान्तः स्थित-स्वधर्म-विशेषाभिव्यक्ति-लब्ध-विकाशेन
कारणस्यैवांशेन कार्यत्वम् इत्य् एवं वाचारम्भणं विकारो नाम-धेयं
मृत्तिकेत्य् एव सत्यम् इत्य् आदि-श्रुइत्-सिद्धं कार्यस्य कारणाद् अन्यत्वं
कारणस्य तु कार्याद् अन्यत्वम् इत्य् आयाति ।
तद् एवं जगत् कारण-शक्ति-विशिष्टात् परमात्मनोऽनन्यद् एवेदं जगतस् त्व्
अभावन्य एवेत्य् आह --
इदं हि विश्वं भगवान् इवेतरो
यतो जगत्-स्थान-निरोध-सम्भवाः
तद् धि स्वयं वेद भवांस् तथापि ते
प्रादेश-मात्रं भवतः प्रदर्शितम् ॥ [भ्प् 1.5.20]
इदं विश्वं भगवान् इव भगवतोऽनन्यद् इत्य् अर्थः । तस्माद् इतरस्
तटस्थाख्यो जीवश् च स इवेति पूर्ववत् । अतएव एतद्-आत्म्यम् इदं सर्वम् इति
सर्वं खल्व् इदं ब्रह्मेति श्रुत्ः । यतो भगवतः । भवतो भवन्तं प्रति
प्रदेश-मात्रं किञ्चिन्-मात्रं दर्शितम् इत्य् अर्थः ॥ 1.5 ॥ श्री-नारदः श्री-
व्यासम्

5.61

[61]
स्पष्टम् एवाह -
सो ऽयं ते ऽभिहितस् तात
भगवान् विश्व-भावनः ।
समासेन हरेर् नान्यद्
अन्यस्मात् सद्-असच् च यत् ॥ [भ्प् 2.7.50]
सोऽयं समासेन सङ्क्षेपेणाभिहितः । कथं तटस्थ-लक्षणेनैवेत्य् आह ।
सत् कार्यं स्थूलम् अशुद्ध-जीव-जगद्-आख्यं चेतनाचेतनं वस्तु । असत्
करणं सूक्ष्मं शुद्ध-जीव-प्रधानाख्यं चिद्-अचिद्-वस्तु च यत् तत् सर्वं
हरेर् अन्यन् न भवति सूक्ष्मस्य तच्-छक्ति-रूपत्वात् स्थूलस्य तत्-कार्य-
रूपत्वाद् इति भावः । इदम् एव श्री-हंस-देवेनोक्तं - अहम् एव न
मत्तोऽन्यद् इति बुध्यध्वम् अञ्जसा इति [भ्प् 11.13.24] । जगतस् तद्-अनन्यत्वेऽपि
शुद्धस्य तस्य तद्-दोष-साङ्कर्यं नास्तीत्य् आह अन्यस्माद् इति ॥ 2.7 ॥ श्री-
ब्रह्मा श्री-नारदम्

5.66

[62]
तत्रानन्यत्वे युक्तिं विवृणोति पञ्चभिः -
आदाव् अन्ते जनानां सद्
बहिर् अन्तः परावरम् ।
ज्ञानं ज्ञेयं वचो वाच्यं
तमो ज्योतिस् त्व् अयं स्वयम् ॥ [भ्प् 7.15.57]
जनानां देहादीनाम् आदौ कारणत्वेन अन्ते चावधित्वेन यत् परमात्म-
लक्षणं सर्व-कारणं वस्तु सद् वर्तमानं तद् एव स्वयं बहिर् भोग्यं
अन्त-भोक्तृ परवरं चोच्च-नीचं तमोऽप्रकाशः ज्योतिः प्रकाशश् च स्फुरति
नान्यत् । अन्यस्य तद् विना स्वतः स्फुरणानिरूप्यत्वाद् इति भावः ।
[63]
ननु कथं तर्हि तस्माद् अत्यन्त-पृथग् इवाथजातं प्रतीयते तत्राह -
आबाधितो ऽपि ह्य् आभासो
यथा वस्तुतया स्मृतः ।
दुर्घटत्वाद् ऐन्द्रियकं
तद्वद् अर्थ-विकल्पितम् ॥ [भ्प् 7.15.58]
आबाधितस् तर्क-विरोधेन सर्वतो बाधितः स्वातन्त्र्य-सत्तायाः सकाशान्
निरस्तोऽपि यथा आभासः सूर्यादि-प्रति-रश्मिर् बालादिभिः पृथक् प्रकाशम्
आनताद् अर्थनाद् वस्तुतया स्वतन्त्र-पदार्थतया स्मृतः कल्पितः तद्वद्
ऐन्द्रियक सर्वं मूढैः स्वतन्त्रार्थत्वेन विविधं कल्पितं तत् तु न
तत्त्व-दृष्ट्या स्वातन्त्र्य-निरूपणस्य दुर्घटत्वाद् इत्य् अर्थः ।
[64]
तद् एवाह द्वाभ्याम् -
क्षित्य्-आदीनाम् इहार्थानां
छाया न कतमापि हि ।
न सङ्घातो विकारो ऽपि
न पृथङ् नान्वितो मृषा ॥ [भ्प् 7.15.59]
क्षित्य्-आदीनां पञ्च-भूतानां छाया ऐक्य-बुद्ध्यालम्बन-रूपं देहादि-
सङ्घातारम्भ-परिणामानां मध्ये कतमाप्य् अन्यतमापि न भवति ।
न तावत् तेषां सङ्घातो वृक्षाणाम् इव वनम् एक-देशाकर्षणे
सर्वाकर्षणानुपपत्तेः । न ह्य् एकस्मिन् वृक्ष आकृष्टे सर्वं वनम्
आकृष्यते । न च विकारः आरब्धोऽवयवी । अपि-शब्दात् परिणामोऽपि । कुतः ।
किम् अवयवेभ्यः पृथग् आरभ्यते परिणमते च तद्-अन्वितो वा । न तावद्
अत्यन्तं पृथक् तथा अप्रतीतेः । न चान्वितः । स किं प्रत्यवयवम् अन्वेति
अंशेन वा । आद्ये अङ्गुलि-मात्रेऽपि देह-बुद्धिः स्यात् । द्वितीये तस्याप्य्
अंशाङ्गीकारे सत्य् अनवस्थापातः स्यात् । अतो देहादेः स्वातन्त्र्येणावस्थितिर्
मृषैवेति ।
[65]
एवं देहादेः स्वातन्त्र्येणानिरूप्यत्वम् उक्त्वा तद्-धेतूनां क्षित्य्-आदीनाम्
अपि तथैवानिरूप्यत्वम् आह
धातवो ऽवयवित्वाच् च
तन्-मात्रावयवैर् विना ।
न स्युर् ह्य् असत्य् अवयविन्य्
असन्न् अवयवो ऽन्ततः ॥ [भ्प् 7.15.60]
धारयन्तीति । धातवो महाभूतानि तन्-मात्रैः सूक्ष्मैर् अवयवैर् विना न
स्युः । अवयवित्वात् तेषाम् अपि । तर्ह्य् अवयव एव स्वतन्त्र इति चेत् तत्राह उक्त-
प्रकारेणावयविनि निरूपयितुम् असति अवयवोऽप्य् अन्ततो निरूपयितुम् असन्न् इव
स्यात् । अवयवि-प्रतीत्य्-अन्यथानुपपत्तिं विना परमाणु-लक्षणावयव-सद्-
भावे प्रमाणाभावाद् इत्य् अर्थः । तद् उक्तं पञ्चमे -
एवं निरुक्तं क्षिति-शब्द-वृत्तम् इत्य् [भ्प् 5.12.9] आदि । तस्माद् ऐक्य-
बुद्ध्यालम्बन-रूपं यत् प्रतीयते तत् सर्वत्र परमात्म-लक्षणं सर्व-
कारणं वस्त्व् एवेति साधूक्तम् आदाव् अन्ते जनानां सद् इत्य् आदिना । एवम् एव
तृतीयेऽप्य् उक्तम् -
इति तासां स्व-शक्तीनां सतीनाम् असमेत्य सः ।
प्रसुप्त-लोक-तन्त्राणां निशाम्य गतिम् ईश्वरः ॥
काल-संज्ञा ततो देवीं विभ्रच् छक्तिम् उरुक्रमः ।
त्रयोविंशतित्-तत्त्वानां गणं युगपद् आविशत् ॥
सो ऽनुप्रविष्टो भगवांश् चेष्टारूपेण तं गणम्
भिन्नं संयोजयाम् आस सुप्तं कर्म प्रबोधयन् ॥ इति [भ्प् 3.6.1-3]
अतएव यस्य पृथिवी शरीरम् इत्य् आदि-श्रुतौ [बृहदु 3.7.3] सर्वस्य
परमात्म-शरीरत्वेन प्रसिद्धिः परमात्मनस् तु शरीरत्वेन । तद् एवम्
अवयव-रूपेण प्रधान-परिणामः सर्वत्रावयवी तु परमात्म-वस्त्व् एवेति
सिद्धम् । ततोऽप्य् अमिथ्यात्वम् एव जगत उपपद्येत ॥
[66]
ननु यदि परमात्म-वस्त्व् एव सर्वत्रावयवी देहः स्यात् ततश् च तत्रैव
ब्राह्मणत्वादि-संज्ञा-प्राप्ते गुण-दोष-हेतू विधि-निषेधाव् अपि स्यातां । तौ
च न सम्भवतः । तस्माद् अन्य एवावयवी युज्यते । इत्य् आशङ्क्याह -
स्यात् सादृश्य-भ्रमस् तावद्
विकल्पे सति वस्तुनः ।
जाग्रत्-स्वापौ यथा स्वप्ने
तथा विधि-निषेधता ॥ [भ्प् 7.15.61]
वस्तुनः परमात्मनो विकल्पे संशये सतीति तस्य तादृशत्वेन निर्णयो यावन्
न स्यात् इत्य् अर्थः । तावद् एव तस्मात् सर्वैक्य-बुद्धि-निदानात् पृथग्
देहैक्य-बुद्धिः सादृश्य-भ्रमः स्यात् । पूर्वापरावयवानुसन्धाने सति
परस्परम् आसज्यैकत्र स्थितत्वेनावयवत्व-साधारण्येन चैक्य-सादृश्यात्
प्रत्यवयवम् एकतया प्रतीतेः । सोऽयं देह इति भ्रम एव भवतीत्य् अर्थः ।
प्रतिवृक्षं तद् इदं वनम् इतिवत् । यथोक्तं स्वयं भगवता -
सोऽयं दीपोऽर्चिषां यद्वत् स्रोतसां तद् इदं जलम् ।
सोऽयं पुमान् इति नॄणां मृषा धीर् गोर् मृषायुषाम् ॥ इति [भ्प् 11.22.45] ।
ततश् च तत्रैव ब्राह्मणत्वाद्य्-अभिमाने सति स्वप्न-वैषयकौ जाग्रत्-
स्वप्नाव् इव तद्-विषयकौ विधि-निषेधौ स्याताम् इत्य् आह जाग्रद् इति । तथा
तेन प्रकारेण विधेर् विधिता निषेधस्य निषेधतेत्य् अर्थः । एवं
परस्वभाव-कर्मणि न प्रशंसेन् न गर्हयेत् ।
विश्वम् एकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ [भ्प् 11.28.1]
इत्य् आदिर् एकादशाष्टविंशतितमाध्यायो ज्ञेयः । तत्र च किं भद्रं किम्
अभद्रं वा द्वैतस्यावस्तुनः कियद् इत्य् आदिकं स्यात् सादृश्य-भ्रमस् तावद्
इत्य् आद्य्-अनुसारेणैव व्याख्येयम् । अवस्तु यद् द्वैतं तस्येत्य् अर्थः । तस्मात्
स्वातन्त्र्येण निरूपणाशक्त्या परमात्मनो æनन्यद् एव सर्वम् इति
प्रकरणार्थः ॥
॥7.15 ॥ श्री-नारदः श्री-युधिष्ठिरम्

5.67

[67]
अत आह -
त्वं वायुर् अग्निर् अवनिर् वियद् अम्बु मात्राः
प्राणेन्द्रियाणि हृदयं चिद् अनुग्रहश् च ।
सर्वं त्वम् एव सगुणो विगुणश् च भूमन्
नान्यत् त्वद् अस्त्य् अपि मनो-वचसा निरुक्तम् ॥ [भ्प् 7.9.48]
हृदयम् अन्तर्-इन्द्रियं मनो बुद्ध्याहङ्कार-चित्तात्मकं, चित् शुद्दो जीवः ।
अनुग्रहः स्व-सम्मुखी-करण-शक्तिः । किं बहुना स-गुणो मायिकः
विगुणश् चामायिकः सर्वार्थस् त्वम् एवेति ॥ 7.9 ॥ श्री-प्रह्लादः श्री-
नृसिंहम्

5.68

[68]
अथ तस्य माया-शक्ति-कार्य-माया-जीवेभ्योऽन्यत्वं च स्पष्टयति -
यथोल्मुकाद् विस्फुलिङ्गाद्
धूमाद् वापि स्व-सम्भवात् ।
अप्य् आत्मत्वेनाभिमताद्
यथाग्निः पृथग् उल्मुकात् ॥ [भ्प् 3.28.40]
भूतेन्द्रियान्तः-करणात्
प्रधानाज् जीव-संज्ञितात् ।
आत्मा तथा पृथग् द्रष्टा
भगवान् ब्रह्म-संज्ञितः ॥ [भ्प् 3.28.41]
अयम् अर्थः । स्व-सम्भवात् स्वोपादान-कारणात् उल्मुकात् काष्ठ-मुष्ट्य्-
उपाधिकात् । अग्नेर् हेतोर् या विस्फुलिङ्गो यश् च धूमस् तस्मात् तस्माद् यथा
तत्-तद्-उपादानम् अग्निः पृथग् यथा च तस्माद् उल्मुकात् तद्-उपादान, असाव्
अग्निः पृथक् । कीदृशाद् अपि तत्-त्रयाद् अप्य् आत्मत्वेनाभिमतात् नापकतया
धूमेऽग्न्य्-अंश-सद्-भावेनाग्नि-स्वरूपतया प्रतीताद् अपि तथा विस्फुलिङ्ग-
स्थानीयाज् जीव-संज्ञिताज् जीवात् उल्मुक-स्थानीयात् प्रधानात्
प्रधानोपाधिक-भगवत्-तेजसः धूम-स्थानीयाद् भूतादेः सर्वोपादान-
रूपो भगवान् पृथक् । य एवात्मा स्वांशेन तत्-तद्-अन्तर्यामितया
परमात्मा । क्वचिद् अधिकारिणि निर्विशेष-चिन्मात्रतया स्फुरन् ब्रह्म-
संज्ञितश् च । यत एव द्रष्टा तेषाम् आदि-मध्यान्तावस्था-
साक्षीति ॥ 3.28 ॥ श्री-कपिलदेवः

5.69

[69]
तत्र येषां मनः परमात्मनि नास्ति, ते परमात्मात्मके जगत्य् असद् अंशम्
एव गृह्णन्ति, ये तु परमात्म-विदस् ते सद्-अंशम् एव गृह्णन्तीत्य् आहुर्
भागवताः ।
सद् इव मनस् तिर्वृत् त्वयि विभात्य् असदाम् अनुजात्
सद् अभिमृशन्त्य् अशेषम् इदम् आत्मतयात्मविदः ।
न हि विकृतिं त्यजन्ति कनकस्य तद्-आत्मतया
स्वकृतम् अनुप्रविष्टम् इदम् आत्मतयावसितम् ॥ [भ्प् 10.87.26]
त्वय्य् असद् अवर्तमानं यन् मनस् तत् खलु त्रिवृत् त्रि-गुण-कार्ये जगति
वर्तमानं सत् त्वयि सद् इव वर्तमानम् इव विभाति । दर्वीसूपरस-
न्यायेन स्वावगाढे जगति सतोऽपि परमात्मनो ग्रहणाभावात् । न तु
वर्तमानम् एव विभातीत्य् अर्थः । अतएवासद्-अंशस्य त्रिगुण-मायामयत्वं
मनोमयत्वं चोक्तम् -
यद् इदं मनसा वाचा
चक्षुर्भ्यां श्रवणादिभिः ।
नश्वरं गृह्यमाणं च
विद्धि माया-मनोमयम् ॥ इति । [भ्प् 11.7.7]
ये त्व् आत्म-विदस् त्वद्-धेतोर् अअस्ते आमनुजात् सोपाधिक-जीवस्वरूपम्
अभिव्याप्य इदम् अशेषं जगद् एव आत्मतया त्वद्-रूपतया सद् अभिमृशन्ति
तेषां सद्-अंश एव दृष्टिर् नान्यत्रेत्य् अर्थः ।
तत्र दृष्टान्तः न हि विकृतम् इति । तेषां कनक-मात्रं मृगयमानानां
कनक-वणिजां हि कनक-विकारे सुन्दर-कुरूपाकारतायां दृष्टिर् नास्ति ।
शुद्ध-कनक-मात्र-गृआहित्वात् तथात्म-विदाम् अपीति भावः ।
दार्ष्टान्तिकेऽपि तद्-आत्मत्वे हेतु-त्रयम् आहुः इदं जगत् स्वेन सच्-छक्ति-
विशिष्टेन उपादान-रूपेण त्वया कृतं पश्चात् सिद्धेऽपि कार्ये कारणांश-
व्यभिचारितयान्तर्यामितया च स्वेन त्वया प्रविष्टं पुनः प्रलयेऽप्य्
आत्मतया सच्-छक्ति-विशिष्ट-सद्-रूपतयैवावसितं चेति । एवं दृष्टान्तेऽपि
विवेचनीयम् । तद् एतत् सर्वम् अभिप्रेत्योक्तं वैष्णवे -
ज्ञान-स्वरूपम् अखिलं
जगद् एतद् अबुद्धयः ।
अर्थ-स्वरूपं पश्यन्तो
भ्राम्यन्ते मोह-सम्प्लवे ॥
ये तु ज्ञान-विदः शुद्ध-
चेतसस् तेऽखिलं जगत् ।
ज्ञानात्मकं प्रपश्यन्ति
त्वद्-रूपं परमेश्वर ॥ इति ॥ [विप् 1.4.40-41]
॥10.87॥ श्रुतयः

5.71

[70]
तद् एवं परिणामादिकं साधितम् । विवर्तश् च परिहृतः । ततो विवर्त-
वादिनाम् इव रज्जु-सर्पवन् न मिथ्यात्वं किन्तु घटवन् नश्वरत्वम् एव
तस्य । ततो मिथ्यात्वाभावेऽपि त्रिकाल-व्यभिचारभावाज् जगतो न सत्त्वम् ।
विवर्त-परिणामासिद्धत्वेन तद्-दोष-द्वयाभाववत्य् एव हि वस्तूनि सत्त्वं
विधीयते । यथा परमात्मनि तच्-छक्तौ वा । सद् एव सौम्येदम् अग्र आसीद्
इत्य् आदौ इदं-शब्दोक्तं जगत् । सूक्ष्मावस्था-लक्षण-तच्-छक्ति-ब्रह्मणोर्
मिथस् तादात्म्यापन्नयोः सच्-छब्द-वचनात् । अतः सत्-कार्य-वादश् च
सूक्ष्मावस्थाम् अवलम्ब्यैव प्रवर्तते । तद् एवं स्थितेऽपि पुनर् आशङ्कते ।
ननु सद्-उपादानं जगत् कथं तद्वन् नश्वरताम् अपि भजन् न खलु सत्
स्यात् । यदि च नश्वरं स्यात् तर्हि कथं शुक्ति-रजतवत् व्यभिचारित्वेन
केवल-विवर्तान्तः पाति न स्यात् । तद् एतत् प्रश्नम् उट्टङ्क्य परिहरन्ति ॥
सत इदम् उत्थितं सद् इति चेन् ननु तर्क-हतं
व्यभिचरति क्व च क्व च मृषा न तथोभय-युक् ।
व्यवहृतये विकल्प इषितोऽन्ध-परम्परया
भ्रमयति भारती त उरुवृत्तिभिर् उक्थ-जडान् ॥ [भ्प् 10.87.36]
इदं विश्वं धर्मि सद् इति साध्यो धर्मः सत उत्पन्नत्वात् यद् यत
उत्पन्नं तत् खलु तद्-आत्मकम् एव दृष्टं । यथा कनकाद् उत्पन्नं
कुण्डलादिकं तद्-आत्मकं तद्वत् । तत्रोत्थितम् एव न तु शुक्तौ रजतम् इव ।
तत्रारोपितम् इति सिद्धान्तिनः स्वमतम् अनूदितं नैवेत्य् आहुः ।
ननु तर्क-हतम् इति । अपादान-निर्देशेन भेद-प्रतीतेर् विरुद्ध-हेतुत्वात् ।
ननु नामेदं साधयामः । किन्तु तत उत्पन्नत्वेन कुण्डलादिवद् भेदम्
अनूद्य प्रतिषेधामः । तत्राभेद एव स्याद् इत्य् आशङ्क्यानैकान्तिकत्वेन
हेतुं दूषयति । व्यभिचरति क्व चेति । क्व च कुत्रापि कारण-धर्मानुगतिर्
व्यभिचरति । कार्य-कारण-धर्मस्य सवांशेनानुगतं भवतीति नियमो
न विद्यत इत्य् अर्थः । दहनाद्य्-उद्भवए प्रभादौ दाहकत्वादि-
धर्मादर्शनाद् इति भावः ।
द्वे रूपे ब्रह्मणस् तस्य मूर्तं चामूर्तम् एव च ।
क्षराक्षर-स्वरूपे ते सर्व-भूतेष्व् अवस्थिते ॥
अक्षरं तत्-परं ब्रह्म क्षरं सर्वम् इदं जगद् । इत्य् [विप् 1.22.55] आद्य्-
अनन्तरम् ।
एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा ।
परस्य ब्रह्मणः शक्तिस् तथेदम् अखिलं जगत् ॥ इत्य् [विप् 1.22.56] एतद् ।
एवं व्याख्यातं श्री-स्वामिभिर् एव श्री-विष्णु-पुराणे - नन्व् अक्षरस्य पर-
ब्रह्मणस् तद्-विलक्षणं क्षर-रूपं कथं स्याद् इत्य् आशङ्क्य
दृष्टान्तेनोपपादयति एकदेशेति । प्रादेशिकस्याग्नेर् दीपादेर् दाहकस्यापि
तद्-विलक्षणा ज्योत्स्ना प्रभा यथा तत्-प्रकाश-विस्तारस् तथा ब्रह्मणः
शक्ति-कृत-विस्तार इदम् अखिलं जगद् इति ।
प्रकृतम् अनुसरामः । ननु तर्हि व्यभिचारित्वे शुक्ति-रजतवद् एवास्तु ।
तत्राहुः क्व च मृषेति । क्व च शुक्तादाव् एव प्रातीतिक-मात्र-सत्ताकं
रजतादिकं मृषा । अन्यत्र यत्र उभयं प्रतीतिम् अर्थ-क्रिया-कारित्वं च
युनक्ति भजते तत्र न तथा मृषेति ।
ननु कूटताम्रिकादिष्व् अर्थक्रिया-कारितापि दृश्येते इत्य् आशङ्क्याहुः
व्यवृतय इति । क्रय-विक्रयादि-लक्षण-व्यवहारायैव विकल्पो भ्रम इष्टः ।
न तु तत्-तत्-प्रसिद्ध-सम्यग्-अर्थ-क्रिया-कारितायै । तद्-दानादौ यथावत्
पुण्य-फलादिकं क्रीत्वा शुण्ठी-ज्ञानेन भक्षितम् अपि नारोग्य-जनकं
प्रतुय्त मारकम् एव इति । तस्मात् तत्-तत्-प्रसिद्ध-सम्यग्-अर्थ-क्रिया-
कारितयैव सत्यत्वम् अङ्गी-क्रियते । एकाङ्गेन सा कूट-सर्पादौ भयादि-
रूपा त्वस्त्य् एवेति न तद्-धेतुः । किं चान्ध-परम्परयेति ।
स च क्रय-विक्रयादि-लक्षण-व्यवहारोऽपि न तु यथार्थ-ताम्रिकस्येव तद्-
व्यवहार-कुशलेष्व् अपि किन्त्व् अन्ध-परम्परयैव । अतस् तत्र तदीय-
कुशलेष्व् असिद्धत्वेन व्यवहारस्याभ्यास-मात्रत्वात् तस्माद् अन्यथा
नानुमेयम् । धूमाभासे हि वह्नि-व्यभिचारस्यौचित्यम् एवेति भावः । तद्
एवम् अर्थ-क्रिया-कारित्वेनास्त्य् एवेतरस्य भ्रम-वस्तु-वैलक्ष्यात् सत्यत्वम्
इति विवर्तवादिनि निरस्ते पुनर् अनश्वर-वादी प्रत्युत्तिष्ठते ।
नन्व् अपाम सोमम् अमृता अभूम अक्षय्यं ह वै चातुर्मास-याजिनः
सुकृतं भवतीति [अथर्व-शिर उपनिषद् 3] श्रुत्यैव कर्म-फलस्य
नित्यत्व-प्रतिपादनान् नश्वरत्वं न घटते इत्य् आशङ्क्याहुः भ्रमयतीति ।
हे भगवन् ते तव भारती उरु-वृत्तिभिः वह्नीभिर् गौण-लक्षणादिभिर्
वृत्तिभिः उक्थ-जडान् उक्थानि यज्ञे शस्यन्ते तत्र जडाः कर्म-श्रद्धा-
भराक्रान्त-मन्द-मतय इत्य् अर्थः तान् भ्रमयति । अयं भावः न हि
वेदः कर्म-फल:अ नित्यम् अभिप्रैति । किन्तु लक्षणया प्राशस्त्य-मात्रम् ।
अन्येषां वाक्यानां विध्य्-एक-वक्यत्वेन विधाव् एव तात्पर्यात् । अन्यथा
वाक्य-भेद-प्रसङ्गः तद् यथेह कर्म-जितो लोकः क्षीयते एवम् एवामुत्र
पुण्य-जितो लोकः क्षीयत [छाउ 8.1.6] इति न्यायोपार्त हि श्रुत्य्-अन्तर-विरोधश्
च । अतः कर्म-जडानाम् इदं भ्रम-मात्रं जगत् तु सत्यम् अपि परिणाम-
धर्मत्वेन नश्वरम् एवेति । तद् उक्तं भट्टेनैव अथवेतिहास-पुराण-
प्रामाण्यात् सृष्टि-प्रलयाव् अपीष्येते इति ।
अथवा नाभेदं साधयाम इत्य् आदिकम् आशङ्क्य प्रसिद्धस्य सत्ता-त्रयस्य
मिथो वैलक्षण्यात् परिहरति । क्व च घटादौ अर्थ-क्रिया-कारिण्य् अपि
व्यभिचरति सत्तेति शेषः । वस्त्व्-अन्तरस्यार्थ-क्रियाकारितायाम् असाम्र्थ्यात्
देशान्तरे स्वयम् ऐद्यमानत्वात् कालान्तरे तिरोभावित्वाच् च । क्व च शुक्ति-
रजतादौ तत्रापि तदानीम् अपि मृषा अर्थ-क्रिया-कारित्वाभावात् । या तूभय-
युक् उभयत्र घटादि-सत्तायां शुक्ति-रजतादि-सत्तायां च युग् योगो यस्याः ।
यया सा सत्ता लब्ध-पदा भवतीत्य् अर्थः । सा परम-कारण-सत्ता न तथा
किन्तु सर्वत्रापि सर्वदापि तत्-तद्-उपाध्य्-अनुरूप-सर्वार्थ-क्रियाद्य्-
अधिष्ठान-रूपेत्य् अर्थः । तस्माद् अर्थ-क्रिया-कारित्वेन सत्यम् अपि
परिणतत्वेन घटवन् नश्वरम् एव जगत् न प्रतीत-मात्र-सत्ताकं न
चानश्वर-सत्ताकम् इति परस्पर-वैलक्षण्य-दर्शनात् कथम् एकम् अन्यद्
भवितुम् अर्हतीति भावः ।
कूट-ताम्रिकत्वम् आशङ्क्याहुः व्यवहृतय इति । विकल्प्यते अन्यत्रारोप्यते
इति विकल्पः स्वतः-सिद्धस् ताम्रिकादिर् अर्थः स एव व्यवहृतये इषितः । अयम्
अर्थः । अत्र कूट-ताम्रिकेण यं व्यवहारं मन्यसे सोऽपि न तेन सिध्यति ।
किं तर्हि सत्य-ताम्रिकेणैव । अर्थान्तरं व्यवहर्तुर् हृदि तस्यैव
प्रत्यक्षत्वात् । कूट-ताम्रिकम् अत्रोपलक्षणम् एव क्वचित् तं विनापि तव
गृहे ताम्रिको दत्त इति पश्चाद् दातव्य इति वा छल-प्रयोगे स्मर्यमाणेनापि
तेन तथा व्यवहार-सिद्धेः । तस्माद् व्यवहार-रूपाप्य् अर्थ-क्रिया-कारिता
तस्यैव भवतीति स सत्य एव । अन्यथा सत्यस्य ताम्रिकस्याभावे शतम् अप्य्
अन्धानां न पश्यतीति न्यायेन कूट-ताम्रिक-परम्परयापि व्यवहारोऽपि

न सिध्येद् इत्य् आहुः । अन्ध-परम्परयेति । अन्ध-परम्परा दोषात् स एव
व्यवहृतय इषित इत्य् अन्वयः । यथान्ध-परम्परया व्यवहारो न सिध्येत्
तथा कूट-ताम्रिक-परम्परयापीत्य् अर्थः । इत्थम् एव विज्ञान-वादोऽपि
निराकृतः । शङ्कर-शारीरिकेऽपि अनादित्वेऽप्य् अन्ध-परम्परा-
न्यायेनाप्रतिष्ठैवानवस्था व्यवहार-विलोपिनी स्यात् । नाभिप्राय-सिद्धिर्
इत्य् उक्तम् ।
एतद् उक्तं भवति - यथेदं सुवर्णं केन क्रीतम् इति प्रश्ने कश्चिद् आह
अनेनान्धेनेति । अनेन कथं परिचितम् इति पुनर् आह तेनान्धेन
परिचायितम् । तेन च कथ्म् इत्य् आह केनाप्य् अपरेणान्धेनेत्य्
अन्धपरम्परयापि न सिधेद् व्यवहारः । किन्तु तत्रान्ध-परम्परायाय्ं
यद्य् एकोऽपि चक्ष्ष्मान् सर्वादि-प्रवर्तको भवति तदैव सिध्यति । यथा च
तत्र सर्वेष्व् अपि चक्षुष्मत एव व्यवहार-साधकत्वं । तथा कस्मिंश्चित्
ताम्रिके प्रथमं सत्ये सत्य् एव व्यवहारः सिध्यति । तत्र च सत्यसैव
व्यवहार-साधकत्वं । तद् अनुसन्धानेनैव तत्र प्रवृत्तेश् चक्षुष्मत इव
प्रवर्तकत्वात् ततश् च न ताम्रिक सत्य इति स्थिते, यत्र तद्-व्यवहार-कुशलः
परीक्षया सत्यतावगम्यते स एव कूट-ताम्रिकेऽप्य् आरोप्यमाणः सत्यो
भवेत् । तद् एवम् अर्थ-क्रिया-कारित्वेन तस्य सत्यत्वे तद्-उपलक्षितं विश्वम्
एव भ्रम-वस्तु-विलक्षणं सत्यम् इति सिद्धम् । परमात्मन एवावयवित्व-
व्यवहार-साधितत्वाद् युक्तम् एव तत् । तथा च भ्रमादिभिः स्तुतम् -
सत्यस्य योनिम् [भ्प् 10.2.26] इति । तत् सत्यम् इत्य् आचक्षत इति श्रुतिश् च । शिष्टम्
अन्यत् समानम् ।
[71]
एवं जगतः सत्यत्वम् अङ्गीकृतं तच् च नश्वरम् इति । तत्र नश्वरत्वं
नात्यन्तिकं किन्त्व् अव्यक्ततया स्थितेर् अदृश्यता-मात्रम् एव । सत्-कार्यता-
सम्प्रत्तिपत्तेः । यद् भूतं भवच् च भविष्यच् चेत्य् आदि श्रुतेः । अतएव
शुक्तित्वे रजत्वम् इव तस्याव्यक्त-रूपत्वे जगत्त्वम् असन् न भवति । पटवच्
च इति [व्स् 2.1.20] न्यायेन जगद् एव हि सूक्ष्मतापन्नम् अव्यक्तम् इति
दृश्यत्वेन भ्रान्ति-रजत-कक्षम् अपि जगत् तद्-विलक्षण-सत्ताकं
तथात्मवद् अपरिणतत्वाभावेन नैकावस्थ-सत्ताकम् इत्य् एवम् अर्थ-
सिद्धये तद्-अनन्तरम् एवाहुः ।
न यद् इदम् अग्र आस न भविष्यद् अतो निधनाद्
अनुमितम् अन्तरा त्वयि विभाति मृषैक-रस ।
अत उपमीयते द्रविण-जाति-विकल्प-पथैर्
वितथ-मनो-विलास-मृतम् इत्य् अवयस्न्त्य् अबुधाः ॥ [भ्प् 10.87.37]
यद् यदि इदं विश्वम् अग्रे सृष्टेः पूर्वं नासत् नासीत् तदा न भविष्यन्
नाभविष्यद् एव अडागमाभाव आर्षः आकाशे कुसुमम् इवेति । श्रुतयश् आसीद्
एवेति वदन्ति सद् एव सौम्येदम् अग्र आसीत् आत्मा वा यद् इदम् अग्र आसीद् इत्य्
आद्याः । तद् एवं सूक्ष्मतया त्वत्-तादात्म्येन स्थितं कारणावस्थम् इदं
जगत् विस्तृततय कार्यावस्थं भवति । अतो यन्-निधनान् नाश-मात्राद् धेतोः
शुक्तौ रजतम् इव त्वयि तद् इदम् अन्तरा सृष्टि-मध्य एव न त्व् अग्रे चान्ते
च विभातीत्य् अनुमितं तन् मृषेति प्रमाण-सिद्धं न भवतीत्य् अर्थः । तत्र
हेतुम् आहुर् एकरसे इति । अनुभवान्तरा-विषयानन्द-स्वाद इति । यस्मिन्न्
अनुभूते सति विषयान्तर-स्फूर्तिर् न सम्भवति तस्मिंस् त्वयि शुक्त्य्-आदि-
निकृष्ट-वस्तूनीव विषयारोपः कथं स्याद् इत्य् अर्थः ।
दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे
न पुनर् उपासते पुरुष-सार-हरावस्थान् ॥ इत्य् [भ्प् 10.87.35] अस्माकम्
एवोक्तेः ॥
अतोऽचिन्त्य-शक्त्या स्वरूपाद् अच्युतस्यैव तव परिणाम-स्वीकारेण द्रविण-
जातीनां द्रव्य-मात्राणां मृल्-लोहादीनां विकल्पा भेदा घट-
कुण्डलादयस् तेषां पन्थानो मार्गाः प्रकारास् तैर् एवास्माभिर् उपमीयते
न तु कुत्रापि भ्रमर-जतादिभिः । यस्माद् एवं तस्माद् वितथा मनो-
विलासाः य एतादृशम् एव ऋतं तद्-रूपं ब्रह्म वेदं जगद् इत्य् अबुधा
एवावयन्ति मन्यन्ते । तस्य तद्-अधिष्ठानत्वासमभवाद् इति भावः । इत-
शब्द-प्रयोगस् त्व् अत्र मिथ्यासम्बन्ध-राहित्य-व्यञ्जनार्थम् व कृत इति
ज्ञेयम् ।
अत्र सत्-कार्यवादिनाम् अयम् अभिप्रायः । मृत्-पिण्डादि-कारकैर् यो घट
उत्पद्यते सन्न् असन् वा । आद्ये पिष्ट-पेषणम् । द्वितीये क्रियायाः कारकैश् च
तत्-सिद्धिर् इति दिक् । तस्मान् न प्रकटम् एव सन्न चात्यन्तम् असन् किन्त्व्
अव्यक्ततया मृत्-पिण्डे एव स्थितोऽसौ यथा कारक-तन्-निष्पन्न-क्रिया-योगेन
व्यज्यते । तथा परम-कारणे त्वयि स्थितं विश्वं त्वत्-स्वाभाविक-शक्ति-तन्-
निष्पन्न-क्रिया-योगेनेति । अत्र स्व-वेदान्तित्व-प्रख्यापकानाम् अन्यथा-
युक्ति-विरुद्धम् एव । मन एव भूत-कार्यम् इति हि तत्र प्रसिद्धं युक्ति-
विरुद्धं च । मनोऽहङ्कारादीनां मनः-कल्पितत्वासम्भवात् । तथा हि
सति वेद-विरुद्धोऽनीश्वर-वादश् च प्रसज्येत । स च निन्दितः पाद्मे -
श्रुतयः स्मृतयश् चैव युक्तयश् चेश्वरं परम् ।
वदन्ति तद्-विरुद्धं यो वदेत् तस्मान् न चाधमः ॥ इति ।
असत्यम् अप्रतिष्ठन्ते जगद् आहुर् अनीश्वरम् ।
अपरस्पर-सम्भूतं किम् अन्यत् काम-हैतुकम् ॥ इति [गीता 16.8]
श्री-गीतोपनिषदम् अनीश्वर-वादिन एव व्याचक्षते । असत्यं मिथ्या-भूतं
सत्यासत्याभ्याम् अनिर्वचनीयत्वेनाप्रतिष्ठं निर्देश-शून्यं स्थाणौ
पुरुषत्ववत् ब्रह्मणीश्वरत्वस्याज्ञान-मात्र-कल्पितत्वाद् ईश्वराभिमानी
तत्र कश्चिन् नास्तीत्य् अनीश्वरम् एव जगत् अपरस्पर-सम्भूतम् अनाद्य्-
अज्ञान-परम्परा-सम्भूतम् अपरस्पराः क्रिया-सातत्ये अतः काम-हैतुकं
मनः सङ्कल्प-मात्र-जातं स्वप्नवद् इत्य् अर्थः । अत्र प्रवृत्तिं चेत्य् आदिना
तेषां संस्कार-दोष उक्तः ।
एतां दृष्टिम् इत्य् [गीता 16.9] आदिना तु गतिश् च निन्दिष्यते इति ज्ञेयम् एभिर् एव
ब्रह्मण ऐश्वर्योपादिर् मायापि जीवाज्ञान-कल्पिता तयैव जगत्-सृष्टिर् इति
मतम् । यद् उक्तं तदीय-भाष्ये तद्-अनन्यत्वम् इत्य् [व्स् 2.1.15] आदि-सूत्रे -
सर्व-ज्ञेश्वरस्यात्मभूते इवाविद्या-कल्पिते नाम-रूपे तत्वातत्त्वाभ्याम्
अनिर्वचनीये संसार-प्रपञ्च-बीज-भूते सर्वज्ञेश्वरस्य माया-शक्तिः
प्रकृतिर् इति श्रुति-स्मृत्योर् अभिलप्येते इति । किन्त्व् अत्र विद्याविद्ये मम तनू इत्य्
[भ्प् 11.11.3] आदि श्री-भगवद्-वाक्येन तु विरुद्धम् इति । अतो मायावादतया
चायं वादः ख्यायते ।
तद् एवं च पाद्मोत्तर-खण्डे देवीं प्रति पाषण्ड-शास्त्रं गणतया श्री-
महादेवेनोक्तम् -
मायावादम् असच् छास्त्रं प्रच्छन्नं बौद्धम् उच्यते ।
मयैवं कथितं देवि कलौ ब्राह्मण-रूपिणा ॥
वेदान्ते तु महा-शास्त्रे मायावादम् अवैदिकम् ।
मयैव वक्ष्यते देवि जगतां नाश-कारणात् ॥ इति ।
तच् चासुराणां मोहनार्थं भगवत एवाज्ञयेति तत्रैवोक्तम् अस्ति । तया च
पाद्म एवान्यत्र शैवे च --
द्वापरादौ युगे भूत्वा कलया मानुषादिषु ।
स्वागमैः कल्पतैस् त्वं च जनान् मद्-विमुखान् कुरु ॥
इति श्री-भगवद्-वाक्यम् इति दिक् । अतएवोक्तं श्री-नृसिंह-पुराणे यम-
वाक्यम् -
विषधर-कण-भक्ष-शङ्करोक्तीर्
दशबल-पञ्च-शिखाक्ष-पाद-वादान् ।

महद् अपि सुविचार्य लोक-तन्त्रं
भगवद्-उक्तिम् ऋते न सिद्धिर् अस्ति ॥ इति ।
सर्वेऽत्र वाद-ग्रन्था एव निर्दिष्टा न तु मन्त्र-ग्रन्था इति नामाक्षरम्
एव साक्षान् निर्दिष्टम् इति च नान्यथा मननीयम् । अतो यत् क्वचित् तत्-तत्-
प्रशंसा वा स्यात् तद् अपि नितान्त-नास्तिक-वादं निर्जित्यांशेनाप्य् आस्तिक्य-
वादः ख्यापित इत्य् अपेक्षया ज्ञेयम् । तस्मात् स्वतन्त्र ईश्वर एव सर्व-
स्रष्टा न तु जीवः । स्वाज्ञानेन स्व-शक्त्यैवेत्य् आयातम् । तद् उक्तं श्री-
बादरायणेनापि बहुत्र संज्ञा-मूर्ति-क् प्तिस् तु त्रिवृत् कुर्वत उपदेशाद् इत्य्
[व्स् 2.4.20] आदिषु ।
अतस् तन्-मनोऽसृजत मनः प्रजापतिम् इत्य् आदौ मनः-शब्देन समष्टि-
मनोऽधिष्ठाता श्रीमान् अनिरुद्ध एव । बहु स्यां प्रजायेय इति [छा 6.2.3]
तत्-सङ्कल्प एव वा वाच्यः । सत्य-स्वाभाविकाचिन्त्य-शक्तिः परमेश्वरस्
तुच्छ-मायिकम् अपि न कुर्यात् चिन्तामणीनाम् अधिपतिः स्वयं चिन्तामणिर्
एव वा कूट-कनकादिवत् । तथा च माध्व-भाष्य-प्रमाणिता श्रुतिः -
अथैनम् आहुः सत्य-कर्मेति सत्यं ह्य् एवेदं विश्वम् असृजत इति । एवं च --
सत्य-व्रतं सत्य-परं त्रि- सत्यं
सत्यस्य योनिं निहितं च सत्ये ।
सत्यस्य सत्यम् ऋत- सत्य-नेत्रं
सत्यात्मकं त्वां शरणं प्रपन्नः ॥ [भ्प् 10.2.26]
इत्य् अत्र सत्य-सङ्कल्पत्वं सत्य-पारायणत्वं सृष्ट्य्-आदि-लीला-त्रयेषु
सत्यत्वं सत्यस्य विश्वस्य कारणत्वं सत्य एव विश्वस्मिन्न् अन्तर्यामितया
स्थितत्वं सत्यस्य तस्य स्थितता-हेतुत्वं सत्य-वचनस्याव्यभिचारि-दिष्टेश् च
प्रवर्तकत्वं सत्य-रूपत्वम् इत्य् एतेषाम् अर्थानाम् आकूतं परिपाटी च
सङ्गच्छते । अन्यथा सत्यस्य योनिम् इत्य् आदौ त्रये तत्रापि निहितं च सत्य
इत्य् अत्राकस्माद् अर्ध-जरतीय-न्यायेन कष्ट-कल्पनामयार्थान्तरे तु
भगवता स्व-प्रतिश्रुतं सत्य-कृतं यत् तत् तद् युक्तम् एवेत्य् अतो
ब्रह्मादिभिस् तथा स्तवे स्वारस्य-भङ्गः स्यात् प्रक्रम-भङ्गश् च ।
तस्मात् सत्यम् एव विश्वम् इति स्थितम् ॥ 10.87 ॥ श्रुतयः श्री-भगवन्तम्

5.72

[72]
तद् एव न यद् इदम् अग्र आसेत्य् अनेन प्राकृत-लयोऽपि सत्-कार्य-
वादेऽनुगमितः । आत्यन्तिके तु मोक्ष-लक्षण-लये न पृथिव्यादीनां नाशः ।
जीव-कृतेन तथा भावना-मात्रेण स्वाभाविक-परमात्म-शक्ति-मयानां
तेषां नाशायुक्तेः । लब्ध-मोक्षेषु श्री-परीक्षितादिषु तद्-देह-स्थानाम् अपि
पृथिव्य्-आद्य्-अंशानां स्थितेः श्रवणात् तथा हिरण्यगर्भांशानां बुद्ध्य्-
आदीनाम् अपि भविष्यति । अतस् तेष्व् अध्यास-परित्याग एवात्यन्तिक-लय इत्य्
उच्यते । अतएव
घटे भिन्ने घटाकाश
आकाशः स्याद् यथा पुरा ।
एवं देहे मृते जीवो
ब्रह्म सम्पद्यते पुनः ॥ इत्य् अत्र ।
तथा -
एवं समीक्ष्य चात्मानम् आत्मन्य् आधाय निष्कले ।
दशन्तं तक्षकं पादे लेलिहानं विषानलम् ॥
न द्रक्ष्यसि शरीरं त्वं विश्वं च पृथग्-आत्मनः ॥ [भ्प् 12.5.12]
इत्य् अत्राप्य् उपाधेः संयोग एव पर्तियज्यते न तु तस्य मिथ्यात्वं
प्रतिपाद्यते ।
तथा हि बुद्धीन्द्रियेत्य् आदि-प्रकरणम् । तत्र तद्-आश्रयत्व-तत्-
प्रकाश्यत्व-तद्-अव्यतिरिक्तत्वेभ्यो हेतुभ्यो बुद्धीन्द्रियादीनां
परमात्म-स्वभाव-शक्तिमयत्वम् आह ।
बुद्धीन्द्रियार्थ-रूपेण
ज्ञानं भाति तद्-आश्रयम् ।
दृश्यत्वाव्यतिरेकाभ्याम्
आद्य्-अन्तवद् अवस्तु यत् ॥ [भ्प् 12.4.23]
अन्तःकरण-बहिः-करण-विषय-रूपेण परमात्म-लक्षणं ज्ञानम् एव
भाति तस्माद् अन्यद् एव बुद्ध्य्-आदि-वस्त्व् इत्य् अर्थः । यतस् तद्-आश्रयं तेषाम्
आश्रय-रूपं तज् ज्ञानम् । क्लीब्त्वम् आर्षम् । तथापि राज-भृत्ययोर् इवात्यन्त-
भेदः स्यात् । तत्र हेत्व्-अन्तरेऽप्य् आह । दृश्यत्वं तत्-प्रकाश्यत्वम्
अव्यतिरेकस् तद्-व्यतिरेके व्यतिरेकः ताभ्याम् । तस्मात् एक-देश-स्थितस्याग्नेर्
ज्योत्स्ना विस्तारिणी यथा । इत्य् [विप् 1.22.56] आदिवद् बुद्ध्य्-आदीनां तत्-
स्वाभाविक-शक्तिमयत्वम् एव सेत्स्यतीति भावः । यत् खल्व् आद्य्-अन्तवत्
शुक्त्य्-आदौ कदाचिद् एवारोपितं रजतं तत् पुनर् अवस्तु तद्-आश्रयकत्व-तत्-
प्रकाशकत्व-तद्-अव्यतिरेकाभावात् । शुक्त्य्-आदि-वस्तु न भवति शुक्त्य्-
आदिभ्योऽनन्यन् न भवतीत्य् अर्थः । ततश् चैक-विज्ञानेन सर्व-विज्ञान-
प्रतिज्ञा विरुद्धेतेति भावः

5.75

[73]
एवम् असत्-कार्य-वादान्तरेऽपि ज्ञेयम् । एकस्यापि
वस्तुनोऽंशभेदेनाश्रयाश्रयित्वं स्वयम् एव दृष्टान्तेन स्पष्टयति --
दीपश् चक्षुषश् च रूपं च
ज्योतिषो न पृथग् भवेत् ।
एवं धीः खानि मात्राश् च
न स्युर् अन्यतमादृतात् ॥ [भ्प् 12.4.24]
दीपश् चकू-रूपाणां महाभूत-ज्योतिर्-अंश-रूपत्वात् दीपादिकं न ततः
पृथक् । एवं धी-प्रभृतीनि ऋतात् परमात्मनो न पृथक् स्युः । तथापि
यथा महा-भूत-ज्योतिर् दीपादि-दोषेण न लिप्यते तथा बुद्ध्यदि-दोषेण
परमात्मापि । तद्वद् अस्याप्य् अन्यतमत्वाद् इत्य् आह अन्यतमाद् इति ।
[74]
तद् एवं धी-प्रभृतीनां परमात्म-स्वाभाविक-शक्तिमयत्वम् उक्त्वा
तथापि तेभ्यो बहिरङ्गअ-शक्तिमयेभ्योऽन्तरङ्ग-शक्ति-तटस्थ-शक्ति-
विशिष्ट-परमात्मनो ऽन्यतमत्वेन तेषाम् अशुद्धत्व-व्यञ्जनया स-
दोषत्वम् उक्त्वा तेष् धी-वृत्तिषु तावच् छुद्धस्यैव जीवस्य सकारणम्
अध्यासम् आह --
बुद्धेर् जागरणं स्वप्नः
सुषुप्तिर् इति चोच्यते ।
मायामात्रम् इदं राजन्
नानात्वं प्रत्यग्-आत्मनि ॥ [भ्प् 12.4.25]
बुद्धि-वृत्ति-रूपं जागरणं स्वप्नः सुषुप्तिर् इतीदं प्रत्यग्-आत्मनि शुद्ध-
जीवे विश्वतैर्जस-प्राज्ञत्वाख्यं नानात्वं माया-मात्रं माया-कृताध्यास-
मात्रेण जातम् इत्य् अर्थः ।
[75]
ततः परमात्मनि बुद्ध्य्-आदि-मयस्य जगतः सतोऽपि सम्पर्कः सुतरां
नास्तीत्य् अर्थं चाह --
यथा जलधरा व्योम्नि
भवन्ति न भवन्ति च ।
ब्रह्मणीदं तथा विश्वम्
अवयव्युदयाप्ययात् ॥ [भ्प् 12.4.26]
यथा व्योम्नि व्योम-कार्य-वायु-ज्योतिः-सलिल-पार्थिवांश-धूम-परिणता
जलधराः स्वेषाम् एवावयविनाम् उदयाद् भवन्ति दृश्यन्ते । अप्य् अयान् न
भवन्ति न दृश्यन्ते च ते च तन् न स्पृशन्तीति ज्ञेयम् । तथा ब्रह्मणीदं
विश्वम् इति योज्यम् । ततः सूक्ष्म-रूपेण तस्य स्थितिर् अस्त्य् एव जगच्-छक्ति-
विशिष्ट-कारणास्तित्वात् । इत्थम् एवोक्तम् सतोऽभिव्यञ्जकः काल इति

5.76

[76]
तद् एवं वक्तुं कारणास्तित्वं दृष्टान्तेन प्रतिपादयति --
सत्यं ह्य् अवयवः प्रोक्तः
सर्वावयविनाम् इह ।
विनार्थेन प्रतीयेरन्
पटस्येवाङ्ग तन्तवः ॥ [भ्प् 12.4.27]
सर्वेषाम् अवयविनां स्थूल-वस्तूनाम् अवयवः कारणं सत्यं सत्यो
व्यभिचार-रहितः प्रोक्तः । लोके यथा दर्श्नाद् इत्य् आह विनेति

5.77

[77]
अर्थेन स्थूल-रूपेण पटेनापि विना तस्मिन् कार्यास्तित्वम् अपि व्यतिरेकेण
प्रतिपादयति ।
यत् सामान्य-विशेषाभ्याम्
उपलभ्येत स भ्रमः । [भ्प् 12.4.28]
अयम् अर्थः । यद्य् एवम् उच्यते पूर्वं सूक्ष्माकारेणापि जगन् नासीत् किन्तु
सामान्यं केवलं शुद्धं ब्रह्मैवासीत् तद् एव शक्त्या निमित्त-भूतया
विशेषाकारेण जगद्-रूपेण परिणतम् इति तद् असत् । यतः यद् एव सामान्य-
विशेषाभ्याम् उपलभ्येत स भ्रमो विवर्त-वाद एव । तत्र हि शुद्धं
ब्रह्मैवाज्ञान-रूपया शक्त्या जगत्तया विवृतम् इति मतं न चास्माकं तद्-
अभ्युपपत्तिः परिणामवादस्य सत्-कार्यता-पूर्वकत्वाद् इत्य् अर्थः

5.84

[78]
नन्व् अपूर्वम् एव कार्यम् आरम्भ-विवर्त-वादिनाम् इव युष्माकम् अपि
ज्ञायतां तत्राह -
अन्योन्यापाश्रयात् सर्वम्
आद्यन्तवद् अवस्तु यत् ॥ [भ्प् 12.4.28]
यदाद्यन्तर्वद् अपूर्वं कार्यं तत् पुनर् अवस्तु निरूपणासहम् इत्य् अर्थः ।
तत्र हेतुर् अन्योन्योपश्रयात् । यावत् कार्यं न जायते तावत् कारणत्वं मृत्-
शुक्त्य्-आदेर् न सिध्यति कारणत्वासिद्धौ च कार्यं न जायत एवेति परस्पर-
सापेक्षत्व-दोषात् । ततः कारणत्व-सिद्धये कार्य-शक्तिस् तत्रावश्यम्
अभुपगन्तव्या । सा च कार्य-सूक्ष्मावस्थैवेति कार्यास्तित्वं सिध्यति ।
तथापि स्थ्”ल-रूपता-पादकत्वान् मृद्-आदेः कारणत्वम् अपि सिध्यतीति
भावः ।
[79]
तद् एवं स्वाभावैक-शक्तिमयम् एव परमात्मनो जगद् इत्य् उपसंहरति -
विकारः ख्यायमानोऽपि
प्रत्यग्-आत्मानम् अन्तरा ।
न निरूप्योऽस्त्य् अणुर् अपि
स्याच् चेच् चित्-सम आत्मवत् ॥ [भ्प् 12.4.29]
यद्यपि ख्यायमामनः प्रकाशमान एव तथापि स्वल्पोऽपि विकारः प्रत्यग्-
आत्मानं परमात्मानं विना तद्-व्यतिरेकेण स्वतन्त्रतया न निरूप्योऽस्ति ।
तद् उक्तं तद्-अनन्यत्व-विवरण एव । यदि च तं विनापि स्यात् तदा चित्-समः
स्याच् चिद्-रूपेण समः स्व-प्रकाश एवाभविष्यत् । आत्मवत् परमात्मवन्
नित्यैकावस्थश् चाभविष्यत् ।
[80]
ननु यदि परमात्मानं विना विकारो नास्ति तर्हि परमात्मनः सोपाधित्वे
निरुपाधित्वं न सिध्यति । तस्मात् सोपाधेर् निरुपाधिर् अन्य् एव किम् इत्य्
अत्राह --
न हि सत्यस्य नानात्वम्
अविद्वान् यदि मन्यते ।
नानात्वं छिद्रयोर् यद्वज्
ज्योतिषोर् वातयोर् इव ॥ [भ्प् 12.4.30]
सत्यस्य परमात्मनो नानात्वं न हि विद्यते । यदि तस्य नानात्वं मन्यते
तर्ह्य् अविद्वान् यतस् तस्य निरुपाधित्व-सोपाधित्व-लक्षणं नानात्वं
महाकाश-घटाकाशयोर् यद्वत् तद्वद् गृहाङ्गन-गत-सर्व-व्यापि-तेजसोर्
इव बाह्य-शरीर-वाय्वोर् इव चेति ।
[80]
यस्माद् विकारः ख्यायमानोऽपि प्रत्यग्-आत्मानम् अन्तरा न निरूप्योऽस्त्य् अणुर्
अपि तस्मात् सर्व-शब्द-वाच्योऽपि स एवेति स-दृष्टान्तम् आह -
यथा हिरण्यं बहुधा समीयते
नृभिः किर्याभिर् व्यवहार-वर्त्मसु ।
एवं वचोभिर् भगवान् अधोक्षजो
व्याख्यायते लौकिक-वैदिकैर् जनैः ॥ [भ्प् 12.4.31]
क्रियाभिस् तत्-तद्-वचन-भेदैर् बहुधा कटक-कुण्डादि-रूपेण यथा
सुवर्णम् एव वचोभिस् तत्-तन्-नामभिः प्रतीयते तथा लौकिअक्-वैदिकैः
सर्वैर् एव वचोभिर् भगवान् एव व्याख्यायते । तद् उक्तम् - सर्व-
नामाभिधेयश् च सर्व-वेदेडितश् च सः इति स्कान्दे ।
[81]
तद् एवं जगतः परमात्म-स्वाभाविक-शक्तिमयत्वम् उक्त्वा तेन च जीव-
कर्तृकेण ज्ञानेन तन्-नाशन-सामर्थ्यं व्यज्य मोक्षार्थं तद्-अध्यास-
परित्यागम् उपदेष्टुं परमात्म-शक्तिमयस्यापि तस्योपाध्यध्यात्मकस्य
जीव-स्वरूप-प्रकाशावरकत्व-रूपं दोषं सदृष्टान्तम् उपपादयति --
यथा घनोऽर्क-प्रभवोऽर्क-दर्शितो
ह्य् अर्कांश-भूतस्य च चक्षुषस् तमः ।
एवं त्व् अहं ब्रह्म-गुणस् तद्-ईक्षितो
ब्रह्मांशकस्यात्मन आत्म-बन्धनः ॥ [भ्प् 12.4.32]
अर्क-रश्मय एव मेघ-रूपेण परिणता वर्षन्ति । (!)
अग्नौ प्राप्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।
आदित्याज् जायत वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः । इति वचनात् ।
अयम् अर्थः । यथार्क-प्रभवोऽर्केणैव दर्शितः प्रका-
शितश् च घनो निविडो मेघः । अर्कांश-भूतस्य चक्षुषस् तमः दिवि
भूमौ च महान्धकार-रूपो भवति । एवम् अहं प्राकृताहङ्कारो
ब्रह्म-गुणः परमात्म-शक्ति-कार्य-भूतः तदीक्षितस् तेनैव
परमात्मना प्रकाशितश् च ब्राह्मांशकस्य तटस्थ-शक्ति-रूपत्वात्
परमात्मनो यो हीनांशस् तस्यात्मनो जीवस्यात्म-बन्धनः स्वरूप-
प्रकाशावरको भवति ।
[82]
स चाध्यास-परित्यागः स्वतो न भवति किन्तु परमात्म-जिज्ञासया तत्-
प्रभावेनैवेति वक्तुं पूर्ववद् एव दृष्टान्त-पअरिपाटीम् आह --
घनो यदार्क-प्रभवो विदीयर्यते
चक्षुः स्वरूपं रविम् ईक्षते तदा ।
यदा ह्य् अहङ्कार उपाधिर् आत्मनो
जिज्ञासया नश्यति तर्ह्य् अनुस्मरेत् ॥ [भ्प् 12.4.33]
घनो यथार्क-प्रभवो विदीर्यते इति दृष्टान्तांशे तद्-विदारणस्य न
चक्षुः-शक्ति-साध्यत्वम् किन्तु सूर्य-प्रभाव-साध्यत्वम् इति व्यक्तम् ।
अनेन दार्ष्टान्तिकेऽपि आत्मनः परमात्मनो जिज्ञासया जातेन तत्
प्रसादेनाहङ्कारो नश्यति पलायते इत्य् अत्रांशे पुरुष-ज्ञान-साध्यत्वम्
अहङ्कार-नाशस्य खण्डितम् । अतो विवर्त-वादो नाभ्युपगतः । अत्र
चोपाधिर् इति विशेषणेन स्वरूप-भूताहङ्कारस् त्व् अन्य एवेति स्पष्टीभूतम् ।
एवं यथा दृष्टान्तेघन-प्राय-महान्धकारावरणाभावात् तत्-
प्रभावेण योग्यतालाभाच् च चक्ष्ः कर्तृ भूतं स्वरूपं कर्म-भूतम्
ईक्षते स्व-स्वरूप-प्रकाशम् अस्तित्वेन जानाति स्व-शक्ति-प्राकट्यं लभत इत्य्
अर्थः । कदाचित् तदीक्षणोन्मुखः सन् रविं चेक्षते तथा दार्ष्टान्तिकेऽप्य्
अनुस्मरेत् स्मर्तुर् अनुसन्धातुं योग्यो भवति, आत्मानं चेति शेषः ।
[83]
निगमयति -
यदैवम् एतेन विवेक-हेतिना
मायामयाहङ्कारणात्म-बन्धनम् ।
च्छित्वाच्युतात्मानुभवोऽवतिष्ठते
तम् आहुर् आयन्तिकम् अङ्ग सम्प्लवम् ॥ [भ्प् 12.4.34]
एतेन पूर्वोक्त-विवेक-शस्त्रेण । मायामयेति विशेषणं स्वरूप-
भूताहङ्कारस्य व्यवच्छेदार्थम् । अवतिष्ठते स्व-स्वरूपेणावस्थितो
भवति । न केवलम् एतावद् एव अच्युत्मानुभवः अच्युतेऽच्युत-नाम्न्य् आत्मनि
परमात्मन्य् अनुभवो यस्य तथाभूत एव सन्न् अवतिष्ठते ॥ 12.4 ॥ श्री-
शुकः

5.105

[84]
अत्रायम् अप्य् एकेषां पक्षः परमेश्वरस्य शक्ति-द्वयम् अस्ति स्वरूपाख्या
मायाख्या चेति । पूर्वया स्वरूप-वैभव-प्रकाशनम् अपरया त्व् इन्द्र-
जाल-वत्तयैव मोहितेभ्यो जीवेभ्यो विश्व-सृष्ट्य्-आदि-दर्शनम् । दृश्यते
चैकस्य नानाविद्यावतः कस्यापि तथा व्यवहारः । न चैवम्
अद्वैतवादिनाम् इव वेदनम् आपतितम् । सत्येनैव कर्त्रा सत्यम् एव
द्रष्टारं प्रति सत्ययैव तथा शक्त्या वस्तुनः स्फोरणात् लोकेऽपि तथैव
दृश्यत इति भवत्व् अपीदं नाम ।
यतः सत्यं न सत्यं नः
कृष्ण-पादाब्जामोदम् अन्तरा ।
जगत् सत्यम् असत्यं वा
कोऽयं तस्मिन् दुराग्रहः ॥
तद् एतन्-मते सत इदम् उत्थितम् इत्य् आदिवाक्यानि प्रायो यथा टीका-
व्याख्यानम् एव ज्ञेयानि । क्वचित् तत्-कृतानुमानादौ भेद-मात्रस्यासत्त्वे
प्रसक्ते वैकुण्ठादीनाम् अपि तथात्व-प्रसक्तिस् तन्-मते स्याद् इत्य् अत्र तु
तेषाम् अयम् अभिप्रायः । वयं हि यल् लोक-प्रत्यक्षादि-सिद्धं वस्तु तद् एव
तत्-सिद्ध-वस्त्व्-अन्तर-दृष्टान्तेन तद्-धर्मकं साधयामः । यत् तु तद्
असिद्धं शास्त्रविद्-अनुभवैक-गम्य-तादृशत्वं तत् पुनस् तद्-दृष्टान्त-
परार्धादिनाप्य् अन्यथाकर्तुं न शक्यत एवेति । जीवेश्वराभेद-स्थापना
च चिद्-रूपता-मात्र एवेति । अथ स्वाभाविक-माया-शक्त्या परमेश्वरो विश्व-
सृष्ट्य्-आदिकं करोति जीव एव तत्र मुह्यतीत्य् उक्तम् । तत्र सन्देहं
प्रश्नोत्तराभ्यां परिहरत्य् अष्टभिः -
श्री-विदुर उवाच
ब्रह्मन् कथं भगवतश्
चिन्-मात्रस्याविकारिणः ।
लीलया चापि युज्येरन्
निर्गुणस्य गुणाः क्रियाः ॥ [भ्प् 3.7.2]
हे ब्रह्मन् चिन्-मात्रस्य चिन्मात्र-स्वरूपस्य सतः स्वरूप-शक्त्या
भगवतः श्री-वैकुण्ठादि-गत-तादृशैश्वर्यादि-युक्तस्य अतएव निर्गुणस्य
प्राकृत-गुणास्पृष्टस्य तत एवाविकारिणस् तादृक्-स्वरूप-शक्ति-विलास-
भूतानां क्रियाणाम् अनन्तानाम् अपि सदोदित-वरानन्त-विध-प्रकाशे तस्मिन्
नित्य-सिद्धत्वात् तत्-तत्-क्रियाविर्ग्भाव-कर्तुस् तस्यावस्थाअन्तर-
प्राप्तत्वाभावात् प्राकृत-कर्तुर् इव न विकारापत्तिर् इति । निर्विकारस्य च
कथं सत्त्वादयः प्राकृत-गुणाः कथं वा तदासङ्ग-हेतुकाः स्थित्य्-
आदयः क्रियाश् च युज्येरन् । ततश् च चिन्मात्र-वस्तु-विरोधाद् एव ते च ताश् च
न युज्यन्ते । भगवत्त्वे तु स्वैर-चेष्टयापि न युज्येरन् इत्य् आह लीलया
वापीति । अत्राविकारित्व-निर्गुणत्वाभ्यां सह चिन्मात्र-भगवत्त्वं चेत्य्
उभयम् अपि स्वीकृत्यैव पूर्व-पक्षिणा पृष्टम् ।
[85]
ततश् च तस्य चिन्-मात्र-स्वरूपस्य भवतु भगवत्त्वं तत्रास्माकं न
सन्देहः । किन्तु तस्य कथम् इतर-गुणादि-स्वीकारो युज्यते इत्य् एव पृच्छत
इति वाक्यार्थः । ततश् चिन्मात्रत्वे भगवत्त्वे च तस्य तुच्छा गुणाः क्रियाश्
च न सम्भवन्त्य् एवेति द्विगुणीभूयैव प्रश्नः । लीलया वापि कथं
युज्येरन् इति विशदयति ।
क्रीडायाम् उद्यमो ऽर्भस्य
कामश् चिक्रीडिषान्यतः ।
स्वतस्-तृप्तस्य च कथं
निवृत्तस्य सदान्यतः ॥ [भ्प् 3.7.3]
उद्यमयैत् प्रवर्तयति इत्य् उद्यमः । अर्भकस्य क्रीडायां प्रवृत्ति-हेतुः
कामोऽस्ति । अन्यतस् तु वस्त्व्-अन्तरेण बालान्तर-प्रवर्तनेन वा तस्य
क्रीडेच्छा भवति । भगवतस् तु स्वतः स्वेनात्मना स्वरूप-वैभवेन च
तृप्तस्य अत एवान्यतः सदा निवृत्तस्य च कथम् अन्यतो जीवाज् जगच् च
निमित्तात् चिक्रीडिषेति । न च तस्य ते गुणास् ताङ् क्रियाश् च न विद्यन्ते इत्य्
अपलपनीयम् ।
[86]
तथैव प्रसिद्धेर् इत्य् आह --
अस्राक्षीद् भगवान् विश्वं
गुण-मय्यात्म-मायया ।
तया संस्थापयत्य् एतद्
भूयः प्रत्यपिधास्यति ॥ [भ्प् 3.7.4]
गुण-मय्या त्रैगुण्य-व्यञ्जिन्या आत्माश्रितया मायया संस्थापयति पालयति
प्रत्यपिधास्यति प्रातिलौम्येन तिरोहितं करिष्यति । जीवस्य च कथं माया-
मोहितत्वं
[88]
घटतीत्य् आक्षेपान्तरम् आह --
देशतः कालतो यो ऽसाव्
अवस्थातः स्वतो ऽन्यतः ।
अविलुप्तावबोधात्मा
स युज्येताजया कथम् ॥ [भ्प् 3.7.5]
योऽसौ देशादिभिर् अविलुप्तावबोध आत्मा जीवः स कथम् अजयाविद्यया
युज्येत । तत्र देश-व्यवधानतो देश-गत-दोषतो वा चक्षुः प्रकाश इव
कालतो विद्युद् इव अवस्थातः स्मृतिर् इव स्वतः शुक्ति-रजतम् इव अन्यतो
घटादि-वस्त्व् इव न तस्यावबोधो लुप्यते अव्याहत-स्वरूप-भूत-
ज्ञानाश्रयत्वाद् एवेत्य् अर्थः ॥
[89]
तत्रैव विरोधान्तरम् आह -
भगवान् एक एवैष
सर्व-क्षेत्रेष्व् अवस्थितः ।
अमुष्य दुर्भगत्वं वा
क्लेशो वा कर्मभिः कुतः ॥ [भ्प् 3.7.6]
एष एक एव भगवान् परमात्मापि सर्व-क्षेत्रेषु सर्वस्य जीवस्य क्षेत्रेषु
देहेष्व् अवस्थितः । तत्र सति कथम् अमुष जीवस्य दुर्भगत्वं स्वरूप-
भूत-ज्ञानादि-लोपः कर्मभिः क्लेशश् च तस्य वा कुतो नास्ति । न ह्य् एकस्मिन्
जलादौ स्थितयोर् वस्तुनोः कस्यचित् तत्-संसर्गः कस्यचिन् नेति युज्यत इत्य्
अर्थः ।
[90]
तत्र केवलं चिन्-मात्रत्वं न सम्भवतीति भत्गवत्त्वम् एवाङ्गीकृत्य श्री-
मैत्रेय उवाच -
सेयं भगवतो माया
यन् नयेन विरुध्यते ।
ईश्वरस्य विमुक्तस्य
कार्पण्यम् उत बन्धनम् ॥ [भ्प् 3.7.9]
यया विश्व-सृष्ट्य्-आदिकं भवति सेयं भगवतोऽचिन्त्य-स्वरूप-शक्तेर्
मायाख्या शक्तिः । यद् या च नयेन तर्केण विरुध्यते तर्कातीततया सेयम्
अप्य् अचिन्त्येत्य् अर्थः । यद्यप्य् एवं द्वयोर् अप्य् अचिन्त्यत्वं तथापि भगवतो
म्>अयेत्य् अनेन व्यक्तत्वात् स्वरूप-शक्तेर् अन्तरङ्गत्वाद् बहिरङ्गाया
मायाया गुणैः सत्त्वादिभिस् तत्-कार्यैः स्थापनादि-लीलाभिश् च नासौ स्पृशत
इत्य् अर्थः । तन्त्रेण चायम् अर्थः । यद् यया मायया येन भगवता सह न
विरुध्यते नासौ विरोध-विषयीक्रियत इति च एवम् एव षष्ठे नवमाध्याये
- दुरवबोध इव तवायम् इत्य् [भ्प् 6.9.34] आदिना गद्येन तस्य सगुण-
कर्तृत्वं विरुध्य पुनर् अथ तत्रभवान् इति [भ्प् 6.9.35]
गद्येनान्तर्यामितया गुण-विसर्ग-पतितत्वेन जीववद् भोक्तृत्व-योगं
सम्भाव्य, न हि विरोध उभयम् इत्य् [भ्प् 6.9.36] आदि गद्येन तत्र
तत्रावितर्क्य-शक्तित्वम् एव च सिद्धान्ते योजितम् ।
तत्र स्वरूप-शक्तेर् अवितर्क्यत्वं भगवतीत्य् आदिभिर् विशेषणैर् मायायाश्
चात्म-मायाम् इत्य् अनेन दर्शितम् । तत्र स्वरूप-द्वयाभावाद् इत्य् अस्य
तथाप्य् अचिन्त्य-शक्त्या तत्-कर्तृत्वं तद्-अन्तःपातित्वं च विद्यते इत्य् अर्थः ।
सम-विषम-मतीनाम् इति [भ्प् 6.9.37] तु गद्यं तथाप्य् उच्चावच-बुद्धीनां
तथा स्फुरसीति प्रतिपत्त्य्-अर्थं ज्ञेयम् । दुरवबोध इवेति प्राक्तन-गद्ये
त्व् अशरीर इति शरीर-चेष्टां विना अशरण इति भूम्य्-आद्य्-आश्रयं विना इत्य्
अर्थः ।
अथ तत्रेत्य् आदौ स्वकृतेऽपि तस्यापि हेतु-कर्तृत्वाद् योजनीयम् । तस्माद् अत्रापि
स्वरूप-शक्तेर् एव प्राधान्यं दर्शितम् । अतएव ऋतेऽर्थं यत् प्रतीयेत इत्य्
[भ्प् 2.9.34] आदौ मायाया आभास-स्थानीयत्वं प्रदर्श्य तद्-अस्पृश्यत्वम्
एव भगवतो दर्शितम् । त्वम् आद्यः पुरुषः साक्षाद् इत्य् आदौ मायां

व्युदस्य चिच्-छक्त्या इत्य् [भ्प् 1.7.23] अनेन च तथा ज्ञापितम् । माया परैत्य्
अभिमुखे च विलज्जमाना इत्य् [भ्प् 2.7.47] अनेन च । तद् एवं भगवति तद्-
विरोधं परिहृत्य जीवेऽप्य् अविद्या-सम्बन्धम् अतर्क्यत्वेन दर्शितया तन्-
माययैव समादधति । ईश्वरस्येति यद् इत्य् अनेनैव सम्बध्यते ।
अर्थ-वशाद् अत्र च तृतीयया परिणम्यते । यद् यया ईश्वरस्य स्वरूप-
ज्ञानादिभिः समर्थस्य अतएव विमुक्तस्य जीवस्य कार्पण्यं तत्-तत्-
प्रकाश-तिरोभावस् तथा बन्धनं तद्-दर्शि-गुण-मय-जाल-प्रवेशश् च
भवतीति । तद् उक्तम् - तत्-सङ्ग-भ्रंशितैश्वर्यम् इति [भ्प् 6.5.15] । तद् एतत्
सर्वम् अभिप्रेत्य श्रुतयोऽप्य् आहुः - स यद् अजया त्व् अजाम् इत्य् आदाव् अपेत-
भग इति [भ्प् 10.87.38] च ।
अत्र मूल-पद्ये भगवतो मायेत्य् अनेन भगवत्त्वं तु मायिकम् इत्य्
आयातम् । इन्द्रस्य मायेत्य् अत्र यथेन्द्रत्वम् ।
[91]
एवं पूर्वत्रापि ज्ञेयम् । पुनर् अपि जीवस्य वस्तुतः स्वीय-तत्-तद्-
अवस्थत्वाभावेऽपि भगवन्-माययैव तत्-तत्-प्रतीतिर् इति सदृष्टान्तम्
उपपादयति ।
यद् अर्थेन विनामुष्य
पुंस आत्म-विपर्ययः ।
प्रतीयत उपद्रष्टुः
स्व-शिरश् छेदनादिकः ॥ [भ्प् 3.7.10]
यद् यस्य । मायया हेतोर् अर्थेन विनापि । यद्य् अपि तस्य त्रिकालम् एव सोऽर्थो
नास्ति तथाप्य् आत्म-विपर्ययः आत्मविस्मृति-पूर्वक-पराभिमाने नाहम् एव
तद्-धर्मीत्य् एवंरूपः सोऽर्थः स्यात् । उपद्रष्टुर् जीवस्य । तृतीयार्थे
षष्ठी । स्वप्नावस्थायां जीवेन स्व-शिरश्-छेदनादिकोऽतीवासम्भवोऽर्थः
प्रतीयते । न हि तस्य शिरश् छिन्नं न तु वा स्व-शिरश् छेदं कोऽपि पश्येत् ।
किन्तु भगवन्-मायैवान्यत्र-सिद्धं तद्-रूपम् अर्थं तस्मिन्न्
आरोपयतीति ।
[92]
माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वाद् इति न्यायेन । अतएव
शुद्धस्यापि सतो जीवस्यौपाधिकेनैव रूपेणोपाधि-धर्मापत्तिर् इति
दृष्टान्तान्तरेणोपपादयतीति --
यथा जले चन्द्रमसः
कम्पादिस् तत्-कृतो गुणः ।
दृश्यते ऽसन्न् अपि द्रष्टुर्
आत्मनो ऽनात्मनो गुणः ॥ [भ्प् 3.7.11]॥
यथा जले प्रतिबिम्बितस्यैव चन्द्रमसो जलोपाधि-कृतः कम्पादि-गुणो
धर्मो दृश्यते न त्व् आकाश-स्थितस्य तद्वद् अनात्मनः प्रकृत-रूपोपाधेर्
धर्मः आत्मन शुद्धस्यासन्न् अपि अहम् एव सोऽयम् इत्य् आवेशान्
माययोपाधि-तादात्म्यापन्नाहङ्काराभासस्य प्रतिबिम्ब-स्थानीयस्य तस्य
द्रष्टुर् आध्यात्मिकावस्थस्यैव यद्यपि स्यात् तथापि शुद्धोऽसौ तद्-
अभेदाभिमानेन तं पश्यतीत्य् अर्थः । तद् उक्तम् एकादशे श्री-भगवता -
नृत्यतो गायतः पश्यन्
यथैवानुकरोति ताम् ।
एवं बुद्धि-गुणान् पश्यन्न्
अनीहोऽप्य् अनुकार्यते ॥ [भ्प् 11.22.53] इति ।
तथैवोक्तम् - शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुर् इति । वि-शब्दस्य चात्र तद्-
आवेश एव तात्पर्यं तस्माद् भगवतोऽचिन्त्य-स्वरूपान्तरङ्ग-महा-प्रवल-
शक्तित्वाद् बहिरङ्गया प्रवलयाप्य् अचिन्तयापि माययापि न सृष्टिः । जीवस्य
तु तया सृष्टिर् इति सिद्धान्तितम् ॥ 3.7 ॥ श्री-शुकः ॥ 85-92 ॥
[93]
एवं सृष्ट्य्-आदि-लीला-त्रये योजिनेऽपि पुनर् विशेषतः संशय्य सिद्धान्तः
क्रियते स्थूणा-निखनन-न्यायेन । ननु पालन-लीलायां ये येऽवतारास् तथा
तत्रैव स्व-प्रसाद-व्यट्जक-स्मिताभय-मुद्रादि-चेष्टया सुर-पक्ष-पातो
युद्धादि-चेष्टया दैत्य-संहार इत्य् आदिका या या वा लीलाः श्रूयन्ते ते च ताश्
च स्वयं परमेश्वरेण क्रियन्ते न वा । आद्ये पूर्व-पक्षस् तद् अत्रस्थ एव
प्रत्युत पक्ष-पातादिना वैषम्यं च । अन्ते तेषाम् अवताराणां लीलानां च
न स्वरूप-भूतया सिध्यतीति सम्प्रतिपत्ति-भङ्गः । अत्रोच्यते । सत्यं विश्व-
पालनार्थं परमेश्वरो न किञ्चित् करोति किन्तु स्वेन सहैवावतीर्णान्
वैकुण्ठ-पार्षदान् तथाधिकारिक-देवाद्य्-अन्तर्गतान् तथा तटस्थान्
अन्यांश् च भक्तान् आनन्दयितुं स्वरूप-शक्त्याविष्कारेणैव नानावतारान्
लीलाश् चासौ प्रकाशयति । तद् उक्तं पाद्मे -
मुहूर्तेनापि संहर्तुं शक्तो यद्यपि दानवान् ।
मद्-भक्तानां विनोदार्थं करोमि विविधाः क्रियाः ॥
दर्शन-ध्यान-संस्पर्शैर् मत्स्य-कूर्म-विहङ्गमाः ।
स्वान्य् अपत्यानि पुष्णन्ति तथाहम् अपि पद्मज ॥ इति ।
हरि-भक्ति-सुधोदये -
नित्यं च पूर्ण-कामस्य जन्मानि विविधानि मे ।
भक्त-सर्वेष्ट-दानाय तस्मात् किं ते प्रियं वद ॥ इति ।
तथा श्री-कुन्ती-देवी-वचनं च -- भक्ति-योग-विधानार्थं कथं पश्येम
हि स्त्रिय इति [भ्प् 1.8.20] । अत्र भक्ति-योग-विधानार्थं तद्-अर्थम् अवतीर्णं
त्वाम् इति टीका च । श्री-ब्रह्म-वचनं च --
प्रपञ्चं निष्प्रपञ्चोऽपि
विडम्बयसि भूतले ।
प्रपन्न-जनतानन्द-
सन्दोहं प्रथितुं प्रभो ॥ [भ्प् 10.14.37]
स्वरूप-शक्त्यैवाविष्कारश् च श्री-ब्रह्मणैव दर्शितः -
एष प्रपन्न-वरदो रमयात्म-शक्त्या यद् यत् करिष्यति गृहीत-गुणावतार
[भ्प् 3.9.23] इत्य् आदिना । गृहीता गुणाः कारुण्यादयो यत्र तथाभूतोऽवतारो
यस्येत्य् अर्थः । तद् एवं भक्तानन्दार्थम् एव तान् प्रकटयतस्
तस्याननुसंहितम् अपि सुर-पक्ष-पातादि-विश्व-पालन-रूपं तन्-माया-
कार्यं स्वत एव भवति । लोके यथा केचिद् भक्ताः परस्परं भगवत्-
प्रेम-मुखोल्लासाय मिलितास् तद् अनभिज्ञान् अपि कांश्चिन् मार्दङ्गिकादीन्
सङ्गृह्य तद्-गुण-गानानन्देनोन्मत्तवन् नृत्यन्तो विश्वेषाम् एवामङ्गलं
घ्नन्ति मङ्गलम् अपि वर्धयन्तीति । तद् उक्तं वाग् गद्-गदेत्य् आदौ मद्-
भक्ति-युक्तो
भुवनं पुनातीति [भ्प् 11.14.24] । एवम् एवोक्तम् -
सृष्ट्य्-आदिकं हरेर् नैव
प्रयोजनम् अपेक्ष्य तु ।
कुरुते केवलानन्दाद्
यथा मर्त्यस्य नर्तनम् ॥ इति । [नारायण-संहिता]
न च वक्तव्यं स्वेन तेषां तैर् अपि स्वस्यानन्दने स्वतस् तृप्तता-हानिः स्यात्
तथान्यान् परित्यज्य च तेषाम् एवानन्दने वैषम्यान्तरम् अपि स्याद् इति ।
तत्राद्ये विशुद्धोर्जित-सत्त्व-तनुम् आश्रितेऽपि मुनि-जने स्वतस् तृप्ति-
पराकाष्ठां प्राप्तो भक्त-वात्सल्य-दर्शनात् तद्-अनुचर एवासौ गुणो न
तु तत्-प्रतिघातीति लभ्यते । यथा सर्वान् मुनीन् प्रति श्री-परीक्षिद्-वाक्यम्
नेहाथ नामुत्र च कश्चनार्थ
ऋते परानुग्रहम् आत्म-शीलम् । [भ्प् 1.19.23]
तथा जड-भरत-चरितादौ - सिन्धु-पतय आत्म-सतत्वं विगणयतः
परानुभावः परम-कारुणिकतयोपदिश्य इत्य् आदि [भ्प् 5.13.24]
श्री-नारद-पूर्व-जन्मनि -- चक्रुः कृपां यद्यपि तुल्य-दर्शनाः;
शुश्रूषमाणे मुनयो ऽल्प-भाषिणि । [भ्प् 1.5.24]
तथा कुन्ती-स्तवे -
नमो ऽकिञ्चन-वित्ताय निवृत्त-गुण-वृत्तये ।
आत्मारामाय शान्ताय कैवल्य-पतये नमः ॥ [भ्प् 1.8.27]
अकिञ्चना भक्ता एव वित्तं सर्वस्वं यस्येति टीका च । ततोऽन्यथा
चाकृतज्ञता-दोषश् च निर्दोषे भगवत्य् आपतति । ततः सिद्धे तथाविधस्यापि
भक्त-वात्सल्ये भक्तानां दुःख-हान्या सुख-प्राप्त्या वा स्वानन्दो
भवतीत्य् आयातम् एव । किं च परम-सारअ-भूताया अपि स्वरूप-शक्तेः सार-

भूता ह्लादिनी नाम या वृत्तिस् तस्या एव सार-भूतो वृत्ति-विशेषो भक्तिः सा च
रत्य्-अपर-पर्याया । भक्तिर् भगवति भक्ते च निक्षिप्त-निजोभय-कोटिः
सर्वदा तिष्ठति । अतएवोक्तं भगवान् भक्त-भक्तिमान् इति । तस्माद्
भक्तस्थया तया भगवतस् तृप्तौ न स्वतस् तृप्तिर्ता-हानिः । प्रत्युत
शक्तित्वेन स्वरूपतो भिन्नाभिन्नाया अपि तस्याः ये यथा मां प्रपद्यन्ते
तांस् तथैव भजाम्य् अहम् इति न्यायेन भक्त-चित्त-स्फुरिताया भेद-वृत्तेर्
एव स्फुरणात् भगवतो मां ह्लादयत्य् अस्य भक्तिर् इति
आनन्दचमत्कारातिशयश् च भवति । शक्ति-तद्वतोर् भेदमतेऽपि
विशिष्टस्यैव स्वरूपत्वं सम्प्रतिपन्नम् ।
तद् एतत् सर्वम् अभिप्रेत्य भणितं दुर्वाससं प्रति श्री-विष्णुना -
अहं भक्त-पराधीनो
ह्य् अस्वतन्त्र इव द्विज ।
साधुभिर् ग्रस्त-हृदयो
भक्तैर् भक्त-जन-प्रियः ॥
नाहम् आत्मानम् आशासे
मद्-भक्तैः साधुभिर् विना ।
श्रियं चात्यन्तिकीं ब्रह्मन्
येषां गतिर् अहं परा ॥
ये दारागार-पुत्राप्त-
प्राणान् वित्तम् इमं परम् ।
हित्वा मां शरणं याताः
कथं तांस् त्यक्तुम् उत्सहे ॥
मयि निर्बद्ध-हृदयाः
साधवः सम-दर्शनाः ।
वशे कुर्वन्ति मां भक्त्य्
सत्-स्त्रियः सत्-पतिं यथा ॥
मत्-सेवया प्रतीतं ते
सालोक्यादि-चतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः
कुतो ऽन्यत् काल-विप्लुतम् ॥
साधवो हृदयं मह्यं
साधूनां हृदयं त्व् अहम् ।
मद्-अन्यत् ते न जानन्ति
नाहं तेभ्यो मनाग् अपि ॥ [भ्प् 9.4.63-68] इति ।
अत्र ये दारागारेति त्रयम् अकृतज्ञता-निवारणे साधवो हृदयं मह्यम् इति
स्वतस् तृप्ति-परिहारे । भक्तेः स्वरूप-शक्ति-सार-ह्लादिनी-सारत्वे च अहं
भक्त-पराधीन इति द्वयम् ।
तत्रैव भक्तेष्व् अपि भक्ति-रूपेण तत्-प्रवेशे सति विशेषतो मत्-सेवया
प्रतीतम् इत्य् अपि ज्ञेयम् । ततो न प्राक्तनो दोषः । द्वितीयेऽप्य् एवम्
आचक्ष्महे । परानन्दने प्रवृत्तिर् द्विधा जायते परतो निजाभीष्ट-
सम्पत्त्यै क्वचित् तद्-अभीष्ट-मात्र-सम्पत्त्यै च । तत्र प्रथमो नात्राप्य्
अयुक्तः सात्मार्थ-मात्रतया कुत्रापि पक्षपाताभावात् । अत्रोत्तर-पक्षे
पर-सुखस्य पर-दुःखस्य चानुभवेनैव परानुकूल्येनैव प्रवृत्तीच्छा
जायते न तु यत्-किञ्चिज्-ज्ञान-मात्रेण चित्तस्य पर-दुःखास्पर्शे कृपा-रूप-
विकारासम्भवात् ।
यथा कण्टक-बिद्धाङ्गो
जन्तोर् नेच्छति तां व्यथाम् ।
जीव-साम्यं गतो लिङ्गैर्
न तथाबिद्ध-कण्टकः ॥ इति न्यायात् ।
ततश् च सदा परमानन्दैकरूपेऽपहत-कल्मषे भगवति प्राकृतस्य
सुखाभिध-दुःखस्य प्रसिद्ध-दुःखस्य च सूर्य पेचक-चक्षुर् ज्योतिष
इव तमस इव चात्यन्ताभावात् तत्-तद्-अनुभवो नास्त्य् एव ।
यत् तु भगवति दुःख-सम्बन्धं परिजिहीर्षन्तोऽपि केचिद् एवं वदन्ति,
तस्मिन् दुःखानुभव-ज्ञानम् अस्त्य् एव, तच् च परकीयत्वेनैव भासते न
तु स्वीयत्वेनेति । तद् अपि घट्ट-कुड्यां प्रभातम् दुःखानुभवो नाम
हि अन्तः-करणे दुःख-स्पर्शः, स च स्वस्माद् भवतु परस्माद् वेति
दुःख-सम्बन्धाविशेषात् । असर्वज्ञता-दोषश् च सूर्य-दृष्टान्तेनैव
परिहृतः, प्रत्युत गुणत्वेनैव दर्शितश् च । तस्मात् तस्मिन् यत् किञ्चिद्
दुःख-ज्ञानम् अस्तु, दुःखानुभवस् तु नास्त्य् एव । यत एव कर्तुम् अकर्तुम्
अन्यथा-कर्तुं समर्थे परम-करुणामय-निचय-शिरोमणौ तस्मिन्
विराजमानेऽप्य् अद्यापि जीवाः संसार-दुःखम् अनुभवन्तीत्य् अत्र नैर्घृण्य-
परिहारश् च भवति । यत् तु भक्तानां सुखं तत् तस्य भक्ति-रूपम् एव,
तथा तेषां दुःखं भगवत्-प्राप्त्य्-अन्तरायेणैव भवति, तत्र चाधिका
भगवत्य् एव चित्तार्द्रता जायते सा च भक्तिर् एवेति ।
क्वचिद् गजेन्द्रादीनाम् अपि प्राकृत एव दुःखे स एव मम शरणम् इत्य्
आदिना तथैव भक्तिर् उद्भूतैवेति । क्वचिद् यमलार्जुनादिषु श्री-नारदादि-
भक्तानां भक्तिः स्फुटैवेति च सर्वथा दैन्यात्मक-भक्त-भक्त्य्-
अनुभव एव तं करुणयति न तु प्राकृतं दुःखं, योग्ये कारुणे सत्य्
अयोग्यस्य कल्पनानौचित्यआत् दुःख-सद्-भावोऽस्त्य् एव कारणत्वे सर्व-
संसारोच्छित्तेः ।
अथ तस्य परम्परा-कारणत्वम् अस्त्य् एव चेद् अस्स्तु न कापि हानिर् इति । तस्माद्
उभयथा भक्तानन्दने तद्-भक्त्य्-अनुभव एव भगवन्तं
प्रवर्तयतीति सिद्धम् । तत् एतद् उक्तं भवति । यद्य् अन्यस्य सुख-दुःखम्
अनुभूयापि तत्-तत्-त्यागेनेतरस्य सुखः दुःख-हानिं वा सम्पादयति
तदैव वैषम्यम् आपतति । श्री-भगवति तु प्राकृत-सुख-
दुःखानुभवाभावान् न तद् आपतति, यथा कल्प-तरौ । तद् उक्तं श्रीमद्-
अक्रूरेण -
न तस्य कश्चिद् दयितः सुहृत्तमो
न चाप्रियो द्वेष्य उपेक्ष्य एव वा ।
तथापि भक्तान् भजते यथा तथा
सुर-द्रुमो यद्वद् उपाश्रितोऽर्थदः ॥ इति [भ्प् 10.38.22] ।
अत्र भक्ताद् अन्य एव कश्चिद् इति ज्ञेयम् ।
कः पण्डितस् त्वद्-अपरं शरणं समीयाद् भक्त-प्रियाद् ऋत-गिरः सुहृदः
कृतज्ञाद् इत्य् [भ्प् 10.48.26] एतद्-वाक्येनैव तत्-प्रियत्व-प्रोक्तेः । श्री-
महादेवेनाप्य् उक्तम् --
न ह्य् अस्यास्ति प्रियः कश्चिन्
नाप्रियः स्वः परो ऽपि वा ।
आत्मत्वात् सर्व-भूतानां
सर्व-भूत-प्रियो हरिः ॥
तस्य चायं महा-भागश्
चित्रकेतुः प्रियो ऽनुगः ।
सर्वत्र सम-दृक् शान्तो
ह्य् अहं चैवाच्युत-प्रियः ॥ [भ्प् 6.17.33-34]
तथोक्तं श्री-प्रह्लादेनापि --
चित्रं तवेहितम् अहो ऽमित-योगमाया-
लीला-विसृष्ट-भुवनस्य विशारदस्य ।
सर्वात्मनः समदृशो ऽविषमः स्वभावो
भक्त-प्रियो यद् असि कल्पतरु-स्वभावः ॥ [भ्प् 8.23.8] इति ।
अर्थश् च -- यत् त्वं भक्त-प्रियोऽसि सोऽपि समदृशस् तव स्वभावोऽविषमः
विषमो न भवति । तत्र हेतु-गर्भ-विशेषणं कल्पतरु-स्वभाव इति ।
तस्माद् विषम-स्वभावतया प्रतीतेऽपि त्वय्य् अवैष्यम् इत्य् अतीव चित्रम् इति ।
अथवा परत्रापि कल्प-वृक्षादि-लक्षणे समान एवाश्रयणीये वस्तुनि भक्त-
पक्ष-पात-रूप-वैषम्य-दर्शनाद् वैषम्यम् अपि समस्यैव स्वभाव इत्य्
एव व्याख्येयम् । तथा पूर्वत्रापि भक्तान् भजत इति वैषम्य एव
योजनीयम् इति । वस्तुतस् तु श्री-भगवत्य् अचिन्त्यम् ऐश्वर्यम् एव मुख्यस्
तद्-अविरोधे हेतुः । यद् उक्तम् - नमो नमस् तेऽस्त्व् ऋषभाय सात्वताम् इत्य्
[भ्प् 2.4.14] आदौ द्वितीयस्य चतुर्थे टीकायाम् । तद् एवं वैषम्य-प्रतीताव्
अप्य् अदोषत्वायाचिन्त्यम् ऐश्वर्यम् आहेति । तद् उक्तं श्री-भीष्मेण
सर्वात्मनः समदृशो ह्य् अद्वयस्यानहङ्कृतेः ।
तत्-कृतं मति-वैषम्यं निरवद्यस्य न क्वचित् ॥
तथाप्य् एकान्त-भक्तेषु पश्य भूपानुकम्पितम् ।
यन् मे ऽसूंस् त्यजतः साक्षात् कृष्णो दर्शनम् आगतः ॥ इति [भ्प् 1.9.21-22]
तथा श्री-भगवता -
समो ऽहं सर्वभूतेषु
न मे द्वेष्यो ऽस्ति न प्रियः
ये भजन्ति तु मां भक्त्या
मयि ते तेषु चाप्य् अहम् ॥ इति [भ्प् 9.29]
तद् एवं तत्-तद्-दोषे भक्त-पक्ष-पातस्य स्वरूप-शक्ति-सार-भूतत्वे
भक्त-विनोदार्थम् एव स्वरूप-शक्त्यैव स्वयम् एव च तत्-तद्-अवतार-लीलाः

करोति भगवान् ततो विश्व-पालनं तु स्वयम् एव सिध्यतीति स्थिते न वैदुर-
प्रश्नस् तद्-अवस्थः । अत्र देवादीनां प्राकृततया तैः सह लीलायां स्वतस्
तृप्तता-हानिस् तेषु तद्-अंशावेशादि-स्वीकारेणाग्रे परिहर्तव्या । तथा न
चावतारादीनां स्वरूप-शक्त्य्-आत्मता-हानिः । तथा भक्त-विनोदैक-
प्रयोजनक-स्वैर-लीला-कैवल्येन चान्यत्र राग-द्वेषाभावान् न वैषम्यम्
अपि प्रत्युत पित्त-दूषित-जिह्वानां खण्डाद् वैरस्य इव तस्मान् निग्रहेऽप्य्
अनुभूयमाने तेषां दुष्टतादि-क्षपण-लक्षणं हितम् एव भवति । अत्र
न ह्य् अस्य जन्मनो हेतुः कर्मणो वा महीपते ।
आत्म-मायां विनेशस्य परस्य द्रष्टुर् आत्मनः ।
यन् मया चेष्टितं पुंसः स्थित्य्-उत्पत्त्य्-अप्ययाय हि ।
अनुग्रहस् तन्-निवृत्तेर् आत्म-लाभाय चेष्यते ॥ [भ्प् 9.24.57-58]
इति नवमान्तस्थ-श्री-शुक-वाक्यानुसारेण प्रलये लीनोपाधेर् जीवस्य
धर्माद्य्-असम्भवाद् उपाधि-सृष्ट्य्-आदिना धर्मादि-सम्पादनेनानुग्रह
इति तदीय=टीकानुसारेण च । तथा,
लोके भवान् जगति नः कलयावतीर्णः
सद्-रक्षणाय खल-निग्रहणाय चान्यः ।
कश्चित् तदीयम् अभियाति निदेशम् ईश
किं वा जनः स्वकृतम् ऋछति तन् न विद्मः ॥ [भ्प् 10.70.27]
इति जरासन्ध-बद्ध-राज-वृन्द-निवेदनेऽपि ईश्वरे त्वयि सद्-रक्षणार्थम्
अवतीर्णेऽपि चेद् अस्माकं दुःखं स्यात् तर्हि किम् अन्यः कश्चिज् जरासन्धादिस्
त्वद्-आज्ञाम् अपि लङ्घयति किं च त्वया वक्ष्यमाणोऽपि जनः स्व-कर्म-
दुःखं प्राप्नोतीत्य् एवेति न विद्मः । न चैतद् उभयम् अपि युक्तम् इति
भावः । इति तदीय-टीकानुसारेण च लीलायाः स्वैरत्वेऽपि दुर्घटनी मायैव
तदा तदा देवानुसरादीनां तत्-तत्-कर्मोद्बोध-सन्धानम् अपि घटयति ।
यथा स्व-स्व-कर्मणा पृथग् एव चेष्टमानानां जीवानां चेष्टा-विशेषाः
परस्पर-शुभाशुभ-शकुन्ततया घटिता भवतीत्य् आदिकं लोकेऽपि दृश्यते ।
यत्र तु क्वचिद् एषा तल्-लीलाजवम् अनुगन्तुं न शक्नोति तत्रैव परमेशितुः
स्वैरता व्यक्तीभवति । यथा -
गुरु-पुत्रम् इहानीतं निज-कर्म-निबन्धनम् ।
आनयस्व महाराज मच्-छासन-पुरस्कृतः ॥ [भ्प् 10.45.45]
इति यम-विषयक-श्री-भगवद्-आदेशादौ । ततश् च तस्यातिविरल-प्रचारत्वान्
न सर्वत्र कृत-हान्य्-अकृताभ्यागम-प्रसङ्गश् च ।
अथ यदि केचिद् भक्तानाम् एव द्विषन्ति तदा तदा भक्त-पक्ष-
पातान्तःपातित्वाद् भगवता स्वयं तद्-द्वेषेऽपि न दोषः । प्रत्युत भक्त-
विषयक-तद्-रतेः पोषकत्वेन ह्लादिनी-वृत्ति-भूतानन्दोल्लास-विशेष एवासौ ।
येन हि द्वेषेण प्रतिपद-प्रोन्मीलत्-सान्द्रानन्द-वैचित्री-समतिरिक्त-भक्ति-
रस-मरुस्थल-ब्रह्म-कैवल्यापादान-रूपत्वेन तदीय-भक्ति-रस-महा-
प्रतियोगितया ततोऽन्यथा दुश्चिकित्सतया च तत्रोचितम् । तद्-उत्थ-भगवत्-
तेजसा तत्-स्वरूप-शक्तेर् अपि तिरस्कारेण ध्वंसाभाव-तुल्यत्वम् ।
स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिन इति [भ्प् 6.17.28]
न्यायेनान्येषाम् अतीव दुःसहं तेषाम् अपि कामुकानां निकामम्
अनभीष्टम् उद्दण्ड-दण्ड-विशेषं कुर्वत्य् एव भगवति तस्य सर्व-हित-
पर्यवसायि-चारित्र-स्वभावत्वाद् एव तत्-तद्-दुर्वार-दुर्वासनामयाशेष-
संसार-क्लेश-नाशोऽपि भवति । यः खल्व् अभेदोपासकानाम् अतिकृच्छ्र-
साध्यः पुरुषार्थः । क्वचिच् च परमार्थ-वस्त्व्-अवभिज्ञानां नरक-
निर्विशेषं तेषां कामिनां तु निकामम् अभीष्टं विटकीटानाम् इवामेध्यं
स्वर्ग-विशेषं तेभ्यो ददाति स परमेश्वरः । अतएवोक्तं नागपत्नीभिः -
रिपोः सुतानाम् अपि सुतवत्
पाल्यानां देवानाम् इत्य् [भ्प् 10.16.33] अर्थः । दमम् इति यतो दम अपीत्य्
अर्थः । यत् तु पूतनादाव् उत्तम-भक्त-गतिः श्रूयत तद्-भक्तानुकरण-
माहात्म्येनैवेति तत्र तत्र स्पष्टम् एव । यथा सद्-वेषाद् अपि पूतनापि
सकुलेत्य् [भ्प् 10.14.35] आदि ।
अथ यदि केचिद् भक्ता एव सन्तो भक्तान्त्रेषु कथञ्चिद् अपराध्यन्ति तदा
तेनैवापराधेन भक्तेषु भगवति च विवर्तमानं द्वेष-बाडवानल-
ज्वालालापम् अनुभूय चिरात् कथञ्चित् पुनः सद्-वेषेणापि भगवत्-
संस्पर्शादिना सपरिकरे तद्-अपराध-दोषे विनष्टे स्वपदम् एव
प्राप्नुवन्ति । न तु ब्रह्म-कैवल्यम् भक्ति-लक्षण-बीजस्यानश्वर-
वभावत्वात् । तेषु भगवतः क्रोधश् च बालेषु मातुर् इवेति ॥
[93]
तथा हि श्री-राजोवाच -
समः प्रियः सुहृद् ब्रह्मन्
भूतानां भगवान् स्वयम् ।
इन्द्रस्यार्थे कथं दैत्यान्
अवधीद् विषमो यथा ॥ [भ्प् 7.1.1]
परमात्मत्वेन समः सुहृत् हितकारी प्रियः प्रीति-विषयो भगवान् । एवं
सति साम्येनैवोपकर्तव्यत्वेन प्रीति-विषयत्वेन न च सर्वेष्व् एव प्राप्तेषु
कथं विषम इव दैत्यान् अवधीत् । विषमत्वम् उपलक्षणम् असुहृदि वा
प्रिय इव चेति ।
[94]
किं च यस्य यैः प्रयोजनं सिध्यति स तत्-पक्षपाती भवति । येभ्यो बिभेति
तान् द्वेषेण हन्ति न तु तद् अत्रास्तीत्य् आह --
न ह्य् अस्यार्थः सुर-गणैः
साक्षान् निःश्रेयसात्मनः ।
नैवासुरेभ्यो विद्वेषो
नोद्वेगश् चागुणस्य हि ॥ [भ्प् 7.1.2]
निःश्रेयसं परमानन्दः ।
[95]
अतः -
इति नः सुमहा-भाग
नारायण-गुणान् प्रति ।
संशयः सुमहान् जातस्
तद् भवांश् छेत्तुम् अर्हति ॥ [भ्प् 7.1.3]
गुणान् अनुग्रह-निग्रहादीन् प्रति तत्-तत्-संशयम् ।
[96]
अत्र श्री-ऋष्र् उवाच -
साधु पृष्टं महाराज
हरेश् चरितम् अद्भुतम् ।
यद् भागवत-माहात्म्यं
भगवद्-भक्ति-वर्धनम् ॥ [भ्प् 7.1.4]
हे महाराज । इदं यत् पृष्ठं तत् साधु सुविचारितम् एव । किन्तु हरेश्
चरितम् अद्भुतम् अपूर्वम् अवैषम्येऽपि विषमतया प्रतीयमानत्वेन
विचारातीतत्वात् । यद् यत्र हरेश् चरित्रे भगवद्-भक्ति-वर्धनं भागवत-
माहात्म्यं भागवतानां प्रह्लादोपलक्षित-भक्त-वृन्दानां माहात्म्यं
वर्तते । अनेन भागवतार्थम् एव सर्वं करोति भगवान् न त्व् अन्यार्थम्
इत्य् अस्यैवार्थस्य पर्यवसानं भविष्यतीति व्यञ्जितम् । टीका च -
स्व-भक्त-पक्ष-पातेन तद्-विपक्ष-विदारणम् ।
नृसिंहम् अद्भुतं वन्दे परमानन्द-विग्रहम् ॥ इत्य् एषा ।
[97]
अतो -
गीयते परमं पुण्यम्
ऋषिभिर् नारदादिभिः ।
नत्वा कृष्णाय मुनये
कथयिष्ये हरेः कथाम् ॥ [भ्प् 7.1.5]
परमं पुण्यं यथा स्यात् तथा या गीयते तां कथाम् इति यत्
तदोरध्याहारेणान्वयः । अत्र च तैर् गीयमानत्वेन भक्तैक-सुख-
प्रयोजनत्वम् एव व्यञ्जितम् ।
[98]
तत्र तत्र तावद् व्यञ्जितार्थानुरूपम् एव प्रश्नस्योत्तरम् आह --
निर्गुणो ऽपि ह्य् अजो ऽव्यक्तो
भगवान् प्रकृतेः परः ।
स्व-माया-गुणम् आविश्य
बाध्य-बाधकतां गतः ॥ [भ्प् 7.1.6]
यस्मात् प्रकृतेः परस् तस्मान् निर्गुणः प्राकृत-गुण-रहितः तत एवाजो नित्य-
सिद्धः तत एव चाव्यक्तः प्राकृत-देहेन्द्रियादि-रहितत्वान् नान्येन व्यज्यते
इति स्वयं प्रकाश-देहादिर् इत्य् अर्थः । ततश् च प्रकृति-गुणोत्थ-राग-द्वेषादि-
रहितश् चेति भावः । एवम् एवम्भूतोऽपि स्वेषु भक्तेषु या माया कृपा

तत्रोपितो यो गुणो लीला-कौतुकमय-विशुद्धोर्जित-सत्त्वाख्यस् तम्
आविश्यालम्ब्य भगवान् नित्यम् एव प्रकाशित-षड्-गुणैश्वर्यः सन्, एतद् अप्य्
उपलक्षणं कदाचिद् इत्य् आदौ जातः सन् लोकेन्द्रियेषु व्यक्तोऽपि सन् बाध्य-
बाधकतां गतः । निज-दृष्टि-पथेऽपि स्थातुम् असमर्थेषु अतिक्षुद्रेषु
देवासुरादिषु स्व-साहाय्य-प्रतियोद्धृत्व-सम्पादनाय स्वयं सञ्चारितं
किञ्चित् तद्-अंश-लक्षणम् एव तेजः समाश्रित्य बाध्यतां बाधकतां च
गतः । युद्ध-लीला-वैचित्र्याय प्रतियोद्धृषु तदानीं स्वस्मिन्
प्रकाश्यमानाद् अपि तेजसोऽधिकं तेजोऽंशं सञ्चार्य बाध्यतां पराजयं
कदाचित् तु तस्मान् नूनं सञ्चार्य बाधकतां जयं प्राप्त इत्य् अर्थः । स्यात्
कृपा-दम्भयोर् माया इति विश्व-प्रकाशः ।
अत्र सत्य् अप्य् अर्थान्तरे भागवतानुग्रह-प्रयोजनत्वेनैवोपक्रान्तत्वाद्
उपसंहरिष्यमाणत्वाच् च गति-सामान्याच् च छल-मय-मायया तत्-तत्-
कर्तृत्वेऽप्य् अधिक-दोषापाताच् च तन् नापेक्षते । तस्माद् भक्त-विनोदैक-
प्रयोजनक-स्वैर-लीला-कैवल्येनान्यत्र राग-द्वेषाभावान् नात्र वैषम्यम्
इति भावः । अतएव बाध्यताम् अपि यातीति बाधक्तया सहैवोक्तम् । तथा निज-
स्वरूप-शक्ति-विलास-लक्षण-लीलाविष्कारेण सर्वेषाम् एव हितं पर्यवस्यतीति
सुहृत्तादिकं च नापयातीति ध्वनितम् ।
[99]
अथ कथं सोऽपि विशुद्ध-सत्त्वाख्यो गुणः प्राकृतो न भवति कदा वा
कुत्र तं वीर्यातिशयं सञ्चारयति कथां वा कृत-हान्य-कृताभ्याभ्यागम-
प्रसङ्गो न भवतीत्य् आदिकम् आशङ्क्याह द्वाभ्याम् --
सत्त्वं रजस् तम इति
प्रकृतेर् नात्मनो गुणाः ।
न तेषां युगपद् राजन्
ह्रास उल्लास एव वा ॥ [भ्प् 7.1.7]
सत्त्वादयो गुणाः प्रकृतेर् एव नात्मनः । आत्मनः परमेश्वरस्य तस्य तु
ये सर्वेऽपि नित्यम् एवोल्लासिनो गुणास् ते तु ते न भवन्तीत्य् अर्थः । तद् उक्तम् -
सत्त्वादयो न सन्तीश [विप् 1.9.44] इति ।
ह्लादिनी सन्धिनी संवित्
त्वय्य् एव सर्व-संस्थितौ इति [विप् 1.12.69] च ।
यस्मान् नात्मनस् ते तस्माद् एव युगपत् ह्रास एव वा उल्लास एव वा नास्ति,
किन्तु विकारित्वेन परस्परम् उपमर्द्यत्वात् कस्यचित् कदाचित् ह्रासः कदाचित्
कदाचिद् उल्लासो भवतीत्य् अर्थः ।
[100]
ततश् च देवादीनां तत्-साहाय्ये सुरादीनां च तद्-युद्धे योग्यतां
दर्शयति । तथा सत्त्वाद्य्-उल्लास-काले तल्-लीलायास् तद्-अधीनत्वम् इव यत्
प्रतीयते तद् अनुवदन् परिहरति --
जय-काले तु सत्त्वस्य
देवर्षीन् रजसो ऽसुरान् ।
तमसो यक्ष-रक्षांसि
तत्-कालानुगुणो ऽभजत् ॥ [भ्प् 7.1.8]
सत्त्वस्य जय-काले देवान् ऋषींश् चाभजत् भजति भगवान् तत्-तद्-देहेषु
सत्त्वोपाधिक-निज-तेजः सञ्चारयति येन च तान् सहायमानान् करोतीत्य्
अर्थः । एवं रजसो जय-काले असुरेषु रज-उपाधिकं तमसो जय-काले यक्ष-
रक्षःसु तम-उपाधिकम् इति योजनीयम् ।
ततश् च येन तान् यक्षादीन् प्रतियोद्दॄन् कुर्वन् देवादीन् पराजितान् करोति
स्वयम् अपि तथा दर्शयतीत्य् अर्थः । तद् एवं भक्त-रस-पोष-लीला-
वैचित्र्याय बाध्य-बाधकतां यातीति दर्शितम् । यच् च क्षीरोद-मथने
श्रूयते ।
तथा सुराण् आविशद् आसुरेण
रूपेण तेषां बल-वीर्यम् ईरयन् ।
उद्दीपयन् देव-गणांश् च विष्णुर्
देवेन नागेन्द्रम् अबोध-रूपः ॥ [भ्प् 8.7.11] इति ।
तत्रापि तद्-वैचित्र्यार्थम् एव तथा तत्-तद्-आवेशस् तस्येति लभ्यते ।
नन्व् आयाता तस्य तत्-तद्-गुणोद्बोधकालपारवश्येन स्वैर-लीलता-हानिः ।
ततश् च गुण-सम्बन्धातिशये वैष्यादिकं च स्पष्टम् एवेत्य् आशङ्क्याह तत्-
कालानुगुण इति । तेषां सत्त्वादीनां काल एवानुगुणो यस्य सः । भगवच्-
छरण इतिवत् समासः । स्वैरम् एव क्रीडति तस्मिन् नित्यम् एव तद्-
अनुगतिकया मायया तद्-अनुसारेणैवानादि-सिद्ध-प्रवाहं तं जगत्-कर्म-
समुदायं प्रेर्य स्व-वृत्ति-विशेष-रूपत्वेन प्रवर्त्यमानः सत्त्वादि-
गुणानां काल एव तद्-अधीनो भवतीत्य् अर्थः । कालस्य माया-वृत्तित्वम्
उदाहृतं कालो दैवम् इत्य् आदौ त्वन्-मायैषेति । यद् वा तेषां कालोऽपि
सदानुगतो भक्तानुग्रह-मात्रार्थ-स्वैर-चेष्टात्मक-प्रभाव-लक्षणो
गुणो यस्य स इत्य् अर्थः । ततोऽपि तच्-चेष्टानुसारेणैव मायया तत्-तत्-
प्रवर्तनम् इति भावः । यद् उक्तम् -
यो ऽयं कालस् तस्य ते ऽव्यक्त-बन्धो
चेष्टाम् आहुश् चेष्टते येन विश्वम् ॥ [भ्प् 10.3.26] इति ।
तथा चोभयथापि न पारवश्यम् इत्य् आयातम् । इत्थम् एव श्री-कपिल-देवोऽपि
- यः कालः पञ्च-विंशक इति [भ्प् 3.26.15] । प्रभावं पौरुषं प्राहुः
कालम् एके यतो भयम् इति [भ्प् 3.26.16] च । तत्र मायाव्यङ्गत्व-पुरुष-
गुणत्व-लक्षण-मत-द्वयम् उपन्यस्तवान् । अत्र तस्य चेष्टा प्रभावस्य
भक्त-विनोदायैव मुख्या प्रवृत्तिः । गुणोद्बोधादि-कार्यं तु तत्र स्वत
एव भवतीति तत्र प्रवृत्त्याभास एव । ततश् च पूर्वोऽंशः स्वयम् एवेति
स्वरूप-शक्तेर् एव विलासः परस् तद्-आभास-रूप एवेत्य् आभास-शक्तेर्
मायाया एवान्तर्गतः । योऽयं काल इत्य् आदौ निमेषादिर् इत्य् उक्तिस् तु द्वयोर्
अभेद-विवक्षयैवेति ज्ञेयम् ।
अत एवं व्याख्येयं । यथा भृत्यस्यानुगतो भृत्योऽनुभृयः तथात्र
प्रभाव-लक्षणस्य गुणस्यानुगत आभास-रूपो गुणोऽनुगुणः । तथा च
तेषां कालोऽप्य् अनुगुणो न तु साक्षाद् गुणो यस्येति ॥
[101]
ननु तेषु तेषु तेनावेश्यमानं तेजः कथं न लक्ष्यते । तत्राह --
ज्योतिर्-आदिर् इवाभाति
सङ्घातान् न विविच्यते ।
विदन्त्य् आत्मानम् आत्म-स्थं
मथित्वा कवयो ऽन्ततः ॥ [भ्प् 7.1.9]
यद्यपि तेषु तेषु निज-तेजोऽंशेनाविष्टोऽसौ सङ्घातात् सम्मिश्रत्वात् न
विविच्यते लोकैर् विवेक्तुं न शक्यते तथापि कवयो विवेक-निपुणा अन्ततो
मथित्वा तस्यापि साहाय्यं तेनापि युद्धम् इत्य् आदिकासम्भवार्थ-निषेधेन
विविच्य तद्-अंशेनात्मस्थं तत्-तद्-आत्मनि प्रविष्टम् आत्मानम् ईश्वरं
विदन्ति जानन्ति । तत्र हेतु-गर्भो दृष्टान्तः । यस्मात् तत्-तेजः ज्योतिर्-आदि-
पदार्थ इवाभाति द्रष्टृष्व् इति विशेषः ।
अयम् अर्थः । यथा नेदं मणेस् तेजः पूर्वम् अदर्शनात्, किन्तु तदातप-
संयोगेन सौरं तेज एवात्र प्रविष्टम् इति सूर्य-कान्तादौ तूलादि-दाहेन तद्-
अनुभविषु तदा भाति । यथा च पूर्ववद् एव वायोर् अयं गन्धः पार्थिव
एव प्रविष्ट इति तेष्व् आभाति । तथात्रापीति ।
अथवा नन्व् एवं तर्हि तैर् अपि क्रीडतीति दृश्यत तत्राह ज्योतिर् इति । यथा
चक्ष्र्-आदि-ज्योतिभिः स्वांशे रूप-मात्रेऽपि प्रकाश्यमाने गन्धादि-गुण-
पञ्चका मृद् एवासुअ प्रकाशत इति प्रतीयते । यथा च कर्णादि-नभसा
स्वांशे शब्द-मात्रेऽपि गृह्यमाने दुन्दुभिर् एवासाव् इति प्रतीयते । तच् च तत्-
तद्-गुणानां संमिश्रत्वाद् एव भवति न वस्तुतः । तथा कवयः आत्मानम्
ईश्वरं तत्-तत्-सङ्घात-स्थत्वेनान्यैर् अविविक्तम् अपि आत्मस्थं स्वांश-
तेजोभिर् एव क्रीडन्तं जानन्तीत्य् अर्थः ।
[102]
यद् एवं युद्धादि-निज-लीलाभिर् भक्त-विनोदनम् एव प्रयोजनं, विश्व-

पालनं तु ततः स्वत एव भवतीत्य् उक्त्वा, सृष्टि-प्रलययोः प्रकृतीक्षणादाव्
अपि सर्वाशङ्क-निरासार्थम् अतिदिशन् त्रिष्व् अप्य् अविशेषम् आह -
यदा सिसृक्षुः पुर आत्मनः परो
रजः सृजत्य् एष पृथक् स्व-मायया ।
सत्त्वं विचित्रासु रिरंसुर् ईश्वरः
शयिष्यमाणस् तम ईरयत्य् असौ ॥ [भ्प् 7.1.10]
यदा यत्र स्व-चेष्टा-लक्षणे काले एष परः परमेश्वरः स्व-मायया
भक्त-कृपया आत्मनः पुरः प्राचीन-सृष्टि-गत-साधक-भक्त-रूपाणि
स्वस्याधिष्ठानानि सिसृक्षुर् भवति प्रकृत्या सह तेषु लीनेषु
आविर्भावनार्थाम् ईक्षां करोति तदा पृथक् स्वरूप-शक्तेर् इतरासौ जीव-
मायाख्या शक्तिः पूर्ववत् तच्-चेष्टात्मक-प्रभावाभासोद्दीप्ता रजः सृजति
स्वांश-भूताद् गुण-त्रय-साम्याद् अव्यक्ताद् विक्षिपति उद्बोधयतीति वा । यद्
वा पृथङ्-मायानुगत एष काल एव सृजति तथासौ-पदेन च काल एवोच्यते ।
अथ विचित्रासु नाना-गुण-वैचित्री-मतीषु तल्-लक्षणासु पूर्षु यदा रन्तुम्
इच्छुर् भवति तदासौ सत्त्वं सृजति, यदा पुनस् ताभिर् एव मिलित्वा
शयिष्यमाणः शयितुम् इच्छुर् भवतीत्य् अर्थः । तदासौ तमः सृजतीति । ततो
भक्त-निमित्तम् एव सर्वा एव सृष्ट्य्-आदि-क्रियाः प्रवर्तन्ते इति भावः ।
यथाङ्गीकृतम् एकादशस्य तृतीये टीकाकृद्भिर् अपि । किम् अर्थं ससर्ज स्व-
मात्रात्म-प्रसिद्धये । स्वं मिमीते प्रमिमीते आत्मानम् उपास्ते यः स स्व-
माता तस्यात्मनो जीवस्य प्रकृष्टा ये सिद्धय इति शयनम् अत्र
पुरुषावतारस्य कदाचित् प्रलयोदधौ योग-निद्रा कदाचिद् भगवत्-प्रवेशो
वा । यद्यपि सर्वेष्व् अपि जीवेषु अन्तर्यामितया परमेश्वरस् तिष्ठति तथापि
तत्रासंसक्तत्वाद् अस्थित एव भवति तद् भक्तेषु तु समासक्तत्वान् न
तथेति । न च तत्-सङ्गादौ तस्येच्छेति यथोक्त-व्याख्यानम् एव बलवत् ।
तथा च श्री-भगवद्-उपनिषदः
मत्स्थानि सर्वभूतानि न चाहं तेष्व् अवस्थितः ।
न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥ [गीता 9.4-5] इति
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ [गीता 9.29] इति च ।
उक्तं च हरि-भक्ति-सुधोदये -
भक्तानां हृदयं शान्तं सश्रियो मे प्रियं गृहम् ।
वसामि तत्र शोभैव वैकुण्ठाख्याद् इवर्णना ॥ इति ।
[103]
एवं प्रसङ्गेन सृष्टि-प्रलयाव् अपि व्याख्याय पुनः पालनम् एव
व्याचक्षाणः प्रकरणम् उपसंहरति सार्धेन --
कालं चरन्तं सृजतीश आश्रयं
प्रधान-पुम्भ्यां नर-देव सत्य-कृत् ।
य एष राजन्न् अपि काल ईशिता
सत्त्वं सुरानीकम् इवैधयत्य् अतः ।
तत्-प्रत्यनीकान् असुरान् सुर-प्रियो
रजस्-तमस्कान् प्रमिणोत्य् उरुश्रवाः ॥ [भ्प् 7.1.11]
सत्य-कृत् स्वरूप-शक्ति-विलासेनैव स्वयं परमार्थ-सत्य-क्रियाविर्भावक
एव सन् स्व-चेष्टा-रूपं कालं सृजति व्यञ्जयति । किं कुर्वन्तं प्रधान-
पुंभ्यां च चरन्तं तत्-तत्-सम्बन्धानां साधक-भक्तानां देवादि-
प्रविष्टं निज-तेजोऽंशानां च साहाय्यअ-हेतोर् एव सृज्यमानतया
उत्पत्तैवाव्यक्त-जीव-सङ्घाताभ्यां चरन्तम् अतएव सन्निधानेनैव तयोस्
तत्-तद्-अवस्थानाम् आश्रयम् उद्भव-हेतुं च । नरद्-देवेति सम्बोधनेन
यथा निजैषया मुख्यम् एव कार्यं कुर्वतस् तव तथैवानयद् अपि
क्षुद्रतरं स्वयम् एव सिध्यति तद्वद् इहापीति बोधितम् । ततो य एष चेष्टा-
रूपः काल स सत्त्वं सत्र्त्व-प्रधानं सुरानीकमेघयतीव तत एव त-
प्रत्यनीकान् रजस्-तमः-प्रधानान् असुरान् प्रमिणोतीव हिन्स्तीव, ये तु
देवेषु भक्ता असुरेषु भक्त-द्वेषिणस् तान् स्वयं पालयति चैवेति पूर्वेम्
एवोक्तम् । यस्मात् तच्-चेष्टा-लक्षणस्य कालस्यैवं वार्ता तस्माद् ईशितापि
एधयतीव प्रमिणोतीव चेति । हे राजन्न् इति पूर्वाभिप्रायम् एव ।
ननु यदि चेशितुः प्रयोजनं न भवति तर्हि कथं कदाप्य् असुरान् अपि स्व-
पक्षान् विधाय देवैर् न युध्येत, तत्राह सुर-प्रियः । सुरेषु वर्तमानाः
प्रिया भक्ता यस्य सः । सत्त्व-प्रधानेषु सुरेषु प्रायशस् तेषां सर्वेषाम्
अनुगमनेनैव तस्यानुगमनम् । कदाचिद् बृहस्पत्य्-आदिषु महत्स्व्
अपराधे तु तेषां मालिन्येन सुरत्वाच्छादनात् तेषां तस्य चैतेष्व्
अननुगमनं स्याद् इति । जयकाले तु सत्त्वस्येत्य् आद्य् उक्तम् इति भावः ।
ननु कथं तेऽपि तान् नानुगच्छन्ति तत्राह - रजस्-तमस्कान् इति । अत्यन्त-
भगवद्-बहिर्मुखता-करयोर् गुणयोर् अरोचकत्वाद् एवेति भावः । तर्य् असौ
सदैवासुराणां निग्रहम् एव करोतीत्य् अथाप्य् असमञ्जस्यम् इत्य् आशङ्क्याह
उरुश्रवाः । उरु सर्वतो विस्तृतं महत्तमं वा श्रवः कीर्तिर् यस्य स तेषाम्
अप्य् अनुग्रहं करोतीति भावः ।
[104]
तद् एवं सिद्धान्तं प्रदर्श्य तत्र स्व-भक्तानुग्रह-मात्र-प्रयोजनस् तत्
तत् करोति परेश इति प्रतिज्ञातार्थोदाहरणाय प्रह्लाद-जय-विजयादि-कृपायाः
सूचकम् इतिहास-विशेषम् आह --
अत्रैवोदाहृतः पूर्वम्
इतिहासं सुरर्षिणा ।
प्रीत्या महाक्रतौ राजन्
पृच्छतेऽजात-शत्रवे ॥ इत्य् [भ्प् 7.1.12] आदि । टीकैव दृश्या ॥ 7.1 ॥ श्री-
शुकः ॥93-104॥
[105-106]
तद् एवं सर्वे अपि वैषम्य-नैर्घृण्ये परिहृते । ईश्वरस् तु पर्यन्यवद्
द्रष्टव्य इत्य् अस्य ब्रह्म-सूत्र-निर्गतार्थ-न्यायस्याप्य् अत्रैवान्तर्भाव-
सिद्धेः । इति ब्रह्म-भगवत्-परमात्मानो विवृताः । तद् एवं त्रिव्यूहत्वम्
एव व्याख्यातम् । क्वचिद् वासुदेवादि-चतुर्व्यूहादित्वं च दृश्यते । स च
भेदः कस्यचित् केनचिद् अभेद-विवक्षया च नायुक्तः। तद् उक्तं मोक्ष-
धर्मे नारायणीये --
एक-व्यूह-विभागो वा क्वचिद् द्वि-व्यूह-संज्ञितः ।
त्रि-व्यूहश् चापि सङ्ख्यातश् चतुर्व्यूहश् च दृश्यते ॥ इति [म्भ् 12.336.53]
श्रुतिश् च - स एकधा भवति द्विधा भवतीत्य् [छा 7.26.2] आद्या ।
अथ पूर्व-रीत्या चतुर्व्यूहत्वाद्य्-अविसंवादितया यद् अत्र त्रि-व्यूहत्वं तत्र
प्रथम-व्यूहस्य श्री-भगवत एव मुख्यत्वं यत्-प्रतिपादकत्वेनैवास्य
श्री-भागवतम् इत्य् आख्या । यथोक्तम् - इदं भागवतं नाम पुराणं
ब्रह्म-सम्मितम् इति । तस्य हि प्राधान्ये षड्-विधेन लिङ्गेन तात्पर्यम् अपि
पर्यालोच्यते ।
उपक्रमोपसंहाराव् अभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्य-निर्णये ॥ इत्य् उक्त-प्रकारेण ।
तथा हि तावद् उपक्रमोपसंहारयोर् ऐक्येन --
जन्माद्य् अस्य यतो ऽन्वयाद् इतरतश् चार्थेष्व् अभिज्ञः स्वराट्
तेने ब्रह्म हृदा य आदि-कवये मुह्यन्ति यत् सूरयः ।
तेजो-वारि-मृदां यथा विनिमयो यत्र त्रि-सर्गो ऽमृषा
धाम्ना स्वेन सदा निरस्त-कुहकं सत्यं परं धीमहि ॥ [भ्प् 1.1.1]
कस्मै येन विभासितोऽयम् अतुलो ज्ञान-प्रदीपः पुरा
तद्-रूपेण च नारदाय मुनये कृष्णाय तद्-रूपिणा ।
योगीन्द्राय तद्-आत्मनाथ भगवद्-राताय कारुण्यतस्
तच् छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहि ॥ [भ्प् 12.13.19]
तत्र पुर्वस्यार्थः । अर्थोऽयं ब्रह्म-सूत्राणाम् इति गारुडोक्तेर् अस्य महा-
पुराणस्य ब्रह्म-सूत्राकृत्रिम-भाष्यात्मकत्वात् प्रथमं तद्

उपादायैवावतारः । तत्र पूर्वम् अथातो ब्रह्म जिज्ञासेति व्याचष्टे तेजो-वारि-
मृदाम् इत्य्-आद्य्-अर्धेन । योजनायां प्राथमिकत्वाद् अस्य पूर्वत्वम् ।
तत्र ब्रह्म-जिज्ञासेति व्याचष्टे परं धीमहीति । परं श्री-भगवन्तं
धीमहि ध्यायेम । तद् एवं मुक्त-प्रग्रहया योग-वृत्त्या बृहत्वाद्
ब्रह्म यत् सर्वात्मकं तद्-बहिश् च भवति । तत् तु निज-रश्म्य्-आदिभ्यः
सूर्य इव सर्वेभ्यः परम् एव स्वतो भवतीति मूल-रूपत्व-प्रदर्शनाय
पर-पदेन ब्रह्म-पदं व्याख्यायते । तच् चात्र भगवान् एवेत्य्
अभिमतम् । पुरुषस्य तद्-अंशत्वान् निर्गुणस्य ब्रह्मणो गुणादि-हीनत्वात् ।
उक्तं च श्री-रामानुज-चरणैः - सर्वत्र बृहत्व-गुण-योगेन हि ब्रह्म-
शब्दः । बृहत्वं च स्वरूपेण गुणैश् च यत्रानवधिकातिशयः सोऽस्य
मुखोऽर्थः । स च सर्वेश्वर एवेति । उक्तं प्रचेतोभिः नह्यन्तो यद्
विभूतीनां सोऽनन्त इति गीयते । अतएव विव्ध-मनोहरानन्ताकारत्वेऽपि तत्-
तद्-आकाराश्रय-परमाद्भुत-मुख्याकारत्वम् अपि तस्य व्यञ्जितम् । तद्
एवं मूर्तत्वे सिद्धे तेनैव परत्वेन न तस्य विष्ण्व्-आदि-रूपक-
भगवत्त्वम् एव सिद्धम् । तस्यैव ब्रह्म-शिवादि-परत्वेन दर्शितत्वात् ।
अत्र जिज्ञासेत्य् अस्य व्याख्या धीमहीति । यतस् तज्-जिज्ञासास् तात्-पर्यं तद्-
ध्यान एव । तद् उक्तम् एकादशे स्वयं भगवता --
शब्द-ब्रह्मणि निष्णातो
निष्णायात् परे यदि ।
श्रुतस् तस्य श्रम-फलो
ह्य् अधेनुम् इव रक्षत ॥ [भ्प् 11.11.18] इति ।
ततो धीमहीत्य् अनेन श्री-रामानुज-मतं जिज्ञासा-पदं निदिध्यासन-
परम् एवेति । स्वीयत्वेनाङ्गीकरोति श्री-भागवत-नामा सर्व-वेदादि-सार-
रूपोऽयं ग्रन्थ इत्य् आयातम् । धीमहीति बहु-वचनं काल-देश-परम्परा-
स्थितस्य सर्वस्यापि तत्-कर्तव्यताभिप्रायेण अनन्त-कोटि-
ब्रह्माण्डान्तर्यामिनां पुरुषाणाम् अंशिभूते भगवत्य् एव
ध्यानस्याभिधानात् । अनेनैक-जीव-वाद-जीवन-भूतो विवर्त-वादोऽपि
निरस्तः । ध्यायतिर् अपि भगवतो मूर्तत्वम् अपि बोधयति ध्यानस्य मूर्त
एवाकष्टार्थत्वात् । सति च सुसाध्ये पुमर्थोपाये दुःसाध्यस्य
पुरुषाप्रवृत्त्या स्वत एवापकर्षात् तद्-उपासकस्यैव युक्ततमत्व-निर्णयाच्
च । तथा च गीतोपनिषदः -
मय्य् आवेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥ [गीता 12.2]
ये त्व् अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते ।
ते प्राप्नुवन्ति माम् एव सर्वभूतहिते रताः ॥ [गीता 12.3-4]
क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्त-एतसाम्
अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥ [गीता 12.5]
इदम् एव च विवृतं ब्रह्मणा --
श्रेयः-सृतिं भक्तिम् उदस्य ते विभो
क्लिश्यन्ति ये केवेल-बोध-लब्धये ।
तेषाम् असौ क्लेशल एव शिष्यते
नान्यद् यथा स्थूल-तुषावघातिनाम् ॥ [भ्प् 10.14.4] इति ।
अतएवास्य ध्येयस्य स्वयं भगवत्त्वम् एव साधितम् । शिवादयश् च
व्यावृत्ताः । तथा धीमहीति लिङ्गा ध्योतिता पृथग्-अनुसन्धान-रहिता
प्रार्थना ध्यानोपलक्षित-भगवद्-भजनम् एव परम्-पुरुषार्थत्वेन
व्यनक्ति । ततो भग्वतस् तु तथात्वं स्वयम् एव व्यक्तम् । ततश् च यथोक्त-
परम-मनोहर-मूर्तित्वम् एव लक्ष्यते । तथा च वेदानां सामवेदोऽस्मीति
[गीता 10.22]। तत्र च बृहत्-साम तथा साम्नाम् इत्य् [गीता 10.35] उक्त-महिम्नि
बृहत्-साम्नि बृहद्-धामं बृहत्-पार्थिवं बृहद्-अन्तरीक्षं बृहद् दिवं
बृहद् वामं बृहद्भ्यो वामं वामेभ्यो वामम् इति । तद् एवं ब्रह्म-
जिज्ञासेति व्याख्यातम् ।
अथात इत्य् अस्य व्याख्याम् आह सत्यम् इति । यतस् तत्राथ-शब्द आनन्तर्ये अतः
शब्दो वृत्तस्य हेतु-भावे वर्तते तस्माद् अथेति स्वाध्याय-क्रमतः प्राक्
प्राप्त-कर्म-काण्डे पूर्व-मीमांसया सम्यक् कर्म-ज्ञानाद् अनन्तरम् इत्य्
अर्थः । अत इति तत्-क्रमतः समनन्तरं प्राप्त-ब्रह्म-काण्डे तूत्तर-
मीमांसया निर्णेय-सम्यग्-अर्थेऽधीत-चराद् यत्-किञ्चिद्-अनुसंहितार्थात्
कुतश्चिद् वाक्याद् धेतोर् इत्य् अर्थः । पूर्व-मीमांसायाः पूर्व-
पक्षत्वेनोत्तर-मीमांसानिर्णयोत्तर-पक्षेऽस्मिन्न् अवय्श्यापेक्ष्यत्वाद्
अविरुद्धांशे सहायत्वात् कर्मणः शान्त्य्-आदि-लक्षण-सत्त्व-शुद्धि-हेतुत्वाच्
च तद्-अनन्तरम् इत्य् एव लभ्यम् । वाक्यानि चैतानि तद् यथेह कर्म-जितो
लोकः क्षीयते एवामेवामुत्र पुण्य-जितो लोकः क्षीयते । अथ य इहात्मानम्
अनुविद्य व्रजन्त्य् एतांश् च सत्य-कामांस् तेषां सर्वेषु लोकेषु काम-चारो
भवतीति न स पुनर् आवर्तते इति स चानन्त्याय कल्पते इति निरञ्जनः परमं
साम्यम् उपैतीति ।
इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः ।
सर्गे ऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ इति [गीता 14.2] ।
तद् एतद् उभयं विवृतं रामानुज-शारीरके मीमासा-पूर्वभाग-ज्ञातस्य
कर्मणोऽल्पास्थिर-फलत्वं तद्-उपरितन-भागावसेयस्य ब्रह्म-ज्ञानस्य
त्व् अनन्ताह-प्रफलत्वं श्रूयते । अतः पूर्व-वृत्तान् कर्म-ज्ञानाद् अनन्तरं
ब्रह्म ज्ञातव्यम् इत्य् उक्तं भवति । तद् आह सर्वादि-वृत्तिकारो भगवान्
बौधायनः - वृत्तान् कर्माधिगमाद् अनन्तरं ब्रह्म विविदिषेतीति ।
एतद् एव पुरञ्जनोपाख्याने च दक्षिण-वाम-कर्णयोः पितृ-हूद्व-हू-शब्द-
निरुक्तौ व्यक्तम् अस्ति । तद् एवं सम्यक् कर्म-काण्ड-ज्ञानानन्तरं ब्रह्म-
काण्ड-गतेषु केषुचिद् वाक्येषु स्वर्गाद्य्-आनन्दस्य वस्तु-विचारेण दुःख-
रूपत्व-व्यभिचारि-सत्ताकत्व-ज्ञान-पूर्वकं ब्रह्मणस् त्व् अव्यभिचारि-
परतमानन्दत्वेन सत्यत्व-ज्ञानम् एव ब्रह्म-जिज्ञासायां हेतुर् इति अर्थात
इत्य् अस्यार्थे लब्धे तन्-निर्गलितार्थम् एवाह सत्यम् इति । सर्व-
सत्तादात्रव्यभिछारि-सत्ताकम् इत्य् अर्थः । परम् इत्य् अनेनान्वयात् सत्यं
ज्ञानम् अनन्तं ब्रह्मेत्य् अत्र [तैत्त् 2.1.3] श्रुतौ च ब्रह्मेत्य् अनेन ।
तद् एवम् अन्यस्य तद्-इच्छाधीन-सत्ताकत्वेन व्यभिचारि-सत्ताकत्वम् आयाति ।
तद् एवम् अत्र तद् एतद् अवधि व्यभिचारि-सत्ताकम् एव ध्यातवन्तो वयम्
इदानीं त्व् अव्यभिचारि-सत्ताकं ध्यायेमेति भावः ।
अथ परत्वम् एव व्यनक्ति धाम्नेति । अत्र धाम-शब्देन प्रभाव उच्यते
प्रकाशो वा । गृह-देह-त्विट्-प्रभावा धामनीत्य् अमरादि-नानार्थ-वर्गात् ।
न तु स्वरूपम् । तथा कुहक-शब्देनात्र प्रतारण-कृद् उच्यते । तच् च जीव-
स्वरूपावरण-विक्षेपकारित्वादिना माया-वैभवम् एव । ततश् च स्वेन
धाम्ना स्व-प्रभाव-रूपया स्व-प्रकाश-रूपया वा शक्त्या सदा नित्यम् एव
निरस्तं कुहकं माया-वैभवं यस्मात् तम् । तद् उक्तं मायां व्युदस्य
चिच्-छक्त्येति । तस्या अपि शक्तेर् आगन्तुकत्वेन स्वेनेत्य् अस्य वैयअर्थ्यं स्यात् ।
स्व-स्वरूपेणेत्य् एवं व्याख्याने तु स्वेनेत्यनेनैव चरितार्थता स्यात् । यथा
कथञ्चित् तथा व्याख्यानेऽपि कुहक-निरसन-लक्षणा शक्तिर् एवापद्यते । सा
च साधकतम-रूपया तृतीयया व्यक्तेति । एतेन मायातत्कार्य-विलक्षणं
यद् वस्तु तत् तस्य स्वरूपम् इति स्व-स्वरूप-लक्षणम् अपि गम्यम् । तच् च

सत्यं ज्ञानम् आनन्दं ब्रह्मेति विज्ञानम् आनन्दं ब्रह्मेति [तैत्त् 2.1.3]
श्रुति-प्रसिद्धम् एव । एतच्-छ्रुति-लक्षकम् एव च सत्यम् इति विन्यस्तम् । तद्
एवं स्वरूप-शक्तिश् च साक्षाद् एवोपक्रान्ता ततः सुतराम् एवास्य
भगवत्त्वं स्पष्टम् ।
अथ मुख्ये सत्यत्वे युक्तिं दर्शयति यत्रेति । ब्रह्मत्वात् सर्वत्र स्थिते
वासुदेवे भगवति यस्मिन् स्ह्तितस् त्रयाणां गुणानां भूतेन्द्रिय-
देवतात्मको यस्यैवेशितुः सर्गोऽप्य् अयम् ऋषा शक्त्यादौ रजतादिकम्
इवारोपितो न भवति । किन्तु यतो वा इमानीति श्रुति-प्रसिद्धे ब्रह्मणि यत्र
सर्वदा स्थितत्वात् संज्ञा-मूर्ति-क् प्तिस् तु त्रिवृत् कुर्वत उपदेशाद् इति [व्स्. 2.4.20]
यद् एक-कर्तृकत्वाच् च सत्य एव । तत्र दृष्टान्तेनाप्य् अमृषात्वं साधयति -
तेज-आदीनां विनिमयः परस्परांश-व्यत्ययः परस्परस्मिन्न्
अंशेनावस्थितिर् इत्य् अर्थः । स यथा मृषा न भवति किन्तु यथैवेश्वर-
निर्माणं तथेत्य् अर्थः । हतेमास् तिस्रो देवतास् त्रिवृद् एकैका भवति । तद्
अग्ने रोहितं रूपं तेजसस् तद्-रूपं यत् शुक्लं तद् अपां यत् कृष्णं तत्
पृथिव्याः तद् अन्नस्येति श्रुतेः [छाउ 6.4.1] ।
तद् एवम् अर्थस्यास्य श्रुति-मूलत्वात् कल्पना-मूलस् त्व् अन्योऽर्थः स्वत एव
परास्तः । तत्र च सामान्यतया निर्दिष्टानां तेज-आदीनां विशेषत्वे
सङ्क्रमणं न शाब्दिकानां हृदय-मध्यारोहति । यदि च तद् एवामंस्यत
तदा वारादीनि मरीचिकादिषु यथेत्य् एवावक्ष्यते । किं च तन्-मते ब्रह्मतस्
त्रिसर्गस्य मुख्यं जन्म नास्ति किन्त्यारोप एव जन्मेत्य् उच्यते । स पुनर्
भ्रमाद् एव भवति । भ्रमश् च सादृश्यावलम्बी । सादृश्यं तु काल-
भेदेनोभयम् एवाधिष्ठानं करोति । रजतेऽपि शुक्ति-भ्रम-सम्भवात् ।
न चैकात्मकं भ्रमाधिष्ठानं बह्व्-आत्मकं तु भ्रम-कल्पितम् इत्य्
अस्ति नियमो मिथो मिलितेषु विदूर-वर्ति-धूम-पर्वत-वृक्षेष्व् अखण्ड-
मेघ-भ्रम-सम्भवात् ।
तद् एवं प्रकृतेऽप्य् अनादित एव त्रि-सर्गः प्रत्यक्षं प्रतीयते । ब्रह्म च
चिन्मात्रतया स्वत एव स्फुरद् अस्ति । तस्माद् अनाद्य-ज्ञानाक्रान्तस्य जीवस्य
यथा सद्-रूपता-सादृश्येन ब्रह्मणि त्रि-सर्ग-भ्रमः स्यात् तथा त्रि-सर्गेऽपि
ब्रह्म-भ्रमः कथं न कदाचित् स्यात् । ततश् च ब्रह्मण
एवाधिष्ठानत्वम् इत्य् अनिर्णये सर्व-नाश-प्रसङ्गः । आरोपकत्वं तु
जडस्यैव चिन्मात्रस्यापि न सम्भवति । ब्रह्म च चिन्मात्रम् एव तन्-
मतम् इति । ततश् च श्रुति-मूल एव व्याख्याने सिद्धे सोऽयम् अभिप्रायः ।
यत्र हि यन् नास्ति किन्त्व् अन्यत्रैव दृश्यते तत्रैव तद्-आरोपः सिद्धः । ततश्
च वस्तुतस् तद्-अयोगात् तत्र तत्-सत्तया तत्-सत्ता कर्तुं न शक्यत एव । त्रि-
सर्गस्य तु तच्-छक्ति-विशिष्टाद् भगवतो मुख्य-वृत्त्यैव जातत्वेन
श्रुतत्वात् तद्-व्यतिरेकात् तत्रैव सर्वात्मके सोऽस्ति । ततस् तस्मिन् न चारोपितं
च । आरोपस् तु तथापि धाम्नेत्य् आदि-रीत्यैवाचिन्त्य-शक्तित्वात् तेन
लिप्तत्वाभावेऽपि तच्-छाङ्कर-रूप एव । तथा च एकदेश-स्थितस्याग्नेर्
ज्योत्स्ना विस्तारिणी यथेत्य् अनुसारेण तत्-सत्तया तत्-सत्ता भवति ।
ततो भगवतो मुख्यं सत्यत्वं त्रि-सर्गस्य च न मिथ्यात्वम् इति । तथा च
श्रुतिः सत्यस्य सत्यम् इति तथा प्राणा वै सत्यं तेषाम् एव सत्यम् इति
(बृह्ददु 2.3.6) । प्राण-शब्दोदितानां स्थूल-सूक्ष्म-भूतानां
व्यवहारतः सत्यत्वेनाधिगतानां मूल-कारण-भूतं परम-सत्यं
भगवन्तं दर्शयतीति ।
अथ तम् एव तटस्थ-लक्षणेन च तथा व्यञ्जयन् प्रथमं विशदार्थतया
ब्रह्म-सूत्राणाम् एव विवृतिर् इयं संहितेति बिबोदयिषया च तद्-अन्तरं
सूत्रम् एव प्रथमम् अनुवदति जन्माद्यस्य यत इति । जन्मादीनि सृष्टि-
स्थिति-प्रलयम् । तद्-गुण-स:अविज्ञान-बहुव्रीहि । अस्य विश्वस्य
ब्रह्मादिस्तम्ब-पर्यन्तानेक-कर्तृ-भोक्तृ-संयुक्तस्य प्रतिन्यत-देशकाल-
निमित्त-क्रिया-फलाश्रयस्य मनसाप्य् अचिन्त्य-विविध-चित्र-रचना-रूपस्य
यतो यस्माद् अचिन्त्य-शक्त्या स्वयम् उपादान-रूपात् कर्त्रादि-रूपाच् च
जन्मादि तं परं धीमहीत्य् अन्वयः । अत्र विषया-वाक्यं च भूगुर्वै
वारुणिर् वरुणं पितरम् उपससार अधीहि भो भगवो ब्रह्मेत्य् आरभ्य
यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्य् अभिसंविशन्ति
तद्-विजिज्ञासस्व तद् ब्रह्म इति (तैत्तु 3.1.1.) तत् तेजोऽसृजत इत्य् आदि (छाउ
6.2.3) च ।
जन्मादिकम् इहो लक्षणं न तु विशेषणम् । ततस् तद्-ध्याने तन् न
प्रविशन्ति । किन्तु शुद्ध एव ध्येय इति । किं च अत्र प्राग् उक्त-विशेषण-
विशिष्ट-विश्व-जन्मादेस् तादृश-हेतुत्वेन सर्व-शक्तित्वं सत्य-सङ्कल्पत्वं
सर्व-ज्ञत्वं सर्वेश्वरत्वं च तस्य सूचितम् । यः सर्वज्ञः सर्व-विद् यस्य
ज्ञानमयं तपः सर्वस्य वशी इत्य् आदि श्रुतेः [मुण्ड् 1.1.9, 2.2.7]। तथा
परत्वेन निरस्ताखिल-हेय-प्रत्यनीक-स्वरूपत्वं ज्ञानाद्य्-अनन्त-कल्याण-
गुणत्वं सूचितम् । न तस्य कार्यं कारणं च विद्यते इत्य् आदि श्रुतेः । ये तु
निर्विशेष-वस्तु जिज्ञास्यम् इति वदन्ति तन्-मते ब्रह्म-जिज्ञासायां जन्माद्यस्य
यत इत्य् असङ्गतं स्यात् । निरतिशय-बृहद्-बृंहणं चेति निर्वचनात् । तच् च
ब्रह्म जगज्-जन्मादि-कारणम् इति वचनाच् च । एवम् उत्तरेष्व् अपि सूत्रेषु
सूत्रोदाहृत-श्रुतयश् च न तत्र प्रमाणम् । तर्कश् च साध्य-
धर्माव्यभिचारि-साधन-धर्मान्वित-वस्तु-विषयत्वान् न निर्विशेष-
वस्तुनि प्रमाणम् । जगञ्-जन्मादिभ्रमो यतस् तद् ब्रह्मति स्वोत्प्रेक्ष-
पक्षे च न निर्विशेष-वस्तु-सिद्धिः । भ्रम्-मूलम् अज्ञानम् अज्ञान-साक्षि
ब्रह्मेति उपयमात् । साक्षित्वं हि प्रकाशैक-रसतयोच्यते । प्रकाशत्वं तु
जडाद् व्यावर्तकं स्वस्य परस्य च व्यवहार-योग्यतापादन-स्वभावेन
भवति । तथा सति स्वैशेषत्वं तद्-अभावे प्रकाशतैव न स्यात् । तुच्छतैव
स्यात् । किं च तेजो-वारि-मृदाम् इत्य् अनेनैव तेषां विवक्षितं सेत्स्यतीति
जन्माद्यस्य यत इत्य् अप्रयोजकं स्यात् । अतस् तद्-विशेषत्वे लब्धे स विशेषः
शक्ति-रूप एव । शक्तिश् चान्तराङ्गा बहिरङ्गा तडस्था चेति त्रिधा दर्शिता ।
तत्र विकारात्मकेषु जगज्-जन्मादिषु साक्षाद्-धेतुना बहिरङ्गाया एव स्याद्
इति सा मायाख्या चोपक्रान्ता । तटस्था च वयं धीमहीत्य् अनेन ।
अथ यद्यपि भगवतोऽंशात् तद्-उपादान-भूत-प्रकृत्याख्य-शक्ति-विशिष्टात्
पुरुषाद् एवास्य जन्मादि तथापि भगवत्य् एव तद्-धेतुना पर्यवसति ।
समुद्रैक-देशे यस्य जन्मादि तस्य समुद्र एव जन्मादीनि । यथोक्तम् -
प्रकृतिर् यस्योपादानम्
आधारः पुरुषः परः ।
सतोऽभिव्यञ्जकः कालो
ब्रह्म तत् त्रितयं त्व् अहम् ॥ [भ्प् 11.24.19]
तस्य च भगवतो जन्माद्यस्य यत इत्य् अनेनापि मूर्तत्वम् एव लभ्यते । यतो
मूर्तस्य जगतो मूरित्-शक्तेर् निधान-रूप-तादृशानानन्त-पर-शक्तीनां
निधान-रूपोऽसाव् इत्य् आक्षिप्यते । तस्य परम-कारुणत्वाङ्गीकारात् । न च
तस्य मूर्तत्वे सत्य् अन्यतो जन्मापतेत् अनवस्थापत्तेर्

एकस्यैवादित्वेनाङ्गीकारात् । साङ्ख्यानाम् अव्यक्तस्येव ।
स कारणं करणाधिपाधिपो
न चास्य कश्चिज्जनिता न चाधिपः [श्वेतु 6.9]
इति श्रुति-निषेधात् । अनादु-सिद्धाप्राकृत-स्वाभाविक-मूर्तित्वेन तस्य तत्
प्रसिद्धिश् च । तद् एवं मूर्तत्वे सिद्धे स च मूर्तो विष्णु-नारायआदि-
साक्षाद्-रूपकः श्री-भगवान् एव नान्यः । तथा च -
यतः सर्वाणि भूतानि
भवन्त्य् आदि-युगागमे ।
यस्मिंश् च प्रलयं यान्ति
पुनर् एव युग-क्षये ॥
इत्य् आदि तत्-प्रतिपादक-सहस्र-नामादौ तत्रैव तु यथोक्तम् अनिर्देश्य-
वपुः श्रीमान् इति ।
एवं च स्कान्दे -
स्रष्टा पाता च संहर्ता स एको हरिर् ईश्वरः ।
स्रष्टृत्वादिकम् अन्येषां दारु-योषावद् उच्यते ॥
एक-देश-क्रियावत्त्वान् न तु सर्वात्मनेरितम् ।
सृष्ट्य्-आदिकं समस्तं तु विष्णोर् एव परं भवेत् ॥ इति ।
महोपनिषदि च - स ब्रह्मणा सृजति स रुद्रेण विलापयति इत्य् आदिकम् । अत
एव विवृतं -
निमित्तं परम् ईशस्य विश्व-सर्ग-निरोधयोः ।
हिरण्यगर्भः सर्वश् च कालस्यारूपिणस् तव ॥ इति ।
तव यो रूप-रहितः कालः काल-शक्तिस् तस्य निमित्त-मात्रम् इति व्यधिकरण
एव षष्ठी । तथा आद्योऽवतारः पुरुषः परस्येत्य् आदि । यद्-अंशतोऽस्य स्थिति-
जन्म-नाशा इत्य् आदि च ।
तद् एवम् अत्रापि तथाविध-मूर्तिर् भगवान् एवोपक्रान्तः । तद् एवं
तटस्थ-लक्षणेन परं निर्धार्य तद् एव लक्षणं ब्रह्म-सूत्रे शास्त्र-
योनित्वात्, तत् तु समन्वयाद् इत्य् एतत्-सूत्र-द्वयेन (1.1.3-4) स्थापितम् अस्ति तत्र
पूर्व-सूत्रस्यार्थः । कुतो ब्रह्मणो जगज्-जन्मादि-हेतुत्वं तत्राह - शास्त्रं
योनिर् ज्ञान-कारणं यस्य तत्त्वात् । यतो वामानि भूतानीत्य् आदि-शास्त्र-
प्रमाणकत्वाद् इति । नात्र दर्शनानतरवत् तर्क-प्रमाणकत्वम् ।
तर्काप्रतिष्ठानात् अन्त्यन्तातीन्द्रियत्वेन प्रत्यक्षादि-प्रमाण-विषयत्वाद्
ब्रह्मणश् चेति भावः । वैनाशिकास् त्व् अविरोधा-ध्याये तर्केणैव
निराकरिष्यन्ते । अत्र तर्काप्रतिष्ठानं चैवम् - ईश्वरः कर्ता न भवति
प्रयोजन-शून्यत्वान् मुक्तात्मवत् । तनु-भुवनादिकं जीव-कर्तृकं
कार्यत्वात घटवत् । विमति-विषयः कालो न लोक-शून्यः कालत्वात्
वर्तमान-कालवद् इत्य् आदि । तद् एवं दर्शनानुगुण्य्नेश्वरानुमानं
दर्शनान्तर-प्रातिकूल्य-पराहतम् इति शास्त्रैक-प्रामाणिकः पर-ब्रह्म-
भूतः सर्वेश्वरः पुरुषोत्तमः । शास्त्रं तु सकलेतर-प्रमाण-परिदृष्ट-
समस्त-वस्तु-विजातीय-सार्वज्ञ्य-सत्य-सङ्कल्पत्वादि-
मिश्रानवधिकातिशयापरिमितोदार-विचित्र-गुण-सागरं निखिल-हेय-
प्रत्यनीक-स्वरूपं प्रतिपादयतीति न प्रमाणान्तरावसित-वस्तु-साधर्म्य-
प्रयुक्त-दोष-गन्धः । अतएव स्वाभाविकानन्त-नित्य-मूर्तिमत्त्वम् अपि
तस्य सिध्यति ।
अथोत्तर-सूत्रस्यार्थः । ब्रह्मणः कथं शास्त्र-प्रमाणकत्वं तत्राह तत्
त्व् इति । तु शब्दः प्रसक्ताशङ्क-निवृत्त्य्-अर्थः । तच्-छास्त्र-प्रमाणकत्वं
ब्रह्मणः सम्भवत्य् एव । कुतः समन्वयात् । अन्वय-व्यतिरेकाभ्याम्
उपपादनं समन्वयस् तस्मात् । तत्रान्वयः सत्यं ज्ञानम् अनन्तं ब्रह्मेति
[तैत्त् 2.1.3] आनन्दो ब्रह्मेति एकम् एवाद्वितीयं ब्रह्म इति । तत् सत्यं स आत्मा
इति । सद् एव सोम्येदम् अग्र आसीद् इति । आत्मा वा इदम् एक एवाग्र आसीत् पुरुष-
विध इति । पुरुषो ह वै नारायण इति । एको ह वै नारायण आसीद् इति । बहु
स्यां प्रजायेय इति [छा 6.2.3] । तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूत
इति । तत्-तेजोऽसृजत इति । यतो वा इमानि भूतानि जायन्त इति । पुरुषो ह वै
नारायणोऽकामयत अथ नारायणाद् अजोऽजाआयत यतः प्रजाः सर्वाणि भूतानि
नारायणं परं ब्रह्म तत्त्वं नारायणः परम् ऋतं सत्यं परं ब्रह्म
पुरुषं पिङ्गलम् इत्य् आदिषु च ।
अथ व्यतिरेकः । कथम् असतः सज्जायेत इति । को ह्य् एवान्यात् कः प्राण्याद् यद्
एष आकाश आनन्दो न स्याद् इति । एको ह वै नारायण आसीन् न ब्रह्मा न च
शङ्कर इत्य् आदिना । स चैवं परमानन्द-रूपत्वेनैव समन्वितो भवतीति
तद् उपलब्ध्यैव परम-पुरुषार्ह्तत्व-सिद्धेर् न प्रयोजन-शून्यत्वम्
अपि ।
तद् एवं सूत्र-द्वयार्थे स्थिते तद् एतद् व्याचष्टे, अन्वयादितरतश् चार्थेष्व्
इति । अर्थेषु नाना-विधेषु वेद-वाक्यार्थेष् सत्स्व् अन्वयात् अन्वय-मुखेन
यतो यस्मात् एकस्माद् अस्य जन्मादि प्रतीयते तथेतरतो व्यतिरेक-मुखेन
च यस्माद् एवास्य ततः प्रतीयत इत्य् अर्थः । अतएव तस्य श्रुत्य्-अन्वय-
व्यतिरेक-दर्शितेन परम-सुख-रूपत्वेन परम-पुरुषार्थत्वं च
ध्वनितम् । एको ह वै नारायण आसीद् इत्य् आदि-शास्त्र-प्रमाणत्वेन प्राक्-
स्थापित-रूपं चेति ।
अथेक्षतेर् नाशब्दम् इति व्याचष्टे अभिज्ञ इति । अत्र सूत्रार्थः इदम् आम्नायते
छान्दोग्ये सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयं ब्रह्म तद् ऐक्षत
बहु स्यां प्रजाययेति । [छा 6.2.3] । तत्-तेजोऽसृजतेत्य् आदि । अत्र परोक्तं
प्रधानम् अपि जगत्-कारणत्वेनायाति । तच् च नेत्य् आह ईक्षतेर् इति । यस्मिन्
शब्द एव प्रमाणं न भवति तद्-अशब्दम् आनुमानिकं प्रधानम् इत्य्
अर्थः । न तद् इह प्रतिपाद्यम् । कुतोऽशब्दत्वं तस्येत्य् आशङ्क्याह ईक्षतेः ।
न तद् इह प्रतिपाद्यम् । कुतोऽशब्दत्वं तस्येत्य् आशङ्क्याह ईक्षतेः । सच्-
छब्द-वाच्य-सम्बन्धि-व्यापार-विशेषाभिधायिअ ईक्षतेर् धातोः श्रवणात् ।
तद् ऐक्षतेतीक्षणं चाचेतने प्रधाने न सम्भवेत् । अन्यत्र
चेक्षापूर्विकैव सृष्टिः । स ऐक्षत लोकानुसृजा इति स इमान् लोकान् असृजतेत्य्
आदौ । ईक्षणं चात्र तदेश-सृज्य-विचारात्मकत्वात् सर्वज्ञत्वम् एव
क्रोडीकरोति । तद् एतद् आह अभिज्ञ इति ।
ननु तदानीयम् एवाद्वितीयम् इत्य् उक्तेस् तस्येक्षण-साधनं न सम्भवति
तत्राह स्वराड् इति । स्व-स्वरूपेणैव तथा राजत इति । न तस्य कार्यं करणं
च व्दियत इत्य् आदौ स्वाभाविकी ज्ञान-बल-क्रिया चेत्य् आदि श्रुतेः ।
एतेनेक्षणवन्-मूर्तिमत्त्वम् अपि तस्य स्वाभावैकम् इत्य् आयातम् ।
निःश्वतितस्यान्य् अग्रे दर्शयिष्यमाणत्वात् । तच् च यथोक्तम् एवेति च ।
अत्र शास्त्र-योनित्वाद् इत्य् अस्यार्थान्तरं व्याचष्टे तेन इति । तच् चार्थान्तरं
यथा कथं तस्य जगज्-जन्मादि-कर्तृत्वं कथं वा नान्य-तन्त्रोक्तस्य
प्रधानस्य न चान्यस्येति तत्राह । शास्त्रस्य वेद-लक्षणस्य योनिः कारणं
तद्-रूपत्वात् । एवं वा अरे अस्य महतो भूतस्य निश्वसितम् एतद् यदृग्-वेदो
यजुर्-वेदः सामवेदोऽथ वाङ्गिरस इतिहास-पुराणं विद्या उपनिषदः
श्लोकाः सूत्राण्य् उपसूत्राणि व्याख्यानानीति श्रुतेः । शास्त्रं हि सर्व-
प्रमाणागोचर-विविधानन्त-ज्ञान-मयं तस्य च कारणं ब्रह्मैव
श्रूयत इति ।
तद् एवं मुख्यं सर्वज्ञं तादृशं सर्वज्ञत्वं विना च सर्व-शृष्ट्य्-
आदिकम् अन्यस्य नोपपद्यत् इति प्रोक्त-लक्षणं ब्रह्मैव जगत्-कारणं न
प्रधानं न जीवान्तरम् इति । तद् एव विवृत्याह तेने ब्रह्म हृदा य
आदिकवय इति । ब्रह्म वेदम् आदि-कवये ब्रह्मणे ब्रह्माणणं हृदान्तः-

करण-द्वारैव, न तु वाक्य-द्वारा । तेने आविर्भावितवान् ।
अत्र बृहद्-वाचकेन ब्रह्म-पदेन सर्व-ज्ञान-मयत्वं तस्य ज्ञापितम् ।
हृदेत्य् अनेनान्तर्यामित्वं सर्व-शक्तिमयत्वं च ज्ञापितम् । आदिकवय इत्य्
अनेन तस्यापि शिक्षा-निदानत्वाच् छास्त्र-योनित्वं चेति । श्रुतिश् चात्र
यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश् च प्रहिणोति तस्मै ।
तं ह देवम् आत्म-बुद्धि-प्रकाशं
मुमुक्षुर् वै शरणम् अहं प्रपद्ये ॥ [श्वेतु 6.18] ।
मुक्त-जीवा अपि तत्-कारणं नेत्य् आह मुह्यन्तीति । यत्र ब्रह्मणि वेदख्ये
सूरयः शेषादयोऽपि । अनेन च शयन-लीला-व्यञ्जित-निश्वसितमय-वेदो
ब्रह्मादि-विविधानन-लोचनश् च यः पद्मनाभस् तद्-आदि-मूर्तिकः श्री-
भगवान् एवाभिहितः । विवृतं चैतत् । प्रचोदिता येन पुरा सरस्वतीत्य् [भ्प्
2.4.22] आदिना ।
अथ तत् तु समन्वयाद् इत्य् अस्यान्तरं, यथा शास्त्र-योनित्वे हेतुश् च दृश्यते
इत्य् आह तत् त्व् इति । समन्वयोऽत्र सम्यक् सर्वतोमुखोऽन्वयो व्युत्पत्तिर्
वेदार्थ-परिज्ञातं यस्मात् तु शास्त्र-निदानत्वं निश्चीयत इति जीवे सम्यक् ।
ज्ञानम् एव नास्ति प्रधानं त्व् अचेनम् एवेति भावः । स वेत्ति विश्वं न हि
तस्य वेत्तेति श्रुतेः । यद् एतद् अस्य तदीय-सम्यग्-ज्ञानं व्यतिरेकमुखेन
बोधयितुं जीवानां सर्वेषाम् अपि तदीय-सम्यग्-ज्ञानाभावम् आह
मुह्यन्तीति । सूरयः शेषादयोऽपि यद् यत्र शब्द-ब्रह्मणि मुह्यन्ति । तद्
एतद् विवृतं स्वयं भगवता -
किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् ।
इत्य् अस्या हृदयं लोके नान्या मद् वेद कश्चन ॥ इति (भ्प् 11.21.42) ।
अनेन च साक्षाद्-भगवान् एवाभिहितः ।
अथेक्षतेर् नाशब्दम् इत्य् अस्यार्थान्तरम् अभिइज्ञ इत्य् अत्रैव व्यञ्जितम् अस्ति ।
अत्र सूत्रार्थः - नन्व् अशब्दम् अस्पर्शम् अरूपम् अव्ययम् इत्य् आदि श्रुतेः ।
कथं तस्य शब्द-योनित्वं, तत्र हि प्रकृत-ब्रह्म शब्द-हीनं न भवति ।
कुतः ।
ईक्षतेः । तद् ऐक्षत बहु स्यां प्रज्यायेयेत्य् अत्र बहु स्याम् इति
शब्दात्मकेक्ष-धातोः श्रवणात् । तद् एतद् आह, अभिज्ञः । बहु स्याम् इत्य् आदि-
शब्दात्मक-विचार-विदग्धः । स च शब्दादि-शक्ति-समुदायस् तस्य न
प्राकृतः प्रकृति-क्षोभात् पूर्वत्रापि सद्-भावात् । ततः स्वरूप-भूत एवेत्य्
आह स्वराड् इति ।
अत्र पूर्ववत् तादृशं सधर्मकत्वं मूर्तिमत्त्वम् अपि सिद्धम् । यथाहुः
सूत्रकाराः अन्तस् तद्-धर्मोपदेशाद् इति (व्स् 1.1.10) । अतोऽशब्दत्वादिकं
प्राकृत-शब्द-हीनत्वादिम् एवेति ज्ञेयम् । अत्रोत्तर-मीमांसाध्याय-
चतुष्टयस्याप्य् अर्थो दर्शितः । तत्रान्वयाद् इतरतश् चेति समन्वयाध्यायस्य
सत्यं परम् इति फलाध्याययेति । तथा गायत्र्य्-अर्थोऽपि स्पष्टः । तत्र
जन्माद्यस्य यत इति प्रणवार्थः सृष्ट्य्-आदि-शक्तिमत्त्व-वाचित्वात् । तद् एवम्
एवाग्नि-पुराणे गायत्री-व्याख्याने प्रोक्तम् तज्-ज्योतिर् भगवान् विष्णुर् जगज्-
जन्मादि-कारणम् इति । यत्र त्रि-सर्गो मृषेति व्याहृति-त्रयार्थः । उभयत्रापि
लोकत्रयस्य तद्-अनन्यत्वेन विवक्षितत्वात् । स्वराड् इति सवितृ-प्रकाशक-
परम-तेजो-वाचि । तेने ब्रह्म हृदेति बुद्धि-प्रवृत्ति-प्रेरणा प्रार्थना
सूचिता । तद् एव कृपया स्वध्यानायास्माकं बुद्धि-वृत्तीः प्रेरयताद् इति
भावः । एवम् एवोक्तं गायत्र्या च समारम्भ इति । तच् च तेजस् तत्र अन्तस्
तद्-धर्मोपदेशाद् इत्य् आदिना सम्प्रतिपन्नं यन्-मूर्तं तद्-आद्य्-अनन्त-
मूर्तिमद् एव ध्येयम् इति । तत्र चाग्नि-पुराण-क्रम-वचनानि
एवं सन्ध्या-विधिं कृत्वा गायत्रीं च जपेत् स्मरेत् ।
गायत्र्य्-उक्थानि शास्त्राणि भर्गं प्राणांस् तथैव च ॥
ततः स्मृतेयं गायत्री सावित्री यत एव च ।
प्रकाशिनी सा सवितुर् वाग्-रूपत्वात् सरस्वती ॥
तज्-ज्योतिः परमं ब्रह्म भर्गस् तेजो यतः स्मृतः ।
भर्गः स्यात् भ्राजत इति बहुलं छन्दसीरितम् ॥
वरेण्यं सर्व-तेजोभ्यः श्रेष्ठं वै परमं परम् ।
सर्गापवर्ग-कामैर् वा वरणीयं सदैव हि ॥
वृणोतेर् वरणार्थत्वात् जाग्रत्-स्वप्नादि-वर्जितम् ।
नित्यं शुद्धं बुद्धम् एकं नित्यं भर्गम् अधीश्वरम् ॥
अहं ब्रह्म परं ज्योतिर् ध्यायेम हि विमुक्तये ।
तज्-ज्योतिर् भगवान् विष्णुर् जगज्-जन्मादि-कारणम् ॥
शिवं केचित् पठन्ति स्म शक्ति-रूपं पठन्ति च ।
केचित् सूर्यं केचिद् अग्निं दैवतान्य् अग्नि-होत्रिणः ॥
अग्न्य्-आदि-रूपो विष्णुर् हि वेदादौ ब्रह्म गीयते ।
तत् पदं परमं विष्णोर् देवस्य स्वैतुः स्मृतम् ॥
दधातेर् वा धीमहीति मनसा धारयेमहि ।
नोऽस्माकं यच् च भर्गस् तत् सर्वेषां प्राणिनां धियः ॥
चोदयात् प्रेरयाद् बुद्धिं भोक्तॄणां सर्व-कर्मसु ।
दृष्टादृष्ट-विपाकेषु विष्णुः सूर्याग्नि-रूप-भाक् ॥
ईश्वर-प्रेरितो गच्छेत् स्वर्गं वा श्वभ्रम् एव वा ।
ईशावास्यम् इदं सर्वं महद्-आदि-जगद् धरिः ॥
स्वर्गाद्यैः क्रीडते देवी यो हंसः पुरुषः प्रभुः ।
ध्यानेन पुरुषोऽयं च द्रष्टव्यः सूर्य-मण्डले ॥
सत्यं सदा-शिवं ब्रह्म विष्णोर् यत् परमं पदम् ।
देवस्य स्वैतुर् देवो वरेण्यं हि तुरीयकम् ॥
योऽसाव् आदित्य-पुरुषः सोऽसाव् अहम् अनुत्तमम् ।
जनानां शुभ-कर्मादीन् प्रवर्तयति यः सदा ॥ इत्य् आदि ।
यत्राधिकृत्य गायत्रीं वर्ण्यते धर्म-विस्तरः ।
वृत्रासुर-वधोत्सिक्तं तद्-भागवतम् उच्यते ॥ इत्य् आदीनि च ।
तस्माद् भग ब्रह्म परा विष्णुर् भगवतच्-छब्दाभिन्न-वर्णतया तत्र
तत्र निर्दिष्टा अपि भगवत्-प्रतिपादका एव ज्ञेयाः । मध्ये मध्ये त्व्
अहंग्रहोपासना-निर्देशस् तत्-साम्य इव लब्धे हि तद्-उपासना-योग्यता
भवतीति । तथा दश-लक्षणर्थोऽप्य् अत्रैव दृश्यः । तत्र सर्ग-विसर्ग-
स्थान-निरोधा जन्द्माद्य् अस्य यतः इत्य् अत्र । मन्वन्तरेशानुकथने च
स्थानान्तर्गते पोषणं तेन इत्य् आदौ । ऊतिर् मुह्यन्तीत्य् आदौ । मुक्तिर्
जीवानाम् अपि तत्-सान्निध्ये सति कुहक-निरसन-व्यञ्जके धाम्नेत्य् आदौ ।
आश्रयः सत्यं परम् इत्य् आदौ[*एन्द्नोते #9] ।
स च स्वयं-भगवत्त्वेन निर्णीयत्वात् श्री-कृष्ण एवेति पूर्वोक्त-प्रकार एव
व्यक्त इति । तद् एवम् अस्मिन्न् उपक्रम-वाक्ये सर्वेषु पद-वाक्य-तात्पर्येषु
तस्य ध्येयस्य सविशेषत्वं मूर्तित्वं भगवद्-आकारं च व्यक्तम् । तच् च
युक्तम् । स्वरूप-वाक्यान्तर-व्यक्तत्वात् ।
योऽस्योत्प्रेक्षक आदि-मध्य-निधने योऽव्यक्त-जीवेश्वरो
यः सृष्ट्येदम् अनुप्रविश्य ऋषिणा चक्र-पुरः शास्ति ताः ।
यं सम्पद्य जहात्य् अजाम् अनुशयी सुप्तः कुलायं यथा
तं कैवल्य-निरस्त-योनिम् अभयं ध्यायेद् अजस्रं हरिम् ॥ इति ।[भ्प् 10.87.50]
अतो धर्मः प्रोज्झितेत्य् आदाव् अनन्तर-वाक्येऽपि किं वा परैर् इत्य् आदिना
तत्रैव तात्पर्यं दर्शितम् ।
तथोपसंहार-वाक्याधीनार्थत्वाद् उपक्रमस्य नातिकमणीयम् एव ।
कस्मै येन विभासितोऽयम् इत्य् आदि-दर्शितम् तस्य तादृश-विशेषवत्त्वादिकम् ।
यथैव आत्म-गृहीतिर् इतरवद् उत्तराद् इत्य् अत्र (व्स् 3.3.16) शङ्कर-
शारीरकस्यापरस्यां योजनायाम् उपक्रमोक्तस्य सच्-छब्द-

वाच्यस्यात्मत्वम् उपसंहारस्थाद् आत्म-शब्दाल् लभ्यते तद्वद् इहापि
चतुःश्लोकी-वक्तुर् भगवत्त्वं दर्शितं च श्री-व्यास-समाधाव् अपि तस्यैव
ध्येयत्वम् । तद् एव च स्व-सुख-निभृतेत्यादि श्री-शुक-हृदयानुगतम्
इति ॥ 1.1 ॥ श्री-व्यासः

5.106

अथोपसंहार[*एन्द्नोते #10]-वाक्यस्याप्य् अयम् अर्थः । कस्मै
गर्भोदक-शायि-पुरुष-नाभि-कमलस्थाय ब्रह्मणे तत्रैव येन महा-
वैकुण्ठं दर्शयता द्वितीय-स्कन्ध-वर्णित-तादृश-श्री-मूर्त्य्-आदिना
भगवता विभासितः प्रकाशितः न तु तदापि रचितः अयं श्री-भागवत-
रूपः पुरा पूर्व-परार्धादौ तद्-रूपेण ब्रह्म-रूपेण तद्-रूपिणा श्री-
नारद-रूपिणा योगीन्द्राय श्री-शुकाय तद्-आत्मना श्री-कृष्ण-द्वैपायन-
रूपेण । तद्-आत्मनेत्य् अस्योत्तरेणान्वयः । तत्र तद्-आत्मना श्री-शुक-
रूपेणेति ज्ञेयम् । तद्-रूपेणेत्य् आदिभिस् त्रिभिः पदैर् न केवलं चतुःश्लोक्य्
एव तेन प्रकाशिता किं तर्हि तत्र तत्राविष्टेनाखण्डम् एव पुराणम् इति
द्योतितम् ।
अत्र मद्-रूपेण च युष्मभ्यम् इति सङ्कोचेनानुक्तोऽपि श्री-सूत-वाक्य-शेषो
गम्यः । एवं सर्वस्यापि श्री-भागवत-गुरोर् महिमा दर्शितः । सङ्कर्षण-
सम्प्रदाय-प्रवृत्तिस् तु कृष्ण-द्वैपायन-कर्तृक-प्रकाशनान्तर्गतैवेति
पृथङ् नोच्यते ।
तत्-परं सत्यं श्री-भगवद्-आख्यं तत्त्वं धीमहि । यत् तत् परम्
अनुत्तमम् इति सहस्र-नाम-स्तोत्रात् पर-शब्देन च श्री-भगवान् एवोच्यते ।
आद्योऽवतारः पुरुषः परस्येति द्वितीयात् । ब्रह्मादीनां बुद्धि-वृद्धि-
प्रेरकत्वेनाभिधानाद् गायत्र्या अप्य् अर्थोऽयं ग्रन्थ इति दर्शयति । तद्
उक्तं - गायत्री-भाष्य-रूपोऽसौ भारतार्थ-विनिर्णयः ॥ इति ॥
॥12.13॥ श्री-सूतः

5.107

[107]
अथाभ्यासेन -
कलि-मल-संहति-कालनोऽखिलेशो
हरिर् इतरत्र न गीयते ह्य् अभीक्ष्णम् ।
इह तु पुनर् भगवान् अशेष-मूर्तिः
परिवृतोऽनुपदं कथा-प्रसङ्गैः ॥ [भ्प् 12.12.66]
कालेनोनाशनः । इतरत्र कर्म-ब्रह्मादि-प्रतिपादक-शास्त्रान्तरे । अखिलेशो
विराड्-अन्तर्यामी नारायणोऽपि तत्-पालको विष्णुर् वापि न गीयते क्वचिद् गीयते
वा तत्र त्व् अभीक्ष्णं नैव गीयते तु-शब्दोऽवधारणे साक्षात् श्री-भगवान्
पुनर् इह श्री-भागवते एवाभीक्ष्णं गीयते । नारायणादयो वा येऽत्र
वर्णितास् तेऽप्य् अशेषा एव मूर्तयोऽवतारा यस्य सः । तथाभूत एव गीयते न
त्व् इतरत्रैव तद्-अविवेकेनेत्य् अर्थः । अतएव तत् तत् कथा-प्रसङ्गैर् अनुपदं
पदं पदम् अपि लक्ष्यीकृत्य भगवान् एव परि सर्वतो-भावेन पठितो
व्यक्तम् एवोक्त इति । अनेनापूर्वतापि व्याख्याता
अन्यत्रानधिगतत्वात् ॥ 12.12 ॥ श्री-सूतः

5.108

[108]
अथ फलेनापि -
पिबन्ति ये भगवत आत्मनः सतां
कथामृतं श्रवण-पुटेषु सम्भृतम् ।
पुनन्ति ते विषय-विदूषिताशयं
व्रजन्ति तच्-चरण-सरोरुहान्तिकम् ॥ [भ्प् 2.2.37]
सताम् आत्मनः प्राणेश्वरस्य यद् वा व्यधिकरणे षष्ठी सताम् आत्मनः
स्वस्य यो भगवांस् तस्येत्य् अर्थः । तेषां भगवति स्वामित्वेन
ममतास्पदत्वात् अत्र कथामृतं प्रक्रम्यमाणं श्री-भागवताख्यम्
एव मुख्यम् । यस्यां वै श्रूयमाणायाम् इत्य् [भ्प् 1.7.7] आदिकं च
तथैवोक्तम् इति ॥2.2॥ श्री-शुकः

5.109

[109]
अथार्थवादेन -
यं ब्रह्म वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैर्
वेदैः साङ्ग-पद-क्रमोपनिषदैर् गायन्ति यं सामागाः ।
ध्यानावस्थित-तद्-गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः ॥ [भ्प् 12.13.1]
स्तवैर् वेदैश् च स्तुन्वन्ति स्तुवन्ति । ध्यानेनावस्थितं निश्चलं तद्-गतं
यन्-मनस् तेन ॥ 12.13 ॥ श्री-सूतः

5.110

[110]
अथोपपत्त्या -
भगवान् सर्व-भूतेषु
लक्षितः स्वात्मना हरिः ।
दृश्यैर् बुद्ध्य्-आदिभिर्
द्रष्टा लक्षणैर् अनुमापकैः ॥ [भ्प् 2.2.35]
प्रथम-द्रष्टा जीवो लक्षितः । कैर् दृश्यैर् बुद्ध्य्-आदिभिः । तद् एव
द्वेधा दर्शयति दृश्यानां जडानां बुद्ध्य्-आदीनां दर्शनं स्व-प्रकाशं
द्रष्टारं विना न घटत ज्ञानोपपत्ति-द्वारा लक्षणैः स्व-प्रकाश-
द्रष्टृअ-लक्षकैः तथा बुद्ध्य्-आदीनि कर्तृ प्रयोज्यानि करणत्वाद्
वास्यादिवद् इति व्याप्ति-द्वारानुमापकैर् इति ।
अथ भगवान् अपि लक्षितः । केन सर्व-भूतेषु सर्वेषु तेषु द्रष्टृषु
प्रविष्टेन स्वात्मना स्वांश-रूपेणान्तर्यामिणा । आदौ सर्वैर् द्रष्टृभिर्
अन्तर्यामी लक्षितः ततस् तेन भगवान् अपि लक्षित इत्य् अर्थः । स च स च
पूर्ववत् द्विधैव लक्ष्यते । तथा हि कर्तृत्व-भोक्तृत्वयोर् अस्वातत्न्र्य-
दर्शनात् कर्मणो जडत्वात् कर्मणो जडत्वात् सर्वेषाम् अपि जीवानां तत्र
तत्र प्रवृत्तिर् अन्तः-प्रयोजक-विशेषं विना न घटत इत्य् अनुपपत्ति-
द्वारान्तर्यामी लक्ष्यते । एष ह्य् अनेनात्मना चक्षुषा दर्शयति श्रोत्रेण
श्रावयति मनसा मानयति बुद्ध्या बोधयति तस्माद् एता बाहुः । मृतिर्
अमृतिर् इति भाल्लवेय-श्रुतिश् च ।
अतएव गीतोपनिषत्सु -
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ॥ इति ।
विष्णु-पुराणे च - स्व-शक्ति-लेशावृत-भूत-सर्ग इति । तथा जीवाः प्रयोजक-
कर्तृ-प्रेरितव्यापाराः । अस्वातन्त्र्यात् । तक्षादि-कर्म-कर-जनवद् इत्य् एवम्
अन्तर्यामिणि तत्त्वे व्याप्ति-द्वारा सिद्धेः । पुनस् तेनैव भगवान् अपि
साध्यते । तुच्छ-वैभव-जीवान्तर्यामि-स्वरूपम् ईश्वर-तत्त्वं
निजांशित्वाश्रयं तथैव पर्याप्तेः । राज-प्रभुत्वाश्रित-तक्षकादि-कर्म-
कर प्रयोजक-प्रभुत्वादिवद् इति । अथवात्र
यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहु-गुणाश्रयः ।
एको नानेयते तद्वद् भगवान् शास्त्र-वर्त्मभिः ॥ [भ्प् 3.32.33] इत्य्
एवोदाहरणीयम् । अनेनैव गति-सामान्यं च सिध्यतीति ॥ 2.2 ॥ श्री-
शुकः

5.29

प्रत्यवस्थापितं वदन्तीत्य् आदिपद्यम् ।
इति श्री-कलि-युग-पावन-स्व-भजन-विभाजन-प्रयोजनावतार-श्री-श्री-
भगवत्-कृष्ण-चैतन्य-देव-चरणानुचर-विश्व-वैष्णव-राज-सभाजन-
भाजन-श्री-रूप-सनातनानुशासन-भारती-गर्भे श्री-भागवत-सन्दर्भे
परमात्म-सन्दर्भो नाम तृतीयः सन्दर्भः ॥
श्री-भागवत-सन्दर्भे सर्व-सन्दर्भ-गर्भ-गे ।
परमात्माभिधेयोऽसौ सन्दर्भोऽभूत् तृतीयकः ॥
समाप्तोऽयं तृतीयः सन्दर्भः ॥
[*एन्द्नोते #1] थे यदव्पुर् एदितिओन् मकेस् रेfएरेन्चे तो स्रिधर्ऽस्
चोम्मेन्तर्य् तो 3.29.13.
[*एन्द्नोते #2] इन् लघु-भागवतामृत 1.2.9, थिस् इस् गिवेन् अस् आसात्वत-
तन्त्र.
[*एन्द्नोते #3] नोत् fओउन्द् इन् म्य् एदितिओन्.
[*एन्द्नोते #4] थिस् वेर्से इस् fइर्स्त् qउओतेद् इन् श्रीधरऽस् चोम्मेन्तर्य् तो भ्प्
11.15.16 अन्द् लतेर् अत् च्च् 1.2.53.
[*एन्द्नोते #5] qउओतेद् अबोवे इन् सेच्तिओन् 22.
[*एन्द्नोते #6] अबोवे, सेच्तिओन् 19.
[*एन्द्नोते #7] नोत् fओउन्द् इन् गित प्रेस्स् एदितिओन्.
[*एन्द्नोते #8] अम्बुवद् अग्रहणात् तु न तथात्वम् इस् थे fउल्ल् सूत्र.
[*एन्द्नोते #9] सेए तत्त्व-सन्दर्भ 55-56. भ्प् 2.10.1-7.
[*एन्द्नोते #10] थे वेर्से इस् गिवेन् अबोवे अत् थे बेगिन्निन्ग् ओf 106. कस्मै
येन, एत्च्.
श्री-कृष्ण-सन्दर्भ
[थेरे अरे सेवेरल् दिffएरेन्त् एदितिओन्स् ओf थे कृष्ण-सन्दर्भ. थे बेन्गलि
एदितिओन् अप्पेअर्स् तो बे एअर्लिएर् थन् थे व्रिन्दवन् एदितिओन् पुब्लिस्हेद् ब्य् हरिदस्
स्हस्त्रि इन् 1983. थे अद्दितिओन्स् fओउन्द् इन् थे वृ एदितिओन् अरे प्रोबब्ल्य् औथेन्तिच्,
अस् थेरे इस् च्लेअर् एविदेन्चे जिव गोस्wअमि मदे एxतेन्सिवे चोर्रेच्तिओन्स् अन्द्
एमेन्दतिओन्स् इन् सोमे ओf हिस् बोओक्स् अfतेर् थेय् wएरे सेन्त् तो बेन्गल् wइथ् स्रिनिवस्
थकुर् इन् थे 1570ऽस्.]
तौ सन्तोषयता सन्तौ श्रील-रूप-सनातनौ ।
दाक्षिणात्येन भट्टेन पुनर् एतद् विविच्यते ॥ओ॥
तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ओ॥
[1]
अथ पूर्व-सन्दर्भ-त्रयेण यस्य सर्व-परत्वं साधितं तस्य श्री-
भगवतो निर्धारणाय सन्दर्भोऽयम् आरभ्यते । तत्र प्रथमस्य द्वितीये
वदन्ति [भ्प् 1.2.11] इत्य् आदिना [वृ. अद्द्स्: नानाविर्भावत्वात् तानि वचनानि
तत्त्व-निर्धारणार्थम् उद्ध्रियन्ते । एन्द् वृ.] तद् एकम् एव तत्त्वं
ब्रह्मादितया शब्द्यत इत्य् उक्तम् । तद् एव ब्रह्मादि-त्रयं तृतीयं विविच्यते ।
ब्रह्म त्व् इह -
यत्रेमे सद्-असद्-रूपे प्रतिषिद्धे स्व-संविदा ।
अविद्ययात्मनि कृते इति तद् ब्रह्म-दर्शनम् ॥ [भ्प् 1.3.33]
इत्य् आदिना तत्र विविक्तम् अपि । एकाकाराविर्भावतया संशयाभावान्
नोपयुक्तम् इति तद्-वचनं नोदाहरणीयम् । श्री-भगवत्-परमात्मनोस् तु
उदाह्रियते । तत्र ईश्वरो नाम निराकारो नास्तीति पूर्वं निर्णीतं,
परमात्म-शब्देन च सर्वान्तर्यामि-पुरुषः प्रतिपादितः तेष्व् एव
सन्दर्भेषु । तथा च सति तस्मिंस् तृतीयाध्यायारभ्य एवम् आभास्यम् ।
ननु पूर्वं ब्रह्मादितया त्रिधैव तत्त्वम् एकम् उक्तम् । तत्र ब्रह्मणः
किं लक्षणं भगवत्-परमात्मनोर् वा तत्र विशेषः कश्चिद् वा किम् अस्तीति
श्रीमद्-ईश्वराकारादिषु बहुषु च सत्सु श्री-भगवन्-नाम कतमाकारः
परमात्मा वा तयोश् च किं स्वरूपादिकम् इति श्री-शौनकादि-प्रश्नम्
आशङ्क्य प्रथमं श्री-भगवत्-परमात्मनौ निर्धारयन् श्री-सूत उवाच
जगृहे पौरुषं रूपं भगवान् महद्-आदिभिः ।
सम्भूतं षोडश-कलम् आदौ लोक-सिसृक्षया ॥ [भ्प् 1.3.1]
[पगे 2]
आदौ जीवाविर्भाव-महद्-आदि-सृष्टितः पूर्वं पौरुषं रूपं जगृहे
प्रकटितवान् । केन हेतुना ? लोक-सिसृक्षया । लोकानां समष्टि-व्यष्टि-
जीवानां तद्-अधिष्ठानानां च प्रादुर्भावार्थम् इत्य् अर्थः । तस्मिन् हि तानि
लीनान्य् आसन्न् इति ।
अतस् तत्-प्रादुर्भावस् तृतीये तद्-द्वारैव उक्तः । भगवान् एक आसेदम् [भ्प्
3.5.23] इत्य्-आदि-प्रकरणे --
काल-वृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः ।
पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् ॥ [भ्प् 3.5.26] इति ।
तत्र तेषां सद्-भावं विवृणोति महद्-आदिभिः सम्भूतं मिलितम् ।
अन्तर्भूत-महद्-आदि-तत्त्वम् इत्य् अर्थः । सोऽन्तः-शरीरेऽर्पित-भूत-सूक्ष्मा
[भ्प् 3.8.11] इति तृतीयाद् एव । सम्-पूर्वो भवतिः सङ्गमार्थे प्रसिद्ध एव,
सम्भूयाम्भोधिम् अभ्येति महान् अद्या नगापागेति [शिश्व् 2.100] इत्य् आदौ ।
तद् एवं विष्णोस् तु त्रीणि रूपाणि इत्य् आदौ महत्-स्रष्टृत्वेन प्रथमं
पुरुषाख्यं रूपं यच् छ्रूयते यच् च ब्रह्म-संहितादौ कारणार्णव-
शायि-सङ्कर्षणत्वेन श्रूयते । तद् एव जगृहे इति प्रतिपादितम् तस्य जगत्-
सृष्ट्य्-आदि-कर्तृत्वेन । ततोऽपि परत्रैश्वर्य-सम्भावनार्थम् आह षोडश-
कलं सम्पूर्ण-सर्व-शक्ति-युक्तम् इत्य् अर्थः । पूर्णत्वं चात्रापेक्षिकं
स्वरूप-शक्ति-निधिर् अपि स्वसान्निध्येन माया-वृत्तिभिर् जगत्-सृष्ट्य्-आदि-कर्ता
भगवद्-अंशी स्वरूप-शक्त्य्-एक-विलासवान् इत्य् अभिहितम् ।
[2]
तद् एवं सामान्यतो भगवत्-परमात्मानौ निरूप्य परमात्मानं तावद्
अनेकैः स्थान-कर्म-स्वरूपाकार-विशेषैर् निर्धारयति त्रिभिः -
यस्याम्भसि शयानस्य योग-निद्रां वितन्वतः ।
नाभि-ह्रदाम्बुजाद् आसीद् ब्रह्मा विश्व-सृजां पतिः ॥ [भ्प् 1.3.2]
यस्य पौरुष-रूपस्याम्भसि प्रलय-कालीन-गर्भोदके शयानस्य सतः ।
[थे वृ. एदितिओन् दिffएर्स् बेत्wएएन् आदौ अन्द् शयानस्य सतः: यः श्री-भगवान्
पूर्ण-षड्-ऐश्वर्यत्वेन पूर्वं निर्दिष्टः । स एव पौरुषं रूपं
पुरुषत्वेनाम्न्यायते । यद् रूपं तद् एवादौ सर्गारम्भे जगृहे । प्राकृत-
प्रलयेष्व् अस्मिन् लीनं सत् प्रकटतया स्वीकृतवान् । किम् अर्थम् ? तत्राह -
लोक-सिसृक्षया । तस्मिन्न् एव लीनानां लोकानां समष्टि-व्यष्टि-जीवानां
सिसृक्षया प्रादुर्भावनार्थम् इत्य् अर्थः ।
कीदृशं सत् ? तद्-रूपं लीनम् आसीत् तत्राह - महद्-आदिभिः सम्भूतं
मिलितम् अन्तर्भूत-महद्-आदि-तत्त्वम् इत्य् अर्थः । सम्भूयाम्भोधिम्
अभ्येति महान् अद्या नगापागेति [शिश्व् 2.100] इति सम्भवतिर् मिलनार्थः ।
तत्र हि महद्-आदीनि लीनान्य् आसन्न् इति ।
तद् एवं विष्णोस् तु त्रीणि रूपाणि इत्य् आदौ महत्-स्रष्टृत्वेन प्रथमं
पुरुषाख्यं रूपं यच् छ्रूयते यच् च ब्रह्म-संहितादौ कारणार्णव-
शायि-सङ्कर्षणत्वेन श्रूयते । तद् एव जगृहे इति प्रतिपादितम् । पुनः
कीदृशं तद् रूपम् ? तत्राह षोडश-कलं तत्-सृष्ट्य्-उपयोगि-पूर्ण-शक्तीत्य्
अर्थः । तद् एवं यस् तद्-रूपं जगृहे स भगवान् । यत् तु तेन गृहीतं तत् तु
स्व-सृज्यानाम् आश्रयत्वात् परमात्मेति पर्यवसितम् । तस्य पुरुष-रूपस्य
विसर्ग-निदानत्वम् अपि प्रतिपादयितुम् आह सार्धेन --
यस्याम्भसि शयानस्य योग-निद्रां वितन्वतः ।
नाभि-ह्रदाम्बुजाद् आसीद् ब्रह्मा विश्व-सृजां पतिः ।
यस्यावयव-संस्थानैः कल्पितो लोक-विस्तरः ॥ [भ्प् 1.3.3]
यस्य पौरुष-रूपस्य द्वितीयेन व्यूहेन ब्रह्माण्डं प्रविश्य अम्भसि
गर्भोदके शयानस्येत्य् आदि योज्यम् । यस्य च तादृशत्वेन तत्र शयानस्य

अवयव-संस्थानैः साक्षाच्-छ्री-चरणादि-सन्निवेशे लोकस्य विस्तारो विराड्-
आकारः प्रपञ्चः कल्पितः । यथा तद्-अवयव-सन्निवेशास् तथैव पातालम्
एतस्य हि पाद-मूलम् [भ्प् 2.1.26] इत्य् आदिना नवीनोपासकान् प्रति मनः-
स्थैर्याय प्रख्यापितः । न तु वस्तुतस् तद् एव यस्य रूपम् इत्य् अर्थः । यद्
वा चन्द्रमा मनसो जातः इत्य् आरभ्य पद्भ्यां भूमिर् दिशः श्रोत्रात् तथा
लोकान् अकल्पयत् इति श्रुतेस् [ऋक् 10.90.13-14] तैर् हेतु-भूतैर् लोक-विस्तारो रचित
इत्य् अर्थः । [एन्द् वृ. रेअदिन्ग्.]
तथा च भारते मोक्ष-धर्म-नारायणीये -
अस्मन् मूर्तिश् चतुर्थी या सासृजच् छेषम् अव्ययम् ।
स हि संकर्षणः प्रोक्तः प्रद्युम्नं सो ऽप्य् अजीजनत् ॥
प्रद्युम्नाद् अनिरुद्धो ऽहं सर्गो मम पुनः पुनः ।
अनिरुद्धात् तथा ब्रह्मा तत्रादि कमलोद्भवः ॥
ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च ॥ [म्भ् 12.326.68-70]
तत्रैव व्यासः --
परमात्मेति यं प्राहुः सांख्ययोगविदो जनाः ।
महापुरुष संज्ञां स लभते स्वेन कर्मणा ॥
तस्मात् प्रसूतम् अव्यक्तं प्रधानं तद् विदुर् बुधाः ।
अव्यक्ताद् व्यक्तम् उत्पन्नं लोकसृष्ट्य् अर्थम् ईश्वरात् ॥
अनिरुद्धो हि लोकेषु महान् आत्मेति कथ्यते ।
यो ऽसौ व्यक्तत्वम् आपन्नो निर्ममे च पितामहम् ॥ [म्भ् 12.327.24-26] इति ।
[वृ. अद्द्स् हेरे:] तद् एवं सङ्कर्षणस्य वैभवम् उक्त्वानिरुद्धस्याप्य् आह
अनिरुद्धो हीति । लोकेषु प्रत्येकं ब्रह्माण्डेषु महान् आत्मा परमात्मा ।
व्यक्तत्वं प्राकट्यं प्रद्युम्नाद् इति शेषः । सुतेन त्व् अभेद-विवक्षया
प्रद्युम्नः पृथङ् नोक्तः विष्णोस् तु त्रीणि रूपाणि इतिवत् । सेयं प्रक्रिया
द्वितीयस्य सष्ठे दृश्यते यथा स एष आद्यः पुरुषः [भ्प् 2.9.39] इत्य् आदि-
पद्ये टीका - स एष आद्यो भगवान् यः पुरुषावतारः सन् सृष्ट्य्-आदिकं
करोति इत्य् एषा । एवम् आद्योऽवतारः पुरुषः परस्य [भ्प् 2.6.42] इत्य् अत्र टीका
परस्य भूम्नः पुरुषः प्रकृति-प्रवर्तको यस्य सहस्र-शीर्षा [ऋक् 10.90.1]
इत्य् आद्य्-उक्तो लीला-विग्रहः स आद्योऽवतारः इत्य् एषा । तथा तृतीयस्य विंशे
देवेन [भ्प् 3.20.12] इत्य् आदिकं सोऽनु इत्य् अन्तं स-टीकम् एव प्रकरणम्
अत्रानुसन्धेयम् । तस्माद् विराट्त्वेन तद्-रूपं न व्याख्यातम् । तस्माच् च
वासुदेव-स्थानीयो भगवान् पुरुषाद् अन्य एवेत्य् आयातम् ।
अथ यस्य रूप-द्वयस्य सामान्यत ऐकविध्येन स्वरूपम् आह तद् वै
भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् [भ्प् 1.3.3] इति । तत् श्री-भगवतः
पौरुषं रूपं वै प्रसिद्धौ विशुद्धोऽर्जित-सत्त्वाभिव्यक्तत्वाच् छक्ति-
स्वरूपयोर् अभेदाच् च तद्-रूपम् एवेत्य् अर्थः । उक्तं च द्वितीयं पुरुष-
व्यूहम् अधिकृत्य स्वरूपत्वं तद्-रूपस्य - नातः परं परम यद् भवतः
स्वरूपम् [भ्प् 3.9.3] इत्य् अत्र । विशुद्धं जाड्यांशेनापि रहितम्, स्वरूप-
शक्ति-वृत्तित्वात् । ऊर्जितं सर्वतो बलवत् परमानन्द-रूपत्वात् - को ह्य् एवान्यात्
कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात् [तैत्तु 2.7.1] इति श्रुतेः । तस्माच्
छाक्षाद् भगवद्-रूपे तु कैमुत्यम् एवायातम् । तद् एवं पुरुषस्य द्विधा
स्थान-कर्मणी उक्त्वा स्वरूपवद् आकारं त्व् एक-प्रकारम् आह पश्यन्त्य् अदो
[सेए पर. 4] [एन्द् ओf वृ. अद्दितिओन्.]
ततोऽत्रावान्तर-भेदेऽप्य् अभेद-स्वीकारेण द्वि-व्यूहोक्तिर् इत्य् एव विशेष इति
वासुदेव-स्थानीयो भगवांस् तस्माद् अन्य एवेत्य् आयातम् । एवम् एकादशे च -
- [पगे 4]
भूतैर् यदा पञ्चभिर् आत्म-सृष्टैः
पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधानम्
अवाप नारायण आदि-देवः ॥ [भ्प् 11.4.3]
इत्य् अत्र तैर् एव व्याख्यातम् । आदौ पुरुषावतारम् आह - भूतैर् इति । यदा
स्व-सृष्टैः भूतैः विराजं ब्रह्माण्डं पुरं निर्माय तस्मिन् लीलया
प्रविष्टः, न तु भोक्तृत्वेन । प्रभूत-पुण्यस्य जीवस्य तत्र भोक्तृत्वाद् इत्य्
एवम् अस्योत्तरत्र श्लोक-द्वयेऽप्य् एवम् एवार्थो दृश्यते । तथा द्वितीयस्य
षष्ठे स एष आद्यः पुरुषः [भ्प् 2.6.39] इत्य् आदि-पद्ये च टीका - स एष आद्यो
भगवान् यः पुरुषावतारः सन् सृष्ट्य्-आदिकं करोति इत्य् एषा । एवम्
आद्योऽवतारः पुरुषः परस्य [भ्प् 2.6.42] इत्य् अस्य टीका च दर्शितैव । तथा
तृतीयस्य विंशे दैवेन [भ्प् 3.20.12] इत्य् आदिकं सोऽनु [भ्प् 3.20.17] इत्य् अन्तम्
स-टीकम् एव प्रकरणम् अत्रानुसन्धेयम् । तस्माद् विराट्त्वेन तद्-रूपं
न व्याख्यातम् । अत्र महत्-स्रष्टृ-ब्रह्माण्ड-प्रविष्ट-पुरुषयोर्
अभेदेनैवोक्तिः ।
[3]
अथ तटस्थ-स्वरूप-लक्षणाभ्यां तद् एव विशिनष्टि -
यस्यावयव-संस्थानैः कल्पितो लोक-विस्तरः ।
तद् वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् ॥ [भ्प् 1.3.3]
अवयव-संस्थानैः साक्षाच्-छ्री-चरणादि-सन्निवेशैर् लोक-विस्तरो विराड्-
आकारः प्रपञ्चः कल्पितः । यथा तद्-अवयव-सन्निवेशास् तथैव पातालम्
एतस्य हि पाद-मूलम् [भ्प् 2.1.26] इत्य् आदिना नवीनोपासकान् प्रति मनः-
स्थैर्याय प्रख्यापितः । न तु वस्तुतस् तद् एव तस्याङ्गम् इत्य् अर्थः । तच्
छ्री-भगवतः पौरुषं रूपं । वै प्रसिद्धौ । विशुद्धोर्ज्जित-
सत्त्वाभिव्यक्तत्वाच् छक्ति-स्वरूपयोर् अभेदाच् च तद्-रूपम् एवेत्य् अर्थः ।
उक्तं च स्वरूपत्वं तद्-रूपस्य नातः परं परम यद् भवतः स्वरूपम्
[भ्प् 3.9.3] इत्य् अत्र । विशुद्धं जाड्यांशेनापि रहितं स्वरूप-शक्ति-वृत्तित्वात् ।
ऊर्जितं सर्वतो बलवत् परमानन्द-रूपत्वात् । को ह्य् एवान्यात् कः प्राण्यात्
यद् एष आकाश आनन्दो न स्याद् [तैत्तु 2.7.1] इति श्रुतेः ।
[4]
तद् एवं स्थान-कर्म-स्वरूपाण्य् अभिधाय आकारम् अप्य् आह --
पश्यन्त्य् अदो रूपम् अदभ्र-चक्षुषा
सहस्र-पादोरु-भुजाननाद्भुतम् ।
सहस्र-मूर्ध-श्रवणाक्षि-नासिकं
सहस्र-मौल्य्-अम्बर-कुण्डलोल्लसत् ॥ [भ्प् 1.3.4]
(पगे 5)
अदः पौरुष-रूपम् अदभ्र-चक्षुषा भक्त्य्-आख्येन । पुरुषः स परः
पार्थ भक्त्या लभ्यस् त्व् अनन्यया [गीता 8.22] इत्य् उक्तेः । अस्य सहस्र-
पादादित्वं च व्यञ्जितं तृतीयस्याष्टमे श्री-मैत्रेयेण - वेणु-
भुजाङ्घ्रिपाङ्घेः [भ्प् 3.8.24] इति, दोर्-दण्ड-सहस्र-शाखम् [भ्प् 3.8.29]
इति, किरीट-साहस्र-हिरण्य-शृङ्गम् [भ्प् 3.8.30] इति च । तथा नवमस्य
चतुर्दशे श्री-शुकेन -
सहस्र-शिरसः पुंसो नाभि-ह्रद-सरोरुहात् ।
जातस्यासीत् सुतो धातुर् अत्रिः पितृ-समो गुणैः ॥ [भ्प् 9.14.2] इति ।
[5]
तस्य पूर्णत्वम् एव विवृणोति -
[ब्. रेअद्स् हेरे: तत्र श्री-भगवन्तं सुष्ठु स्पष्टीकर्तुं गर्भोदक-
स्थस्य द्वितीयस्य पुरुषस्य व्यूहस्य नानावतारित्वं विवृणोति -- [एन्द् वृ.
रेअदिन्ग्.]
एतन् नानावताराणां निधानं बीजम् अव्ययम् ।
यस्यांशांशेन सृज्यन्ते देव-तिर्यङ्-नरादयः ॥ [भ्प् 1.3.5]
एतद् इति ब्रह्माण्डस्थम् । निधानं सरोवराणां समुद्र इव स्व-राश्मीन्
सूर्य इव सदैवाश्रयः । अतएवाव्ययम् अनपक्षयम् । बीजम् उद्गम-
स्थानम् । न केवलम् अवताराणां बीजं जगतोऽपीत्य् आह यस्येति ।
[6]
अथ प्राचुर्येण तद्-अवतारान् कथयंस् तद्-ऐक्य-विवक्षया तद्-अंशांशिनोर्

अप्य् अविर्भाव-मात्रं गणयति विंशत्या -
स एव प्रथमं देवः कौमारं सर्गम् आश्रितः ।
चचार दुश्चरं ब्रह्मा ब्रह्मचर्यम् अखण्डितम् ॥ [भ्प् 1.3.6]
योऽम्भसि शयानो यश् च सहस्र-पादादि-रूपः स एव पुरुषाख्यो देवः । एते
चांश-कलाः पुंसः [भ्प् 1.3.28] इत्य् उपसंहारस्यापि संवादात् । कौमारं
चतुःसन-रूपम् । ब्रह्मा ब्रह्मणो भूत्वा ।
[7]
द्वितीयं तु भवायास्य रसातल-गतां महीम् ।
उद्धरिष्यन्न् उपादत्त यज्ञेशः सौकरं वपुः ॥ [भ्प् 1.3.7]
अस्य विश्वस्य उद्भवाय ।
[8]
तृतीयम् ऋषि-सर्गं वै देवर्षित्वम् उपेत्य सः ।
तन्त्रं सात्वतम् आचष्ट नैष्कर्म्यं कर्मणां यतः ॥ [भ्प् 1.3.8]
ऋषि-सर्गम् उपेत्य तत्रापि देवर्षित्वं नारदत्वम् उपेत्य । सात्वतं
वैष्णवम् । तन्त्रं पञ्चरात्रागमम् । कर्मणा कर्माकारेणापि सतां श्री-
भगवद्-धर्माणां यतस् तन्त्रान् नैष्कर्म्यं कर्म-बन्ध-मोचकत्वेन
कर्मभ्यो निर्गतत्वं तेभ्यो भिन्नत्वं प्रतीयते इति शेषः ।
[9]
तुर्ये धर्म-कला-सर्गे नर-नारायणाव् ऋषी ।
भूत्वात्मोपशमोपेतम् अकरोद् दुश्चरं तपः ॥ [भ्प् 1.3.9]
स्पष्टम् ।
[10]
पञ्चमः कपिलो नाम सिद्धेशः काल-विप्लुतम् ।
प्रोवाचासुरये साङ्ख्यं तत्त्व-ग्राम-विनिर्णयम् ॥ [भ्प् 1.3.10]
आसुरि-नाम्ने विप्राय ।
[11]
षष्ठम् अत्रेर् अपत्यत्वं वृतः प्राप्तो ऽनसूयया ।
आन्वीक्षिकीम् अलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ [भ्प् 1.3.11]
अत्रिणा तत्-सदृश-पुत्रोत्पत्ति-मात्रं प्रकटं याचितम् इति चतुर्थाद्य्-
अभिप्रायः । एतद्-वाक्येनानसूयया तु कदाचित् साक्षाद् एव श्रीमद्-
ईश्वरस्यैव पुत्र-भावो वृतोऽस्तीति लभ्यते । उक्तं च ब्रह्माण्ड-पुराणे
पतिव्रतोपाख्याने -
अनसूयाब्रवीन् नत्वा देवान् ब्रह्मेश-केशवान् । (पगे 6)
यूयं यदि प्रसन्ना मे वरार्हा यदि वाप्य् अहम् ।
प्रसादाभिमुखो भूत्वा मम पुत्रत्वम् एष्यथ ॥ इति ।
आन्वीक्षिकीम् आत्म-विद्याम् । श्री-विष्णोर् एवावतारोऽयम् ।
[12]
ततः सप्तम आकूत्यां रुचेर् यज्ञो ऽभ्यजायत ।
स यामाद्यैः सुर-गणैर् अपात् स्वायम्भुवान्तरम् ॥ [भ्प् 1.3.12]
स यज्ञस् तदा स्वयम् इन्द्रोऽभूद् इत्य् अर्थः ।
[13]
अष्टमे मेरुदेव्यां तु नाभेर् जात उरुक्रमः ।
दर्शयन् वर्त्म धीराणां सर्वाश्रम-नमस्कृतम् ॥ [भ्प् 1.3.13]
उरुक्रम ऋषभो जातः ।
[14]
ऋषिभिर् याचितो भेजे नवमं पार्थिवं वपुः ।
दुग्धेमाम् ओषधीर् विप्रास् तेनायं स उशत्तमः ॥ [भ्प् 1.3.14]
पार्थिवं राज-देहं पृथु-रूपम् । उशत्तमः कमनीयतमः ॥
[15]
रूपं स जगृहे मात्स्यं चाक्षुषोदधि-सम्प्लवे ।
नाव्य् आरोप्य मही-मय्याम् अपाद् वैवस्वतं मनुम् ॥ [भ्प् 1.3.15]
चाक्षुष-मन्वन्तरे य उदधि-सम्प्लवस् तस्मिन् । वैवस्वतम् इति भाविनी
संज्ञा सत्यव्रतस्य । प्रतिमन्वन्तरावसानेऽपि प्रलयः श्रूयते । श्री-विष्णु-
धर्मोत्तरे प्रथम-काण्डे - मन्वन्तरे परिक्षीणे कीदृशी द्विज जायते
[1.75.1] इति श्री-वज्र-प्रश्नस्य मन्वन्तरे परिक्षीणे इत्य् आदि मार्कण्डेय-
दत्तोत्तरे -
ऊर्मि-माली महा-वेगः सर्वम् आवृत्य तिष्ठति ।
भूर्लोकम् आश्रितं सर्वं तदा नश्यति यादव ॥
न विनश्यन्ति राजेन्द्र विश्रुताः कुल-पर्वताः ।
नौर् भूत्वा तु महा-देवी इत्य् आदि च । [1.75.5-6, 9]
एवम् एव मन्वन्तरेषु संहार इत्य् आदि प्रकरणं श्री-हरि-वंशे तदीय-
टीकासु च स्पष्टम् एव । अतश् चाक्षुषे वैवस्वतम् इत्य् उपलक्षणम् ।
[16]
सुरासुराणाम् उदधिं मथ्नतां मन्दराचलम् ।
दध्रे कमठ-रूपेण पृष्ठ एकादशे विभुः ॥ [भ्प् 1.3.16]
स्पष्टम् ।
[17]
धान्वन्तरं द्वादशमं त्रयोदशमम् एव च ।
अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया ॥ [भ्प् 1.3.17]
बिभ्रद् इत्य् उत्तरेणान्वयः । द्वादशमं धान्वन्तरं रूपं बिभ्रत् ।
त्रयोदशं मोहिनी-रूपं बिभ्रत् । सुरान् अपाययत् सुधाम् इति शेषः । केन
रूपेण ? मोहिन्या स्त्रिया तद्-रूपेणेत्य् अर्थः । किं कुर्वन् ? अन्यान् सुरान्
मोहयन्, धन्वन्तरि-रूपेण सुधां चोपहरन्न् इति शेषः । अजितस्यावतारा
एते त्रयः ।
[18]
चतुर्दशं नारसिंहं बिभ्रद् दैत्येन्द्रम् ऊर्जितम् ।
ददार करजैर् ऊराव् एरकां कट-कृद् यथा ॥ [भ्प् 1.3.18]
नारसिंहं रूपं बिभ्रत् ।
[19]
पञ्चदशं वामनकं कृत्वागाद् अध्वरं बलेः ।
पद-त्रयं याचमानः प्रत्यादित्सुस् त्रि-पिष्टपम् ॥ [भ्प् 1.3.19]
कृत्वा प्रकटय्य ।
[20]
अवतारे षोडशमे पश्यन् ब्रह्म-द्रुहो नृपान् ।
त्रिः-सप्त-कृत्वः कुपितो निः-क्षत्राम् अकरोन् महीम् ॥ [भ्प् 1.3.20]
अवतारे श्री-परशुरामाभिधे । स्पष्टम् ।
[21]
ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।
चक्रे वेद-तरोः शाखा दृष्ट्वा पुंसो ऽल्प-मेधसः ॥ [भ्प् 1.3.21]
[22]
नर-देवत्वम् आपन्नः सुर-कार्य-चिकीर्षया ।
समुद्र-निग्रहादीनि चक्रे वीर्याण्य् अतः परम् ॥ [भ्प् 1.3.22]
नरदेवत्वं श्री-राघव-रूपेण । अतः परम् अष्टादशे । अयं साक्षात्
पुरुष एव । स्कान्दे श्री-राम-गीतायां विश्व-रूपं दर्शयतस् तस्य ब्रह्म-
विष्णु-रुद्र-कृत-स्तुतेः श्रवणात् । (पगे 7)
[23]
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।
राम-कृष्णाव् इति भुवो भगवान् अहरद् भरम् ॥ [भ्प् 1.3.23]
भगवान् इति साक्षाद् भगवत एवाविर्भावोऽयं न तु पुरुष-
संज्ञस्यानिरुद्धस्येति विशेष-प्रतिपत्त्य्-अर्थम् । तत्र तस्य साक्षाद्-रूपत्वात्
श्री-कृष्ण-रूपेण निजांश-रूपत्वाद् राम-रूपेणापि भारहारित्वं भगवत
एवेत्य् उभयत्रापि भगवान् अहरद् भरम् इति श्लिष्टम् एव । अतो रामस्याप्य्
अनिरुद्धावतारत्वं स्वयं प्रत्याख्यातम् । श्री-कृष्णस्य वासुदेवत्वाच्
छ्री-रामस्य च सङ्कर्षणत्वाद् युक्तम् एव च तद् इति ।
[24]
ततः कलौ सम्प्रवृत्ते सम्मोहाय सुर-द्विषाम् ।
बुद्धो नाम्नाञ्जन-सुतः कीकटेषु भविष्यति ॥ [भ्प् 1.3.24]
कीकटेषु गया-प्रदेशेषु ।
[25]
अथासौ युग-सन्ध्यायां दस्यु-प्रायेषु राजसु ।
जनिता विष्णु-यशसो नाम्ना कल्किर् जगत्-पतिः ॥ [भ्प् 1.3.25]
युग-सन्ध्यायां कलेर् अन्ते ।
[26]
अथ श्री-हयग्रीव-हरि-हंस-पृश्निगर्भ-विभु-सत्यसेन-वैकुण्ठाजित-
सार्वभौम-विश्वक्सेन-धर्मसेतु-सुधाम-योगेश्वर-बृहद्भान्व्-
आदीनां शुक्लादीनां चानुक्तानां सङ्ग्रहार्थम् आह -
अवतारा ह्य् असङ्ख्येया हरेः सत्त्व-निधेर् द्विजाः ।
यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ [भ्प् 1.3.26]
असङ्ख्येयत्वे हेतुः सत्त्व-निधेः सत्त्वस्य तत्-प्रादुर्भाव-शक्तेः सेवधि-
रूपस्य । तत्रैव दृष्टान्तः यथेति । अविदासिन उपक्षय-शून्यात् सरसः
सकाशात् । [वृ. अद्द्स्: कुल्यास् तत्-स्वभाव-कृता निर्झरा अविदासिन्यः सहस्रशः
सम्भवन्तीति । वृ. अद्दितिओन् एन्द्स्.] अत्र येऽंशावतारास् तेषु चैष विशेषो
ज्ञेयः । श्री-कुमार-नारदादिष्व् आधिकारिकेषु ज्ञान-भक्ति-
शक्त्यांशावेशः । श्री-पृथ्व्-आदिषु क्रिया-शक्त्य्-अंशावेशः । क्वचित् स्वयम्
आवेशस् तेषां भगवान् एवाहम् इति वचनात् । अथ श्री-मत्स्य-देवादिषु
साक्षाद्-अंशत्वम् एव । तत्र चांशत्वं नाम साक्षाद्-भगवत्त्वेऽप्य्

अव्यभिचारि-तादृश-तद्-इच्छा-वशात् सर्वदैक-देशतयैवाभिव्यक्त-शक्त्य्-
आदिकत्वम् इति ज्ञेयम् । तह्तैवोदाहरिष्यते रामादि-मूर्तिषु कला-नियमेन
तिष्ठन् [ब्रह्मस् 5.50] इति ।
[27]
अथ विभूतीर् आह -
ऋषयो मनवो देवा मनु-पुत्रा महौजसः ।
कलाः सर्वे हरेर् एव सप्रजापतयः स्मृताः ॥ [भ्प् 1.3.27]
कला विभूतयः । अल्प-शक्तेः प्रकाशाद् विभूतित्वं महा-शक्तेस् त्व्
आवेशत्वम् इति भेदः ।
[28]
तद् एवं परमात्मानं साङ्गम् एव निर्धार्यं प्रोक्तानुवाद-पूर्वकं
श्री-भगवन्तम् अप्य् आकारेण निर्धारयति -
एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् । इति [भ्प् 1.3.28]
(पगे 8)
एते पूर्वोक्ताः । च-शब्दाद् अनुक्ताश् च प्रथमम् उद्दिष्टस्य पुंसः
पुरुषस्यांश-कलाः । केचिद् अंशाः स्वयम् एवांशाः साक्षाद्-
अंशत्वेनांशांशत्वेन च द्विविधाः । केचिद् अंशाविष्टत्वाद् अंशाः, केचित् तु
कला-विभूतयः । इह यो विंशतितमावतारत्वेन कथितः स कृष्णस् तु
भगवान् । पुरुषस्याप्य् अवतारी यो भगवान् स एष एवेत्य् अर्थः । अत्र
अनुवादम् अनुक्त्वैव न विधेयम् उदीरयेद् इति वचनात् कृष्णस्यैव
भगवत्त्व-लक्षण-धर्मित्वे सिद्धे मूलावतारित्वम् एव सिध्यति न तु ततः
प्रादुर्भूतत्वम् । एतद् एव व्यनक्ति स्वयम् इति । तत्र च स्वयम् एव
भगवान्, न तु भगवतः प्रादुर्भूततया न तु वा भगवत्त्वाध्यासेनेत्य्
अर्थः । न चावतार-प्रकरणेऽपि पठित इति संशयः । पौर्वापर्ये पूर्व-
दौर्बल्यं प्रकृतिवद् इति न्यायात् । यथाग्निष्टोमे यद्य् उद्गाता विच्छिद्याद्
अदक्षिणेन यजेत यदि प्रतिहर्ता सर्वस्व-दक्षिणेनेति श्रुतेः । तयोश् च
कदाचिद् द्वयोर् अपि विच्छेदे प्राप्ते विरुद्धयोः प्रायश्चित्तयोः
समुच्चयासम्भवे च परम् एव प्रायश्चित्तं सिद्धान्तितं तद्वद् इहापि इति ।
अथवा कृष्णस् त्व् इति श्रुत्या प्रकरणस्य बाधात् । यथा शङ्कर-शारीरिके
भाष्ये श्रुत्य्-आदि-बलीयस्त्वाच् च न बाधः [व्स् 3.3.50] इति सूत्रे, ते हैते
विद्याचित एव इति श्रुतिर् मनश् चिद्-आदीनाम् अग्नीनां प्रकरण-प्राप्तं
क्रियानुप्रवेश-प्रकरणेऽप्य् अन्यत्र क्वचिद् अपि भगवच्-छब्दम् अकृत्वा
तत्रैव भगवान् अहरद् भरम् [भ्प् 1.3.23] इत्य् अनेन कृतवान् ।
ततश् चास्यावतारेषु गणनात् तु स्वयं भगवान् अप्य् असौ स्वरूप-स्थ एव
निज-परिजन-वृन्दानाम् आनन्द-विशेष-चमत्काराय किम् अपि माधुर्यं
निज-जन्मादि-लीलया पुष्णन् कदाचित् सकल-लोक-दृश्यो भवतीत्य्
अपेक्षयैवेत्य् आयातम् । यथोक्तं ब्रह्म-संहितायाम् -
रामादि-मूर्तिषु कला-नियमेन तिष्ठन्
नानावतारम् अकरोद् भुवनेषु किन्तु ।
कृष्णः स्वयं समभवत् परमः पुमान् यो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्स् 5.39]
अवताराश् च प्राकृत-वैभवेऽवतरणम् इति । श्री-कृष्ण-साहचर्येण श्री-
रामस्यापि पुरुषांशत्वात्ययो ज्ञेयः । अत्र तु-शब्दोऽंश-कलाभ्यः पुंसश्
च सकाशाद् भगवतो वैलक्षण्यं बोधयति । यद् वानेन तु-शब्देन
सावधारणा श्रुतिर् इयं प्रतीयते । ततः सावधारणा श्रुतिर् बलवतीति
न्यायेन श्रुत्यैव श्रुतम् अप्य् अन्येषां महा-नारायणादीनां स्वयं
भगवत्त्वं गुणीभूतम् आपद्यते ।
एवं पुंस इति भगवान् इति च प्रथमम् उपक्रमोद्दिष्टस्य शब्द-द्वयस्य
तत्-सहोदरेण तेनैव शब्देन च प्रतिनिर्देशात् ताव् एव खल्व् एताव् इति
स्मारयति । उद्देश-प्रतिनिर्देशयोः प्रतीति-(पगे 9)-स्थगितता-निरसनाय
विद्वद्भिर् एक एव शब्दः प्रयुज्यते तत्-सम-वर्णो वा । यथा
ज्योतिष्टोमाधिकरणे वसन्ते वसन्ते च ज्योतिषा यजेत इत्य् अत्र ज्योतिः-शब्दो
ज्योतिष्ठोम-विषयो भवतीति ।
अत्र तत्त्व-वाद-गुरवस् तु च-शब्द-स्थाने स्व-शब्दं पठित्वैवम् आचक्षते
- एते प्रोक्ता अवताराः । मूल-रूपी स्वयम् एव । किं-स्वरूपा ? स्वांश-कला न
तु जीववद् भिन्नांशाः । यथा वाराहे -
स्वांशश् चाथ विभिन्नांश इति द्वेधांश इष्यते ।
अंशिनो यत् तु सामर्थ्यं यत् स्वरूपं यथा स्थितिः ॥
तद् एव नाणुमात्रोऽपि भेदः स्वांशांशिनोः क्वचित् ।
विभिन्नांशोऽल्प-शक्तिः स्यात् किञ्चित् सामर्थ्य-मात्र-युक् ॥ इति ।
अत्रोच्यते - अंशानाम् अंशि-सामर्थ्यादिकं तद्-ऐक्येनैव मन्तव्यम् । तत्र
यथाविदासिन इत्य् आदौ तस्याक्षयत्वेन तासाम् अक्षयत्वं यथा तद्वत्
अंशांशित्वानुपपत्तेर् एव । तथा च श्री-वासुदेवानिरुद्धयोः सर्वथा
साम्ये प्रसक्ते कदाचिद् अनिरुद्धेनापि श्री-वासुदेवस्याविर्भावना
प्रसज्यते । तच् च श्रुति-विपरीतम् इत्य् असद् एव । तस्माद् अस्त्य् एवावतार्य्-
अवतारयोस् तारतम्यम् । अतएव तृतीयाष्टमे -
आसीनम् उर्व्यां भगवन्तम् आद्यं
सङ्कर्षणं देवम् अकुण्ठ-सत्त्वम् ।
विवित्सवस् तत्त्वम् अतः परस्य
कुमार-मुख्या मुनयो ऽन्वपृच्छन् ॥
स्वम् एव धिष्ण्यं बहु मानयन्तं ।
यद् वासुदेवाभिधम् आमनन्ति । [भ्प् 3.8.3-4]
इत्य् आदौ वासुदेवस्य सङ्कर्षणाद् अपि परत्वं श्रूयते । यत् तु तेषां तथा
व्याख्यानम् अत्र कृष्णस् त्व् इत्य् अनर्थकं स्यात् । भगवान् स्वयम् इत्य्
अनेनैवाभिप्रेत-सिद्धेः । किं च तैः स्वयम् एव प्रकाशादिवन् नैव परः
[व्स् 2.3.45] इति सूत्रे स्फुटम् अंशांशि-भेदो दर्शितः । अंशत्वेऽपि न मत्स्यादि-
रूपी पर एवंविधो जीव-सदृशः । यथा तेजोऽंशस्यैव सूर्यस्य खद्योतस्य
च नैक-प्रकारतेत्य् आदिना । तस्मात् स्थिते भेदे साध्व् एव व्याख्यातं
कृष्णस् तु भगवान् स्वयम् इति ।
इन्द्रारीति पद्यार्धं तत्र नान्वेति । तु-शब्देन वाक्यस्य भेदनात् । तच् च
तावतैवाकाङ्क्षा-परिपूर्तेः । एक-वाक्यत्वे तु च-शब्द एवाकरिष्यत् । ततश्
चेन्द्रारीत्य् अत्रार्थात् त एव पूर्वोक्ता एव मृडयन्तीत्य् आयाति ।
॥ 1.3 ॥ श्री-सूतः ॥ 2-28 ॥
[29]
तद् एवं श्री-कृष्णो भगवान् पुरुषस् तु सर्वान्तर्यामित्वात् परमात्मेति
निर्धारितम् । तत्राशङ्क्यते - नन्व् इदम् एकम् अंशित्व-प्रतिपादकं वाक्यम्
अंशत्व-प्रतिपादक-बहु-वाक्य-विरोधे गुण-वादः स्यात् । अत्रोच्यते तानि किं
श्री-भागवतीयानि परकीयाणि वा । आद्ये जन्म-गुह्याध्यायो ह्य् अयं सर्व-
भगवद्-अवतार-वाक्यानां सूत्रं सूचकत्वात् प्राथमिक-पाठात् तैर्
उत्तरत्र तस्यैव विवरणाच् च । तत्र चैते चांश-कलाः पुंस इति परिभाषेति ।
अवतार-वाक्येषु अन्यान् पुरुषांशत्वेन जानीयात् । कृष्णस् तु स्वयं
भगवत्त्वेनेति प्रतिज्ञाकारेण ग्रन्थार्थ-निर्णायकत्वात् । तद् उक्तं -
अनियमे नियम-कारिणी परिभाषा इति ।
अथ परिभाषा च सकृद् एव पठ्यते शास्त्रे न त्व् अभ्यासेन । [वृ. अद्द्स्:
यथा प्रतिषेधे परं कार्यम् इति ।] ततश् च वाक्यानां कोटिर् अप्य्
एकेनैवामुना शासनीया भवेद् इति नास्य गुणवादत्वं प्रत्युतैतद्
विरुद्धायमानानाम् एतद् अनुगुणार्थम् एव वैदुषी । न च
परिभाषिकत्वात् तच्-छास्त्र एव स व्यवहारो ज्ञेयः । न सर्वत्रेति गौणत्वम्
आशङ्क्यम् । परमार्थ-वस्तु-परत्वाच् छ्री-भागवतस्य (पगे 10) तत्राप्य्
आर्थिकत्वाच् च तस्याः परिभाषायाः ।
किं च - प्रतिज्ञा-वाक्य-मात्रस्य च दृश्यते परत्रापि नाना-

वाक्यान्तरोपमर्दकत्वम् । यथाकाशस्यानुत्पत्ति-श्रुतिः प्राणानां च तच्-
छ्रुतिः स्व-विरोधिनी नान्या श्रुतिश् च आत्मनि विज्ञाते सर्वम् इदं विज्ञातं
भवति [बौ 4.5.6] इदं सर्वं यद् अयम् आत्मा [बौ 2.4.6] इत्य्
आदिनोपमर्द्यते । अतएव स्वामि-प्रभृतिभिर् अप्य् एतद् एव वाक्यं तत्-तद्-
विरोध-निरासाय भूयो भूय एव दर्शितम् ।
तद् एवं श्री-भागवत-मते सिद्धे च तस्य वाक्यस्य बलवत्तमत्वे श्री-
भागवतस्य सर्व-शास्त्रोपमर्दकत्वेन प्रथमे सन्दर्भे प्रतिपन्नत्वात्
अस्मिन्न् एव प्रतिपत्स्यमानत्वाच् च परकीयाणाम् अप्य् एतद् आनुगुण्यम् एव
विद्वज्-जन-दृष्टम् । यथा राज्ञः शासनं तथैव हि तद्-अनुचराणाम् अपीति ।
तत्र श्री-भागवतीयानि वाक्यानि तद्-अनुगतार्थतया दर्श्यन्ते ।
तत्रांशेनावतीर्णस्य [भ्प् 10.1.2] इत्य् अंशेन बलदेवेन सह इत्य् अर्थः ।
कलाभ्यां नितरां हरेः [भ्प् 10.20.48] इति हरेः कला पृथ्वी, आभ्यां राम-
कृष्णाभ्याम् इति ।
दिष्ट्याम्ब ते कुक्षि-गतः परः पुमान्
अंशेन साक्षाद् भगवान् भवाय नः ॥ [भ्प् 10.2.41]
इत्य् अत्र यो मत्स्यादि-रूपेणांशेनैव पूर्वं नोऽस्माकं भवायाभूत् हे अम्ब
स तु साक्षात् स्वयम् एव तव कुक्षि-गतोऽस्तीति । ततो जगन्-मङ्गलम्
अच्युतांशम् [भ्प् 10.2.18] इति तु सप्तम्य्-अन्य-पदार्थो बहुव्रीहिः । तस्मिन्न्
अंशिन्य् अवतरति तेषाम् अंशानाम् अप्य् अत्र प्रवेशस्य व्याख्यास्यमानत्वात् ।
पूर्णत्वेनैव तत्र सर्वात्मकम् आत्म-भूतम् इत्य् उक्तम् । तथा च
नातिविद्वज्-जन-वाक्ये -
एतौ भगवतः साक्षाद् धरेर् नारायणस्य हि ।
अवतीर्णाव् इहांशेन वसुदेवस्य वेश्मनि ॥ [भ्प् 10.43.23]
इत्य् अत्रापि सरस्वती-प्रेरिततया अंशेन सर्वांशेन सहैवेत्य् अर्थः । एवम् एव
ताव् इमौ वै भगवतो हरेर् अंशाव् इहागतौ ।
भार-व्ययाय च भुवः कृष्णौ यदु-कुरूद्वहौ ॥ [भ्प् 4.1.59]
इत्य् अत्र आगताव् इति कर्तरि निष्ठा । कृष्णाव् इति कर्मणि द्वितीया । ततश् च
भगवतो नानावतार-बीजस्य हरेः पुरुषस्य ताव् इमौ नर-नारायणाख्यौ
अंशौ कर्तृ-भूतौ कृष्णौ कृष्णार्जुनौ कर्म-भूताव् आगतवन्तौ तयोः
प्रविष्टवन्ताव् इत्य् अर्थः । कीदृशौ कृष्णौ ? भुवो भार-व्ययाय । च-
काराद् भक्त-सुखद-नाना-लीलान्तराय च । यदु-कुरूद्वहौ यदु-कुरु-
वंशयोर् अवतीर्णाव् इत्य् अर्थः । अर्जुने तु नरावेशः कृष्णो नारायणः स्वयम्
इत्य् आगम-वाक्यं श्रीमद्-अर्जुने नर-प्रवेशापेक्षया । यस् तु स्वयम्
अनन्य-सिद्धो नारायणो नारायणस् त्वं न हि सर्व-देहिनाम् [भ्प् 10.14.14]
इत्य् आदिना दर्शितः । स पुनः कृष्ण इत्य् अर्थान्तरापेक्षया मन्तव्यम् । ययोर्
एव समं वीपर्यम् [भ्प् 10.60.15] इत्य् आदि न्यायात् । तथा विष्णु-धर्मे --
यस् त्वां वेत्ति स मां वेत्ति यस् त्वाम् अनु स माम् अनु ।
अभेदेनात्मनो वेद्मि त्वाम् अहं पाण्डु-नन्दन ॥ इति ।
तं प्रति श्री-भगवद्-वाक्याच् चार्जुनस्यापि श्री-कृष्ण-सखत्वेन नारायण-
सखान् नरात् पूर्णत्वात् तत्र प्रवेशः समुचित एव । कुत्रचिच् चांशादि-शब्द-
प्रयोगः - नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [गीता 7.15] इति श्री-
गीतोपनिषद्-दिशा पूर्णस्यापि साधारण-जने खण्डांश-प्रकाशात् (पगे 11)
तत्-प्रतीताव् एवांश इवांश इति ज्ञेयम् । नारायण-समो गुणैः [भ्प् 10.8.19]
इत्य् अत्रापि नारायणः परव्योमाधिप एव गुणैः समो यस्येत्य् एव
गर्गाभिप्रायः । तद् एवं महा-काल-पुराख्यानेऽपि प्रतिज्ञा-वाक्यम् इदम्
अधिकुर्यात् । किं च शास्त्रं हि शासनात्मकम् । शासनं चोपदेशः । स च
द्विधा साक्षाद् अर्थान्तर-द्वारा च । साक्षाद्-उपदेशस् तु श्रुतिर् इति
परिभाष्यते । साक्षात्त्वं चात्र निरपेक्षत्वम् उच्यते । तद् उक्तं निरपेक्ष-
रवा श्रुतिर् इति । तथा च सति श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-
समाख्यानां समवाये पारदौर्बल्यम् अर्थ-विप्रकर्षात् [जैमिनी-सूत्र
3.3.14] इत्य् उक्तानुसारेण चरमस्य पूर्वापेक्षया दूर-प्रतीत्य्-अर्थत्वे कृष्णस्
तु भगवान् स्वयम् इति श्री-शौनकं प्रति श्री-सूतस्य साक्षाद्-उपदेशेन
इतिहास-द्वारोपदेशो बाध्यते । न च मे कलावतीर्णौ [भ्प् 10.89.58] इति च
महाकाल-पुराधिप एव श्री-कृष्णं साक्षाद् एवोपदिष्टवान् इति वाच्यम् । श्री-
कृष्णस्य सार्वज्ञ्याव्यभिचारेण वक्तृ-श्रोतृ-भाव-पूर्वक-
सङ्गमाप्रस्तावेन द्विजात्मजा मे युवयोर् दिदृक्षुणा [भ्प् 10.89.58] इति
कार्यान्तर-तात्पर्य-दर्शनेन च । तस्यैतन् महा-पुराणस्य च
तत्त्वोपदेष्टृ-सूतादिवत् तद्-उपदेशे तात्पर्याभावाद् वक्ष्यमाणार्थान्तर
एव नैकट्येन पद-सम्बन्धाच् च ।
किं च भवतु वा तुष्यतु न्यायेन श्री-कृष्णस्य तम् अपेक्ष्यापूर्णत्वम्,
तथापि सर्वेषाम् अप्य् अवताराणां नित्यम् एव स्वस्थत्वेन
दर्शयिष्यमाणत्वात् केषांचिन् मते तु स्वयं पुरुषत्वेऽपि स्वतन्त्र-
स्थितित्वात् । युवां नर-नारायणाव् ऋषी [भ्प् 10.89.59] इति, त्वरयेताम् अन्ति मे
[भ्प् 10.89.59] इति च तत्-तद्-अर्थत्वे विरुध्येत । अस्तु तावद् अस्माकम् अन्या
वार्ता, न च कुत्रापि महाकालोऽयम् अंशेन तत्-तद्-रूपेणावतीर्ण इत्य्
उपख्यायते वा । ततश् चाप्रसिद्ध-कल्पना प्रसज्जते । तत्रैव च त्वरयेतम्
अन्ति मे इति युवां नर-नारायणाव् ऋषी धर्मम् आचरताम् इत्य् आदेश-द्वयस्य
पारस्परिक-विरोधः स्फुट एव ।
किं च, यदि तस्य ताव् अंशाव् अभविष्यतां तर्हि कर-तल-मणिवत् सदा सर्वम्
एव पश्यन्न् असौ ताव् अपि दूरतोऽपि पश्यन्न् एवाभविष्यत् । तच् च युवयोर्
दिदृक्षुणेति तद्-वाक्येन व्यभिचारितम् । यदि स्वयम् एव श्री-कृष्णस् तत्-तद्-
रूपाव् आत्मानौ दर्शयति तदैव तेन तौ दृश्येयाताम् इत्य् आनीतं च । तथा
च सति, तयोर् दृश्यत्वाभावाद् अंशत्वं नोपपद्यते । तस्माद् अप्य् अधिक-
शक्तित्वेन प्रत्युत पूर्णत्वम् एवोपपद्यते ।
एवम् अपि यत् त्व् अर्जुनस्य तज्-ज्योतिः-प्रताडिताक्षत्वं तद्-दर्शन-जात-
साध्वसत्वं च जातं तत्र स्वयम् एव भगवता तत्-तल्-लीला-रसौपयिक-
मात्र-शक्तेः प्रकाशनाद् अन्यस्याः स्थिताया अपि कुण्ठनान् न विरुद्धम् ।
दृश्यते च स्वस्यापि क्वचिद् युद्धे प्राकृताद् अपि पराभवादिकम् । यथात्रैव
तावत् स्वयम् एव वैकुण्ठाद् आगतानाम् अप्य् अश्वानां प्राकृत-तमसा
भ्रष्ट-गतित्वम् । तद् एवम् एव श्री-कृष्णस्य तस्मिन् भक्ति-भर-
दर्शनेनाप्य् अन्यथा न मन्तव्यम् । श्री-रुद्रादौ श्री-नारदादौ च तथा
दर्शनात् ।
एवम् अत्र परत्र वा तदीय-लीलायां तु पूर्व-पक्षो नास्ति तस्य
स्वराचरणत्वात् । अतस् तदीय-तात्पर्य-(पगे 12)-शब्दोत्थाव् अर्थाव् एवम् एव
दृश्येते । तत्-तात्पर्योत्थो यथासौ श्री-कृष्णः स्वयं भगवान् अपि यथा
गोवर्धन-मख-लीलायां श्री-गोप-गण-विस्मापन-कौतुकाय काञ्चिन् निजां
दिव्य-मूर्तिं प्रदर्शयन् तैः समम् आत्मनैवात्मानं नमश्चक्रे ।
तथैवार्जुन-विस्मापन-कौतुकाय महाकाल-रूपेणैवात्मना द्विज-
बालकान् हारयित्वा पथि च तं तं चमत्कारम् अनुभाव्य महाकाल-पुरे
च तां काम् अपि निजां महाकालाख्यं दिव्य-मूर्तिं दर्शयित्वा तेन समं

तद्-रूपम् आत्मानं नमश्चक्रे । तद्-रूपेणैव सार्जुनम् आत्मानं तथा
बभाषे च । तद् उक्तं - तस्मै नमो व्रज-जनैः सह-चक्रेऽत्मनात्मनै
[भ्प् 10.24.36] इतिवत् । अत्रापि बबन्ध आत्मानम् अनन्तम् अच्युतः [भ्प्
10.89.31] इति । अतएव हरिवंशे तत्-समीप-ज्योतिर् उद्दिश्य चार्जुनं प्रति श्री-
कृष्णेनोक्तं मत्-तेजस् तत् सनातनम् [ह्व् 2.114.9] इति ।
अथ शब्दोत्थोऽप्य् अर्थो यथा तत्र श्री-महाकालम् उद्दिश्य
पुरुषोत्तमोत्तमम् [भ्प् 10.89.54] इति विशेषणस्यार्थः । पुरुषो जीवस् तस्माद्
उत्तमस् तद्-अन्तर्यामी तस्माद् उत्तमं भगवत्-प्रभाव-रूप-महाकाल-
शक्ति-मयं तम् इति ।
अथ श्री-महाकाल-वाक्यस्य -
द्विजात्मजा मे युवयोर् दिदृक्षुणा
मयोपनीता भुवि धर्म-गुप्तये ।
कलावतीर्णाव् अवनेर् भरासुरान्
हत्वेह भूयस् त्वरयेतम् अन्ति मे ॥ [भ्प् 10.89.59]
इत्य् अस्य युवयोर् युवां दिदृक्षुणा मया द्विज-पुत्रा मे मम भुवि धाम्नि
उपनीता आनीता इत्य् एकं वाक्यम् । वाक्यान्तरम् आह हे धर्म-गुप्तये
कलावतीर्णौ कला अंशास् तद्-युक्ताव् अवतीर्णौ मध्यम-पद-लोपी
समासः । कलायाम् अंश-लक्षणे मायिक-प्रपञ्चेऽवतीर्णौ वा पादोऽस्य
विश्वा भूतानि [र्व् 10.90.3] इति श्रुतेः । भूयः पुनर् अपि अवैशिष्टान् अवनेर्
भरासुरान् हत्वा मे मम अन्ति समीपाय समीपम् आगमयितुं युवां
त्वरयेतं त्वरतम् । अत्र प्रस्थाप्य तान् मोचयतम् इत्य् अर्थः । तद्-धतानां
मुक्ति-प्रसिद्धेः । महाकाल-ज्योतिर् एव मुक्ताः प्रविशन्तीति ब्रह्म-
तेजोमयं दिव्यं महद् यद् दृष्टवान् असि [ह्व् 2.114.9] इति श्री-हरिवंशोक्तेश्
च । त्वरयेतम् इति प्रार्थनायां हेतु-णिज्-अन्तस्य लिङि रूपं अन्तीत्य्-अव्ययाच्
चतुर्थ्यां लुक्, चतुर्थी च एधोभ्यो व्रजतीतिवत् क्रियार्थोपपस्य च कर्मणि
स्थानिनः [पाण् 2.3.14] इति स्मरणात् । कटं कृत्वा प्रस्थापयतीतिवद् उभयोर्
एकेनैव कर्मणान्वयः । तस्माद् एक एवार्थः स्पष्टम् अकष्टो भवति ।
अर्थान्तरे तु सम्भवत्य् एक-पदत्वे पद-च्छेदः कष्टाय कल्प्यते ।
तथा --
पूर्ण-कामाव् अपि युवां नर-नारायणाव् ऋषी ।
धर्मम् आचरतां स्थित्यै ऋषभौ लोक-सङ्ग्रहम् ॥ [भ्प् 10.89.60]
इत्य् अस्य न केवलम् एतद्-रूपेणैव युवां लोक-हिताय प्रवृत्तौ । अपि
वैभवान्तरेणापीति स्तौति पूर्णेति । स्वयं भगवत्त्वेन तत्-सखत्वेन च
ऋषभौ सर्वावतारावतारि-श्रेष्ठाव् अपि (पगे 13) पूर्ण-कामाव् अपि स्थित्यै
लोक-रक्षणाय लोक-सङ्ग्रहं लोकेषु तत्-तद्-धर्म-प्रचार-हेतुकं
धर्मम् आचरतां कुर्वतां मध्ये युवां नर-नारायणाव् ऋषी इत्य् अनयोर्
अल्पांशत्वेन विभूतिवन् निर्देशः । उक्तं चैकादशे श्री-भगवता विभूति-
कथन एव नारायणो मुनीनां च [भ्प् 11.16.25] इति । धार्मिक-मौलित्वाद्
द्विज-पुत्रार्थम् अवश्यम् एष्यथ इत्य् अत एव मया तथा व्यवसितम् इति
भावः । तथा च हरिवंशे श्री-कृष्ण-वाक्यम् --
मद्-दर्शनार्थं ते बाला हृतास् तेन महात्मना ।
विप्रार्थम् एष्यते कृष्णो नागच्छेद् अन्यथा त्व् इह ॥ [ह्व् 2.114.8]
अत्राचरतम् इत्य् अर्थे आचरताम् इति प्रसिद्धम् इत्य् अतश् च तथा न
व्याख्यातम् । तस्मान् महाकालतोऽपि श्री-कृष्णस्यैवाधिक्यं सिद्धम् । तद्
एतन् महिमानुरूपम् एवोक्तं -
निशाम्य वैष्णवं धाम पार्थः परम-विस्मितः ।
यत् किञ्चित् पौरुषं पुंसां मेने कृष्णानुकम्पितम् ॥ [भ्प् 10.89.63]
अत्र महाकालानुभावितम् इति तु नोक्तम् । एवम् एव स चेतिक्षणो भगवान्
श्री-कृष्ण एवेति दर्शयितुम् आख्यानान्तरम् आह एकदा [भ्प् 10.89.21] इति । श्री-
स्वामि-लिखितैतत्-प्रकरण-चूर्णिकापि सुसङ्गता भवति ।
अथ परकीयाण्य् अपि विरुद्धायमानानि वाक्यानि तद्-अनुगतार्थतया
दृश्यन्ते । तत्र श्री-विष्णु-पुराणे उज्जहारात्मनः केशौ सित-कृष्णौ महा-
मुने [विप् 5.1.59] इति । महाभारते [1.189.31-32] -
स चापि केशौ हरिर् उद्बबर्ह
शुक्लम् एकम् अपरं चापि कृष्णम् ।
तौ चापि केशौ विशतां यदूनां
कुले स्त्रियो रोहिणीं देवकीं च ।
तयोर् एको बलभद्रो बभूव
योऽसौ श्वेतस् तस्य देवस्य केशः ।
कृष्णो द्वितीयः केशवः सम्बभूव
केशो योऽसौ वर्णतः कृष्ण उक्तः ॥ इति ॥[*एन्द्नोते #1]
अत्र तात्पर्यं स्वामिभिर् इत्थं विवृतं -- भूमेः सुरेतर-वरूथ [भ्प्
2.7.26] इत्य् आदि-पद्ये । सित-कृष्ण-केश इत्य् अत्र सित-कृष्ण-केशत्वं शोभैव न
तु वयः-परिणाम-कृतम् अविकारित्वात् । यच् च उज्जहारात्मनः केशाव् इत्य् आदि
तत् तु न केश-मात्रावताराभिप्रायं किन्तु भू-भारावतारण-रूपं कार्यं
कियद् एतद् आत्म-केशौ एव तत् कर्तुं शक्ताव् इति द्योतनार्थं राम-कृष्णयोर्
वर्ण-सूचनार्थं च केशोद्धरणम् इति गम्यते । कृष्णस् तु भगवान्
स्वयम् इत्य् एतद् विरोधनाच् चेति । इदम् अप्य् अत्र तात्पर्यं सम्भवति ।
ननु देवाः किमर्थं माम् एवातारयितुं भवद्भिर् आगृह्यते
अनिरुद्धाख्य-पुरुष-प्रकाश-विशेषस्य क्षीरोद-श्वेतद्वीप-धाम्नो
मम यौ केशाव् इव स्व-स्व-शिरोधार्य-भूतौ ताव् एव श्री-वासुदेव-
सङ्कर्षणौ स्वयम् एवावतरिष्यतः । ततश् च भू-भार-हरणं ताभ्याम्
ईषत्करम् एवेति । अथ उज्जहारात्मनः केशाव् इत्य् अस्यैव शब्दोऽर्थोऽपि
मुक्ताफल-टीकायां केशौ सुख-स्वामिनौ सितो रामः आत्मनः सकाशाद्
उज्जहार उद्धृतवान् ।
हरिवंशे हि कस्यांचिद् गिरि-गुहायां भगवान् स्व-मूर्तिं निक्षिप्य गरुडं
च तत्रावस्थाप्य स्वयम् अत्रागत इत्य् उक्तम् । तद् उक्तम् स देवान्
अभ्यनुज्ञाय [ह्व् 1.55.50] इत्य् आदि । यैस् तु यथा-श्रुतम् एवेदं व्याख्यातं
ते न सम्यक् परामृष्टवन्तः यतः सुरमात्रस्यापि निज्ररत्व-प्रसिद्धिः ।
अकाल-कलिते भगवति जरानुदयेन केश-शौक्ल्यानुपपत्तिः । न चास्य
केशस्य नैसर्गिक-सित-कृष्णतेति प्रमाणम् अस्ति । अतएव नृसिंह-पुराणे
कृष्णावतार-प्रसङ्गे शक्ति-शब्द एव प्रयुज्यते न तु केश-शब्दः । तथा
हि -
वसुदेवाच् च देवक्याम् अवतीर्य यदोः कुले ।
सित-कृष्णे च मच्-छक्ती कंसाद्यान् घातयिष्यतः ॥ (नृसिंहप् 53.30-31)
इत्य् आदिना । अस्तु तर्हि अंशोपलक्षकः केश-शब्दः । (पगे 14) न, अविप्लुत-
सर्व-शक्तित्वेन साक्षाद्-आदि-पुरुषत्वेन निश्चेत्तुं शक्यत्वात् । कृष्ण-विष्ण्व्-
आदि-शब्दानाम् अविशेषतः पर्याय-प्रतीतेश् च । नैवम् अवतारान्तरस्य कस्य
वान्यस्य जन्म-दिनं जयन्त्याख्ययातिप्रसिद्धम् । अतएवोक्तं भारते
(1.1.193?)[*एन्द्नोते #2] -
भगवान् वासुदेवश् च कीर्त्यतेऽत्र सनातनः ।
शाश्वतं ब्रह्म परमं योगि-ध्येयं निरञ्जनम् ॥ इति ।
तस्याकाल-कलितत्वं योऽयं कालस् तस्य तेऽव्यक्त-बन्धो चेष्टाम् आहुः [भ्प्
10.3.26] इत्य् आदौ श्री-देवकी-देवी-वाक्ये,
नताः स्म ते नाथ सदाङ्घ्रि-पङ्कजं
विरिञ्चि-वैरिञ्च्य-सुरेन्द्र-वन्दितम् ।
परायणं क्षेमम् इहेच्छतां परं
न यत्र कालः प्रभवेत् परः प्रभुः ॥ [भ्प् 1.11.6]
इत्य् आदौ श्री-द्वारका-वासि-वाक्ये च प्रसिद्धम् ।
अतो यत् प्रभास-खण्डे केशस्य बालत्वम् एव तत् सितिम्नः काल-कृत-पलित-

लक्षणत्वम् एव च दर्शितम्, तस्य शरीरिणां शुक्ल-वैराग्य-प्रतिपादन-
प्रकरण-पतितत्वेन सुर-मात्र-निर्जरता-प्रसिद्धत्वेन चामुख्यार्थत्वान्
न स्वार्थ-प्रामाण्यम् । ब्रह्मा येन इत्य् आरभ्य,
विष्णुर् येन दशावतार-ग्रहणे क्षिप्तो महा-सङ्कटे ।
रुद्रो येन कपाल-पाणिर् अभितो भिक्षाटनं कारितम् ॥ [गर्प् 1.113.15]
इत्य् आदौ तस्मै नमः कर्मणे इति गरुड-वचनात् । किन्तु तत्-प्रतिपादनाय
शब्द-साम्येन छलोक्तिर् एवेयम् । यथा -
अहो कनक-दौरात्म्यं निर्वक्तुं केन युज्यते ।
नाम-साम्याद् असौ यस्य धूस्तरोऽपि मद-प्रदः ॥ इति ।
शिव-शास्त्रीयत्वाच् च नात्र वैष्णव-सिद्धान्त-विरुद्धस्य तस्योपयोगः । यत
उक्तं स्कान्द एव षण्मुखं प्रति श्री-शिवेन - शिव-शास्त्रेऽपि तद् ग्राह्यं
भगवच्-छास्त्र-योगि यत् इति । अन्य-तात्पर्यकत्वेन स्वतस् तत्राप्रामाण्याद्
युक्तं चैतत् यथा पङ्केन पङ्काम्भ [भ्प् 1.8.52] इत्य् आदिवत् ।
पाद्मोत्तर-खण्डे च शिव-प्रतिपादकानां पुराणानाम् अपि तामसत्वम् एव
दर्शितम् । मात्स्येऽपि तामस-कल्प-कथामयत्वम् इति युक्तं च तस्य वृद्ध-
सूतस्य श्री-भागवतम् अपठितवतः श्री-बलदेवावज्ञातुः श्री-भगवत्-
तत्त्वासम्यक्-ज्ञान-जं वचनं एवं वदन्ति राजर्षे ऋषयः केचनान्विताः
[भ्प् 10.77.30] इतिवत् । एतादृश श्री-भागवत-वाक्येन स्व-विरुद्ध-
पुराणान्तर-वचन-बाधनं च । यथेह कर्मजितो लोकः क्षीयत [छाउ
8.1.6] इत्य् आदि वाक्येन उपाम सोमम् अमृता अभूम [र्क् 8.48.3] इत्य् आदि-वचन-
बाधनवज् ज्ञेयम् । अत्रापि यत् स्व-वचो विरुद्धेत नूनं ते न स्मरन्त्य्
अमुम् [भ्प् 10.77.30] इति युक्ति-सद्-भावओ दृश्यते । तत्रैवात्मनः
सन्दिघ्दत्वम् एव तेन सूतेन व्यञ्जितम् । अचिन्त्या खलु ये भावा न तांस्
तर्केण योजयेद् इत्य् आदिना ।
किं च तत्रैवोत्तर-ग्रन्थे कलङ्कापत्ति-कारण-कथने श्री-कृष्णावतार-
प्रसङ्गे स्वयं विष्णुर् एवेत्य् उक्तत्वात् स्वेनैव विरोधश् च । तस्मान् न
केशावतारत्वेऽपि तात्पर्यं केश-शब्दस्य बालत्व-वाचनं च । छलतो
भगवत्-तत्त्वाज्ञानतो वेति । अतो वैष्णवादि-पद्यानां शब्दोत्तम् अर्थम् एवं
पश्यामः -
अंशवो ये प्रकाशन्ते मम ते केश-संज्ञिताः ।
सर्वज्ञाः केशवं तस्मान् माम् आहुर् मुनि-सत्तम ॥ [म्भ् 12.328.43]
इति सहस्र-नाम-भाष्योत्थापित-भारत-वचनात् केश-शब्देनांशुर् उच्यते ।
तत्र च सर्वत्र केशेतर-शब्दाप्रयोगात् नानावर्णांशूनां श्री-नारद-(पगे
15)-दृष्टतया मोक्ष-धर्म-प्रसिद्धेश् च । तथा चांशुत्वे लब्धे तौ
चांशू वासुदेव-सङ्कर्षणावतार-सूचकतया निर्दिष्टाव् इति तयोर् एव स्याताम्
इति गम्यते । तदीययोर् अपि तयोर् अनिरुद्धेऽभिव्यक्तिश् च युज्यत एव ।
अवतारितोजोऽन्तर्भूतत्वाद् अवतारस्य । एवम् एव सत्त्वं रजस् तम [भ्प् 1.2.23]
इत्य् आदि-प्रथम-स्कन्ध-पद्य-प्राप्तम् अनिरुद्धाख्य-पुरुषावतारत्वं
भवानी-नाथैर् [भ्प् 5.17.16] इत्य्-आदि-पञ्चम-स्कन्ध-गद्य-प्राप्तं
सङ्कर्षणावतारत्वं च भवस्य संगच्छते । ततश् चोज्जहारेत्य् अस्यायम्
अर्थः - आत्मनः सकाशात् श्री-वासुदेव-सङ्कर्षणांश-भूतौ केशाव् अंशू
उज्जहार उद्धृतवान् प्रकटीकृत्य दर्शितवान् इत्य् अर्थः । अत्रायं सुमेरुर्
इत्य् एकदेश-दर्शनेनैवाखण्ड-मेरु-निर्देशवत् तद्-दर्शनेनापि
पूर्णस्यैवाविर्भाव-निर्देशो ज्ञेयः ।
अथ च सापि केशाव् इत्य् आदिक-व्याख्या । उद्वदर्हे योगबलेनात्मनः सकाशाद्
विच्छिद्य दर्शयामास । स चापीति च-शब्दः पूर्वम् उक्तं देव-कर्तृकं
निवेदन-रूपम् अर्थं समुच्चिनोति । अपि-शब्दस् तद्-उद्बर्हणे श्री-भगवत्-
सङ्कर्षणौ स्वयम् हेतु-कर्तृत्वं सूचयति । तौ चापीति च-शब्दोऽनुक्त-
समुच्चयार्थत्वेन भगवत्-सङ्कर्षणौ स्वयम् आविविशतुः । पश्चात् तौ च
तत्-तादात्म्येनाविविशतुर् इति बोधयति । अपि-शब्दो यत्रानुस्यूताव् अमू सोऽपि
तद्-अंशा अपीति गमयति । तयोर् एको बलभद्रो बभूवेत्य्-आदिकं तु नरो
नारायणो भवेत् । हरिर् एव भवेन् नर इत्य् आदिवत् तद्-ऐक्यावाप्त्य्-अपेक्षया ।
केशवः श्री-मथुरायां केशव-स्थानाख्य-महायोग-पीठाधिपत्वेन
प्रसिद्धः । स एव कृष्ण इति । अत एवोदाहरिष्यते भूमेः सुरेतर [भ्प् 2.7.26]
इत्य् आदि । श्री-नृसिंह-पुराणे सितासिते च मच्-छक्ती इति तच्-छक्ति-द्वारैव श्री-
कृष्णेन ताद्घातनापेक्षया । अर्जुने तु नरावेशः कृष्णो नारायणः स्वयम्
इत्य् आगम-वाक्यं तु श्रीमद्-अर्जुने नर-प्रवेशापेक्षया । यस् तु स्वयम्
अन्यथा सिद्धो नारायणः नारायणस् त्वं न हि सर्वे-देहिनाम् इत्य् आदौ
दर्शितः । स पुनः कृष्ण इत्य् अर्थान्तर्-अपेक्षया च मन्तव्यम् । अतएव
पुरुष-नारायणस्य तथागमन-प्रतिपादक-श्री-हरि-वंश-वाक्यम् अपि तत्-
तेजः-समाकर्षण-विवक्षयैवोक्तम् । सर्वेषां प्रवेशश् च तस्मिन् स-
युक्तिकम् एवोदारणीयः ।
अतः पाद्मोत्तर-खण्डे नृसिंह-राम-कृष्णेषु षाड्गुण्यं परिपूरणम् इत्य्
आवतारान्तर-साधारण्यम् अपि न मन्तव्यम् । किन्त्व् अवताराणां प्रसङ्गे
तेषु श्रेष्ठे विविदिषिते सामान्यतस् तावत् सर्व-श्रेष्ठास् त्रय उक्तास् तेष्व् अप्य्
उत्तरोत्तरत्राधिक्य-क्रमाभिप्रायेण श्री-कृष्ण-श्रैष्ठ्यं विवक्षितम् ।
अतएव श्री-विष्णु-पुराणे मैत्रेयेण हिरण्यकशिपुत्वादिषु तयोर् अमुक्ति-
मुक्ति-कारणे पृष्टे श्री-पराशरोऽपि (पगे 16) श्री-
कृष्णस्यैवात्युद्भटैश्वर्यम् आह । किं च श्री-कृष्णम् अप्राप्यान्य् अत्र त्व्
असुराणां मुक्तिर् न सम्भवति । एव-कार-द्वयेन स्वयम् एव श्री-गीतासु
तथा सूचनात् -
तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥
आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि ।
माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥ [गीता 16.19-20] इति ।
कुत्रचिद् भगवद्-द्वेषिणां तत्-स्मरणादि-प्रभावेन श्रूयतां वा मुक्तिः ।
सर्वेषाम् अपि तद्-द्वेषिणां तु मुक्ति-प्रदत्वम् अन्यत्रावतारेऽवतारिणि वा न
क्वचित् श्रूयते । तस्मात् तेषाम् अपि मुक्ति-दातृत्वाय श्री-कृष्ण
एवैश्वर्याधिक्यं युक्तम् एव वर्णायामास श्री-पराशरः । अतएव पूर्वम्
ऐश्वर्य-साक्षात्कारस्य मुक्ति-हेतुत्वम् उक्त्वा पुनः पूतनादि-मोक्षं
विचिन्त्य कालनेम्य्-आदीनां च तद्-अभावम् आशङ्क्य तद् अप्य् असहमानस्
तस्य तु श्री-कृष्णाख्यस्य भगवतः परमाद्भुत-स्वभाव एवायम् इत्य्
उवाच सर्वान्तिम-गद्येन -- अयं हि भगवान् कीर्तितः संस्मृतश् च
द्वेषानुबन्धेनाप्य् अखिल-सुरासुरादि-दुर्लभं फलं प्रयच्छति किम् उत
सम्यक् भक्तिमताम् [विप् 4.15.17] इत्य् अनेन ।
अतः श्री-भागवत-मते तयोर् जन्म-त्रय-नियमश् च श्री-कृष्णाद् एव
मोक्षः सम्भवेद् इत्य् अपेक्षयैवेति ज्ञेयम् । अतएव श्री-नारदेनापि तम्
उद्दिश्यैवोक्तम् वैरेण यं नृपतयः [भ्प् 11.5.48] इत्य् आदि । सर्वेषां
मुक्तिदत्वं च तस्य कृष्णस्य निज-प्रभावातिशयेन यथा कथञ्चित् स्मर्तृ-
चित्ताकर्षणातिशय-स्वभावात् । अन्यत्र तु तथा स्वभावो नास्तीति नास्ति

मुक्तिदत्वम् । अतएव वेणस्यापि विष्णु-द्वेषिणस् तद्वद् आवेशाभावात् मुक्त्य्-
अभाव इति । अतएवोक्तं - तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् [भ्प्
7.1.31] इति ।
तस्माद् अस्त्य् एव सर्वतोऽप्य् आश्चर्यतमा शक्तिः श्री-कृष्णस्य इति सिद्धम् । तद्
एवं विरोध-परिहारेण विरुद्धार्थानाम् अप्य् अर्थानुकूल्येन श्री-कृष्णस्य
स्वयं भगवत्त्वम् एव दृढीकृतम् । तत्र च वेदान्त-सूत्रादाव् अप्य् एकस्य
महा-वाक्यस्य नाना-वाक्य-विरोध-परिहारेणैव स्थापनीया दर्शनान्
नाप्य् अत्रैवेदृशम् इत्य् अश्रद्धेयम् । वाक्यानां दुर्बल-बलित्वम् एव
विचारणीयम्, न तु बह्व्-अल्पता । दृश्यते च लोके एकेनापि युद्धे सहस्र-
पराजय इति । एवं च बहुव्-विरोध-परिहारेणैव स्वस्मिन् श्री-कृष्णाख्ये
पर-ब्रह्मणि सर्व-वेदाभिधेयत्वम् आह --
किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् ।
इत्य् अस्या हृदयं लोके नान्यो मद् वेद कश्चन ॥
मां विधत्ते ऽभिधत्ते मां विकल्प्यापोह्यते त्व् अहम् ।
एतावान् सर्व-वेदार्थः शब्द आस्थाय मां भिदाम् ॥ [भ्प् 11.21.42-43] इति ।
विकल्प्य विविधं कल्पयित्वा अपोह्यते, तत्-तन्-निषेधेन सिद्धान्त्यते यत् तद्
अहं श्री-कृष्ण-लक्षणं वस्त्व् इति ॥
॥ 11.12 ॥ श्री-भगवान्

5.30

[30]
तद् एवं कृष्णस् तु भगवान् स्वयम् इत्य् एतत् प्रतिज्ञा-वाक्याय महावीर-
राजायेवात्मनैव निर्जित्यात्म-सात्कृत-विरोधि-शतार्थायापि शोभा-विशेषेण
प्रेक्षावताम् आनन्दनार्थं चतुरङ्गिनीं सेनाम् इवान्याम् अपि वचन-
श्रेणीम् उपहरामि । तत्र तस्य लीलावतार-कर्तृत्वम् आह -
मत्स्याश्व-कच्छप-नृसिंह-वराह-हंस-
राजन्य-विप्र-विबुधेषु कृतावतारः
त्वं पासि इत्य्-आदि [10.2.40] । स्पष्टम् ॥
॥ 10.2 ॥ देवाः श्री-भगवन्तम्

5.31

(पगे 17)
[31]
तथा, सुरेष्व् ऋषिष्व् ईश तथैव [भ्प् 10.14.2] इत्यादि । स्पष्टम् ॥
॥ 10.14 ॥ ब्रह्मा तम्

5.32

[32]
तथा, बहूनि सन्ति नामानि रूपाणि च सुतस्य ते [भ्प् 10.8.15] इत्य् आदि ।
स्पष्टम् ॥
॥ 10.8 ॥ गर्गः श्री-व्रजेश्वरम्

5.33

[33]
एवं, यस्यावतारा ज्ञायन्ते शरीरेष्व् अशरीरिणः [भ्प् 10.10.34] इत्य् आदि ।
शरीरेष्व् अशरीरिण इत्य् अपि ज्ञाने हेतु-गर्भ-विशेषणम् ।
शरीरिषु मध्येऽप्य् अवतीर्णस्य यतः सतः स्वयम् अशरीरिणः । नातः परं
परम यद् भवतः स्वरूपम् [भ्प् 3.9.3] इत्य् आदि द्वितीय-सन्दर्भोदाहरण-
प्रघट्टक-दृष्ट्या जीववद् देह-देहि-पार्थक्याभावेन
मुख्यमत्वार्थाभावात् ।
॥ 10.10 ॥ यमलार्जुनौ श्री-भगवन्तम्

5.34

[34]
अपरं च -
यत्-पाद-पङ्कज-रजः शिरसा बिभर्ति
श्रीर् अब्ज-जः स-गिरिशः सह लोक-पालैः
लीला-तनुः स्व-कृत-सेतु-परीप्सया यः
काले ऽदधत् स भगवान् मम केन तुष्येत् ॥ [भ्प् 10.58.37]
॥ स्पष्टम् ॥ 10.58 ॥ नग्नजिच् छ्री-भगवन्तम्

5.35

[35]
परं च -
नमस् तस्मै भगवते कृष्णायाकुण्ठ-मेधसे ।
यो धत्ते सर्व-भूतानाम् अभवायोशतीः कलाः ॥ [भ्प् 10.87.46]
टीका च - नम इति श्री-कृष्णावतारतया नारायणं स्तौति । एते चांश-कलाः
पुंसः कृष्णस् तु भगवान् स्वयम् इत्य् उक्तेर् इत्य् एषा । अतएव तच्-
छ्रवणानन्तरं तस्मा एव नमस्कारात् श्रुति-स्तुताव् अपि श्री-कृष्ण एव स्तुत्य
इत्य् आयातम् । तथैव श्रुतिभिर् अपि निभृत-मरुन्-मनोऽक्ष [भ्प् 10.87.23] इत्य्-
आदि-पद्ये निजारि-मोक्ष-प्रदत्वाद्य्-असाधारण-लिङ्गेन स एव व्यञ्जितः ।
स्पष्टम् ।
॥ 10.87 ॥ श्री-नारदः

5.36

[36]
तथा गुणावतार-कर्तृत्वम् आह -
इत्य् उद्धवेनात्य्-अनुरक्त-चेतसा
पृष्टो जगत्-क्रीडनकः स्व-शक्तिभिः ।
गृहीत-मूर्ति-त्रय ईश्वरेश्वरो
जगाद स-प्रेम-मनोहर-स्मितः ॥ [भ्प् 11.29.7]
स्पष्टम् । अत्र अजानतां त्वत्-पदवीम् [भ्प् 10.14.29] इत्य् उदाहृतं वचनम्
अप्य् अनुसन्धेयम् ॥
॥ 11.29 ॥ श्री-शुकः

5.37

[37]
अथ पुरुषावतार-कर्तृत्वम् आह -
इति मतिर् उपकल्पिता वितृष्णा
भगवति सात्वत-पुङ्गवे विभूम्नि ।
स्व-सुखम् उपगते क्वचिद् विहर्तुं
प्रकृतिम् उपेयुषि यद्-भव-प्रवाहः ॥ [भ्प् 1.9.32]
टीका च - परम-फल-रूपां श्री-कृष्ण-रतिं प्रार्थयितुं प्रथमं स्व-
कृतम् अर्पयति इतीति । विगतो भूमा यस्मात् तस्मिन् । यम् अपेक्ष्यान्यस्य
महत्त्वं नास्तीत्य् अर्थः । तद् एव पारमैश्वर्यम् आह स्व-सुखं स्वरूप-
भूतं परमानन्दम् उपगते प्राप्तवत्य् एव । क्वचित् कदाचिद् विहर्तुं
क्रीडितुं प्रकृतिम् उपेयुषि स्वीकृतवति, न तु स्वरूप-तिरोधानेन जीववत्
पारतन्त्र्यम् इत्य् अर्थः । विहर्तुम् इत्य् उक्तं प्रपञ्चयति यद् यतो भव-
प्रवाहः सृष्टि-परम्परा भवति इत्य् एषा ॥
[ब् रेअद्स् हेरे: एवम् एव तं प्रत्युक्तं देवैर् अप्य् एकादशे -- तत्त्वः पुमान्
समधिगम्य ययास्य वीर्यं धत्ते महान्तम् इव गर्भम् अमोघ-वीर्यः
[भ्प् 11.6.16] इति । टीका च - तत्त्वः पुरुषो वीर्यं शक्तिं समधिगम्य
प्राप्य यया मायया सह महान्तं धत्ते । कम् इव ? अस्य विश्वस्य गर्भम्
इव इत्य् एषा ॥[ब् एन्द्स्.]
॥ 1.9 ॥ भीष्मः श्री-भगवन्तम्

5.38

[38]
(पगे 18)
अतएव भव-भयम् अपहर्तुं [भ्प् 11.29.49] इत्य् आदौ तस्यादि-पुरुषत्वं
श्रेष्ठत्वम् अप्य् आह - पुरुषम् ऋषभम् आद्यं कृष्ण-संज्ञं नतोऽस्मि इति ।
कृष्णेति संज्ञां यस्येति मूर्त्य्-अन्तरं निषिध्यते । तन्-मूर्तेर्
नमस्क्रियमाणत्वेन च नित्य-सिद्धत्वं दर्श्यते । अत्रैव टीकाकृद्भिर् अपि -
तं वन्दे परमानन्दं नन्द-नन्दन-रूपिणम् इत्य् उक्तम् ॥
॥ 11.29 ॥ श्री-शुकः

5.39

[39]
तद् एवं जगृहे इत्य् आदि-प्रकरणे यत् स्वयम् उत्पेक्षितं तच्-छ्री-स्वामि-
सम्मत्या दृढीकृतम् । पुनर् अपि तत्-सम्मतिर् अभ्यस्यते यथा -
श्रुत्वाजितं जरासन्धं नृपतेर् ध्यायतो हरिः ।
आहोपायं तम् एवाद्य उद्धवो यम् उवाच ह ॥ [भ्प् 10.72.15]
टीका च - आद्यो हरिः श्री-कृष्ण इत्य् एषा ॥
॥ 10.72 ॥ श्री-शुकः

5.40

[40]
किं च -
अथाहम् अंश-भागेन देवक्याः पुत्रतां शुभे ।
प्राप्स्यामि [भ्प् 10.2.9] इत्य् आदि ।
अंश-भागेनेत्य् अत्र पूर्णोचितम् एवार्थं बहुधा योजयद्भिर् मध्ये
अंशेन उरुष-रूपेण मायया भागो भजनम् ईक्षणं यस्य तेनेति च
व्याचक्षाणैर् अन्ते सर्वथा परिपूर्ण-रूपेणेति विवक्षितम् । कृष्णस् तु
भगवान् स्वयम् इत्य् उक्तत्वात् । इत्य् एवं हि तैर् व्याख्यातम् ।
॥ 10.2 ॥ श्री-भगवान् योगमायाम्

5.41

[41]
एवम् --
यस्यांशांशांश-भागेन विश्वोत्पत्ति-लयोदयाः ।
भवन्ति किल विश्वात्मंस् तं त्वाद्याहं गतिं गता ॥ [भ्प् 10.85.31]
टीका च - यस्यांशः पुरुषस् तस्यांशो माया तस्या अंशा गुणास् तेषां
भागेन परमाणु-मात्र-लेशेन विश्वोत्पत्त्य्-आदयो भवन्ति । तं त्वा त्वां
गतिं शरणं गतास्मि इत्य् एषा ॥
॥ 10.85 ॥ श्री-देवकी भगवन्तम्

5.42

[42]
यथा च -- नारायणस् त्वं न हि सर्व-देहिनाम् इत्य् आदौ नारायणोऽङ्गं
नर-भू-जलायनात् इति । [भ्प् 10.14.14]
टीका च - नराद् उद्भूता येऽर्थाः तथा नराज् जातं यज् जलं तद्-अयनाद् यो
नारायणः प्रसिद्धः सोऽपि तवाङ्गं मूर्तिर् इत्य् एषा । अत्र स तवाङ्गं त्वं
पुनर् अङ्गीत्य् असौ तु विशदोऽर्थः । न तु स्तुति-मात्रम् इदम् ।
दृष्ट्वाघासुर-मोक्षणं प्रभवतः प्राप्तः परं विस्मयम् [भ्प् 10.13.15]
इत्य् उक्त-रीत्या क्वचिद् अप्य् अवतार्य्-अवतारान्तरेषु तादृशस्यापि मोक्षम्
अदृष्ट-गोचरं दृष्ट्वा विस्मयं प्राप्तवान् ब्रह्मा । द्रष्टुं मञ्जुम्
अहित्वम् अन्य अपि तद्-वत्सान् इतो वत्सपान् नीत्वान्यत्र कुरुद्वहान्तर् अधाद्
इत्य् उक्त-रीत्या तस्यापरम् अपि माहात्म्यं दिदृक्षुस् तथा माहात्म्यं
ददर्शेति प्रकरण-सारस्येनापि लब्धम् । न चापर-माहात्म्य-दर्शनं
सम्भावना-मात्रम् ।
तावत् सर्वे वत्स-पालाः पश्यतो ञ्जस्य तत्-क्षणात् ।
व्यदृश्यन्त घन-श्यामाः पीत-कौशेय-वाससः ॥ [भ्प् 10.13.46]
इत्य् आदिना शक्तिभिर् अजाद्याभिर् ऐश्वर्यैर् अणिमाद्यैश् चतुर्विंशति-सङ्ख्य-
तत्त्वैर् महद्-आदिभिः तत्-सह-कारिभिः काल-स्वभावाद्यैस् तत्-सम्भूतैर्
ब्रह्माण्डैः तद्-अन्तर्भूत-स्रष्टृभिर् ब्रह्मादिभिर् जीवैश् च स्तम्ब-
पर्यन्तः पृथक् पृथग् उपासितास् तादृश-ब्रह्माण्डेश्वर-कोटयः श्री-
कृष्णेनैव तत्-तद्-अंशांशेनाविर्भाव्य ब्रह्माणं प्रति साक्षाद् एव दर्शिता
इति ह्य् उक्तं तदीदृशम् एव कृष्णस् तु भगवान् स्वयम् इत्य् अत्राविष्कृत-सर्व-
शक्तित्वाद् इत्य् एतत्-(पगे 19)-स्वामि-व्याख्यानस्यासाधारणं बीजं भवेत् ।
विश्व-रूप-दर्शनादीनां तत्-तद्-ब्रह्माण्डान्तर्यामि-पुरुषाणाम्
एकतरेणापि शक्यत्वात् । तस्माद् विराट्-पुरुषयोर् इव पुरुष-भगवतोर् अपि
जगृहे पौरुषं रूपम् इत्य् आदाव् उपासनार्थम् एव तैर् अभेद-व्याख्या
कृतेति गम्यते । वस्तुतस् तु परमाश्रयत्वेन श्री-कृष्ण एव तैर् अङ्गीकृतोऽस्ति ।
यथा --
विश्व-सर्ग-विसर्गादि-नव-लक्षण-लक्षितम् ।
श्री-कृष्णाख्यं परं धाम जगद्-धाम नमामि तत् ॥
दशमे दशमं लक्ष्यम् आश्रिताश्रय-विग्रहम् ।
क्रीडद् यदु-कुलाम्भोधौ परानन्दम् उदीर्यते ॥ इति [भावार्थ-दीपिका,
10.2.1]।
यद्य् अन्येषाम् अपि परमाश्रयत्वं तन् मतं तदा दशम इत्य् अनर्थकं
स्यात् । तस्मान् नारायणोऽङ्गम् इति युक्तम् उक्तम् ॥
॥ 10.14 ॥ ब्रह्मा श्री-कृष्णम्

5.43

[43]
अवतार-प्रसङ्गेऽपि तथैव स्पष्टम् -
गिरं समाधौ गगने समीरितां
निशम्य वेधास् त्रिदशान् उवाच ह ।
गां पौरुषीं मे शृणुतामराः पुनर्
विधीयताम् आशु तथैव मा चिरम् ॥
पुरैव पुंसावधृतो धरा-ज्वरो
भवद्भिर् अंशैर् यदुषूपजन्यताम् ।
स यावद् उर्व्या भरम् ईश्वरेश्वरः
स्व-काल-शक्त्या क्षपयंश् चरेद् भुवि ॥
वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः ।
जनिष्यते तत्-प्रियार्थं सम्भवन्तु सुर-स्त्रियः ॥ [भ्प् 10.1.21-23]
पौरुषीं पुरुषेण सृजामि तन्-नियुक्तोऽहम् [भ्प् 2.6.30] इत्य्-आद्य्-अनुसारात्
पुरुषाभिन्नेन विष्णु-रूपेण क्षीरोदशायिना स्वयम् एवोक्तां गां वाचम् ।
पुरुषस्यैव वाचम् अनुवदति पुरैवेति । पुंसा आदि-पुरुषेण कृष्णः स्वयं
समभवत् परमः पुमान् यः [ब्रह्मस् 5.49] इत्य् अनुसारात् । स्वयं
भगवत्ता श्री-कृष्णस्येत्य् अर्थः । अंशैः श्री-कृष्णस्यांश-भूतैस् तत्-
पार्षदैः श्रीमद्-उद्धवादिभिः सह । इत्थम् एव प्राचुर्येणोक्तम् --
नन्दाद्या ये व्रजे गोपा याश् चामीषां च योषितः ।
वृष्णयो वसुदेवाद्या देवक्य्-आद्या यदु-स्त्रियः ॥
सर्वे वै देवता-प्राया उभयोर् अपि भारत ।
ज्ञातयो बन्धु-सुहृदो ये च कंसम् अनुव्रताः ॥ [भ्प् 10.1.62-63] इति ।
तस्माद् आदि-पुरुषत्वम् एव व्यनक्ति स इति सर्वान्तर्यामित्वात् । पुरुषस् तावद्
ईश्वरः । तस्याप्य् अंशित्वात् स आदि-पुरुषः श्री-कृष्णः पुनर् ईश्वरेश्वरः
त्र्य्-अधीश-शब्दवत् । तथा च दशमस्य पञ्चाशीतितमे श्रीमद्-
आनकदुन्दुभिनोक्तम् - युवां न नः सुतौ साक्षात् प्रधान-पुरुषेश्वरौ
[भ्प् 10.85.18] इति । स्व-काल-शक्त्या स्व-शक्त्या काल-शक्त्या च । ईश्वरेश्वरत्वे
हेतुः साक्षात् स्वयम् एव भगवान् इति । तद् अलं मयि तत्-प्रार्थनयेति
भावः । तत्-प्रियार्थं तत्-प्रीत्यै । अमर-स्त्रियः श्रीमद्-उपेन्द्र-प्रेयस्य्-
आदि-रूपाः काश्चित् सम्भवन्तु मिलिता भवन्तु । साक्षाद् अवतरतः श्री-
भगवतो नित्यानपायि-महा-शक्ति-रूपासु तत्-प्रेयसीष्व् अवतरन्तीषु श्री-
भगवति तद्-अंशान्तरवत् ता अपि प्रविशन्त्व् इत्य् अर्थः । तत्-प्रियाणां तासाम्
एव दास्य्-आदि-प्रयोजनाय जायन्ताम् इति वा । अनेन तैर् अपार्थितस्याप्य्
अस्यार्थस्यादेशेन परम-भक्ताभिस् ताभिर् लीला-विशेष एव भगवतः
स्वयम् अवतितीर्षायां कारणम् । भारावतरणं चानुषङ्गिकम् (पगे 20)
एव भवतीति व्यञ्जितम् ।
तद् एवं श्रुतीनां च दण्डकारण्य-वासिनां मुनीनां चाग्नि-पुत्राणां च
श्री-गोपिकादित्व-प्राप्तिर् यत् श्रूयते तद् अपि पूर्ववद् एव मन्तव्यम् । अत्र
प्रसिद्धार्थे नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः स्वर्-योषितां नलिन-
गन्ध-रुचां कुतोऽन्याः [भ्प् 10.47.60] इति विरुध्येत । न च सुर-स्त्रीणां
सम्भव-वाक्यं श्री-महिषी-वृन्द-परं, तासाम् अपि तन्-निज-शक्ति-
रूपत्वेन दर्शयिष्यमाणत्वात् ।
॥ 10.1 ॥ श्री-शुकः

5.44

[44]
तद् एवम् अवतार-प्रसङ्गेऽपि श्री-कृष्णस्य स्वयं भगवत्त्वम् एवायातम् ।
यस्माद् एवं तस्माद् एव श्री-भागवते महा-श्रोतृ-वक्तॄणाम् अपि श्री-कृष्ण
एव तात्पर्यं लक्ष्यते । तत्र श्री-विदुरस्य --
यच् चान्यद् अपि कृष्णस्य भवान् भगवतः प्रभोः ।
श्रवः सुश्रवसः पुण्यं पूर्व-देह-कथाश्रयम् ॥
भक्ताय मे ऽनुरक्ताय तव चाधोक्षजस्य च ।
वक्तुम् अर्हसि यो ऽदुह्यद् वैन्य-रूपेण गाम् इमाम् ॥ [भ्प् 4.17.6-7]
पूर्व-देहः पृथ्व्-अवतारः । लोक-दृष्टाव् अभिव्यक्ति-रीत्या पूर्वत्वम् । तत्-
कथैवाश्रयो यस्य तत् ॥
॥4.17॥ विदुरः

5.45

[45]
अथ श्री-मैत्रेयस्य तद्-अनन्तरम् एव --
चोदितो विदुरेणैवं वासुदेव-कथां प्रति ।
प्रशस्य तं प्रीत-मना मैत्रेयः प्रत्यभाषत ॥ [भ्प् 4.17.8]
तत्-प्रशंसया प्रीत-मनस्त्वेन चास्यापि तथैव तात्पर्यं लभ्यते ।
अतएवात्र वसुदेव-नन्दनत्वेनैव वासुदेव-शब्दः प्रयुक्तः ।
॥4.17॥ श्री-सुतः

5.46

[46]
अथ श्री-परीक्षितः --
अथो विहायेमम् अमुं च लोकं
विमर्शितौ हेयतया पुरस्तात् ।
कृष्णाङ्घ्रि-सेवाम् अधिमन्यमान
उपाविशत् प्रायम् अमर्त्य-नद्याम् ॥ [भ्प् 1.19.5]
टीका च -श्री-कृष्णाङ्घ्रि-सेवाम् अधिमन्यमानः सर्व-पुरुषार्थाधिकां
जानन् इत्य् एषा ।
॥ 1.19 ॥ श्री-सुतः

5.47

[47]
न वा इदं राजर्षि-वर्य चित्रं
भवत्सु कृष्णं समनुव्रतेषु ।
ये ऽध्यासनं राज-किरीट-जुष्टं
सद्यो जहुर् भगवत्-पार्श्व-कामाः ॥ [भ्प् 1.19.20]
भवत्सु पाण्डोर् वश्येषु ये जहुर् इति श्री-युधिष्ठिराद्य्-अभिप्रायेण । अतएव
तत्र स्थितानां सर्व-श्रोतॄणाम् अपि श्री-कृष्ण एव तात्पर्यम् आयाति ।
॥ 1.19 ॥ श्री-महर्षयः परीक्षितम्

5.48

[48]
अपि मे भगवान् प्रीतः कृष्णः पाण्डु-सुत-प्रियः ।
पैतृ-ष्वसेय-प्रीत्य्-अर्थं तद्-गोत्रस्यात्त-बान्धवः ॥
अन्यथा ते ऽव्यक्त-गतेर् दर्शनं नः कथं नृणाम् ।
नितरां म्रियमाणानां संसिद्धस्य वनीयसः ॥ [भ्प् 1.19.35-36]
तेषां पैतृ-ष्वसेयाणां पाण्डु-सुतानां गोत्रस्य मे आत्तं स्वीकृतं
बान्धवं बन्धु-कृत्यं येन ते तव श्री-कृष्णस्यैक-रसिकस्य वनीयसः
अत्युदारतया मां याचेथा इति प्रवर्तकस्येत्य् अर्थः ।
॥ 1.19 ॥ राजा श्री-शुकम्

5.49

[49]
स वै भागवतो राजा पाण्डवेयो महा-रथः ।
बाल-क्रीडनकैः क्रीडन् कृष्ण-क्रीडां य आददे ॥ [भ्प् 2.3.15]
या या श्री-कृष्णस्य वृन्दावनादौ बाल-क्रीडा श्रुतास्ति तत्-प्रेमावेशेन तत्-
सख्यादि-भाववान् तां ताम् एव क्रीडां यः कृतवान् इत्य् अर्थः ॥
॥ 2.3 ॥ श्री-शौनकः

5.50

[50]
एवं जातीयानि बहून्य् एव वचनानि विराजन्ते - तथा कथितो वंश-विस्तारः
[भ्प् 10.1.1] इत्य् आरभ्य, नैषाति-दुःसहा क्षुन् माम् [भ्प् 10.1.13] इत्य् अन्तं
दशम-स्कन्ध-प्रकरणम् (पगे 21) अप्य् अनुसन्धेयम् ।
किं च इत्थं द्विजा यादव-देवदत्तः [भ्प् 10.12.40] इत्य् आदि । येन श्रवणेन
नितरां गृहीतं वशीकृतं चेतो यस्य सः ।
॥ 10.12 ॥ श्री-सुतः

5.51

[51]
तथा, येन येनावतारेण इत्य् आदि यत् शृण्वतोऽपैत्य् अरतिः [भ्प् 10.7.1-2] इत्य् आदि
च । टीका च -
कृष्णार्भक-सुधा-सिन्धु-सम्प्लवानन्द-निर्भरः ।
भूयस् तद् एव सम्प्रष्टुं राजान्यद् अभिनन्दति ॥
येन येन मत्स्याद्यवतारेणापि यानि कर्माणि करोति तानि नः कर्ण-
सुखावहानि मनः प्रीति-कराणि च भवन्त्य् एव । तथापि यच् छृण्वतः
पुंसः पुं-मात्रस्यारतिर् मनो-ग्लानिस् तन्-मूल-भूता विविधा तृष्णा
चापगच्छति, तथा सत्त्व-शुद्धि-हरि-भक्ति-हरि-दास्य-सख्यानि च भवन्त्य्
अचिरेणैव तद् एवं हारं हरेश् चरितं मनोहरं वा वद अनुग्रहं यदि
करोषि इत्य् एषा ।
॥ 10.7 ॥ राजा

5.52

[52]
अथ श्री-शुकदेवस्य अपि मे भगवान् प्रीतः कृष्णः पाण्डु-सुत-प्रियः [भ्प्
1.19.35] इत्य् आदिना श्री-कृष्ण एव स्व-रतिं व्यज्य म्रियमाणानां श्रोतव्यादि-
प्रश्नेनैवान्त-काले श्री-कृष्ण एव मय्य् उपदिश्यताम् इति
राजाभिप्रायानन्तरं -
वरीयान् एष ते प्रश्नः कृतो लोक-हितं नृप ।
आत्मवित् सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥ [भ्प् 2.1.1]
ते त्वया पुंसां श्रोतव्यादिषु मध्ये यः परः श्री-कृष्ण-
श्रवणाभिप्रायेण परमः प्रश्नः कृत एष वरीयान् सर्वावतारावतारि-
प्रश्नेभ्यः परम-महान् । लोक-हितं यथा स्यात् तथैव कृतः । त्वं तु
तथाभूत-श्री-कृष्णैक-निबद्ध-प्रेमत्वात् कृतार्तह् एवेति भावः । तद्
उक्तम् -
वैयासकेर् इति वचस्-तत्त्व-निश्चयम् आत्मनः ।
उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ॥ [भ्प् 2.4.1]
सती विद्यमाना कृष्णे या मतिस् ताम् एव विशेषेण धृतवान् इत्य् अर्थः । एतद्
एव व्यक्तीकरिष्यते राज्ञा -
हरेर् अद्भुत-वीर्यस्य कथा लोक-सुमङ्गला ।
कथयस्व महाभाग यथाहम् अखिलात्मनि ।
कृष्णे निवेश्य निःसङ्गं मनस् त्यक्ष्ये कलेवरम् ॥ इति [भ्प् 2.8.2]
॥ 2.1 ॥ श्री-शुकः

5.53

[53]
एवम् एव कथितो वंश-विस्तारम् [भ्प् 10.1.1] इत्य् आद्य्-अनन्तरं सम्यग्-
व्यवसिता बुद्धिः [भ्प् 10.1.15] इत्य् आदि ।
पूर्वं मया नानावतारादि-कथाभिर् अभिनन्दितस्यापि यत् श्री-वसुदेव-
नन्दनस्यैव कथायां नैष्ठिकी स्थायि-रूपा रतिर् जाता एषा बुद्धिस् तु
सम्यग्-व्यवसिता परम-विदग्धेत्य् अर्थः ॥
॥ 10.1 ॥ श्री-शुकः

5.54

[54]
तथा, इत्थं द्विजा यादव-देव-दत्तः श्रुत्वा स्व-रातुश् चरितं विचित्रम् [भ्प्
10.12.40] इत्य् अनन्तरं -
इत्थं स्म पृष्टः स तु बादरायणिस्
तत्-स्मारितानन्त-हृताखिलेन्द्रियः ।
कृच्छ्रात् पुनर् लब् ध-बहिर्-दृशिः शनैः
प्रत्याह तं भागवतोत्तमोत्तम ॥ [भ्प् 10.12.44]
अनन्तः प्रकटित-पूर्णैश्वर्यः श्री-कृष्णः । सर्वदा तेन स्मर्यमाणेऽपि
तस्मिन् प्रतिक्षणं नव्यत्वेन तत्-स्मारितेत्य् उक्तम् ॥
॥ 10.12 ॥ श्री-सुतः

5.55

[55]
अतएव स वै भागवतो राजा [भ्प् 2.3.15] इत्याद्य्-अनन्तरं राज्ञा समान-
वासनात्वेनैव तम् आह -
वैयासकिश् च भगवान् वासुदेव-परायणः ।
उरुगाय-गुणोदाराः सतां स्युर् हि समागमे ॥ [भ्प् 2.3.16] (पगे 22)
च-शब्दः प्राग्-वर्णितेन समान-वासनत्वं बोधयति । तस्मात् श्री-
वसुदेव-नन्दनत्वेनैवात्रापि वासुदेव-शब्दो व्याख्येयः । अन्येषाम् अपि
सतां समागमे तावद् उरुगायस्य गुणोदाराः कथा भवन्ति । तयोस् तु श्री-
कृष्ण-चरित-प्रधाना एव ता भवेयुर् इति भावः ॥
॥ 2.3 ॥ श्री-शुकः

5.56

[56]
किं बहुना, श्री-शुकदेवस्य श्री-कृष्ण एव तात्-पर्ये तद्-एक-चरितमयौ
ग्रन्थार्धायमानौ दशमैकादश-स्कन्धाव् एव प्रमाणम् ।
स्कन्धान्तरेष्व् अन्येषाम् चरितं संक्षेपेणैव समाप्य ताभ्यां तच्-
चरितस्यैव विस्तारितत्वात् । अत आरभ्य एव तत्-प्रसादं प्रार्थयते श्रियः
पतिः इत्य् आदौ --
पतिर् गतिश् चान्धक-वृष्णि-सात्वतां
प्रसीदतां मे भगवान् सतां गतिः ॥ [भ्प् 2.4.20] ॥
स्पस्टम् ॥ 2.4 ॥ श्री-शुकः

5.57

[57]
अथ श्री-व्यास-देवस्य -
अनर्थोपशमं साक्षाद् भक्ति-योगम् अधोक्षजे ।
लोकस्याजानतो विद्वांश् चक्रे सात्वत-संहिताम् ॥
यस्यां वै श्रूयमाणायां कृष्णे परम-पूरुषे ।
भक्तिर् उत्पद्यते पुंसः शोक-मोह-भयापहा ॥ [भ्प् 1.7.6-7]
अधोक्षजे श्री-कृष्णे ।
अधोऽनेन शयानेन शकटान्तर-चारिणा ।
राक्षसी निहता रौद्रा शकुनी-वेश-धारिणी ॥
पूतना नाम घोरा सा महा-काया महा-बला ।
विष-दिग्ध-स्तनं क्षुद्रा प्रयच्छन्ती जनार्दने ॥
ददृशुर् निहतां तत्र राक्षसीं वन-गोचराः ।
पुनर् जातोऽयम् इत्य् आहुर् उक्तस् तस्माद् अधोक्षजः ॥ [ह्व् 2.101.30-32]
इति हरिवंशे श्री-वासुदेव-माहात्म्ये तन्-नाम्नः श्री-कृष्ण-विषयताया
प्रसिद्धेः । अतएवोत्तरत्र-पद्ये साक्षात् कृष्ण इत्य् एवोक्तम् । श्री-भगवन्-
नाम-कौमुदी-काराश् च कृष्ण-शब्दस्य तमाल-श्यामल-त्विषि यशोदा-
स्तनन्धये पर-ब्रह्मणि रूढिः इति प्रयोग-प्राचुर्यात् तत्रैव प्रथमतः
प्रतीतेर् उदय इति चोक्तवन्तः । सामोपनिषदि च कृष्णाय देवकी-नन्दनाय
इति । अत्र ग्रन्थ-फलत्वं तस्यैव व्यक्तम् इति चैकेनैवानेन वचनेन तत्-
परिपूर्णता सिध्यति ॥
॥ 1.7 ॥ श्री-सूतः

5.58

[58]
अथ श्री-नारदस्य -
तत्रान्वहं कृष्ण-कथाः प्रगायताम्
अनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मे ऽनुपदं विशृण्वतः
प्रियश्रवस्य् अङ्ग ममाभवद् रुचिः ॥ [भ्प् 1.5.26]
येन येनावतारेण [भ्प् 10.7.1] इत्य् एतच्-छ्री-परीक्षिद्-वचन-पद्य-द्वयम्
अप्य् अत्र श्री-यशोदा-स्तनन्धयत्वे साधकं श्रुति-सामान्य-न्यायेन ॥
॥ 1.5 ॥ श्री-नारदः श्री-वेद-व्यासम्

5.59

[59]
तच्-छब्दस्यैवाभ्यासो दृश्यते - एवं कृष्ण-मतेः [भ्प् 1.6.28] इत्य् आदौ ।
अन्यत्र च --
यूयं नृ-लोके बत भूरि-भागा
लोकं पुनाना मुनयो ऽभियन्ति ।
येषां गृहान् आवसतीति साक्षाद्
गूढं परं ब्रह्म मनुष्य-लिङ्गम् ॥
स वा अयं ब्रह्म महद्-विमृग्य-
कैवल्य-निर्वाण-सुखानुभूतिः ।
प्रियः सुहृद् वः खलु मातुलेय
आत्मार्हणीयो विधि-कृद् गुरुश् च ॥
न यस्य साक्षाद् भव-पद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम् ।
मौनेन भक्त्योपशमेन पूजितः
प्रसीदताम् एष स सात्वतां पतिः ॥ [भ्प् 7.10.48-50]
(पगे 23)
टीका च - अहो प्रह्लादस्य भाग्यं येन देवो दृष्टः । वयं तु मन्द-
भाग्या इति विषीदन्तं राजानं प्रत्य् आह यूयम् इति त्रिभिर् इत्य् एषा ।
मनुष्यस्य दृश्यमान-मनुष्यस्येव लिङ्गं कर-चरणादि-सन्निवेशो यस्य
तं रूपं श्री-विग्रहः । वस्तुतया नोपवर्णितं तद्-रूपस्यैव पर-
ब्रह्मत्वेन किम् इदं वस्त्व् इति निर्देष्टुम् अशक्यत्वात् । यथोक्तं सहस्र-
नाम-स्तोत्रे अनिर्देश्य-वपुर् इति । एषाम् एव पद्यानां सप्तमान्तेऽपि
परमामोदकत्वात् पुनर् आवृत्तिर् दृश्यते ॥
॥ 7.10 ॥ स श्री-युधिष्ठिरम्

5.60

[60]
अत्र च स्पष्टम् -
देव-दत्ताम् इमां वीणां स्वर-ब्रह्म-विभूषिताम् ।
मूर्च्छयित्वा हरि-कथां गायमानश् चराम्य् अहम् ॥
प्रगायतः स्व-वीर्याणि तीर्थ-पादः प्रिय-श्रवाः ।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ [भ्प् 1.6.33-34]
देवः श्री-कृष्ण एव । लिङ्ग-पुराणे उपरि-भागे तेनैव स्वयं तस्य वीणा-
ग्रहणं हि प्रसिद्धम् । अत्र यद्-रूपेण वीणा ग्राहिता तद्-रूपेणैव चेतसि
दर्शनं स्वारस्य-लब्धम् । देव-दत्ताम् इति कृतोपकारतायाः
स्मर्यमाणत्वेन तम् अनुसन्धायैव तद्-उक्तेः ।
॥ 1.6 ॥ श्री-नारदः श्री-वेद-व्यासम्

5.61

[61]
अत एतद् एवम् एव व्याख्येयम् ।
त्वम् आत्मनात्मानम् अवेह्य् अमोघ-दृक्
परस्य पुंसः परमात्मनः कलाम् ।
अजं प्रजातं जगतः शिवाय तन्
महानुभावाभ्युदयो ऽधिगण्यताम् ॥ [भ्प् 1.5.21]
हे अमोघ-दृक् त्वम् आत्मना स्वयम् आत्मानं स्वं परस्य पुंसः कलाम्
अंश-भूतम् अवेहि अनुसन्धेहि । पुनश् च जगतः शिवायाधुनैव श्री-
कृष्ण-रूपेण यश् चाजोऽपि प्रजातस् तम् अवेहि । तद् एतद् द्वयं ज्ञात्वा
महानुभावस्य सर्वावतारावतारि-वृन्देभ्योऽपि दर्शित-प्रभावस्य तस्य
श्री-कृष्णस्यैवाभ्युदयो लीला अधि अधिकं गण्यतां निरूप्यताम् । स्वयम्
ईश्वरोऽपि भवान् निजाज्ञान-रूपां मायां न प्रकटयत्व् इति भावः ॥
॥ 1.5 ॥ स तम्

5.62

[62]
अतएव पुराण-प्रादुर्भावाय श्री-व्यासं श्री-नारदेन चतुर्व्यूहात्मक-
श्री-कृष्ण-मन्त्र एवोपदिष्टस् तद्-उपायकस्य सर्वोत्तमत्वं च । यथा -
नमो भगवते तुभ्यम् [भ्प् 1.5.37] इत्य् आदि स सम्यग्-दर्शनः पुमान् [भ्प्
1.5.38] इत्य् अन्तम् । स्पष्टम् ।
॥ 1.5 ॥ स तम्

5.63

अथ श्री-ब्रह्मणः -
भूमेः सुरेतर-वरूथ-विमर्दितायाः
क्लेश-व्ययाय कलया सित-कृष्ण-केशः ।
जातः करिष्यति जनानुपलक्ष्य-मार्गः
कर्माणि चात्म-महिमोपनिबन्धनानि ॥ [भ्प् 2.7.26]
असुर-सेना-निपीडितायाः भूमेः क्लेशम् अपहर्तुं परमात्मनोऽपि परत्वाज्
जनैर् अस्माभिर् अनुपलक्ष्य-मार्गोऽपि प्रादुर्भूतः सन् कर्माणि च
करिष्यति । कोऽसौ कलया अंशेन सित-कृष्ण-केशो यः । यत्र सित-कृष्ण-केशौ
देवैर् दृष्टाव् इति शास्त्रान्तर-प्रसिद्धिः । सोऽपि यस्यांशेन स एव भगवान्
स्वयम् इत्य् अर्थः । तद्-अविनाभावित्वाच् छ्री-बलदेवस्यापि ग्रहणं
द्योतितम् ।
ननु पुरुषाद् अपि परोऽसौ भगवान् कथं भू-भारावतारण-मात्रार्थं
(पगे 24) स्वयम् अवतारिष्यतीत्य् आशङ्क्याह - आत्मनो महिमानः परम-
माधुरी-सम्पद उपनिबध्यन्ते निज-भक्तैर् अधिकं वर्ण्यन्ते येषु तानि
कर्माणि च करिष्यति । यद्यपि निजांशेनैव वा निजेच्छाभासेनैव वा भू-
भार-हरणम् ईषत्-करं तथापि निज-चरणारविन्द-जीवातु-वृन्दम्
आनन्दयन्न् एव लीला-कादम्बिनीर् निज-माधुरी-वर्षणाय
वितरिषमाणोऽवतरिष्यतीत्य् अर्थः । एतद् एव व्यक्तीकृतं तोकेन जीव-हरणम्
[भ्प् 2.7.27] इत्य् आदौ । इतरथा स्व-माधुरी-सम्पत्-प्रकाशनेच्छाम्
अन्तरेण मधुरतरं तोकादि-भावं दधता तेन पूतनादीनां जीवन-
हरणादिकं कर्म न भाव्यं न सम्भावनीयम् ।
तथा च तथायं चावतारस् ते [भ्प् 1.7.25] इत्य् आदौ तैर् एव व्याख्यातम् । किं
भू-भार-हरणं मद्-इच्छा-मात्रेण न भवति तत्राह स्वानाम् इतीति ।
जयति जननिवास [भ्प् 10.90.48] इत्य् अत्र च इच्छा-मात्रेण निरसन-समर्थोऽपि
क्रीडार्थं दोर्भिर् अधर्मम् अस्यन्न् इति तद् एवम् आदिभिः श्री-कृष्णस्यैव
सर्वाद्भुतता-वर्णनाभिनिवेश-प्रपञ्चो ब्रह्मणि स्पष्ट एव । अस्तु तावत्
तद् भूरि भाग्यम् इह जन्म किम् अप्य् अटव्याम् [भ्प् 10.14.34] इत्य् आदि ॥
॥ 2.7 ॥ ब्रह्मा श्री-नारदम्

5.73

[64]
एवं चतुः-श्लोकी-वक्तुः श्री-भगवतोऽपि
[वृ. इन्सेर्त्स्] श्री-कृष्णत्वम् एव । तथा हि -
ददर्श तत्राखिल-सात्वतां पतिं
श्रियः पतिं यज्ञ-पतिं जगत्-पतिम् ।
सुनन्द-नन्द-प्रबलार्हणादिभिः
स्व-पार्षदाग्रैः परिसेवितं विभुम् ॥ [भ्प् 2.9.14] इति ।
व्याख्या च - अखिल-सात्वतां सर्वेषां सात्वतानां यादव-वीराणां पतिम् ।
श्रियः पतिर् यज्ञ-पतिः प्रजा-पतिर्
धियां पतिर् लोक-पतिर् धरा-पतिः ।
पतिर् गतिश् चान्धक-वृष्णि-सात्वतां
प्रसीदतां मे भगवान् सतां पतिः ॥ [भ्प् 2.4.20]
इत्य् एतद्-वाक्य-संवादि-तत्त्वात् ।
पुरा मया प्रोक्तम् अजाय नाभ्ये
पद्मे निषण्णाय ममादि-सर्गे ।
ज्ञानं परं मन्-महिमावभासं
यत् सूरयो भागवतं वदन्ति ॥ [भ्प् 3.4.13]
इति तृतीये उद्धवं प्रति श्री-कृष्ण-वाक्यानुसारेण च -
यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास्तस्मै गोपायति स्म कृष्णः ।
तं ह दैवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमनुव्रजेत ॥ [ग्तु 1.22]
इति श्री-गोपाल-तापन्य्-अनुसारेण च तस्यैवोपदेष्टृत्व-श्रुतेः - तद् उ होवाच
ब्राह्मणोऽसाव् अनवरतं मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत । गोप-
वेशो मे पुरुषः पुरस्ताद् आविर्बभूव ॥ [ग्तु 1.25] इति श्री-गोपाल-तापन्य्-
अनुसारेण क्वचित् कल्पे श्री-गोपाल-रूपेण सृष्ट्य्-आदाव् इत्थम् एव ब्रह्मणे
दर्शित-निज-रूपत्वाद् धाम्ना महा-वैकुण्ठत्वेन साधयिष्यमाणत्वाच्
च । तथा च ब्रह्म-संहितायाम् --
सिसृक्षायां मतिं चक्रे पूर्व-संस्कार-संस्कृतः ।
ददर्श केवलं ध्वान्तं नान्यत् किम् अपि सर्वतः ॥
उवाच पुरतस् तस्मै तस्य दिव्य सरस्वती ।
कामः कृष्णाय गोविन्द हे गोपी-जन इत्य् अपि ।
वल्लभाय प्रिया वह्नेर् मन्त्रम् ते दास्यति प्रियम् ॥
तपस् त्वं तप एतेन तव सिद्धिर् भविष्यति ।
अथ तेपे स सुचिरं प्रीणन् गोविन्दम् अव्ययम् ॥ [ब्रह्मस् 5.22-25] इत्य् आदि ।
सुनन्द प्रबलार्हणाधिभिः [भ्प् 2.9.14] इत्य् अत्र तु द्वारकायां
प्राकट्यावसरे श्रुत-सुनन्द-नन्दादि-साहचर्येण प्रबलादयोऽपि ज्ञेयाः ।
यथोक्तं प्रथमे सुनदनन्द-शीर्षण्या ये चान्ये सात्वतर्षभाः [भ्प्
1.14.32] इति । [एन्द् वृ. अद्दितिओन्]
[अ रेअद्स् इन्स्तेअद् ओf अबोवे] श्री-कृष्णत्वेनैव दर्शितत्वात् तस्य च अहम् एवासम्
एवाग्रे [भ्प् 2.9.32] इत्य् उक्तेस् तस्मिन्न् एव तात्पर्यं स्पष्टम् [एन्द् अ] ।
(पगे 25)
किं बहुना, नानावतारावतारिष्व् अपि सत्सु महा-पुराण-प्रारम्भ एव श्री-
शौनकादीनां श्री-कृष्णे तात्पर्यम् । अत्र पूर्वे सामान्यतोऽस्माभिर् एकान्त-
श्रेयस्त्वेन सर्व-शास्त्र-सारत्वेन आत्मसु प्रसाद-हेतुत्वेन च यत् पृष्टं
तद् एतद् एवास्माकं भाति यत् श्री-कृष्णस्य लीला-वर्णनम् इत्य् अभिप्रेत्याहुः ।
सूत जानासि भद्रं ते भगवान् सात्वतां पतिः ।
देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ [भ्प् 1.1.12]
भद्रं त इति श्री-कृष्ण-लीला-प्रश्न-सहोदरौत्सुक्येनाशीर्वादः । भगवान्
स्वयम् एवावतारी । सात्वतां यादवानाम् ।
[वृ. अद्द्स्: सम्पूर्णैश्वरादि-युक्तः । सात्वतां सात्वतानां पतिः । नुड्-अभावे
आर्षः । यादवानाम् इत्य् अर्थः । जातो जगद्-दृश्यो बभूव । [एन्द् वृ.]
[65]
तन् नः शुष्रूषमाणानाम् अर्हस्य् अङ्गानुवर्णितुम् ।
यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ [भ्प् 1.1.13]
अङ्गे हे सूत सामान्यतस् तावद् यस्यावतार-मात्रं क्षेमाय पालनाय
भवाय समृद्धये च । तत्-प्रभावम् अनुवर्णयन्तस् तद्-यशः-
श्रवणौत्सुक्यम् आविष्कुर्वन्ति ।
[66]
आपन्नः संसृतिं घोरां यन्-नाम विवशो गृणन् ।
ततः सद्यो विमुच्येत यद् बिभेति स्वयं भयम् ॥ [भ्प् 1.1.14]
विवशोऽपि यस्य श्री-कृष्णस्य नाम तस्यावतारित्वाद् अवतार-नाम्नाम् अपि
तत्रैव पर्यवसानात् । अतएव साक्षात् श्री-कृष्णाद् अपि तत्-तन्-नाम-प्रवृत्ति-
प्रकारान्तरेण श्रूयते श्री-विष्णु-पुराणे । तत्र त्व् अखिलानाम् एव भगवन्-
नाम्नां कारणान्य् अभवन्न् इति हिस् तदीयं गद्यम् । ततः संसृतेः । यद् यतो
भयम् अपि स्वयं बिभेति ।
[67]
किं च --
यत्-पाद-संश्रयाः सूत मुनयः प्रशमायनाः
सद्यः पुनन्त्य् उपस्पृष्टाः स्वर्धुन्य्-आपो ऽनुसेवया ॥ [भ्प् 1.1.15]
यस्य श्री-कृष्णस्य पादौ संश्रयौ येषाम् । अतएव प्रशमायनाः शमो
भगवन्-निष्ठ-बुद्धिता । शमो मन्-निष्ठता बुद्धेर् इति [भ्प् 11.19.36]
स्वयं श्री-भगवद्-वाक्यात् स एव प्रकृष्टः शमः प्रशमः । साक्षात्-
पूर्ण-भगवत्-श्री-कृष्ण-सम्बन्धित्वात् । प्रशम एवायनं वर्त्म आश्रयो
वा येषां ते श्री-कृष्ण-लीला-रसाकृष्ट-चित्ता मुनयः श्री-शुकदेवादयः ।
उपस्पृष्टाः सन्निधि-मात्रेण सेविताः सद्यः पुनन्ति स-वासन-पापेभ्यः
शोधयन्ति । स्वर्धुनी गङ्गा तस्या आपस् तु - योऽसौ निरञ्जनो देवश् चित्-
स्वरूपा अपि साक्षाच् छ्री-वामन-देव-चरणान् निःसृता अपि, अनुसेवया साक्षात्
सेवाभ्यासेनैव तथा शोधयन्ति न सन्निधि-मात्रेण सेवया । साक्षात्
सेवयापि न सद्य इति तस्या अपि श्री-कृष्णाश्रितानाम् उत्कर्षात् तस्योत्कर्षः ।
एवम् एव ततस् तद्-यशसोऽप्य् आधिक्यं वर्ण्यते । तीर्थं चक्रे नृपोनं यद्
अजनि यदुषु स्वः-सरित्-पाद-शौचम् इति [भ्प् 10.90.47] ।
(पगे 26)
टीका च - इतः पूर्वं स्वः-सरिद् एव सर्वतोऽधिकं तीर्थम् इत्य् आसीद् इदानीं
यदुषु यद् अजनि जातं तीर्थं श्री-कृष्ण-कीर्ति-रूपं एतत् स्वः-सरिद्-रूपं
पाद-शौचं तीर्थम् ऊनम् अल्पं चक्रे इत्य् एषा ।
[68]
एतस्य दशम-स्कन्ध-पद्यस्यैव संवादितां व्यनक्ति ।
को वा भगवतस् तस्य पुण्य-श्लोकेड्य-कर्मणः ।
शुद्धि-कामो न शृणुयाद् यशः कलि-मलापहम् ॥ [भ्प् 1.1.16]
स्पष्टम् ॥
[69]
यस्माद् एव तस्मात् ।
तस्य कर्माण्य् उदाराणि परिगीतानि सूरिभिः ।
ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥ [भ्प् 1.1.17]
उदाराणि परमानन्द-दातॄणि जन्मादीनि स्वयं परिपूर्णस्य लीलया अन्या अपि
कलाः पुरुषादि-लक्षणा दधतस् तत्-तद्-अंशान् अप्य् आदाय तस्यावतीर्णस्य
सत इत्य् अर्थः ।
[70]
अथाख्याहि हरेर् धीमन्न् अवतार-कथाः शुभाः ।
ईला विदधतः स्वैरम् ईश्वरस्यात्म-मायया ॥ [भ्प् 1.1.18]
श्री कृष्णस्य तावन्-मुख्यत्वेन कथय अथ तद्-अनन्तरम्
आनुषङ्गिकतयैवेत्य् अर्थः । हरेः श्री-कृष्णस्य प्रकरण-बलात् । अवताराः
पुरुषस्य गुणावतारा लीलावताराश् च । तेषां कथा लीलाः सृष्ट्य्-आदि-कर्म-
रूपा भू-भार-हरणादि-रूपाश् च ।
[71]
औत्सुक्येन पुनर् अपि तच्-चरितान्य् एव श्रोतुम् इच्छन्तस् तत्रात्मनस् तृप्त्य्-
अभावम् आवेदयन्ति ।
वयं तु न वितृप्याम उत्तम-श्लोक-विक्रमे ।
यच्-छृण्वतां रस-ज्ञानां स्वादु स्वादु पदे पदे ॥ [भ्प् 1.1.19]
योग-यागादिषु तृप्ताः स्मः । भगवद्-विक्रम-मात्रे तु न तृप्याम एव
तत्रापि तीर्थं चक्रे नृपोनम् इत्य् आद्य्-उक्त-लक्षणस्य सर्वतोऽप्य्
उत्तमश्लोकस्य विक्रमे विशेषेण न तृप्यामः । अलम् इति न मन्यामहे ।
तत्र हेतुः । यद् विक्रमं शृण्वताम् । यद् वा अन्ये तृप्यन्तु नाम वयं तु
नेति तु-शब्दस्यान्वयः ।
[72]
कृतवान् किल कर्माणि सह रामेण केशवः ।

अतिमर्त्यानि भगवान् गूढः कपट-मानुषः ॥ [भ्प् 1.1.20]
टीका च - अतः श्री-कृष्ण-चरितानि कथयेत्य् आशयेनाहुः कृतवान् इति ।
अतिमर्त्यानि मर्त्यान् अतिक्रान्तानि गोवर्धनोद्धरणादीनि । मनुष्येष्व्
असम्भावितानीत्य् अर्थः इत्य् एषा ।
ननु कथं मानुषः सन्न् अतिमर्त्यानि कृतवान् ? तत्राह कपट-मानुषः ।
पार्थिव-देह-विशेष एव मानुष-शब्दः प्रतीतः तस्मात् कपटेनैवासौ
तथा भातीत्य् अर्थः । वस्तुतस् तु नराकृतेर् एव पर-ब्रह्मत्वेनासत्य् अपि
प्रसिद्ध-मानुषत्वे नराकृति-नर-लीलात्वेन लब्धम् अप्रसिद्ध-
मानुषत्वम् अस्त्य् एव ।
(पगे 27)
तत् पुनर् ऐश्वर्याव्याघातकत्वान् न प्रत्याख्यायत इति भावः । अतएव
स्यमन्तकाहरणे पुरुषं प्राकृतं मत्वा [भ्प् 10.53.22] इत्य् अनेन
जाम्बवतोऽन्यथा-ज्ञान-व्यञ्जकेन तस्य प्राकृतत्वं निषिध्य पुरुषत्वं
स्थाप्यते । एवं माया-मनुष्यस्य वदस्व विद्वन्न् [भ्प् 10.1.7] इत्य् आदिष्व् अपि
ज्ञेयम् । यस्मात् कपट-मानुषस् तस्माद् एव गूढः स्वतस् तु तद्-
रूपतयैव भगवान् इति ॥
॥ 1.1 ॥ श्री-शौनकः ॥ 64-72 ॥
[73]
अथ श्री-सूतस्यापि इति सम्प्रश्न-संहृष्टः [भ्प् 1.2.1] इत्य् आद्य्-अनन्तरं
नारायणं नमस्कृत्य [भ्प् 1.2.2] इत्य्-आद्य्-अन्ते पुराणम् उपक्रम्यैवाह --
मुनयः साधु पृष्टो ऽहं भवद्भिर् लोक-मङ्गलम् ।
यत् कृतः कृष्ण-सम्प्रश्नो येनात्मा सुप्रसीदति ॥ [भ्प् 1.2.5]
टीका च - तेषां वचः प्रतिपूज्येति यद् उक्तं तत् प्रतिपूजनं करोति । हे
मुनयः साधु यथा भवति तथाहं पृष्टः । यतो लोकानां मङ्गलम्
एतत् । यतः कृष्ण-विषयः संप्रश्नः कृतः । सर्व-शास्त्रार्थ-सारोद्धार-
प्रश्नस्यापि कृष्णे पर्यवसानाद् एवम् उक्तम् । इत्य् एषा ।
इत्य् एवोत्तरेष्व् अपि पद्येषु अधोक्षज-वासुदेव-सात्वतां-पति-कृष्ण-शब्दास्
तत्-प्राधान्य-विवक्षयैव पठिता । अत्र श्रेयः-प्रश्नस्याप्य् उत्तरं लोक-
मङ्गलम् इत्य् अनेनैव दत्तं भवति । तथात्म-सुप्रसाद-हेतोश् च येनात्मा
सुप्रसीदति इत्य् अनेन ।
॥ 1.2 ॥ श्री-सूतः

5.74

[74]
तद् एवं श्रोतृ-वक्तॄणाम् ऐकमत्येन च तात्पर्यं सिद्धम् ।
[वृ. अद्द्स् हेरे: अथ श्रुति-लिङ्गादिभिः षड्भिर् अपि प्रमाणैः स एव
प्रमीयते । तत्र निरपेक्ष-रवा श्रुतिर् दर्शितैव कृष्णस् तु भगवान् स्वयम्
इत्य् अत्र । अथ श्रुति-सामर्थ्य-रूपं लिङ्गं च ।
तावत् सर्वे वत्स-पालाः पश्यतोऽजस्य तत्-क्षणात् ।
व्यदृश्यन्त घन-श्यामाः पीत-कौशेय-वाससः ॥ [भ्प् 10.13.46] इत्य् आदौ
ज्ञेयम् ।
किन्त्व् अन्यत्र बर्हिर् देव-सदनं दामि इत्य् अस्य मन्त्र-रूपस्य लिङ्गस्य बलात्
श्रुतिः कल्प्यते । अत्र तु कृष्णस् तु भगवान् स्वयम् इति साक्षाद् एव तद्-
रूपोऽस्तीति विशेषोऽप्य् अस्ति । अथाकाङ्क्षा-योग्यतासत्ति-मद्-अनेक-पद-
विशिष्टैकार्थ्य-प्रतिपादक-शब्द-रूपं वाक्यं च यस्यां वै
श्रूयमानायां [भ्प् 1.7.7] इति अश्वाभिधानीम् आदत्ते इति ब्राह्मण-वाक्याद्
अश्व-रसना-दाने विनियोगः प्रतीयते । तथात्रापि भक्ति-योगेन मनसि
सम्यक् प्रणिहितेऽमले । अपश्यत् पुरुषं पूर्णं [भ्प् 1.7.6] इत्य् अत्र पूर्ण-
पुरुषत्वेनोक्तस्य कृष्णत्वम् । यस्यां वै श्रूयमानायां कृष्णे परम-
पूरुषे [भ्प् 1.7.7] इति वाक्याद् व्यज्यते इति । तथारभ्याधीत-रूपं
प्रकरणं चात्र सूत जानासि भद्रं ते [भ्प् 1.10.12] इत्य् आदि-रूपम् । यथा
दर्श-पूर्णमासाभ्यां यजेत इत्य् अत्र तृतीयया श्रुत्या दर्श-पूर्णमासयोः
प्रकरणत्वेन प्राप्ते करणस्य चेति कर्तव्यताकाङ्क्षायां अग्निष्टोमेन
स्वर्ग-कामो यजेत इति तद् आरभ्य प्रकरणार्थारब्धेन स्वर्ग-काम इत्य्
अनेन योजना । तथा सूत जानासि भद्र ते इत्य् अत्र श्रवणारम्भ एव श्री-
कृष्णस्यावतारे हेतुं विज्ञातुम् इच्छद्भिः शौनकादिभिस् तत्र
परमाद्भुततां व्यज्य श्री-कृष्णस्यैव सर्वत्र ज्ञेयत्वेन योजना गम्येति
तस्यैव स्वयं भगवत्त्वं व्यक्तम् । दर्शितं तच् च सर्व-श्रोतृ-वक्तॄणां
तद् ऐकमत्य-प्रकरणेनेति ।
अथ क्रम-वर्तिनां पदार्थानां क्रम-वर्तिभिः पदार्थैः यथा-क्रम-
सम्बन्ध-रूपं स्थानं चात्र सूत जानासि भद्रं ते इत्य् आदाव् एव ज्ञेयम् ।
यथा दर्श-पौर्णमास-प्रकरणे कानिचित् कर्माणि उपांशु-याग-प्रभृतीनि
दर्विर् असि इत्य् आदयः केचन मन्त्राश् च समाम्नायन्ते । तत्र यस्य क्रमेण
यो मन्त्रः समास्नातस् तेनैव तस्य च सम्बन्धस् तथा मुनयः साधु
पृष्टोऽहं भवद्भिर् लोक-मङ्गलम् । यत्-कृतं कृष्ण-सम्प्रश्नः इत्य् अत्र
कृष्ण-शब्दस्य प्रथम-प्रश्नोत्तर-गतत्वेन पठितस्य देवकी-जात-
वाचकत्वम् एव लभ्यते । अथ नामादिना तुल्यताख्यान-रूपा समाख्या च
जगृहे पौरुषं रूपं भगवान् इत्य् अस्य एते चांश-कलाः पुंसः कृष्णस् तु
भगवान् स्वयम् इत्य् अत्र पर्यवसानम् इत्य् एवं ज्ञेयम् । यथाध्वर-
संज्ञानां मन्त्राणाम् अग्निर् यज्ञं नयतु प्रजानन् इत्य् आदीनां आध्वर्य-
संज्ञके कर्मणि नियोग इति । [एन्द् वृ. अद्दितिओन्.]
किं च एतस्याम् अष्टादश-साहस्र्यां संहितायां श्री-कृष्णस्यैवाभ्यास-
बाहुल्यं दृश्यते । तत्र प्रथम-दशमैकादशेष्व् अतिविस्तरेणैव । द्वितीये
श्री-ब्रह्म-(पगे 28)-नारद-संवादे । तृतीये श्री-विदुरोद्धव-संवादे ।
चतुर्थे ताव् इमौ वै भगवतो हरेर् अंशाव् इहागताव् [भ्प् 4.1.57] इत्य् आदौ,
यच् चान्यद् अपि कृष्णस्य [भ्प् 4.17.6] इत्य् आदौ च । पञ्चमे राजन् पतिर् गुरुर्
अलम् [भ्प् 5.6.18] इत्य् आदौ । षष्ठे मां केशवो गदया प्रातर् अव्याद् गोविन्द
आसङ्गवम् आत्त-वेणुः [भ्प् 6.8.20] इत्य् अत्र । सप्तमे नारद-युधिष्ठिर-
संवादे । अष्टमे तन्-महिम-विशेष-बीजारोप-रूपे कालनेमि-वधे तादृश-
श्रीमद्-अजित-द्वारापि तस्य मुक्तिर् नाभवत् किन्तु पुनः कंसत्वे तद्-
द्वारैवेति तत्-तन्-महिम-विशेष-कथन-प्रथमाङ्गत्वात् । नवमे
सर्वान्ते । द्वादशे च श्री-कृष्ण-कृष्ण-सख-वृष्ण्य्-ऋषभावनि-ध्रुग्-
राजन्य-वंश-दहनानपवर्ग्य-वीर्य [भ्प् 12.11.25] इत्य् आदौ ।
श्री-भागवतानुक्रमणिकायां च उत्तरोत्तरत्र सर्वतोऽपि भूयस्त्वेन
गीयते । तथा च यस्याभ्यासस् तद् एव शास्त्रे प्रधानम् इत्य्
आनन्दमयोऽभ्यासाद् [व्स् 4.1.12] इत्य् अत्रापरैर् अपि समर्थितत्वाद् इहापि श्री-
कृष्ण एव प्रधानं भवेद् इतीति तस्यैव मूल-भगवत्त्वं सिध्यति । यत्-
प्रतिपादकत्वेनास्य शास्त्रस्य भागवतम् इत्य् आख्या । अपि च न केवलं
बहुत्र सूचन-मात्रम् अत्राभ्यासनम् अपि त्व् अर्धाद् अप्य् अधिको ग्रन्थस् तत्-
प्रस्तावको दृश्यते । तत्रापि सर्वाश्चर्यतया । तस्मात् साधूक्तम् एते चांस-
कलाः पुंसः कृष्णस् तु भगवान् स्वयम् [भ्प् 1.3.28] इति ।
तद् एवम् अस्य वचन-राजस्य सेना-सङ्ग्रहो निरूपितः । तथा तस्य प्रतिनिधि-
रूपाणि वाक्यान्तराणि अपि दृश्यन्ते । यथा -
अष्टमस् तु तयोर् आसीत् स्वयम् एव हरिः किल ॥ इति [भ्प् 9.24.55]
किल-शब्देन कृष्णस् त्व् इति प्रसिद्धिः सूच्यते । ततो हरिर् अत्र भगवान् एव ।
यथोक्तम् - वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः [भ्प् 10.1.23] इति
च ।
॥ 9.24 ॥ श्री-शुकः

5.75

[75]
यथा वा - अहो भाग्यम् अहो भाग्यम् इत्य् आदि ॥ [भ्प् 10.14.32]
ब्रह्मत्वेनैव बृहत्तमत्वे लब्धेऽपि पूर्णम् इत्य् अधिकं विशेषणम्
अत्रोपजीव्यते ॥
॥ 10.14 ॥ श्री-ब्रह्मा भगवन्तम्

5.76

[76]
अतएव -
स्वयं त्व् असाम्यातिशयस् त्र्यधीशः
स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः ।
बलिं हरद्भिश् चिर-लोक-पालैः
किरीट-कोटीडित-पाद-पीठः ॥ [भ्प् 3.2.21]
न साम्यातिशयौ यस्य यम् अपेक्ष्यान्यस्य साम्यम् अतिशयश् च नास्तीत्य्
अर्थः । तत्र हेतवस् त्र्य्-अधीशस् त्रिषु सङ्कर्षण-प्रद्युम्नानिरुद्धेष्व् अप्य्
अधीशः । सर्वांशित्वाद् अतएव स्वाराज्य-लक्ष्म्या सर्वाधिक-परमानन्द-
स्वरूप-सम्पत्त्यैव प्राप्त-समस्त-भोगः । बलिं तद्-इच्छानुसरण-रूपम्
अर्हणं हरद्भिः समर्पयद्भिश् चिरैर् लोक-पालैर् भगवद्-दृष्ट्य्-
अपेक्षया ब्रह्मादयस् तावद् अचिर-लोक-पालाः अनित्यत्वात् ततश् च चिर-
कालीनैर् लोक-पालैर् अनन्त-ब्रह्माण्डान्तर्यामि-पुरुषैः किरीट-कोटि-द्वारा
ईडितं स्तुतं पाद-पीठं यस्य सः । अत्यन्त-तिरस्कृत-वाच्य-ध्वनिना
परम-श्रेष्ठ इत्य् अर्थः । समस्त-पाद-पाठेऽपि (पगे 29) स एवार्थः ।
श्री-कृष्ण इति कृष्णस् तु भगवान् स्वयम् इतिवत् स्वयं भगवत्ताम् एव
व्यनक्ति ।
॥ 3.2 ॥ श्रीमद्-उद्धवो विदुरम्

5.77

[77]
तद् एतत् पूर्णत्वं दृष्टान्त-द्वारापि दर्शितम् अस्ति ।
देवक्यां देव-रूपिण्यां विष्णुः सर्व-गुहा-शयः ।
आविरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः ॥ [भ्प् 10.3.8]
यथा यथावत् स्व-स्वरूपेणैवेत्य् अर्थः ॥
॥ 10.3 ॥ श्री-शुकः

5.78

[78]
यथा च -
अखण्ड-मण्डलो व्योम्नि रराजोडु-गणैः शशी ।
यथा यदु-पतिः कृष्णो वृष्णि-चक्रावृतो भुवि ॥ [भ्प् 10.20.44]
स्पष्टम् ॥ 10.20 ॥ श्री-शुकः

5.79

[79]
तथा श्री-कृष्ण-प्रतिनिधि-रूपत्वाद् अस्य महा-पुराणस्य श्री-कृष्ण एव
मुख्योऽभिधेय इत्य् अप्य् आह ।
कृष्णे स्व-धामोपगते धर्म-ज्ञानादिभिः सह ।
कलौ नष्ट-दृशाम् एष पुराणार्को ऽधुनोदितः ॥ [भ्प् 1.3.43]
स्पष्टम् ॥ 1.3 ॥ श्री-सूतः

5.82

[80]
तद् एवं श्री-कृष्णस्य स्वयं भगवत्त्वं दर्शितम् । तत् तु गति-सामान्येनापि
लभ्यते । यथा महाभारते -
सर्वे वेदाः सर्व-विद्याः सर्व-शास्त्राः
सर्वे यज्ञाः सर्व ईड्यश् च कृष्णः ।
विदुः कृष्णं ब्राह्मणास् तत्त्वतो
ये तेषां राजन् सर्वाज्ञाः समाप्ताः ॥ इति ।
अत्र सर्व-समन्वय-सिद्धेः पूर्णत्वम् एव लभ्यते । एवं श्री-भगवद्-
उपनिषत्सु च - वेदैश् च सर्वैर् अहम् एव वेद्यो वेदान्त-कृद् वेद-विद् एव
चाहम् [ब्ग् 15.15] इति, ब्रह्मणो हि प्रतिष्ठाहम् [ब्ग् 14.27] इत्य् आदि च ।
ब्रह्म-संहितायाम् [5.29] -- चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-
लक्षावृतेषु सुरभीर् अभिपालयन्तम् इत्य् आदिकम् उपक्रम्य -
यस्यैक-निश्वसित-कालम् अथावलम्ब्य
जीवन्ति लोम-विलजा जगद्-अण्ड-नाथाः ।
विष्णुर् महान् स इह यस्य कला-विशेषो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति [ब्रह्मस् 5.30] ।
ननु पाद्मोत्तर-खण्डादौ सर्वावतारी पर-व्योमाधिपतिर् नारायण एवेति
श्रूयते । पञ्चरात्रादौ तु वासुदेवः, न च स कृष्ण एवेति वक्तव्यम् । तत् तु
स्थान-परिकर-नाम-रूपाणां भेदात् । तर्हि कथं श्री-कृष्णस्यैव
सर्वावतारित्वं स्वयं-भगवत्त्वं वा ? तत्रोच्यते श्री-भागवतस्य सर्व-
शास्त्र-चक्रवर्तित्वं प्रथम-सन्दर्भे प्रघट्टकेनैव दर्शितम् ।
पूर्ण-ज्ञान-प्रादुर्भावानन्तरम् एव श्री-वेद-व्यासेन तत् प्रकाशितम् इति
च तत्रैव प्रसिद्धम् । स्फुटम् एव दृश्यते चास्मिन्न् अपर-
शास्त्रोपमर्दकत्वम् ।
इत्य् अङ्गोपदिशन्त्य् एके विस्मृत्य प्राग् उदाहृतम् ।
मुनि-वास-निवासे किं घटेतारिष्ट-दर्शनम् ॥ [भ्प् 10.57.31] इत्य् आदौ ।
एवं वदन्ति राजर्षे [भ्प् 10.77.30] इत्य् आदौ च । अतएव नवमेऽप्य् उक्तम्
हित्वा स्व-शिष्यान् पैलादीन् भगवान् बादरायणः ।
मह्यं पुत्राय शान्ताय परं गुह्यम् इदं जगौ ॥ [भ्प् 9.22.22] इति ।
तद् एवं सर्व-शास्त्रोपचरितत्वं सिद्धम् । तत्र श्री-कृष्णस्यैव स्वयं
भगवत्त्वं निरूपितम् । दृश्यते च प्रशंसितुर् वैशिष्ट्येन प्रशंस्यस्यापि
वैशिष्ट्यम् । यथा ग्रामाध्यक्ष्य-राज-सभयोः सर्वोत्तमत्वेन
प्रशस्यमानौ वस्तु-विशेषौ तारतम्यम् आपद्येते । (पगे 30) तद् एवं सत्स्व्
अप्य् अन्येषु तेष्व् अन्यत्र प्रशस्तेषु श्री-भागवत-प्रशंस्यमानस्य श्री-
कृष्णस्यैव परमाधिक्यं सिध्यति । अतएव कृष्णस् तु भगवान् स्वयम् इति
सावधाराणा श्रुतिर् अन्य-श्रुति-बाधिकेति युक्तम् एव व्याख्यातं पूर्वम्
अपि ।
ततश् च ते तु पर-व्योमाधिप-नारायण-वासुदेवादयः श्री-कृष्णस्यैव
मूर्ति-विशेषा भवेयुः । स्वयं श्री-कृष्णस् तु नारायणस् त्वम् इत्य् आद्य् उक्तो
महा-नारायणो द्वारकादि-प्रसिद्धो महा-वासुदेवश् च भवेत् । ततश् च
नारायण-वासुदेवोपनिषदोः स एव व्यक्तः । ब्रह्मण्यो देवकी-पुत्र इति
[नाउ 4], देवकी-नन्दनो निखिलम् आनन्दयाद् इति च । तद् इत्थम् एव तं
वासुदेवम् अपि विभूति-निर्विशेषतया स्वयम् एव स्पष्टम् आह - वासुदेवो
भगवताम् [भ्प् 11.19.29] इति स्पष्टम् ।
[81]
तथा -
सात्वतां नव-मूर्तीनाम् आदि-मूर्तिर् अहं परा ॥ इति [भ्प् 11.19.32]
टीका च - सात्वतां भागवतानां नव-व्यूहार्चने वासुदेव-सङ्कर्षण-
प्रद्युम्नानिरुद्ध-नारायण-हयग्रीव-वराह-नृसिंह-ब्रह्माण इति या
नव-मूर्तयस् तासां मध्ये वासुदेवाख्या । इत्य् एषा ।
अतएव दृश्यते चाद्वैत-वादिनाम् अपि सन्न्यासिनां व्यास-पूजा-पद्धतौ श्री-
कृष्णस्य मध्य-सिंहासनस्थत्वं वासुदेवादीनां व्यासादीनां चावरण-
देवतात्वम् इति । अतएव क्रम-दीपिकायाम् अष्टाक्षर-पटले वासुदेवादयस्
तद्-आवरणत्वेन श्रूयन्ते । यत् तु वृष्णीनां वासुदेवोऽस्मि [गीता 10.37] इति
भगवद्-उपनिषदः । तत्र वासुदेव-शब्देन वसुदेवापत्यार्थेन श्री-
बलदेव एवोच्यते । वक्ता हि तत्र श्री-कृष्ण एव । ततश् च स्व-विभूतिं
कथयति तस्मिन्न् अपि विभूतित्वारोपो न युज्यते । वक्तुर् अन्यत्रैव श्रोतृभिस्
तत्-प्रतीतेः । ततो मुख्यार्थ-बाधे तथैव व्याख्या समुचिता । तस्मात्
साधु व्याख्यातम् - वासुदेवो भगवताम् इत्य् आदि [भ्प् 11.19.29] ।
॥ 11.19 ॥ श्री-भगवान् ॥ 80-81 ॥
[82]
यस्माद् एवं सर्वतोऽपि तस्योत्कर्षस् तस्माद् एवान्यतस् तदीय-नामादीनाम्
अपि महिमाधिक्यम् इति गति-सामान्यान्तरं च लभ्यते । तत्र नाम्नो यथा
ब्रह्माण्ड-पुराणे श्री-कृष्णाष्टोत्तर-शत-नामामृत-स्तोत्रे -
सहस्र-नाम्नां पुण्यानां त्रिर्-आवृत्त्या तु यत् फलम् ।
एकावृत्त्या तु कृष्णस्य नामैकं तत् प्रयच्छति ॥ इति ।
व्यक्तीक्रियते चाधिक-फलत्वं कृष्ण-नाम्नः पाद्मे पाताल-खण्डे श्री-
मथुरा-माहात्म्ये श्री-महादेवस्यैव वाक्ये - तारकाज् जायते मुक्तिः
प्रेम-भक्तिस् तु पारकाद् इति । पूर्वम् अत्र मोचकत्व-प्रेमदत्वाभ्यां
तारक-पारक-संज्ञे राम-कृष्ण-नाम्नोर् हि विहिते । तत्र च राम-नाम्नि
मोचकत्व-शक्तिर् एवाधिका श्री-कृष्ण-नाम्नि तु मोक्ष-सुख-तिरस्कारि-
प्रेमानन्द-दातृत्व-शक्तिः समधिकेति भावः । इत्थम् एवोक्तं विष्णु-
धर्मोत्तरे -
यच् छक्तिर् नाम यत् तस्य तस्मिन्न् एव च वस्तुनि ।
साधकं पुरुष-व्याघ्र सौम्य-क्रूरेषु वस्तुषु ॥ इति ।
किं च श्री-कृष्ण-नाम्नो माहात्म्यं निगदेनैव श्रूयते प्रभास-पुराणे
श्री-नारद-कुशध्वज-संवादे श्री-भगवद्-उक्तौ - नाम्नां मुख्यतमं
नाम कृष्णाख्यं मे परन्तप इति । तद् एवं गति-सामान्येन नाम-महिम-
द्वारा तन्-महिमातिशयः साधितः । तथा तदीय-गुण-रूप-लीला-मथुरादि-
स्थानानाम् अपि तत्-तच्-छास्त्र-प्रतिपाद्यमानैः सर्वाधिक-महिमभिर् अप्य्
असाव् अनुसन्धेयः । विस्तर-भिया तु नोदाह्रियते ।
(पगे 31)
[सर्व-संवादिनी: एतद् अनन्तरं गति-सामान्य-प्रकरण् श्री-कृष्ण-नाम-
माहात्म्ये सहस्र-नाम्नाम् इत्य् आदि-ब्रह्माण्ड-वाक्यानन्तरम् एव
व्याख्येयम् । यथा
सर्वार्थ-शक्ति-युक्तस्य देव-देवस्य चक्रिणः ।
यच् चाभिरुचितं नाम तत् सर्वार्थेषु योजयेत् ॥
इति विष्णु-धर्म-दृष्ट्या सर्वेषाम् एव भगवन्-नाम्नां निरङ्कुश-
महिमत्वे सति समाहृतानाम् उच्चारणम् अपि नानार्थकं संस्कार-प्रचय-
हेतुत्वाद् एकस्यैवोच्चारार-प्रचयवद् इति नाम-कौमुदी-कारैर् अङ्गीकृतम् ।
तथा समाहृत-सहस्र-नाम-त्रिर्-आवृत्ति-शक्तेः कृष्ण-नामोच्चारण-वश्यं
मन्तव्यम् । अत्र देवदेवस्य यद् अभिरुचितं प्रियं नाम तत् सर्वार्थेषु
योजयेद् इत्य् अपि केचिद् व्याचक्षते । यथा हरेः प्रियेण गोविन्द-नाम्ना
निहतानि सद्यः इति ।
ननु बृहत्-सहस्र-नाम-स्तोत्रं नित्यम् एव पठन्तीं देवीं प्रति सहस्र-
नाम-तत्-तुल्यं राम-नाम वरानने इत्य् आद्य्-उपपत्त्या राम-नाम्नैव
सहस्र-नाम-फलं भवतीति बोधयन् श्री-महादेवस् तत्-सहस्र-
नामान्तर्गत-कृष्ण-नाम्नाम् अपि गौणत्वं बोधयति । तर्हि कथं
ब्रह्माण्ड-वचनम् अविरुद्धं भवति । उच्यते प्रस्तुतस्य बृहत्-सहस्र-
नाम-स्तोत्रस्यैवैकया वृत्त्या यत् फलं तद् भवतीति राम-नाम्नि
प्रौढिः । कृष्ण-नाम्नि तु द्विगाव-सम्भवात् सहस्र-नाम्नाम् इति बहु-

वचनात् तादृशानां बहूनां सहस्र-नाम-स्तोत्राणां त्रिर्-आवृत्त्या तु यत्
फलं तद् भवतीति ततोऽपि महती प्रौढिः । अतएव तत्र
समस्त-जप-यज्ञानां फलदं पाप-नाशनम् ।
शृणु देवि प्रवक्ष्यामि नाम्नाम् अष्टोत्तरं शतम् ॥
इत्य् उक्त्वा अन्येषाम् अपि जपानां वेदाद्य्-उक्तानां फलम् अन्तर्भावितम् ।
ततश् च प्रौङ्ह्याधिक्याद् उत्तरस्य पूर्वस्माद् बलवत्त्वे सति पूर्वस्य
महिमापि तद्-अविरुद्ध एव व्याख्येयः । तदा हि यद्यप्य् एवम् एव श्री-
कृष्णवत् तन्-नाम्नोऽपि सर्वतः शक्ति-पूर्णतया सर्वेषाम् अपि नाम्नाम्
अवयवित्वम् एव तथापि अवयव-साधारण्येन फलं भवेत् । यथा साक्षान्-
मुक्तेर् अपि दातुः श्री-विष्णोर् आधानस्य यज्ञाङ्गत्वेन क्रियमाणस्य स्वर्ग-
मात्र-प्रदत्वम् । यथा वा वेद-जपतस् तद्-अन्तर्गत-भगवन्-मन्त्रेणापि
न ब्रह्म-लोकाधिक-फल-प्राप्तिः । यथात्रैव तावत् केवलं राम-नामैव
सकृद् वदतोऽपि बृहत्-सहस्र-नाम-फलम् अन्तर्भूत-राम-नामैकोन-
सहस्र-नामकं सम्पूर्णम् । बृहत्-सहस्र-नामापि पठतो बृहत्-सहस्र-
नाम-फलं न त्व् अधिकम् एकोन-सहस्र-नाम-फलम् इति । अतएव
साधारणानां केशवादि-नाम्नापि तदीयता-वैलक्षण्येनागृह्यमाणानाम्
अवतारान्तर-नाम-साधारण-फलम् एव ज्ञेयम् । नाम-कौमुद्यां तु
सर्वानर्थ-क्षय एव ज्ञानाज्ञान-विशेषो निषिद्धः न तु प्रेमादि-फल-
तारतम्ये । तद् एवं कृष्ण-नाम्नः साधारण-फल-दत्त्वे सति - सहस्र-
नामभिस् तुल्यं राम-नाम वरानन इत्य् अपि युक्तम् उक्तम् । वस्तुतस् त्व् एवं
सर्वावतारावतारिणाम् अभ्यः श्री-कृष्ण-नाम्नोऽभ्यधिकं फलं स्वयं
भगवत्त्वात् तस्य ।
ननु यथा दर्श-पौर्णमास्याद्य्-अङ्ग-भूतया पूर्णाहूत्या सर्वान् कामान्
अवाप्नोति इत्य् आदाव् अर्थवादत्वं तथैवात्रोभयत्रापि भविष्यतीति चेत्, न ।
बृहत्-सहस्र-नाम-स्तोत्रं पठित्वैव भोजन-कारिणीं देवीं प्रति राम-
नामैव सकृत् कीर्तयित्वा कृत-कृत्या सती मया सह भुङ्क्ष्वेति साक्षाद्-
भोजने श्री-महादेवेन प्रवर्तनात् । कृष्ण्-नाम्नि तु तथार्थ-वादत्वं
दूरोत्सारितम् एवेति ॥ [एन्द् सर्व-संवादिनी]
इत्थम् एव श्री-कृष्णस्यैवासमोर्द्ध्व-महिमत्वात् स्वयम् एव तेनापि सकल-
भक्त-वृन्द-वन्दित-भगवत्-प्रणयं श्रीमद्-अर्जुनं प्रति सर्व-
शास्त्रार्थ-सार-भूत-श्री-गीतोपसंहार-वाक्ये निजाखिल-प्रादुर्भावान्तर-
भजनम् अतिक्रम्य स्व-भजनम् एव सर्व-गुह्यतमत्वेनोपदिष्टम् ।
यथाह - कर्तुं नेच्छसि यन् मोहात् करिष्यस्य् अवशोऽपि तद् [गीता 18.60] इत्य्
अनन्तरम् -
ईश्वरः सर्व-भूतानां हृद्-देशे ऽर्जुन तिष्ठति ।
भ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया ॥
तम् एव शरणं गच्छ सर्व-भावेन भारत ।
तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥
इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया ।
विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु ॥
सर्व-गुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टो ऽसि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥
मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु ।
माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियो ऽसि मे ॥
सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज ।
अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता 18.61-66]
एषाम् अर्थः - अशोच्यान् अन्वशोचस् त्वम् इत्य् आदि [गीता 2.11] ग्रन्थो न
युद्धाभिधायकः, यतः कर्तुम् इत्यादि ततः परमार्थाभिधायक
एवायं तत्रापि गुह्यतरं सर्व-गुह्यतमं च शृणु इत्य् आह । ईश्वर इत्य् आदि ।
य एक सर्वान्तर्यामी ईश्वरः स एव सर्वाणि संसार-यन्त्रारुढानि भूतानि
मायया भ्रामयन् तेषाम् एव हृद्-देशे तिष्ठति सर्व-भावेन पुरुष
एवदं सर्वम् [श्वेतु 3.15] इति भावनायाः सर्वेन्द्रिय-प्रवणतया वा परां
शान्तिं तदीयां परमां भक्तिं शमो मन्-निष्ठता बुद्धेर् [भ्प् 11.19.36]
इत्य् उक्तेः । स्थानं तदीयं धाम गुह्याद् ब्रह्म-ज्ञानाद् अपि गुह्यतरं
द्वयोः प्रकर्षे तरप् ।
अथेदम् अपि निजैकान्त-भक्त-वराय तस्मै न पर्याप्तम् इति अवध्याय
स्वयम् एव महा-कृपा-भरेणोद्घाटित-परम-रहस्यः श्री-भगवान्
अन्याम् अपि प्रद्युम्न-सङ्कर्षण-वासुदेव-परम-व्योमाधिप-लक्षण-
भजनीय-तारतम्य-गम्यां भजन-क्रम-भूमिकाम् अतिक्रम्यैव
सर्वतोऽप्य् उपादेयम् एव सहसोपदिशति सर्व-गुह्यतमं भूयः [18.64] इति ।
यद्यपि गुह्यतमत्वोक्तेर् एव गुह्य-गुह्यतराभ्याम् अपि प्रकृष्टम् इदम्
इत्य् आयाति तथापि सर्व-शब्द-प्रयोगो गुह्यतमम् अपि परम-व्योमाधिपादि-
भजनार्थ-शास्त्रान्तर-वाक्यम् अत्येति, तस्य यावद्-अर्थ-वृत्तिकत्वात् ।
बहूनां प्रकर्षे तमप् । अतएव परमम् । स्व-कृत-तादृश-हितोपदेश-
श्रवणे हेतुम् आह इष्टोऽसि मे दृढम् इतीति । परमाप्तस्य ममैतादृशं
वाक्यं त्वयावश्यं श्रोतव्यम् इति भाव इत्य् अर्थः ।
स्वस्य च तादृश-रहस्य-प्रकाशने हेतुम् आह तत इति । ततस् तादृशेष्टत्वाद्
एव हेतोः । तद् एवम् औत्सुक्यम् उच्छलय्य किं तद् इत्य् अपेक्षायां
सप्रणयाश्रु-कृताञ्जलिम् एतं प्रत्य् आह मन्-मना इति । मयि त्वन्-मित्रतया
साक्षाद् अस्मिन् स्थिते श्री-कृष्णे मनो यस्य तथाविधो भव । एवं मद्-
भक्तो मद्-एक-तात्पर्यको भवेत्य् आदि । सर्वत्र मच्-छब्दावृत्त्या मद्-
भजनस्यैव नाना-प्रकारतया आवृत्तिः कर्तव्या । न त्व् ईश्वर-तत्त्व-मात्र-
भजनस्येति बोध्यते । साधनानुरूपम् एव फलम् आह माम् एवैष्यसीति ।
अनेनैव-कारेणाप्य् आत्मनः सर्व-श्रेष्ठत्वं सूचितम् । अन्यस्य (पगे 32)
का वार्ता माम् एवेति । एतद् एव फलं श्री-परीक्षितापि व्यक्तीकरिष्यते कलिं
प्रति ।
यस् त्वं कृष्णे गते दूरं
सह गाण्डीव-धन्वना ।
शोच्योऽस्य् अशोच्यान् रहसि
प्रहरन् वधम् अर्हसि ॥ [भ्प् 1.17.6] इति ।
सत्यं ते इत्य् अनेनात्रार्थे तुभ्यम् एव शपेऽहम् इति प्रणय-विशेषो दर्शितः ।
पुनर् अप्य् अतिकृपया सर्व-गुह्यतमम् इत्य् आदि वाक्यार्थानां पुष्ट्य्-अर्थम्
आह प्रतिजाने इति ।
ननु नाना-प्रतिबन्ध-विक्षिप्तस्य मम कथं त्वन्-मनस्त्वादिकम् एव
सिध्येत् तत्राह सर्वेति । सर्व-शब्देन नित्य-पर्यन्ता धर्माः विवक्षिताः ।
परि-शब्देन तेषां स्वरूपतोऽपि त्यागः समर्थितः । पापानि प्रतिबन्धास्
तद्-आज्ञया परित्यागे पापानुत्पत्तेः । तद् एव व्यतिरेकेन द्रढयति मा शुच
इति । तत्र --
अशोच्यान् अन्वशोचस् त्वं
प्रज्ञा-वादांश् च भाषसे ।
गतासून् अगतासूंश् च
नानुशोचन्ति पण्डिताः ॥ [गीता 2.11]
इत्य् उपक्रम-वाक्ये तस्यापण्डितत्वं व्यज्य शोक-परित्यागेन मत्-
कृतोपदेशम् एव गृहाणेति विवक्षितम् । ततश् च तारतम्य-ज्ञानार्थम् एव
बहुधोपदिश्यापि महोपसंहार-वाक्य-स्थस्य त्व् अस्योपदेशस्य परमत्वं
निर्दिश्य शोक-परित्यागेन तम् एतम् एवोपदेशं त्वं गृहाणेति द्वयोर्
वाक्ययोर् एकार्थ-प्रवृत्तत्वम् अपि स्पष्टम् ।
सर्व-संवादिनी -- अथ ईश्वरः सर्व-भूतानाम् इत्य् आदि-श्री-गीता-पद्य-
षट्के व्याख्यानान्तरम् एव व्याख्येयम् । तथा हि - अत्र कश्चिद् वदति

ईश्वरः सर्व-भूतानाम् इत्य् आदौ सर्व एवेदम् ईश्वर इति भावेन यद्-
भजनं, तत्र ज्ञानांश-स्पर्शः । इह तु मन्मना भवेत्यादि-शुद्धैव
भक्तिर् उपदिष्टेत्य् अत एव सर्वगुह्यत्मत्वम् । किं वा पूर्वेण वाक्येन
परोक्षतयैवेश्वरम् उद्दिश्यापरेण तम् एवापरोक्षतया निर्दिष्टवान् इत्य् अत
एव न च वक्तवयम् । पूर्वम् अपि --
मन्-मना भव मद्-भक्तो
मद्-याजी मां नमस्कुरु ।
माम् एवैष्यसि युक्त्वैवम्
आत्मानं मत्परायणः ॥ [9.34]
इत्य् आदिभिः शुद्ध-भजनस्योक्तत्वात् । तथापि अधियज्ञोऽहम् एवात्र देहे
देह-भृतां वरः [गीता 8.4] इत्य् आदौ च स्वस्यान्तर्यामित्वेन चोक्तत्वात् ।
सर्व-गुह्यतमत्व-गुह्यतरत्वयोर् अनुपपत्तिर् इति । यद् यद् एव पूर्वं
सामान्यतयोक्तं तस्यैवान्ते विविच्य निर्दिष्टत्वात् । उच्यते - न तावद् भजन-
तारतम्यम् । अत्र भजनीय-तारतम्यस्यापि सम्भवे गौण-मुख्य-
न्यायेन भजनीय एवार्थ-सम्प्रतीतेः । मुख्यत्वं च तस्य फलम् अत
उपपत्तेर् इति [व्स् 3.2.29] न्यायेन । विशेषतस् तु तच्-छब्देन न स्वयम् एव तद्-
रूप इति मच्-छब्देन स्वयम् एवैतद्-रूप इति च भेदस्य विद्यमानत्वात्
उपदेश-द्वये निजेनौदासीन्येनावेशेन च लिङ्गेनापूर्णत्वोपलम्भनात् ।
फल-भेद-व्यपदेशेनैव-कारेण च तद्-अर्थस्यैव पुष्टत्वात् । साक्षाद् एव
भजनीय-तारतम्यम् उपलभ्यते । वस्तुतस् तु सर्व-भावेनेत्य् अस्य
सर्वेन्द्रिय-प्रवणतयेत्य् एवार्थः । गौण-मुख्य-न्यायेनैव ज्ञान-
मिश्रस्य सर्वात्मता-भावना-लक्षण-भजन-रूपार्थस्य बाधितत्वात् ।
स्थानं प्राप्स्यसि शाश्वतम् इति लोक-विशेष-प्राप्तेर् एव निर्दिष्टत्वात् । तस्मान्
न च भजनावृत्ति-तारतम्यावकाशः । न च भजनीयस्यैव
परोक्षापरोक्षतया निर्देशयोस् तारतम्यम् । तदैव तया
प्राचीनयार्वाचीनया चानया गति-क्रियया सङ्कोच-वृत्तिर् इयं कल्पनीया ।
यद्य् अन्तर्यामिणः सकाशाद् अन्या परावस्था न श्रूयते, शास्त्रे श्रूयते तु
तद्-अवस्थातः परा, ततोऽपि परा च सर्वत्र । अत्रैव तावत्
साधिभूताधिदैवं मां चाधियज्ञं च ये विदुः [गीता 7.30] इत्य् आदौ
भेद-व्यपदेशात् । तत्र सह-युक्तेऽप्रधाने [पाण् 2.3.17] इति
स्मरणेनाधियज्ञस्यान्तर्-यामिणः सहार्थ-तृतीयान्ततया लब्ध-समास-
पदस्य स्वस्माद् अप्रधानत्वोक्तेस् ततः परत्वं श्री-कृष्णस्य व्यक्तम् एव ।
अधियज्ञोऽहम् एवात्र [गीता 8.4] इत्य् आदौ च तद् एव व्यज्यते । एष वै
भगवान् द्रोणः प्रजा-रूपेण वर्तते [भ्प् 1.7.45] इतिवत् । तस्माद् भजनीय-
तारतम्य-विवक्षयैवोपदेश-तारतम्यं सिद्धम् । एष तु वातिवदति यः
सत्येनातिवदति [छाउ 7.16.1] इतिवत् यः सत्येन ब्रह्मणैव प्रतिपाद्य-
भूतेन सर्वं वादिनम् अतिक्रम्य वदति एष एव सर्वम् अतिक्रम्य वदतीत्य्
अर्थः । तद् एवम् अर्थे सति यथा तत्र वादस्यातिशायिता-लिङ्गेन नामादि-
प्राण-पर्यन्तानि तत्-प्रकरण उत्तरोत्तर-भूमतयोपदिष्टान्य् अपि सर्वाणि
वस्तून्य् अतिक्रम्य ब्रह्मण एव भूमत्वं साध्यते तद्वद् अत्राप्य्
उपदेशाधिक्येन प्रतिपाद्याधिक्यम् इति । अतः श्री-कृष्णस्यैवाधिक्यम् इत्य्
अन्तेऽप्य् उक्तम् इति दिक् । [एन्द् सर्व-संवादिनी]
अतः श्री-कृष्णस्यैवाधिक्यं सिद्धम् । अतएव असद्-व्यपदेशान् नेति चेन् न
धर्मान्तरेण वाक्य-शेषाद् [व्स्. 2.1.17] इति न्यायाद्
उपसंहारस्यैवोपक्रमार्थस्य च सर्व-शास्त्रार्थत्वात् तत्रोक्तं विश्व-
रूपम् अभि तद्-अधीनाम् एव । तच् च युक्तम् । तेनैव दर्शितत्वात् । तत्र च -
इत्य् अर्जुनं वासुदेवस् तथोक्त्वा
स्वकं रूपं दर्शयाम् आस भूयः ॥ [गीता 11.50]
इत्य् नराकार-चतुर्भुज-रूपस्यैव स्वकत्व-निर्देशात् । तद् विश्व-रूपं न
तस्य साक्षात् स्वरूपम् इति स्पष्टम् । अतएव परम-भक्तस्यार्जुनस्यापि न
तद्-अभीष्टम्, किन्तु तदीयं स्वयं रूपम् एवाभीष्टम् । अदृष्ट-पूर्वं
हृषितो ऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे [गीता 11.45] । इत्य् आद्य्
उक्तेः । तद्-दर्शनार्थम् अर्जुनं प्रति दिव्य-दृष्टि-दान-लिङ्गेन तस्यैव
माहात्म्यम् इति तु बाल-कोलाहलः । नराकृति परं ब्रह्म इति, तद् अमितं
ब्रह्माद्वयं शिष्यते इति [भ्प् 10.14.18], यन्-मित्रं परमानन्दम् [भ्प्
10.14.32] इति, स एव नित्यात्म-सुखानुभूत्य्-अभि-व्युदस्त-मायः [भ्प् 10.12.39]
इति, स त्वं विभो कथम् इहाक्ष-पथः प्रतीत इति च, तथा ब्रह्मणो हि
प्रतिष्ठाहम् [गीता 14.27] इति, नाहं प्रकाशः सर्वस्य [गीता 7.25] इति च
श्रवणेन प्रकृष्ट-दृष्टेस् तत्राप्य् अकरणत्वाद् भगवच्-छक्ति-विशेष-
संवलित-दृष्टेर् एव तत्र करणत्वात् । ततस् तस्या दृष्टेर् दिव्यत्वं दानं च
नराकार-पर-ब्रह्म-दर्शन-हेतु-लक्षणायास् तत्-स्वाभाविक-दृष्टेर्
अन्यासौ देव-वपुर् दर्शन-हेतुर् इत्य् अपेक्षयाइव । तच् च नराकृति-पर-
ब्रह्म दिव्य-दृष्टिभिर् अपि दुर्दर्शम् इत्य् उक्तम् -
सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यन् मम ।
देवा अप्य् अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ [गीता 11.52] इत्य् आदिना ।
किन्तु भक्त्यैव सुदर्शनम् इत्य् अप्य् उक्तम् ।
भक्त्या त्व् अनन्यया शक्य अहम् एवंविधो ऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ [गीता 11.54] इत्य् आदिना ।
न च सुदुर्दर्शम् (पगे 33) इत्य् आदिकं विश्व-रूप-परम् । दृष्ट्वेदं
मानुषं रूपम् [गीता 11.51] इत्य् आदेर् एवाव्यवहित-पूर्वोक्तत्वात् विश्व-रूप-
प्रकरणस्य तद्-व्यवधानाच् च । तथा चैकादशे सर्वेषां देवादीनाम्
आगमने व्यचक्षतावितृप्ताक्षाः कृष्णम् अद्भुत-दर्शनम् [भ्प् 11.6.5] इति ।
तत्रैवान्यत्र गोविन्द-भुज-गुप्तायाम् [भ्प् 11.2.1] इत्य् आदि । सप्तमे यूयं
नृलोके [7.10.48] इत्यादि च । तृतीये च विस्मापनं स्वस्य च [3.2.12] ।
अत उपसंहारानुरोधेन स्व-वाक्य-तात्पर्येण चास्यापि प्रकरणस्य श्री-
कृष्ण-परत्वम् एव । तस्मात् श्री-कृष्ण-गीतासु च श्री-कृष्णस्यैव स्वयं
भगवत्त्वं सिद्धम् । तद् उक्तम् --
एकं शास्त्रं देवकी-पुत्र-गीतम्
एको देवो देवकी-पुत्र एव ।
कर्माप्य् एकं देवकी-पुत्र-सेवा
मन्त्रोऽप्य् एको देवकी-पुत्र-नाम ॥ इति ।
तथा श्री-गोपाल-पूर्व-तापनी-श्रुताव् अपि मुनयो ह वै ब्रह्माणम् ऊचुः,
कः परमो देवः [ग्तु 1.2] इत्य् आद्य्-अनन्तरं तद् उ होवाच ब्राह्मणः ।
कृष्णो वै परमं दैवतम् [ग्तु 1.3] इत्य् आदि । उपसंहारे च - तस्मात् कृष्ण
एव परो देवस् तं ध्यायेत् तं रसेत् तं यजेद् इत्य् ओं तत् सद् [ग्तु 1.49] इति ।
किं बहुना सर्वावतारावतारि-विलक्षणा महा-भगवत्ता-मुद्राः साक्षाद्
एव तत्र वर्तन्त इति श्रूयते पाद्माध्याय-त्रयेण । यथा तदीया कियन्तः
श्लोकाः ।
ब्रह्मोवाच -
शृणु नारद वक्ष्यामि पादयोश् चिह्न-लक्षणम् ।
भगवत्-कृष्ण-रूपस्य ह्य् आनन्दैक-घनस्य च ॥
अवतारा ह्य् असङ्ख्येयाः कथिता मे तवानघ ।
परं सम्यक् प्रवक्ष्यामि कृष्णस् तु भगवान् स्वयम् ॥
देवानां कार्य-सिद्ध्य्-अर्थम् ऋषीणां च तथैव च ।
आविर्भूतस् तु भगवान् स्वानां प्रिय-चिकीर्षया ॥
यैर् एव ज्ञायते देवो भगवान् भक्त-वत्सलः ।

तान्य् अहं वेद नान्योऽस्ति सत्यम् एतन् मयोदितम् ॥
षोडशैव तु चिह्नानि मया दृष्टानि तत्-पदे ।
दक्षिणेनाष्ट-चिह्नानि इतरे सप्त एव च ॥
ध्वजाः पद्मं तथा वज्रम् अङ्कुशो यव एव च ।
स्वस्तिकं चोर्ध्व-रेखा च अष्ट-कोणस् तथैव च ॥
सप्तान्यानि प्रवक्ष्यामि साम्प्रतं वैष्णवोत्तम ।
इन्द्र-चापं त्रिकोणं च कलसं चार्ध-चन्द्रकम् ॥
अम्बरं मत्स्य-चिह्नं च गोष्पदं सप्तमं स्मृतम् ।
अङ्कान्य् एतानि भो विद्वन् दृश्यन्ते तु यदा कदा ॥
कृष्णाख्यं तु परं ब्रह्म भुवि जातं न संशयः ।
द्वयं वाथ त्रयं वाथ चत्वारः पञ्च एव वा ॥
दृश्यन्ते वैष्णव-श्रेष्ठ अवतारे कथञ्चन ॥ इत्य् आदि ।
षोडशं तु तथा चिह्नं शृणु देवर्षि-सप्तम् ।
जम्बू-फल-समाकारं दृश्यते यत्र कुत्रचित् ॥ इत्य् अन्तम् ।
सर्व-संवादिनी: अथ शृणु नारद प्रवक्ष्यामीत्य्-आदि-चरण-चिह्न-
प्रतिपादक-पाद्म-वचनान्तं आदि-शब्दाद् एतान्य् अपि पद्यानि ज्ञेयानि ।
मध्ये ध्वजा तु विज्ञेया पद्मं त्र्याङ्गुलम् आनतः ।
वज्रं वै दक्षिणे पार्श्वे अङ्कुशो वै तद्-अग्रतः ॥
यवोऽप्य् अङ्गुष्ठ-मूले स्यात् स्वस्तिकं यत्र कुत्रचित् ।
आदिं चरणम् आरभ्य यावद् वै मध्यमा स्थिता ॥
तावद् वै चोर्ध्व-रेखा च कथिता पाद्म-संज्ञके ।
अष्ट-कोणं तु भो वत्स मानं चाष्टाङ्गुलैश् च तत् ॥
निर्दिष्टं दक्षिणे पादे इत्य् आहुर् मुनयः किल ।
एवं पादस्य चिह्नानि तान्य् एव वैष्णवोत्तम ॥
दक्षिणेतर-स्थानानि संवदामीह साम्प्रतम् ।
चतुरङ्गुल-मानेन त्व् अङ्गुलीनां समीपतः ॥
इन्द्र-चापं ततो विद्याद् अन्यत्र न भवेत् क्वचित् ।
त्रिकोणं मध्य-निर्दिष्टं कलसो यत्र कुत्रचित् ॥
अष्टाङ्गुल-प्रमाणेन तद् भवेद् अर्ध-चन्द्रकम् ।
अर्ध-चन्द्र-समाकारं निर्दिष्टं तस्य सुव्रत ॥
बिन्दुर् वै मत्स्य-चिह्नं च आद्यन्ते वै निरूपितम् ।
गोष्पदं तेषु विज्ञेयम् आद्याङ्गुल-प्रमाणतः ॥ इत्य् आदि ।
तद्-अग्रे च -
षोडशं तु तथा चिह्नं शृणु देवर्षि-सत्तम ।
जम्बू-फल-समाकारं दृश्यते यत्र कुत्रचित् ।
तच् चिह्नं षोडशं प्रोक्तम् इत्य् आहुर् मुनयोऽनघाः ॥ इति ।
अत्र वैष्णवोत्तमेत्य्-आदिकं श्री-नारद-सम्बोधनम् । यदा कदेति यदा
कदाचिद् एवेत्य् अर्थः । मध्यमा-पार्ष्णि-पर्यन्तयोः समदेशो मध्यस्
तत्र ध्वजा ध्वजः । त्र्य्-अङ्गुल-मानतः । पादाग्रे त्र्य्-अङ्गुल-प्रमाण-
देशं परित्यज्येत्य् अर्थः । पद्यस्याधो ध्वजं धत्ते सर्वानर्थ-जय-
ध्वजम् इति स्कान्द-संवादात् ।
अत्र कुत्रचित् परित इत्य् अर्थः आदिम् अङ्गुष्ठ तर्जनी-सन्धिम् आरभ्य
मध्यमा यावत् तावद् ऊर्ध्व-रेखा व्यवस्थिता पाद्म-संज्ञके पुराणे
कथितेत्य् अर्थः । अष्टाङ्गुलैर् मानं तद् इति मध्यमाङ्गुल्य्-अग्राद्
अष्टाङ्गुल-मानं परित्यज्येत्य् अर्थः । तावद् विस्तारत्वेन व्याख्यायां
स्थानासमावेशः । अतएव पूर्वम् अपि तथा व्याख्यातम् । एवम् उत्तरत्रापि
ज्ञेयम् । इन्द्र-चापं त्रिकोणार्ध-चन्द्रकाणि क्रमाद् अधोऽअधोभाग-
स्थानानि । अन्यत्रेति । श्री-कृष्णाद् अन्यत्रेत्य् अर्थः । बिन्दुर् अम्बरं । आदौ
चरणस्यादिदेश तद्-अङ्गुल-समीपे बिन्दुः । अन्ते पार्ष्णि-देशे मत्स्य-चिह्नं
षोडश-चिह्नम् उभयोर् अपि ज्ञेयम् । दक्षिणाद्य्-अनियमेनोक्तत्वात् । अत्र
दक्षिणाङ्गुष्ठाधश् चक्रं वामाङ्गुष्ठाधस् तन् मुखं दरं च
स्कान्दोक्तानुसारेण । ते हि श्री-कृष्णेऽप्य् अन्यत्र श्रूयते । यथा आदि-वाराहे
मथुरा-मण्डल-माहात्म्ये -
यत्र कृष्णेन संकीर्णं क्रीडितं च यथा-सुखम् ।
चक्राङ्कित-पदा तेन स्थाने ब्रह्म-मये शुभे ॥ इति ।
श्री-गोपाल-तापन्यां -- शङ्ख-ध्वजातपत्रैस् तु चिह्नितं च पद-द्वयम्
[ग्तु 2.62] इति । आतपत्रम् इदं चक्राधस्ताज् ज्ञेयम् । दक्षिणस्य प्राधान्यात्
तत्रैव स्थान-समावेशाच् च । अङ्गुलि-परिमाण-मात्र-दैर्घ्याच्
चतुर्दशांशेन तद्-विस्तारात् । षष्ठांशेन ज्ञेयम् । अन्यत्र दैर्घ्ये
चतुर्दशाङ्गुलि-परिमाणत्वेन विस्तारे षड्-अङ्गुलि-परिमाणत्वेन प्रसिद्धेर्
इति । [एन्द् सर्व-संवादिनी]
तस्माद् अस्त्य् एव स्वयं भगवत्त्वं श्री-कृष्णस्यैव ।
[वृ. हेरे रेअद्स् -- तथा च ब्रह्म-वैवर्ते भगवद्-अवतार-प्रसङ्गे सूत-
वाक्यम्--
अवतारा ह्य् असङ्ख्येया आसन् सत्त्व-स्वभाविनः ।
विशतिस् तेषु मुख्यान् यान् श्रुत्वा मुच्येन् महांहसः ॥
इत्य् आदिना प्रायशः श्री-भागवतवत् श्री-कृष्ण-संहितांस् तान् गणयित्वा
पुनर् आह -
नर-सिंहादयोऽन्येऽपि सर्व-पाप-विनाशनाः ।
यद्-विभूति-विशेषेणालङ्कृतं भुवि जायते ।
तत् सर्वम् अवगन्तव्यं कृष्णांशांश-समुद्भवम् ॥ [एन्द् वृ. सेच्तिओन्]
तद् इत्थं सर्वम् अभिप्रेत्य महोपक्रमं श्लोकम् एव श्री-विष्णु-पुराणीय-
भगवच्-छब्द-निरुक्तिवत् साक्षात् श्री-कृष्णाभिधेयत्वेनापि योजयति
जन्माद्यस्य [भ्प् 1.1.1] इति ।
नराकृति (पगे 34) परं ब्रह्म इति [वृ. रेअद्स् हेरे: पुराण-वर्गात्, तस्मात्
कृष्ण एव परो देवः [ग्तु 1.49] इति गोपाल-तापनी-श्रुतेश् च । [एन्द् वृ.
अद्दितिओन्] परं श्री-कृष्णं धीमहि ।
अस्य स्वरूप-लक्षणम् आह सत्यम् इति । सत्य-व्रतं सत्य-परं त्रि-सत्यम्
[भ्प् 10.2.26] इत्य् आदौ तथा-श्रुतत्वात् ।
[वृ. रेअद्स् हेरे: ô
सत्ये प्रतिष्ठितः कृष्णः सत्यम् अत्र प्रतिष्ठितम् ।
सत्यात् सत्यं च गोविन्दस् तस्मात् सत्यो हि नामतः ॥ [म्भ् 5.68.12]
इत्य् उद्यम-पर्वणि सञ्जय-कृत-श्री-कृष्ण-नाम-निरुक्तौ च तथा श्रुतत्वात् ।
[एन्द् वृ. अद्दितिओन्]
एतेन तद्-आकारस्याव्यभिचारित्वं दर्शितम् । तटस्थ-लक्षणम् आह धाम्ना
स्वेन इत्य् आह । स्वेन स्व-स्वरूपेण धाम्ना श्री-मथुराख्येन सदा निरस्तं
कुहकं माया-कार्य-लक्षणं येन तम् ।
मथ्यते तु जगत् सर्वं
ब्रह्म-ज्ञानेन येन वा ।
तत्-सार-भूतं यद् यस्यां
मथुरा सा निगद्यते ॥ [ग्तु 2.66] इति गोपालोत्तर-तापनी-प्रसिद्धेः ।
लीलाम् आह आद्यस्य नित्यम् एव श्रीमद्-आनकदुन्दुभि-व्रजेश्वर-
नन्दनतया श्री-मथुरा-द्वारका-गोकुलेषु विराजमानस्यैव तस्य
कस्मैचिद् अर्थाय लोके प्रादुर्भावापेक्षया । यतः श्रीमद्-आनकदुन्दुभि-
गृहाज् जन्म तस्माद् य इतरतश् च इतरत्र श्री-व्रजेश्वर-गृहेऽपि अन्वयात्
पुत्र-भावतस् तद्-अनुगतत्वेनागच्छत् । उत्तरेणैव य इति पदेनान्वयः ।
यत इत्य् अनेन तस्माद् इति स्वयम् एव लभ्यते ।
कथम् अन्वयात् ? तत्राह - अर्थेषु कंस-वञ्चनादिषु तादृश-भाववद्भिः
श्री-गोकुल-वासिभिर् एव सर्वानन्द-कदम्ब-कादम्बिनी-रूपा सा सा कापि
लीला सिध्यतीति तल्-लक्षणेषु वा अर्थेषु अभिज्ञः । ततश् च स्वराट् स्वैर्
गोकुल-वासिभिर् एव राजते इति । तत्र तेषां प्रेम-वशताम् आपन्नस्याप्य्
अव्याह । तद्-ऐश्वर्यम् आह तेन इति । य आदि-कवये ब्रह्मणे ब्रह्माणं
विस्मापयितुं हृदा सङ्कल्प-मात्रेणैव ब्रह्म-सत्य-ज्ञानानन्तानन्द-
मात्रैक-रस-मूर्ति-मयं वैभवं तेने विस्तारितवान् । यद् यतस् तथाविध-
लौकिकालौकिकता-समुचित-लीला-हेतोः सूरयस् तद्-भक्ता मुह्यन्ति
प्रेमातिशयोदयेन वैवश्यम् आप्नुवन्ति । यद् इत्य् उत्तरेणाप्य् अन्वयात् । यद्

यत एव तदृश-लीलातस् तेजो-वारि-मृदाम् अपि यथा यथावद् विनिमयो भवति ।
तत्र तेजसश् चान्द्रादेर् विनिमयो निस्तेजो-वस्तुभिः सह धर्म-परिवर्तः ।
तत् श्री-मुखादि-रुचा चन्द्रादेर् निस्तेजस्त्वाविधानात् निकट-स्थ-निस्तेजो-
वस्तुनः स्वभासा तेजस्वितापादनाच् च । तथा वारि द्रवश् च कठिनं
भवति । वेणु-वाद्येन मृत्-पाषाणादिः द्रवतीति । यतः श्री-कृष्णे त्रि-सर्गः
श्री-गोकुल-मथुरा-द्वारका-वैभव-प्रकाशः अमृषा सत्य एवेति ।
॥ 1.1 ॥ वेद-व्यासः

5.83

[83]
एवं सर्वोपसंहार-वाक्यम् अपि तत्रैव संगच्छते कस्मै येन विभासित
इत्य् आदि [भ्प् 12.13.19] ।
यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास् तस्मै गापयति स्म कृष्णः ।
तं हि देवम् आत्म-बुद्धि-प्रकाशं
मुमुक्षुर् वै शरणम् अमुं व्रजेत् ॥ [ग्तु 1.26]
इति गोपाल-पूर्व-तापनी-श्रुतेः । व्याकृतं च द्वितीय-सन्दर्भे तस्यैव चतुः-
श्लोकी-वक्तृत्वम् अपि ॥
॥ 12.13 ॥ श्री-सूतः

5.84

[84]
तद् एवम् अभ्यासादीन्य् अपि तस्मिन् विस्पष्टान्य् एव पूर्वोदाहृत-वाक्येषु । तद्
एतत् श्रीमद्-गीता-गोपाल-तापन्यादि-शास्त्र-गण-सहायस्य निखिलेतर-शास्त्र-
शत-प्रणत-चरणस्य श्री-भागवतस्याभिप्रायेण श्री-कृष्णस्य स्वयं
भगवत्त्वं करतल इव दर्शितम् । श्री-भागवतस्य च स (पगे 35) एव
प्रतिपाद्य इति पुराणान्तरेणैव च स्वयं व्याख्यातम् । यथा ब्रह्माण्ड-
पुराणे श्री-कृष्णाष्टोत्तर-शत-नामामृत-स्तोत्रे श्री-कृष्णस्य नाम-विशेष
एव शुक-वाग्-अमृताब्धीन्दुर् इति ।
अथ तस्य महा-वासुदेवत्वे सिद्धे श्री-बलदेवादीनाम् अपि महा-
संकर्षणादित्वं स्वत एव सिद्धम् । यद्-रूपः स्वयं भगवान् तद्-रूपा
एव ते भवितुर् महन्तीति । अतः श्री-बलरामस्य यत् कश्चिद् आवेशावतारत्वं
मन्यते तद् असत् । दृश्यते च श्री-कृष्ण-रामयोर् युगलतया वर्णनेन सम-
प्रकाशत्वम् - ताव् अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ [भ्प् 10.8.22], यद्
विश्वेश्वरयोर् याच्ञां [भ्प् 10.23.37], ददर्श रामं कृष्णं च [भ्प् 10.38.27],
तौ रेजतू रङ्ग-गतौ महा-भुजौ [भ्प् 10.43.19] इत्य् आदौ ।
लोकेऽपि सूर्य-चन्द्रमसाव् एव युगलतया वर्ण्येते । न तु सूर्य-शुक्रौ ।
अतएव हरिवंशेऽपि वासुदेव-माहात्म्ये राम-कृष्णयोर् दृष्टान्तः
सूर्याचन्द्रमसाव् इति । तथा ध्वज-वज्राङ्कुशाम्भोजैश् चिह्नितैर् अङ्घ्रिभिर्
व्रजम् । शोभयन्तौ महात्मानौ [भ्प् 10.38.30] इत्य् एवं भगवल्-लक्षणान्य्
अपि तत्र श्रूयन्ते, न त्व् एवं पृथ्व्-आदिषु । तस्माद् एष तन्-महिमापि
वर्ण्यते --
नैतच् चित्रं भगवति ह्य् अनन्ते जगद्-ईश्वरे ।
ओतं प्रोतम् इदं यस्मिंस् तन्तुष्व् अङ्ग यथा पटः ॥ [भ्प् 10.15.35]
स्पष्टम् ॥ 10.15 ॥ श्री-शुकः

5.85

[85]
किं च --
सप्तमो वैष्णवं धाम यम् अनन्तं प्रचक्षते ।
गर्भो बभूव देवक्यां हर्ष-शोक-विवर्धनः ॥ [भ्प् 10.2.5]
गर्भो बभूव न तु गर्भे बभूवेति सप्तम्य्-अन्तानुक्त्या साक्षाद्
एवावतारत्वं सूचितम् ॥
॥ 10.2 ॥ स एव

5.86

[86]
अत इदम् अप्य् एवम् एव व्याख्येयम् --
वासुदेव-कलानन्तः सहस्र-वदनः स्वराट् ।
अग्रतो भविता देवो हरेः प्रिय-चिकीर्षया ॥ [भ्प् 10.1.24]
श्री-वसुदेव-नन्दनस्य वासुदेवस्य कला प्रथमोऽंशः श्री-संकर्षणः ।
तस्य श्री-संकर्षणत्वं स्वयम् एव न तु संकर्षणावतारत्वेनेत्य् आह --
स्वराट् स्वेनैव राजते इति । अतएवानन्तः काल-देश-परिच्छेद-रहितः । अतएव
मायया तस्य गर्भ-समय आकर्षणं च युक्तम् । पूर्णस्य
वास्तवाकर्षणासम्भवाद् इति केचित् । एतद्-विध-कार्ये च तद्-
अकुण्ठेच्छात्मक-चिच्-छक्त्य्-आविष्टैव सा प्रभवेत् । उक्तं च तदानीं तद्-
आविष्टत्वं तस्याः -- आदिष्टा प्रभुनांशेन कार्यार्थे सम्भविष्यति [10.1.25]
इति । मिलिष्यतीति तत्र ह्य् अर्थः । अतएव एकानंशेति । तस्या नाम । एकोऽनंशो
यत्रेति निरुक्तिर् इति केचित् । य एव शेषाख्यः सहस्र-वदनोऽपि भवति । यतो
देवो नानाकारतया दीव्यतीति । तद्-उक्तं श्री-यमुना-देव्या --
राम राम महा-बाहो न जाने तव विक्रमम् ।
यस्यैकांशेन विधृता जगती जगतः पतेः ॥ [भ्प् 10.65.28] इति ।
एकांशेन शेषाख्येन इति टीका च । अन्यथा तद्-एकावयवैकदेश-
रूपार्थत्वे येनैकांशेनेति यच्-छब्दस्य करृत्व-निर्देश एव युक्तः स्यात् ।
तद्-अंशावयवैक-देश-रूपार्थत्वे येनैकांशेनेति यच्-छब्दस्य कर्तृत्व-
निर्देश एव युक्तः स्यात् । तद्-अंशावतार-लक्षणार्थान्तर-प्रतीति-निरसनाय
महा-विद्वद्-वाक्यत्वात् । सम्बन्ध-निर्देशेन तु टीका-व्याख्यैव
स्फुटतरा । एकांशे मुख्यस्यैव (पगे 36) कर्तृत्वस्य निर्वाज-प्रतीतिर् न
त्व् औपचारिकस्येति ।
एवं श्री-लक्ष्मणस्याप्य् अन्तिम-दशानुकरणस्याप्य् अन्तिम-दशानुकरण-
लीलायां श्रूयते स्कान्दीयायोध्या-माहात्म्ये --
ततः शेषात्मतां यातं लक्ष्मणं सत्य-सङ्गरम् ।
उवाच मधुरं शक्रः सर्वस्य च सः पश्यतः ॥
इन्द्र उवाच --
लक्ष्मणोत्तिष्ठ शीघ्रं त्वम् आरोहस्व पदं स्वकम् ।
देव-कार्यं कृतं वीर त्वया रिपु-निसूदन ॥
वैष्णवं परमं स्थानं प्राप्नुहि स्वं सनातनम् ।
भवन्-मूर्तिः समायाता शेषोऽपि बिल-सत्-फणः ॥ इत्य् आदि ।
ततश् च --
इत्य् उक्त्वा सुर-राजेन्द्रो लक्ष्मणं सुर-सङ्गतः ।
शेषं प्रस्थाप्य पाताले भू-भार-धरण-क्षमम् ॥
लक्ष्मणं यानम् आरोप्य प्रतस्थे दिवम् आदरात् ॥ इति ।
अतो नारायण-वर्मण्य् अपि -- यज्ञश् च लोकाद् अवतात् कृतान्ताद् बलो गणात्
क्रोध-वशाद् अहीन्द्रः ॥ इति बलदेवस्य शेषाद् अन्यत्वं शक्त्य्-अतिशयश् च
दर्शितः । जनान्ताद् इति पाठेऽपि जनानां नाशाद् इति स एवार्थः । अतः
शेषाख्यं धाम मामकम् इति [भ्प् 10.2.8] इत्य् अत्रापि शिष्यते शेष-संज्ञ
इतिवत् अव्यभिचार्यांश एवोच्यते । सेषस्याख्या ख्यातिर् यस्माद् इति वा ।
श्रीमद्-आनकदुन्दुभिना च श्री-कृष्ण-साम्येनैव निर्दिष्टम् -- युवां न
नः सुतौ साक्षात् प्रधान-पुरुषेश्वरौ [भ्प् 10.85.18] इति ।
अत्र साक्षाद् एवेति त्व् अधिकम् उपजीव्यम् । अथ यदि प्रायो मायां तु मे
भर्तुर् नान्या मेऽपि विमोहिनी [भ्प् 10.13.37] तद्-
वाक्यानुसारेणावेशावतारत्वं मन्तव्यं तदा पूर्व-ग्रन्थ-बलात् श्री-
बलदेवे स्वांशत्वम् एवेति, किन्तु शेषाख्य-तद्-आविष्ट-पार्षद-विशेषस्य तद्-
अन्तः-पातात् तद्-अंशेनैव तद्-व्यवहार इत्य् अपि मन्तव्यम् ॥
[वृ. रेअद्स् हेरे: तद् एवम् एक-रूपत्वेऽपि प्रायो मायां तु मे भर्तुर् नान्या
मेऽपि विमोहिनी इत्य् आदौ यत् तस्मिंस् तस्य भक्तिः श्रूयते तत् तु लक्ष्म्या इव
द्रष्टव्यम् । [एन्द् वृ. अद्दितिओन्]
॥ 10.2 ॥ श्री-ब्रह्मा देवान्

5.89

[87]
अथ श्री-प्रद्युम्नस्यापि शिव-नेत्र-दग्धः स्मरो जातोऽयम् इति यच् छ्रूयते
तद् अप्य् एक-देश-प्रस्ताव-मात्रम् । तस्य श्री-गोपाल-तापनी-श्रुत्य्-आदौ --
यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः ।
रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [ग्तु 2.36]
इत्य् आदिना नित्य-श्री-कृष्ण-चतुर्-व्यूहान्तः-पातिततया प्रसिद्धेस् तथा
सम्भवाभावात् । तस्य स्मरस्यापि साधारण-देवता-विशेष-मात्रत्वेन
प्रसिद्धत्वे चतुर्व्यूहान्तः-पातितायाम् अयोग्यतमत्वात् । तस्माद्
वक्ष्यमाणाभिप्रायेणैवैतद् आह --
कामस् तु वासुदेवांशो दग्धः प्राग् रुद्र-मन्युना ।
देहोपपत्तये भूयस् तम् एव प्रत्यपद्यत ॥ [भ्प् 10.55.1]
अवेदज्ञस्यापि ब्राह्मण्ये सत्य् एव ब्राह्मणस् तु वेदज्ञ इतिवत् तु शब्दोऽत्र
मुख्यतां सूचयति । ततः कामस् तु वासुदेवांश इत्य् अस्य वासुदेवांशो यः
कामः स एव मुख्य इत्य् अर्थः । तु-शब्दोऽयं भिन्नोपक्रमे वा । ततो
वासुदेवांशस् तु काम इत्य् अन्वयेऽपि पूर्ववद् एवार्थः । तद् एवं सति यः
प्राग् रुद्रस्य मन्युना दग्धो देवता-विशेषः कामः स देहोपपत्तये तत्-
कोप-दग्धतया नित्यम् एवानङ्गतां प्राप्तस्य स्वतो देहापत्त्य्-अभावाद्
देह-प्राप्त्य्-अर्थं तम् एव वासुदेवांशं प्रद्युम्नाख्यं कामम् एव
प्रत्यपद्यत प्रविष्टवान् । भूयः-शब्देन प्रद्युम्नाद् एव पूर्वम् अप्य्
उद्भूतोऽसाव् इति बोध्यते । यद् वा यस् तु प्राग् रुद्र-कोपेनादग्धो न
दग्धः स भूयः प्रकट-लीलायां देहोपपत्तये (पगे 37) स्व-मूर्ति-
प्रकाशनार्थं, तं वासुदेवम् एव प्रविष्टवान् । अदग्धत्वे हेतुर्
वासुदेवांश इति ॥
[88]
पूर्वोक्तम् एव व्यनक्ति -
स एव जातो वैदर्भ्यां कृष्ण-वीर्य-समुद्भवः ।
प्रद्युम्न इति विख्यातः सर्वतोऽनवमः पितुः ॥ [भ्प् 10.55.2]
यः कृष्ण-वीर्य-समुद्भवो यश् च प्रद्युम्न इति विख्यातः, स एव प्रकट-
लीलावसरेऽपो वैदर्भ्यां जात आविर्भूतः । न त्व् अन्यः प्राकृत-काम एव ।
तत्र हेतुः सर्वतो गुण-रूपादिष्व् अशेषेष्व् एव धर्मेषु पितुः श्री-कृष्णाद्
अनवमः तुल्य एवेति । अन्यथा तादृशानवमत्वं न कल्पत इति भावः ।
तस्माद् यथा महाभारते सर्वत्र श्रीमद्-अर्जुनस्य नरत्व-प्रसिद्धाव् अपि
पञ्चेन्द्रोपाख्याने इन्द्रत्व-प्रसिद्धिः इन्द्रस्यापि तत्र प्रवेश-विवक्षया
घटते तद्वद् अत्रापि ।
अतः श्री-नारदेन रत्यै तथोपदेशस् तथा तत्-प्राप्तिश् च न दोषाय । पूर्व-
पद्यस्य उत्तरस्मिन्न् अर्थे श्री-नारदोपदेश-बलेनैव दग्ध-कामस्य
प्रवेशस् तत्र गम्यः । ततः साक्षात् प्रद्युम्न-सङ्गमे योग्यता चास्याः
स्पर्श-मणिवत् तत्-सामीप्य-गुणाद् एव मन्तव्या । श्री-प्रद्युम्नस्य निज-
शक्तिस् तु श्रीमद्-अनिरुद्ध-मातैवेति ज्ञेयम् । अतः तापनी-श्रुति-लब्धोऽर्थः
समञ्जसः ॥
॥ 10.55 ॥ श्री-शुकः ॥ 87-88 ॥
[89]
एवम् अनिरुद्धस्यापि साक्षाच् चतुर्व्यूहत्वे लिङ्गम् आह -
अपि स्विद् आस्ते भगवान् सुखं वो
यः सात्वतां काम-दुघो ऽनिरुद्धः ।
यम् आमनन्ति स्म हि शब्द-योनिं
मनो-मयं सत्त्व-तुरीय-तत्त्वम् ॥ [भ्प् 3.1.34]
शब्द-योनिं निश्वास-व्यञ्जित-वेद-वृन्दम् । एवं वा अरे अस्य महतो भूतस्य
निश्वसितम् एतद् यद् ऋग्-वेदः [बौ 2.4.10] इत्य् आदि-श्रुतेः । मनोमयं चित्ते
वासुदेववन् मनस्य् उपास्यम् । सत्त्वं शुद्ध-सत्त्वात्मकः श्री-वासुदेवादि-
रूपो भगवान् तत्र तुरीयं रूपम् । अतो बाण-युद्धादौ
बन्धनानुकरणादिकम् आत्मेच्छामयी लीलैव श्री-रामचन्द्रादिवत् । अस्य
पाद्म-बृहत्-सहस्र-नाम्नि माहात्म्य-नामानि चैतानि -
अनिरुद्धो बृहद्-ब्रह्म प्राद्युम्निर् विश्व-मोहनः ।
चतुर्-आत्मा चतुर्-वर्णश् चतुर्-युग-विधायकः ॥
चतुर्-भेदैक-विश्वात्मा सर्वोत्कृष्टांश-कोटि-सूः ।
आश्रयात्मा... ॥ इति ।
अतः श्री-कृष्ण-व्यूहत्वेन महानिरुद्धत्वाद् अस्यैवाविर्भाव-विशेषः
प्रलयार्णवादि-धामा पुरुष इति ज्ञेयम् । अत एवाभेदेन जगृहे पौरुषं
रूपं भगवान् [भ्प् 1.3.1] इत्य्-आद्य्-उक्तं मूल-सङ्कर्षणाद्य्-अंशैर् एव
हीतर-सङ्कर्षणाद्य्-अवस्था-त्रयं पुरुषं प्रकाशयतीति । तथैवाभेदेन
विष्णु-धर्मोत्तरेऽपीदम् उक्तं तत्र । श्री-वज्र-प्रश्नः -
कस् त्व् असौ बाल-रूपेण कल्पान्तेषु पुनः पुनः ।
दृष्टो यो न त्वया ज्ञातस् तत्र कौतूहलं मम ॥
श्री-मार्कण्डेयोत्तरं च -
भूयो भूयस् त्व् असौ दृष्टो मया देवो जगत्-पतिः ।
कल्प-क्षयेण विज्ञातः स माया-मोहितेन वै ॥
कल्प-क्षये व्यतीते तु तं देवं प्रपितामहात् ।
अनिरुद्धं विजानामि पितरं ते जगत्-पतिम् ॥ इति । [1.79.1-3]
[वृ. अद्द्स् हेरे: भीष्म-पर्वणि दुर्योधनं प्रति भीष्म-शिक्षायां श्री-
कृष्णस्यावतारारम्भे गन्ध-मादनम् आगतस्य ब्रह्मणस् तद्-आविर्भावं
मनसि पश्यतस् तु बालस्य तद् इदं वचनम् --
सृष्ट्वा संकर्षणं देवं स्वयम् आत्मानम् आत्मना ।
कृष्ण त्वम् आत्मनास्राक्षीः प्रद्युम्नं चात्म-संभवम् ॥
प्रद्युम्नाच् चानिरुद्धं त्वं यं विदुर् विष्णुम् अव्ययम् ।
अनिरुद्धो ऽसृजन् मां वै ब्रह्माणं लोक-धारिणम् ॥
वासुदेव-मयः सो ऽहं त्वयैवास्मि विनिर्मितः ॥ [म्भ् 6.61.65-67] [वृ अद्दितिओन्
एन्द्स्]
अतएव च पूर्वम् अपि च जगृहे पौरुषं रूपम् इत्य् अत्र श्री-कृष्णस्य
अनिरुद्धावतारान्तः-पातित्वं न व्याख्यातम् ॥
॥ 3.1 ॥ विदुरः श्रीमद्-उद्धवम्

5.90

[90]
तद् एतत् तस्य चतुर्व्यूहात्मकस्यैव पूर्णत्वं व्याख्यातम् । श्री-
गोपालोत्तर-तापन्याम् अपि (पगे 38) तथैवायं प्रणवार्थत्वेन दर्शितः -
रोहिणी-तनयो रामो अ-काराक्षर-सम्भवः ।
तैजसात्मकः प्रद्युम्नो उ-काराक्षर-सम्भवः ॥
प्राज्ञात्मकोऽनिरुद्धो म-काराक्षर-सम्भवः ।
अर्ध-मात्रात्मकः कृष्णो यस्मिन् विश्वं प्रतिष्ठितम् ॥ इति [ग्तु 2.55-56]
अथ श्री-कृष्णेऽवतरति तत्-तद्-अंशावताराणाम् अपि प्रवेश इति यद् उद्दिष्टं
तद् यथा अत्र कृष्णस् तु भगवान् स्वयम् इत्य् आदिकं सिद्धम् एव तथा तस्य
तद्-रूपेणैव श्री-वृन्दावनादौ सर्वदावस्थायित्वं प्रतिपादयिष्यामः ।
अथ च श्री-हरि-वंश-मते उपेन्द्र एवावततारेति । जय-विजय-शाप-प्रस्तावे
च - यास्यामि भवनं ब्रह्मन्न् एतद्-अन्ते एवानघ [भ्प् 11.3.31] इत्य् अत्र च
पाहि वैकुण्ठ-किङ्करान् [भ्प् 11.6.27] इत्य् अत्र च स्वामि-व्याख्यानुसारेण
विकण्ठा-सुत एवेति क्वचित् क्षीरोदशाय्य एवेति क्वचित् पुरुष एवेति, क्वचिन्
नारायण-र्षिर् एवेति बृहत्-सहस्र-नाम्नि लक्ष्मणस्यैव बलरामत्व-
कथनेन श्री-राघव एवेति क्वचिन् नारायण-केश एवेत्य् आदिकं नाना-
विधत्वं श्रूयते । एवं चैकं सन्धित्सतोऽन्यत् प्रच्यवतोऽत्र सत्यं च सर्वं
वाक्यम् ।
[वृ. अद्द्स्: यथा स्व-मत्य्-अनुभवानुरूपात् नाना-वाक्यैक-वाक्यता च ।
यथा क्रम-मुक्ति-मार्गेऽर्चिर्-आदि-क्रम एवाङ्गी, नाडी-रश्म्य्-आदि-मार्गास्
तु तद्-अङ्गत्वेनैव अर्चिर्-आदिना तत्-प्रथितेः [व्स्. 4.3.1] इति सूत्रे स्वीक्रियन्ते
तद्वत् । यतः स्वयं भगवत्य् अवतरति सर्वेऽपि ते प्रविष्टा इति यदा यत्
किञ्चिद् येनानुभूतम्, तदा तेन तद् एव निर्दिष्टम् इति । [वृ. एन्द्स् हेरे.]
तस्माद् विद्वद्भिर् एवं विचार्यताम् - स्वयं भगवति तस्मिन् प्रवेशं विना
कथं तत् सम्भवेद् इति । दृश्यते च तस्मात् केषांचिद् अंशानां पुनर्
आविर्भावः यथा प्रद्युम्नादीनाम् । अतएव विकुण्ठा-सुतस्य
प्रवेशाभिप्रायेणैव शिशुपाल-दन्तवक्रयोः श्री-कृष्ण-सायुज्यम् एव
तदानीं जातम् - पुनर् अवतार-लीलाम् आप्तौ श्री-विकुण्ठा-सुते स्व-धाम-
गते पार्षदत्व-प्राप्तिः । यथोक्तं श्री-नारदेन -
वैरानुबन्ध-तीव्रेण ध्यानेनाच्युत-सात्मताम् ।
नीतौ पुनर् हरेः पार्श्वं जग्मतुर् विष्णु-पार्षदौ ॥ [भ्प् 7.1.46] इति ।
तथा हरि-वंशे च क्षीरोद-शायिनो मुकुटे दैत्यापहृते दैत्य-मारणाय
गरुडो यावत् कृत-विलम्बस् तावत् श्री-कृष्णोऽवततार । ततश् चासौ मुकुटम्
आहृत्य तत्र चोर्ध्व-लोके कुत्रापि भगवन्तम् अदृष्ट्वा गोमन्त-शिरसि श्री-
कृष्णायैव समर्पितवान् इति प्रसिद्धिः ।
[वृ. अद्द्स्: एवम् एव बलि-सद्-गतयोः श्री-कृष्ण-रामयोस् तद्-द्वारस्थ-विष्णु-
दर्शनम् । किन्तु तत्-तद्-वाक्यार्थ-पर्यालोचनया केषांचिन् मूर्त्य्-आकर्षणं
हरि-वंश-गत-गिरि-गुहाशयन-पर्यालोचनया तु तच्-छक्त्य्-आकर्षणम् इति
लभ्यते । तच् च तदानीम् आत्मनि सर्वेषाम् एव भक्तानाम् एकतानताकृति-
लीला-कौतुकार्थम् एवेति च गम्यते । [वृ. अद्दितिओन् एन्द्स् हेरे.]
अतो यथा क्रम-मुक्ति-मार्गेऽर्चिर्-आदि-क्रम एवाङ्गी नाडी-रश्म्य्-आदि-विधि-
क्रमस् तु तद्-अङ्गत्वेनैव प्रस्तूयते तद्वद् इहापीति । अर्चिर्-आदिना तत्-
प्रथितेः [व्स्. 4.3.1] इत्य् एष न्यायोऽत्र दृष्टान्तयितव्यः ।
त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः ।
अवतीर्णो ऽसि भगवन् स्वेच्छोपात्त-पृथग्-वपुः ॥ [भ्प् 11.11.28]
(पगे 39)
साक्षाद् भगवान् एव त्वम् अवतीर्णोऽसि । भगवत एव वैभवम् आह -
ब्रह्मत्वं परम-व्योमाख्यो वैकुण्ठस् त्वं प्रकृतेः परः पुरुषोऽपि
त्वम् इति । भगवान् अपि कथम्भूतः सन्न् अवतीर्णः ।
[वृ. अद्द्स्: स्वेच्छामयस्य इत्य् अनुसारेण स्वेषां सर्वेषाम् एव भक्तानां या
इच्छा तां पूरयितुम् उपात्तानि ततस् ततः स्वतः आकृष्टानि पृथग्-वपूंषि
निज-तत्-तद्-आविर्भावा येन तथाभूतः सन्न् इति । तं प्रति यथाह जाम्बवान्
यस्येषद्-उत्कलित-रोष-कटाक्ष-मोक्षैर्
वर्त्मादिशत् क्षुभित-नक्र-तिमिङ्गिलो ऽब्धिः ।
सेतुः कृतः स्व-यश उज्ज्वलिता च लङ्का
रक्षः-शिरांसि भुवि पेतुर् इषु-क्षतानि ॥ [भ्प् 10.56.58]
यथा च देवाः -
केतुस् त्रि-विक्रम-युतस् त्रि-पतत्-पताको
यस् ते भयाभय-करो ऽसुर-देव-चम्वोः ।
स्वर्गाय साधुषु खलेष्व् इतराय भूमन्
पादः पुनातु भगवन् भजताम् अघं नः ॥ [भ्प् 11.6.13]
यथा वा ब्रह्मा नारायणस् त्वम् इत्य् आदौ नारायणोऽङ्ग नर-भू-जलायनात्
[भ्प् 10.14.4] इति । अतएवाक्रूरः -
अद्भुतानीह यावन्ति भूमौ वियति वा जले ।
त्वयि विश्वात्मके तानि किं मे ऽदृष्टं विपश्यतः ॥ [भ्प् 10.41.4]
अतएव -
गोविन्द-भुज-गुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीन् नारदो ऽभीक्ष्णं कृष्णोपासन-लालसः ॥ [भ्प् 11.2.1] [वृ. अद्दितिओन्
एन्द्स् हेरे.]
स्वेच्छयोपात्तानि ततस् तत आकृष्टानि पृथग्-वपूंषि निज-तत्-तद्-आविर्भावा
येन तथाभूतः सन्न् इति ।
॥ 11.11 ॥ उद्धवः श्री-भगवन्तम्

5.91

[91]
तद् एवं प्रमाणवत्त्वे प्रयोजनवत्त्वे स्थिते तम् एव प्रवेशम् आह -
स्व-शान्त-रूपेष्व् इतरैः स्व-रूपैर्
अभ्यर्द्यमानेष्व् अनुकम्पितात्मा ।
परावरेशो महद्-अंश-युक्तो
ह्य् अजो ऽपि जातो भगवान् यथाग्निः ॥ [भ्प् 3.2.15]
तच् च जन्म निज-तत्-तद्-अंशान्य् आदायैवेत्य् आह महद्-अंश-युक्तः ।
महतः स्वस्यैवांशैर् युक्तः । महान्तं विभुम् आत्मानम् [कठु 1.2.22]
इत्य् आदि श्रुतेः, महच् चेति [व्स् 1.4.8] न्याय-प्रसिद्धेश् च । महान्तो ये
पुरुषादयोऽंशास् तैर् युक्त इति वा । लोकनाथं महद्-भूतम् इतिवद्
आत्मत्वाव्यभिचारः । महद्भिर् अंशिभिर् अंशैश् च युक्त इति वा ॥
॥ 3.2 ॥ विदुरं श्रीमद्-उद्धवः

5.92

[92]
तथैवम् अथाहम् अंश-भागेन [भ्प् 10.2.9] इत्य् आदाव् अप्य् एवं
व्याख्येयम् । अंशानां भागो भजनं प्रवेशो यत्र तेन परिपूर्ण-रूपेण ।
अंशानां भजनेन लक्षितो वा प्राप्स्यामीति प्रकट-लीलाभिप्रायेण
भविष्यन्-निर्देशः । अतएव तद्-अवतार-समये युगावताराश् च स एवेत्य्
अभिप्रेत्याह -
आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतो ऽनुयुगं तनूः ।
शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥ [भ्प् 10.8.13]
अस्य तव पुत्रस्य प्रति-युगं तनुः युगावतार-लीलावतारान् गृह्णतः
प्रकटयतो यद्यपि शुक्लादयस् त्रयोऽप्य् अन्ये वर्णा आसन् तथापि इदानीम्
अस्य प्रादुर्भाववति अस्मिन् द्वापरे तु स शुक्लो युगावतारस् तथा रक्तः
पीतोऽपि । एतद् अप्य् उपलक्षणम् अन्य-द्वापर-युगावतारः (पगे 40) शुक-
पक्ष-वर्णोऽपि कृष्णताम् एव गत एतस्मिन्न् अन्तर्भूत इत्य् अर्थः । तस्मात्
कृष्णी-कर्तृत्वात् स्वयं कृष्णत्वात् सर्वाकर्षकत्वाच् च कृष्ण इत्य् एकम् अस्य
नामेति प्राकरणिकोऽप्य् अर्थः श्रेयान् । तदानीं श्री-कृष्णस्यैव द्वापर-
युगावतारत्वं श्री-करभाजनेन युगावतारोपासनायाम् उक्तम्, न तु
द्वापरान्तरवच्-छुक-पक्ष-वर्णस्यान्यस्य -
द्वापरे भगवाञ् श्यामः पीत-वासा निजायुधः ।
श्रीवत्सादिभिर् अङ्कैश् च लक्षणैर् उपलक्षितः ॥
तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् ।
यजन्ति वेद-तन्त्राभ्यां परं जिज्ञासवो नृप ॥
नमस् ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ [भ्प् 11.5.27-29] इति ।
[वृ. अद्द्स् हेरे:] अत्र श्री-कृष्णत्वे लिङ्गं महाराजोपलक्षणम् इति
वासुदेवायेत्य् आदि च श्री-हरि-वंशोक्त-राज-राजाभिषेकाद् द्वारकायां चतुर्-
व्यूहत्व-प्रसिद्धेश् च । [एन्द् ओf वृ. अद्दितिओन्.]
॥ 10.8 ॥ गर्गः श्री-नन्दम्

5.93

[93]
तद् एवं श्री-कृष्णस्य स्वयं भगवत्त्वे सुष्ठु निर्धारिते नित्यम् एव तद्-
रूपत्वेनावस्थितिर् अपि स्वयम् एव सिद्धा । तथापि मन्द-धियां भ्रान्ति-
हानार्थम् इदं विविरियते । तत्र तावद् आराधना-वाक्येनैव सा सिध्यति ।
आराध्यस्याभावे आराधनानोदनाया विप्रलिप्सा-जन्यत्वापत्तेः । तच् च
परमाप्ते शास्त्रे न सम्भवति । सम्भवे च पुरुषार्थाभावात्
शास्त्रानर्थक्यम् ।
सर्व-संवादिनी - अथ द्वि-नवतितम-वाक्यानन्तरं नित्यत्व-प्रकरणे
ôशास्त्रानर्थक्यम्ö इत्य् अस्यानन्तरम् इदं विवेचनीयम् । ननु बालातुराद्य्-
उपच्छन्दन-वाक्यवत् तज्-ज्ञान-मात्रेणापि पुरुषार्थ-सिद्धिर् दृश्यते । ततो
नार्थान्तर-सद्-भावे तत्-स्मारक-वाक्यं कारणम् । किन्तु प्रथमतस् तद्-
अभिरुचिते तदानीम् असत्य् अपि वस्तु-विशेषे तदीय-हित-वस्त्व्-अन्तर-
चित्तावताराय बालादीन् इव मात्रादि-वाक्यं स-गुण-विशेषे साधकान्
प्रवर्तयति शास्त्रम् । पश्चाद् यथा स्व-हिते क्रमेण स्वयम् एव प्रवर्तन्ते
बालादयस् तथा बलवच् छास्त्रान्तरं दृष्ट्वा निर्गुणे वा नित्य-प्राकट्य-
वैकुण्ठ-नाथ-लक्षण-गुणे वा प्रवर्तस्यन्त इति । तन् न । अनन्त-गुण-
रूपादि-वैभव-नित्यास्पदत्वात् । तद्-रूपेणावस्थितिर् नासम्भवितेति । यद्
गतं भवच् च भविष्यच् च [बौ 3.8.3] इति श्रुतेः ।
सम्भावितायां तु तस्याम् अवतार-वाक्यं चावतारस्य प्रपञ्च-गत-तदीय-
प्रकाश-मात्र-लक्षणत्वात् । नारायणादीनां च तत्रैवावतारे प्रवेश-
मात्र-विवक्षातो न विरुध्यते । किं चोत्तर-मीमांसायां तत्-तद्-उपासना-
शास्त्रोक्ता या या मूर्तिस् तद्वती एव देवता इति सिद्धान्त-ग्रहः । ततश् च तं
पीठगं ये तु यजन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषाम् [ग्तु 1.20]
इत्य् आदिका गोपाल-तापन्य्-उपनिषदि येनायथार्था मन्यते तस्य तु महद्
एव साहसम् । अत्र च शाश्वत-सुख-फल-प्राप्ति-श्रवणात् तत्-पीठस्य
यजनं विना ज्ञानम् अयं ज्ञानात् मोक्ष इति श्रुतेः । तत्रैव घोरा इति
विशेषणात् बालातुरवद् भावस् तेषां दूर एवोत्सारितः । नेतरेषाम् इति
निर्धारणे तद्-यजनस्य परम्परा-हेतुत्वम् अपि निषिध्यते । अतएव नाम
ब्रह्मेत्य् उपासीत [छाउ 7.1.5] इतिवद् अत्रारोपोऽपि न मन्तव्यः । तस्माद्
आराधन-वाक्येन तस्य नित्यत्वं सिध्यत्य् एव स्वाध्यायादिष्ट-देवता-
सम्प्रयोग इति स्मरणं चात्रोपष्टम्भकम् इति । [एन्द् सर्व-संवादिनी]
आरोपश् च परिच्छिन्न-गुण-रूप एव वस्तुनि कल्प्यते नानन्त-गुण-रूपे ।
श्री-स्वामि-चरणैर् अपीदम् एव पुष्टम् एकादश-समाप्तौ धारणा-ध्यान-
मङ्गलम् [भ्प् 11.31.6] इत्य् अत्र धारणाया ध्यानस्य च मङ्गलं शोभनं
विषयम् इतरथा तयोर् निर्विषयत्वम् । दृश्यते चाद्याप्य् उपासकानां
साक्षात्कारस् तत्-फलस्-प्राप्तिश् चेति भावः । श्रूयते चैवं पञ्चमे नवसु
वर्षेषु तत्-तद्-अवतारोपासनादि । यथोक्तं - नवस्व् अपि वर्षेषु भगवान्
नारायणो महा-पुरुषः पुरुषाणां तद्-अनुग्रहायात्म-तत्त्व-
व्यूहेनात्मनाद्यापि सन्निधीयते । [भ्प् 5.17.14] इति ।
सन्निधानं चेदं साक्षाद्-रूपेण श्री-प्रद्युम्नादौ गति-विलासादेर्
वर्णितत्वात् । तत्र चात्मना स्वयम् एवेत्य् उक्तम् । तथा नित्यत्वे एव
शालग्राम-शिलादिषु नरसिंहत्वादि-भेदश् च संगच्छते । तत्-तद्-अवतार-
सान्निध्याद् एव हि तत्-तद्-भेदः । तथा श्री-कृष्णम् अधिकृत्यापि गीतं श्री-
कृष्ण-सहस्र-नाम-प्रारम्भे श्री-विष्णु-धर्मोत्तरे --
तस्य हृष्टाशयः स्तुत्या विष्णुर् गोपाङ्गनावृतः ।
तापिञ्छ-श्यामलं रूपं पिञ्छोत्तंसम् अदर्शयत् ॥ इति ।
अग्रे च तद्-वाक्यम् -
माम् अवेहि महाभाग कृष्णं कृत्य-विदां वर ।
पुरस्कृतोऽस्मि त्वद्-भक्त्या पूर्णाः सन्तु मनोरथाः ॥ इति ।
तथा पाद्मे निर्माण-खण्डे - पश्य त्वं दर्शयिष्यामि स्वरूपं वेद-
गोपितम् इति श्री-भगवद्-वाक्यानन्तरं ब्रह्म-वाक्यम् -
ततोऽपश्यम् अहं भूप बालं कालाम्बुद-प्रभम् ।
गोप-कन्यावृतं गोपं हसन्तं गोप-बालकैः ॥
कदम्ब-मूल आसीनं पीत-वाससम् अद्भुतम् ।
वनं वृन्दावनं नाम नव-पल्लव-मण्डितम् ॥ इत्य् आदि ।
त्रैलोक्य-संमोहन-तन्त्रे श्रीमद्-अष्टादशाक्षर-जप-प्रसङ्गे -
अहर्-निशं जपेद् यस् तु मन्त्री नियत-मानसः ।
स पश्यति न सन्देहो गोप-वेश-धरं हरिम् ॥ इति ।
[सर्व-संवादिनी: त्रैलोक्य-संमोहन-तन्त्र-वचनानन्तरं चैवं
व्याख्येयम् । यदि वा श्री-कृष्णादीनां स्वयं-भगवत्त्वादिकम्
अननुसन्धायैव प्रलापिभिर् उपासनानुसारेणान्यदापि कश्चिन् मूल-भूत-
भगवान् तद्-रूपेणोपासकेभ्यो दर्शनं ददातीति मन्तव्यम् । तथापि
श्रुत्य्-आदि-प्रसिद्धानां तत्-तद्-उपासना-प्रवाहाणां
स्वयं समुत्तीर्य सुदुस्तरं द्युमन्
भवार्णवं भीमम् अदभ्र-सौहृदाः ।
भवत्-पदाम्भोरुह-नावम् अत्र ते
निधाय याताः सद्-अनुग्रहो भवान् ॥ [भ्प् 10.2.31]
इत्य् अनुसारेणाविच्छिन्न-सम्प्रदायत्वेनादि-सिद्धत्वात् अनन्तत्वात् केषांचित्
तच्-चरणारविन्दैक-सेवा-मात्र-पुरुषार्थानां ये यथा मां प्रपद्यन्ते
[गीता 4.11] इति न्यायेन नित्य-तद्-एकोपलब्धत्वात् श्री-भगवतः सर्वदैव
तत्-तद्-रूपेणावस्थितिर् गम्यते एव । अतएव भगवत्-पदाम्भोरुह-
नावमात्र ते निधायेत्य् उक्तम् । तद् एताम् अपि परिपाटीं पश्चाद् विधायाह ।
[एन्द् स्स्.]
गौतमीये च सद्-आचार-प्रसङ्गे -
अहर्-निशं जपेन् मन्त्रं मन्त्री नियत-मानसः ।
स पश्यति (पगे 41) न सन्देहो गोप-वेश-धरं हरिम् ॥ इति ।
श्री-गोपाल-तापनी-श्रुतिश् चैवम् - तदु होवाच ब्रह्मणोऽसाव् अन्वरतं मे
ध्यातः स्तुतः परमेश्वरः परार्धान्ते सोऽबुध्यत । गोपवेशो मे पुरुषः
पुरस्तादाविर्बभूव ॥ [ग्तु 1.29] इति सिद्ध-निर्देशोऽपि श्रूयते यथा वन्दे
वृन्दावनासीनम् इन्दिरानन्द-मन्दिरम् [नार्प् 1.1.1] इति बृहन्-
नारदीयारम्भे मङ्गलाचरणम् ।
गृहं सन्तिष्ठते यस्य माहात्म्यं दैत्य-नायक ।
द्वारकायाः समुद्भूतं सान्निध्यं केशवस्य च ।
रुक्मिणी-सहितः कृष्णो नित्यं निवसते गृहे ॥
इति स्कान्दे द्वारका-माहात्म्ये बलिं प्रति श्री-प्रह्लाद-वाक्यम् ।
व्रतिनः कार्त्तिके मासि स्नातस्य विधिवन् मम ।
गृहाणार्घ्यं मया दत्तं दनुजेन्द्र-निषूदन ॥ [पद्मप् 6.93.24]
इति पाद्म-कार्त्तिक-माहात्म्ये तत्-प्रातः-स्नानार्घ्य-मन्त्रः । एवं च
श्रीमद्-अष्टादशाक्षरादयो मन्त्रास् तत्-तत्-परिकरादि-
विशिष्टतयिवाराध्यत्वेन सिद्ध-निर्देशम् एव कुर्वन्ति । तद्-आवरणादि-पूजा-
मन्त्राश् च । किं बहुना कर्म-विपाक-प्रायश्चित्त-शास्त्रेऽपि तया श्रूयते ।
यद् आह बोधायनः - होमस् तु पूर्ववत् कार्यो गोविन्द-प्रीतये ततः इत्य् आद्य्
अनन्तरं ----
गोविन्द गोपीजन-वल्लभेश
कंसासुरघ्न त्रिदशेन्द्र-वन्द्य ।
गोदान-तृप्तः कुरु मे दयालो
अंशो-विनाशं क्षपितारि-वर्ग ॥ इति ।
अन्यत्र च यथा --
गोविन्द गोपीजन-वल्लभेश
विध्वस्त-कंस त्रिदशेन्द्र-वन्द्य ।
गोवर्धनादि-प्रवरैक-हस्त
संरक्षिताशेष-गव-प्रवीण ॥
गो-नेत्र-वेणु-क्षपण प्रभूतम्

आन्ध्यं तथोग्रं तिमिरं क्षिपांशु ॥ इति ।
स्पष्टं च तथात्वं श्री-गोपाल-तापन्यां - गोविन्दं सच्-चिद्-आनन्द-
विग्रहं वृन्दावन-सुर-भूरुह-तलासीनं सततं स-मरुद्-गणोऽहं
तोषयामि [ग्तु 1.37] इति ।
अतएव पुरस्कृतोऽस्मि त्वद्-भक्त्या इत्य् एवोक्तम् इति । अलं चैवां-विध-
प्रमाण-सङ्ग्रह-प्रपञ्चेन । यतश् चिच्-छक्त्य्-एक-व्यञ्जितानां तत्-
परिच्छदादीनां अपि तथा नित्यावस्थितित्वेनाविर्भाव-तिरोभावाव् एव द्वितीय-
सन्दर्भे साधितौ स्तः । सर्वथोत्पत्ति-नाशौ तु निषिद्धौ । ततस् तद्-
अवताराणां किम् उत स्वयं भगवतो वा तस्य किम् उततराम् इति । यथा च
व्याख्यातं जगृहे पौरुषं रूपम् इत्य् अत्र तत्त्व-वाद-गुरुभिः । व्यक्त्य्-
अपेक्षया जगृहे । तथा च तन्त्र-भागवते -
अहेयम् अनुपादेयं यद् रूपं नित्यम् अव्ययम् ।
स एवापेक्ष्य-रूपाणां व्यक्तिम् एव जनार्दनः ॥
अगृह्णाद् व्यसृजच् चेति राम-कृष्णादिकां तनुम् ।
पठ्यते भगवान् ईशो मूढ-बुद्धि-व्यपेक्षया ॥
तमसा ह्य् उपगूढस्य यत् तमः-पानम् ईशितुः ।
एतत् पुरुष-रूपस्य ग्रहणं समुदीर्यते ॥
कृष्ण-रामादि-रूपाणां लोके व्यक्ति-व्यपेक्षया ॥ इति ।
एवम् एव प्रथमे द्वादशाध्याये विधूय [भ्प् 1.12.11] इत्य्-आदि-पद्ये
स्वामिभिर् अपि व्याख्यातम् - यत्र दृष्टस् तत्रैवान्तर्हितः न त्व् अन्यत्र
गतः । यतो विभुः सर्व-गत इति । तथा माध्व-भाष्य-प्रमाणिता श्रुतिश् च
वासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धोऽहं मत्स्यः कूर्मो वराहो
नरसिंहो वामनो रामो रामो रामः कृष्णो बुद्धः कल्किर् अहं शतधाहं
सहस्रधाहम् इतोऽहम् अनन्तोऽहं नैवैते जायन्ते नैते म्रियन्ते । नैषाम्
अज्ञान-बन्धो न मुक्तिः सर्व एव ह्य् एते पूर्णा अजरा अमृताः परमा
परमानन्दा इति चतुर्वेद-शिखायाम् ।
तथा च श्री-नृसिंह-पुराणे - युगे युगे विष्णुर् अनादि-मूर्तिम् आस्थाय विश्वं
परिपाति दुष्टहा इति ।
तथा च नृसिंह-तापन्यां तद्-भाष्य-कृद्भिर् व्याख्यातम् - एतन् नृसिंह-
विग्रहं नित्यम् इति । श्रुतिश् च सेयं ऋतं सत्यं परं ब्रह्म पुरुषं नृ-
केशरि-विग्रहम् इति । एवं च ब्राह्म-पाद्मोत्तर-खण्डादाव् अपि श्री-मत्स्य-
देवादीनां च पृथक् पृथग् वैकुण्ठादि-लोकाः श्रूयन्ते । एवम् एव जलेषु
मां (पगे 42) रक्षतु मत्स्य-मूर्तिर् इति नारायण-वर्माद्य्-उक्तम् अपि
सङ्गच्छते ।
तस्मात् स्वयं भगवति श्री-कृष्णेऽप्य् अन्यथासम्भावनम् अनादि-पाप-
विक्षेप एव हेतुः । तद् एवम् अभिप्रेत्य तान् दुर्बुद्धीन् अपि बोधयितुं तस्य
स्वोपास्यत्वं प्रतिपादयन्न् आह पतिर् गतिश् चान्धक-वृष्णि-सात्वतां
प्रसीदतां मे भगवान् सतां पतिः ॥ [भ्प् 2.4.20] इति । स्पष्टम् ।
॥ 2.4 ॥ श्री-शुकः

5.94

[94]
तथा - देवे वर्षति यज्ञ-विप्लव-रुषा इत्य्-आदौ प्रीयान् न इन्द्रो गवाम् [भ्प्
10.26.25] इति । स्पष्टम् ।
॥ 10.26 ॥ श्री-शुकः

5.95

[95]
तथा -
श्री-कृष्ण कृष्ण-सख वृष्ण्य्-ऋषभावनि-ध्रुग्-
राजन्य-वंश-दहनानपवर्ग-वीर्य ।
गोविन्द गोप-वनिता-व्रज-भृत्य-गीत-
तीर्थ-श्रवः श्रवण-मङ्गल पाहि भृत्यान् ॥ [भ्प् 12.11.25]
स्पष्टम् ॥ 12.11 ॥ श्री-सूतः

5.96

[96]
अपि च स्वयम् एव स्व-विग्रहम् एव लक्ष्यीकृत्याह --
तदा वां परितुष्टो ऽहम् अमुना वपुषानघे ।
तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः ॥
प्रादुरासं वरद-राड् युवयोः काम-दित्सया ।
व्रियतां वर इत्य् उक्ते मादृशो वां वृतः सुतः ॥ [भ्प् 10.3.37-38]
इत्य् उपक्रम्य -
अदृष्ट्वान्यतमं लोके शीलौदार्य-गुणैः समम् ।
अहं सुतो वाम् अभवं पृश्निगर्भ इति श्रुतः ॥
तयोर् वां पुनर् एवाहम् अदित्याम् आस कश्यपात् ।
उपेन्द्र इति विख्यातो वामनत्वाच् च वामनः ॥
तृतीये ऽस्मिन् भवे ऽहं वै तेनैव वपुषाथ वाम् ।
जातो भूयस् तयोर् एव सत्यं मे व्याहृतं सति ॥ [भ्प् 10.3.41-43]
अमुना श्री-कृष्णस्य मम प्रादुर्भाव-समयेऽत्र प्रकाशमानेनैतेन
श्री-कृष्णाख्येनैव । तृतीय इति तेनैव पूर्वं वरार्थं प्रादुर्भावितेनैव ।
अतएव पृश्निगर्भादित्वे तेनैव वपुषेत्य् उक्तत्वान् न तु तदानीम् अधुनेव
स्वयम् एव बभूव किन्त्व् अंशेनैवेति गम्यते । पृश्निगर्भस् तु ते बुद्धिम्
आत्मानं भगवान् परः [भ्प् 10.6.12] इत्य् अत्राप्य् एतद् एव गीर्-देव्या सूचितम्
अस्ति । अतएव तृतीय एव भवे तत्-सदृश-सुत-प्राप्ति-लक्षण-वरस्य परम-
पूर्णत्वापेक्षया तत्रैव सत्यं मे व्याहृतम् इत्य् उक्तं चतुर्भुजत्वं चेदं
रूपं श्री-कृष्ण एव । कृष्णावतारोत्सवः [भ्प् 10.3.11] इत्य्-आदिभिस् तस्यात्यन्त-
प्रसिद्धेः ॥
॥ 10.3 ॥ श्री-भगवान् देवकी-देवीम्

5.97

[97]
एवं च देवक्यां देव-रूपिण्याम् [भ्प् 10.3.8] इत्य् आदि । स्पष्टम् ।
॥ 10.3 ॥ श्री-शुकः

5.98

[98]
ननु सत्यं तस्य चतुर्भुजाकार-रूपस्य तादृशत्वं किन्तु रूपं चेदं
पौरुषं ध्यान-धिष्ण्यं मा प्रत्यक्षं मांस-दृशां भो कृषीष्ठाः
[भ्प् 10.3.28] इति मातृ-विज्ञापनानुसारेण ।
एतद् वां दर्शितं रूपं प्राग्-जन्म-स्मरणाय मे ।
नान्यथा मद्-भवं ज्ञानं मर्त्य-लिङ्गेन जायते ॥ [भ्प् 10.3.44]
इति प्रत्युत्तरय्य -
इत्य् उक्त्वासीद् धरिस् तूष्णीं भगवान् आत्म-मायया ।
पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥ [भ्प् 10.3.46]
इत्य् उक्त-दिशा यन्-मानुषाकार-रूपं स्वीकृतवान् तत्र सन्दिग्धम् इव भाति ।
अत्र च भवतु वा हरिर् अपि तत्याज आकृतिं त्र्य्-अधीश इति [भ्प् 3.4.28] त्यक्षन्
देहम् इति [भ्प् 3.4.29] च तन्त्र-भागवतानुसारेणान्तर्धापनार्थत्वाद्
असहायम् ।
ययाहरद् भुवो भारं तां तनुं विजहाव् अजः ।
कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् ॥
यथा मत्स्यादि-रूपाणि धत्ते जह्याद् यथा नटः । (पगे 43)
भू-भारः क्षपितो येन जहौ तच् च कलेवरम् ॥ [भ्प् 1.15.34-35]
इति तु परिपोषकम् । एतद् एव श्री-वसुदेव-वचनेऽपि लभ्यते -
सूती-गृहे ननु जगाद भवान् अजो नौ
सञ्जज्ञ इत्य् अनु-युगं निज-धर्म-गुप्त्यै ।
नाना-तनूर् गगन-वद् विदधज् जहासि
को वेद भूम्न उरु-गाय विभूति-मायाम् ॥ [भ्प् 10.85.20]
अत्रोच्यते तत्-तद्-वचनम् अन्यार्थत्वेन दृश्यम् इति । एकस्मिन्न् एव तस्मिन् श्री-
विग्रहे कदाचित् चतुर्भुजत्वस्य कदाचिद् द्विभुजत्वस्य च प्रकाश-
श्रवणेनाविशेषापाताद् भू-भार-क्षपणे द्वयोर् अपि सामान्यात् । सूती-गृहे
इत्य् आदि-वाक्यस्य चतुर्भुज-विषयत्वाच् च । किं च यैर् विद्वद्-अनुभव-सेवित-
शब्द-सिद्धैर् नित्यत्वादिभिर् धर्मैः श्री-विग्रहस्य परम-तत्त्वाकारत्वं
साधितम् । ते प्रायशो नराकारम् अधिकृत्यैव ह्य् उदाह्रियन्ते स्म द्वितीय-
सन्दर्भे । तथात्रैव चोपासकेषु साक्षात्कारादि-लिङ्गेन सिद्ध-निर्देशेन
च तद्-आकारस्यापि नित्य-सिद्धत्वं दृढीकृतम् । उदाहरिष्यते च सिद्ध-
निर्देशः - मां केशवो गदया प्रातर् अव्याद् गोविन्द आसङ्गव मात्त-वेणुः
[भ्प् 8.9.20] इति ।
संप्रत्य् अन्यद् अपि तत्रोदाह्रियते । तत्र नित्यत्वं यथा --
कंसो बताद्याकृत मे ऽत्य्-अनुग्रहं
द्रक्ष्ये ऽङ्घ्रि-पद्मं प्रहितो ऽमुना हरेः ।
कृतावतारस्य दुरत्ययं तमः
पूर्वे ऽतरन् यन्-नख-मण्डल-त्विषा ॥
यद् अर्चितं ब्रह्म-भवादिभिः सुरैः
श्रिया च देव्या मुनिभिः स-सात्वतैः ।
गो-चारणायानुचरैश् चरद् वने
यद् गोपिकानां कुच-कुङ्कुमाङ्कितम् ॥ [भ्प् 10.38.7-8]
अत्र पूर्व इत्य् आदि-द्योतितं गो-चारणाय इत्य्-आदि-लब्धस्य स्फुटं श्री-
नराकारस्यैव नित्यावस्थायित्वं लभ्यते ॥
॥ 10.38 ॥ श्रीमद्-अक्रूरः

5.99

[99]
तथा -
या वै श्रियार्चितम् अजादिभिर् आप्त-कामैर्
योगेश्वरैर् अपि यद् आत्मनि रास-गोष्ठ्याम् ।
कृष्णस्य तद् भगवतश् चरणारविन्दं
न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ [भ्प् 10.47.62]
सदा भूत-वर्तमान-भविष्यत्-कालेषु श्र्य्-आदीनां सर्वदावस्थायित्वेन
प्रसिद्धेः । सदेत्य् अस्य तथैव ह्य् अर्थ-प्रतीतिः । सङ्कोच-वृत्तौ
कष्टतापत्तेः । श्री-भगवति तादृशत्वासम्भवाच् च । तथा च श्रुतौ -
गोविन्दं सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भू-रुह-तलासीनं सततं
स-मरुद्-गणोऽहं तोषयामि [ग्तु 1.37] इति ब्रह्म-वाक्यम् ।
[वृ. रेअद्स् हेरे:। तद्-उत्तर-तापनी-श्रुतौ श्री-गोपीः प्रति दुर्वाससो वाक्यम् -
जन्म-जराभ्यां भिन्नः स्थानुर् अयम् अच्छेद्योऽयं योऽसौ सौर्ये तिष्ठति ।
योऽसौ गोषु तिष्ठति, योऽसौ गाः पालयति, योऽसौ गोपेषु तिष्ठति स वो हि
स्वामी भवति ॥ [ग्तु 2.23] इति । [एन्द् वृ. अद्दितिओन्.]
॥ 10.47 ॥ श्रीमद्-उद्धवः

5.100

[100]
एवं च --
यत्-पाद-पांसुर् बहु-जन्म-कृच्छ्रतो
धृतात्मभिर् योगिभिर् अप्य् अलभ्यः ।
स एव यद्-दृग्-विषयः स्वयं स्थितः
किं वर्ण्यते दिष्टम् अतो व्रजौकसाम् ॥ [भ्प् 10.12.12]
अत्र स्वयम् इत्य् अनेन तु बाढम् एवान्यथा-प्रतीतिर् दुर्धियां निरस्ता ॥
[वृ. रेअद्स् हेरे:। स्थित इति वर्तमाने क्त । यच् च किञ्चिज् जगत् सर्वं व्याप्य
नारायण स्थितः [महानारायण उपनिषद् 9.5] इतिवत् । [एन्द् वृ. अद्दितिओन्.]
॥ 10.12 ॥ इति शुकः

5.101

(पगे 44)
[101]
अतएव स्वभाव-सिद्धत्वं पूर्णैश्वर्याद्य्-आश्रयत्वं च -
गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं
लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् ।
दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम्
एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥ [भ्प् 10.44.14]
अनन्य-सिद्धम् अन्येन तत् सिद्धम् इति न, किन्तु स्वाभाविकम् एवेत्य् अर्थः ।
अन्यत्रासिद्धम् इति तु व्याख्यापि पिष्ट-पेषणम् । असमोर्ध्वम् इति हि युक्तम्
एव ॥
[वृ. अद्द्स् हेरे: तद् इदं च तासां वाक्यं श्री-शुकदेवादिभिः स्वयम्
अनुमोदितम् इति नान्यथा मन्तव्यम् । [वृ. अद्दितिओन् एन्द्स्.]
॥ 10.44 ॥ मथुरा-पुर-स्त्रियः परस्परम्

5.102

[102]
अथ विभुत्वं - न चान्तर् न बहिर् यस्य [भ्प् 10.9.13] इत्य् आदौ । प्राकृत-
वस्त्व्-अतिरिक्तत्वम् त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् [भ्प् 10.60.45]
इत्य् आदौ स्पष्टम् । स्व-प्रकाश-लक्षणत्वम्
अस्यापि देव-वपुषो मद्-अनुग्रहस्य
स्वेच्छा-मयस्य न तु भूत-मयस्य कोऽपि ।
नेशे महित्व-वसितुं मनसान्तरेण
साक्षात् तवैव किम् उतात्म-सुखानुभूतेः ॥ [भ्प् 10.14.2]
अस्य नौमीड्य ते [भ्प् 10.14.1] इत्य् आदिना वर्णित-लक्षणस्य श्रीमन्-
नराकरस्य तव सम्प्रति बालक-वत्साद्य्-अंशैर् दर्शितेषु एकम् अपि देव-
रूपं चतुर्भुजाकारं यद् वपुस् तस्यापि । [वृ. अद्द्स्: अस्तु वा तावत्
समस्तानाम् इत्य् अर्थः । एन्द् वृ. अद्दितिओन्.] एवं च सति साक्षाद् एतद्-
रूपस्यांशिनस् तव, किम् उत देव-वपुषो विशेषणं मद्-अनुग्रहस्येत्यादि ।
ममानुग्रहो यस्मात् तस्य तद्-दर्शनेनैव भवन्-महिम-ज्ञानात् ।
कथम्भूतस्य तव ? आत्म-सुखानुभूतेः । आत्मना स्वेनैव न त्व् अन्येन
सुखस्यानुभूतिर् अनुभवो यस्य तस्यानन्य-वेद्यानन्दस्येत्य् अर्थः ।
॥ 10.14 ॥ ब्रह्मा श्री-भगवन्तम्

5.103

[103]
कैमुत्येन स्वयं-रूपत्व-निर्देशश् च -
सकृद् यद्-अङ्ग-प्रतिमान्तर्-आहिता
मनोमयी भागवतीं ददौ गतिम् ।
स एव नित्यात्म-सुखानुभूत्य्-अभि-
व्युदस्त-मायो ऽन्तर्-गतो हि किं पुनः ॥ [भ्प् 10.12.39]
स्पष्टम् ॥ ॥ 10.12 ॥ श्री-शुकः

5.104

[104]
अतएव साक्षात् पर-ब्रह्मत्वम् एव दर्शितम् - अद्यैव त्वद्-ऋतेऽस्य [भ्प्
10.14.18] इत्य् आदौ अहो भाग्यम् अहो भाग्यम् [भ्प् 10.14.32] इत्य् आदौ च ।
अतएवोक्तं गूढं परं ब्रह्म मनुष्य-लिङ्गम् [भ्प् 7.15.75] इति । वैष्णवे
च -
यदोर् वंशं नरः श्रुत्वा सर्व-पापैः प्रमुच्यते ।
यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म नराकृति ॥ [विप् 4.11.2] इति ।
नराकृति परं ब्रह्मेति बृहत्-सहस्र-नाम-स्तोत्रे च । एतेन श्री-कृष्णस्य
नराकृतित्वम् एवेति । द्विभुजत्व एव श्री-कृष्णत्वं नराकृति-कैवल्यान्
मुख्यं, चतुर्भुजत्वे तु श्री-कृष्णत्वं नराकृति-भूयिष्ठत्वात् तद्-
अनन्तरम् एव । अतएव चतुर्भुजत्वेऽपि मनुष-रूपत्वं वर्णितं श्रीमद्-
अर्जुनेन तेनैव रूपेण चतुर्भुजेन सहस्र-बाहो भव विश्व-मूर्ते [गीता
11.51] इत्य् उक्त्वा, दृष्ट्वेदं मानुषं रूपं तव सौम्य जनार्दन, इदानीम्
अस्मि संवृत्तः [गीता 11.51] इत्य् उक्तत्वात् । एवं-जातीयकानि बहूनि, तानि च
द्रष्टव्यानि ।
अतएव सा नराकारा मूर्तिर् एव परम-कारणं वस्तु-तत्त्वम् इत्य् आह -
नारायणे कारण-मार्त्य-मूर्तौ [भ्प् 10.46.33] सर्व-कारणं यत् तत्त्वं तद्
एव मर्त्याकारा मूर्तिर् यस्य । तद् उक्तं तत्त्वं परं योगिनाम् [भ्प् 10.43.17]
इति । तथा च पाद्म-निर्माण-खण्डे श्री-वेद-व्यास-वाक्यम् -
दृष्टातिहृष्टो ह्य् अभवं सर्व-भूषण-भूषणम् ।
गोपालम् अबला-सङ्गे मुदितं वेणु-वादिनम् ॥
ततो माम् आह भगवान् वृन्दावन-चरः स्वयम् । (पगे 45)
यद् इदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ॥
निष्कलं निष्क्रियं शान्तं सच्-चिद्-आनन्द-विग्रहम् ।
पूर्णं पद्य-पलाशाक्षं नातः-परतरं मम ॥
इदम् एव वदन्त्य् एते वेदाः कारण-कारणम् ॥ इत्य् आदि ।
॥ 10.46 ॥ उद्धवः श्री-व्रजेश्वरम्

5.105

[105]
अतएव बहूंश् चतुर्भुजान् दृष्टवान् अपि श्री-नराकारस्यैव विशेषतः
स्तुत्यत्वं प्रतिजानीते । नौमीड्य तेऽभ्र-वपुषे तडिद्-अम्बराय [भ्प् 10.14.1]
इत्य् आदि ।
इदम् एव तव परमं तत्त्वम् इत्य् अज्ञात्वा पूर्वम् अहं भ्रान्तवान् । अधुना
तु अद्यैव त्वद्-ऋतेऽस्य किम् [भ्प् 10.14.18] इत्य् आदि-दिदर्शितया भवतः कृपया
ज्ञातवान् इत्य् अतस् तत्र तद्-आकारम् एव त्वां लब्धुं स्तौमीति तात्पर्यम् ।
॥ 10.14 ॥ ब्रह्मा श्री-भगवन्तम्

5.106

[106]
तद् एवं साधूक्तं तत्-तद्-वचनम् अन्यार्थत्वेन दृश्यम् इति । तथा हि
पूर्व-रीत्या चतुर्भुजत्व-द्विभुजत्वयोर् द्वयोर् अपि ध्यान-धिष्ण्यत्वे सति,
यत् पूर्वस्य जनन्या निगूहन-प्रार्थनं तत् तु तस्य प्रसिद्धत्यआ सर्व एव
ज्ञास्यतीति जन्म ते मय्य् असौ पापो मा विद्यान् मधुसूदन [भ्प् 10.3.29] इत्य्
आद्य्-उक्त-लक्षणया कंस-भिया विश्वं यद् एतत् स्व-तनौ निशान्ते [भ्प्
10.3.31] इत्य्-आद्य्-उक्त-लक्षणया मांस-दृक्-शब्दोक्त-भगवत्-स्वरूप-शक्ति-
विलास-तज्-जन्मादि-लीला-तत्त्वानभिज्ञ-प्राकृत-दृग्भ्यो लज्जया च । न पुनर्
अपरस्य गूढं परं ब्रह्म मनुष्य-लिङ्गम् [भ्प् 7.15.35] इत्य् आदौ
गूढत्वेन कथितस्य ध्यान-धिष्ण्यत्वाभाव-विवक्षया । श्री-गोपाल-
तापनी-श्रुताव् अप्य् उभयोर् अपि ध्यान-धिष्ण्यत्वं श्रूयते --
मथुरायां विशेषेण मां ध्यायन् मोक्षम् अश्नुते ।
अष्ट-पत्रं विकसितं हृत्-पद्मं तत्र संस्थितम् ॥ [ग्तु 2.58-59]
इत्य् आदिषु मध्ये चतुर्-भुजं शङ्ख-चक्र [ग्तु 2.60] इत्य् आदिकम् उक्त्वा
सर्वान्ते -- शृङ्ग-वेणु-धरं तु वा [ग्तु 2.60] इत्य् उक्तम् । एवम् आगमेऽपि
द्विभुज-ध्यानं श्रूयते - तस्मान् निगूढत्व-विवक्षयैव समीचीना ।
तथैव तद्-विवक्षया नान्यथा मद्-भावं मर्त्य-लिङ्गेन जायते [भ्प्
10.3.44] इति श्री-भगवतोक्तम् ।
तथा च पाद्म-निर्माण-खण्डे श्री-भगवद्-वाक्यं व्यास-वाक्ये -
पश्य त्वं दर्शयिष्यामि स्वरूपं वेद-गोपितम् ।
ततोऽपश्यम् अहं भूप बालं कालाम्बुद-प्रभम् ।
गोप-कन्यावृतं गोपं हसन्तं गोप-बालकैः ॥ इति ।
एवम् इत्य् उक्त्वासीद् धरिस् तूष्णीम् [भ्प् 10.3.46] इत्य् आदौ च व्याख्येयम् ।
आत्म-मायया स्वेच्छया आत्म-माया तद्-इच्छा स्याद् इति महा-संहितोक्तेः ।
प्रकृत्या स्वरूपेणैव व्यक्तः प्राकृतः । न त्व् औपाधिकतया शैषिकोऽण् ।
तत्र हि भगवद्-विग्रहे शिशुत्वादयो विचित्रा एव धर्माः स्वाभाविकाः
सन्तीति को वेत्ति भूमन् [भ्प् 10.14.21] इत्य् अस्य व्याख्याने द्वितीय-सन्दर्भे
दर्शितम् एव ।
अत्र श्री-रामानुजाचार्य-सम्मतिर् अपि । श्री-गीतासु प्रकृतिं स्वाम् अवष्टभ्य
सम्भवाम्य् आत्म-मायया [गीता 4.6] इत्य् अत्र स्वम् एव स्व्भावम् आस्थाय
आत्म-मायया स्व-सङ्कल्प-रूपेण ज्ञानेनेत्य् अर्थः । माया व्यूनं ज्ञानम्
इति नैर्घण्टुकाः । महाभारते च अवतार-रूपस्याप्य् अप्राकृतत्वम् उच्यते -
न भूत-सङ्घ-संस्थानो देहोऽस्य परमात्मनः इति ।
अथ बृहद्-वैष्णवेऽपि -
यो वेत्ति भौतिकं देहं कृष्णस्य परमात्मनः ।
स सर्वस्माद् बहिष्कार्यः श्रौत-स्मार्त-विधानतः ।
मुखं तस्यावलोक्यापि स-चेलः स्नानम् आचरेत् ।
पश्येत् सूर्यं स्पृशेद् गां च धृतं प्राश्य विशुद्ध्यति ॥ इति । [पगे 46]
अथ यथाहरद् भुवो भारम् [भ्प् 1.15.34] इत्य् आदौ चैवं मन्तव्यम् ।
तनु-रूप-कलेवर-शब्दैर् अत्र श्री-भगवतो भू-भार-जिहीर्षा-लक्षणो
देवादि-पिपालयिषा-लक्षणश् च भाव एवोच्यते । यथा तृतीये विंशतितमे तत्-
तच्-छब्दैर् ब्रह्मणो भाव एवोक्तः । यदि तत्रैव तह्ता व्याख्येयं तदा
सुतराम् एव श्री-भगवतीति । ततश् च तस्य भावस्य भगवति तद्-आभास-
रूपत्वात् कण्टक-दृष्टान्तः सुसङ्गत एव । तथा द्वयम् एवेशितुः साम्यम्
अपि । तत् तु तृतीये सन्दर्भ एव विवृतं मत्स्यादि-रूपाणि [भ्प् 1.15.35]
मत्स्याद्य्-अवतारेषु तत्-तद्-भावान् ।
अथ नट-दृष्टान्तेऽपि नटः श्राव्य-रूपकाभिनेता । व्याख्यातं च टीका-
कृद्भिः प्रथमस्यैकादशे नटा नव-रसाभिनय-चतुरा [भावार्थ-
दीपिका 1.11.21] इति । ततो यथा श्रव्य-रूपकाभिनेता नटः स्वरूपेण स्व-
वेशेन च स्थित एव पूर्व-वृत्तम् अभिनयेन गायन् नायक-नायिकादि-भावं
धत्ते जहाति च तथेति । अतएव तृतीये -
प्रदर्श्यातप्त-तपसाम् अवितृप्त-दृशां नृणाम् ।
आदायान्तर् अधाद् यस् तु स्व-बिम्बं लोक-लोचनम् ॥ [भ्प् 3.2.11]
इत्य् अत्रापि लोक-लोचन-रूपं स्व-बिम्बं निज-मूर्तिं प्रदर्श्य पुनर् आदायैव
च अन्तरधात् । न तु त्यक्त्वेत्य् उक्तं श्री-सूतेन यथा मत्स्यादि-रूपाणि [भ्प्
1.15.35] इत्य् अनन्तरम् अपि तथोक्तं - यदा मुकुन्दो भगवान् इमां महीं
जहौ स्व-तन्वा [भ्प् 1.15.36] इति । त्यागोऽत्र स्व-तनु-करणक इति न तु स्व-
तन्वा सहेति व्याख्येयम् । अध्याहार्यापेक्षागौरवात् उपपद-विभक्तेः
कारक-विभक्तिर् बलीयसीति न्यायाच् च ।
[वृ. रेअद्स् हेरे: अथवा नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [गीता
7.25] इति श्री-गीत-वचनेन ।
योगिभिर् दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचित् ।
द्रष्टुं न शक्यो रोषाच् च मत्सराच् च जनार्दनः ॥
इति पाद्मोत्तर-खण्ड-निर्णयेन । मल्लानाम् अशनिः [भ्प् 10.43.17] इति श्री-
भागवत-दर्शनेन । आत्म-विनाशाय भगवद्-धस्त-चक्रांशु-
मालोज्ज्वलम् अक्षय-तेजः-स्वरूपं परम-ब्रह्म-भूतम् अपगत-द्वेषादि-
दोषो भगवन्तम् अद्राक्षीत् [विप् 4.15.15] इति शिशुपालम् उद्दिश्य विष्णु-
पुराण-गद्येन चासुरेषु यद्-रूपं स्फुरति । तत् तस्य स्वरूपं न भवति
किन्तु माया-कल्पितम् एव । स्वरूपे दृष्टे द्वेषश् चापयातीति ततश् चासुरेषु
स्फुरत्या यया तन्वा भुवो भार-रूपम् असुर-वृन्दम् अहरत् तां तनुं
विजहौ । पुनस् तत्-प्रत्य्-आयनं न चकारेत्य् अर्थः । भक्ति-दृश्या तनुस् तु
तस्य नित्य-सिद्धवेत्य् आह अज [गीता 4.6] इति, देवक्यां देव-रूपिण्याम् [भ्प्
10.3.8] इत्य् आदेः, कृष्णं च तत्र छन्दोभिः स्तूयमानम् [भ्प् 10.28.17] इत्य् अत्र
गोलोकाधिष्ठातृत्व-निर्देशाच् च ।
ततश् च यथा मत्स्यादि-रूपाणि इत्य् अस्याप्य् अयम् एवार्थः । यथा नट
ऐन्द्रजालिकः कश्चित् स्व-भक्षकानां बकादीनां निग्रहाय मस्त्याद्य्-
आकाआन् धत्ते, स्वस्मिन् प्रत्यायाति तन्-निग्रहे सति यथा च तानि जहाति, तथा
सोऽयम् अजोऽपि येन मायित्वेन लक्ष्यतां प्रापितेन रूपेण भू-भार-
रूपासुर-वर्गः क्षपित-तद्-वर्गं क्षपितवान् इत्य् अर्थः । तच् च कलेवरम्
अजो जहौ अन्तर्धापितवान् इत्य् अर्थः । किन्तु श्री-गीता-पद्ये योग-माया-
समावृतः [गीता 7.25] सर्प-कञ्चुकवन्-माया-रचित-वपुर्-आभास-समावृत
इत्य् अर्थः ।
विष्णु-पुराण-गद्ये आत्म-विनाशाय इति आत्मनः स्वस्य शिशुपालस्येत्य् अर्थः ।
भगवता अस्तं क्षिप्तं यच् चक्रं तस्यांशु-मालया उज्ज्वलं यथास्यात्
तथाद्राक्षीत् । यतः उपगत-द्वेषादि-दोष इति । तया तस्य दृष्टाव् उज्ज्वलायां
सत्याम् अपगत-द्वेषादि-दोषः सन् दूरीकृत-मायिक-निजावरणं
भगवन्तम् अद्राक्षीद् इत्य् अर्थः । किं च, तन्-मते कल्पान्तर-गत-तत्-
कथायां शिशुपालादि-द्वय-मुक्ति-विषयक-मैत्रेय-पराशर-प्रश्नोत्तर-
रीत्या जय-विजययोः शाप-सङ्गतिर् नास्तीत्य् अन्याव् एव ताव् असुरौ ज्ञेयौ ।
युक्तं च तत्, प्रतिकल्पं तयोः शाप-कदर्थनाया अयुक्तत्वात् ॥ [एन्द्. वृ.
अद्दितिओन्.]
[पगे 47]
अथ सूती-गृहे [भ्प् 10.85.20] इत्य् अस्यार्थः । एतत् प्राक्तन-वाक्येषु श्री-
भगवन्-महिम-ज्ञान-भक्ति-प्रधानोऽसौ विशुद्ध-सत्त्व-

प्रादुर्भावस्याप्य् आत्मनो मनुष्य-लीलाम् एव दैन्यातिशयतः प्राकृत-
मानुषत्वेन स्थापयित्वा श्री-भगवत्य्-अपत्य-बुद्धिम् आक्षिप्तवान् ।
ततश् च - ननु तर्हि कथम् अपत्य-बुद्धिं कुरुषे इति श्री-भगवत्-प्रश्नम्
आशङ्क्य तत्र तद्-वाक्य-गौरवम् एव मम प्रमाणं न तूपत्तिर् इत्य् आह
सूती-गृह इति । नौ आवयोर् अनुयुगम् । अत एव भवान् संजज्ञे अवतीर्णवान् इति
सूती-गृहे भगवान् अनुजगाद ।
ननु मया तद् अपि भवद्-आदि-तनु-प्रवेश-निर्गमापेक्षयैव जज्ञे इत्य्
उक्तम्, न तु मम प्रव्श-निर्गम-लिङ्गेनैव जन्म वाच्यम् । जीव-सखेन
व्यष्टेः समष्टेर् वान्तर्यामि-रूपेण -
तं दुर्दशं गूढम् अनुप्रविष्टं
गुहाहितं गह्वरेष्ठं पुराणम् [कठु 1.2.12]
तत् सृष्ट्वा तद् एवानुप्राविशत् [तैत्तु 2.6.2] इत्य् आदौ च तत् तद् अनुप्रवेशादि-
दर्शन-सामान्यात् । ततस् तद्वद् इदम् उपचरितम् एवेति मन्यताम् ।
तत्राह नानेति । स्व-कृत-विचित्र-योनिषु विशन्न् इव हेतुतया [भ्प् 10.87.19]
इत्यादि-श्रवणात् गगनवद् असङ्ग एव त्वं यज्-जीवानां नाना-तनूर् विदधत्
प्रविशन् जहासि । मुहुः प्रविशसि जहासि चेत्य् अर्थः । तद्-भूम्नस् तव
विभूति-विशेष-रूपां मायां को वेद बहु मन्यते, नो कोऽपीत्य् अर्थः । इदं
त्व् आवाभ्यां जन्म सर्वैर् एव स्तूयते इति भावः । ततो विद्वद्-आदरोऽप्य्
अत्रास्तु प्रमाणं मम तु तत् सर्वथा न बुद्धि-गोचर इति व्यञ्जितम् । अत्र
विद्-धातोः प्रवेशार्थो नानुपपन्नः । यथोक्तं सहस्र-नाम-भाष्ये -
शिष्टान् करोति पालयति इति । सामान्य-वचनो धातुर् विशेष-वचने दृष्टः ।
कुरु काष्ठानीत्य् आहरणे यथा तद्वद् इति ।
तद् एवं श्री-कृष्णस्य स्वयं बहगवत्त्वं तस्यैव नराकृति-पर-ब्रह्मणो
नित्यम् एव तद्-रूपेणावस्थायित्वं दर्शितम् । तथा प्रथमे पृथिव्यापि
सत्यं शौचं दया शौचिः [भ्प् 1.16.27] इत्य् आदिना तदीयानां कान्ति-सह-ओजो-
बलानां स्वाभाविकत्वम् अव्यभिचारित्वं च दर्शितम् । अतएव ब्रह्माण्डे
चाष्टोत्तर-शत-नाम-स्तोत्रे नराकृतित्वं प्रकृत्यैवोक्तम् -
नन्द-व्रज-जनानन्दी सच्-चिद्-आनन्द-विग्रहः ।
नव-नीत-विलिप्ताङ्गी नव-नीत-नटोऽनघ ॥ इति ।
श्री-गोपाल-पूर्व-तापन्याम् अपि तथैव -
नित्यो नित्यानां चेतनश् चेतनानाम्
एको बहूनां यो विदधाति कामान् ।
तं पीठगं येऽनुभजन्ति धीरास्
तेषां सिद्धिः शाश्वती नेतरेषाम् ॥ [ग्तु 1.20] इति ।
तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् [ग्तु 1.33] इत्य् आदि च । तस्माच्
चतुर्-भुजत्वे द्विभुजत्वे च श्री-कृष्णत्वस्याव्यभिचारित्वम् एवेति सिद्धम् ।
अथ कतमत् तत्-पदं यत्रासौ विहरति । तत्रोच्यते -
या यथा भुवि वर्तन्ते पुर्यो भगवतः प्रियाः ।
तास् तथा सन्ति वैकुण्ठे तत्-तल्-लीलार्थम् आदृताः ॥
इति स्कान्द-वचनानुसारेण वैकुण्ठे यद् यत् स्थानं वर्तते तत् तद् एवेति
मन्तव्यम् । तच् चाखिल-वैकुण्ठोपरि-भाग एव । यतः पाद्मोत्तर-खण्डे
दशावतार-गणने श्री-कृष्णम् एव नवमत्वेन वर्णयित्वा क्रमेण
पूर्वादिषु तद्-दशावतार-स्थानानां परम-व्योमाभिध-
वैकुण्ठस्यावरणत्वेन गणनया श्री-कृष्ण-लोकस्य ब्रह्म-दिशि प्राप्ते
सर्वोपरि-स्थायित्वम् एव पर्यवसितम् । आगमादौ हि दिक्-क्रमस् तथैव
दृश्यते । तत्रास्माभिस् तु तत्-तच्-छ्रवणात् श्री-कृष्ण-लोकस्य स्वतन्त्रैव
स्थितिः । किन्तु परम-व्योम-पक्ष-पातित्वेनैव [पगे 48] पाद्मोत्तर-खण्डे
तद्-आवरणेषु प्रवेशितोऽसाव् इति मन्तव्यम् । पाद्मोत्तर-खण्ड-
प्रतिपाद्यस्य गौणत्वं तु श्री-भागवत-प्रतिपाद्यापेक्षया वर्णितम् एव ।
स्वायम्भुवागमे च स्वतन्त्रतयैव सर्वोपरि तत्-स्थानम् उक्तम् । यथा
ईश्वर-देवी-संवादे चतुर्दशाक्षर-ध्यान-प्रसङ्गे पञ्चाशीतितमे पटले
ध्यायेत् तत्र विशुद्धात्मा इदं सर्वं क्रमेण तु ।
नाना-कल्प-लताकीर्णं वैकुण्ठं व्यापकं स्मरेत् ॥
अधः-साम्यं गुणानां च प्रकृतिं सर्व-कारणम् ।
प्रकृतेः कारणान्य् एव गुणांश् च क्रमशः पृथक् ॥
ततस् तु ब्रह्मणो लोकं ब्रह्म-चिह्नं स्मरेत् सुधीः ।
ऊर्ध्वं तु सीम्नि विरजां निःसीमां वर-वर्णिनि ॥
वेदाङ्ग-स्वेद-जनित-तोयैः प्रस्रावितां शुभाम् ।
इमाश् च देवता ध्येया विरजायां यथा-क्रमम् ॥ इत्य् आद्य्-अनन्तरम् -
ततो निर्वाण-पदवीं मुनीनाम् ऊर्ध्व-रेतसाम् ।
स्मरेत् तु परम-व्योम यत्र देवाः सनातनाः ॥
ततोऽनिरुद्ध-लोकं च प्रद्युम्नस्य यथा-क्रमम् ।
सङ्कर्षणस्य च तथा वासुदेवस्य च स्मरेत् ॥
लोकाधिपान् स्मरेत्... इत्य् आद्य्-अनन्तरं च -
पीयूष-लतिकाकीर्णां नाना-सत्त्व-निषेविताम् ।
सर्वर्तु-सुखदां स्वच्छां सर्व-जन्तु-सुखावहाम् ॥
नीलोत्पल-दल-श्यामां वायुना चालितां मृदु ।
वृन्दावन-परागैस् तु वासितां कृष्ण-वल्लभाम् ॥
सीम्नि कुञ्ज-तटां योषित्-क्रीडा-मण्डप-मध्यमाम् ।
कालिन्दीं संस्मरेद् धीमान् सुवर्ण-तट-पङ्कजाम् ॥
नित्य-नूतन-पुष्पादि-रञ्जितं सुख-सङ्कुलम् ।
स्वात्मानन्द-सुखोत्कर्ष-शब्दादि-विषयात्मकम् ॥
नाना-चित्र-विहङ्गादि-ध्वनिभिः परिरम्भितम् ।
नाना-रत्न-लता-शोभि-मत्तालि-ध्वनि-मन्द्रितम् ॥
चिन्तामणि-परिच्छिन्नं ज्योत्स्ना-जाल-समाकुलम् ।
सर्वर्तु-फल-पुष्पाढ्यं प्रवालैः शोभितं परि ॥
कालिन्दी-जल-संसर्ग-वायुना कम्पितं मुहुः ।
वृन्दावनं कुसुमितं नाना-वृक्ष-विहङ्गमैः ॥
संस्मरेत् साधको धीमान् विलासैक-निकेतनम् ।
त्रिलोकी-सुख-सर्वस्वं सुयन्त्रं केलि-वल्लभम् ॥
तत्र सिंहासने रम्ये नाना-रत्न-मये सुखे ।
सुमनोऽधिक-माधुर्य-कोमले सुख-संस्तरे ॥
धर्मार्थ-काम-मोक्षाख्य-चतुष्पादैर् विराजते ।
ब्रह्म-विष्णु-महेशानां शिरो-भूषण-भूषिते ॥
तत्र प्रेम-भराक्रान्तं किशोरं पीत-वाससम् ।
कलाय-कुसुम-श्यामं लावण्यैक-निकेतनम् ॥
लीला-रस-सुखाम्भोधि-संमग्नं सुख-सागरम् ।
नवीन-नीरदाभासं चन्द्रिकाङ्चित-कुन्तलम् ॥ इत्य् आदि । (पगे 49)
[वृ. हेरे अद्द्स्. - मृत्यु-सञ्जय-तन्त्रे च -
ब्रह्माण्डस्योर्ध्वतो देवि ब्रह्मणः सदनं महत् ।
तद्-ऊर्ध्वं देवि विष्णूनां तद्-ऊर्ध्वं रुद्र-रूपिणाम् ॥
तद्-ऊर्ध्वं च महा-विष्णोर् महा-देव्यास् तद्-ऊर्ध्वगम् ।
कालातिकालयोश् चाथ परमानन्दयोस् ततः ।
पारे पुरी महा-देव्याः कालः सर्व-भयावहः ।
ततः श्री-रत्न-पीयूष-वारिधिर् नित्य-नूतनः ॥
तस्य पारे महा-कालः सर्व-ग्राहक-रूप-धृक् ।
तस्योत्तरे समुद्भासी रत्न-द्वीपः शिवाह्वयः ॥
उद्यच्-चन्द्रोदयः क्षुब्ध-रत्न-पीयूष-वारिधेः ।
मध्ये हेम-मयीं भूमिं स्मरेन् माणिक्य-मण्डिताम् ॥
षोडश-द्वीप-संयुक्तां कला-कौशल-मण्डिताम् ।
वृन्दावन-समूहैश् च मण्डितां परितः शुभैः ॥
तन्-मध्ये नन्दनोद्यानं मदनोन्मादनं महत् ।
अनल्प-कोटि-कल्प-द्रु-वाटीभिः परिवेष्टितम् ॥ इत्य् आदि -
तन्-मध्ये विपुलां ध्यायेद् वेदिकां शत-योजनाम् ।
सहस्रादित्य-सङ्काशाम्... इत्य् आदि -
तस्यान्तरे महा-पीठं महा-चक्र-समन्वितम् ।
तन्-मध्ये मण्डपं ध्यायेद् व्याप्त-ब्रह्माण्ड-मण्डलम् ॥ इत्य् आदि ।

ध्यायेत् तत्र महा-देवीं स्वयम् एव तथा-विधः ।
रक्त-पद्म-निभां देवीं बालार्क-किरणोपमाम् ॥ इत्य् आदि ।
पीत-वस्त्र-परिधानां वंश-युक्त-कराम्बुजाम् ।
कौस्तुभोद्दीप्त-हृदयां वनमाला-विभूषिताम् ॥
श्रीमत्-कृष्णाङ्क-पर्यङ्क-निलयां परमेश्वरीम् ॥ इत्य् आदि ।
इति ध्यात्वा तथा भूत्वा तस्या एव प्रसादतः ।
तद्-आज्ञया परानन्दम् एत्यानन्द-कलावृतम् ॥
तद्-आकर्णय देवेशि कथयामि दवानघे ।
एतद्-अन्तर् महेशानि श्वेतद्वीपम् अनुत्तमम् ॥
क्षीराम्भोनिधि-मध्यस्थं निरन्तर-सुर-द्रुमम् ।
उद्यद्-अर्धेन्दु-किरण-दूरीकृत-तमो-भरम् ॥
काल-मेघ-समालोक-नृत्यद्-बर्हि-कदम्बरम् ।
कूजत्-कोकिल-सङ्घेन वाचालित-जगत्-त्रयम् ॥
नाना-कुसुम-सौगन्ध्य-वाहि-गन्धवहान्वितम् ।
कल्प-वल्ली-निकुञ्जेषु गुञ्जद्-भृङ्ग-गणान्वितम् ॥
रम्यावास-सहस्रेण विराजित-नभस्-तलम् ।
रम्य-नारी-सहस्रौघैर् गायद्भिः समलङ्कृतम् ॥
गोवर्धनेन महता रम्यावास-विनोदिना ।
शोभितं शुभ-चिह्नेन मान-दण्डेन चापरम् ॥
अवाची-प्राच्य्-उदीच्य्-आशाः क्रमायत-विवृद्धया ।
व्याप्ता यमुनया देव्या नील-मेघाम्बु-शोभया ॥
तन्-मध्ये स्फटिक-मयं भवनं महद् अद्भुतम् । इत्य् आदि ।
तत्-तद्-अन्तर्-महा-कल्प-मन्दारादि-द्रुमैर् वृतम् ।
तत्-तन्-मध्ये समुद्भासि-वृन्दावन-कुलाकुलम् ॥ इत्य् आदि ।
कुत्रचिद् रत्न-भवनं कुत्रचित् स्फटिकालयम् ॥ इत्यादि ।
गो-गोपैर् असङ्ख्यातैः सर्वतः समलङ्कृतम् ।
विपापं विलयं रम्यं सदा षड्-ऊर्मि-विवर्जितम् ॥ इत्य् आदि ।
तस्य मध्ये मणिमयं मण्डपं तोरणान्वितम् ।
तन्-मध्ये गरुडोद्वाहि-महा-मणि-मयासनम् ॥ इत्य् आदि ।
कल्प-वृक्ष-समुद्भासि-रत्न-भूधर-मस्तके ।
ध्यायेत् तत्र परमानन्दं रम्योपास्यं परं महः ॥
स्मरेद् वृन्दावने रम्ये मोहयन्तम् अनारतम् ।
वल्लवी-वल्लभं कृष्णं गोप-कन्याः सहस्रशः ॥ इत्य् आदि ।
फुल्लेन्दीवर-कान्तिम् इन्दु-वदनम् [प्व् 46] इत्य् आदि च । एतद् अनन्तरं
नित्यानित्य-लोक-विवेके देव्या पृष्टे श्री-शिव आह -
ब्रह्मादीनां च सर्वेषां भवनानां च पार्वति ।
विनाशोऽस्तीह सर्वेषां विना तद्-भवनं तयोः ॥
इति पूर्वोक्तयोः श्री-भगवन्-महादेव्योर् इत्य् अर्थः ॥ [वृ. अद्दितिओन् एन्द्स्
हेरे.]
[पगे 49]
तस्माद् या यथा भुवि वर्तन्ते इति न्यायाच् च स्वतन्त्र एव द्वारका-मथुरा-
गोकुलात्मकः श्री-कृष्ण-लोकः स्वयं भगवतो विहारास्पदत्वेन भवति
सर्वोपरीति सिद्धम् । अतएव वृन्दावनं गोकुलम् एव सर्वोपरि-विराजमानं
गोलोकत्वेन प्रसिद्धम् । ब्रह्म-संहितायां -- ईश्वरः परमः कृष्णः इत्य्
उपक्रम्य --
सहस्र-पत्र-कमलं गोकुलाख्यं महत् पदम् ।
तत्-कर्णिकारं तद्-धाम तद्-अनन्तांश-सम्भवम् ॥
कर्णिकारं महद् यन्त्रं षट्-कोणं वज्र-कीलकम्
षड्-अङ्ग-षट्-पदी-स्थानं प्रकृत्या पुरुषेण च ॥
प्रेमानन्द-महानन्द-रसेनावस्थितं हि यत्
ज्योती-रूपेण मनुना काम-बीजेन सङ्गतम् ॥
तत्-किञ्जल्कं तद्-अंशानां तत्-पत्राणि श्रियाम् अपि ॥
चतुर्-अस्रं तत्-परितः श्वेतद्वीपाख्यम् अद्भुतम्
चतुर्-अस्रं चतुर्-मूर्तेश् चतुर्-धाम चतुष्-कृतम् ॥
चतुर्भिः पुरुषार्थैश् च चतुर्भिर् हेतुभिर् वृतम्
शूलैर् दशभिर् आनद्धम् ऊर्ध्वाधो दिग्-विदिक्ष्व् अपि ॥
अष्टभिर् निधिभिर् जुष्टम् अष्टभिः सिद्धिभिस् तथा
मनु-रूपैश् च दशभिर् दिक्-पालैः परितो वृतम् ॥
श्यामैर् गौरैश् च रक्तैश् च शुक्लैश् च पार्षदर्षभैः
शोभितं शक्तिभिस् ताभिर् अद्भुताभिः समन्ततः ॥ इति ।
(पगे 50)
तथाग्रे ब्रह्म-स्तवे --
चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-
लक्षावृतेषु सुरभिर् अभिपालयन्तम् ।
लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ।
व्याख्याम् आह - सहस्राणि पत्राणि यत्र तत् कमलं चिन्तामणि-मयं
पद्मं तद्-रूपम् । तच् च महत् सर्वोत्कृष्टं पदं महतो महाभगवतो
वा पदं श्री-महा-वैकुण्ठम् इत्य् अर्थः । तत् तु नाना-प्रकारम् इत्य्
आशङ्क्य प्रकार-विशेषत्वेण निश्चिनोति गोकुलाख्यम् इति । गोकुलम् इत्य् आख्या
प्रसिद्धिर् यस्य तत् गो-गोपाल-सरूपम् इत्य् अर्थः । रूढिर् योगम् अपहरति इति
न्यायेन तस्यैव प्रतीतेः । तत एतद् अनुगुणत्वेनैवोत्तर-ग्रन्थोऽपि
व्याख्येयः । तस्य श्री-कृष्णस्य धाम नन्द-यशोदादिभिः सह वास-
योग्यं महान्तःपुरम् । तस्य स्वरूपम् आह तद् इति । अनन्तस्य श्री-
बलदेवस्यांशात् । सम्भवो नित्याविर्भावो यस्य तत् । तथा तन्त्रेणैतद् अपि
बोध्यते । अनन्तोऽंशो यस्य तस्य श्री-बलदेवस्यापि सम्भवो निवासो यत्र तद्
इति ।
सर्व-मन्त्र-गण-सेवितस्य श्रीमद्-अष्टादशाक्षर-महा-मन्त्र-राजस्य
बहु-पीठस्य मुख्यं पीठम् इत्य् आह कर्णिकारम् इति द्वयेन । महद्
यन्त्रम् इति । यत् प्रतिकृतिर् एव सर्वत्र यन्त्रत्वेन पूजार्थं लिख्यते इत्य्
अर्थः । यन्त्रत्वम् एव दर्शयति । षट्कोणा अभ्यन्तरे यस्य तद् वज्र-
कीलकं कर्णिकारे (बीज-रूप-)हीरक-कीलक-शोभितम् । षट्-कोणत्वे
प्रयोजनम् आह । षट् अङ्गानि यस्याः सा या षट्-पदी श्रीमद्-अष्टादशाक्षरी
तस्याः स्थानं प्रकृतिर् मन्त्रस्य स्वरूपं स्वयम् एव श्री-कृष्णः कारण-
स्वरूपत्वात् । पुरुषश् च स एव तद्-देवता-रूपः । ताभ्याम् अवस्थितम्
अधिष्ठितम् । द्वयोर् अपि विशेषणं प्रेमेति । प्रेम-रूपा ये आनन्द-
महानन्द-रसास् तत्-परिपाक-भेदास् तद्-आत्मकेन, तथा ज्योती-रूपेण स्व-
प्रकाशेन मनुना मन्त्र-रूपेण च काम-बीजेन अवस्थितम् इति मूल-
मन्त्रान्तर्गतत्वेऽपि पृथग्-उक्तिः कुत्रचिद् वैशिष्ट्यापेक्षया ।
तद् एवं तद्-धामोक्त्वा तद्-आवरणान्य् आह तद् इति । तस्य कर्णिकारस्य
किञ्जल्कास् तल्-लग्नाभ्यन्तर-वलय इत्य् अर्थः । तद्-अंशानां तस्मिन्न् अंशो
दायो विद्यते येषां तेषां सजातीयानां धामेत्य् अर्थः । गोकुलाख्यम् इत्य्
उक्तेर् एव । तेषां तज्-जातीयत्वं श्री-शुकदेवेन च उक्तम् --
एवं ककुद्मिनं हत्वा स्तूयमानः द्विजातिभिः ।
विवेश गोष्ठं स-बलो गोपीनां नयनोत्सवः ॥ [भ्प् 10.36.15] इति ।
तस्य कमलस्य पत्राणि श्रियां तत्-प्रेयसीनां श्री-राधादीनाम् उपवन-
रूपाणि धामानीत्य्-अर्थः । अत्र पत्राणाम् उच्छ्रित-प्रान्तानां मूल-
सन्धिषु वर्त्मानि अग्रिम-सन्धिषुगोष्ठानि ज्ञेयानि । अखण्ड-कमलस्य
गोकुलाख्यत्वात् तथैव समावेशाच् च ।
अथ गोकुलावरणान्य् आह चतुरस्रम् इति । तद् बहिश् चतुरस्रं तस्य गोकुलस्य
बहिः सर्वतश् चतुरस्रं चतुष्कोणात्मकं स्थलं श्वेतद्वीपाख्यम् इति तद्-
अंशे गोकुलम् इति नाम-विशेषाभावात् । किन्तु चतुरस्राभ्यन्तर-मण्डलं
वृन्दावनाख्यं बहिर्-मण्डलं केवलं श्वेतद्वीपाख्यं ज्ञेयं, गोलोक इति
यत्-पर्यायः । तद् इह क्रोडीकृत-गोकुलं वृन्दावनाख्ययातिप्रसिद्धम् इति
न निर्दिष्टम् । क्रोडीकृत-तत्-सर्वम् अस्य तु बहिर्-मण्डलं गोलोक-
श्वेतद्वीपाख्यं ज्ञेयम् ।
[वृ. रेअद्स् इन् थे प्लचे ओf थे लस्त् त्wओ सेन्तेन्चेस्: तद् एतद् उपलक्षणं

गोकोकाख्यं चेत्य् अर्थः । यद्यॡ गोकुलेऽपि श्वेतद्वीपत्वम् अस्त्य् एव, तद्
अवान्तर-भूमि-मयत्वात् तथापि विशेष-नाम्नाम्नातत्वात् एनैव तत्
प्रतीयते इति तथोक्तम् । किन्तु चतुरस्रेऽप्य् अन्तर्-मण्डलं श्री-
वृन्दावनाख्यं ज्ञेयं बृहद्-वामन-स्वायम्भुवागमयोस् तथा
दृष्टत्वात् । एन्द् वृ.]
चतुर्-मूर्तेश् चतुर्व्यूहस्य श्री-वासुदेवादि-चतुष्टयस्य चतुष्कृतं चतुर्धा
विभक्तं चतुर् धाम । किन्तु देव-लीलत्वात् तद्-उपरि व्योम-यान-स्था एव
ते ज्ञेया । हेतुभिः पुरुषार्थ-साधनैर् मनु-रूपैः स्व-स्व-मन्त्रात्मकैर्
इन्द्रादिभिः । श्यामैर् इत्य् आदिभिर् इति चतुर्भिर् वेदैर् इत्य् अर्थः । कृष्णं च
तत्र छन्दोभिः स्तूयमानम् सुविस्मिताः [भ्प् 10.28.18] इति श्री-दशमोक्तेः ।
शक्तिभिर् इति श्री-विमलादिभिर् इत्य् अर्थः । इयं च बृहद्-वामन-पुराण-
प्रसिद्धिः । यथा श्री-भगवति श्रुति-प्रार्थना-पूर्वकाणि पद्यानि -
आनन्द-रूपम् इति यद् विदन्ति हि पुराविदः ।
तद्-रूपं दर्श्यास्माकं यदि देयो वरो हि नः ॥
श्रुत्वैतद् दर्शयामास स्व-लोकं प्रकृतेः परम् ।
केवलानुभवानन्द-मात्रम् अक्षरम् अव्ययम् ॥
यत्र वृन्दावनं नाम वनं काम-दुघैर् द्रुमैः ।
मनोरम-निकुञ्जाढ्यं सर्वर्तु-सुख-संयुतम् ॥
यत्र गोवर्धनो नाम सुनिर्झर-दरी-युतः ।
रत्न-धातु-मयः श्रीमान् सुपक्षि-गण-सङ्कुलः ॥
यत्र निर्मल-पानीया कालिन्दी सरिता वरा ।
रत्न-बद्धोभय-तटा हंस-पद्मादि-सङ्कुला ॥
शश्वद्-रास-रसोन्मत्तं यत्र गोपी-कदम्बकम् ।
तत्-कदम्बक-मध्यस्थः किशोराकृतिर् अच्युतः ॥ इति ।
एतद्-अनुसारेण श्री-हरि-वंश-वचनम् अप्य् एव व्याख्येयम् । तद् यद् आह
शक्रः -
स्वर्गाद् ऊर्ध्वं ब्रह्म-लोको ब्रह्मर्षि-गण-सेवितः ।
तत्र सोम-गतिश् चैव ज्योतिषां च महात्मनाम् ॥
तस्योपरि गवां लोकः साध्यास् तं पालयन्ति हि ।
स हि सर्व-गतः कृष्ण महाकाश-गतो महान् ॥
उपर्य् उपरि तत्रापि गतिस् तव तपोमयी ।
यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ।
गतिः शम-दमाढ्यानां स्वर्गः सुकृत-कर्मणाम् ॥
ब्राह्म्ये तपसि युक्तानां ब्रह्म-लोकः परा गतिः ।
गवाम् एव तु यो लोको दुरारोहो हि सा गतिः ॥
स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना ।
धृतो धृतिमता वीर निघ्नतोपद्रवान् गवाम् ॥ [ह्व् 2.19.29-35] इति ।
अस्यार्थः । स्वर्ग-शब्देन -
भूर्-लोकः कल्पितः पद्भ्यां भुवर्-लोको ऽस्य नाभितः ।
स्वर्-लोकः कल्पितो मूर्ध्ना इति वा लोक-कल्पना ॥ [भ्प् 2.5.42]
इति द्वितीयोक्तानुसारेण स्वर्-लोकम् आरभ्य सत्य-लोक-पर्यन्तं लोक-
पञ्चकम् उच्यते । तस्माद् ऊर्ध्वम् उपरि ब्रह्म-लोको ब्रह्मात्मको
वैकुण्ठाख्यः सच्-चिद्-आनन्द-रूपत्वात् । ब्रह्मणो भगवतो लोक इति वा
ददृशुर् ब्रह्म-लोकं ते यत्राक्रूरोऽध्यगात् पुरा [भ्प् 10.28.17] इति दशमात् ।
एवं द्वितीये मूर्धभिः सत्य-लोकस् तु ब्रह्म-लोकः सनातनः [भ्प् 2.5.38]
इति । टीका च -ब्रह्म-लोको वैकुण्ठाख्यः । सनातनो नित्यः । न
सृज्यान्तर्वर्तीत्य् अर्थः । इत्य् एषा ।
ब्रह्माणि मूर्तिमन्तो वेदाः । ऋषयश् च श्री-नारदादयः । गणाश् च श्री-
गरुड-विष्वक्सेनादयः । तैर् निषेवितः । एवं नित्याश्रितान् उक्त्वा तद्-
गमनाधिकारिण आह । तत्र ब्रह्म-लोके उमया सह वर्तत इति सोमः श्री-
शिवस् तस्य गतिः ।
[वृ. इन्सेर्त्स्:
स्व-धर्म-निष्ठः शत-जन्मभिः पुमान्
विरिञ्चताम् एति ततः परं हि माम् ।
अव्याकृतं भागवतो ऽथ वैष्णवं
पदं यथाहं विबुधाः कलात्यये ॥ [भ्प् 4.24.29] इति चतुर्थे श्री-रुद्र-
गीतम् ।
[एन्द् वृ. अद्दितिओन्.]
सोमेति सुपां सुलुग् इत्य् आदिना (पगे 52) षष्ठ्या लुक् छान्दसः । तत
उत्तरत्रापि गति-पदान्वयः । ज्योतिर् ब्रह्म तद्-ऐकात्म्य-भावानां
मुक्तानाम् इत्य् अर्थः । न तु तादृशानाम् अपि सर्वेषाम् इत्य् आह महात्मनां
महाशयानां मोक्ष-निरादरतया भजतां श्री-सनकादि-तुल्यानाम् इत्य्
अर्थः --
मुक्तानाम् अपि सिद्धानां नारायण-परायणः
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महा-मुने ॥ [भ्प् 6.14.5] इत्य् आदौ,
योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता 6.47]
इत्य् आदाव् अपि तेष्व् एव महत्त्व-पर्यवसनात् । तस्य च ब्रह्म-लोकस्योपरि
सर्वोर्ध्व-प्रदेशे गवां लोकः श्री-गोलोक इत्य् अर्थः । तं च श्री-गोलोकं
साध्या अस्माकं प्रापञ्चिक-देवानां प्रसादनीया मूल-रूपा नित्य-तदीय-
देव-गणाः पालयन्ति । तत्र तत्र दिक्-पालत्वेनावरण-रूपा वर्तन्ते, ते ह
नाकं महिमानः सचन्तः यत्र पूर्वे साध्याः सन्ति देवाः [र्क् 10.90.16] इति
श्रुतेः ।
तत्र पूर्वे ये च साध्या
विश्वे देवाः सनातनाः ।
ते ह नाकं महिमानः
सचन्ते शुभ-दर्शनाः ॥ [पद्मप् 6.227.76] इति पाद्मोत्तर-खण्डाच् च ।
यद् वा तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां यद् गोकुलेऽपि [भ्प्
10.14.34] इत्य् आद्य्-उक्त्यानुसारेण तद्-विध-परम-भक्तानाम् अपि साध्यास्
तादृश-सिद्धि-प्राप्तये प्रासादनीयाः श्री-गोप-गोपी-प्रभृतयः । तं
पालयन्ति अधिकृत्य भुञ्जन्ति । हि प्रसिद्धौ । स गोलोकः सर्व-गतः श्री-
कृष्णवत् सर्व-प्रापञ्चिकाप्रापञ्चिक-वस्तु-व्यापकः । अतएव महान्
भगवद्-रूप एव । महान्तं विभुम् आत्मानम् [कठु 2.22] इति श्रुतेः ।
तत्र हेतुः । महाकाशः परम-व्योमाख्यः ब्रह्म-विशेषण-लाभाद्
आकाशस् तल्-लिङ्गाद् [व्स् 1.1.22] इति न्याय-प्रसिद्धेश् च । तद्-गतः ।
ब्रह्माकारोदयान्तरम् एव वैकुण्ठ-प्राप्तेः । यथा श्री-गोपानां
वैकुण्ठ-दर्शने तैर् एव व्याख्यातम् । यथा वा श्रीमद्-अजामिलस्य
वैकुण्ठ-गमनम् । यद् वा महाकाशः परम-व्योमाख्यो महा-
वैकुण्ठस् तद्-गतस् तद्-ऊर्ध्व-भाग-स्थितः । एवम् उपर्य् उपरि सर्वोपर्य्
अपि विराजमाने तत्र श्री-गोलोकेऽपि तव गतिः । नाना-रूपेण वैकुण्ठादौ
क्रीडतस् तव तत्रापि श्री-गोविन्द-रूपेण क्रीडा विद्यत इत्य् अर्थः ।
अतएव सा च गतिः साधारणी न भवति किन्तु तपोमयी
अनवच्छिन्नैश्वर्यमयी परमं यो महत् तपः इत्य् अत्र सहर-नाम-
भाष्येऽपि तपः-शब्देन तथैव व्याख्यातम् । अतएव ब्रह्मादि-
दुर्वितर्क्यत्वम् अप्य् आह याम् इति । अधुना तस्य श्री-गोलोकेत्य् आख्या बीजम्
अभिव्यञ्जयति गतिर् इति । ब्राह्मे ब्रह्मणो लोक-प्रापके तपसि विष्णु-
विषयक-मनः-प्रणिधाने युक्तानां रत-चित्तानां प्रेम-भक्तानाम् इत्य्
अर्थः । ब्रह्म-लोको वैकुण्ठ-लोकः । परा प्रकृत्यतीता । गवां मोचयन्
व्रज-गवां दिन-तापम् [भ्प् 10.35.25] इत्य्-उक्तानुसारेण अत्रैव
निघ्नतोपद्रवान् गवाम् इत्य् उक्त्या च गोलोक-वासि-मात्राणां स्वतस् तद्-
भाव-भावितानां च साधन-वशेनेत्य् अर्थः । अतएव तद्-
भावस्यासुलभत्वाद् दुरारोहा ।
तद् एवं गोलोकं वर्णयित्वा तस्य गोकुलेन सहाभेदम् आह स त्व् इति । स एव
तु स लोको धृतो रक्षितः । श्री-गोवर्धनोद्धरणेनेति । यथा मृत्यु-सञ्जय-
तन्त्रे ।
एकदा सान्तरीक्षाच् च वैकुण्ठं स्वेच्छया भुवि ।

गोकुलत्वेन संस्थाप्य (पगे 53) गोपीमय-महोत्सवा ।
भक्ति-रूपां सतां भक्तिम् उत्पादितवती भृशम् ॥ इति ।
अत्र शब्द-साम्य-भ्रम-प्रतीतार्थान्तरे स्वर्गाद् ऊर्ध्वं, ब्रह्म-लोक इत्य्
अयुक्तं लोक-त्रयम् अतिक्रम्योक्तेः । तथा सोमगतिर् इत्य् आदिकं न
सम्भवति । यतो ध्रुव-लोकाद् अधस्ताद् एव चन्द्र-सूर्यादीनां गतिर्
महर्लोकेऽपि न वर्तते । तथावर-साध्य-गणानां तुच्छत्वात् सत्य-
लोकस्यापि पालनं न युज्यते कुतस् तद्-उपरि-लोकस्य श्री-गोलोकाख्यस्य ।
तथा सर्वगतत्वं चासम्भाव्यं स्यात् । अतएव तत्रापि एव गतिर् इत्य् आपि शब्दो
विस्मये प्रयुक्तः । यां न विद्म इत्य् आदिकं च । अन्यथा यथोक्तिर् न
सम्भवति स्वेषां ब्रह्मणश् च तद्-अज्ञान-ज्ञापनात् । तस्मात् प्राकृत-
गोलोकाद् अन्य एवासौ सनातनो गोलोको ब्रह्म-संहितावत् श्री-हरिवंशेऽपि
परोक्ष-वादेन निरूपितः ।
एवं च नारद-पञ्चरात्रे विजयाख्याने -
तत् सर्वोपरि गोलोके श्री-गोविन्दः सदा स्वयम् ।
विहरेत् परमानन्दी गोपी-गोकुल-नायकः ॥ इति ।
एवं चोक्तं मोक्ष-धर्मे नारायणीये तथा स्कान्दे च -
एवं बहु-विधै रूपैश् चरामीह वसुन्धराम् ।
ब्रह्म-लोकं च कौन्तेय गोलोकं च सनातनम् ॥ [म्भ् 12.330.68] इति ।
तद् एवं सर्वोपरि श्री-कृष्ण-लोकोऽस्तीति सिद्धम् । स च लोकस् तत्-तल्-लीला-
परिकर-भेदेनांश-भेदात् द्वारका-मथुरा-गोकुलाख्य-स्थान-
त्रयात्मक इति निर्णीतम् । अन्यत्र तु भुवि प्रसिद्धान्य् एव तत्-तद्-आख्यानि
स्थानानि तद्-रूपत्वेन श्रूयन्ते तेषाम् अपि वैकुण्ठान्तरवत्
प्रपञ्चातीतत्व-नित्यत्वालौकिक-रूपत्व-भगवन्-नित्यास्पदत्व-कथनात् ।
तत्र द्वारकायास् तत्तरं स्कान्द-प्रह्लाद-संहितादाव् अन्वेष्टव्यम् । इयं च
श्रुतिर् उदाहरणीया -
अन्तः-समुद्रे मनसा चरन्तं
ब्राह्मान्वविन्दन् दशहोतारम् अर्णे ।
समुद्रेऽन्तः कवयो विचक्षते
मरीचीनां पदम् अन्विच्छन्ति वेधसः ॥ इत्य् आद्या ।
श्री-मथुरायाः प्रपञ्चातीतत्वं यथा वाराहे अन्यैव काचित् सा सृष्टिर्
विधातुर् व्यतिरेकिणी इति । नित्यत्वम् अपि यथा पाद्मे पाताल-खण्डे - ऋषिर्
माथुर-नामात्र तपः कुर्वति शाश्वते इति । अत्र मथुरा-मण्डले शाश्वते
नित्ये कुर्वति करोति ।
अलौकिक-रूपत्वं यथा आदिवाराहे -
भूर् भुवः स्वस् तलेनापि न पाताल-तलेऽमलम् ।
नोर्ध्व-लोके मया दृष्टं तादृक् क्षेत्रं वसुन्धरे ॥ इति ।
श्री-भगवन्-नित्यास्पदत्वं यथा -
अहोऽतिधन्या मथुरा यत्र सन्निहितो हरिः ॥ इति ।
न च वक्तव्यम् उपासना-स्थानम् एवेदम्, यतो आदिवाराहे -
मथुरायाः परं क्षेत्रं त्रैलोक्ये न हि विद्यते ।
तस्यां वसाम्य् अहं देवि मथुरायां तु सर्वदा ॥ इति ।
तत्र वासस्यैव कण्ठोक्तिः । अत्रेदृशं श्री-वराह-देव-वाक्यम् अंशांशिनोर्
ऐक्य-विवक्षयैव न तु तस्यैवासौ निवासः श्री-कृष्ण-क्षेत्रत्वेनैव
प्रसिद्धेः । तथैव पाताल-खण्डे अहो मधु-पुरी धन्या यत्र तिष्ठति
कंसहा इति ।
वायु-पुराणे तु स्वयं साक्षाद् एवेत्य् उक्तम् -
चत्वारिंशद् योजनानां ततस् तु मथुरा स्मृता ।
यत्र देवो हरिः साक्षात् स्वयं तिष्ठति कंसहा ॥ इति ।
अत्र साक्षाच्-छब्देन सूक्ष्म-रूपता । स्वयं-शब्देन श्रीमत्-प्रतिमा-
रूपता च निषिद्धा । तत इति पूर्वोक्तात् पुष्कराख्य-तीर्थात् इत्य् अर्थः ।
मथुरायाः परं क्षेत्रम् इत्य् अनेन वराह-वचनेन पूर्याम् एव तिष्ठतीति
निरस्तम् ।
[पगे 54]
अत्र श्री-गोपाल-तापनी-श्रुतिश् च -- स होवाच तं हि नारायणो देवः सकाम्या
मेरोः शृङ्गे यथा सप्त-पूर्यो भवन्ति तथा निष्काम्याः सकाम्याश् च
भूगोल-चक्रे सप्त-पूर्यो भवन्ति । तासां मध्ये साक्षाद् ब्रह्म गोपाल-
पुरी हीति ॥ सकाम्या निष्काम्या देवानां सर्वेषां भूतानां भवति यथा
हि वै सरसि पद्मं तिष्ठति तथा भूम्यां तिष्ठतीति चक्रेण रक्षिता हि
मथुरा तस्मात् गोपाल-पुरी भवति । बृहद् बृहद्-वनं मधोर् मधु-
वनम् [ग्तु 2.26-28] इत्य् आदिका ।
पुनश् च एतैर् आवृता पुरी भवति तत्र तेष्व् एव गहनेष्व् एवम् इत्य् आदिका ।
तथा -- द्वे वने स्तः कृष्ण-वनं भद्र-वनं तयोर् अन्तर् द्वादश-वनानि
पुण्यानि पुण्यतमानि तेष्व् एव देवास् तिष्ठन्ति सिद्धाः सिद्धिं प्राप्ताः ।
तत्र हि रामस्य राम-मूर्तिः [ग्तु 2.31-32] इत्य् आदिका । तद् अप्य् एते श्लोका
भवन्ति ।
प्राप्य मथुरां पुरीं रम्यां सदा ब्रह्मादि-सेवितम् ।
शङ्ख-चक्र-गदा-शार्ङ्ग-रक्षितां मुषलादिभिः ॥
यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः ।
रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [ग्तु 2.35-36] इति ।
किं तस्य स्थानम् इति श्री-गान्धर्व्याः प्रश्नस्योत्तरम् इदम् । एवम् एव श्री-
रघुनाथस्याप्य् अयोध्यायां श्रूयते, यथा स्कान्दायोध्या-माहात्म्ये
स्वर्ग-द्वारम् उद्दिश्य -
चतुर्धा च तनुं कृत्वा देवदेवो हरिः स्वयम् ।
अत्रैव रमते नित्यं भ्रातृभिः सह राघवः ॥ इति ।
अतएव, यत्र यत्र हरेः स्थानं वैकुण्ठं तद् विदुर् बुधा इत्य् अनुसारेण
महा-भगवतः स्थानत्वात् महा-वैकुण्ठ एवासौ । यतो वैकुण्ठात् तस्य
गरीयस्त्वं श्रूयते । यथा पाताल-खण्डे -
एवं सप्त-पुरीणां तु सर्वोत्कृष्टं च माथुरम् ।
श्रूयतां महिमा देवि वैकुण्ठो भुवनोत्तमः ॥ इति ।
अतएव तत्रैव -
अहो मधुपुरी धन्या वैकुण्ठाच् च गरीयसी । इति ।
[ब् रेअद्स् हेरे] आदि-वाराहे -
मथुरायां ये वसन्ति विष्णु-रूपा हि ते खलु ।
अज्ञानास् तान् न पश्यन्ति पश्यन्ति ज्ञान-चक्षुषा ॥ इति । [एन्द् वृ.]
अथ श्री-वृन्दावनस्य प्रपञ्चातीतत्वादिकं मथुरा-मण्डलस्यैव तत्त्वेन
सिद्धम् । यथा च श्री-गोविन्द-वृन्दावनाख्य-बृहद्-गौतमीये तन्त्रे
नारद-प्रश्नस्योत्तरं श्री-कृष्णस्योत्तरम् । तत्र प्रश्नः -
किम् इदं द्वादशाभिख्यं वृन्दारण्यं विशाम्पते ।
श्रोतुम् इच्छामि भगवन् यदि योगोऽस्मि मे वद ॥
अथोत्तरम् --
इदं वृन्दावनं रम्यं मम धामैव केवलम् ।
अत्र ये पशवः पक्षि-वृक्षा कीटा नरामराः ।
ये वसन्ति ममाधिष्ण्ये मृता यान्ति ममालयम् ॥
अत्र या गोप-कन्याश् च निवसन्ति ममालये ।
योगिन्यस् ता मया नित्यं मम सेवा-परायणाः ॥
पञ्च-योजनम् एवास्ति वनं मे देह-रूपकम् ।
कालिन्दीयं सुषुम्नाख्या परमामृत-वाहिनी ॥
अत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः ।
सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥
आविर्भावस् तिरोभावो भवेन् मे ऽत्र युगे युगे ।
तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा ॥ इति
विशेषतस् तादृग्-अलौकिक-रूपत्व-भगवन्-नित्य-धामत्वे तु दिव्य-
कदम्बाशोकादि-वृक्षादयोऽप्य् अद्यापि महा-भागवतैः साक्षात् क्रियन्ते इति
प्रसिद्धावगतेः । यथा वाराहे कालीय-ह्रद-माहात्म्ये -
अत्रापि महद् आश्चर्यं पश्यन्ति पण्डिता नराः ।
कालीय-ह्रद-पूर्वेण कदम्बो महितो द्रुमः ।
शत-शाखं विशालाक्षि पुण्यं सुरभि-गन्धि च ।
स च द्वादश-मासानि मनोज्ञः शुभ-शीतलः ।
पुष्पायति विशालाक्षि प्रभासन्तो दिशो दश ॥ इति ।

शतानां शाखानां समाहारः शत-शाखं तद् यत्र प्रवर्तत् इत्य् अर्थः ।
प्रभासन्तः प्रभासयन्न् इत्य् अर्थः । तत्रैव तदीय-ब्रह्म-कुण्ड-
माहात्म्ये
तत्राश्चर्यं प्रवक्ष्यामि तच् छृणु त्वं वसुन्धरे ।
लभन्ते मनुजाः सिद्धिं मम कर्म-परायणाः ॥
तस्य तत्रोत्तरे पार्श्वेऽशोक-वृक्षः सित-प्रभः ।
वैशाखस्य तु मासस्य शुक्ल-पक्षस्य द्वादशी ॥
स पुष्पति च मध्याङ्गे मम भक्त-सुखावहः ।
न कश्चिद् अपि जानाति विना भागवतं शुचिम् ॥ इत्य् आदि ।
द्वादशीति द्वादश्याम् इत्य् अर्थः । सुपां सुलुग् इत्य् आदिनैव पूर्व-सवर्णः ।
शुचित्वम् अत्र तद्-अनन्य-वृत्तित्वम् । अनेन पृथिव्यापि तस्य तस्य तादृश-रूपं
न ज्ञायते इत्य् आयातम् । अतएव तदीय-तीर्थान्तरम् उद्दिश्य यथा चादिवाराहे
कृष्ण-क्रीडा-सेतु-बन्धं महा-पातक-नाशनम् ।
वलभीं तत्र क्रीडार्थं कृत्वा देवो गदाधरः ॥
गोपकैः सहितस् तत्र क्षणम् एकं दिने दिने ।
तत्रैवे रमणार्थं हि नित्य-कालं स गच्छति ॥ इति ।
एवं स्कान्दे -
ततो वृन्दावनं पुण्यं वृन्दा-देवी-समाश्रितम् ।
हरिणाधिष्ठितं तच् च ब्रह्म-रुद्रादि-सेवितम् ॥ इति ।
श्रुतिश् च दर्शिता -
गोविन्दं सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भूरुह-तलासीनं सततं
स-मरुद्-गणोऽहं परितोषयामि । [ग्तु 1.37] इति ।
एवं पाताल-खण्डे यमुना-जल-कल्लोले सदा क्रीडति माधवः । इति ।
यमुनाया जल-कल्लोला यत्र एवंभूते वृन्दावने इति प्रकरणाल् लब्धम् ।
तत्राजहल्-लक्षणया तीर-ह्रदाव् एव गृह्येते । तीरं च वृन्दावन-लक्षणं
तत्र प्रस्तुतम् । अतएवास्य श्री-वृन्दावनस्य वैकुण्ठत्वम् एव कण्ठोक्त्या
कृष्ण-तापन्यां श्रुतौ दर्शितं गोकुलं वन-वैकुण्ठम् [कृष्णोपनिषत् 7]
इति । तस्मान् नित्य-धामत्व-श्रवणात् श्री-मथुरादीनां तत्-स्वरूप-
विभूतित्वम् एव स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि [छाउ 1.24.1]
इति श्रुतेः ।
अतएव तापनी-श्रुतिः - साक्षाद् ब्रह्म गोपाल-पुरी हि [ग्तु 2.26] इति । बृहद्-
गौतमीय-तन्त्रे च - तेजोमयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा इति ।
तद्-ईदृश-रूपता काशीम् उद्दिश्य ब्रह्म-वैवर्ते त्व् इत्थं समाधीयते ।
यथा श्री-विष्णुं प्रति मुनीनां प्रश्नः --
छत्राकारं तु किं ज्योतिर् जलाद् ऊर्ध्वं प्रकाशते ।
निमग्नायां धरायां तु न वै मज्जति तत् कथम् ॥
किम् एतच् छाश्वतं ब्रह्म वेदान्त-शत-रूपितम् ।
ताप-त्रयार्ति-दग्धानां जीवनं छत्रतां गतम् ॥
दर्शनाद् एव चास्याथ कृतार्थाः स्मो जगद्-गुरो ।
वारं वारं तवाप्य् अत्र दृष्टिर् लग्ना जनार्दन ॥
परमाश्चर्य-रूपोऽपि साश्चर्य इव पश्यसि ॥
अथ श्री-विष्णूत्तरम् -
छत्राकारं परं ज्योतिर् दृश्यते गगनेचरम् ।
तत्-परं परमं ज्योतिः काशीति प्रथितं क्षितौ ॥
रत्नं सुवर्णे खचितं यथा भवेत्
तथा पृथिव्यां खचिता हि काशिका ।
न काशिका भूमि-मयी कदाचित्
ततो न मज्जेन् मम सद्गतिर् यतः ॥
जडेषु सर्वेष्व् अपि मज्जमानेष्व्
इयं चिद्-आनन्द-मयी न मज्जेत् ॥ इत्य् आदि ।
[पगे 56]
तथाग्रे च -
चेतना-जडयोर् ऐक्यं यद्वन् नैकस्थयोर् अपि ।
तथा काशी ब्रह्म-रूपा जडा पृथ्वी च सङ्गता ॥
निर्माणं तु जडस्यात्र क्रियते न परात्मनः ।
उद्धरिष्यामि च महीं वाराहं रूपम् आस्थितः ॥
तदा पुनः पृथिव्यां हि काशी स्थास्यामि मत्-प्रिया ॥ इति ।
चेतना-शब्देनात्रान्तर्यामी उपलक्ष्यते । जड-शब्देन तु देहः
परमात्मन इत्य् उक्तत्वात् । ततश् च केचित् स्वदेहान्तर्-हृदयावकाशे प्रादेश-
मात्रं पुरुषं वसन्तम् [भ्प् 2.2.8] इत्य् आदिना चतुर्भुजत्वेन
वर्णितोऽन्तर्यामी देहे स्थितोऽपि यथा देह-वेदनादिना न स्पृश्यते तद्वद् इति
ज्ञेयम् ।
तद् एवं तद्-धाम्नाम् उपर्य्-अधः प्रकाश-मात्रत्वेनोभय-विधत्वं
प्रसक्तम् । वस्तुतस् तु श्री-भगवन्-नित्याधिष्ठानत्वेन तच्-छ्री-
विग्रहवद् उभयत्र प्रकाशाविरोधात् समान-गुण-नाम-
रूपत्वेनाम्नातत्वाल् लाघवाच् चैक-विधत्वम् एव मन्तव्यम् । एकस्यैव
श्री-विग्रहस्य बहुत्र प्रकाशश् च द्वितीय-सन्दर्भे दर्शितः ।
चित्रं बतैतद् एकेन वपुषा युगपत् पृथक्
गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ [भ्प् 10.69.1] इत्य् आदिना ।
एवंविधत्वं च तस्याचिन्त्य-शक्ति-स्वीकारेण सम्भावितम् एव । स्वीकृतं
चाचिन्त्य-शक्तित्वम् श्रुतेस् तु शब्द-मूलत्वात् [व्स् 2.1.27] इत्य् आदौ । तद् एवम्
उभयाभेदाभिप्रायेणैव श्री-हरि-वंशेऽपि गोलोकम् उद्दिश्य स हि सर्व-
गतो महान् [ह्व् 2.19.30] इत्य् उक्तम् । भेदे तु ब्रह्म-संहितायाम् अपि गोलोक
एव निवसत्य् अखिलात्म-भूतः [ब्रह्मस् 5.48] इत्य् एव-कारोऽत्र स्वकीय-नित्य-
विहार-प्रतिपादक-वाराहादि-वचनैर् विरुध्येत । अविरोधस् तूभयेषाम्
ऐक्येनैव भवतीति तं न्याय-सिद्धम् एवार्थं ब्रह्म-संहिता तु गृह्णाति ।
अतएव श्री-हरि-वंशेऽपि शक्रेण -
स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना ।
धृतो धृतिमता वीर निघ्नतोपद्रवान् गवाम् ॥ [ह्व् 2.19.35] इति ।
गोलोक-गोकुलयोर् अभेदेनैवोक्तम् । तस्माद् अभेदेन च भेदेन
चोपक्रान्तत्वाद् एक-विधान्य् एव श्री-मथुरादीनि प्रकाश-भेदेनैव
तूभय-विधत्वेनाम्नातानीति स्थितम् । दर्शयिष्यते चाग्रे । क्षौणि-
प्रकाशमान एव श्री-वृन्दावने श्री-गोलोक-दर्शनम् ।
ततोऽस्यैवापरिच्छिन्नस्य गोलोकाख्य-वृन्दावनीय-प्रकाश-विशेषस्य
वैकुण्ठोपर्य् अपि स्थितिर् माहात्म्यावलम्बनेन भजतां स्फुरतीति
ज्ञेयम् । अयम् एव मथुरा-द्वारका-गोकुल-प्रकाश-विशेषात्मकः श्री-
कृष्ण-लोकस् तद्-विरहिणा श्रीमद्-उद्धवेनापि समाधाव् अनुभूत इत्य् आह -
शनकैर् भगवल्-लोकान् नृ-लोकं पुनर् आगतः ।
विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् ॥ [भ्प् 3.2.6]
स्पष्टम् ॥ 3.2 ॥ श्री-शुकः

5.107

[107]
इमम् एव लोकं द्यु-शब्देनाप्य् आह -
विष्णोर् भगवतो भानुः कृष्णाख्यो ऽसौ दिवं गतः ।
तदाविशत् कलिर् लोकं पापे यद् रमते जनः ॥
यावत् स पाद-पद्माभ्यां स्पृशन् आस्ते रमा-पतिः ।
तावत् कलिर् वै पृथिवीं पराक्रन्तुं न चाशकत् ॥ [भ्प् 12.2.29-30]
यदा गुणावतारस्य भगवतो विष्णोस् तद्-अंशत्वाद् रश्मि-स्थानीयस्य
कृष्णाख्यो भानुः सूर्य-मण्डल-स्थानीयो दिवं प्रापञ्चिक-लोकागोचरं
मथुरादीनाम् एव प्रकाश-विशेष-रूपं वैकुण्ठ-लोकं गतस् तदा कलिर्
लोकम् आविशत् । एषां स च प्रकाशः पृथिवीस्थोऽप्य् अन्तर्धान-शक्त्या ताम्
अपृशन्न् एव विराजते । अतस् तया न स्पृश्यते पृथिव्य्-आदि-भूतमयैर् अस्माभिर्
वाराहोक्त-महा-कदम्बादिर् इव । यस् तु प्रापञ्चिक-लोक-गोचरो मथुरादि-
प्रकाशः सोऽयं कृपया पृथिवीं स्पृशन्न् एवावतीर्णः । अतस् तया च स्पृश्यते
तादृशैर् अस्माभिर् दृश्यमान-कदम्बादिर् इव । अस्मिंश् च (पगे 57) प्रकाशे
यदावतीर्णो भगवांस् तदा तत्-स्पर्शेनापि तत्-स्पर्शात् तां स्पृशन्न् एवास्ते
स्म । सम्प्रति तद्-अस्पृष्ट-प्रकाशे विरहमाणः पुनर् अस्पृशन्न् एव
भवति । [वृ. अद्द्स्. यद्यप्य् एवं तथापि क्वचिद् द्वयोर् भेदेन क्वचिद्
अभेदेन च विवक्षा तत्रावगन्तव्या । एन्द् वृ.] तद् एतद् अभिप्रेत्याह यावद्
इति । पराक्रन्तुम् इत्य् अनेन तत्-पूर्वम् अपि कंचित् कालं प्राप्य प्रविष्टोऽसाव्
इति ज्ञापितम् ॥
॥ 12.2 ॥ श्री-शुकः

5.108

[108]
तेने धीरा अपि यन्ति ब्रह्म-विद उत्क्रम्य स्वर्ग-लोकम् इतो विमुक्ताः [बौ
4.4.8] इति श्रुत्य्-अनुसारेण स्वर्ग-शब्देनाप्य् आह - यातु-धान्य् अपि सा स्वर्गम्
आप जननी-गतिम् [भ्प् 10.6.38] इति ।
अत्र जननी-गतिम् इति विशेषणेन लोकान्तरं निरस्तम् । तत्-प्रकरण एव
तदादीनां बहुशो गत्य्-अन्तर-निषेधात् । सद्-वेषाद् इव पूतनापि सकुला
त्वाम् एव देवापिता [भ्प् 10.14.35] इत्य् अत्र साक्षात् तत्-प्राप्ति-निर्धारणाच् च ।
तथा च केनोपनिषदि दृश्यते - केनेषितं मनः पतति प्राणस्य प्राणम् उत
चक्षुषश् चक्षुर् अतिमुच्य धीराः प्रेत्यास्माल् लोकाद् अमृता भवन्ति [केनौ
1.1-2] इत्य् उपक्रम्य, तद् एव ब्रह्म त्वं विद्धि [केनौ 1.4] इति मध्ये
प्रोच्य, अमृतत्वं हि विदन्ते [केनौ 2.4], सत्यम् आयतनं [केनौ 4.8] यो वा
एताम् एवम् उपनिषदं वेदापहत्य पाप्मानम् अनन्ते स्वर्गे लोके
प्रतिष्ठति [केनौ 4.9] इति उपसंहृतम् । ततः को वासुदेवः किं तद् वनं को
वा स्वर्गः किं तद् ब्रह्म इत्य् अपेक्षायाम् पुरुषो ह वै नारायणः इत्य्
उपक्रम्य, पुनश् चाभ्यासेन नित्यो देव एको नारायणः इत्य् उक्त्वा
नारायणोपासकस्य च स्तुतिं कृत्वा तद् ब्रह्म नारायण एवेति व्यज्य स्वर्गं
प्रतिपादयितुं वैकुण्ठं वन-लोकं गमिष्यति तद् इदं पुरम् इदं
पुण्डरीकं विज्ञान-घनं तस्मात् तद् इहावभासम् इति वन-लोकाकारस्य
वैकुण्ठस्यानन्दात्मकत्वं प्रतिपाद्य स च तद्-अधिष्ठाता नारायणः
कृष्ण एवेत्य् उपसंहरति ब्रह्मण्यो देवकी-पुत्रः इति ।
॥ 10.6 ॥ श्री-शुकः

5.109

[109]
काष्ठा-शब्देनापि तम् एवोद्दिशति -
ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्म-वर्मणि ।
स्वां काष्ठाम् अधुनोपेते धर्मः कं शरणं गतः ॥ [भ्प् 1.1.23]
स्वां काष्ठां दिशम् । यत्र स्वयं नित्यं तिष्ठति तत्रैव प्रापञ्चिक-लोक-
सम्बन्धं त्यक्त्वा गते सतीत्यर्थः ।
॥ 1.1 ॥ श्री-शौनकः

5.110

[110]
तद् एवम् अभिप्रेत्य द्वारकायास् तावन् नित्य-श्री-कृष्ण-धामत्वम् आह -
सत्यं भयाद् इव गुणेभ्य उरुक्रमान्तः
शेते समुद्र उपलम्भन-मात्र आत्मा ।
नित्यं कद्-इन्द्रिय-गणैः कृत-विग्रहस् त्वं
त्वत्-सेवकैर् नृप-पदं विधुतं तमो ऽन्धम् ॥ [भ्प् 10.60.35]
अयम् अर्थः । पूर्वं श्री-कृष्ण-देवेन श्री-रुक्मिणी-देव्यै --
राजभ्यो बिभ्यतः सु-भ्रु समुद्रं शरणं गतान् ।
बल-वद्भिः कृत-द्वेषान् प्रायस् त्यक्त-नृपासनान् ॥ [भ्प् 10.60.12]
कस्मान् नो ववृषे इति परिहसितम् । अत्रोत्तरम् आह सत्यम् इति । अत्रात्मा त्वम्
इत्य् एतयोः पदयोर् युगपच् छेतु इति क्रियान्वयायोगात् विशेषण-विशेष्य-
भावः प्रतिहन्येत । वाक्य-च्छेदे तु कष्टतापतेत् । ततश् चोपमानोपमेय-
भावेनैव ते उपतिष्ठतः । इयं च लुप्तोपमा । तथा च आत्मा साक्षी यथा
गुणेभ्यः सत्त्वादि-विकारेभ्यस् तद्-अस्पर्शालिङ्गाद् भयाद् इव समुद्रे
तद्वद् अगाधे विषयाकारैर् अपरिच्छिन्ने उपलम्भन-मात्रे ज्ञान-मात्र-
स्व-शक्त्याकारेऽन्तर्-हृदये नित्यं शेते, अक्षुब्धतया प्रकाशते । हे
उरुक्रम तथा त्वम् अपि तेभ्यः सम्प्रति तद्-विकारमयेभ्यो राजभ्यो
भयाद् इव उपलम्भन-मात्रे वैकुण्ठान्तरवत् चिद्-एक-विलासे अन्तः-
समुद्रे द्वारकाख्ये धाम्नि नित्यम् एव शेषे स्वरूपानन्द-विलासैर् गूढं
विहरसि । अर्थ-वशाद् विभक्ति-विपरिणामः प्रसिद्ध एव । उदाहरिष्यते च
नित्य-स्थायित्वं द्वारकां हरिणा त्यक्ताम् [भ्प् 11.31.23] (पगे 58) इत्य् आदौ
नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः [भ्प् 11.31.24] इति ।
अतो वस्तुतस् तस्य तदाश्रयकस्य जीव-चैतन्यस्य यदि तेभ्यो भयं नास्ति
तदा सुतराम् एव तव नास्ति किन्तूभयत्रापि स्व-धामैक्य-विलासित्वात्
तत्रौदासीन्यम् एव भयत्वेनोत्प्रेक्षत इति भावः । एवं तस्य एव च
समञ्जसता । तेषां तु दौरात्म्यम् एवेत्य् आह । तथाप्य् आत्मा कुत्सितानाम्
इन्द्रियाणां गणैस् तदीय-नाना-वृत्ति-रूपैः कृतो विग्रहो यत्र तथाविधस्
त्वम् अपि कुत्सित इन्द्रिय-गणो येषां तथाभूतैः राजभिः कृत-विग्रहः ।
उभयत्राप्यावरण-धार्ष्ट्यम् । यद्य् एवम्भूतस् त्वं तर्हि का तव
नृपासन-परित्यागे हानिः । तत् तु त्वत्-सेवकैः प्राथमिकत्वद्-
भजनोन्मुखैर् एव विधुतं त्यक्तम् । तच् चोक्तं तयैव यद्-वाञ्छया
नृप-शिखामणयः [भ्प् 10.60.41] इत्य् आदिना । यतोऽन्धं तम एव तत् प्राकृत-
सुख-मयत्वात् । अतः श्री-द्वारकाया नित्यत्वम् अपि ध्वनितम् ।
॥ 10.60 ॥ श्री-रुक्मिणी श्री-भगवन्तम्

5.111

[111]
अथ श्री-मथुरायाः । मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥ [भ्प्
10.1.28] अर्थात् तत्रत्यानाम् ।
॥ 10.1 ॥ श्री-शुकः

5.112

[112]
तत् तात गच्छ भद्रं ते यमुनायास् तटं शुचि ।
पुण्यं मधु-वनं यत्र सान्निध्यं नित्यदा हरेः ॥ [भ्प् 4.8.42]
स्पष्टम् ॥ 4.8 ॥ श्री-नारदो ध्रुवम्

5.113

[113]
तस्य हरेः श्री-कृष्णत्वम् एव व्यनक्ति -
इत्य् उक्तस् तं परिक्रम्य प्रणम्य च नृपार्भकः ।
ययौ मधु-वनं पुण्यं हरेश् चरण-चर्चितम् ॥ [भ्प् 4.8.62]
[वृ. हेरे रेअद्स्: पाद्म-कल्पारम्भ-कथने प्रथम-स्वायम्भुव-
मन्वन्तरे तस्मिन् हरेश् चरण-चर्चितवं श्री-मथुरायास् तन्-नित्यत्वात् श्री-
कृष्णावतारस्य । तथा हरि-शब्देनाप्य् अत्र श्री-कृष्ण एव विवक्षितः श्रुत्य्-
आदौ तद्-अवस्थिति-प्रसिद्धेः । एन्द् अद्दितिओन्.]
प्रतिकल्पम् आविर्भावात् तस्यैव चरणाभ्यां चर्चितम् इति श्री-कृष्णस्यैव
नित्य-सान्निध्यत्वं गम्यते । अतएव द्वादशाक्षर-विद्या-दैवतस्य श्री-
ध्रुवाराध्यस्य त्व् अन्यत एव तत्रागमनम् अभिहितम् इति मधोर् वनं
भृत्य-दिदृक्षया गतः [भ्प् 4.9.1] इत्य् अनेनेति ।
॥ 4.8 ॥ श्री-मैत्रेयः

5.114

[114]
अथ श्री-वृन्दावनस्य -
पुण्या बत व्रज-भुवो यद् अयं नृ-लिङ्ग-
गूढः पुराण-पुरुषो वन-चित्र-माल्यः ।
गाः पालयन् सह-बलः क्वणयंश् च वेणुं
विक्रीडयाञ्चति गिरित्र-रमार्चिताङ्घ्रिः ॥ [भ्प् 10.44.12]
अत्र पूर्वोदाहृत-श्रुत्य्-आद्य्-अवष्टम्भेन तिष्ठन्ति पर्वता इतिवद् अञ्चति
सदैव विहरतीति मथुरा-स्त्रीणां श्री-भगवत्-प्रसादजा यथावद् भारती-
निःसृतिर् इयम् इति व्याख्येयम् । (पगे 59)
॥ 10.44 ॥ पुर-स्त्रियः परस्परम्

5.114

[वृ. रेअद्स् fओर् थिस् सेच्तिओन्:
स च वृन्दावन-गुणैर् वसन्त इव लक्षितः ।
यत्रास्ते भगवान् साक्षाद् रामेण सह केशवः ॥ [भ्प् 10.18.3]
अत्र यत्रासीद् इत्य् अप्रोच्य यत्रास्ते इत्य् उक्त्या नित्य-स्थितित्वम् एव व्यक्तीकृतम् ॥
॥ 10.18 ॥ श्री-शुकः

5.115

एन्द् अल्तेर्नतिवे रेअदिन्ग्.]
[115]
अथवा त्रिष्व् अप्य् एतद् एवोधारणीयम् -
जयति जन-निवासो देवकी-जन्म-वादो
यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् ।
स्थिर-चर-वृजिन-घ्नः सु-स्मित- श्री-मुखेन
व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥ [भ्प् 10.90.48]
यदु-वराः परिषत् सभ्य-रूपा यस्य सः । देवकी-जन्म-वादस् तज्-
जन्मत्वेन लब्ध-ख्यातिः । देवक्यां जन्मेति वादस् तत्त्व-बुभुत्सु-कथा
यस्य स इति वा । श्री-कृष्णो जयति पर्मोत्कर्षेण सदैव विराजते ।
लोहितोष्णीषाः प्रचरन्तीतिवत् यदु-वर-सभ्य-विशिष्टतयैव
जयाभिधानम् । अत्र यदुवर-शब्देन श्री-व्रजेश्वर-तद्-भ्रातरोऽपि
गृह्यन्ते तेषाम् अपि यदु-वंशोत्पन्नत्वेन प्रसिद्धत्वात् । तथा च भारत-
तात्पर्ये श्री-मध्वाचार्यैर् एवं ब्रह्म-वाक्यत्वेन लिखितम् -
तस्मै वरः स मया सन्निसृष्टः
स चास नान्दाख्य उतास्य भार्या ।
नाम्ना यशोदा स च शूर-तात-
सुतस्य वैश्या-प्रभवस्य गोपः ॥ इति ।
शूर-तात-सुतस्य शूर-सपत्नी-मातृजस्य वैश्यायां तृतीय-वर्णायां जातस्य
सकाशात् आस बभूव इत्य् अर्थः । अतएव श्रीमद्-आनकदुन्दुभिना तस्मिन्
भ्रातर् इति मुहुः सम्बोधनम् अक्लिष्टार्थं भवति भ्रातरं नन्दम्
आगतम् [भ्प् 10.5.20] इति श्रीमन्-मुनीन्द्र-वचनं च । तद् एतद् अप्य्
उपलक्षणं तद्-भ्रातॄणाम् ।
[वृ. अद्द्स् हेरे : यथा स्कान्दे मथुरा-खण्डे - रक्षिता यादवाः सर्वे इन्द्र-
वृष्टि-निवारणात् इति । यत्राभिषिक्तो भगवान् मघोना यदु-वैरिणा इति च,
यादवानां हितार्थाय धृतो गिरि-वरो मया इति चान्यत्र । वृ. अद्दितिओन् एन्द्स्.]
यथा च यादव-मध्य-पातितत्वेनैव तेषु निर्धारण-मयं श्री-राम-
वचनं श्री-हरिवंशे यादवेष्व् अपि सर्वेषु भवन्तो मम बान्धवाः [ह्व्
83.15] इति । सप्तम्या ह्य् अस्य जाताव् एव निर्धारणम् उच्यते पुरुषेषु क्षत्रियः
शूर इतिवत् । विजातीयत्वे तु श्रोघ्नेभ्यो मथुरा ह्य् आढ्यतमा इतिवत्
यादवेभ्योऽपि सर्वेभ्यो इत्य् एवोच्यतेति ज्ञेयम् । अत्र जयतीत्य् अत्र लोड्-अर्थत्वं
न सङ्गच्छते सदैवोत्कर्षानन्त्यम् इति तस्मिन्न् आसीर्वादानवकाशात् । तद्-
अवकाशो वा आशीर्वाद-विषयस्य तदानीम् आशीर्वादक-कृतानुवाद-विशेष-
विशिष्टतयैव स्थितेर् अवगमात् प्रतिपिपादयिषितं तादृशत्वेनैव
तात्कालिकत्वम् आगच्छत्य् एव । यथा धार्मिक-सभ्योऽयं राजा वर्धताम्
इति । तद् एवं पतिर् गतिश् चान्धक-वृष्णि-सात्वताम् [भ्प् 2.4.20] इत्य् अत्राप्य्
अनुसन्धेयम् । अनेन यदु-वराणाम् अपि तथैव जयो विवक्षितः ।
नन्व् एवं तथा विहरण-शीलश् चेत् पुनः कथम् इव देवकी-जन्म-
वादोऽभूत् । तत्राह स्वैर् दोर्भिर् दोर्भ्यां चतुर्भिश् चतुर्भुजैर् अधर्मं
तद्-बहुलम् असुर-राज-वृन्दम् अस्यन् निहन्तुम् । तद् अर्थम् एव लोकेऽपि तथा
प्रकटीभूत इत्य् अर्थः ।
किं वा किं कुर्वन् जयति ? स्वैः काल-त्रय-गतैर् अपि [पगे 60] भक्तैर् एव
दोर्भिस् तद्-द्वारा अधर्मं जगद्-गत-पाप्मानम् अस्यन् नाशयन्न् एव । तद्
उक्तम् - मद्-भक्ति-युक्तो भुवनं पुनाति [भ्प् 10.14.24] इति ।
पुनः किम् अर्थं देवकी-जन्म-वादः ? तत्राह -- स्थिर-चर-वृजिन-घ्नः
निजाभिव्यक्त्या निखिल-जीवानां संसार-हन्ता तद्-अर्थम् एवेत्य् अर्थः । तद्
उक्तं यत एतद् विमुच्यते [भ्प् 10.29.16] इति ।
किं वा कथम्भूतो जयति ? व्रज-यदु-पुर-वासिनां स्थावर-जङ्गमानां
निज-चरण-वियोग-दुःख-हन्ता सन् । नित्य-विहारे प्रमाणम् आह जन-
निवासः । जन-शब्दोऽत्र स्वजन-वाचकः । सालोक्येत्य् [भ्प् 3.29.13] आदि-पद्ये
जना इतिवत् । स्वजन-हृदये तत्-तद्-विहारत्वेन सर्व-देवावभासमान इत्य्
अर्थः । सर्व-प्रमाण-चय-चूडामणि-भूतो विद्वद्-अनुभव एवात्र
प्रमाणम् इति भावः ।
स्वयं तु किं कुर्वन् जयति ? व्रज-वनितानां मथुरा-द्वारका-पुर-
वनितानां च काम-लक्षणो यो देवः स्वयम् एव तद्-रूपस् तं वर्धयन्
सदैवोद्दीपयन् । अत्र तदीय-हृदय-स्थ-काम-तद्-अधिदेवयोर् अभेद-
विवक्षा तादृश-तद्-भावस्य तद्वद् एव परमार्थता-बोधनाय श्री-कृष्ण-
स्फूर्ति-मयस्य तादृश-भावस्याप्राकृतत्वात् परमानन्द-पराकाष्ठा-
रूपत्वाच् च । श्री-कृष्णस्य काम-रूपोपासना चागमे व्यक्तास्ति । वनिता
जनितात्यर्थानुरागायां च योषिति इति नाम-लिङ्गानुशासनम् । व्रजेति
श्रैष्ठ्येन पूर्व-निपातः । अतएव पूर्वं मेरु-देव्यां सुदेवीति संज्ञावत्
देवकी-शब्देन श्री-यशोदा च व्याख्येया -
द्वे नाम्नी नन्द-भार्याया यशोदा देवकीति च ।
अतः सख्यम् अभूत् तस्या देवक्या शौरि-जायया ॥ इति पुराणान्तर-वचनम् ।
तद् एवं त्रिष्व् अपि नित्य-विहारित्वं सिद्धम् ।
॥ 10.90 ॥ श्री-शुकः

5.116

[116]
अथ यद् उक्तं श्री-वृन्दावनस्यैव प्रकाश-विशेषे गोलोकत्वं । तत्र
प्रापञ्चिक-लोक-प्रकट-लीलावकाशत्वेनावभासमान-प्रकाशो गोलोक इति
समर्थनीयम् । प्रकट-लीलायां तस्मिंस् तच्-छब्द-प्रयोगादर्शनात्
भेदांश-श्रवणाच् च । प्रकटाप्रकटतया लीला-भेदश् चाग्रे
दर्शयितव्यः । तद् एवं वृन्दावन एव तस्य गोलोकाख्य-प्रकाशस्य
दर्शनेनाभिव्यनक्ति -
नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोक-पाल-महोदयम् ।
कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितो ऽब्रवीत् ॥
ते चौत्सुक्य-धियो राजन् मत्वा गोपास् तम् ईश्वरम् ।
अपि नः स्वगतिं सूक्ष्माम् उपाधास्यद् अधीश्वरम् ॥
इति स्वानां स भगवान् विज्ञायाखिल-दृक् स्वयम् ।
सङ्कल्प-सिद्धये तेषां कृपयैतद् अचिन्तयत् ॥
जनो वै लोक एतस्मिन्न् अविद्या-काम-कर्मभिः ।
उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥
इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः ।
दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥
सत्यं ज्ञानम् अनन्तं यद् ब्रह्म-ज्योतिः सनातनम् ।
यद् धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥
ते तु ब्रह्म-ह्रदं नीता मग्नाः कृष्णेन चोद्धृताः ।
ददृशुर् ब्रह्मणो लोकं यत्राक्रूरो ऽध्यगात् पुरा ॥
नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः ।
कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ [भ्प् 10.28.10-17]
अतीन्द्रियम् अदृष्ट-पूर्वम् । लोक-पालः वरुणः । स्व-गतिं स्व-धाम । (पगे
61) सूक्ष्मां दुर्ज्ञेयाम् । उपाधास्यन् उपधास्यति नोऽस्मान् प्रति
प्रापयिष्यतीति सङ्कल्पितवन्त इत्य् अर्थः । जन इति ।
[वृ. रेअद्स् हेरे:] जन-शब्देन तदीय-स्वजन एवोच्यते । सालोक्य-सार्ष्टि इत्य् आदि
पद्ये जना इतिवत् । अत्रैते मत्-सेवनं विना प्राप्यमाणा सालोक्यादि-
परित्यागेन तत्-सेवैक-वाञ्छा-व्रताः साधका एवेति लभ्यते । न वेद स्वां
गतिं इत्य् अत्र तु श्री-भगवता तस्मिन् लोके स्वीयत्व-तदीयत्वयोर् एकत्वम्
अनेन स्वाभेद एव प्रतिपादित इति परम एवासौ तदीय-स्वजनः । अतएव
तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् ।
गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥ [भ्प् 10.25.18]
इति स्वयम् एव भगवता मत्-परिग्रहम् इत्य् अनेन स्वस्मिंस् तत्-परिकरता-
मच्-छरणम् इत्य् आदि-क्रम-प्राप्त-बहुव्रीहिणा दर्शिता । सोऽयं मे व्रतः
इत्य् अनेन स्वस्य तद्-गोपन-व्रतता च तद् एवं व्रजवासि-जन एव लब्धे तं
प्रत्य् एव करुणया दर्शितवान् । न त्व् अन्यान् स्वां गतिम् इति
सामानाधिकरण्ये एव व्यक्ते । न तु ताभ्यां पदाभ्यां वस्तु-द्वयम्
उच्यते । स्व-गतिं सूक्ष्माम् इति पूर्वोक्तम् अपि तथा । तस्मात् तल्-लोक-
दर्शनम् एवोभयत्र विवक्षितम् । विवक्षिते च तल्-लोके स तु जन-मात्रस्य
स्व-गतिर् न भवतीति च जन-शब्देन तद्-विशेष एव व्याख्यातः । तद् एवं
सत्य् अयम् अर्थः । [वृ. अद्दितिओन् एन्द्स्.]
[जनोऽसौ व्रज-वासी मम स्वजनः ।] एतस्मिन् प्रापञ्चिक-लोके । अविद्यादिभिः
कृता या उच्चावचा गतयो देव-तिर्यग्-आदयः । तासु स्वां गतिं भ्रमन् ताभ्यो
निर्विशेषतया जानन् ताम् एव स्वां गतिं न वेदेत्य् अर्थः ।
[थे वृ. एदितिओन् अद्द्स् हेरे: ततो माम् अपि सर्वोत्तमतया प्रेम-भक्त्या
सर्वोत्तमतया द्रष्टुर् एतस्य यद्यपि तत्-तल्-लीला-रस-पोषाय मदीय-लीला-
शक्त्यैव भ्रमादिकं कल्पितम् । न पुनर् अविद्यादिभिः ।
इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा ।
कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥ [भ्प् 10.11.58] इति ।
यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [भ्प् 10.14.25] इत्य्
आदि । तथाप्य् एतस्येच्छानुसारेण क्षण-कतिपयम् एतदीयाम् । [एन्द् वृ. एद्.]
ततोऽयं भ्रमो यद्यपि तत्-तल्-लीला-पोषायैव मदीय-लीला-शक्त्या कल्पितस्
तथापि तद्-इच्छानुसारेण क्षण-कतिपयं तदीयां सर्व-विलक्षणां स्वां
गतिं दर्शयन् तम् अपनेष्यामीति भावः । वैलक्षण्यं चाग्रे व्यञ्जनीयम् ।
गोपानां स्वं लोकं श्री-गोलोकं । यः खलु [वृ. एदितिओन् ओन्ल्य्:] गोपी-गोपैर्
असङ्ख्यातैः सर्वतः समलङ्कृतम् इति मृत्यु-सञ्जय-तन्त्रे वर्णितः । तथा
पद्माकृति-पुरोद्वारि लक्ष-मण्डल-नायिकाः ।
रामादयस् तु गोपालाश् चतुर्-दिक्षु महेश्वराः ॥
इति नारद-पञ्चरात्रे विजयाख्याने वर्णितः । [एन्द् वृ. अद्दितिओन्] चिन्तामणि-
प्रकर-सद्मसु इत्य् आदिभिर् बहु-वर्णित-व्यक्त-वैभवातिक्रान्त-प्रपञ्च-
लोक-महोदयस् तम् ।
तमसः प्रकृतेः परं प्रपञ्चानभिव्यक्तत्वेन तदीयेनाप्य् असङ्करम् ।
अतएव सच्चिदानन्द-रूप एवासौ लोक इत्य् आह सत्यम् इति । सत्यादि-रूपं यद्
ब्रह्म यच् च गुणात्यये पश्यन्ति तद् एव स्वरूप-शक्ति-वृत्ति-विशेष-
प्राकट्येन सत्यादि-रूपाव्यभिचारिणं गोलोकं सन्तं दर्शयामासेति
पूर्वेनान्वयः । यथान्यत्रापि वैकुण्ठे भगवत्-सन्दर्भोदाहृतं
पाद्मादि-वचनं ब्रह्माभिन्नता-वाचित्वेन दर्शितं तद्वत् ।
अथ श्री-वृन्दावने च तादृश-दर्शनं कतम-देश-स्थितानां तेषां जातम्
इत्य् अपेक्षायाम् आह ब्रह्म-ह्रदम् अक्रूर-तीर्थं कृष्णेन नीताः पुनश् च
तद्-आज्ञयैव मग्नाः, पुनश् च तस्मात् तीर्थात् श्री-कृष्णेनैवोद्धृताः ।
उद्धृत्य वृन्दावन-मध्य-देशम् आनीतास् तस्मिन्न् एव नराकृति-पर-
ब्रह्मणः श्री-कृष्णस्य लोकं गोलोकाख्यं ददृशुः ।
[व् एदितिओन् अद्द्स्:] कोऽसौ ब्रह्म-ह्रदः ? तत्राह यत्रेति । पुरेत्य् एतत्-
प्रसङ्गाद् भावि-काल इत्य् अर्थः । पुरा पुराणे निकटे प्रबन्धातीत-
भाविषु इति कोष-काराः । [एन्द् व्. अद्दितिओन्]
यत्र च ब्रह्म-ह्रदेऽध्यगाद् (पगे 62) अस्तौत अधिगतवान् इति वा ।
सर्वत्रैव श्री-वृन्दावने यद्यपि तत्-प्रकाश-विशेषोऽसौ गोलोकः दर्शयितुं
शक्यः स्यात् तथापि तत्-तीर्थ-माहात्म्य-ज्ञापनार्थम् एव वा विनोदार्थम्
एव वा तस्मिन् मज्जनम् इति ज्ञेयम् ।
[थे वृ. एदितिओन् हेरे रेअद्स्: नन्दादय इति कर्त्र्-अन्तरा-निर्देशाच् छन्दोभिर्
एव मूर्तैः कर्तृभिः । तद्-अभिज्ञापनार्थं तज्-जन्मादि-लीलया
स्तूयमानम् । अन्तरङ्गाः परिकरास् तु पूर्व-दर्शित-रीत्या गो-गोपादय एव ।
अतएव कृष्णं यथा ददृशुस् तथा तत्-परिकरान्तराणां दर्शनानुक्तेस् तत्र
क एव तत्र परिकरा इत्य् अभिव्यज्यते । त एव च पूर्व-दर्शित-मृत्यु-
सञ्जयादि-तन्त्र-हरि-वंशादि-वचनानुसारेण प्रकटाप्रकट-प्रकाश-
गततया द्विधा-भूताः सम्प्रत्य् अप्रकट-प्रकाश-प्रवेशे सत्य् एक-रूपा
एव जाता इति पृथग्-दृष्टाः ।
यदा तत्-प्रकाश-भेदो भवति, तदा तत्-तल्-लीला-रस-पोषाय तेषु प्रकाशेषु
तत्-तल्-लीला-शक्तिर् एवाभिमान-भेदं परस्परम् अनुसन्धानं च प्रायः
सम्पादयतीति गम्यते । उदाहरिष्यते चाग्रे । अतएवोक्तं न वेद स्वां गतिं
भ्रमन् इति । तथा च सतीदानीं श्री-व्रज-वासिनां कथञ्चिज् जातया
तादृशेच्छया तेभ्यस् तेषाम् एव तादृश-लोक-प्रकाश-विशेषादिकं दर्शितम्
इति गम्यते । न च प्रकाशान्तर-सम्भावनीयम् । परमेश्वरत्वेन तच् च
श्री-विग्रह-परिकर-धाम-लीलादीनां युगपद् एकत्राप्य् अनन्त-विध-

वैभव-प्रकाश-शीलत्वात् । एन्द् ओf वृ. अद्दितिओन्.]
अत्र स्वां गतिम् इति तदीयता-निर्देशो गोपानां स्वं लोकम् इति षष्ठी-स्व-
शब्दयोर् निर्देशः । कृष्णम् इति साक्षात् तन्-निर्देशश् च वैकुण्ठान्तरं
व्यवच्छिद्य श्री-गोलोकम् एव प्रतिपादयति । अतएव तेषां तद्-दर्शनात्
परमानन्द-निर्वृतत्वं सुविस्मितत्वम् अपि युक्तम् उक्तम् । तस्यैव
पूर्णत्वात् । तथापि तेषां पुत्रादि-रूपेणैवोदयाच् च ।[*एन्द्नोते #3] तथा
तत्र कृष्णं यथा ददृशुस् तथा तत्-परिकराणाम् अन्येषां दर्शनानुक्तेस् त
एक एव तत्र परिकरा इत्य् अभिव्यज्यते । ततश् च लीला-द्वये कृष्णवत् तेषाम्
एव प्रकाश-भेदः । यदा च प्रकाश-भेदो भवति तदा तत्-तल्-लीला-रस-
पोषाय तेषु प्रकाशेषु तत्-तल्-लीला-शक्तिर् एवाभिमान-भेदं परस्परम्
अननुसन्धानं च प्रायः सम्पादयतीति गम्यते । उदाहरिष्यते चाग्रे ।
अतएवोक्तं न वेद स्वां गतिं भ्रमन् इति । तथा च सतीदानीं श्री-व्रज-
वासिनां कथञ्चिज् जातया तादृशेच्छया तेभ्यस् तेषाम् एव तादृशं प्रकाश-
विशेषादिकं दर्शितम् इति गम्यते । न च प्रकाशान्तरम् असम्भावनीयम् ।
परमेश्वरत्वेन तत् श्री-विग्रह-परिकर-धाम-लीलादीनां युगपद्
एकत्राप्य् अनन्त-विध-वैभव-प्रकाश-शीलत्वात् । तद् एवम् उक्तोऽर्थः
समञ्जस एव ।
॥ 10.28 ॥ श्री-शुकः

5.119

[117]
एवं द्वारकादीनां तस्य नित्य-धामत्वं सिद्धम् । अथ तत्र के तावद् अस्य
परिकराः । उच्यते - पूर्योर् यादवादयो वने श्री-गोपादयश् चेति । श्री-
कृष्णस्य द्वारकादि-नित्य-धामत्वेन तेषां स्वतः-सिद्धेः । तद्-रूपत्वे
परिकरान्तराणाम् अयुक्तत्वाद् अश्रवणत्वाच् च । तत्-
परिकरत्वेनैवाराधनादि-वाक्यानि दर्शितानि दर्शयितव्यानि च । अतएवोक्तं
पाद्मे कार्तिक-माहात्म्ये श्री-कृष्ण-सत्यभामा-संवादे -
एते हि यादवाः सर्वे मद्-गणा एव भामिनि ।
सर्वदा मत्-प्रिया देव मत्-तुल्य-गुण-शालिनः ॥ [पद्मप्
6.89.22[*एन्द्नोते #4]]
एव-कारान् न देवादयः । श्री-हरि-वंशेऽप्य् अनिरुद्धान्वेषणे तादृशत्वम्
एवोक्तम् अक्रूरेण - देवानां च हितार्थाय वयं याता मनुष्यताम् [ह्व्
2.121.57][*एन्द्नोते #5] इति । श्री-मथुरायां त्व् अवतारावसरेणाभिव्यक्ता
अपि निगूढतया केचित् तस्याम् एव वर्तमानाः श्रूयन्ते । यथा श्री-
गोपालोत्तर-तापन्याम् -
यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः ।
रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [ग्तु 2.36] इति ।
श्री-वृन्दावने (पगे 63) तैः सदा विहाराश् च । यथा पाद्म-पाताल-खण्डे
श्री-यमुनाम् उद्दिश्य -
अहो अभाग्यं लोकस्य न पीतं यमुना-जलम् ।
गो-वृन्द-गोपिका-सङ्गे यत्र क्रीडति कंस-हा ॥ इति ।
स्कान्दे च -
वत्सैर् वत्सतरीभिश् च सदा क्रीडति माधवः ।
वृन्दावनान्तर-गतः स-रामो बालकैर् वृतः ॥ इति ।
न तु प्रकट-लीला-गतेभ्य एते भिन्नाः, एते हि यादवाः सर्वे इत्य् अनुसारात् ।
तथा हि पाद्म-निर्माण-खण्डे च श्री-भगवद्-वाक्यम् -
नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा ।
यमुनां गोप-कन्याश् च तथा गोपाल-बालकान् ॥
ममावतारो नित्योऽयम् अत्र मा संशयं कृथाः ॥ इति ।
अतस् तान् एवोद्दिश्य श्रुतौ च तत्र ऋक्षु -
तां वां वास्तून्य् उश्मसि गमध्यै
यत्र गावो भूरि-शृङ्गा अयासः ।
अत्राह तद् उरुगायस्य वृष्णः
परमं पदम् अवभाति भूरि ॥ इति ।
व्याख्यातं च - तां तानि वां युवयोः कृष्ण-रामयोर् वास्तूनि लीला-स्थानानि
गमध्यै गन्तुं प्राप्तुं उश्मसि कामयामहे । तानि किं-विशिष्टानि ? यत्र
येषु भूरि-शृङ्गा महा-शृङ्ग्यो गावो वसन्ति । यथोपनिषदि भूम-वाक्ये
धर्मि-परेण भूम-शब्देन महिष्ठम् एवोच्यते न तु बहुतरम् इति ।
यूथ-दृष्ट्यैव वा भूरि-शृङ्गा बहु-शृङ्ग्यो बहु-शुभ-लक्षणा इति वा ।
अयासः शुभाः । अत्र भूमौ तल्-लोक-वेद-प्रसिद्धं श्री-गोलोकाख्यं
उरुगायस्य स्वयं भगवतो वृष्णः सर्व-काम-दुघ-चरणारविन्दस्य
परमं प्रपञ्चातीतं पदं स्थानं भूरि बहुधा अवभातीत्य् आह वेद
इति ।
यजुःसु -- माध्यन्दिनीयास् तु या ते धामन्य् उश्मसि इत्य् आदौ । [याति
धामन्य् उश्मसि इति वा पाठः]
पाद्मोत्तर-खण्डे तु यत् त्व् इयं श्रुतिः परम-व्योम-प्रस्ताव उदाहृता तत्
परम-व्योम-गोलोकयोर् एकतापत्त्य्-अपेक्षयेति मन्तव्यम् । गो-शब्दस्य
सास्नादि-मत्य् एव प्रचुर-प्रयोगेण झटित्य् अर्थ-प्रतीतेः । श्री-गोलोकस्य
ब्रह्म-संहिता-हरिवंश-मोक्षधर्मादिषु प्रसिद्धत्वाच् च । अथर्वणि च
श्री-गोपाल-तापन्यां - जन्म-जराभ्यां भिन्नः स्थाणुर् अयम् अच्छेद्योऽयं
योऽसौ सौर्ये तिष्ठति योऽसौ गोषु तिष्ठति योऽसौ गाः पालयति । योऽसौ गोपेषु
तिष्ठति [ग्तु 2.22] इत्य् आदि ।
तद् एवम् उभयेषाम् अपि नित्य-पार्षदत्वे सिद्धे यत् तु शस्त्राघात-क्षत-
विष-पान-मूर्च्छा-तत्त्व-बुभुत्सा-संसार-सार-निस्तारोपदेशास्पदत्वादिकं
श्रूयते, तद् भगवत इव नर-लीलौपायिकतया प्रपञ्चितम् इति मन्तव्यम् ।
यथा तवेयं विषमा बुद्धिर् [भ्प् 10.54.42] इत्य् आदिकं साक्षात् श्री-रुक्मिणीं
प्रति श्री-बलदेव-वाक्ये । यच् च श्रीमद्-उद्धवम् उद्दिश्य - स कथं
सेवया तस्य कालेन जरसं गतः [भ्प् 3.2.3] इत्य् उक्तम् । तद् अपि चिर-काल-सेवा-
तात्पर्यकम् एव । तत्र प्रवयसोऽप्य् आसन् युवानोऽ तिबलौजसः [भ्प् 10.45.19]
इति विरोधात् ।
क्वचिच् च प्रकट-लीलायाः प्रापञ्चिक-लोक-मिश्रत्वात् यथार्थम् एव तद्-
आदिकम् । यथा शतधन्व-वधादौ । अन्तरङ्गानां भगवत्-साधारण्यं
तु यादवान् उद्दिश्योक्तम् - मत्-तुल्य-गुण-शालिनः इति । गोपान् उद्दिश्य च
गोपैः समान-गुण-शील-वयो-विलास-वेश्यैश् च इति । पाद्म-निर्माण-खण्डे
- गोपाला मुनयः सर्वे वैकुण्ठानन्द-मूर्तयः इति । यतो यो वैकुण्ठः
श्री-भगवान् स इवानन्द-मूर्तयस् ते ततस् तत्-परम-भक्तत्वाद् एव
मुनय इत्य् उच्यते । न तु मुन्य्-अवतारत्वाद् इति ज्ञेयम् । नैते सुरेशा ऋषयो
न वैते इत्य् आदिकं श्री-बलदेव-वाक्यं च भगवद्-आविर्भाव-लक्षण-
गोपादीनां केयं वा कुत आयाता दैवी वा नार्य् उतासुरी [भ्प् 10.13.37] इत्य् आदि-
प्राप्तम् अन्यत्वम् एव निषेधति, न तु पूर्वेषां च तद् विदधाति कल्पना-
गौरवाद् इति ज्ञेयम् । [ब् अद्दितिओन्: इत्थं सतां ब्रह्म-सुखानुभूत्या इत्य्
आदेः तद् भूरि-भाग्यम् इत्य् आदेश् च । एन्द् वृ.]
युक्तं चैषां तत्-सादृश्यं --
तस्यात्म-तन्त्रस्य हरेर् अधीशितुः (पगे 64)
परस्य मायाधिपतेर् महात्मनः ।
प्रायेण दूता इह वै मनोहराश्
चरन्ति तद्-रूप-गुण-स्वभावाः ॥ [भ्प् 6.3.18] इति श्री-यम-
वाक्यानुगतत्वात् ।
दृष्टं च प्रथमे - प्राविशत् पुरम् [भ्प् 1.11.11] इत्य् आरभ्य मधु-भोज-
दशार्हार्ह-कुकुरान्धक-वृष्णिभिः आत्म-तुल्य-बलैर् गुप्ताम् [भ्प् 1.11.12]
इत्य् आदि । अतएव -
गोप-जाति-प्रतिच्छन्ना देवा गोपाल-रूपिणम् ।
ईडिरे कृष्णं रामं च नटा इव नटं नृपः ॥ [भ्प् 10.18.11]
इत्य् अत्र साम्यम् एव सूचितम् । अर्थश् च देवाः श्री-कृष्णावरणे मद्-भक्त-
पूजाभ्यधिका इति न्यायेन तद्वद् एवोपास्या अपि श्रीदामादयो गोप-जात्या
प्रतिच्छन्ना अन्य-गोप-सामान्य-भावेन प्रायस् तादृशाव् अपि तौ तद्-रूपिणौ
तथा तेऽपीत्य् अर्थः (?) । अत्र देवा इत्य् अनेन गुण-साम्यं चाभिप्रेतम् इति ।
[118]
तत्र यादवादीनां तत्-पार्षदत्वं योजयति -
अहं यूयम् असाव् आर्य इमे च द्वारकौकसः ।
सर्वे ऽप्य् एवं यदु-श्रेष्ठ विमृग्याः स-चराचरम् ॥ [भ्प् 10.85.23]
यूयं श्रीमद्-आनकदुन्दुभ्य्-आदयो विमृग्याः परमार्थ-रूपत्वाद्
अन्वेषणीयाः । तथान्यद् अपि द्वारकौको जङ्गम-स्थावर-सहितं यत् किञ्चित्
तद्-अन्वेष्यम् । अहं श्री-कृष्ण इति दृष्टान्तत्वेनोपन्यस्तम् । ततश् च
नराकार-ब्रह्मणि स्वस्मिन्न् इव तन् नित्य-परिकरे सर्वत्रैव परम-
पुरुषार्थत्वम् इति भावः । तस्माद् यथा पूर्वं सत्त्वं रजस् तमः इत्य्
आदिना सत्त्वादि-गुणानां तद्-वृत्तीनां च ब्रह्मणि त्रैकालिक-स्पर्श-
सम्भवान् माययैव तद्-अध्यासो भवता वर्णितस् तथा दृष्टिर् अत्र तु
नकार्येति तात्पर्यम् । लौकिकाध्यात्म-गोष्ठीत्य् एवम् एवेत्य् आह द्वयेन -
आत्मा ह्य् एकः स्वयं-ज्योतिर् नित्यो ऽन्यो निर्गुणो गुणैः ।
आत्म-सृष्टैस् तत्-कृतेषु भूतेषु बहुधेयते ॥ [भ्प् 10.85.24]
अत्रानुगतार्थान्तरं च दृश्यते । द्वारकायाम् इति प्रकरणेन लभ्यते । हि

यस्माद् एक एवात्मा भगवत्त्वम् आत्म-सृष्टैः स्वरूपाद् एवोल्लसितैर् गुणैः
स्वरूप-शक्ति-वृत्ति-विशेषैः कर्तृभिस् तत्-कृतेषु तस्मिन् स्वरूपे एव
प्रादुर्भावितेषु भूतेषु परमार्थ-सत्येषु द्वारकान्तर्वर्ति-वस्तुषु
बहुधा तत्-तद्-रूपेण ईयते प्रकाशते । सहस्र-नाम-भाष्ये लोकनाथं
महद्-भूतम् इत्य् अत्र च भूतं परमार्थ-सत्यम् इति व्याख्यातम् । तथा
तथा च प्रकाशः स्वरूप-गुणापरित्यागेनैवेत्य् आह स्वयं ज्योतिः स्व-
प्रकाश एव सन्, नित्य एव सन्, अन्यः प्रपञ्चेऽभिव्यक्तोऽपि तद्-विलक्षण एव
सन्, निर्गुणः प्राकृत-गुण-रहित एव च सन्न् इति ।
[119]
अत्र चार्थान्तरं यथा तर्हि कथं भवत आत्यन्तिकं समम् एवात्र सर्वम्
इत्य् आशङ्क्य तथापि मय्य् अस्ति वैशिष्ट्यम् इत्य् आह -
खं वायुर् ज्योतिर् आपो भूस् तत्-कृतेषु यथाशयम् ।
आविस्-तिरो-ऽल्प-भूर्य् एको नानात्वं यात्य् असाव् अपि ॥ [भ्प् 10.85.25]
सत्-कार्य-वादाभ्युपगमात् तस्य कारणानन्यत्वाभ्युपगमाच् च । यथा
खादीनि भूतानि तत्-कृतेषु तत्-स्वरूपेणैव विकासितेषु वाय्व्-आदि-घटान्तेषु
यथाशयं वाय्व्-आद्य्-आविर्भावाद्य्-अनुरूपम् एवाविर्भावादिकं यान्ति न तु
तेष्व् अधिकम् । अत्र यावान् वायुर् गृह्यते तावान् एव तत्राकाश-धर्मः
शब्दोऽपि गृह्यते । यावज् ज्योतिस् तावान् एव वायु-धर्मः स्पर्शोऽपीत्य् आदिकं
ज्ञेयम् । तथा स्वरूपेणैव विकासितेषु द्वारका-वस्तुषु असौ भगवद्-आख्य
आत्मापि । तस्माद् अहं तु तत्-सर्व-मयः सर्वस्मात् पृथक् परिपूर्णश् चेत्य्
अस्ति वैशिष्ट्यम् इति भावः । अनेन दृष्टान्तेन (पगे 65) मत्त एवोल्लसिता
मद्-धर्मा एव ते भवितुम् अर्हन्ति न त्व् आकाशे धूसरत्वादिवन् मयि
केवल-मध्य-स्था इति च ज्ञापितम् । अत्र यथा तथेति व्याख्यानम् अपि
शब्देन द्योत्यते ।
॥ 10.85 ॥ श्री-भगवान् श्री-वसुदेवम्

5.120

[120]
अतएवाह -
तद्-दर्शन-स्पर्शनानुपथ-प्रजल्प-
शय्यासनाशन-सयौन-सपिण्ड-बन्धः ।
येषां गृहे निरय-वर्त्मनि वर्ततां वः
स्वर्गापवर्ग-विरमः स्वयम् आस विष्णुः ॥ [भ्प् 10.82.20]
येषां वो युष्माकं वृष्णीनां गृहे विष्णुः श्री-कृष्णाख्यो भगवान् स्वयम्
आत्मना स्वभावत एव आस निवासं चक्रे न त्व् अन्येन हेतुनेत्य् अर्थः ।
कथम्भूतेऽनिरय-वर्त्मनि निरयः संसारस् तद्-वर्त्म प्रपञ्चः
ततोऽन्यस्मिन्, प्रपञ्चातीत इत्य् अर्थः । कीदृशानां वस् तस्मिन्न् एव
वर्तमानानाम् । स्वयं कथम्भूतः स्वर्गापवर्ग-विरमः
स्वर्गस्यापवर्गस्य च विरमो येन । यो निज-भक्तेभ्यस् तद्-
बहिर्मुखताकरं स्वर्गं न ददाति तद्-भक्त्य्-उदासीनं केवलं मोक्षं
च न ददाति किन्तु तान् स्व-चरणारविन्द-तल एव रक्षतीत्य् अर्थः । येषां
युष्माकं तु गृहे स एवम्भूत एवासेत्य् आह तद्-दर्शनेति । तस्य युष्मत्-
कर्तृकं दर्शनं च अनुपथोऽनुगतिश् च प्रजल्पो गोष्ठी च, तथा युष्मत्-
संवलिता शय्या शयनं च आसनं च अशनं भोजनं च तैर् विशिष्टैश् चासौ
स-यौन-स-पिण्ड-बन्धश् चेति शाक-पार्थिवादिवन् मध्य-पद-लोपी कर्म-
धारयः । तत्र वृष्णिभिः सह यौन-बन्धो विवाह-सम्बन्धः, स-पिण्ड-
बन्धो दैहिक-सम्बन्धस् ताभ्यां सह वर्तमानोऽसाव् इति बहुव्रीहि-
गर्भता ।
॥ 10.82 ॥ राजानं श्रीमद्-उग्रसेनम्

5.121

[121]
किं च -
सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् ।
यत्रायुतानाम् अयुत- लक्षेणास्ते सदाहुकः ॥ [भ्प् 10.90.42]
आहुकः उग्रसेनः । यत्रास्त इति वर्तमान-प्रयोगेण तत्रापि सदेति नित्यता-
वाचकाव्ययेन तेषां नित्य-पार्षदत्वं सुव्यक्तम् ॥
॥ 10.90 ॥ श्री-शुकः

5.122

[122]
अतस् तेषां श्री-भगवत्-पार्षदत्वे योग्यताम् अव्यभिचारित्वम् अपि
दृष्टान्तेन स्पष्टयति --
तत्रोपविष्टः परमासने विभुर्
बभौ स्व-भासा ककुभो ऽवभासयन्
वृतो नृ-सिंहैर् यदुभिर् यदूत्तमो
यथोडु-राजो दिवि तारका-गणैः ॥ [भ्प् 10.70.18]
स्पष्टम् । एवम् एव दुर्योधनं प्रति स्वयं विश्व-रूपं दर्शयता श्री-
भगवता तेषां यादवादीनां निजावरण-रूपत्वं दर्शितम् इत्य् उद्यम-
पर्वणि प्रसिद्धिः ॥
॥ 10.70 ॥ श्री-शुकः

5.123

[123]
यश् चैषाम् एकादश-स्कन्धान्ते तद्-अन्यथा-भावः श्रूयते, स तु श्रीमद्-
अर्जुन-पराजय-विमोह-पर्यन्तो मायिक एव । तथा-वचनं च ब्रह्म-
शापानिवर्त्यता-ख्यापनायैव गो-ब्राह्मण-हितावतारिणा भगवता विहितम्
इति ज्ञेयम् । दृश्यते च बृहद्-अग्नि-पुराणादौ रावण-हृतायाः (पगे 66)
सीताया मायिकत्वं यथा तद्वत्[*एन्द्नोते #6] । तथा हि तदानीम् एवाह -
त्वं तु मद्-धर्मम् आस्थाय ज्ञान-निष्ठ उपेक्षकः ।
मन्-माया-रचिताम् एतां विज्ञायोपशमं व्रज ॥ [भ्प् 11.30.49]
त्वं तु दारुको ज्ञान-निष्ठो मदीय-लीला-तत्त्वज्ञः, मद्-धर्मं मम
स्वभक्त-प्रतिपालयितृत्व-रूपं स्व-तुल्य-परिकर-सङ्गित्व-रूपं च
स्वभावम् आस्थाय विश्रभ्य एताम् अधुना प्रकाशितां सर्वाम् एव
मौषलादि-लीलां मम इन्द्र-जालवद् रचितां विज्ञाय उपेक्षको बहिर् दृष्ट्या
जातं शोकम् उपेक्षमाण उपशमं चित्त-क्षोभात् निवृत्तिं व्रज प्राप्नुहि ।
तु-शब्देनान्ये तावन् मुह्यन्तु तव तु तथा मोहो न युक्त एवेति ध्वनितम् ।
अत्र श्री-दारुकस्य स्वयं वैकुण्ठावतीर्णत्वेन सिद्धत्वाद् एताम् इत्य्
अत्रातिसन्निहितार्थ-लाभाच् चान्यथाव्याख्यानम् एव प्रथम-प्रतीत्य-
विषय इति विवेक्तव्यम् ।
॥ 11.30 ॥ श्री-भगवान् दारुकम्

5.127

[124]
तथा च पद्य-त्रयम् -
राजन् परस्य तनु-भृज्-जननाप्ययेहा
माया-विडम्बनम् अवेहि यथा नटस्य ।
सृष्ट्वात्मनेदम् अनुविश्य विहृत्य चान्ते
संहृत्य चात्म-महिनोपरतः स आस्ते ॥ [भ्प् 11.31.11]
परस्य श्री-कृष्णस्य ये तनु-भृतः प्रयुज्यमाने मयि तां शुद्धां
भागवतीं तनुम् [भ्प् 1.6.29] इति श्री-नारदोक्त्य्-अनुसारेण तदीयां तनुम्
एव धारयन्तस् तत्-पार्षदा यादवादयस् तेषां जननाप्यय-रूपा ईहाश्
चेष्टाः केवलं परस्यैव मायया अनुकरणम् अवेहि यथा इन्द्रजाल-वेत्ता
नटः कश्चिज् जीवत एव मारयित्वेव दग्ध्वेव पुनश् च तद्-देहं
जनयित्वेव दर्शयति तस्येव । विश्व-सर्गादि-हेत्व्-अचिन्त्य-शक्तेस् तस्य तादृश-
शक्तित्वं न च चित्रम् इत्य् आह सृष्ट्वेति । एवं सति श्री-सङ्कर्षणादौ
मुग्धानाम् अन्यथाभान-हेतूदाहरणाभासः सुतराम् एव मायिक-लीला-
वर्णने प्रवेशितो भवति । स्कान्दे श्री-लक्ष्मणस्याप्य् अन्यादृशत्वं न
सम्प्रतिपन्नम् । नारायण-वर्मणि च शेषाद् विलक्षण-शक्तित्वेन नित्यम्
एवोपासक-पालकत्वेन तथैवानुमतम् इति दर्शितम् । अतएव जरासन्ध-
वाक्ये तव राम यदि श्रद्धा [भ्प् 10.50.18] इत्य् अत्र श्री-स्वामिभिर् अपीत्थं
वास्तवार्थो व्यञ्जितः ।
अच्छेद्य-देहोऽसाव् इति स्वयम् एव मत्वा अपरितोषात् पक्षान्तरम् आह यद् वा
मां जहीति । तद् एवं चानेन व्याख्यानेन लोकाभिरामां स्व-तनुं [भ्प्
11.31.6] इत्य् आदि-पद्येषु योगि-जन-शक्ति-विलक्षण-भगवच्-छक्ति-व्यञ्जकक-
श्री-स्वामि-चरणानाम् अदग्ध्वेत्य् आदि-पद-च्छेदादि-मय-व्याख्या-
सौष्ठवं कैमुत्यातिशयेन सुष्ठ्व् एव स्थापितम् । यत एव दृश्यते
चाद्याप्य् उपासकानाम् इत्य् आदिकं च तद्-उक्तं सुसङ्गतं भवति । तत्-तत्-
परिकरेणैव सार्धं तेषु तत्-साक्षात्कार इति । अप्राकृत-देहानां तेषां तन्
न सम्भवतीय् आस्ताम् ।
[125]
श्री-कृष्ण-पाल्यत्वेनैव न सम्भवतीत्य् आह --
मर्त्येन यो गुरु-सुतं यम-लोक-नीतं
त्वां चानयच् छरण-दः परमास्त्र-दग्धम् ।
जिग्ये ऽन्तकान्तकम् अपीशम् असाव् अनीशः
किं स्वानने स्वर् अनयन् मृगयां स-देहम् ॥ [भ्प् 11.31.12]
यः श्री-कृष्णः यम-लोकं गतम् अपि गुरु-सुतं गुरोर् जातेन पञ्चजन-
भक्षितेन तेन मर्त्येन देहेनैवानयत् । न च ब्रह्म-तेजसो बलवत्त्वं
मन्तव्यम् । त्वां च ब्रह्मास्त्र-दग्धं यस् तस्माद् ब्रह्मास्त्राद् आनयद्
रक्षितवान् इत्य् अर्थः । किम् अन्यद् वक्तव्यम् ? यश् चान्तकानाम् अन्तकम्
ईशं श्री-रुद्रम् अपि बाण-सङ्ग्रामे जितवान् । अहो यश् च तं जराख्यं
मृगयुम् अपि स्वः स्वर्गं वैकुण्ठ-विशेषं स-शरीरम् एव प्रापितवान् । स
कथं स्वानां यदूनाम् (पगे 67) अवने ईशो न भवति ? तस्मात् तेष्व्
अन्यथा-दर्शनं न तात्त्विक-लीलानुगतम् । स-शरीरं तु तेषां स्व-लोक-
गमनम् अतीव युक्तम् इत्य् अर्थः ।
[126]
ननु गच्छन्तु ते स-शरीरा एव स्वं धाम तत्रापि स्वयं भगवान् विराजत
एवेति न तेषां तद्-विरह-दुःखम् अपि । श्री-भगवांस् तु तथा-समर्थश् चेत्
तर्हि कथम् अन्यांस् तादृशान् आविर्भाव्य तैः सह मर्त्य-लोकानुग्रहार्थम्
अपरम् अपि कियन्तं कालं मर्त्य-लोकेऽपि प्रकटो नासीद् इत्य् अत्र सिद्धान्तयन्
तेषां श्री-भगवतश् च सौहार्द-भरेणापि परस्परम् अव्यभिचारित्वम् आह
तथाप्य् अशेष-स्थिति-सम्भवाप्ययेष्व्
अनन्य-हेतुर् यद् अशेष-शक्ति-धृक् ।
नैच्छत् प्रणेतुं वपुर् अत्र शेषितं
मर्त्येन किं स्व-स्थ-गतिं प्रदर्शयन् ॥ [भ्प् 11.31.13]
यद्यप्य् उक्त-प्रकारेण अशेष-स्थिति-सम्भवाप्ययेषु अनन्य-हेतुः यत्
यस्मात् तद्-ऊर्ध्वम् अप्य् अनन्त-तादृश-शक्ति-धृक्, तथापि यादवान्
अन्तर्धाप्य निजं वपुर् अत्र शेषितं प्रणेतुं किञ्चित् कालं स्थापयितुं
नैच्छत्, किन्तु स्वम् एव लोकम् अनयत् । तत्र हेतुः । तान् विना मर्त्येन लोकेन
किं मम प्रयोजनम् इति स्व-स्थानां तद्-धाम-गतानां तेषां गतिम् एव
स्वस्याभिमतत्वेन प्रकृष्टां दर्शयन्न् इति ।
॥ 11.31 ॥ श्री-शुकः ॥ 124-126 ॥
[127]
अतस् तेषां श्री-भगवद्वद् अन्तर्धानम् एव न त्व् अन्यद् अस्तीति श्री-
भगवद्-अभिप्राय-कथनेनाप्य् आह -
मिथो यदैषां भविता विवादो
मध्व्-आमदाताम्र-विलोचनानाम् ।
नैषां वधोपाय इयान् अतो ऽन्यो
मय्य् उद्यते ऽन्तर्दधते स्वयं स्म ॥ [भ्प् 3.3.15]
एषां यदूनां यदा मिथो विवादस् तदाप्य् एषां पृथिवी-परित्याजने वध-
रूप उपायो न विद्यते किम् उतान्येन विवादे स न स्याद् इति । तर्हि तेषां
ममाभिलषिते पृथिवी-परित्याजने कतम उपायो भवेत् । तत्र पुनः
परामृशति । अतो वधाद् अन्य एव इयान् एतावान् एव उपायो वर्तते । कोऽसौ मयि
उद्यते ममेच्छया एते स्वयम् अन्तर्दधत इति यः । स्मेति निश्चये । यद् वा
वधस्योपायो न विद्यत इत्य् एवं व्याख्याय अतो वधोपायाद् अन्य इयान्
वधोपाय-तुल्य उपायो विद्यते इति व्याख्येयम् । अन्यत् समानम् ।
॥ 3.3 ॥ श्रीमद् उद्धवो विदुरम्

5.130

[128]
अतएवान्तर्हिते भगवति श्रीमद्-उद्धवस्य विदुर् इति वर्तमान-प्रत्यय-
निर्देश-वाक्येन तदानीम् अन्तर्हितस्यापि तद्-वर्गस्य इव श्री-भगवतैव
सह संवासो व्यज्यते यथा -
दुर्भगो बत लोको ऽयं यदवो नितराम् अपि ।
ये संवसन्तो न विदुर् हरिं मीना इवोडुपम् ॥ [भ्प् 3.2.8]
अयं मम हृदये स्फुरन् द्वारका-वासी लोकः । ये संवसन्तः सह
वसन्तोऽपि न विदुर् न जानन्ति । अहं तु संवास-भाग्य-हीनो न जानामीति
नाश्चर्यम् इति भावः । अत्र तदानीं यदि संवासो नाभविष्यत् तदा नावेदिषुर्
इत्य् एवावक्ष्यद् इति ज्ञेयम् ।
[129]
नन्व् अधुनापि न जानन्तीति कथं जानासीत्य् आशङ्क्य हेतुं प्राचीन-
निजानुभवम् आह -
इङ्गित-ज्ञाः पुरु-प्रौढा एकारामाश् च सात्वताः ।
सात्वताम् ऋषभं सर्वे भूतावासम् अमंसत ॥ [भ्प् 3.2.9]
यं सात्वतां स्वेषाम् एव ऋषभं नित्य-कुल-पतित्वेन वर्तमानं स्वयं
भगवन्तम् अपि भूतावासं तद्-अंश-रूपं भूतान्तर्यामिनम्
एवामंसतेति । मे एको देव (पगे 68) इत्य् आदौ सर्व-भूताधिवास [श्वेतु 6.18]
इत्य् अन्तर्यामि-श्रुतेः । उक्तं च वृष्णीनां पर-दैवता [भ्प् 10.43.27] इति ।
॥ 3.2 ॥ श्रीमद्-उद्धवो श्री-विदुरम् ॥ 128-129 ॥
[130]
यम् एव संवासं पूर्वम् अपि प्रार्थयामास -
नाहं तवाङ्घ्रि-कमलं क्षणार्धम् अपि केशव ।
त्यक्तुं समुत्सहे नाथ स्व-धाम नय माम् अपि ॥ [भ्प् 11.6.43]
स्व-धाम-द्वारकाया एव प्रापञ्चिका-प्रकट-प्रकाश-विशेषम् अपीति ।
यथा यादवान् अन्यान् नयसि तथा माम् अपि नयेत्य् अर्थः । अर्थान्तरे त्व् अपि-
शब्द-वैयर्थ्यं स्यात् ।
॥ 11.6 ॥ श्रीमान् उद्धवः

5.131

[131]
पाद्मोत्तर-खण्डे कार्त्तिक-माहात्म्ये च यादवानां तदृशत्वं -
यथा सौमित्रि-भरतौ यथा सङ्कर्षणादयः ।
तथा तेनैव जायन्ते निज-लोकाद् यदृच्छया ॥
पुनस् तेनैव गच्छन्ति तत्-पदं शाश्वतं परम् ।
न कर्म-बन्धनं जन्म वैष्णवानां च विद्यते ॥ [पद्मप् 6.229.57-58] इति ।
अत्र निज-लोकाद् इति तत्-पदम् इति च राम-कृष्णादि-वैकुण्ठं पाद्मोत्तर-
खण्ड-मतम् । श्री-मत्स्याद्य्-अवताराणां पृथक् पृथक् वैकुण्ठावस्थितेस्
तत्र साक्षाद् उक्तत्वात् । तादृशानां भगवत इव भगवद्-इच्छयैव
जन्मादि-कारणं चोक्तं श्री-विदुरेण -
अजस्य जन्मोत्पथ-नाशनाय
कर्माण्य् अकर्तुर् ग्रहणाय पुंसाम्
नन्व् अन्यथा को ऽर्हति देह-योगं
परो गुणानाम् उत कर्म-तन्त्रम् ॥ [भ्प् 3.1.44] इति ।
को वान्योऽपीति टीका च । तद् एवं तेषां श्री-कृष्ण-नित्य-परिकरत्वे सिद्धे
साधिते श्री-वसुदेवादीनां प्राग्-जन्मनि साधकत्वादि-कथनं च
भगवत इव भगवद्-इच्छयैव लोक-सङ्ग्रहाद्य्-अर्थम् अंशेनैवावतारात्
क्वचिज्-जीवान्तरावेशात् सम्भवति । पुनश् च स्वयम् अवतरत्सु तेषु तद्-अंश-
प्रवेश-कथा-रीत्या त्व् एकत्वेन कथनम् इति ज्ञेयम् । यथा प्रद्युम्नस्य
व्याख्यातम् । एवं तृतीये वेदाहम् इत्य् आदि भगवद्-वाक्ये उद्धवं प्रति
वस्व्-अंशत्वापेक्षयैव वसो इति सम्बोधनं तादृशांश-
पर्यवसानास्पदांशि-रूपत्वेन चरम-जन्मतोक्तिश् च ज्ञेया । अतएवाह --
त्वम् एव पूर्व-सर्गे ऽभूः पृश्निः स्वायम्भुवे सति ।
तदायं सुतपा नाम प्रजापतिर् अकल्मषः ॥ [भ्प् 10.3.32]
त्वं श्री-देवकी-देव्य् एव पृश्निर् अभूः न तु पृश्निस् त्वम् अभूद् इति । एवं
तदायम् अपीति ।
॥ 10.3 ॥ श्री-भगवान्

5.132

[132]
एवम् एवाह -- वसुदेवं हरेः स्थानं वदन्त्य् आनकदुन्दुभिम् [भ्प्
9.24.30] इति । सत्त्वं विशुद्धं वसुदेव-शब्दितं यद् ईयते तत्र पुमान्
अपावृतः [भ्प् 4.3.23] इत्य् आदौ प्रसिद्धं वसुदेवाख्यं हरेः स्थानम्
अत्रानकदुन्दुभिं वदन्ति मुनय इति ॥
॥ 9.24 ॥ श्री-शुकः

5.133

[133]
तथात्राप्य् एवं व्याख्येयं देवक्यां देव-रूपिण्याम् [भ्प् 10.3.8] वसुदेवस्
तद्-रूपिण्यां शुद्ध-सत्त्व-वृत्ति-रूपायाम् एवेति । अतएव विष्णु-पुराणे तां
प्रति देव-स्तुतौ - त्वं परा प्रकृतिः सूक्ष्मा [भ्प् 5.2.7] इत्य्-आदि बहुतरम् ॥
॥ 10.3 ॥ श्री-शुकः

5.136

[134]
अतएवाहम् इव नित्यम् एव मत्-पितृ-रूपेणाप्रकट-लीलायां वर्तमानौ
युवाम् अधुना (पगे 69) प्रकट-लीलाम् अनुगतौ पुनर् अप्रकट-लीला-
प्रवेशं यदृच्छयैवाप्स्यथ इत्य् आह --
युवां मां पुत्र-भावेन ब्रह्म-भावेन चासकृत् ।
चिन्तयन्तौ कृत-स्नेहौ यास्येथे मद्-गतिं पराम् ॥ [भ्प् 10.3.45]
ब्रह्म-भावेन नराकृति-पर-ब्रह्म-बुद्ध्या । परां प्रकट-लीलातोऽन्यां
मद्-गतिं लीलाम् ।
[135]
युवयोः प्राग् अंशेनाविर्भूतयोर् अपि मद्-एक-निष्ठासीद् इत्य् आह -
अजुष्ट-ग्राम्य-विषयाव् अनपत्यौ च दम्-पती ।
न वव्राथे ऽपवर्गं मे मोहितौ देव-मायया ॥ [भ्प् 10.3.39]
मम मायया मद्-विषय-स्नेह-मय्या शक्त्येत्य् अर्थः । वैष्णवीं व्यतनोन्
मायां पुत्र-स्नेह-मयीं विभुर् [भ्प् 10.8.47] इति व्रज-राज्ञीं प्रति च
दर्शनात् । तादृश-स्नेह-जनिकया मम कृपयेति वा । माया दम्भे कृपायां
च इति विश्व-प्रकाशात् । तत्-प्रेम्णैव ह्य् अपवर्गस्य तिरस्कारः सर्वत्र
श्रूयते, यद्यपि मोक्ष-वरणे हेतुर् अस्तीत्य् आह अजुष्टेति । विषयावेशाभावाद्
वैराग्योत्पत्तेर् इति भावः ॥
॥ 10.3 ॥ श्री-भगवान् पितरौ ॥ 134-135 ॥
[136]
अथ श्री-गोपादीनाम् अपि तन्-नित्य-परिकरत्वम् । जयति जननिवास इत्य् आदाव्
एव व्यक्तम् । अतएवाह -
तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् ।
गोपाये स्वात्म-योगेन सो ऽयं मे व्रत आहितः ॥ [भ्प् 10.25.18]
स्पष्टम् ॥ 10.25 ॥ श्री-भगवान्

5.137

[137]
तथा -
तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् ।
हरेर् निवासात्म-गुणै रमाक्रीडम् अभून् नृप ॥ [भ्प् 10.5.18]
हरेर् निवास-भूतो य आत्मा तस्य ये गुणास् तैर् एव सर्व-समृद्धिमान्, नित्य-
योगे मत्वर्थीयेन नित्यम् एव सर्व-समृद्धि-युक्तः । श्री-नन्दस्य व्रजः
ततस् तं श्री-कृष्ण-प्रादुर्भावं आरभ्य तु रमाक्रीडां --
चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-
लक्षावृतेषु सुरभिर् अभिपालयन्तम् ।
लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानम् इत्य् अत्र प्रसिद्ध्या ।
रमाणां महा-लक्ष्मीणां श्री-व्रजदेवीनाम् अपि साक्षाद् विहारास्पदं
बभूव । हरि-निवासात्मनि तत्र श्री-कृष्णो यावन् निगूढतया विहरति स्म
तावत् ता अपि तथैव विहरन्ति स्म । व्यक्ततया तु ता अपि व्यक्ततयेत्य् अर्थः ।
॥ 10.5 ॥ श्री-शुकः

5.144

[138]
एतद् एव प्रपञ्चयति षड्भिः --
अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् ।
यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ [भ्प् 10.14.32]
भाग्यम् अनिर्वचनीया कापि श्री-कृष्णस्य कृपा । तस्य पुनर्-उक्त्य्-आदरेण
सर्वथैवापरिच्छेद्यत्वम् उक्तम् । पूर्ण-परमानन्द-ब्रह्मत्वेनैव
सनातनत्वे सिद्धे यत् पुनस् तद्-उपादानं तन्-मित्र-पदस्यैव
विशेषणत्वेन लभ्यम् । अथवा विधेयस्य विशेष-प्रतिपत्त्य्-अर्थम् अनूद्यं
विशिष्यते । यथा मनोरमं सुवर्णम् इदं कुण्डलं जातम् इति कुण्डलस्यैव
मनोरमत्वं साध्यम् । तस्माद् अत्राप्य् अनूद्यस्य श्री-कृष्णाख्यस्य पर-
ब्रह्मणः परमानन्द-पूर्णत्व-लक्षणं विशेषण-द्वयं विधेयाया
मित्रताया एव तत्-तद्-भावं साधयतीति तद्-एकार्थ-प्रवृत्तं सनातनत्वं
तस्यास् तद्-भावं साधयेत् ।
किं चात्र मित्रम् इति काल-विशेषयोग-निर्देशाभावात् काल-सामान्यम् एव
भजते । ततश् च तस्य मित्रता-लक्षणस्य विधेयस्य काल-त्रयावस्थितत्वम्
एव स्पष्टम् । कालान्तरासंजननं तु कष्टम् । अत्र चोत्तरयोर् अर्थयोः श्री-
कृष्णस्य सनातनत्वे शब्द-लब्धे सति तदीय-मैत्रीमतां परिकराणाम् अपि
सनातनत्वं नासम्भवम् अपि श्री-रुक्मिणी-प्रभृतीनाम् तथा दर्शनात् ।
(पगे 70)
[139]
अहो अस्तु तावद् एषां नित्यम् एव श्री-कृष्ण-मैत्री-परमानन्दम्
अनुभवतां भाव्यं, सम्प्रति अस्माकम् अपि तत् किम् अपि जातम् इत्य् आह -
एषां तु भाग्य-महिमाच्युत तावद् आस्ताम्
एकादशैव हि वयं बत भूरि-भागाः ।
एतद् धृषीक-चषकैर् असकृत् पिबामः
शर्वादयोऽङ्घ्र्य्-उदज-मध्व्-अमृतासवं ते ॥ [भ्प् 10.14.33]
एका अखण्डिता नित्येति यावत् । सा भाग्य-महिमा भाग्य-माहात्म्यम् एषां
तावद् आस्तां सम्प्रति शर्वादयो दश-दिक्-पाल-देवा एव वयं भूरि-भागाः ।
परम-भक्तत्वात् तेषु मुख्यत्वाच् च शर्वादय इत्य् उक्तम् । भूरि-
भागत्वम् एव दर्शयति हृषीक-चषकैश् चक्षुर्-आदि-लक्षण-पान-पात्रैः
कृत्वा वयम् अप्य् एतत् साक्षाद् एव यथा स्यात् तथा ते तव अङ्घ्र्य्-उदज-
मध्व्-अमृतासवम् असकृत् पुनः पुनर् इहागत्य पिबाम इति । चरण-
सौन्दर्यादिकम् एवातिमनोहरत्वात् मध्व्-आदितया त्रिधापि रूपितं
समाहार-द्वन्द्वेन । एतद् इति चास्यैव वा विशेषणस्य । अत्र तुष्यतु दुर्जनः
इति न्यायेन श्री-व्रज-वासिनां प्राकृत-देहित्व-मतेऽपि तेषां करणैर् देवता-
कर्तृक-भोगो न युज्येत तस्य च नित्यत्वात् [व्स् 2.4.17] इत्य् अत्र श्री-
शङ्कराचार्येण च करण-पक्षस्यैव हि देवता न भोक्तृ-पक्षस्य इत्य्
आत्मनः एव भोक्तृत्व-निर्धारणात् ।
[140]
अतः पूर्वम् अपि तद् अस्तु मे नाथ स भूरि-भागः [भ्प् 10.14.30] इत्य् आदि यत्
प्रार्थितं तद् एतद् एवेत्य् आह --
तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां
यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् ।
यज् जीवितं तु निखिलं भगवान् मुकुन्दस्
त्व् अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव ॥ [भ्प् 10.14.34]
अनेन श्री-गोकुल-जन्म-लाभाद् एव तव पाद-निषेवा-लक्षणो याचितो भूरि-
भागः सदैव सेत्स्यतीति सूचितम् ।
[सर्व-संवादिनी: तत्रावतीर्णः श्री-भगवान् तत्र इह श्री-मथुरा-
मण्डले । तत्रापि अटव्यां श्री-वृन्दावने तत्रापि श्री-गोकुले । कथम्भूतं
जन्म ? गोकुल-वासिनां मध्ये अपि कतमस्य यस्य कस्यापि अङ्घ्र्-
रजसाभिषेको यस्मिन् तत् । एन्द् स्स्.]
[141]
तस्मात् तेषां भाग-धेयं किं वर्णनीयम् । अहो येषां भक्त्या भवान् अपि
नित्य-मृणिताम् आपन्नो येषु रुद्ध एवास्ते इत्य् आह --
एषां घोष-निवासिनाम् उत भवान् किं देव रातेति नश्
चेतो विश्व-फलात् फलं त्वद्-अपरं कुत्राप्य् अयन् मुह्यति ।
सद्-वेषाद् अपि पूतनापि सकुला त्वाम् एव देवापिता
यद् धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते ॥ [भ्प् 10.14.35]
सतां शुद्ध-चित्तानां धात्र्य्-आदि-जनानाम् इव वेषात् । [वृ. अद्द्स् - लेभे गतिं
धात्र्य्-उचिताम् [भ्प् 3.2.23] इति तृतीयोक्तेः [एन्द् व्र्.] । तस्माद् अनादि-कल्प-
परम्परा-गतत्वाद् अवतारत एवैवं प्राप्तत्वेन तैर् एकैर् एव भक्ति-
रुद्धत्वात् सनातनं मित्रम् इत्य् एवं साधूक्तम् । ततश् च तद्-भूरि-
भाग्यम् इत्य् आदिकम् अपि साध्व् एव प्रार्थितम् इति भावः ।
[सर्व-संवादिनी: इत्य् अत्र राता दाता त्व त्वत्तः । अयत् इतस् ततो गच्छत् । एन्द्
स्स्.]
[142]
नन्व् एषां मनुष्यान्तरवत् रागादिकं दृश्यते । कथं तर्हि स्वयं
भगवतो नित्य-परिकरत्वं तत्र कैमुत्यम् आह --
तावद् रागादयः स्तेनाः तावत् कारागृहं गृहम् ।
तावन् मोहोऽङ्घ्रि-निगडो यावत् कृष्ण न ते जनाः ॥ [भ्प् 10.14.36]
स्तेनाः पुरुष-सार-हराः । अन्येषां प्राकृत-जनानाम् अपि तावद् एव
रागादयश् चौरादयो भवन्ति यावत् ते जनास् ते तव न भवन्ति सर्वतो-
भावेन त्वय्य् आत्मानं न समर्पयन्ति । समर्पिते चात्मनि तेषां
रागादयोऽपि त्वन्-निष्ठा एवेति रागादीनां प्राकृतत्वाभावान् न चौरादित्वं
प्रत्युत परमानन्द-रूपत्वम् (पगे 71) एवेत्य् अर्थः । तथैव प्रार्थितं
श्री-प्रह्लादेन -
या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी ।
त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥ [विप् 1.20.19] इति ।
अतो यदि साधकानाम् एवं वार्ता तदा किं वक्तव्यं, नित्यम् एव तादृश-
प्रियत्वेन सतां श्री-गोकुल-वासिनाम् एवम् इति । इत्थम् एवोक्तम् -
इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा ।
कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥ [भ्प् 10.11.58] इति ।
भवन्त्य् अस्मिन्न् इति भवः प्रपञ्चः । यद्यपि प्रपञ्च-जनेष्व् अभिव्यक्तास्
ते तथापि तत्-सम्बन्धिनी या वेदना विषय-दुःखादि-ज्ञानं तां नाविन्दन्न्
इत्य् अर्थः । वेदना ज्ञान-पीडयोः इति कोषज्ञाः ।
[143]
तर्हि कथं गोकुले प्रपञ्चवद् भानं लोकानां भवति तत्राह -
प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले ।
प्रपन्न-जनतानन्द- सन्दोहं प्रथितुं प्रभो ॥ [भ्प् 10.14.37]
प्रपञ्चाद् अतीतोऽपि त्वं भूतले स्थितं प्रपञ्चं विडम्बयसि (जन्मादि-
लीलया ममायं पिता ममेयं माता इत्य् आदि भाव-लिङ्गतः) स्वयम् अनेन
प्रस्तुतेन गोकुल-रूपेणानुकरोषि । वस्तुतस् तु श्री-गोकुल-रूपम् इदं तव
स्वरूपं प्रपञ्चवद् एव भाति न तु प्रपञ्च-रूपम् एवेति तात्पर्यम् ।
तद्वच् च भानं किम् अर्थं तत्राह प्रपन्नेति । एतादृश-लौकिकाकार-
लीलयैव हि प्रपन्न-जन-वृन्दस्य परमानन्दो भवतीत्य् एतद् अर्थम् ।
तस्मात् साधूक्तम् अहो भाग्यम् इत्य् आदि ।
॥ 10.14 ॥ ब्रह्मा श्री-भगवन्तम् ॥ 138-143 ॥
[144]
अतएवाह -
तासाम् अविरतं कृष्णे कुर्वतीनां सुतेक्षणम् ।
न पुनः कल्पते राजन् संसारोऽज्ञान-सम्भवः ॥ [भ्प् 10.6.40]
तासां श्री-गोप-पुर-स्त्रीणां संसारः संसारित्वं प्रापञ्चिकत्वं न पुनः
कल्प्यते न तु घटते, किन्तु अप्रापञ्चिकत्वम् एव घटत इत्य् अर्थः ।
यतोऽसाव् अज्ञान-सम्भवः । तासां तु कथम्भूतानां ? अज्ञान-तमः-
सूर्यस्य ज्ञानस्योपरि-विराजमानो यः प्रेमा तस्याप्य् उपरि वर्तमानं यत्

सुतेक्षणं पुत्र-भावो वात्सल्याभिधः प्रेमा तद् एव तत्राप्य् अविरतं
नित्यम् अनादित एव श्री-कृष्णे कुर्वतीनाम् इति ॥
[व्र्. हेरे अद्द्स्: इति स्थिते तन्-नाम-सिद्ध-श्री-कृष्ण-नाम-विशेषाङ्कित-
विदितानां श्री-कृष्णेन सहान्तरङ्गतया तन्-महा-योग-पीठ-ध्येयानां
तद्वद् अन्यास्व् अपि लीलासु तादृशतया दर्शयितव्यानां तासां श्री-कृष्ण-
प्रेयसीनां तु किं वक्तव्यम् । वृ. सेच्तिओन् एन्द्स्.]
॥ 10.6 ॥ श्री-शुकः

5.145

[145]
यस्माद् एवं श्री-गोपादीनां तदीय-नित्य-परिकरत्वं (पगे 72) तस्माद् एतत्
प्रकरणत्व-सिद्ध-देहानां साधक-चरीणां कासांचिद् अपेक्षया । यद् वा
एतद् अभिप्रायं तच् च अन्तर्-गृह-गता [भ्प् 10.29.9] इत्य् आदिकं, न चैवं
विस्मयः कार्यः [भ्प् 10.29.16] इत्य् आद्य्-अन्तम् ।
[सर्व-संवादिनी: --
अन्तर्-गृह-गताः काश्चिद् गोप्यो ऽलब्ध-विनिर्गमाः ।
कृष्णं तद्-भावनायुक्ता दध्युर् मीलित-लोचनाः ॥
दुःसह-प्रेष्ठ-विरह-तीव्रताप-धुताशुभाः ।
ध्यानप्राप्ताच्युताश्लेष-निर्वृत्या क्षीणमङ्गलाः ॥
तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः ।
जहुर् गुणमयं देहं सद्यः प्रक्षीण-बन्धनाः ॥
राजोवाच --
कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने ।
गुण-प्रवाहोपरमस् तासां गुण-धियां कथम् ॥
श्री-शुक उवाच --
उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथा गतः ।
द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः ॥
नॄणां निःश्रेयसार्थाय व्यक्तिर् भगवतो नृप ।
अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥
कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदम् एव च ।
नित्यं हरौ विदधतो यान्ति तन्-मयतां हि ते ॥
न चैवं विस्मयः कार्यो भवता भगवत्य् अजे ।
योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥ [भ्प् 10.29.9-16] एन्द् स्स् अद्दितिओन्.]
[व्र्. रेप्लचेस् अबोवे परग्रफ् wइथ् थे fओल्लोwइन्ग्: तद् एवम् एव तासां श्री-
कृष्णवद् आनन्द-विग्रहाणां तैर् एव विग्रहैः श्री-कृष्ण-सङ्गः प्रोक्तः ।
उक्तं च तासां विग्रह-माहात्म्यं तत्रातिशुशुभे ताभिर् भगवान् देवकी-
सुतः [भ्प् 10.33.6] इत्य् आदिभिः । श्रीमद्-उद्धवेन च तान् नमस्यता
प्रथमं एताः परं तनु-भृतः [भ्प् 10.47.58] इत्य् अनेन तासाम् एव परम-
तनु-भृतत्वं प्रदर्श्य मध्ये क्वेमाः स्त्रियः [भ्प् 10.47.59] इत्य् अनेन
परमतम् अनूद्य तत् खण्डयता नायं श्रियोऽङ्ग [भ्प् 10.47.60] इत्य् अनेन
लक्ष्मीतोऽपि विलक्षणं तासु तत्-प्रेयसी-रूपत्वं प्रदर्श्य परम-नित्यत्वं
स्थापयित्वा तत्र च यः प्रसाद उदगात् इत्य् अनेन तत्-प्रसादस्य
सदान्तर्भूय स्थायित्वं सूचयित्वा पुनः आसाम् अहो चरण [भ्प् 10.47.61] इत्य्
आदिना स्वीय-परम-पुरुषार्थ-चरण-रेणुत्वं दर्शितम् । यत्र भेजुर्
मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् [भ्प् 10.47.61] इत्य् अनेन यद् एव
पुरुषार्थतया स्थापितम् । यत्र वृन्दावने इत्य् आदिना वृन्दावनस्य च
तादृशत्वं स्थापितम् । तद् एतद् व्यतिरेकेण द्रढयितुम् अन्यासाम्
आगन्तुकानाम् असिद्ध-देहानां विग्रह-त्यागेनैव तत्-सङ्ग-प्राप्तिर् इत्य् आह
अन्तर्-गृह-गता [भ्प् 10.29.9] इत्य् आदिकेन, न चैवं विस्मयः कार्यः [भ्प्
10.29.16] इत्य् आद्य्-अन्तेन । अन्तर्-गृह-गताः शुश्रूषन्त्यः पतीन् काश्चित् इत्य्
अत्रोक्ता इत्य् अर्थः । विशेष-व्याख्या च क्रम-सन्दर्भे दर्शयिष्यते । वृ.
सेच्तिओन् एन्द्स्.]
अत्र अन्तर् इति स्फुटम् एव । अशुभं [भ्प् 10.29.10] श्री-कृष्ण-प्राप्ताव्
अन्तराय-रूपं गुरु-भयादिकम् । मङ्गलं श्री-कृष्ण-प्राप्तौ साधनं
सख्यादि-साहाय्य-चिन्तनम् । न कर्म-बन्धनं जन्म वैष्णवानां च
विद्यते [पद्मप् 6.229.58] इति ह्य् उक्तम् एव । दृश्यते चान्यत्रापि तद्-
असम्भव-स्थले तच्-छब्द-प्रयोगः वत्स्यत्य् उरसि मे भूतिर् भवत्-पाद-
हतांहसः [भ्प् 10.89.11] इत्य् आदौ । तत्र यथा श्री-भगवद्-वाक्य-
याथार्थ्यायार्थान्तरम् अनुसन्धेयं तद्वद् इहापीति ।
परमात्मानम् [भ्प् 10.29.11] इति ब्रह्म-स्तम्बान्त-निर्दिष्ट-सिद्धान्त-रीत्या
श्री-कृष्णस्य स्वभावत एव परम-प्रेमास्पदत्वं दर्शितम् । जार इति या
बुद्धिस् तयापि तन्-मात्रेणापि सङ्गताः न तु साक्षाद् एव जार-रूपेण प्राप्तिर्
इति । तद्-भाव-पुरस्कारेण भजनस्य प्राबल्यं व्यञ्जितम् । जार-शब्देन
निर्देशात् लोक-धर्म-मर्यादातिक्रमं दर्शयित्वा तथाविध-
भावस्यातिनिरर्गलत्वं दर्शितम् । बन्धनं श्री-कृष्ण-प्राप्ति-विरोधि-गुरु-
जन-मध्य-वासादि-रूपम् ।
अत्र गुण-मयं देहं जहुर् इत्य् अत्र राज्ञः सन्देहः कृष्णं विदुर् [भ्प्
10.29.12] इति । हे मुने, ताः श्री-कृष्णं परं केवलं कान्तं निगूढ-
वल्लभं विदुर् न तु ब्रह्मेति । तर्हि कथं तासां गुण-प्रवाहस्योपरमः
सम्भवति ? यस्य ब्रह्म-भावना स्यात् तत्र तस्य निर्गुणस्यैवोदयाद्
भवेत् प्राचीन-मायिक-गुण-प्रवाहोपरमः । तासु तु कान्ततयैव
भावयन्तीषु प्राकृत-गुणातीत-गुणस्यैव तस्योदयात् प्राकृत-गुणाभावेऽपि
तद्-गुणानुबन्ध-गुणत्वात् परम-पुरुषार्थानुगतानां तेषां गुणानां
कथम् उपरम इत्य् अर्थः । यद् वा तासां गुण-प्रवाहः कथम् उपरमः
पारमर्थिको न भवति, येन ततो मुक्तिं कथयसीति भावः । ब्रह्मतया
वेदना-वैलक्षण्यं प्रतिपादयति गुण-धियां ब्रह्म-निष्ठाया अपि त्याजके
तस्य परम-सौन्दर्यादि-गुणे धीश् चेतो यासाम् । तत्रोत्तर-मुक्तिम् इति ।
पुरञ्जनेति-हासादिवद् दुरूहत्वात् स्वयम् उक्तस्य व्याख्यानम् इदम् ।
एवं हि दृष्टान्त-बलेन लभ्यते । यथा चैद्य-शब्देनात्र कारुषोऽपि गृहीतः
तौ च जय-विजयौ तयोश् च -
देहेन्द्रियासु-हीनानां वैकुण्ठ-पुर-वासिनाम् ।
देह-सम्बन्ध-सम्बद्धम् एतद् आख्यातुम् अर्हसि ॥ [भ्प् 7.13.34]
इति श्री-युधिष्ठिर-प्रश्न-दृशा त्व् अप्राकृत-विग्रहत्वेनानश्वर-विग्रहयोर्
एव सतोः --
भगवान् अनुगाव् आह यातं मा भैष्टम् अस्तु शम् ।
ब्रह्म-तेजः समर्थो ऽपि हन्तुं नेच्छे मतं तु मे ॥ [भ्प् 3.16.29]
इति भगवद्-उक्त्य्-अनुसारेण । इत्थं जय-विजयौ सनकादि-शाप-व्याजेन
केवलं भगवतो लीलार्थं संसृताव् अवतीर्य इति पाद्मोत्तर-खण्ड-
गद्यानुसारेण च स्व-भक्त-चित्ताकर्ष-विनोदाय युद्धादि-क्रीडा-
निमित्ततया तस्य दुर्घट-घटना-कारिण्येच्छया एव वार-त्रयं स्वीयस्य
अणिमादि-सिद्धि-मय-परम-ज्योतिर्-देहस्य गुणमय-पार्थिव-देहान्तर-
प्रवेशः ।
अतएव सप्तमे कृष्ण-चक्र-हतांहसौ [भ्प् 7.1.45] इत्य् अत्र टीका च - कृष्ण-
चक्रेण (पगे 73) हतम् अंहो ययोस् तौ । तयोः पापम् एव हतं न तु तौ इत्य्
एषा ।
तथा तद्-अर्थम् एव श्री-कृष्णेच्छयैवात्रापि तासाम् अप्राकृत-विग्रहाणाम्
एव तद्-अभिसार-प्रतिरोध-समये -
नासूयन् खलु कृष्णाय मोहितास् तस्य मायया ।
मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ [भ्प् 10.33.37]
इतिवत् ।
तात्कालिक-कल्पितो यो गुणमयो देहस् तत्र प्रवेशः । इमम् एवापेक्ष्य
दार्ष्टान्तिकेऽप्य् उक्तम् जहुर् गुणमयं देहम् [भ्प् 10.29.11] इति, विशेषण-
वैयर्थ्यान् न तु स्वम् इत्य् अर्थः । तत्र च यथा तयोः सह द्वेषाभासस्
तस्याप्य् अनुस्मरणस्य (सद्-वेषस्याप्य् अनुस्मरणस्य) प्रभावेन
तादृशोपाधि-परित्यागात् ततोऽन्तर्धाय भगवत्-प्राप्तिस् तथा सुतराम् एव
सप्रीतेस् तस्य प्रभावेन तत्-प्राप्तिः । अत्र च भक्त-चित्ताकर्षणम् एवं
सम्भवति - अहो तादृशोऽसौ श्री-कृष्णे मधुरिमा येन ताः स्व-
साक्षात्काराय प्राणान् अपि त्याज्यन्ते स्मेति ।

नॄणाम् [भ्प् 10.29.14] इति सामान्यतो जीवानाम् एव निःश्रेयसाय व्यक्तौ
सत्यां भक्तानां तु सुतराम् एवेत्य् आयातम् । अन्यथा तस्य व्यक्तिर् एव न
सम्भवेद् इत्य् आह । अव्ययस्येति । निर्गुणस्य प्राकृत-गुण-रहितस्य
गुणात्मनः । तत्र ये चैश्वर्यादयो गुणास् ते आत्मनः स्वरूपाण्य् एव यस्य
तस्य ।
तर्ह्य् एतादृश-लीलया कथं नॄणां निःश्रेयसं भवति । उच्यते । एतद्-
बोधनेन भवतीत्य् आह कामम् [भ्प् 10.29.15] इति । अत्र तन्-मयता-शब्देन
तत्-प्रचुरतोच्यते । तत्र काम-स्नेहादिषु तद्-अनुरक्तात्मतेति पर्यवसानं
स्त्रीमयो जाल्म इतिवत् । क्रोध-भयैक्येषु ते प्रायस् तत्-प्रलीनतेति दुग्ध-
मयं जलम् इतिवत् । एकस्यैव शब्दस्य विशेषण-वशाद् अर्थ-भेदश् च
युज्यते स्याच् चैकस्य ब्रह्म शब्दवद् [व्स्. 2.3.4] इति न्यायेन । क्रोध-
भययोर् अत्र पठनम् अन्येषु कैमुत्यापादनायैव न तु तद्-उपदेश-
विवक्षया । न च श्री-गोपिकादीनां ये कामादयो भावास् तद्-अनुसरणेनान्ये
कृतार्था भवन्तीति चित्रम् इत्य् आह । न चेति । किं वक्तव्यम् एकेषां विमुक्तिर्
जगतोऽपि सम्भवतीत्य् आह यत इति ।
[वृ. अद्द्स्: एके तु प्रकट-लीलायाम् आराधन-पाकाद् आगन्तुकस्य एवैता न
तु नित्य-सिद्धवत् सच्-चिद्-आनन्द-देहं प्राप्ताः । ततो न दोष इति वर्णयन्ति ।
[एन्द् वृ. अद्दितिओन्.]
॥ 10.29 ॥ श्री-शुकः

5.153

[146-150]
अथ पूर्ववद् इहापि श्री-व्रजेश्वरादीनां प्राचीन-जन्मादिकं व्याख्येयम् ।
तथा हि -
त्रय्या चोपनिषद्भिश् च साङ्ख्य-योगैश् च सात्वतैः ।
उपगीयमान-माहात्म्यं हरिं सामन्यतात्मजम् ॥ [भ्प् 10.8.45] इत्य् एतत्,
नेमं विरिञ्चो न भवः [भ्प् 10.9.20] इति वक्ष्यमाणानुसारि-महा-
माहात्म्यं श्रुत्वा विस्मित-मनाः श्री-राजोवाच -
नन्दः किम् अकरोद् ब्रह्मन् श्रेय एवं महोदयम् ।
यशोदा च महा-भागा पपौ यस्याः स्तनं हरिः ॥
पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् ।
गायन्त्य् अद्यापि कवयो यल् लोक-शमलापहम् ॥ [भ्प् 10.8.46-7]
ययोः प्रसन्नोऽवतीर्णस् तौ पितराव् अपि । तद् एवं प्रश्नम् अवधार्य श्री-
शुक उवाच -
द्रोणो वसूनां प्रवरो धरया भार्यया सह ।
करिष्यमाण आदेशान् ब्रह्मणस् तम् उवाच ह ॥ [भ्प् 10.8.48]
आदेशान् गो-पालनादि-लक्षणान् । किम् उवाच तद् आह --
जातयोर् नौ महादेवे भुवि विश्वेश्वरे हरौ ।
भक्तिः स्यात् परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥ [भ्प् 10.8.49]
(पगे 74)
स्पष्टम् । ततश् च --
अस्त्व् इत्य् उक्तः स एवेह व्रजे द्रोणो महा-यशाः ।
जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥
ततो भक्तिर् भगवति पुत्री-भूते जनार्दने ।
दम्पत्योर् नितराम् आसीद् गोप-गोपीषु भारत ॥ [भ्प् 10.8.50-51]
अन्येषां यः पुत्रो नासीत् तस्मिंस् तु तयोः पुत्रतां प्राप्त इति च्वि-
प्रत्ययार्थः । भक्ति-विशेष-मात्रेणैवोदय-विशेष-नियमात् ।
वात्सल्याभिध-प्रेम-विशेषेणैव श्री-कृष्णः पुत्रतयोदेति, न तु स्व-
देहादाव् आविर्भावेन, हिरण्यकशिपु-सभा-स्तम्भे श्री-नृसिंहस्य ब्रह्मणि
श्री-वराहस्य च पितृत्वाप्रयोगात् । न च गर्भ-प्रवेशेन परीक्षिद्-
रक्षणार्थं तत्-प्रविष्टस्यापि तस्योत्तरा-मातृत्वाश्रवणात् । तादृश-प्रेमा
तु शुद्धः समुद्रिक्तश् च श्री-व्रजेश्वरयोर् एव । अतएव गर्भ-
प्रवेशादिकं विनापि तयोः पुत्रतया तस्य प्रसिद्धिः । यथा नन्दस् त्व्
आत्मज उत्पन्न [भ्प् 10.5.1] इत्य् आदौ, तथोपासना च यथा - सकल-लोक-
मङ्गलो नन्द-गोप-तनयः इत्य् आदौ । न त्व् एवं स्तम्भादेः ।
किं च - श्रीमद् आनकदुन्दुभि-प्रभृतिष्व् आविर्भावोऽपि न प्राकृतवत्
तदीय-चरम-धात्व्-आदौ प्रवेशः । किं तर्हि, सच्-चिद्-आनन्द-विग्रहस्य
तस्य तन्-मनस्य् आवेश एव । तद् उक्तम् --
ततो जगन्-मङ्गलम् अच्युतांशं
समाहितं शूर-सुतेन देवी ।
दधार सर्वात्मकम् आत्म-भूतं
काष्ठा यथानन्द-करं मनस्तः ॥ [भ्प् 10.2.18] इति ।
ततः श्री-नारद-प्रह्लाद-ध्रुवादिषु दर्शनात् सर्व-सम्मतत्वात् तादृश-
प्रेम-विषयत्वेन साक्षात् श्री-भगवद्-आविर्भावाव्यवहित-पूर्व-प्रचुर-
कालं व्याप्य सन्ततस् तद्-आवेशः श्री-व्रजेश्वरयोर् अप्य् अवश्यम् एव
कल्प्यते । ब्रह्म-वर-प्रार्थनयापि तद् एव लभ्यत इति समान एव
पन्थाः । वात्सल्यं त्व् अत्राधिकं, येन विना तस्य पुत्र-भावो न
सम्भवतीत्य् अत्रैव पुत्रतां मन्यामह इति पुत्रीभूत इत्य् अस्य भावः ।
इदं प्रकटायाम् एव लीलायां समाहितम्, अप्रकटायां तु तयोर् नित्य-
सिद्धत्वे एव पुरतोऽवधारयिष्यमाणे लक्ष्मी-विष्णोर् अनादितया आदि-रस-
सिद्ध-दाम्पत्यवत् श्री-व्रजेश्वरयोस् तस्य चानादितो वत्सल-रस-सिद्ध-पितृ-
पुत्र-भावो विद्यत एव । अतः पुत्र-भूत इति च क्वचित् पाठः ।
[वृ. अद्द्स् हेरे: प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [भ्प् 10.8.14] इत्य्
अत्र सत्य-वचसः श्री-गर्गस्याप्य् अयम् अभिप्रायः । श्री-देवक्यां उपसंहर
विश्वात्मन्न् अदो रूपम् अलौकिकम् [भ्प् 10.3.30] इति प्रार्थितवत्यां श्री-
भगवान् श्री-देवकी-मनसि स्फुरित-चरं सम्प्रति बहिश् चाविर्भूतं
चतुर्भुजत्वम् अन्तर्भाव्य श्री-व्रजेश्वरी-मनसि स्फुरितं द्विभुजत्वं
तत्राविर्भावितवान् । तस्यास् त्वरया मनसि स्फूर्ति-भेदश् च तथा
तथाविर्भाव-भेदाद् गम्यते । फलेन फल-कारणम् अनुमीयते इति । एन्द्
वृ. अद्दितिओन्.]
अतएव - न ह्य् अस्यास्ति प्रियः कश्चिद् [भ्प् 10.46.37] इत्य् आदि प्रकरणे, --
युवयोर् एव नैवायम् आत्मजो भगवान् हरिः ।
सर्वेषाम् आत्मजो ह्य् आत्मा पिता माता स ईश्वरः ॥ [भ्प् 10.46.42]
इत्य् एतत् श्री-व्रजेश्वरौ प्रति श्रीमद्-उद्धव-वाक्यं तद्-औदासीन्य-
प्रकटनेनापात-सान्त्वन-मात्र-तात्पर्यक-बाह्यार्थम् अपि वास्तवम्
अर्थं त्व् एवं वहति । पूर्वोक्त-प्रकारेणायं प्रियाप्रियादि-मातापित्रादि-
(पगे 75)-रहितोऽपि भगवान् हरिः यः सोऽयं कृष्ण-रूपत्वेन विशेषाकारः
सन् युवयोर् एवात्मजो नैव सर्वेषाम् । स एवेश्वर-रूपत्वेन सामान्याकारस्
तु सर्वेषाम् आत्मजादि-सर्व-रूपः स्यात् । किन्तु परत्र मायामयत्वात्
नास्माकम् आदरः । पूर्वत्र तु मुमुक्षु-मुक्त-भक्त-श्लाघ्य-
प्रेममयत्वाद् अत्यादर इति भावः । तथोक्तं प्राग् एव --
तयोर् इत्थं भगवति कृष्णे नन्द-यशोदयोः ।
वीक्ष्यानुरागं परमं नन्दम् आहोद्धवो मुदा ॥
युवां श्लाघ्यतमौ नूनं देहिनाम् इह मान-द ।
नारायणे ऽखिल-गुरौ यत् कृता मतिर् ईदृशी ॥ [भ्प् 10.46.29-30] इति ।
तथा --
स पिता सा च जननी यौ पुष्णीतां स्व-पुत्र-वत् ।
शिशून् बन्धुभिर् उत्सृष्टान् अकल्पैः पोष-रक्षणे ॥ [भ्प् 10.45.22]
इति श्री-व्रजेश्वरं प्रति श्री-कृष्ण-रामाभ्यां सान्त्वनं च । श्री-रामस्यैव
पर-पुत्रम् अपेक्ष्येति ज्ञेयम् । यथोक्तं तत्रैव तेन -
यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् ।
ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ [भ्प् 10.45.23] इति ।
द्रष्टुम् एष्यामः । मम तत्रागमनस्य भवद्-दर्शनम् एव पुरुषार्थ
इत्य् अनेन युष्मान् अपश्यन्त एव स्थास्याम इत्य् अर्थः ।
[वृ. अद्दितिओन्: यद् वा तथापि भूमन् महिमा-गुणस्य ते विबोद्धुम् अर्हति
[भ्प् 10.14.6] इत्य् अत्र विबोद्धुं बोध-गोचरी-भवितुम् इतिवद् द्रष्टुं
दर्शन-गोचरी-भवितुम् इत्य् अर्थः । तत्र हेतुः - ज्ञातीन् इति । एन्द् वृ.
अद्दितिओन्.]
तस्माद् अनयोर् एव मुख्यं पुत्रत्वं श्री-कृष्णे विराजते इति सिद्धम् ।
प्रकृतम् अनुसरामः । गोप-गोपीनाम् अपि तस्मिन् प्रेमासीद् एव । दम्पत्योस्
तयोस् तु तास्व् अपि नितराम् आसीद् इति । उपसंहरति --
कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः ।
सह-रामो वसंश् चक्रे तेषां प्रीतिं स्व-लीलया ॥ [भ्प् 10.8.52]
स्वेषु भक्त-जन-विशेषेषु या लीला तद्-भक्ति-विशेष-वश-लीला-विशेषस् तयैव
तेषां सर्वेषाम् अपि प्रीतिं चक्रे । द्वाव् अपि तौ प्रति तेन वर-दानाद् इति
भावः । यद्यप्य् एवं तथापि ब्रह्मण आदेशं सत्यं कर्तृ महद्-आशीर्
अन्यथा न स्याद् इति दर्शयितुम् अपीत्य् अर्थः । यद् वा स्व-लीलया तेषां प्रीतिं
कर्तुं व्रजे वसन् ब्रह्मण आदेशं सत्यं चक्रे । तद् अनुषङ्गतः स्वयम्
आदृत्य सर्वत्राव्यभिचारिणं चकारेति ।
॥ 10.8 ॥ श्री-शुकः ॥ 146-150 ॥
[151-152]
तद् एतत् कारणं तद्-आभासम् एव मन्यमानस् तयोर् ब्रह्मादिभ्योऽपि
सौभाग्यातिशयस्य ख्यापनार्थम् अनन्तरम् एव एकदा गृह-दासीषु [भ्प्
10.9.1] इत्य् आद्य्-अध्यायम् आरब्धवान् । तत्रैव च साक्षाच् छ्री-भगवद्-

बन्धन-रूप-महा-वशीकरण-कारण-वात्सल्यम् अपि विदितं, तेन
ब्रह्मणोऽपि शिव-लक्ष्मीभ्याम् अपि दुर्लभं भगवत्-प्रसाद-भरम् आह
नेमं विरिञ्चो न भवो न श्रीर् अप्य् अङ्ग-संश्रया ।
प्रसादं लेभिरे गोपी यत् तत् प्राप विमुक्तिदात् ॥ [भ्प् 10.9.20]
स आदिदेवो जगतां पुरो गुरुर् [भ्प् 2.9.5] इत्य् उक्तेः विरिञ्चिस् तावद् भक्तादि-
गुरुः । (पगे 76) स च भवस् तु वैष्णवानां यथा शम्भुः [भ्प् 12.13.16]
इत्य् आदि-दर्शनात् ततोऽप्य् उत्कर्षवान् । सा च श्रीस् तु तयोर् अपि भगवद्-भक्ति-
शिक्षा-निदर्शन-प्रथम-रूपत्वात् परमोत्कर्षवती । तद् एवम् उत्तरोत्तर-
विन्यासेन यथोत्तर-महिमानं सूचयित्वा श्रीस् तु न केवलं भक्ति-मात्रेण
तादृश्य् एव । किं तर्हि परम-सख्येन ततोऽप्य् अनिर्वचनीय-माहात्म्येत्य्
आह । अङ्ग-संश्रयेति । एवंभूतापि सा च प्रसादं लेभिरे एव । कस्मात् ?
विमुक्तिदात् -
अस्त्व् एवम् अङ्ग भजतां भगवान् मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् । [भ्प् 5.6.18]
इत्य् उक्त-रीत्या प्रायो विमुक्तिम् एव ददाति न तु तथाभूतं प्रसादं, तस्मात्
श्री-भगवत एव किन्तु गोपी श्री-गोपेश्वरी यत् तद् अनिर्वचनीयं प्रसाद-
शब्देनापि वक्तुं शङ्कनीयं, तस्मात् प्राप, तद्-रूप-प्रसादं विरिञ्चिश् च
भवश् च श्रीश् च न लेभिरे न लेभिरे ने लेभिरे इत्य् अर्थः । लेभिरे इत्य् अस्य
प्रत्येकं नञ्-त्रयेणान्वयः । नञस् त्रिर्-आवृत्तिश् च निषेधस्यातिशयार्था ।
पूर्वोत्तराध्याय-द्वये श्र्-बादरायणेर् विवक्षितम् इदम् । द्रोण-धरयोस्
तावत् साधारण-देवतात्वं चेत् तर्हि तयोः श्री-शिवादि-दुर्लभ-
चरणारविन्द-स्फूर्ति-लेशस्य श्री-कृष्णस्य तथा प्राप्तौ स्वतः सम्भावना
नास्ति । न च तयोस् तादृश-गाढ-भजनादिकं कुत्रचिद् वर्ण्यते । अन्यथा तद्
एवाहम् आख्यास्यम् । न च ताभ्यां यद् ईदृशं फलं लब्धं तद् ब्रह्मणि
पूर्वं प्रार्थितं, किन्तु दुर्गति-तरण-हेतुत्वेनोत्तम-भक्ति-मात्रम् । न
च ब्रह्मापि श्री-कृष्णस्य महा-भक्तैर् अपि दुर्लभ-पुत्रत्वादिकं विशिष्य
ताभ्यां वरं दत्तवान् । न च नेमं विरिञ्चिः इत्य् आदिनोच्यमान-तादृश-
प्रसादाप्ति-राहित्यस्य ब्रह्मणो वरस् तादृश-फल-दाने भवति समर्थः ।
वक्ष्यते च तत्-प्रसादाप्ति-राहित्यातिशयः । तद् भूरि-भाग्यम् इह जन्म किम्
अप्य् अटव्यां यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् [भ्प् 10.14.34] इत्य्
आदिना । तस्मात् तयोस् तादृश-महोदये कारणं नास्ति किन्तु निष्कारणत्वेन
तयोर् नित्याम् एव तादृशीं स्थितिं विज्ञाय मया श्री-भगवल्-लीलयैव [वृ.
अद्द्स्: स्व-भक्ति-विशेष-प्रचार-कारणक-श्री-भगवद्-इच्छयैव एन्द्
अद्दितिओन्.] द्रोण-धरा-रूपेणांशेनैवावतीर्णयोर् ऐक्य-विवक्षया यथा
कथञ्चित् कारणाभास एवोपन्यस्त इति । किं च श्रीमद्-भागवतेऽस्मिन् श्री-
भगवत्-प्रेमैव सर्व-पुरुषार्थ-शिरोमणित्वेनोद्घुष्यते । तस्य च
परमाश्रय-रूपं श्री-गोकुलम् एव । तत्रापि श्री-व्रजेश्वरौ । ततस् तत्
परमाश्रय-नित्यत्वे सिद्ध एव तादृश-ग्रन्थ-प्रयत्नः सकलः स्यात् । यत
एव श्री-ब्रह्मादिभिस् तत्र यत् किञ्चिज् जन्म प्रार्थ्यते इति । तस्मात् स्वाभाविक्य्
एव तयोस् तादृशी स्थितिर् इति प्रतिपादयंस् तत्-सम्बन्धेनैव भजतां
सुखापो नान्येषाम् इत्य् आह --
नायं सुखापो भगवान् देहिनां गोपिका-सुतः ।
ज्ञानिनां चात्म-भूतानां यथा भक्तिमताम् इह ॥ [भ्प् 10.9.21]
सुखेनाप्यत इति सुखापः । अयं श्री-गोपिका-सुतः भगवान् देहिनां
देहाभिमानिनां तप-आदिना न सुखापः न सुलभः किन्तु तैर् अतिचिरेणैव
तेन शुद्धेऽन्तःकरणे कथञ्चिद् (पगे 77) भक्तावलोकन-लेशेन जात-सद्-
बुद्धिभिस् तद् एव तप-आदिकं तस्मिन्न् अर्पयद्भिः कथञ्चिद् एवासौ
लभ्यते । तथा आत्म-भूतानाम् आविर्भूताद्वैत-वृत्तीनां निवृत्त-
देहाभिमानानां ज्ञानिनाम् अपि तादृशेन ज्ञानेन न सुखापः किन्तु
पूर्वेणैव करणेन जात-तद्-आसत्तिभिस् तेन ज्ञानेन यद् ब्रह्म स्फुरति तद्
एवायम् इति चिन्तयद्भिस् तैः कथञ्चिद् एवासौ लभ्यते । ततश् च द्वयोर् अपि
तयोः साधनयोर् हीनत्वात् तल्-लाभश् च न साक्षात् किन्तु केनचिद् अंशेन
व्यञ्जितम् ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः [गीता 12.4],
क्लेशोऽधिकतरस् तेषाम् अव्यक्तासक्त-चेतसाम् [गीता 12.5] इति श्री-भगवद्-
उक्तेः । शाब्दे परे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनम् अलं
विचक्ष्व [भ्प् 1.5.7] इति श्री-व्यास-प्रश्नानन्तरात् ।
भवतानुदित-प्रायं यशो भगवतो ऽमलम् ।
येनैवासौ न तुष्येत मन्ये तद् दर्शनं खिलम् ॥ [भ्प् 1.5.8]
इति श्री-नारद-प्रतिवचनाच् च । सुखापस् तु केषाम् इत्य् अपेक्षायां
निदर्शनम् आह - इह गोपिका-सुते भक्तिमतां यथा [वृ एदितिओन् हेरे अद्द्स्:
तथा च श्री-ब्रह्मोक्तिः - ज्ञाने प्रयासम् उदपास्य [भ्प् 10.14.3] इत्य् आदि, श्री-
नारदोक्तिश् च यजते यज्ञ-पुरुषं स सम्यग्-दर्शनः पुमान् [भ्प् 1.5.38]
इति । वृ अद्दितिओन् एन्द्स्.] सुखाप इति श्री-गोपिकायास् तु सुखाप इति किं
वक्तव्यम् । तस्याः सुत एवायं भगवान् इत्य् अतो गोपिका-सुत इति विशेषणं
दत्तम् ।
सुखम् आपयतीति वा सुखापः । यतश् चायं न देहाभिमानिनां सुखापः
यतो गोपिकासुतस् तत्-सुतत्व-लीलायाः स्व-साधारण-दृष्ट्यानादरात् । तथा
ज्ञानिनाम् अपि न सुखापः यतो गोपिकासुतः सर्वात्मैक-वृत्त्य्-उदयेन
भगवत्-स्वरूपानन्द-वैचित्री-सारोपरिचर-तल्-लीला-तत्त्वानुभवात् । यथेह
श्री-गोपिका-सुते भक्तिमताम् इति निदर्शनम् ।
सुखेनाप्यते ज्ञायते इति वा सुखापः सुबोधः । ततश् चायं
देहाभिमानिभिस् [वृ. अद्दितिओन्] तर्कादिना न सुबोधः । तथा ज्ञानिभिर् अपि
ज्ञानेन न सुबोधः । तत्र पूर्ववद् धेतुर् गोपिका-सुत इति । देहेभिः
देहाभिमानिभिर् अपि । [एन्द् वृ. अद्दितिओन्] तत्-तद्-अलौकिक-कर्म-लिङ्गकात्
तर्कात् ज्ञानिभिर् अप्य् अनावृत-ब्रह्मत्वावगमात् सुबोध एव । सत्यं तथापि
यथेह श्री-गोपिका-सुते भक्तिमद्भिः सुबोधस् तथा न । ते हि श्री-कृष्ण-
भक्ताः स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य् अभावोऽप्य् अजित-रुचिर-
लीलाकृष्ट-सारः [भ्प् 12.12.69] इत्य् आदि-दर्शनात् तादृश-लीलानुभवस्यैव
परम-पुरुषार्थत्वम् अवगच्छन्तीति भावः । अत्रार्थ-त्रयोऽपीह-पदेन
श्री-परव्योम-नाथादि-भक्तिमन्तोऽपि व्यावृत्ताः । गोपिका-सुत इति विशेषणेन
च त्रैकालिक-तद्-भक्तानां तत्-सम्बन्धि-सुखापत्वं प्रति तत्-सुतत्वायोग-
तद्-अन्यत्व-योगौ व्यवच्छिद्येते । इत्य् अतो विद्वद्-अनुभव-याथार्थ्येन नित्य
एव तत्-सम्बन्धो विवक्षितः । (पगे 78)
अतएवायं गोपिका-सुत इति स्वयम् अपि साक्षाद् अङ्गुल्या निर्दिश्यते । तस्माद् अपि
साधूक्तं नित्य एव श्री-व्रजेश्वरयोस् तत्-सम्बन्ध इति । अत्र एकदा गृह-
दासीषु [भ्प् 10.9.1] इत्य् आदिकम्, नेमं विरिञ्चः [भ्प् 10.9.20] इत्य् आदि पद्य-
द्वयान्तम् इदम् उत्तर-वाक्यं, द्रोणो वसूनां प्रवरः [भ्प् 10.8.48] इत्य्

आदिकस्य पूर्व-वाक्यस्य बाधकत्वेनैवोक्तं, पूर्व-विरोध-धर्मान्तर-
प्रतिपादनाद् अयुक्तत्वाच् च पूर्वस्य असद्-व्यपदेशान् नेति चेन् न
धर्मान्तरेण वाक्य-शेषाद् [व्स् 2.1.17] इतिवत् । तत्र च यथिवासच्-छब्दस्य
गत्य्-अन्तरं चिन्त्यते तथात्रापि । तच् च पूर्वम् एव दर्शितं
पूर्वोत्तराध्याय-द्वये बादरायणे विवक्षितम् इदम् आरभ्य प्रकरणेन ।
॥ 10.8 ॥ श्री-शुकः ॥ 151-152 ॥
[153]
तद् एवं श्रुति-पुराणादि-निगमोक्त्य्-अनुसारेण श्री-कृष्णस्य
नित्याभिव्यक्तित्वं द्वारकादिषु नित्य-विहारित्वं नित्य-यादवादि-परिकरत्वं
च दर्शितम् । इत्थम् एव च कृष्णस् तु भगवान् स्वयम् इति सुसिद्धम् ।
अथाशङ्कते - यदि नित्यम् एव तथाविधः श्री-कृष्णाख्यः स्वयं भगवान्
तत्र तत्र एतैर् निज-परिकरैः सार्धं विहरति तर्हि ब्रह्मादि-प्रार्थनया
श्री-नारायण एतावततारेति श्रूयते । तस्य यदि श्री-कृष्णे प्रवेशः तर्हि च
कथं नित्यम् एव द्वारकादिषु विराजमानं स्वयं भगवन्तं परित्यज्य
ते तस्मै निवेदयितुं गताः । कथं वा जन्मादि-लीलया क्रमेण मथुरां
गोकुलं पुनर् मथुरां द्वारकां च त्यक्त्वा वैकुण्ठम् आरूढवान् इति ।
अत्रेदम् उच्यते -- यो द्वारकादौ नित्यं विहरति स श्री-कृष्णाख्यः स्वयं
भगवान् परात्परो ब्रह्मादिष्व् अप्रकट एव प्रायशः । यस् तु क्षीरोदादि-
लीला-धामा नारायणादि-नामा पुरुषः स एव विष्णु-रूपः साक्षाद् वा
निजांशेन वा तेषु प्रकटः सन् ब्रह्माण्ड-पालनादि-कर्तेत्य् उक्तम् एव ।
तत्र ब्रह्माण्डाधिकारिणो ब्रह्मादयोऽपि ब्रह्माण्ड-कार्यं तस्मा एव
निवेदयितुम् अर्हन्ति । ततस् तदापि तस्मा एव पृथिवी-भारावताराय
निवेदितवन्तः । अनन्तरं सोऽपि पुरुषस् तान् प्रति केश-दर्शनेन स यावद्
उर्व्यां भरम् ईश्वरेश्वरः [भ्प् 10.1.22] इत्य् आदि-वाक्येन च स्वयं
भगवत एवावतार-समयोऽयम् इति सूचयित्वा स्वयम् अप्य् अवतितीर्षां चकार ।
सा चावतितीर्षा पूर्व-युक्त्या प्रकटीभवति स्वयं भगवति प्रवेशायैव ।
तदेदं वैकुण्ठाद्य्-आरोहणम् अपि तत्-तद्-अंशेनैव । स्वयं तु तत्र तत्रैव
पुनर् निगूढं लीलायते । अत्रोदाहृतं तन्त्र-भागवतादि-वाक्यं वाराहादि-
वाक्यं चानुसन्धेयम् । उदाहरिष्यते च नित्यं सन्निहितस् तत्र भगवान्
मधुसूदनः [भ्प् 11.31.24] इत्य् आदिकम् । एष चाभिसन्धिर् न सर्वैर्
एवावबुध्यतेति ।
यथ स्व-स्व-दृष्टम् एव मुनिभिस् तादृग् वर्ण्यते । यथा समुद्र-तीर-स्थ-
दृष्ट्यैव अद्भुतो वा एष प्रातर् उदेत्य् अपः सायं प्रविशति इति श्रुतिः ।
प्रवर्तते न तु वस्तुत इति प्राञ्चः । यदि तत्र सुमेरु-परिक्रमादि-
वाक्येनान्यथा गतिः क्रियते तदात्रापि स्वयं भगवत्ता-नित्य-विहारितादि-
प्रतिपादक-वाक्येन कथं नाम न क्रियताम् । तथा मथुरादि-
परित्यागाद्य्-उक्तिर् अवतारे प्रापञ्चिक-जन-प्रकट-लीलापेक्षयैव । तद्-
अप्रकटा तु लीला नित्यम् एव विद्यते एव । तस्मान् नित्यत्वेन
जन्मादिमयत्वेन च लीला-प्रतिपादकानां वाक्यानां समन्वय-स्वारस्याद्
इदं लभ्यते । यथा य एव श्री-कृष्णस् तत्र तत्र नित्यम् अप्रकटो विहरति
स एव स्वयं जन्मादि-लीलया प्रकटो भवति । तत्र नारायणादयोऽपि
प्रविशन्तीति सर्वं शान्तम् ।
तद् एवं तत्र श्री-कृष्ण-लीला द्विविधा अप्रकट-रूपा प्रकट-रूपा च ।
प्रापञ्चिक-लोकाप्रकटत्वात् तत्-प्रकटत्वाच् च । तत्राप्रकटा -
(पगे 79)
यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः ।
रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [ग्तु 2.36] इति ।
मथुरा-तत्त्व-प्रतिपादक-श्री-गोपाल-तापन्य्-आदौ - चिन्तामणि-प्रकर-
सद्मसु-कल्प-वृक्ष [भ्प् 5.40] इत्य् आदि वृन्दावन-तत्त्व-प्रतिपादक-ब्रह्म-
संहितादौ च प्रकट-लीलातः किञ्चिद् विलक्षणत्वेन दृष्टा, प्रापञ्चिक-लोकैस्
तद्-वस्तुभिश् चामिश्रा, कालवद्-आदि-मध्यावसान-परिच्छेद-रहित-स्व-
प्रवाहा, यादवेन्द्रत्व-व्रज-युवराजत्वाद्य्-उचिताहरहर्-महा-
सभोपवेश-गोचारण-विनोदादि-लक्षणा । प्रकट-रूपा तु श्री-विग्रहवत्
कालादिभिर् अपरिच्छेद्यैव सती भगवद्-इच्छात्मक-स्वरूप-शक्त्यैव
लब्धारम्भ-समापना प्रापञ्चिकाप्रापञ्चिक-लोक-वस्तु-संवलिता तदीय-
जन्मादि-लक्षणा ।
तत्राप्रकटा द्विविधा । मन्त्रोपासनामयी स्वारसिकी च । प्रथमा यथा
तत्-तद्-एकतर-स्थानादि-नियत-स्थितिका तत्-तन्-मन्त्र-ध्यान-मयी । यथा
बृहद्-ध्यान-रत्नाभिषेकादि-प्रस्तावः क्रम-दीपिकायाम् । यथा वा --
अथ ध्यानं प्रवक्ष्यामि सर्व-पाप-प्रणाशनम् ।
पीताम्बर-धरं कृष्णं पुण्डरीक-निभेक्षणम् ॥ इत्य् आदि गौतमीय-
तन्त्रे ।
यथा वा -
वेणुं क्वणन्तम् अरविन्द-दलायताक्षम्-
बर्हावतंसम् असिताम्बुद-सुन्दराङ्गम् ।
कन्दर्प-कोटि-कमनीय-विशेष-शोभं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥
आलोल-चन्द्रक-लसद्-वनमाल्य-वंशी-
रत्नाङ्गदं प्रणय-केलि-कला-विलासम् ।
श्यामं त्रि-भङ्ग-ललितं नियत-प्रकाशं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ब्रह्म-संहितायाम् [5.39-40] ।
होमस् तु पूर्ववत् कार्यो गोविन्द-प्रीतये ततः इत्य्-आद्य्-अनन्तरं -
गोविन्दं मनसा ध्यायेत् गवां मध्ये स्थितं शुभम् ।
बर्हापीडक-संयुक्तं वेणु-वादन-तत्-परम् ॥
गोपी-जनैः परिवृतं वन्य-पुष्पावतंसकम् ॥ इति बोधायन-कर्म-विपाक-
प्रायश्चित्त-स्मृतौ ।
तद् उ होवाच हैरण्यो गोप-वेशम् अभ्राभं तरुणं कल्प-द्रुमाश्रितम् ।
तदिह श्लोका भवन्ति --
सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् ।
द्वि-भुजं मौन-मुद्राढ्यं वनमालिनमीश्वरम् ॥
गोप-गोपी-गवावीतं सुर-द्रुम-तलाश्रितम् ।
दिव्यालङ्करणोपेतं रक्त-पङ्कज-मध्यगम् ॥
कालिन्दी-जल-कल्लोल-सङ्गि-मारुत-सेवितम् ।
चिन्तयंश् चेतसा कृष्णं मुक्तो भवति संसृतेः ॥
इति श्री-गोपाल-तापन्याम् [1.11-15] - गोविन्दं गोकुलानन्दं सच्-चिद्-आनन्द-
विग्रहम् [ग्तु 1.37] इत्य् आदि च ।
या तु तत्-तत्-कामनात्मक-प्रयोग-मयी पूतना-वधादि-रूपा यद्-यद्-
धिया त उरुगाय विभावयन्ति तत्-तद्-वपुः प्रणयसे सद्-अनुग्रहाय [भ्प्
3.9.11] इत्य् उक्तानुसारेणाद्यापि साधक-हृदि कदाचित् साम्प्रतीव स्फुरति सा
खलु मन्त्रोपासनामयीत्वेऽपि स्वारसिक्याम् एव पर्यवस्यति अतीतत्वेन
सर्वत्र निर्दिष्टत्वात् ।
अथ स्वारसिकी च यथोदाहृतम् एव स्कान्दे --
वत्सैर् वत्सतरीभिश् च सदा क्रीडति माधवः ।
वृन्दावनान्तरगतः स-रामो बालकैः सह ॥ इत्य् आदि ।
तत्र च-कारात् श्री-गोपेन्द्रादयो गृह्यन्ते । राम- (पगे 80) -शब्देन रोहिण्य्
अपि । तथा तेनैव क्रीडतीत्य् आदिना व्रजागमन-शयनादि-लीलापि । क्रीडा-
शब्दस्य विहारार्थत्वाद् विहारस्य नाना-स्थानानुसारण-रूपत्वाद् एक-
स्थान-निष्ठाया मन्त्रोपासनामय्या भिद्यतेऽसौ । यथावसर-विविध-
स्वेच्छामयी स्वारसिकी । एवं ब्रह्म-संहितायाम् --
चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-
लक्षावृतेषु सुरभिर् अभिपालयन्तम्
लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं

गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्रह्मस् 5.28] इति ।
अत्र कथा गानं नात्यं गमनम् अपि वंशी [ब्रह्मस् 5.52] इत्य्
अत्रानुसन्धेयम् । तत्र नाना-लीला-प्रवाह-रूपतया स्वारसिकी गङ्गेव ।
एकैक-लीलात्मतया मन्त्रोपासनामयी तु लब्ध-तत्-सम्भव-ह्रद-श्रेणिर्
इव ज्ञेया । किं च मन्त्रोपासनामय्याम् अपि व्रज-राजादि-सम्बन्धः श्रूयते
किम् उत स्वारसिक्याम् इति न कुत्रापि तद्-रहितता कल्पनीया । तद् एतत् सर्वं
मूल-प्रमाणेऽपि दृश्यते । तत्र प्रकट-रूपा विस्पष्टैव ।
अथाप्रकटायां मन्त्रोपासना-मयीम् आह --
मां केशवो गदया प्रातर् अव्याद्
गोविन्द आसङ्गवम् आत्त-वेणुः । [भ्प् 6.8.2] इति ।
आत्त-वेणुर् इति विशेषेण गोविन्दः श्री-वृन्दावन-मथुरा-प्रसिद्ध-महा-
योग-पीठयोस् तन्-नाम्नैव सहितौ प्रसिद्धौ । तौ च तत्र तत्र
प्रापञ्चिक-लोक-दृष्ट्यां श्रीमत्-प्रतिमाकारेणाभातः स्वजन-दृष्ट्यां
साक्षाद्-रूप-वृन्द-प्रकरण एव एतौ पठितौ । ततश् च नारायण-
वर्माख्य-मन्त्रोपास्य-देवतात्वेन (श्री-गोपाल-तापन्यादि-प्रसिद्ध-
स्वतन्त्र-मन्त्रान्तरोपास्य-देवतात्वेन) च मन्त्रोपासना-मय्याम् इदम्
उदाहृतम् ॥
॥ 6.8 ॥ विश्वरूप इन्द्रम्

5.154

[154]
वक्ष्यमाण-भगवद्-अभिप्रायानुसारेण स्पष्टार्थत्वेन च वस्तुतः
स्वारसिकीम् आह -
मा खिद्यतं महा-भागौ द्रक्ष्यथः कृष्णम् अन्तिके ।
अन्तर् हृदि स भूतानाम् आस्ते ज्योतिर् इवैधसि ॥ [भ्प् 10.46.36]
हे महा-भागौ श्री-व्रजेश्वरौ मा खिद्यतं यतः श्री-कृष्णं
द्रक्ष्यथः । कथं यतः सोऽन्तिक एवास्ते । तस्यान्तिक-स्थितेर् अव्यभिचारे
दृष्टान्तः । भूतानाम् अन्तर्-हृदि परमात्म-लक्षणं ज्योतिर् इव एधसि
चाग्नि-लक्षणं ज्योतिर् इवेति । तत्र निरन्तरस् तत्-स्फूर्तिर् एव भवतां
प्रमाणम् इति भावः । अर्थान्तरे तूत्तरार्धस्य हेतुत्वास्पष्टत्वात्
परमात्म-रूपेणान्तर्हृदि-स्थितस्यापि दर्शनानियमात् ।
॥ 10.46 ॥ उद्धवः श्री-व्रजेश्वरीम्

5.167

[155]
एवं श्री-भगवान् उवाच - भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् ॥
[भ्प् 10.47.29]
ये मया सह भवतीनां योऽयं वियोगः स सर्वात्मना सर्वेणापि प्रकाशेन
न विद्यते । किं तर्ह्य् एकेन प्रकट-लीलायां विराजमानेन प्रकाशेन
वियोगः । अप्रकट-लीलायां त्व् अन्येन (पगे 81) प्रकाशेन संयोग एवेत्य्
अर्थः । अत्रैतद् उक्तं भवति न चान्तर् न बहिर् यस्य इत्य् आदि दामोदर-लीला-
प्रघट्टक-दृष्ट्या मृद्-भक्षण-लीलादौ श्री-व्रजेश्वर्य्-आदीनां
तथानुभूत्या च श्री-विग्रहस्य मध्यमत्व एव विभुत्वं दृश्यते । तच् च
परस्पर-विरोधि-धर्म-द्वयम् एकत्राचिन्त्य-विभुत्व-शक्तिमति तस्मिन्न्
आसम्भवं श्रुतेस् तु शब्द-मूलत्वाद् इत्य् एतन् न्यायेन इत्य् एवं भगवत्-
सन्दर्भे प्रघट्टकेन विवृतम् अस्ति ।
तद् एवं विभुत्वे सति युगपद् अनेक-स्थानाद्य्-अधिष्ठानार्थं रूपान्तर-
सृष्टिः पिष्ट-पेषिता । किन्तु युगपन्-मध्यमत्व-विभुत्व-प्रकाशिकया
तथैवाचिन्त्य-शक्त्या तद्-इच्छानुसारेणैक एव श्री-विग्रहोऽनेकधा
प्रकाशते । बिम्ब इव स्वच्छोपाधिभिः । किन्तु अत्रोपाधि-मात्र-जीवनत्वेन
साक्षात् स्पर्शाद्य्-अभावेन वैपरीत्योदय-नियमेन बिम्बस्य
परिच्छिन्नत्वेन च प्रतिबिम्बत्वम् । अत्र तु स्वाभावैक-शक्ति-स्फुरितत्वेन
साक्षात्-स्पर्शादि-भावेन यथेच्छम् उदयेन श्री-विग्रहस्य विभुत्वेन च
बिम्बत्वम् एवेति विशेषः । एवम् एव सर्वेषाम् अपि प्रकाशानां पूर्णत्वम्
आह श्रुतिः -
पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णम् उदच्यते ।
पूर्णस्य पूर्णम् आदाय पूर्णम् एवावशिष्यते ॥ [बौ 6.5.4] इति ।
तत्र च तेषां प्रकाशानां तथैवाचिन्त्य-शक्त्या पृथक् पृथग् एव क्रियादीनि
भवन्ति । अतएव युगपद् आविर्भूतानां प्रकाश-भेदावलम्बिनीनां
निमेषोन्मेषणादि-क्रियाणाम् अविरोधः । अतएव विभोर् अपि परस्पर-
विरुद्ध-क्रिया-गणाश्रयस्यापि तत्-तत्-क्रिया-कर्तृत्वं यथार्थम् एव । तद्-
यथार्थत्वे बहुशः श्री-भागवतादि-वर्णितं विदुषां तु तद्-उद्भवं
सुखं नोपपद्यत इति तद्-अन्यथानुपपत्तिश् चात्र प्रमाणम् । इत्थम्
एवाभिप्रेत्य श्री-नारदेन चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् [भ्प्
10.69.1] इत्य् आदौ वपुषा एकत्वेऽपि पृथक्-प्रकाशत्वं तेषु प्रकाशेषु पृथक्
पृथक् क्रियाधिष्ठानादित्वं तादृश-शक्तिस् त्व् अन्यत्र मुनि-जनादौ न
सम्भवतीति स्वयं चित्रत्वं चोक्तम् । एष एव प्रकाशः क्वचिद् आत्म-
शब्देनोच्यते क्वचिद् रूपादि-शब्देन च । यथा तत्रैव न हि सर्वात्मना
क्वचिद् इति, अन्यत्र कृत्वा तावन्तम् आत्मानम् [भ्प् 10.33.19] इति, तावद्-रूप-
धरोऽव्ययः [भ्प् 10.59.42] इति, कृष्णेनेच्छा-शरीरिणा [भ्प् 10.30.40] इति च ।
तत्र नाना-क्रियाद्य्-अधिष्ठानत्वाद् एव लीला-रस-पोषाय तेषु प्रकाशेष्व्
अभिमान-भेदं परस्परम् अननुसन्धानं च प्रायः स्वेच्छयोरीकरोतीत्य्
अपि गम्यते । एवं तच्-छक्तिमयत्वात् तत्-परिकरेष्व् अपि ज्ञेयम् । तत्र तेष्व्
अपि प्रकाश-भेदः, यथा कन्याषोडश-सहस्र-विवाहे श्री-देवक्य्-आदिषु ।
उक्तं हि टीका-कृद्भिः - अनेन देवक्यादि-बन्धु-जन-समागमोऽपि प्रति-
गृहं यौगपद्येन सूचित इति । तेषु श्री-कृष्णे च प्रकाश-भेदाद् अभिमान-
क्रिया-भेदो यथा श्री-नारद-दृष्ट-योगमाया-वैभवे तत्र ह्य् एकत्र --
दीव्यन्तम् अक्षैस् तत्रापि प्रियया चोद्धवेन च ।
पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥ [भ्प् 10.69.20] इति ।
मन्त्रयन्तं च कस्मिंश्चिन् मन्त्रिभिश् चोद्धवादिभिः । [भ्प् 10.69.27]
तत्रान्यत्र इति भाव-भेदाद् अभिमान-भेदो लक्ष्यते । अयम् एव तद्-
अवस्थोऽहम् अत्रास्मीति । एवं षोडश-सहस्र-विवाहे कुत्रचित् श्री-कृष्ण-
समक्षं माङ्गलिकं कर्म कुर्वत्या देवक्यास् तद्-दर्शन-सुखं भवति ।
तत्-परोक्षं तु तद्-दर्शनोत्कण्ठेति । तथा योग-माया-वैभव-दर्शन एव
क्वचिद् (पगे 82) उद्धवेन संयोगः क्वचिद् वियोग इति विचित्रता ।
तद् एवं तत्र प्रकाश-भेदे सति तद्-भावेनाभिमान-क्रिया-भेदे च स्थिते
तदानीं वृन्दावन-प्रकाश-विशेषे स्थितेन श्री-कृष्णस्याप्रकट-प्रकाशेन
तासाम् अप्रकट-प्रकाशात्मिकानां संयोगस् तत्-प्रकाश-विशेषे प्राक्-स्थितेन
सम्प्रति मथुरां गतेन तत्-प्रकट-प्रकाशेनैव स्वीकृतेन स्थान-त्रयेऽपि
सपरिकर-श्री-कृष्ण-नित्यावस्थायिता-वाक्यम् अनुपहतं स्यात् । प्रकट-
लीलायाम् अन्यत्र स-परिकरस्य तस्य कदाचिद् गमनेऽपि
प्रकाशान्तरेणावस्थानाद् इति । तस्मात् साधूक्तं भवतीनां वियोगो मे [भ्प्
10.47.29] इत्य् आदि ।
सेयं च नित्य-संयोगिता परम-रहस्येति ब्रह्म-ज्ञान-सादृश्य-भङ्ग्या
समाच्छाद्यैवोपदिष्टा । दृश्यते चान्यत्रापि रहस्योपदेशेऽर्थान्तर-
समाच्छन्नोक्तिः । यथा महाभारते जतु-गृहे गच्छतः पाण्डवान् प्रति
विदुरस्य । यथा वा षष्ठे हर्याश्वादीन् प्रति श्री-नारदस्य ।
[156]
तद् एवं पुनर् अपि तथैवोपदिशति --
यथा भूतानि भूतेषु खं वाय्व्-अग्निर् जलं मही ।
तथाहं च मनः-प्राण- भूतेन्द्रिय-गुणाश्रयः ॥ [भ्प् 10.47.29]
यथा खादीनि कारण-रूपाणि भूतानि वाय्व्-आदिषु स्व-स्व-कार्य-रूपेषु
भूतेष्व् अवस्थितानि, तत्राकाशस्य स्थितिर् वायौ वायोर् अग्नाव् इत्य् आदि । तथा
भवतीष्व् अहं बहिर्-अनुपलभ्यमानोऽपि नित्यं तिष्ठाम्य् एवेत्य् अर्थः ।
कथम्भूतोऽहम् ? भवतीनां मद्-एक-जीवातूनां मन-आद्य्-आश्रयः ।
अन्यथा निमेषम् अपि मद्-वियोगेन तान्य् अपि न तिष्ठेयुर् इति भावः ।
यद् वा, किं-रूपस् तिष्ठसीत्य् आकाङ्क्षायाम् आह, भवतीनां मन-आद्य्-
आश्रय-भूतो यो द्विभुज-श्यामसुन्दर-वेणु-विनोदि-रूपस् तद्-रूप एवेति ।
[157]
नन्व् इत्थं प्रकाश-वैचित्री कथं स्यात् यया विरह-संयोगयोर् युगपद् एव
स्थितिर् इत्य् आशङ्क्याह -
आत्मन्य् एवात्मनात्मानं सृजे हन्म्य् अनुपालये ।
आत्म-मायानुभावेन भूतेन्द्रिय-गुणात्मना ॥ [भ्प् 10.47.30]
आत्मनि अनन्त-प्रकाश-मये श्री-विग्रह-लक्षणे स्वस्मिन् आत्मना स्वयम्
आत्मानं प्रकाश-विशेषं सृजे अभिव्यञ्जयामि । केन ? निमित्त-भूतेन
आत्मा-मायानुभावेन अचिन्त्यायाः स्वरूप-शक्तेः प्रभावेन । स्वरूप-
भूतया नित्य-शक्त्या मायाख्यया युत इति मध्व-भाष्य-धृत-चतुर्वेद-
शिखातः । कीदृशेन ? भूतेन्द्रिय-गुणात्मना भूतानि परमार्थ-सत्यानि
यानि ममेन्द्रियाणि ये च गुणा रूप-रसादयस् तेषाम् आत्मना प्रकाशकेनेत्य्
अर्थः । बुद्धीन्द्रियेति पाठे आत्मनेत्य् अस्य विशेषणम् । बुद्धयोऽन्तः-
करणानि, इन्द्रियाणि बहिः-करणानि, गुणा रूपादयः, तानि सर्वाण्य् अपि आत्मा
स्वरूपं यत्र, तेनेति ।
तद् एवम् आविर्भूय अनु पश्चात् कदापि हन्मि, ततोऽन्यत्र गच्छामि । हन्
हिंसा-गतयोः । कदाप्य् अनु पश्चात् पुनः पालये स्वयम् आगत्य पालयामि
निज-विरह-दूनान् इति शेषः । एतत्-कारणं तु यत् त्व् अहं भवतीनां वै [भ्प्
10.47.34] इत्य् आदौ वक्ष्यते । हन्तेर् अर्थान्तरे त्रयाणाम् एक-कर्म-कर्तृत्वेऽपि
तम् आत्मानं प्रकाशं कदाचित् तिरोधापयामि । तस्मात् तं प्रकाशम् आकृष्य

प्रकाश-वैविध्यम् एकीकरोमीत्य् अर्थः ।
एवम् एव दशम-सप्ततिममाध्याये स्वामिभिर् अपि व्याख्यातम् - एवं
सर्व-गृहेभ्यः पृथक् पृथङ् निर्गत्यानन्तरम् एक एव सुधर्मां प्राविशत्
[10.70.17] इति । यथा च माध्व-भाष्य-धृत-(पगे 83) -स्वामि(?)-वचनम् -
स देवो बहुधा निर्गुणः पुरुषोत्तमः ।
एकीभूयः पुनः शेते निर्दोषो हरिर् आदिकृत् ॥ इति ।
श्रुतिश् च शङ्कर-भाष्य-धृता - स एकधा भवति, द्विधा भवति इत्य्
आद्या । तद्-अनन्तरं पुनर् अपि तम् आत्मानं पालये पुनर् अभिव्यज्य निज-
श्रेष्ठ-जनैः सह क्रीडया सम्भूतानन्दं करोमीत्य् अर्थः । एवं हन्तिर्
अश्लीलोऽपि स्व-वियोगि-जन-विषय-कारुण्य-कृत-भावान्तरेण स्वयम् एव
प्रयुक्त इति न दोष आशङ्क्यः - छिन्द्यां स्व-बाहुम् अपि वः प्रतिकूल-वृत्तिम्
[भ्प् 3.16.6] इतिवत् ।
[158]
ननु प्रकटम् एव मथुरायां विक्रीडसि तर्ह्य् अत्राप्य् अधुना विर्कीडसीत्य्
अत्रास्माकं सम्भावना कथं जायताम् इत्य् आशङ्क्य तासाम् एवानुभवं
प्रमाणयति -
आत्मा ज्ञान-मयः शुद्धो व्यतिरिक्तो ऽगुणान्वयः ।
सुषुप्ति-स्वप्न-जाग्रद्भिर् माया-वृत्तिभिर् ईयते ॥ [भ्प् 10.47.31]
यद् वा आस्तां तावद् अप्रकट-लीलायां मद्-वियोगाभाव-वार्ता । प्रकट-
लीलायाम् अपि तयानुसन्धीयताम् इत्य् आह आत्मा ज्ञान-मय इत्य् आदि । अर्थश्
चायम् - आत्म-शब्दोऽस्मिन्न् अस्मच्-छब्द-परः । ततश् च आत्माहं श्री-
कृष्ण-लक्षणो भवतीनां सुषुप्त्य्-आदि-लक्षणाभिर् मनो-वृत्तिभिर् ईयते
अनुभूयत एव । कीदृशः ? ज्ञान-मयो नाना-विद्या-विदग्धः । शुद्धो
दोष-रहितः । विगतोऽतिरिक्तो यस्माद् इति वा विशेषेणातिरिक्त इति वा व्यतिरिक्तः
सर्वोत्तमो गुणान्वयः सर्व-गुण-शाली ।
अतएव स च स्फूर्ति-रूपोऽयम् अनुभवः कदाचित् साक्षात्कार-द्वारापि कल्प्यते
इति चिर-काल-विरहेऽपि तासां सन्धुक्षण-कारणं ज्ञेयम् । अत्र सुषुप्तेऽपि तत्-
स्फूर्ति-निर्देशः सर्वदैव स्फुरामीति-मात्र-तात्पर्यकः । यद् वा तत्र
तासां स्वप्न-जाग्रतोर् अनन्य-वृत्तित्वं सिद्धम् एव । वृत्त्य्-अन्तरासम्भवात्
तु श्री-कृष्ण-समाधि-लक्षणे सुषुप्तेऽपि तस्मिन्न् एव स्वप्न-जाग्रद्-गतानां
वृत्ति-वैचित्रीणां तद्-अनुभाविता-मात्रावशेषतया प्रवेशो भवति । तद्
उत्तर-काले प्राकृतैः सुखम् अहम् अस्वाप्सम् इतिवत् ताभिः स इति
एवानुसन्धीयते इति तथोक्तम् ।
तथा हि गारुडे -
जाग्रत्-स्वप्न-सुसुप्तिषु योगस्थस्य च योगिनः ।
या काचिन् मनसो वृत्तिः स भवत्य् अच्युताश्रयः ॥ इति ।
[159]
ननु तथाप्य् अस्माकं विरह एव सर्वोपमर्दकः स्फुरति । किं कुर्म इत्य्
आशङ्क्य, हन्त यदि मद्-वियोगिताभिमानि-मनो-वृत्तिं कथम् अपि रोद्धुं
शक्नुथ तदा स्वत एव नित्य-संयोगित्वम् उद्देष्यतीत्य् एवम् उपदेशेन
वक्तुं योग-शास्त्र-प्रक्रियाम् आह द्वाभ्यां -
येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्न-वद् उत्थितः ।
तन् निरुन्ध्याद् इन्द्रियाणि विनिद्रः प्रत्यपद्यत ॥ [भ्प् 10.47.32]
उत्थितः पुमान् यथा मिथ्याभूतम् एव स्वप्नं ध्यायति एवं बाधितान् अपि
इन्द्रियार्थान् शब्दादीन् येन मनसा ध्यायेत चिन्तयेत्, ध्यायंश् च
येनेद्रियानि प्रत्यपद्यत प्राप, तन् मनो विनिद्रोऽनलसः सन् निरुन्ध्यान्
नियच्छेद् इति । यद्यपि स्वप्नादिवत् तद्-विरहस् तासु नाज्ञानाध्यस्तः,
प्रकट-लीलायां तस्याप्राप्तेस् तासाम् एवानुभव-सिद्धत्वात् तथाप्य्
अप्रकट-लीलायां नित्य-संयोगम् अनुसन्धापयितुं तस्य
तादृशत्वेनैवोपदेशो भगवता योग्य इति तथोक्तम् । एकांशेऽपि संयोगे
वियोगो नास्त्य् एवेति वा ।
[160]
तं मनो-निरोधम् एव स्तौति -
एतद्-अन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् ।
त्यागस् तपो दमः सत्यं समुद्रान्ता इवापगाः ॥ [भ्प् 10.47.33] (पगे 84)
एष मनो-निरोधोऽन्तः समाप्तिः फलं यस्य सः । समाम्नायो वेदः । स
तत्र पर्यवस्यतीत्य् अर्थः । मार्ग-भेदेऽप्य् एकत्र प्रयवसाने दृष्टान्तः ।
समुद्रान्ता आपगता नद्य इव इति । यस्मात् सर्वैर् एव वेदादिविद्भिः
प्रशस्यते मनो-निरोधस् तस्माद् यूयम् अपि मद्-वियोगाभिमानि-मनो-वृत्तिं
नियच्छथेति पद्य-द्वयेन ध्वनितम् ।
[161]
ननु, अहो यदि तद्-विरहेण वयम् अतिदुःखिता इत्य् अतः कृपालु-चित्त एव त्वम्
अस्मभ्यं निज-प्राप्ति-साधनम् उपदिशसि । तर्हि स्वयं किम् उ प्रकटम् एव
नायासि, तस्मात् कैतवम् एवेदं तव कृपालुत्वम् इत्य् आशङ्क्याह -
यत् त्व् अहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् ।
मनसः सन्निकर्षार्थं मद्-अनुध्यान-काम्यया ॥ [भ्प् 10.47.34]
साम्प्रतं भवतीनां दृशां प्रियोऽप्य् अहं यद् दूरे वर्ते, तद्-भवतीनां
मद्-अनुध्यानेच्छया यो मनसः सन्निकर्षस् तद्-अर्थं मम भवन्-
निकट-स्ह्तितौ मद्-अर्थं भवतीनां दृश्ये वावेशः स्याद्, भवद्-दूरे तु
मनस्य् एवेति तत्र मम सन्निकर्षः स्याद् इत्य् एतद्-अर्थः ।
[162]
तद् एव निदर्शयति --
यथा दूर-चरे प्रेष्ठे मन आविश्य वर्तते ।
स्त्रीणां च न तथा चेतः सन्निकृष्टे ऽक्षि-गोचरे ॥ [भ्प् 10.47.35]
च-कारात् स्त्रीषु प्रेष्ठस्य च ।
[163]
मनः-सन्निकर्षे किं स्यात् श्रीघ्रम् एव लब्धो भव्ष्यामीति ज्ञायताम् इत्य्
आह --
मय्य् आवेश्य मनः कृत्स्नं विमुक्ताशेष-वृत्ति यत् ।
अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ ॥ [भ्प् 10.47.36]
विमुक्ता अशेषा विरह-तत्-कारण-भावना-रूपा वृत्तयो येन तन्-मनो मयि
कृष्ण-रूपे आवेश्य मां कृष्ण-रूपम् एवानुस्मरन्त्यो मां कृष्ण-रूपम्
एवाचिराद् एव समीप एवैष्यथ, अनन्य-वेद्यतया प्राप्स्यथ ।
[164]
तर्हि कथं प्रकटं नागच्छसि तत्राह - तस्य झटिति प्राप्तेर् वृन्दावन
एव लीलान्तर-नित्यास्तितायाश् च प्रतीत्य्-अर्थं निदर्शनम् अप्य् आह --
या मया क्रीडता रात्र्यां वने ऽस्मिन् व्रज आस्थिताः ।
अलब्ध-रासाः कल्याण्यो मापुर् मद्-वीर्य-चिन्तया ॥ [भ्प् 10.47.37]
तद् बहिर्-विघ्न-वञ्चनार्थम् इत्य् अर्थः । ता हि तद्-रात्रि-प्रकट-रास-
मात्रम् अलब्धवत्योऽप्य् अस्मिन् वृन्दावन एव सर्व-विघ्नास्पृष्टाः प्रकट-
विचित्र-क्रीडा-निधानं माम् आपुर् एवेति । तथा च वासना-भाष्य-धृतं
मार्कण्डेय-वचनम् -
तदानीम् एव तं प्राप्ताः श्रीमन्तं भक्त-वत्सलम् ।
ध्यानतः परमानन्दं कृष्णं गोपाल-नायिकाः ॥ इति ।
तत्रापि हे कल्याण्यः सर्व-विघ्न-रहिताः । अर्थान्तरे स-शरीरा एव च । [वृ.
अद्द्स्: स-शरीरा इति तत्-तद्-देह-त्यागेन भवतीनां मत्-प्राप्तिर् न स्यात्, किन्त्व्
अनेनैव देहेन मत्-प्राप्तिः स्याद् इति भावः । [एन्द्. वृ. अद्दितिओन्]
तासां शरीर-परित्यागादिकं तु मायिकम् एवेति भावः । तस्मात् तासां व्रजे
प्राकट्येनानुपलम्भात् तथा मयि भक्तिर् हि भूतानाम् [भ्प् 10.82.44] इत्य्
आदि वक्ष्यमाणानुसारेण मार्कण्डेय-वचनानुसारेण च तदीयाभीप्सित-
रूप-विलासस्यैव मम प्राप्तेः सिद्धत्वाच् च विद्यत एव प्रकटाया अस्या
लीलाया पृथक् तस्मिन्न् अन्या लीला, तस्यां च ममेव युष्माकम् अपि स्थितिर्
अध्यवसीयताम् । याम् एव लीलां मदीय-व्रजागमनासकृत्-प्रतिज्ञानुसारेण

(पगे 85) शीघ्रम् एव यदु-पुर्याः सकाशाद्-भवत्-प्रेम-यन्त्रिततया
समागत्याहं (सर्व-समञ्जसतया भवतीनां तत्-तद्-विघ्न-निवारण-
पूर्वकं) सर्वेभ्य एव व्रज-वासिभ्यः सन्ततं दर्शयिष्यामीति भावः ।
अस्मिन्न् इति निर्देशात् तदानीम् अपि स्वस्य वृन्दावन-स्थत्वं सूचयति ।
प्रकरणेऽस्मिन्न् इदम् उक्तं भवति । न ह्य् अत्र तासाम् अध्यात्म-विद्या
श्रेयस्करी भवति ।
तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥ [भ्प् 11.20.31]
इति श्री-भगवता । ज्ञाने प्रयासम् उदपास्य नमन्त एव जीवन्ति [भ्प् 10.14.3]
इति ब्रह्मणा च साधारण-भक्तानाम् अप्य् अनुपादेयत्वेनोक्तत्वात् । न च
तच्-छ्रवणेन तासां विरह-ज्वाला शाम्यति । तं श्यामं मनोहरं विना
साधारण-भक्तानाम् अपि स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः
[भ्प् 6.17.18] इत्य् उक्त-दिशा, नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादम् [भ्प्
3.15.48] इत्य्-आद्य्-उक्त-दिशा वा हेय-रूपत्वेनैवानुभवात् । तासां तु स्व-रसस्य
परम-विरोध्य् एव तत् । पूर्वं च श्रूयतां प्रिय-सन्देशो भवतीनां
सुखावहः [भ्प् 10.47य्.28] इत्य् एवोक्तम् ।
अत उक्तं तासाम् एवाभिप्राय-कथने श्री-स्वामिभिर् अपि - ननु किम्
अन्यानिवास्मान् आत्म-विद्यया लोभयसि ? वयं तु सर्व-सुन्दर-
सर्वालङ्करणेन त्वया विरहं नैव सहामहे [भावार्थ-दीपिका तो
10.47.34] इति । तस्माद् विदुरस्येव कूटोक्तिर् इयम् इत्य् उक्त एवार्थी भवत्य्
अन्तरङ्गः । स च युधिष्ठिरस्येव तासाम् एव गम्य इति ।
॥ 10.47 ॥ श्री-भगवान् श्री-व्रज-देवीः ॥ 155-164 ॥
[165]
पूर्व-व्याख्यानुसारेणैवाह -
एवं प्रियतमादिष्टम् आकर्ण्य व्रज-योषितः ।
ता ऊचुर् उद्धवं प्रीतास् तत्-सन्देशागत-स्मृतीः ॥ [भ्प् 10.47.38]
तत्-सन्देशेनागता स्मृतिर् नित्य-संयोगानुसन्धान-रूपा यासां तादृश्यः ।
अतएव प्रीताः । इतः परं कदाचित् प्रकट-लीलानुभवे सति तासां सन्तोषः
प्रकट-लीला-दर्शनतस् तु विरह एवेति भाव-द्वैतं लक्ष्यते ।
[166]
तच् च सन्तोषम् आह -
ततस् ताः कृष्ण-सन्देशैर् व्यपेत-विरह-ज्वराः ।
उद्धवं पूजयां चक्रुर् ज्ञात्वात्मानम् अधोक्षजम् ॥ [भ्प् 10.47.53]
तथा तेन सन्दिष्टं तथैवात्मानम् अनुभूयाधोक्षजं चानुभूयेत्य्
अर्थः ।
॥ 10.47 ॥ श्री-शुकः ॥ 165-166 ॥
[167]
स्व-विरहं व्यञ्जयन्ति --
अप्य् एष्यतीह दाशार्हस् तप्ताः स्व-कृतया शुचा ।
सञ्जीवयन् नु नो गात्रैर् यथेन्द्रो वनम् अम्बुदैः ॥ [भ्प् 10.47.44]
स्व-निमित्तेन शोकेन तप्ताः नोऽस्मान् गात्रैः कर-स्पर्शादिभिः सञ्जीवयन्
किं नु इहैष्यतीति ॥
॥ 10.47 ॥ श्री-व्रज-देव्य उद्धवम्

5.171

[168]
एवं तथा श्रीमद्-उद्धव-द्वारोपदिष्टं तथा कुरुक्षेत्रे साक्षाद् अपि
स्वयम् उपदिष्टम् । (पगे 86)
[वृ. अद्द्स्:] कुरुक्षेत्र-यात्रायाम् अपि --
अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया ।
गतांश् चिरायिताञ् छत्रु- पक्ष-क्षपण-चेतसः ॥ [भ्प् 10.82.41]
इत्य् अनेन स्वागमन-विलम्बे कारणं विज्ञाप्य पुनश् च । [वृ. एन्द्स्.]
मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते ।
दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥ [भ्प् 10.82.44]
इत्य् अत्र तादृशीनां साक्षाद् एव तत्-प्राप्तिः फलं नान्येषाम् इवामृतत्व-
मात्रम् इत्य् एतत् तासाम् आश्वासन-रूप-भगवद्-वचनानन्तरम् । ननु त्वं
द्वारकायाम् एव सदा क्रीडसि वयं तु वृन्दावन-वासिन्यः कथं
प्राप्स्याम इत्य् आशङ्क्य युष्माभिर् नित्य-संयुक्त एवाहम् अस्मीति
तथाविधम् आत्मानम् उपदिशति द्वाभ्यां -
[वृ. रेअद्स् इन्स्तेअद् ओf थे अबोवे परग्रफ्: इत्य् अनेन तासां स्व-प्राप्तिम्
अवश्यम्भाविनीं प्रोच्य तत्रापि तासां काल-विलम्बाक्षमत्वं विलोक्य झटिति
सान्त्वनार्थम् उद्धव-द्वारा प्रहित-चर-सन्देशवद् एव स्वेन नित्य-
संयोगम् उपदिशति - एन्द् वृ. रेअदिन्ग्.]
अहं हि सर्व-भूतानाम् आदिर् अन्तो ऽन्तरं बहिः ।
भौतिकानां यथा खं वार् भूर् वायुर् ज्योतिर् अङ्गनाः ॥
एवं ह्य् एतानि भूतानि भूतेष्व् आत्मात्मना ततः ।
उभयं मय्य् अथ परे पश्यताभातम् अक्षरे ॥ [भ्प् 10.82.45-46]
यथाहम् अहङ्कारो भूतादिः सर्वेषां भूतानां खादीनाम् आद्यन्तादि-
रूपः । अहङ्कारान्तर्गतान्य् एव खादीनीत्य् अर्थः । यथा च खादीनि
भूतानि भौतिकानां शराव-सैन्धवादीनाम् आद्य्-अन्तादि-रूपाणि,
खादीनाम् अन्तर्गतान्य् एव तानीत्य् अर्थः । एवम् एतानि प्रकट-लीलायाम्
अनुभूयमानानि युष्माकं ममतास्पदानि भूतानि परमार्थ-सत्य-
वस्तूनि श्री-वृन्दावनादीनि भूतेष्व् अप्रकट-लीला-गतेषु परमार्थ-सत्य-
वस्तुषु तेषु वर्तन्ते । युष्माकं प्रकट-लीलाभिमान्य्-अहन्तास्पदम् आत्मा
चाप्रकट-लीलाभिमान्य् अहन्तास्पदेनात्मना ततो व्याप्तः । एवम्
इदन्ताहन्तास्पदं यद् उभयं तच् च पुनः परे प्रकटम् अत्र
दृश्यमानेऽपि तस्यां वृन्दाटव्यां विहरमाणेऽक्षरे नित्यम् एव युष्मत्-
सङ्गिनि मय्य् आश्रय-रूपे आभातं विराजमानं पश्यतेति । तस्मात् प्रकाश-
भेदाद् एव तत्-तद्-वस्त्व्-आदि-भेद-व्यपदेशो विरह-संयोग-व्यवस्था
चेतीदम् अत्रापि व्यक्तम् ।
[169]
श्री-भगवच्-छिक्षानुरूपम् एव श्री-ऋषिर् उवाच --
अध्यात्म-शिक्षया गोप्य एवं कृष्णेन शिक्षिताः ।
तद्-अनुस्मरण-ध्वस्त-जीव-कोशास् तम् अध्यगन् ॥ [भ्प् 10.82.47]
अध्यात्म-शिक्षया तद्-उपदेशेन आत्मानं श्री-कृष्णम् अधिकृत्य या शिक्षा
तया वा । तथाविधं यद् उपदिष्टं तद्-अनुस्मरणेन नित्य-सिद्धाप्रकट-
लीलायाः पुनर् अनुसन्धानेन ध्वस्तस् त्यक्त-प्रायो जीव-कोषः प्रपञ्चस्
तत्र प्राकट्याभिनिवेशो याभिस् ताः । तं स्वयम् उपदिष्टं नित्य-संयुक्त-
रूपं श्री-कृष्णम् अध्यगन् प्रणिहितवत्यः । तत्रापि पूर्व-दर्शित-श्रुति-
पुराणादि-गत-नित्यता-वाक्यं मयि भक्तिर् हि [भ्प् 10.82.44] इति । फल-भेद-
वाक्यं च न ज्ञानं न च वैराग्यम् [भ्प् 11.20.31] इत्य् आद्य्-अयुक्तता-व्यञ्जि-
वाक्यं चानुसन्धाय परोक्ष-वादार्थ-प्रयुक्तम् अर्थान्तरं न
प्रमेयम् ।
[170]
अथ ज्ञान-रूपं प्रकटार्थम् अस्वीकुऋवाणा नित्य-लीला-रूपं रहस्यार्थं
स्वीकुर्वाणा अपि पूर्ववत् पुनश् च प्रकट-लीलाभिनिवेशेन विरह-भीताः
परम-दैन्योत्तरम् एवं प्रार्थयामासुर् इत्य् आह -
आहुश् च ते नलिन-नाभ पदारविन्दं
योगेश्वरैर् हृदि विचिन्त्यम् अगाध-बोधैः
संसार-कूप-पतितोत्तरणावलम्बं
गेहं जुषाम् अपि मनस्य् उदियात् सदा नः ॥ [भ्प् 10.82.48]
आस्तां तावद् दुर्विधि-हतानाम् अस्माकं त्वद्-दर्शन-गन्ध-वार्तापि । हे
नलिन-नाभ तव पदारविन्दं त्वद्-उपदेशानुसारेणास्माकं मनस्य्
उदियात् ।
ननु (पगे 87) किम् इवात्रासम्भाव्यम् ? तत्राहुः - योगेश्वरैर् एव हृदि
विचिन्त्यं न त्व् अस्माभिस् त्वत्-स्मरणारम्भ एव मूर्च्छा-गामिनीभिः । तद्
उक्तम् उद्धवं प्रति स्वयं भगवता -
मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः ।
स्मरन्त्यो ऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥ [भ्प् 10.46.5] इति ।
तद् एवोपपादयन्ति अगाध-बोधैः साक्षाद्-दर्शनेऽप्य् अक्षुभित-
बुद्धिभिः । न त्व् अस्माभिर् इव त्वद्-दर्शनेच्छया क्षुभित-बुद्धिभिः ।
चरणस्यारविन्दता-रूपकं च त्वत्-स्पर्शेनैव दाह-शान्तिर् भवति न तु
तथा त्वत्-स्मरणेनेति ज्ञापनाय ।
ननु तथा निदिध्यासनम् एव योगेश्वराणां संसार-दुःखम् इव
भवतीनां विरह-दुःखं दूरीकृत्य तद्-उदयं करिष्यतीति आशङ्क्याह
संसार-कूप-पतितानाम् एवोत्तरणावलम्बं न त्व् अस्माकं विरह-सिन्धु-
निमग्नानाम् । त्वच्-चिन्तनारम्भे दुःख-वृद्धेर् एवानुभूयमानत्वाद्
इति भावः ।
नन्व् अधुनैवागत्य मुहुर् मां साक्षाद् एवानुभवत, तत्राह - गेहं
जुषां पर-गृहिणीनाम् अस्वाधीनानाम् इत्य् अर्थः । यद् वा गेहं जुषाम् इति
तव सङ्गतिश् च त्वत्-पूर्व-सङ्गम-विलास-धाम्नि तत्-तद्-अस्मत्-काम-दुघे
स्वाभाविकास्मत्-प्रीति-निलये निज-गेहे गोकुल एव भवतु, न तु द्वारकादाव्
इति स्व-मनोरथ-विशेषेण तस्मिन्न् एव प्रीतिमतीनाम् इत्य् अर्थः । यः
कौमार-हरः स एव हि वरः इत्यादिवत् । तस्माद् अस्माकं मनसि भवच्-
चरण-चिन्तन-सामर्थ्याभावात् स्वयम् आगमनस्यासामर्थ्याद् अनभिरुचेर्
वा साक्षाद् एव श्री-वृन्दावन एव यद्य् आगच्छसि तदैव निस्तार इति भावः ।
[वृ एदितिओन् अद्द्स् हेरे:
तम् एतम् एव भावं श्री-भगवान् अङ्गीचकार । यथोक्तम् एतद्-अनन्तरम् -
त एवं लोक-नाथेन परिपृष्टाः सु-सत्-कृताः ।
प्रत्यूचुर् हृष्ट-मनसस् तत्-पादेक्षा-हतांहसः ॥ [भ्प् 10.83.2] [एन्द् वृ
अद्दितिओन्]
॥ 10.82 ॥ श्री-शुकः ॥ 168-170 ॥
[171]
तद् एवं स्वारसिक्य-प्रकट-लीला दर्शिता । अथाप्रकट-लीले द्वे अप्य् अर्थ-
विशेषेणाह -
गोपीनां तत्-पतीनां च सर्वेषाम् एव देहिनाम् ।
यो ऽन्तश् चरति सो ऽध्यक्षः क्रीडनेनेह देह-भाक् ॥ [भ्प् 10.33.35]
अन्तर्-अन्तः-स्थितम् अप्रकटं यथा स्यात् तथा गोपीनां तत्-पतीनां च तत्-
पतिं-मन्यानां क्रीडन-देह-भाक् सन् तेषाम् एव गोकुल-युवराजतया
अध्यक्षश् च सन् यश् चरति क्रीडति स एव प्रकट-लीला-गतोऽपि भूत्वा
सर्वेषां विश्व-वर्तिनां देहिनाम् अपि क्रीडन-देह-भाक् सन् तेषां
पालकत्वेनाध्यक्षोऽपि सन् चरति । तस्माद् अनादित एव ताभिः क्रीडा-शालित्वेन
स्वीकृतत्वात् तच्-छक्ति-रूपाणां तासां सङ्गमे वस्तुत एव पर-दारता-
दोषोऽपि नास्ति ।
ततस् तेषां तत्-पतित्वं च । नासूयन् खलु कृष्णाय [भ्प् 10.33.37] इत्यादि-
वक्ष्यमाण-दिशा, तेषां तासां च प्रातीतिक-मात्रं न तु दैहिकम् । तादृश-
प्रतीति-सम्पादनं च तासाम् उत्कण्ठापोषार्थम् इति तत्-प्रकरण-
सिद्धान्तस्य पराकाष्ठा दर्शिता ॥
॥ 10.33 ॥ श्री-शुकः

5.172

(पगे 88)
[172]
एवं तत्-तल्-लीला-भेदेनैकस्यापि तत्-तत्-स्थानस्य प्रकाश-भेदः श्री-
विग्रहवत् । तद् उक्तम् - वृष्णः परमं पदम् अवभाति भूरि इति श्रुत्या ।
तत्र त्व् इतर-लीलान्तः-पातिभिः प्रायश इतर-लीलावकाश-विशेषो नोपलभ्यते ।
दृश्यते च प्रकट-लीलायाम् अप्य् असङ्करीभावेनैव विचित्रावकाशत्वम् ।
यथा द्वादश-योजन-मात्र-प्रमितायाम् एव द्वारकान्तः-पुर्यां क्रोश-
द्वय-प्रमित-गृह-कोटि-प्रभृति-वस्तूनि । यथा स्वल्पे गोवर्धन-गर्ते तद्-
असङ्ख्य-गोकुल-प्रवेशः । यथा ब्रह्मणा दृष्ट्या वृन्दावनस्य स-वृक्ष-
तृण-पक्ष्याद्य्-अवकाशता ब्रह्माण्डाद्य्-अनन्त-वस्त्व्-अवकाशता च । यथा
च श्री-नारद-दृष्ट-योग-माया-वैभवे सम-कालम् एव द्वारकायां
प्रातस्त्य-माध्याह्निक-सायन्तन-लीला इत्य् आदि । तद् एवं वृन्दावनस्य तावत्
प्रकाश-भेदा उदाह्रियन्ते । तत्राप्रकट-लीलानुगतो यथा यामले रुद्र-
गौरी-संवादे -
वीथ्यां वीथ्यां निवासोऽधर-मधु-सुवचस् तत्र सन्तानकानाम्
एके राकेन्दु-कोट्य्-आतप-विशद-करास् तेषु चैके कमन्ते ।
रामे रात्रेर् विरामे समुदित-तपन-द्योति-सिन्धूपमेया
रत्नाङ्गानां सुवर्णाचित-मुकुर-रुचस् तेभ्य एके द्रुमेन्द्राः ॥
यत् कुसुमं यदा मृग्यं यत् फलं च वरानने ।
तत् तदैव प्रसूयन्ते वृन्दावन-सुर-द्रुमाः ॥
अर्थश् च - हे अधर-मधु-सुवचः अधर-मधु-तुल्यानि सुवचांसि यस्याः
तथाभूते हे गौरि ! तत्र श्री-वृन्दावने रथाङ्गानां सन्तानकानां
मध्ये एके द्रुमेन्द्रा राकेन्दु-कोट्य्-आतप-विशद-कराः । हे रामे, तेषु
सन्तानकेषु च एके रात्रेर् विरामे समुदित-तपन-द्योति-सिन्धूपमेयाः
कमन्ते विराजन्ते । तेभ्यस् तान् अतिक्रम्य एके कमन्ते । कथम्भूताः
सुवर्णाचित-मुकुर-रुच इति । तत्र च यदा यत् कुसुमं मृग्यं भवति यदा
च यत् फलं मृग्यं भवति तदैव तद् वृन्दावन-सुर-द्रुमाः प्रसूयन्त
इति ।
एवं ब्रह्म-संहितायाम् अपि आदि-पुरुष-गोविन्द-स्तोत्र एव --
श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवो
द्रुमा भूमिश् चिन्तामणि-गण-मयि तोयम् अमृतम् ।
कथा गानं नाट्यं गमनम् अपि वंशी प्रिय-सखि
चिद्-आनन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च ॥
स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सु-महान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं
विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये ॥ [ब्रह्मस् 5.56] इति ।
ज्योतिर् लौकिक-लीला-माधुर्याय महा-प्रलयेऽप्य् अनश्वर-सूर्यादि-रूपं यत्
तत्र वर्तते तथा तेषाम् आसाद्यम् अपि यत् किञ्चित् तत् चिदानन्द-रूपं परम्
अपि परम-तत्त्वम् एव न तु प्राकृतम् । चन्द्रार्कयोः स्थितिश् च तत्र
विलक्षणत्वेनैव गौतमीय-तन्त्रे कथिता समानोदित-चन्द्रार्कम् इति हि
वृन्दावन-विशेषणम् । समानत्वं च रात्रो रात्रौ राका-चन्द्र-मयत्वाद्
इति । अपि चेति परेणान्वयः । (पगे 89) रसावेशेन तद्-अज्ञानाद् एव समयो न
व्रजतीत्य् उक्तम् । अन्यथा पौर्वापर्याभावे सति चेष्टात्मिकाया लीलायाः
स्वरूप-हानिः स्यात् । श्वेतं शुभ्रं दोष-रहितम् इत्य् अर्थः । द्वीपं तद्
इवान्यासङ्ग-शून्यं सर्वतः परम् इत्य् अर्थः । तद् उक्तं श्रुत्या -यथा हि
सरसि पद्मं तिष्ठति तथा भूम्यां तिष्ठति [ग्तु 2.30] इति । किं च ब्रह्म-
संहितायाम् एव तत्-स्तवादौ - चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष-
लक्षावृतेषु [ब्रह्मस् 5.29] इत्य् आदि ।
एवं नारद-पञ्चरात्रे च श्रुति-विद्या-संवादे -
ततः श्वेत-महा-द्वीपश् चतुर्-दिक्षु विदिक्षु च ।
अधश् चोर्ध्वं च दिङ्-नाथास् तोयं क्षीरामृतार्णवः ॥
महा-वृन्दावनं तत्र केलि-वृन्दावनानि च ।
वृक्षाः सुर-द्रुमाश् चैव चिन्तामणि-मयी स्थली ॥
क्रीडा-विहङ्ग-लक्षं च सुरभीनाम् अनेकशः ।
नाना-चित्र-विचित्र-श्री-रास-मण्डल-भूमयः ॥
केलि-कुञ्ज-निकुञ्जानि नाना-सौख्य-स्थलानि च ।
प्राचीन-च्छत्र-रत्नानि फणाः शेषस्य भान्त्य् अहो ॥
यच्-छिरो-रत्न-वृन्दानाम् अतुल-द्युति-वैभवम् ।
ब्रह्मैव राजते तत्र रूपं को वक्तुम् अर्हति ॥ इति ।
इत्थं श्री-वृन्दावनस्याप्रकट-लीलानुगत-प्रकाश एव गोलोक इति
व्याख्यातम् । तत्राप्रकट-लीलाया द्वैविध्ये मन्त्रोपासनामय्यां किञ्चिद्
विलक्षणः । स च तत्-तन्-मन्त्रेषु यथादर्शित-प्रतिनियत-लीला-स्थान-
सन्निवेशः । यथा पूर्व-तापन्यां, यथा च स्कान्दे श्री-नारद-वाक्यम् -
यस्मिन् वृन्दावने पुण्यं गोविन्दस्य निकेतनम् ।
तत्-सेवक-समाकीर्णं तत्रैव स्थीयते मया ॥
भुवि गोविन्द-वैकुण्ठं तस्मिन् वृन्दावने नृप ।
यत्र वृन्दादयो भृत्याः सन्ति गोविन्द-लालसाः ॥ इति ।
अथ प्रकट-लीलानुगत-प्रकाशः श्री-विष्णु-पुराण-हरिवंशादौ
प्रसिद्धः । स एष एव प्रकाशस् तदानीं प्राकृतैर् अपि कैश्चिद् भाग्य-
विशेषोदयवद्भिर् ददृशे सम्प्रत्य् अस्माभिर् अपि तद्-अंशो दृश्यते । अत्र तु
यत् प्राकृत-प्रदेश इव रीतयोऽवलोक्यन्ते तत् तु श्री-भगवतीव स्वेच्छया
लौकिक-लीला-विशेषाङ्गीकार-निबन्धनम् इति ज्ञेयम् । श्री-भगवद्-
धाम्नां तेषां सर्वथा प्रपञ्चातीतत्वादि-गुणैः श्रुति-स्मृतिभ्यां कृत-
प्रमाणत्वात् । अतएवोक्तम् आदिवाराहे -
वसन्ति ये मथुरायां विष्णु-रूपा हि ते खलु ।
अज्ञानास् तान् न पश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ॥ इति ।
तद् एतन्-मूल-प्रमाणेऽप्य् अप्रकट-लीलानुगतः प्रकाशः श्री-वृन्दावनस्य
- ते चौत्सुक्य-धियो राजन् मत्वा गोपास् तम् ईश्वरः [भ्प् 10.28.11] इत्य् आदौ
दर्शित एव । प्रकट-लीलानुगतो यथा -
अहो अमी देव-वरामरार्चितं
पादाम्बुजं ते सुमनः-फलार्हणम् ।
नमन्त्य् उपादाय शिखाभिर् आत्मनस्
तमोऽपहत्यै तरु-जन्म यत्-कृतम् ॥ [भ्प् 10.15.5] इत्य् आदि ।
आत्मनः सुमनः फल-रूपम् अर्हणम् उपादायात्मन एव शिखाभिर्
नमन्ति । यद् यैः । शृण्वतां पश्यतां च संसारिणां तमोऽपहत्यै तरु-
जन्मैतत्-कृतम् इति । यत्-कृतम् इति तृतीया-तत्-पुरुषो वा ॥
॥ 10.15 ॥ श्री-भगवान् श्री-बलदेवम्

5.173

[173]
यथा च -
सपद्य् एवाभितः पश्यन् दिशो ऽपश्यत् पुरः-स्थितम् ।
वृन्दावनं जनाजीव्य- द्रुमाकीर्णं समा-प्रियम् ॥
यत्र नैसर्ग-दुर्वैराः सहासन् नृ-मृगादयः ।
मित्राणीवाजितावास- द्रुत-रुट्-तर्षकादिकम् ॥ [भ्प् 10.13.59-60] इत्य् आदि ।
(पगे 90)
समानाम् आत्मारामाणाम् अपि समस्य सहचरस्य श्री-भगवतोऽपि वा । आ
सर्वतोभावेन सर्वांशेनैव प्रियम् इति । तत्रासद्-अंशत्वं निषिध्य
सर्वतोऽप्य् आनन्दातिशय-प्रदत्वं प्रदर्शितम् ॥
॥ 10.13 ॥ श्री-शुकः

5.174

[174]
तद् एवं श्री-कृष्ण-लीलास्पदत्वेन तान्य् एव स्थानानि दर्शितानि । तच्
चावधारणं श्री-कृष्णस्य विभुत्वे सति व्यभिचारि स्यात् । तत्र समाधीयते
तेषां स्थानानां नित्य-तल्-लीलास्पदत्वेन श्रूयमानत्वात् तद्-आधार-शक्ति-
लक्षण-स्वरूप-विभूतित्वम् अवगम्यते - स भगवः कस्मिन् प्रतिष्ठित इति
स्वे महिम्नि [छाउ 7.24.1] इति श्रुतेः । साक्षाद् ब्रह्म-गोपाल-पुरी [ग्तु
2.26] इत्य् आदेश् च ।
ततस् तत्रैवाव्यवधानेन तस्य लीला । अन्येषां प्राकृतत्वात् न साक्षात् तत्-
स्पर्शोऽपि सम्भवति धारण-शक्तिस् तु नतराम् । यत्र क्वचिद् वा प्रकट-
लीलायां तद्-गमनादिकं श्रूयते । तद् अपि तेषाम् आधार-शक्ति-रूपाणां
स्थानानाम् आवेशाद् एव मन्तव्यम् । वैकुण्ठान्तरस्य त्व् अप्राकृतत्वेऽपि
श्री-कृष्ण-विलासास्पदताकर-निज-योग्यता-विशेषाभावान् न तादृशत्वम् इति
ज्ञेयम् ।
अथाप्रकट-प्रकट-लीलयोः समन्वयस् त्व् एवं विवेचनीयः । तत्र यद्यपि
तस्य (मन्त्रोपासनामय्य्)-अप्रकट-लीलायां बाल्यादिकम् अपि वर्तते तथापि
(स्वारसिक-लीलामय-)किशोराकारस्यैव मुख्यत्वात् । तम् आश्रित्यैव सर्वं
प्रवर्तते इति प्रकट-लीलापि तम् आश्रित्यैव वक्तव्या । यद् वा द्वारकायाम्
अपि मथुरायाम् अपि वृन्दावनेऽपि युगपद् एक एव किशोराकृतिः श्री-
कृष्णाख्यो भगवान् श्रीमद्-आनकदुन्दुभि-व्रज-राज-नन्दन-रूपेण
प्रापञ्चिक-लोकाप्रकटं नित्यम् एव लीलायमान आस्ते ।
अथ कदाचित् भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः [भ्प् 1.8.20]
इत्य् आद्य्-उक्त-दिशा सत्य् अप्य् आनुसङ्गिके भू-भार-हरणादिके कार्ये, स्वेषाम्
आनन्द-चमत्कार-पोषायैव लोकेऽस्मिंस् तद्-रीति-सहयोग-चमत्कृत-निज-
जन्म-बाल्य-पौगण्ड-कैशोरात्मक-लौकिक-लीलाः प्रकटयन् तद्-अर्थं
प्रथमत एवावतारित-श्रीमद्-आनकदुन्दुभि-गृहे तद्-विध-यदु-वृन्द-
संवलिते स्वयम् एव बाल-रूपेण प्रकटीभवति ।
अथ च तत्र तत्र स्थाने वचन-जात-सिद्ध-निज-नित्यावस्थित-कैशोरआदि-
विलास-सम्पादनाय तैर् एव प्रकाशान्तरेणाप्रकटम् अपि स्थितैः परिकरैः
साकं निज-प्रकाशान्तरेणाप्रकटम् अपि विहरत्य् एव ।
अथ श्रीमद्-आनकदुन्दुभि-गृहेऽवतीर्य च तद्वद् एव
प्रकाशान्तरेणाप्रकटम् अपि स्थित्यैव स्वयं प्रकटीभूतस्य स-व्रज-श्री-
व्रज-राजस्य गृहेऽपि तदीयाम् अनादित एव सिद्धां स्व-वात्सल्य-माधुरीं
जातोऽयं नन्दयति । बालोऽयं रिङ्गति । पौगण्डोऽयं विक्रीडतीत्य्-आदि-स्व-
विलास-विशेषैः पुनः पुनर् नवीकर्तुं समायाति । तत्र च सकल-माधुरी-
शिरोमणि-मञ्जरीम् आकैशोर-बाल्य-केलि-लक्ष्मीम् उल्लास्य गोकुल-जनान्
नितराम् आत्म-वशीकृतान्तर्-बहिर्-इन्द्रियाण्य् आपद्य पुनर् अपि तेषां
समधिकाम् अपि प्रेम-र्द्धिं संवर्धयन् । श्रीमद् आनकदुन्दुभि-
प्रभृतीन् अपि नन्दयन् भूभार-राजन्य-सङ्घम् अपि संहरन् मथुरायां
प्रयाति । ततश् च द्वारकाख्यं स्व-धाम-विशेषं प्रकाशयितुं समुद्रं
गत्वा तत्-तल्-लीला-माधुरीं परिवेशयति ।
अथ सिद्धासु निजापेक्षितासु तत्-तल्-लीलासु च तत्र तत्र नित्य- (पगे 91)
सिद्धम् अप्रकटत्वम् एवोरीकृत्य ताव् अप्रकट-लीला-प्रकाशौ प्रकट-लीला-
प्रकाशाभ्याम् एकीकृत्य तथाविध-तत्-तन्-निज-वृन्दम् अप्रत्यूहम्
एवानन्दयतीति । तत्र पूर्ण-कैशोर-व्यापिन्य् एव व्रजे प्रकट-लीला ज्ञेया -
क्व चातिसुकुमाराङ्गौ किशोरौ नाप्त-यौवनौ [भ्प् 10.44.8] इति ।
नास्मत्तो युवयोस् तात नित्योत्कण्ठितयोर् अपि ।
बाल्य-पौगण्ड-कैशोराः पुत्राभ्याम् अभवन् क्वचित् ॥ [भ्प् 10.45.3] इति ।
मनांसि तासाम् अरविन्द-लोचनः
प्रगल्भ-लीला-हसितावलोकैः ।
जहार मत्त-द्विरदेन्द्र-विक्रमो
दृशां ददच् छ्री-रमणात्मनोत्सवम् ॥ [भ्प् 10.41.27] इत्य् अपि हि श्रूयते ।
अतएव एकादश-समास् तत्र गूढार्चिः सबलोऽवसद् [भ्प् 3.2.26] इत्य्
अत्रैकादश-समा व्याप्य गूढार्चिर् इत्य् एष एवार्थः । अथवा एकादशभिर् एव
समाभिस् तस्य पूर्ण-कैशोरत्वं ज्ञेयम् ।
कालेनाल्पेन राजर्षे रामः कृष्णश् च गोकुले ।
अघृष्ट-जानुभिः पद्भिर् विचक्रमतुर् अञ्जसा ॥ [भ्प् 10.8.26]
[वृ. रेअद्स् हेरे: गूढार्चिर् इति । यथा गूढार्चिः कुत्राप्य् अग्निः प्राप्तं
प्राप्तम् इन्धनं दहति, तथा गोप-लीलाया गूढ-प्रभाव एव सन् प्राप्तं
प्राप्तम् असुरं दहन्न् इत्य् अर्थः । एकादश-पर्यन्तं गूढार्चिः । ततः परं
पञ्चदश-पर्यन्तं प्रकटार्चिर् इति साध्याहारं व्याख्यानं त्व्
अघटमानं च । एकादशाभ्यन्तरे तत्-तत्-प्रभावस्य मध्ये मध्ये
प्रसृतत्वात् । [वृ. अद्दितिओन् एन्द्स्.]
तद् एवं स्थिते लीला-द्वय-समन्वये त्व् अप्रकट-लीलैकानुभाव-समन्वयश्
चैवम् अनुसन्धेयः । प्रथमं श्री-वृन्दावने ततो द्वारका-मथुरयोर्
इति । सर्व-प्रकट-लीला-पर्यवसाने युगपद् एव हि द्वारका-मथुरयोर् लीला-
द्वयैक्यं मथुरा-प्रकट-लीलाया एव द्वारकायाम् अनुगमनात् । अतएव
रुक्मिणी-प्रभृतीनां मथुरायाम् अप्रकट-प्रकाशः श्रूयते । वृन्दावने
त्व् इयं प्रक्रियां विशिष्य लिख्यते । तत्र प्रथमं श्री-वृन्दावन-वासिनां
तस्य प्राण-कोटि-निर्मञ्छनीय-दर्शन-लेशस्य विरहस् ततः श्रीमद्-
उद्धव-द्वारा सान्त्वनम् । पुनश् च पूर्ववद् एव तेषां महा-व्याकुलताया
मुद्रितायां श्री-बलदेव-द्वारापि तथैव समाधानम् ।
अथ पुनर् अपि परमोत्कण्ठा-कोटि-विस्फुट-हृदयानां सूर्योपराग-
व्रज्या-व्याजया तद्-अवलोकन-काम्यया कुरुक्षेत्र-गतानां तेषां घर्मान्ते
चातकानाम् इव निजाङ्ग-नव-घन-सङ्घावलोक-दानेन तादृश-संलाप-
मन्त्र-गर्जितेन च पुनर् जीवन-सञ्चारणम् ।
अथ दिन-कतिपय-सहवासादिना च तान् अतिक्षीणतरान् अन्नेन दुर्भिक्ष-
दुःखितान् इव संतर्प्य तैः सह निज-विहार-विशेषणाम् एकम् एव रम्यम्
आस्पदं श्री-वृन्दावनं प्रत्य् एव पूर्ववत् सम्भावितया निजागमनाश्वास-
वचन-रचनया प्रस्थापनम् । सूर्योपराग-यात्रा त्व् इयं दूरतः प्रस्तुतापि
कंस-वधान् नातिबहुसंवत्सरान् अन्तरा शिशुपाल-शाल्व-दन्तवक्त्र-वधात्
प्राग् एव ज्ञेया । श्री-बलदेव-तीर्थ-यात्रा हि दुर्योधन-वधैक-कालीना ।
तस्मिन् तस्यां कुरुक्षेत्रम् आगते खलु दुर्योधन-वधः । सा च
सूर्योपराग-यात्रायाः पूर्वं पठिता । सूर्योपराग-यात्रा च श्री-भीष्म-
द्रोण-दुर्योधनाद्य्-आगमन-मयीति ।
तत्रायं क्रमः - प्रथमं सूर्योपराग-यात्रा । ततः श्री-युधिष्ठिर-
सभा । तस्यां शिशुपाल-वधः, ततः कुरु-पाण्डव-द्यूतं, तदैव शाल्व-
वधो वन-पर्वणि प्रसिद्धः । दन्तवक्त्र-वधश् च ततः । ततः
पाण्डवानां वन-गमनं, ततः श्री-बलदेवस्य तीर्थ-यात्रा, ततो
दुर्योधन-वध इति । तस्माद् उपराग-यात्रा कंस-वधान् नातिकाल-
विलम्बेनाभवद् इति लक्ष्यते । यत् तु तस्याम् एव आस्तेऽनिरुद्धो रक्षायां
(पगे 92) कृतवर्मा च यूथपः [भ्प् 10.82.6] इति । तद् अपि श्री-
प्रद्युम्नानिरुद्धयोर् अल्प-कालाद् एव यौवन-प्राप्त्या सम्भवति ।

यथोक्तं - नातिदीर्घेन कालेन स कार्ष्णो रूढ-यौवनः [भ्प् 10.55.9] इति ।
अथवा अनिरुद्ध-नामा कश्चित् कृष्ण-नन्दन एव यो दशमान्तेऽष्टादश-
महारथ-मध्ये गणितः । तथैव च व्याख्यातं तत्र तैर् इति । अतः
कुरुक्षेत्र-यात्रायाम् एव श्रीमद्-आनकदुन्दुभिना श्री-कुन्ती-देवीं प्रत्य्
उक्तं --
कंस-प्रतापिताः सर्वे वयं याता दिशं दिशम् ।
एतर्ह्य् एव पुनः स्थानं दैवेनासादिताः स्वसः ॥ [भ्प् 10.82.21] इति ।
अतः प्रथम-दर्शनाद् एव द्रौपदी-श्री-कृष्ण-महिषीणां परस्पर-
विवाह-प्रश्नोऽपि सङ्गच्छते । अत्र आगमिष्यत्य् अतिदीर्घेण कालेन व्रजम्
अच्युतः [भ्प् 10.46.34] इत्य् आदिकम् अपि पद्यं सहायं भवेत् ।
प्रकृतम् अनुसरामः । अथ वृन्दावनं प्रस्थापितानाम् अपि तेषां पुनर् अपि
निजादर्शनेन महा-सन्ताप-वृद्धिम् अतीवोत्कण्ठाभिः श्री-गोविन्दः
सस्मार । याम् एव साक्षाद् दृष्टवान् परमोत्कण्ठः श्रीमद् उद्धवः ।
तम् अवसरं लब्धा प्रसावान्तरे गायन्ति --
गायन्ति ते विशद-कर्म गृहेषु देव्यो
राज्ञां स्व-शत्रु-वधम् आत्म-विमोक्षणं च ।
गोप्यश् च कुञ्जर-पतेर् जनकात्मजायाः
पित्रोश् च लब्ध-शरणो मुनयो वयं च ॥ [भ्प् 10.71.9] इति व्यञ्जयामास ।
ततश् च राजसूय-समाप्त्य्-अनन्तरं शाल्व-दन्तवक्त्र-वधान्ते झटिति
स्वयं गोकुलम् एव जगाम । तथा च पाद्मोत्तर-खण्डे गद्य-पद्यानि -
अथ शिशुपालं निहतं श्रुत्वा दन्तवक्त्रः कृष्णेन योद्धुं मथुराम्
आजगाम । कृष्णस् तु तच् छ्रुत्वा रथम् आरुह्य तेन योद्धुं मथुराम्
आययौ । दन्तवक्त्र-वासुदेवयोर् अहोरात्रं मथुरा-पुर-द्वारि यमुना-तीरे
सङ्ग्रामः समवर्तत कृष्णस् तु गदया तं जघान । स तु चूर्णित-सर्वाङ्गो
वज्र-निर्भिन्न-महीधर इव गतासुर् अवनि-तले पपात । सोऽपि हरेः सायुज्यं
योगि-गम्यं नित्यानन्दसुखं शाश्वतं परमं पदम् अवाप । इत्थं जय-
विजयौ सनकादि-शाप-व्याजेन केवलं भगवतो लीलार्थं संसृताव् अवतीर्य
जन्म-त्रये ऽपि तेनैव निहतौ जन्म-त्रयावसाने मुक्तिम् अवाप्तौ ।
कृष्णोऽपि तं हत्वा यमुनाम् उत्तीर्य नन्द-व्रजं गत्वा प्राक्तनौ पितराव्
अभिवाद्य आश्वास्य ताभ्यां साश्रुकण्ठम् आलिङ्गितः सकल-गोप-वृद्धान्
प्रणम्याश्वास्य रत्नाभरणादिभिस् तत्रस्थान् सन्तर्पयामास ।
कालिन्द्याः पुलिने रम्ये पुण्य-वृक्ष-समावृते ।
गोप-नारीभिर् अनिशं क्रीडयामास केशवः ॥
रम्य-केलि-सुखेनैव गोप-वेष-धरो हरिः ।
बद्ध-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥ [पद्मप् 6.252.19-27]
इत्य् अत्रेदं ज्ञेयम् । दन्तवक्त्रस्य मथुरायाम् आगमनं राजसूयानन्तरम्
इन्द्रप्रस्थे श्री-कृष्णावस्थानं ज्ञात्वा जरासन्ध-वधार्थं श्रीमद्-
उद्धव-युक्ति-च्छायाम् अवलम्ब्य गदा-कुशलंमन्यत्वेनैकाकिनं
द्वन्द्व-युद्धाय तम् आह्वयितुं तद् अर्थम् एव तद्-राष्ट्रं तद्
उपद्रावयितुं च । पुनश् च द्वारका-गतं तं श्रुत्वा प्रस्थितस्य तस्य
मथुरा-द्वार-गतेन सङ्गमः । यत्-स्थानम् अद्यापि द्वारका-दिग्-गतं
दतिहेति प्रसिद्धं वर्तते । सर्वम् एतत् श्री-नारदस्य श्री-भगवद्-रथस्य
च मनोमयत्वात् सम्भवति । अतः श्री-भागवतेनापि विरोधो नास्तीति अलं
कल्प-भेद-कल्पनया । अतएव झटिति तस्य शाल्व-वध-श्रवणम् अपि
तत्रोक्तं सम्पद्यते । तथा श्री-कृष्णस्य (पगे 93) गोकुल-गमनं च श्री-
भागवत-संमतम् एव -
तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाने यदूत्तमः ।
सान्त्वयाम् आस स-प्रेमैर् आयास्य इति दौत्यकैः ॥ [भ्प् 10.39.35] इति ।
यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् ।
ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ [भ्प् 10.45.23] इति ।
हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् ।
यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥ [भ्प् 10.46.35] इति ।
आगमिष्यत्य् अतिदीर्घेण कालेन व्रजम् अच्युतः ।
प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥ [भ्प् 10.46.34] इति च ।
तस्य श्री-मुखेन भक्त-जन-मुखेन च बहुशः सङ्कल्पानाम्
अन्यथानुपपत्तेः सत्य-सङ्कल्पः [मैत्रु 1.1] इति हि श्रुतिः । ईश्वराणां
वचः सत्यम् [भ्प् 10.33.31] इति स्वयं श्री-भागवतं च ।
न केवलम् एतावद् एव कारणं, तस्य व्रजागमनम् अपि स्फुटम् एवेत्य् आहुः
-- यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्-
दिदृक्षया [भ्प् 1.11.9] इति । अत्र मधून् मथुरां वेति व्याख्याय तदानीं
तन्-मण्डले सुहृदो व्रजस्था एव प्रकटा इति तैर् अप्य् अभिमतम् । तत्र योग-
प्रभावेन नीत्वा सर्व-जनं हरिः [भ्प् 10.50.51] इत्य् अत्र सर्व-शब्दात् ।
[थे वृ एदितिओन् हेरे अद्द्स्:
बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः ।
सुहृद्-दिदृक्षुर् उत्कण्ठः प्रययौ नन्द-गोकुलम् ॥ [भ्प् 10.65.1] इत्य् अत्र
प्रसिद्धत्वात् ।
वृ अद्दितिओन् एन्द्स्.]
॥ 1.11 ॥ द्वारका-वासिनः श्री-भगवन्तम्

5.181

[175]
तद् एतद्-आगमनं दन्तवक्त्र-वधानन्तरम् एव श्री-भागवत-सम्मतं,
यतः ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् [भ्प् 10.45.23] इति
कंस-वधान्ते -
अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया ।
गतांश् चिरायिताञ् छत्रु- पक्ष-क्षपण-चेतसः ॥ [भ्प् 10.82.41]
इति कुरुक्षेत्र-यात्रायां च श्री-भगवद्-वाक्येन तद्-आगमने दन्तवक्त्र-
वधान्तं तच्-छत्रु-पक्ष-क्षपण-लक्षणं सुखादानम् एवापेक्षितम्
आसीत् । तद् एवं मास-द्वयं प्रकटं क्रीडित्वा श्री-कृष्णोऽपि तान् आत्म-
विरहार्ति-भय-पीडितान् अवधाय पुनर् एव माभूद् इति भू-भार-हरणादि-
प्रयोजन-रूपेण निज-प्रिय-जन-सङ्गमान्तरायेण संवलित-प्रायां
प्रकट-लीलां तल्-लीला-बहिरङ्गेणापरेण जनेन दुर्वेद्यतया तद्-अन्तराय-
सम्भावना-लेश-रहितया तया निज-सन्तता-प्रकट-लीलयैकीकृत्य
पूर्वोक्ताप्रकट-लीलावकाश-रूपं श्री-वृन्दावनस्यैव प्रकाश-विशेषं,
तेभ्यः कृष्णं च तत्र छन्दोभिः स्तूयमानम् [भ्प् 10.28.18] इत्य् आद्य्-उक्त-
दिशा स्वेन नाथेन स-नाथं श्री-गोकुलाख्यं पदम् आविर्भावयामास ।
एकेन प्रकाशेन च द्वारवतीं च जगामेति । तथा पाद्मोत्तर-खण्ड एव
तद्-अनन्तरं गद्यम् -
अथ तत्रस्था नन्दादयः सर्वे जनाः पुत्र-दार-सहिताः पशु-पक्षि-
मृगादयश् च वासुदेव-प्रसादेन दिव्य-रूप-धरा विमानम् आरूढा
परम-वैकुण्ठ-लोकम् अवापुर् इति । कृष्णस् तु नन्द-गोप-व्रजौकसां
सर्वेषां परमं निरामयं स्व-पदं दत्त्वा दिवि देव-गणैः संस्तूयमानो
द्वारवतीं विवेश ॥ [पद्मप् 6.252.28-29] इति च ।
इत्थं माथुर-हरि-वंशेऽपि प्रसिद्धिर् अस्तीति श्रूयते । तत्र नन्दादयः
पुत्र-दार-सहिताः इत्य् अनेन पुत्राः श्री-कृष्णादयः । दाराः श्री-यशोदादय
इति लब्धे पुत्रादि-रूपैर् एव श्री-कृष्णादिभिः सह तत्-प्राप्तेः कथनात् ।
प्रकाशान्तरेण तत्र तेषां स्थितिश् च तैर् अपि नावगतेति (पगे 94) लभ्यते ।
वासुदेव-प्रसादेनाकस्मात् आगमन-रूपेण परम-प्रसादेन दिव्य-रूप-
धरास् तदानन्दोत्फुल्लतया पूर्वतोऽप्य् आश्चर्य-रूपाविर्भावं गता इत्य्
अर्थः । विमानम् आरूढा इति गोलोकस्य सर्वोपरि-स्थिति-दृष्ट्य्-अपेक्षया
वस्तुतस् त्व् अयम् अभिसन्धिः । कृष्णोऽपि तं हत्वा यमुनाम् उत्तीर्य इति
गद्यानुसारेण यमुनाया उत्तर-पारे एव व्रज-वासस् तदानीम् इत्य्
अवगम्यते । स च तेषां वृन्दावन-दर्शनाक्षमतया एव तत्-परित्यागेन
तत्र गतत्वात् । ततश् च विमान-शिरोमणिना स्वेनैव रथेन पुनः तस्याः
दक्षिण-पार-प्रापण-पूर्वकं श्रीमद्-गोपेभ्यः श्री-वृन्दावन एव
पूर्वं गोलोकतया दर्शिते तत्-प्रकाश-विशेष एव निगूढं निवेशनं
वैकुण्ठावाप्तिर् इति । अक्के चेन् मधु विन्देत किम् अर्थं पर्वतं व्रजेद् इति
न्यायेन । समीपार्थेऽव्ययम् अक्के-शब्दः । न वेद स्वां गतिं भ्रमन्न्
[भ्प् 10.28.14] इति वदता श्री-भगवता तेषां गतित्वेनापि विभावितोऽसौ लोकः ।
तस्माद् वृन्दावने निगूढ-प्रवेश एव समञ्जसः । अत्र वृन्दावन-नित्य-
लीला-वाक्य-वृन्दं चाधिकम् अप्य् अस्ति प्रमाणम् ।
[वृ अद्द्स्] एवम् एव श्री-गर्ग-वाक्यं कृतार्थं स्यात् -
एष वः श्रेय आधास्यद् गोप-गोकुल-नन्दनः ।
अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ ॥ [भ्प् 10.8.16] इति । [वृ अद्दितिओन्
एन्द्स्.]
अथ गद्यान्ते द्वारवतीं विवेश इति च शाल्व-वधार्थं निर्गतैः श्री-
भगवत्-प्रत्यागमनं प्रतीक्षमाणैः यादवैः सहैवेति श्री-
भागवतवद् एव लभ्यते । तं विना स्वयं गृह-प्रवेशानौचित्यात् ।
क्षणार्धं मेनिरेऽर्भकाः [भ्प् 10.14.43] इतिवद् अल्प-काल-भावनेन वा ।
तद् एवं पुनः श्री-गोकुलागमनाभि-प्रायेणैव श्री-वृन्दावन-
नाथोपसना-मन्त्रे निहत-कंसत्वेन तद्-विशेषणं दत्तम् । यथा
बोधायनोक्तेः -गोविन्दं मनसा ध्यायेद् गवां मध्ये स्थितं शुभम् इति
ध्यानानन्तरं, गोविन्दं गोपी-जन-वल्लभेश कंसासुर-घ्न त्रिदशेन्द्र-
वन्द्य इत्य् आदि । अन्यत्र च गोविन्द गोपी-जन-वल्लभेश विध्वस्त-कंस इत्य्
आदि ।
[वृ अद्द्स्] एवम् एव गौतमीये श्रीमद्-दशाक्षरोपासनायां वैश्य-विशेस-
गोपाल-लीलाय तस्मै यज्ञ-सूत्र-समर्पणं विहितं - यज्ञ-सूत्रं ततो
दद्याद् अथवा स्वर्ण-निर्मितम् । [वृ अद्दितिओन् एन्द्स्.]
इत्थम् एव पुनः प्राप्त्य्-अभिप्रायेणोक्तम् - अनुस्मरन्त्यो मां नित्यम् अचिरान्
माम् उपैष्यथ [भ्प् 10.47.36] इति, दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां
मद्-आपनः [भ्प् 10.82.44] इति । अथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः
[भ्प् 10.83.1] इति च । तथैव केवलेन हि भावेन [भ्प् 11.12.8] इत्य्-आदि-पद्य-
द्वय-कृतेन साधक-चरीणां गोपीनां प्रथमं तत्-प्राप्ति-प्रस्तावेन
नित्य-प्रेयसीनाम् अपि तन्-महा-वियोगानन्तर-प्राप्तिं तस्य वियोगस्यातीतत्व-
निर्देशाद् द्रढयति द्वाभ्याम् --
रामेण सार्धं मथुरां प्रणीते
श्वाफल्किना मय्य् अनुरक्त-चित्ताः ।
विगाढ-भावेन न मे वियोग-
तीव्राधयो ऽन्यं ददृशुः सुखाय ॥
तास् ताः क्षपाः प्रेष्ठतमेन नीता
मयैव वृन्दावन-गोचरेण ।
क्षणार्ध-वत् ताः पुनर् अङ्ग तासां
हीना मया कल्प-समा बभूवुः ॥ [भ्प् 11.12.10-11]
अत्र विगाढ-भावेन वियोग-तीव्राधयः सत्यो मत्तोऽन्यं निज-सख्य्-आदिकम्
अपि न सुखाय ददृशुः । ततश् चाधुना तु सुखाय पश्यन्तीति वियोगो नास्तीत्य्
अर्थः । एवं तास् ताः (पगे 95) क्षपाः मया हीनाः सत्यः कल्प-समा
बभूवुर् अधुना तु तादृश्यो न भवन्तीति नास्त्य् एव वियोग इत्य् अर्थः ।
[वृ अद्द्स्] पूर्वं त्व् एतम् एवोद्धवं प्रति -
मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः ।
स्मरन्त्यो ऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥
धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन ।
प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः ॥ [भ्प् 10.46.5-6]
इत्य् अत्र वर्तमान-प्रयोग एव कृत इति सोऽयम् अर्थः स्पष्ट एव
प्रतिपत्तव्यः । [वृ अद्दितिओन् एन्द्स्.]
[176]
ततश् च प्रकटाप्रकट-लीलयोः पृथक्त्वाप्रतिपत्त्यैवाप्रकट-भावम्
आपद्य स्व-नाम-रूपयोर् एव ताः स्थिता इत्य् आह -
ता नाविदन् मय्य् अनुषङ्ग-बद्ध-
धियः स्वम् आत्मानम् अदस् तथेदम् ।
यथा समाधौ मुनयो ऽब्धि-तोये
नद्यः प्रविष्टा इव नाम-रूपे ॥ [भ्प् 11.12.12]
तास् तथाभूत-विरहौत्कण्ठ्यातिशयेनाभिव्यक्त-दुर्धर-महा-भावाः
सत्यः, (तथा आगमिष्यत्य् अतिदीर्घेन कालेन व्रजम् अच्युतः [भ्प् 10.46.34]
इति भगवद्-उक्त्य्-अनुसारेण यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून्
मधून् वा [भ्प् 1.11.9] इति द्वारका-वासि-प्रजा-वचनानुसारेण च,) कदाचित्
तासां दर्शनार्थं गते मयि लब्धो योऽनुषङ्गो महा-मोदन-
भावाभिव्यक्ति-कारी पुनश् च संयोगस् तेन बद्धा धीर् यासां तथाभूताः
सत्यः स्वं ममतास्पदम् आत्मानम् अहङ्कारास्पदं चादः अप्रकट-
लीलानुगतत्वेनाभिमतं वा तथेदं प्रकट-लीलानुगतत्वेनाभिमतं वा

यथा स्यात् तथा नाविदन्, किन्तु द्वयोर् ऐक्येनैवाविदुर् इत्य् अर्थः ।
प्रकटाप्रकटतया भिन्नं प्रकाश-द्वयम् अभिमान-द्वयं लीला-द्वयं
चभेदेनैवाजानन्न् इति विवक्षितम् । ततश् च नाम च रूपं च तस्मिन् तत्-तन्-
नाम-रूपात्मनि अप्रकट-प्रकाश-विशेषे प्रविष्टा इव, न तु प्रविष्टा वस्
त्व् अभेदाद् इत्य् अर्थः । नाम-रूप इति समाहारः ।
तत्र प्रकटाप्रकट-लीला-गतयोर् नाम-रूपयोर् अभेदे दृष्टान्तः - यथा
समाधौ मुनयः इति । समाधिर् अत्र शुद्ध-जीवस्येति गम्यम् । तयोर्
लीलयोर् भेदावेदने दृष्टान्तस् त्व् अयं लीलाब्धे आवेदनांश एव, न तु
सर्वावेदनांशे लोकवत् तु लीला-कैवल्यम् [व्स्. 2.1.33] इतिवत् ।
[177]
तद् एवं प्रकटाप्रकट-लीलयोर् द्वयोर् अपि तासां स्व-प्राप्तौ भाव एव
कारणं दर्शितम् । ततश् चाप्रकट-लीलायां प्रविष्टा अपि यादृशं तस्य
स्वरूपं प्राप्तास् तद्-दर्शयन्न् अन्यद् अप्य् अनुवदति -
मत्-कामा रमणं जारम् अस्वरूप-विदो ऽबलाः ।
ब्रह्म मां परमं प्रापुः सङ्गाच् छत-सहस्रशः ॥ [भ्प् 11.12.13]
[ब् रेअद्स् हेरे: अयम् अर्थः - यथा भीष्मम् उदारं दर्शनीयं कटं करोति
इत्य् अत्र क्रिया खलु विशेषस्य कृतिं प्रत्यायन्ती विशेषणानाम् अपि
प्रत्याययति । कटं करोति तं च भीष्मम् इत्य् आदि-रीत्या । तथात्रापि
प्रतीयते विशेष्यं चात्र ब्रह्मैव । सर्व-विशेषणाश्रयणीय-परम-
वस्तुतया तेषु विशेषणेषु तस्याभेदेनानुगमात् एकम् एवाद्वितीयं ब्रह्म
[छाउ 6.1.1] इति श्रुतेः । परम् इत्य् आदीनि तु विशेषणानि तद्-अभिन्नत्वेऽपि
प्रतिस्वं भेदकत्वात् स एकधा भवति द्विधा भवति इत्य् आदि श्रुतेः । तद्
एवं स्थिते क्रमोऽप्य् अत्रार्थिक एव गृह्यते पच्यन्तां विविधाः पाकाः [भ्प्
10.24.26] इत्य् आदौ, सर्व-दोहश् च गृह्यताम् इतिवत् अग्नि-होत्रं जुहोति यवागं
पचति इत्य् आदिवच् च । ततश् च [एन्द् वृ. अद्दितिओन्]
(पगे 96)
एवं पूर्वोक्त-रीत्या ता अबला ब्रह्म प्रापुस् तच् च परमं भगवद्-रूपं
प्रापुः । ब्रह्मणो हि प्रतिष्ठाहम् [गीता 14.27] इत्य् आदेः । तद् एवं स्थिते
तासां मद्-अंश-भूतानां नित्य-प्रियाणां सङ्गाद् अन्या अपि तदानीम् एव
गोकुल-भाजः शत-सहस्रशः प्रापुः । सङ्गस्य तत्-प्रापकत्वं च झटिति
समान-भाव-जनकत्वात् । यथोक्तम् एतत् पूर्वम् एव केवलेन हि भावेन
गोप्यो गावः [भ्प् 11.12.8-9] इत्य् आदि । एवं गवादिष्व् अपि द्विविधत्वं गम्यम् ।
किम् आख्यं प्रापुस् तत्राह - मां कृष्णाख्यम् एव नराकृति परं ब्रह्मेति
पुराण-वर्गात् । योऽवताराणां मध्ये श्रेष्ठोऽवतारः को भविता कथम्
अस्यावतारस्य ब्रह्मता भवति [ग्तु 2.13] तापनीभ्यश् च ।
कीदृश-सम्बन्धं त्वां प्रापुस् तत्राह रमणं जारम् इति । रमणः पतिर्
नन्दन-शब्दवद् यौगिकत्व-बाधात् । यथा मित्रा-पुत्रो मित्रा-नन्दन
एवोच्यते, न तु मित्रा-पतिः । मित्रा-पतिर् अपि मित्रा-रमण एवोच्यते, न तु
मित्रा-पुत्र इति ।
ततश् चायम् अर्थः । यथा भीष्मम् उदारं दर्शनीयं कटं करोति इत्य् अत्र
क्रिया खलु विशेषस्य कृतिं प्रत्यायन्ती विशेषणानाम् अपि प्रत्याययति ।
कटं करोति तं च भीष्मम् इत्य् आदि-रीत्या । तथात्रापि प्राप्तं ब्रह्म
प्रापुस् तच् च परमं भगवद्-रूपं तच् च मां श्री-कृष्णाख्यं स्वयं
भगवद्-रूपम् इत्य् आदि-रीत्या । किन्तु जारम् इत्य् उक्तेर् एव रमण-विशेषत्वे
लब्धे रमण-पदम् अधिकं स्याद् इत्य् अक्षराधिक्येनार्थाधिक्यम् इति
न्यायाद् अधिकार्थम् एव बोधयति । तत्र चाधिक-पदस्यैवार्थः
पर्यवस्यतीति प्रयत्ने नोपादानाज् जारत्वं च प्रातीतिक-मात्रम् । गोपीनां
तत्-पतीनां चेत्य् आदेः । किन्तु साधारणीष्व् अपि पर-ब्रह्मणः सर्वांशित्वात्
सर्व-पातृत्वाच् पतित्वम् एव । यथोक्तं पिङ्गलया आत्मना रमणेन वै [भ्प्
11.8.39] इति, रेमेऽनेन यथा रमा [भ्प् 11.8.34] इति । लक्ष्मी-देव्या च, स वै
पतिः स्याद् अकुतोभयः (पगे 97) स्वयं समन्ततः पाति भयातुरं जनम्
[भ्प् 5.18.20] इति । तस्मात् पूर्वं यं जारत्वेन प्रतीतं प्रापुः पश्चान् निज-
रूपम् एव तं प्रापुर् इति । तथा जारम् इत्य् एवोक्ते पर्यवसितं न सिद्ध्येद् इति
(पगे 98) रमणम् इत्य् उच्यते । रमणम् इत्य् एवोक्ते भगवत्त्वं श्री-कृष्ण-
रूपत्वं च न सिद्ध्यति, माम् इत्य् एवोक्ते ब्रह्मत्वं भगवत्त्वं च
प्रमाणान्तर-साकाङ्क्षं भवति इति साक्षाद् एव तत् तद् उच्यते । पूर्व-
प्रतीतत्वाद् रमण-पदेनापि जारत्वम् एव प्रतीयेतेति तन्-निरासार्थं तत्-तद्-
अनुवादश् चावश्यं कार्यः । (पगे 99) ब्रह्म मां परमम् इत्य् एषु पदेषु
पाठ-क्रमस्याविवक्षितत्वाज् जार-भावस्य च पूर्वत्वाद् आर्थिक एव क्रमो
लभ्यते । एष एव च सर्वत्र बलीयान् । ततो न विपर्ययेणार्थश् च कार्यः ।
किं चाप्राप्ते हि शास्त्रम् अर्थवद् इति न्यायेन । दध्ना जुहोतीत्य् आदिवद्
अप्राप्ते रमण-पदे एव तात्पर्यं न तु पूर्व-पूर्व-प्राप्ते ब्रह्मादि-जार-
पर्यन्ते । नन्द-गोप-सुतं देवि पतिं मे कुरु ते नमः [भ्प् 10.22.4] इति कृत-
जपानां कुमारीणां तु पति-भावना-पूर्तेति चेत् तर्हि तासाम् अनवद्य-
भावानां सङ्कल्प-सिद्धिर् एव श्री-भगवता सुतरां कार्या । तत्रैव च
स्वयम् अङ्गीकृतं याताबला [भ्प् 10.22.21] इत्य् आदौ सिद्धा इति मया इति च ।
[थे अबोवे सेच्तिओन् स्तर्तिन्ग् wइथ् ôब्रह्मणो हि प्रतिष्ठाहम्ö उप् तो ôइति
मयेति चö इस् नोत् fओउन्द् इन् वृ. इत् रेअद्स् अस् fओल्लोwस्:
परमं यो महद् ब्रह्म इति सहस्र-नाम-स्तोत्रात् । शुभाश्रयः स्व-चित्तस्य
सर्वगस्य तथात्मनः [विप् 6.7.75] इति विष्णु-पुराणाच् च । तादृशं तं च मां
कृष्णाख्यम् एव प्रापुः कृष्णाकृति परं ब्रह्म इति पुराण-वर्गात् ।
ब्रह्मणो हि प्रतिष्ठाहम् [गीता 14.27] इति श्री-गीतोपनिषद्भ्यः । तद्-
रूपस्यैव स्वस्य प्राप्तिस् तासु स्वयम् एव श्री-भगवता प्रोक्ता [भ्प् 10.4.36] ।
मय्य् आवेश्य मनः कृत्स्नं विमुक्ताशेष-वृत्तिर् यत् ।
अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ ॥ [भ्प् 10.47.36] इति ।
मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते ।
दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥ [भ्प् 10.82.44] इति च ।
अथ तादृशं च मां भाव-विशेष-संवलितम् एव प्रापुर् इत्य् आह, मत्-कामा
रमणं जारम् अस्वरूप-विदः इति, रमण-शब्देन पतिर् एवोच्यते, नन्दन-
शब्देन पुत्र इव रूढ्या यौकितत्व-बाधात् । यथा मित्रा-नन्दन-
शब्देनात्र मित्रा-पुत्र एवोच्यते न तु मित्रा-पतिः । मित्रा-रमण-शब्देन
च मित्रा-पतिः । न तु मित्रा-पुत्रः तद्वद् अत्रापि । कोष-मते च रमण-
शब्दः पत्याव् एव रूढः । पटोल-मूले रमणं स्यात् तथा रमणः प्रिये
श्री-स्त्री-जाति-सम्बन्धे सति रमण-शब्दवत् प्रिय-शब्देन पतिर् एवोच्यते
तथैव प्रसिद्धेः । धवः प्रियः पतिर् भर्ता इत्य् अमर-कोषाच् च । पतित्वं
तूद्वाहेन कन्यायाः स्वीकारित्वम् इति लोक एव भगवति तु स्व-भावेनापि
दृश्यते परम-व्योमाधिपस्य महा-लक्ष्मी-पतित्वं ह्य् अनादि-सिद्धम् इति ।

जार-शब्देन सर्वत्रोपपतिर् एवोच्यते जारस् तूपपतिः समौ इत्य् अमर-कोषात् ।
उपपतित्वं चाधर्मेण प्रतीयमानत्वम् । यथोपधर्मत्वम् अधर्मे
धर्मीयमानत्वम् इति । उभयत्रापि (पगे 97) वेद-विरुद्धत्वात् । तद् एव
जारः पाप-पतिः समौ इति त्रिकाण्ड-शेषः । ततश् च जारत्वं रमणे नास्ति,
रमणत्वं जारे नास्ति । धर्मोपधर्मयोर् इव द्रव्यस्य स्वामि-चौरयोर् इव
च विरुद्ध-वस्तुत्वाद् इति स्थिते ब्रह्म मां परमम् इतिवन्
नैकाधिकरणत्वं जारत्व-रमणत्वयोः सम्भवति । तस्माद्
अधिकारिणीनां तासां विशेषण-भेदेन तद्-द्वयं समादधत् तद्-अर्थं
चैकस्य वास्तवत्वम् अन्यस्य त्व् अवास्तवत्वं दर्शयति मत्-कामा रमणम्
इति जारम् अस्वरूपविदः इत्य् आभ्यां तत्र जारत्वस्यैव प्रातीतिक-मात्रत्वाद्
अवास्तवत्वं स्वामिभिर् अङ्गीकृतं नान्यस्य । जार-बुद्धि-वेद्यम् अपि इत्य्
उक्तत्वात् । स्थापयिष्यते च तद् इदम् अस्माभिर् उत्तरत्र ।
ततश् चायम् अर्थः । स्वरूपं मन्-नित्य-प्रेयसी-रूपत्वम् अजानन्त्यो
जन्मादि-लीला-शक्त्या विस्मरन्त्यो मां जारं प्रापुः धर्म-विरुद्धतया
प्रतीताव् अपि रागातिशयेन जारतयापि स्वीकृतं प्रापुर् इत्य् अर्थः । तथा तत्-
प्राप्ताव् अपि मत्-कामाः इति यत् पत्य्-अपत्य्-सुहृदाम् अनुवृत्तिर् अङ्ग [भ्प्
10.29.32] इत्य्-आदि-रीत्या मयि कामोऽभिलाष-विशेषः कथम् अन्यत्र पतित्वं
स्वप्नवद् विलीयते । श्री-कृष्ण एव पतित्वं जाग्रद्वद् आविर्भवेद् इत्य् एवंरूपो
यासां तादृश्यः सत्यो रमण-रूपम् एव मां प्रापुर् इति । एतद् अर्थम् एव
पृथक्-कृत्य तासां विशेषणाभ्यां सह स्व-विशेषण-द्वयं मत्-कामा
रमणम् इति ।
जार-स्वरूप-विदः इति यथा-योगं च पठितम् । न तु ब्रह्म मां परमम्
इत्य् एभिः सह कृतम् । तद् इदं स्वेषु तदीय-स्वीयात्वं प्रकटयितुम् अपि
तासां प्रार्थनापि दृश्यते । यस्मात् अपि बत मधु-पुर्याम् आर्य-
पुत्रोऽधुनास्ते [भ्प् 10.47.21] इत्य् अत्र तदीयात्व एव स्वामि-मतिं व्यज्य तत्र
च किङ्करीणाम् इत्य् अनेन दैन्यात् पुनस् तद् अपलाप्य पुनर् उत्कण्ठया
भुजम् अगुरु-सुगन्धम् [भ्प् 10.47.21] इत्य् आदिना स्पष्टतयैव स्वीयात्वेन
स्वेषु तदीय-स्वीकारस्याभिकाङ्क्षा-व्यञ्जना श्री-राधा-देव्या कृतेति हि
गम्यते । दैन्यं चात्र पतित्व-कामनायाम् अपि श्यामसुन्दर ते दास्यः
[भ्प् 10.22.15] इतिवद् गम्यम् । स्पष्टं च तत्-स्वीकरण-प्रार्थना च ।
यद्यपि माम् एव दयितं प्रेष्ठम् आत्म्नानं मनसा गताः [भ्प् 10.46.4]
इत्य् अनेन बल्लव्यो मे मद्-आत्मिकाः इत्य् अनेन चास्मासु स्वीयात्व-भावस्
तस्यापि मनसि वर्तते एव, तथापि धारयन्त्य् अतिकृच्छ्रेण इत्यादि
स्वाभिप्रायेण यद्य् आगत्य स्पष्टम् एव स्वीक्रियामहे तदैवास्माकं
निस्तारः स्याद् इति तस्याभिप्रायः । तस्मात् साध्व् एव तथा व्याख्यातं मत्-
कामा रमणम् इति ।
अथ प्रस्तुतम् एवानुसरामः । जारतया प्रतीतत्वेन रमणत्वेन च प्राप्तौ
हेतुः अबला इति । एतत्-पदेन हि तासु निज-कारुण्यं व्यञ्जितम् । तेन च तस्य
कारणं रामेण सार्धं इत्य् आद्य् उक्तं तासां महा-प्रेम स्मारितम् । तस्मात्
तथा मत्-प्राप्तौ तादृश-महा-प्रेमैव हेतुर् इत्य् अर्थः । तद् एवम्
उभयथा-प्राप्ताव् अपि मत्-कामा इत्य् अनेन रमणतया प्राप्ताव् एव
पर्याप्तिः दर्शिता । तद् यथा तु अहं भक्त-पराधीनः [भ्प् 9.4.63] इति,
स्वेच्छामयस्य [भ्प् 10.14.2] इति, ये यथा मां प्रपद्यन्ते [गीता 4.11] इति च
प्रतिज्ञा-हानिः स्यात् । तत्र ये यथा इति येन कामना-प्रकारेणेत्य् अर्थः तत्-
क्रतु-न्यायात् ।
तद् एवं तासाम् अभीष्ट-पूरणं कैमुत्येनैवायातम् । ततश् चास्तां तासां
तदीय-परम-लक्ष्मी-रूपाणां वार्ता । तत्-सङ्गाद् अन्या अपि शत-सहस्रशस्
तथा मां प्रापुर् इत्य् आह सङ्गाद् इति । अत्रैवं विवेचनीयं तासां नित्य-
प्रेयसीनां तस्मिन् जारत्वं न सम्भवत्य् एव । श्रीमद्-दशार्णादौ हि तन्-
नाम्ना तासां पतित्वेनैवासाव् अभिधीयते वल्लभो दयितेऽध्यक्षे इति विश्व-
प्रकाशादि-गत-वल्लभ-शब्दस्य द्व्य्-अर्थत्वेऽपि दयितत्वस्य तास्व् अर्हत्वात् ।
गौतमीय-तन्त्रे च तन्-मन्त्र-व्याख्यायां पतित्वेनैव तद्-व्याख्या
दृश्यते । तन्-नाम्नः खलु ब्रह्मत्वेश्वरत्व-योगेन व्याख्या-द्वयं
विधायोत्तर-पक्षत्वेनाभीष्टं व्याख्यानम् आह गौतमीय-तन्त्रे
द्वितीयाध्याये दशार्ण-व्याख्यायां -
अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव वा ।
नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ॥ इति ।
अत्रानेक-जन्म-सिद्धत्वम् अनादि-कल्प-परम्परा-प्रादुर्भूतत्वम्
एवोच्यते बहूनि मे व्यतीतानि जन्मानि तव चार्जुन [गीता 4.5] इतिवत् ।
वैवस्वत-मन्वन्तरान्तर्गतावश्यम्भावं तत्-प्रादुर्भावं विना
कल्पाभावात् । अनादि-सिद्ध-वेद-प्राप्त-तद्-उपासना-सिद्धानादित्वात् । तद्-
एक-पतित्वं च तत्-तन्-मन्त्रोपासना-शास्त्रे (पगे 98) तासां
कालानवच्छेदेन तद्-आराधन-तत्-परतया स्थितानां ध्यातुं
विधीयमानत्वात्, पत्य्-अन्तर-सम्बन्ध-गन्धस्याप्य् अश्रवणात् । तथा च
ब्रह्म-संहितायां -
आनन्द-चिन्-मय-रस-प्रतिभाविताभिस्
ताभिर् य एव निज-रूपतया कलाभिः ।
गोलोक एव निवसत्य् अखिलात्मभूतो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्रह्मस् 5.48] इति ।
लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानम् इत्य् उक्त-रीत्यामन्त्रतस् तच्-
छब्द-प्राप्त्या च गोपी-रूपाभिः सह गोलोक एव निवसति इति प्रकट-
लीलायाम् इव परकीयात्व-प्रपञ्चं निषिद्धम् । कलात्वेनैव निज-रूपत्वे
प्राप्ते निज-रूपतयेत्य् अस्य तथैव सार्थकत्वात् ।
तथैवोक्तं - श्रियः कान्ताः कान्तः परम-पुरुषः [ब्रह्मस् 5.56] इति । अत्र
श्री-परम-पुरुषयोर् औपपत्यं न सम्भवतीति युक्तं च दर्शितवान् ।
तपन्यां ताः प्रति दुर्वाससो वचनं, स वो हि स्वामी [ग्तु 2.27] इति । पति-
रमण-वल्लभ-शब्दवत् स्वामि-शब्दश् च तथा प्रसिद्धः स्वामिनो देवृ-
देवरौ इत्य् अमर-कोषात् । ते च शब्दा एक-निष्ठत्वेन प्रयोगाद् अन्योन्यम्
अन्यार्थतां निरस्यन्ति कृष्णाय वासुदेवाय देवकी-नन्दनाय च [भ्प् 1.8.21]
इत्य् आदिवत् । आस्ताम् अप्रकट-लीलाया वार्ता गुप्त-तादृशतायां प्रकट-
लीलायाम् अपि रस-प्रसङ्गे श्री-शुकेनापि सुखावेशाद् अगुप्तम् एव कृष्ण-
वध्वः [भ्प् 10.33.7] इत्य् उक्तम् । ऋषभस्य जगुः कृतानि इत्यत्र स्वामिनापि
ऋषभस्य पत्युः इति व्याख्यातम् । गोपी-पतिर् अनन्तो ऽपि वंश-ध्वनि-वशं
गतः इति सङ्गीत-शास्त्रे । श्री-यमुना-स्तवे श्री-शङ्कराचार्य-वचनैर् अप्य्
उक्तम्, विधेहि तस्य राधिका-धवाङ्घ्रि-पङ्कजे रतिम् इति । श्री-गीत-गोविन्दे
श्री-जयदेव-चरणैश् च पत्युर् मनः कीलितम् इति ।
तस्मात् स्वयं भगवता साध्व् एव दर्शितम् - जारम् अस्वरूप-विदः इति मत्-
कामा रमणम् इति च । पूर्वं ययैव लीला-शक्त्या तासाम् उक्तण्ठातिशय-
प्रकटनार्थं तन्-नित्य-प्रेयसीत्व-स्वरूपानुसन्धानावरण-पूर्वकं
श्री-कृष्णे जारत्वं प्रत्यायितम् आयत्याम् अपि तथैव पुनस् तस्मिन्
स्वाभाविक-पतित्व-प्रकाशमय-सुख-चमत्कार-कर-तादृश-

स्वरूपानुसन्धानं क्रियते इति भावः । आस्तां नित्य-प्रेयसीनां तासां
वार्ता । तत्-सङ्गात् प्राप्तवतीनाम् अन्यासाम् अपि तस्मिन् रमणत्वम् एव
सिध्यति, न तु जारत्वम् ।
तद् एव व्यञ्जितम् - मत्-कामा इत्य् अनेन ब्रह्म मां परमं प्रापुः इत्य्
अनेन च परम-ब्रह्मणः सर्वांशित्वात् सर्व-पातृत्वाच् च सर्वाधिपत्यम्
एव सिध्यति न तु परत्वम् । तत्र च सति तासु तादृश-मत्-कामासु पतित्वम्
एव स्यान् न जारत्वम् इत्य् अभिप्रायात् । तद् उक्तं दत्तात्रयेणापि पारमार्थिक-
तद्-विवेक-श्लाघा-गर्भ-गुरुत्वेन मतया पिङ्गलया आत्मना रमणेन वै
[भ्प् 11.8.40] इति, रेमेऽनेन यथा रमा [भ्प् 11.8.35] इति । रमा-देव्या च स वै
पतिः स्याद् अकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम् [भ्प्
5.18.20] इति । तस्माद् वास्तव-वस्तुन एव फलत्व-पर्यवसानाज् जार-बुद्ध्यापि
प्राप्ते तस्मिन् रमणतया प्राप्तेर् एव लालसा-विषयत्वाच् च पतित्वम् एव
पर्यवस्यति ।
तद् एवम् एवोक्तं -
तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः
जहुर् गुणमयं देहं सद्यः प्रक्षीण-बन्धनाः ॥ [भ्प् 10.29.11]
अत्र जिघांसयापि हरये स्तनं दत्त्वाप सद्-गतिम् [भ्प् 10.6.35] इति यथा
विगीतार्थेन जिघांसया-पदेन संसजन्न् अपि-शब्दो जिघांसायास्
तत्राप्रवर्तनीयत्वं व्यनक्ति, तथापि पुरुषार्थः सिद्ध इति विषयस्य
शक्तिम् एव स्थापयति, तथा विगीतार्थेन जार-पदेन संसजन-जारत्वस्य
तथात्वं विषयस्य च तां गमयति रमणत्वं तु न तथा विगीतम्, प्रत्युत
याः सम्पर्यचरन् प्रेम्णा पाद-संवाहनादिभिः ।
जगद्-गुरुं भर्तृ-बुद्ध्या तासां किं वर्ण्यते तपः ॥ [भ्प् 10.90.27]
इत्य् आदिना सुष्ठु स्तुतम् एव न च आसाम् अहो चरण-रेणु-जुषाम् [भ्प्
10.47.61] इत्य् आदिना जारत्वम् अपि स्तुतं, किन्तु तासां राग एव स्तुतः । येन
जारत्वेनाप्य् असौ स्वीकृत इति । जार-बुद्ध्या सहेति या जार-वादिनः कल्पना
सा (पगे 99) त्व् असत्यैव । अनर्हत्वाज् जार-पद-संसक्तस्यापि-शब्दस्यान्यथा
प्रत्यायकत्वेन दर्शितत्वात् । सह-पद-सापेक्षत्वेन कष्टत्वात् । उपपद-
विभक्तेः कारक-विभक्तिर् बलीयसी इति न्यायात् । साधकतमस्यान्यस्य
कल्पनीयत्वाच् च ।
ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥
इति पाद्मोत्तर-खण्ड-श्रवणाद् एताः खलु तदापि न सिद्ध-देहा इति
पर्यवसीयते । ततश् च तस्य देहस्य पत्युश् च त्यागेन श्री-कृष्ण-प्राप्तौ
परकीयात्वानुपपत्तिः । किम् उत माया-मात्रेण परकीयात्वेन
प्रतीयमानानां नित्य-प्रेयसीनाम् । एवम् एव च स्वयं भगवतापि दर्शितं
- या मया क्रीडता रात्र्यां [भ्प् 10.47.30] इत्य् आदिना । किन्तु जार-पदम् एतादृग्
अश्लीलम् । यत् खलु जारतया भजन्तीभिर् अपि न जारं प्रतिवचन-
विषयीक्रियते । किन्तु रमणादि-पदम् एवेति तद् अभिधेयं कथम् इव
फलाय कल्पते ।
तद् एवं जारम् इति ब्रह्मेत्य्-आद्य् अनूद्य-वर्गान्तः-पात्य् एव । किन्तु
भ्रममयत्वान् निन्दितत्वाच् च जारत्वस्य हेयत्वम् । रमणम् इति तु
विधेयम् इति यद् उक्तम् । तत् खलु प्रकट-लीलायां पूर्वस्य स्पष्टतया
वर्णितत्वेन श्रोतरि प्रसिद्धत्वाद् उत्तरस्य तद्वद् अवर्णितत्वेनापि
प्रसिद्धत्वाद् अपि सिध्यति । प्रसिद्धत्वाप्रसिद्धत्वे एव तयोः प्रवृत्ति-हेतुः
ब्राह्मण्योऽयं पण्डितः इतिवत् । न च अनुवादम् अनुक्त्वा तु न विधेयम्
उदीरयेत् इति सर्वत्रोपलभ्यते । यस्य पर्णमयी जुहुर् भवति इत्य् अत्र
वैपरीत्य-दर्शनात्, अप्राप्ते हि शास्त्रम् अर्थवत् इति न्यायेन च दध्ना जुहोति
इत्य् आदिवद् अप्राप्ते रमणत्व एव तात्पर्यम् । न च पूर्व-पूर्व-प्रसिद्धे
ब्रह्मत्वादि-जारत्व-पर्यन्ते अनधिगतार्थ-गन्तृ-प्रमाणम् इति च
वृद्धाः ।
किं च जारत्वस्य वास्तवत्वेऽश्लीलता दुर्निवारा । अवास्तवत्वे व्यभिचारित्वम्
एवेति । सर्वथा तद्-विधेयं न भवत्य् एव वेत्य् अलम् अतिविस्तरेण । अत्र
ब्रह्मेत्य् एवोक्ते भगवन्तं, श्रुत-निर्विशेष-ब्रह्म-वादस्य कस्यचित्
सन्देह-विषयो भवतीति परमम् इत्य् उक्तम् । परमम् इत्य् उक्ते श्री-कृष्ण-
रूपत्वं न प्रतीयते इति माम् इत्य् उक्तम् । माम् इत्य् एवोक्ते ब्रह्मत्वं
परमत्वं च प्रमाणान्तर-सापेक्षं भवतीति तत् तद् उच्यते । तथा जारम्
इत्य् एवोक्ते पर्यवसितं न सिध्यतिईति रमणम् इत्य् उक्तम् । रमणम् इत्य् एवोक्ते
पूर्व-प्रतीतत्वाद् रमण-पदेनापि कथञ्चिज् जारत्वम् एव लक्ष्येतेति तन्-
निरासार्थं जारम् इति चानूद्यते । परमाभीष्टत्वाद् अपि रमणत्वस्यैव
विधेयत्वं, न तु जारत्वस्य । [एन्द् वृ. रेअदिन्ग्.]
तथापि सर्वत्र पर्यवसान-निरुपद्रवेष्ट-प्राप्तिर् एव खलु सिद्धान्त-
रस-शास्त्रयोः सम्मतीः । प्राचीनैर् आधुनिकैश् च लौकिकालौकिअ-वर्णकैः
कविभिस् तथैवोपाख्यायते । श्रीमद्-अस्मद्-उपजीव्य-चरणैर् अपि ललित-
माधवे-पूर्ण-मनोरथ-नामन्य् अङ्के तथैव समार्पितम् तद् एवोज्ज्वल-
नीलमणौ प्रमाणीकृत्य सर्व-रस-पूरकः समृद्धिमयः सम्भोग
उदाहृतः । श्री-भगवता च यत् त्व् अहं भवतीनां वै [भ्प् 10.47.34] इत्य्
आदिना, या मया क्रीडता रात्र्याम् [भ्प् 10.47.37] इत्य् आद्य्-अन्तेन
तथैवाभिप्रेतम् । जार-भाव-मयः सङ्गमश् च सदैव सोपद्रवस्
तस्माद् असौ पर्यवसान-पुरुषार्थत्वे तत्-तच्-छास्त्र- (पगे 100) -सम्मतो
न स्यात् । तथा पर-कोटि-सङ्ख्यानां निज-पदाब्ज-दलैः [भ्प् 10.35.16] इत्य्-
आदि-युगले, कुज-गतिं गमिता न विदामः कश्मलेन कवरं वसनं वा
[भ्प् 10.35.17] इति चेत्यादि-रीतीनाम् उद्भट-महा-भावानां तासां व्रजे
भाव-संगोपनं पूर्वम् अपि दुष्करम् आसीत् ।
महा-विरहे तु जाते निवारयामः समुपेत्य माधवं किं नोऽकरिष्यन् कुल-
वृद्ध-बान्धवाः [भ्प् 10.39.28] इति, विसृज्य लज्जां रुरुदुः स्म सुस्वरं
गोविन्द दामोदर माधवेति [भ्प् 10.39.31] चेति, ता मन्-मनस्का मत्-प्राणा
मद्-अर्थे त्यक्त-दैहिकाः [भ्प् 10.46.4] इति, कृष्ण-दूते व्रजायाते उद्धवे
त्यक्त-लौकिकाः [भ्प् 10.47.9] इति, गत-ह्रियः [भ्प् 10.47.10] इति, काचिन्
मधुकरं दृष्ट्वा [भ्प् 10.47.11] इति, या दुस्त्यजं स्वजनम् आर्य-पथं च
हित्वा [भ्प् 10.47.61] इति, गोप्यो हसन्त्यः पप्रच्छू राम-दर्शनादृताः [भ्प्
10.65.9] इति,
मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄन् अपि ।
यद्-अर्थे जहिम दाशार्ह दुस्त्यजान् स्व-जनान् प्रभो ॥ [भ्प् 10.65.11] इति च
श्रूयते ।
अत्र निवारयाम इत्य् आदिकं यथा सङ्क् प्ते तथैव विसृज्य लज्जाम् इत्य्
आदिनाचरितम् । तासां लज्जा-त्यागः खलु भाव-व्यक्त्यैव स्यात्, सर्वेषां
गोइकुल-वासिनां रोदनादि-साम्यात् । ततस् तद्-व्यक्ति-पूर्वैक-रोदन-द्वारेण
ताभिर् निवारणम् अपि योग्यम् इति ।
एवं त्यक्त-लौकिका इत्य्-आदिषु च सुष्ठ्व् एव भाव-व्यक्तिर् गम्यते । किं
बहुना, मातरम् इत्य् आदौ मात्रादीन् जहिम इत्य् उक्तं न तु पूर्व-रागवत्
पति-सुतान्वय-भ्रातृ-बान्धवान् अतिविलङ्घ्य [भ्प् 10.31.16] इत्य् मात्रम्

उक्तम् । गोप्यो हसन्त्य इति तून्माद-लक्षणम् । तदानीं हासायोग्यत्वात्,
यथैव काचिन् मधुकरं दृष्ट्वा इत्य् आदाव् उन्माद एव दृश्यते ।
तद् एवं तदानीं तु दुर्धर-महा-भावेनोन्मत्त-चेष्टानां निरपत्रप-
व्यञ्जित-भावानां त्यक्त-मात्रादीनां तासाम् असङ्ख्यानां भावस्य
संगोपनं नोपपद्यत एव । किन्तु ज्ञातोऽप्य् असौ महा-विरह-पीडया स-
वैर-ज्ञात इव आसीत् । अनन्तरं त्व् अनुसन्दध एव । स तु भाव-
सङ्गोपनयैव काल-कतिपयं स्वस्य रसताम् आवहति । व्यक्तत्वे तु स्वस्य
परेषाम् अपि सर्वत्र वस्तुतो धर्म-मयत्व-प्रतीतौ जातायाम् एवेति रस-
विदां मतम् । अधर्म-मयत्व-प्रतीत त्व् अश्लीलतया व्याहन्यत एव रसः ।
अधर्म-मयत्वं च द्विधां परकीयात्वेन पर-स्पर्शेन च । तस्माद्
यथैश्वर्य-ज्ञान-मय्यां श्री-परीक्षित्-सभायाम् ऐश्वर्य-ज्ञान-रीत्यैव
तत् परिहृत्य रसावहत्वं समाहितम् । तथा लोकवल्-लीला-कैवल्यावलम्बने
प्रेम-मय्यां श्री-गोकुल-सभायां लोक-रीत्यैव समाधेयम् । तथा हि -
नासूयन् खलु कृष्णाय मोहितास् तस्य मायया ।
मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः । [भ्प् 10.33.37]
इति यत् श्रूयते (पगे 101) तच् चात्राप्य् अवश्यम् एव सङ्गमनीयम् तस्याप्य्
असमर्थः । तस्य मायया मोहिताः सन्तो नासूयन् तस्य स्व-नित्य-प्रेयसी-
स्वीकार-लक्षणे कथम् असाव् अस्मद्-धामार्थ-सुहृत-प्रियात्म-तनय-
प्राणाशय-जीवातुतमः पर-दार-स्वीकारामङ्गलम् अङ्गीकरोतीति
दोषारोपं नाकुर्वन्न् इत्य् अर्थः । माया-मोहितत्वम् एवाह मन्येति । स्वरूप-
सिद्धानां भगवद्-दाराणाम् अपर-कर्तृक-बलात्कार-परिहारार्थं तत्-
तद्-आकारतया माया-कल्पिता ये स्वे स्वे दारास् तान् स्व-पार्श्व-स्थान्
मन्यमानाः स्वमत्या निश्चिन्वाना इत्य् अर्थः ।
तद् एवं अन्तर्-गृह-गताः काश्चित् [भ्प् 10.29.9] इत्य् अत्रोक्तानाम् अपि
समाधानं ज्ञेयम् । परम-समर्थायास् तस्याः मायाया निज-प्रभु-
प्रेयसीनां तद्-एकानुराग-स्वभावानां मर्यादा-रक्षणार्थं परिणयम्
आरभ्य सदैव सावधानतायाः योग्यत्वात् तद्-दिनम् उपलक्षणम् एवेति ।
[वृ. अद्द्स्] श्रूयते च कूर्म-पुराणे द्वात्रिंशाध्यायस्यान्ते पति-
व्रतामात्रस्य परात् परिभवो न सम्भवतीति कैमुत्येन श्री-सीता-देव्य्-
उदाहृता -
पति-व्रताधर्म-परा रुद्राण्य् एव न संशयः ।
नास्यां पराभावं कर्तुं शक्नोतीह जनः क्वचित् ॥
यथा रामस्य सुभगा सीता त्रैलोक-विश्रुता ।
पत्नी दाशरथेर् देवी विजिग्ये राक्षसेश्वरम् ॥
रामस्य भार्यां विमलां रावणो राक्षसेश्वरः ।
सीतां विशाल-नयनां चकमे काल-चोदितः ॥
गृहीत्वा मायया वेशं चरन्तीं विजने वने ।
समाहर्तुं मतिं चक्रे तापसः किल भाविनीम् ॥
विज्ञाया सा च तद्-भावं स्मृत्वा दाशरथिं पतिम् ।
जगाम शरणं वह्निम् आवसथ्यं शुचि-स्मिता ॥
उपतस्थे महा-योगं सर्व-पाप-विनाशनम् ।
कृताञ्जली राम-पत्नी साक्षात् पतिम् इवाच्युतम् ॥
नमस्यामि महायोगं कृतान्तं गहनं परम् ।
दाहकं सर्व-भूतानाम् ईशानं काल-रूपिणम् ॥ इत्य् आदि ।
इति वह्निं पूज्य जप्त्वा राम-पत्नी यशस्विनी ।
ध्यायन्ती मनसा तस्थौ रामम् उन्मीलितेक्षणा ॥
अथाववस्थ्याद् भगवान् हव्य-वाहो महेश्वरः ।
आविरासीत् सुदीप्तात्मा तेजसैव दहन्न् इव ।
सृष्ट्वा मायामयीं सीतां स रावण-वधेच्छया ॥
सीताम् आदाय धर्मिष्ठां पावकोऽन्तरधीयत ।
तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः ।
समादाय ययौ लङ्कां सागरान्तर-संस्ह्तिताम् ।
कृत्वा च रावण-वधं रामो लक्षण-संयुतः ।
समादायाभवत् सीतां शङ्काकुलित-मानसः ।
सा प्रत्ययाय भूतानां सीता मायामयी पुनः ।
विवेश पावकं दीप्तं ददाह ज्वलनोऽपि ताम् ।
दग्ध्वा मायामयीं सीतां भगवान् उग्र-दीधितिः ।
रामायादर्शयत् सीतां पावकोऽभूत् सुर-प्रियः ।
प्रगृह्य भर्तुश् चरणौ कराभ्यां सा सुमध्यमा ।
चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥
दृष्ट्वा हृष्ट-मना रामो विस्मयाकुल-लोचनः ।
ननाम वह्निं शिरसा तोषयामास राघवः ॥
उवाच वह्ने भगवन् किम् एषा वर-वर्णिनी ।
दग्ध्वा भगवता पूर्वं दृष्ट्या मत्-पार्श्वम् आगता ॥
तम् आह देवो लोकानां दाहको हव्य-वाहनः ।
यथा वृत्तं दाशरथिं भूतानाम् एव सन्निधौ ॥ [कूर्मप् 32.513-530] इत्य्
आदि ।
एवम् अग्नि-पुराणम् अपि दृश्यम् । तद् एवम् अपि यत् तु वाल्मीकिना नेदं
स्पष्टीकृतं तत् खलु करुण-रस-पोषआर्थम् एवेति गम्यते । सेयं च तस्य
परिपाटी क्वचिद् अन्येनाप्य् उपजीव्यते इति ज्ञेयं ।
तद् एवं पतिव्रता-मात्राणां विशेषतः श्री-भगवत्-प्रेयस्या प्रभावे सति -
य एतस्मिन् महा-भागे प्रीतिं कुर्वन्ति मानवाः ।
नारयो ऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥ [भ्प् 10.26.21]
इति सामान्य-विषये गर्ग-वचने च सति तादृशीनां भ्रमेऽपि तं नित्य-कान्तं
परित्यजन्तीनां नित्यं तत्-कान्तं परिचरन्ती माया श्री-रामावसथ्याग्निवद्
अपि किं रक्षां न कुर्वीत किन्तु तकीय लीला-नाट्य-रक्षार्थं [वृ अद्दितिओन्
एन्द्स् हेरे.]
तद् एवं च तत्-पतिं-मन्यादिष्व् एव विवाहादि-शयनादि-समयेष्व् एव च
स्वरूप-सिद्धा आवव्रिरे । अन्येषु चान्यदा च कल्पिता एवेति गम्यते । तावद् एव
च युक्तं तासु मर्यादा-रक्षणोत्कण्ठा-वर्धनैक-प्रयोजनत्वात् तस्याः ।
(पगे 102)
यथैव हि तव सुतः सति यदाधर-बिम्बे दत्त-वेणुः [भ्प् 10.35.14] इत्य्
आदौ, शुश्रूषन्त्यः पतीन् काश्चित् [भ्प् 10.29.7] इत्य् आदौ, ता वार्यमाणाः
पतिभिः [भ्प् 10.29.8] इत्य् आदौ च स्वरूप-सिद्धानाम् एव दर्शनं तत्र
तत्रावगतम् । एवम् अन्यत्राप्य् अवगम्यम् । तासाम् अन्य-कृत-
ध्वंसाभावस्य कारणं प्रभावश् च सम्भाव्यते -
य एतस्मिन् महा-भागाः
प्रीतिं कुर्वन्ति मानवाः ।
नारयो ऽभिभवन्त्य् एतान्
विष्णु-पक्षान् इवासुराः ॥ [भ्प् 10.8.18] इति कैमुत्य-प्राप्तेः ।
अथ तासाम् अपत्य-श्रवणं च यातृ-मानिनी-प्रभृतीनाम् अपत्ये तद्-
व्यवहारात् ।
[वृ. ओमित्स् बेत्wएएन् यथैव हि अन्द् -प्रभृतीनाम् अपत्ये तद्-व्यवहारात्: अथ
तासाम् अपत्य-श्रवणं च यातृ-मानिनी-प्रभृतीन् आपत्येषु तद्-व्यवहारात् ।
साम्ब-लक्षणा प्रयानयने श्री-बलदेवम् उद्दिश्य स-सुतः स-स्नुषः
प्रायात् सुहृद्भिर् अभिनन्दितः इतिवत् । एन्द् वृ. रेअदिन्ग्.]
स्वापत्यत्वे सति विभाव-वैगुण्येन रसाभासत्वम् आपद्येत । ततश् च भजते
तादृशीः क्रीडा याः श्रुत्वा तात्-परो भवेत् [भ्प् 10.33.36] इति, सिषेव इत्य् आदौ
सर्वाः शरत्-काव्य-कथा-रसाश्रया [भ्प् 10.33.26] इति च विरुध्यते । पर-
पुत्रत्व-प्रतिपादनायैव हि पाययन्त्यः शिशून् पय इत्य् एवोक्तं न तु सुतान्
स्तनम् इति । अतएव मातरः पितरः पुत्रा भ्रातरः पतयश् च वः [भ्प्
10.29.20] इति परिहासत्वेनैव श्री-भगवद्-वाक्यं रसाय सम्पद्यते ।
वास्तवत्वेन तु वैरस्यायैव स्यात्, तासाम् अङ्गीकरिष्यमाणत्वात् । क्वचित्
ताभिर् एव तेषु यत् पति-शब्दः प्रयुक्तस् तद्-बहिर्-लोक-व्यवहारत एव

नान्तर्-दृष्टितः यत्-पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग [भ्प् 10.29.32] इत्य्
आदिना तद्-अङ्गीकारात् । माम् एव दयितं श्रेष्ठम् आत्मानं मनसा गताः
[भ्प् 10.46.4] इति भगवता तासाम् अन्तः-करण-प्रकाशनात् ।
[वृ. अद्द्स्: परं सौख्यं हि नैराश्यं स्वैरिण्य् अप्य् आह पिङ्गला [भ्प् 10.47.47]
इत्य् आदिना ताभिः स्वेषां तद्-एक-निष्ठता-व्यञ्जनात् । एन्द् वृ. रेअदिन्ग्.]
गोप्यः किम् आचरयद् अयम् इत्य् आदौ दामोदराधर-सुधाम् अपि गोपिकानां
भुङ्क्ते स्वयम् [भ्प् 10.21.9] इत्य् अनेन अपि बत मधु-पुर्याम् आर्य-
पुत्रोऽधुनास्ते [भ्प् 10.47.21] इत्य् अनेन ताभिः स्वयम् उक्तेश् च । तत एतद्
उक्तं भवति रास-पञ्चाध्याय्यां नासूयन् खलु कृष्णाय [भ्प् 10.33.37] इत्य्
उक्त-दिशा, स वो हि स्वामी [ग्तु 2.22] इत्य् ताः प्रति तापनी-स्थित-दुर्वाससो
वाक्यवत् । कृष्ण-वध्व इत्य्-उक्त-रीत्या च याः खलु योगमायाम् उपाश्रित्य
इति श्रवणात् तत्-तद्-अर्थ-भगवन्-नियुक्त-योगमाया-कल्पिताकल्पिततया
योगमायैक-विदिताः स्वतः परतश् च प्रच्छन्न-द्विविधायमाना आसन्, तास्
तु पश्चाद् योगमाययैव देव्या प्रापञ्चिताभ्यां मर्यादोत्कलिताभ्यां स्व-
पालितस्य रस-पोषतरोः पर्यवसान-निरुपद्रव-महा-सुख-प्राप्ति-रूपाय
फलाय मुन्य्-आकाशादि-वाण्य्-आदिकं द्वारी-कृत्य वा स्वयम् एव
प्रकटीभूय एव वा श्री-गोकुल-वासिनः प्रति तथैव व्यक्ती-कृताः,
स्वरूपेण माम् एव रमणं प्राप्ताः, नासूयन् खलु कृष्णाय इत्य् आद्य्-
उक्तासूया-परिहारस्य सम्यक्त्वाय तत्-कल्पितास् तु स्व-स्व-पतिम् इत्य् एव श्री-
भगवन्तम् । दृश्यते च संज्ञा-छायादिवत् कल्पनाया व्यक्तत्वम् एव
परिणामः सर्वत्र । तद् इत्थम् एव माता-पित्र्-आदीनाम् अभीष्टं सिध्यति ॥
[वृ. अद्द्स् हेरे: तस्मिन्न् एव तेषां वात्सल्यस्य विश्रान्तेः । न च दाम्पत्ये
प्रकटे -
बहु वार्यते यतः खलु यत्र प्रच्छन्न-कामुकत्वं च ।
या च मिथो दुर्लभता सा परमा मन्मथस्य रतिः ॥ [उन् 1.20]
इति भरतानुसृत-निवारणाद्य्-अभावाद्-रस-निष्पत्तिर् न स्याद् इति वाच्यम् ।
तस्य निवारणं खलु न भय-दानेन भवेत् सर्वातिशायि-सामर्थ्यात्, किन्तु
लज्जा-दानेनैव । लज्जा तु कुलीन-कुमाराणां स्व-स्त्री-गत-रहस्य-विहार-
विशेषस्य परेणानुमिताव् अपि जायते, किम् उत -
यत्र ह्रीः श्रीः स्थिता तत्र यत्र श्रीस् तत्र सन्नतिः ।
सन्नतिर् ह्रीस् तथा श्रीश् च नित्यं कृष्णे महात्मनि ॥ [ह्व् 2.101.73 (96.72)]
इति हरिवंशाद्य्-उक्तानुसारेण परम-लज्जादि-गुण-निधानस्य व्रजे नव-
वयः श्रीलताम् एवाभिव्यञ्जतस् तस्य सिद्धे च लज्जालुत्वे स्वयम् एव
निवारणादि-त्रयं सिध्यति । किन्तु लज्जा द्विविधा सङ्गोप्य न्याय्य-कर्मणि
सङ्कोच-मात्र-करी, अन्याय्य-कर्मणि न्यक्कार-करी च । अत्र
पूर्वाव्याजान्तराच्छन्ना नातिविरोधिनी उत्तरा यशः प्रियेण तेन कृत्तेऽपि
व्याजे तस्यानुमितिश् चेद् द्विगुणीभूय विरोधिनी ।
तद् एवं सति गोप-नारीभिर् अनिशं क्रीडयामास केशवः [पद्मप् 6.252.26]
श्रुतानिश-क्रीडा पारदार्ये सर्वथा न सम्भवति, स्व-दारत्वे तु तासाम्
असङ्ख्यानां स्व-स्वरूप-पत्य्-अप्राप्ता जात-परम-दुःखानां गुरुभिर् अपि
सम्मतः सान्त्वनादि-रूपो य आवश्यक-धर्मस् तद्-विध-व्याजेन
सम्भवति । यच् च
रम्य-केलि-सुखेनैव गोप-वेश-धरः प्रभुः ।
बहु-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥
इत्य् एतत्-पद्यम् तद्-अनन्तरं च सर्वेषां मनोरमत्वं बहु-प्रेम-रस-
प्रदत्वं च इत्थम् एव सङ्गच्छते इति । न च गोप-नारीभिर् इति पर-दारत्वं
शब्द-लब्धम् । देवहुत्यां सा त्वं ब्रह्मन् नृप-वधूर् इति कर्दमं प्रति
भगवद्-वाक्याज् जात्य्-अपेक्षयापि सम्भवात् ।
न च निवारणादिभिर् औपपत्यम् एव भरत-मतं रत्नावली-नाटिकायां
ययाति-चरितादिवद् दाम्पत्येऽपि सम्भवात् । नेष्टा यद् अङ्गिनि रसे कविभिर्
परोढा [उन् 5.3] इति विरोधात् ।
तद् एवं गूढतया मायया प्रणीतानां रमणतया तस्य प्राप्तौ मत्-कामा
रमणम् इति पद्यं योजितम् । नन्द-गोप-सुतं देवि पतिं मे कुरु ते नमः
इति कृत-जपानां कुमारीत्वेन प्रसिद्धानां परासाम् अपि सङ्कल्प-सिद्धिर्
एव श्री-भगवता कृता । तत्रैव हि स्वयम् अङ्गीकृतम् याताबला व्रजं
सिद्धाः इति । तद् एतत्-पक्षेऽपि पूर्ववद् एव गुप्त-पतित्वाज् जारम् इव जारम् इति
सङ्गमनीयम् । तस्माच् च श्री-गोपालोत्तर-तापन्यां ताः प्रति दुर्वाससा यद्
उक्तं तद् एव निगमनीयम् जन्म-जराभ्यां भिन्नं स्थाणुर् अयम् इत्य् आदौ
स वो हि स्वामी भवति इति । [एन्द् वृ. अद्दितिओन्.]
॥ 11.12 ॥ श्री-भगवान् उद्धवम् ॥ 175-177 ॥
(पगे 103)
[178]
पूर्वोक्त एवाप्रकट-लीला-प्रवेश-प्रकट-लीलाविष्कार-रूपोऽर्थस् तद्-
अनन्तर-प्रश्नोत्तराभ्याम् अप्य् अभिप्रेतोऽस्ति । प्रश्नस् तावत् श्री-उद्धव
उवाच -
संशयः शृण्वतो वाचं तव योगेश्वरेश्वर ।
न निवर्तत आत्म-स्थो येन भ्राम्यति मे मनः ॥ [भ्प् 11.12.16]
तव वाचं शृण्वतोऽवधारयतोऽपि ममात्मस्थः संशयो मयोदितेष्व् अवहित
इत्य् आदिकाध्याय-त्रय-गत-महा-वाक्यार्थ-पर्यालोचनासामर्थ्यं न
निवर्तते । कुतः ? येन यत एव रामेण सार्धं मथुरां प्रणीते [भ्प्
11.12.10] इत्य् आदि लक्षणात् तव वाक्यान् मम मनो भ्राम्यति । हन्त तासाम्
अनेन सङ्गमः कुत्र कथं विद्यते इति चिन्तया न स्वस्थं वर्तते इत्य्
अर्थः ।
[179]
तथोत्तरं तत्र तस्य संशयम् अपनेतुं द्वाभ्यां तावत् तच्-चित्तं स्वस्थयन्
श्री-भगवान् उवाच --
स एष जीवो विवर-प्रसूतिः
प्राणेन घोषेण गुहां प्रविष्टः ।
मनो-मयं सूक्ष्मम् उपेत्य रूपं
मात्रा स्वरो वर्ण इति स्थविष्ठः ॥ [भ्प् 11.12.17]
स एव मल्-लक्षणो जीवो जगतो जीवन-हेतुः विशेषतो व्रजस्य जीवन-हेतुर् वा
परमेश्वरः प्राणेन मत्-प्राण-तुल्येन घोषेण व्रजेन सह विवर-
प्रसूतिर् विवराद् अप्रकट-लीलातः प्रसूतिः प्रकट-लीलायाम् अभिव्यक्तिर् यस्य
तथाभूतः सन् पुनर् गुहाम् अप्रकट-लीलाम् एव प्रविष्टः । (पगे 104)
कीदृशः सन् ? किं कृत्वा ? मात्रा मम चक्षुर्-आदीनि स्वरो भाषा-गानादि-
वर्णो रूपम् इति इत्थं स्थविष्टः स्व-परिजनानां प्रकट एव सन् अन्येषां
सूक्ष्मम् अदृश्यं बहिरङ्ग-भक्तानां च मनोमयं कथञ्चिन् मनस्य् एव
गम्यं यद्-रूपं प्रकाशस् तद् उपेत्य ।
[180]
प्रकट-लीलाविष्कारं च स-दृष्टान्तं स्पष्टयति -
यथानलः खे ऽनिल-बन्धुर् उष्मा
बलेन दारुण्य् अधिमथ्यमानः ।
अणुः प्रजातो हविषा समेधते
तथैव मे व्यक्तिर् इयं हि वाणी ॥ [भ्प् 11.12.18]
दृष्टान्तोऽयं गर्भादि-क्रमेणाविर्भाव-मात्रांशे । तृतीयेऽपि तद् उक्तं
श्रीमद्-उद्धवेनैव - अजोऽपि जातो भगवान् यथाग्निः [भ्प् 3.2.15] इति ।
व्यक्तिर् आविर्भावः । हि यस्माद् इयं स्वरहस्यैक-विज्ञस्य ममैव वाणी,
नात्रासम्भावना विधेयेत्य् अर्थः । ततश् चानन्तरं वक्ष्यमाण एवं गदिर्
[भ्प् 11.12.19] इत्य् आदि ग्रन्थस् तु संशयापत्तोदने व्याख्येयः । एवं

पूर्वोक्त-वाक्यस्यैवार्थ-भेदेन गदिर् लौकिक-भाषणम् इति ज्ञेयम् ।
तस्याप्य् उत्पत्तिर् ज्ञेयेत्य् अर्थः । स च स-तात्पर्यकोऽर्थ-भेदष् टीकायाम् एव
दृश्यते इति ॥
॥ 11.12 ॥ श्री-शुकः ॥ 179-180 ॥
[181]
तद् एवं श्रीमद्-भागवते पुनर् व्रजागमनादि-रूपोऽयम् अर्थो बहुधा
लब्धोऽपि पाद्मोत्तर-खण्डवद् यन् न स्पष्टतया वर्णितस् तत् खलु
निजेष्ट-देवत्वस्य बहिर्मुखान् प्रत्याच्छादनेच्छया अन्तर्मुखान्
प्रत्युत्कण्ठा-वर्धनेच्छयेति गम्यते । अतएवोक्तम् - परोक्ष-वादा ऋषयः
परोक्षं च मम प्रियम् [भ्प् 11.21.35] इति । यद् एतत् तु मया क्षुद्रेण
तरलायितं क्षमतां तत् क्षमा-शीलः श्रीमान् गोकुल-वल्लभः ।
तद् एतत् श्रील-वृन्दावने लीला-द्वयस्य मिलनं सावसरम् एव प्रस्तुतम् ।
द्वारकायां तु प्रसिद्धम् एव । तत्र मौषलादि-लीला मायिक्य् एवेति पूर्वम्
एव दर्शितम् । वस्तुतस् तु द्वारकायाम् एव स-परिकरस्य श्री-भगवतो
निगूढतया स्थितिर् यादवानां च नित्य-परिकरत्वात् तत्-त्यागेन स्वयं
भगवत एवान्तर्धाने तैर् अतिक्षोभेणोन्मत्त-चेष्टैर् उपमर्दिता पृथिव्य्
एव नश्येद् इति प्रथमं तेषाम् अन्तर्धापनम् । अतएवोक्तम् -
भू-भार-राज-पृतना यदुभिर् निरस्य
गुप्तैः स्व-बाहुभिर् अचिन्तयद् अप्रमेयः ।
मन्ये ऽवनेर् ननु गतो ऽप्य् अगतं हि भारं
यद् यादवं कुलम् अहो अविषह्यम् आस्ते ॥ [भ्प् 11.1.3] इति ।
अत्र तेषाम् अधार्मिकतया तु पृथिवी-भारत्वं न मन्तव्यम् ।
ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् ।
विप्र-शापः कथम् अभूद् वृष्णीनां कृष्ण-चेतसाम् ॥ [भ्प् 11.1.8] इत्य् आदौ
शय्यासनाटनालाप-
क्रीडा-स्नानादि-कर्मसु ।
न विदुः सन्तम् आत्मानं
वृष्णयः कृष्ण-चेतसः ॥ [भ्प् 10.90.46] इत्य् आदौ च परम-साधुत्व-
प्रसिद्धेः ।
पृथ्वी-भारश् च व्यक्ति-बाहुल्य-मात्रेण नेष्यते । पर्वत-समुद्रादीनाम्
अनन्तानां विद्यमानत्वात् । तथा न वस्तव्यम् [भ्प् 11.7.5] इत्य् आदि भगवद्-
वाक्यस्य तात्पर्यम् इदम् । माययापि यदूनां तादृशत्व-दर्शनं
ममानन्द-वैभव-धाम्नि मदीय-जन-सुखद-मद्-विलासैक-निधौ
द्वारकायां नोचितं, प्रभासे तु तत्-तद्-योगाद् उचितम् इति ।
अथ च जिजीविषुभिः [भ्प् 11.6.34] इत्य् उक्त्वा वृजिनानि तरिष्यामः [भ्प् 11.6.38]
इति चोक्त्वा वस्तुतस् तु तेषां तादृशत्वं न भविष्यतीत्य् एवोक्तम् । (पगे 105)
तत्र चास्माभिः इति वयम् इति चोक्त्वा स्वेनैक्य-सूचनया स्वात्मवद्
अन्यथाभावत्वम् एक-गतित्वं व्यञ्जितम् इति ।
तद् एवं स्थिते तैः साकं श्री-भगवतो द्वारकायाम् एव नित्यां स्थितिम् आह -
द्वारकां हरिणा त्यक्तां समुद्रो ऽप्लावयत् क्षणात् ।
वर्जयित्वा महाराज श्रीमद्-भगवद्-आलयम् ॥
नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः ।
स्मृत्याशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलम् ॥ [भ्प् 11.31.23-24]
लोक-दृष्ट्यैव हरिणा त्यक्ताम् अत्यक्ताम् इति वा, नित्यं सन्निहित इति
वक्ष्यमाणत्वात् । ततश् चोभयथाप्य् आप्लावनं परितो जलेन परिखावद्
आवरणं तज्-जल-मज्जनं च समुद्रेणैव श्री-भगवद्-आज्ञया त्यक्त-
भूमि-लक्षणस्य हस्तिनापुर-प्रस्थापित-बहिर्जन-गृहाद्य्-अधिष्ठान-
बहिर्-आवरणस्यैव । तथा रचनं विश्व-कर्मणा तस्यैव प्रकट-लीलायाः
प्रापञ्चिक-मिश्रत्वात् । अतः सुधर्मादीनां स्वर्गाद् आगमनं च युज्यते ।
अप्रकट-लीलायां ततोऽपि दिव्यतरं सभान्तरादिकम् अपि स्यात् । श्रीमान्
यादवादि-गृह-वृन्द-लक्षण-शोभोपशोभावान् यो भगवद्-आलयस् तं
वर्जयित्वा । तद् एवम् अद्यापि समुद्र-मध्ये कदाचिद् असौ दूरतः किञ्चिद्
दृश्यते इति तत्रत्यानां महती प्रसिद्धिः । अत्र महाराजेति सम्बोधनं
दृष्टान्त-गर्भम् । यद् वा महान्तो राजानो यादव-लक्षणा यत्र
तथाभूतं तद्-आलयं श्री-कृष्ण-नित्य-धाम-रूपं द्वारका-पुरम् । न
केवलं पुर-मात्रास्तित्वं तत्र च श्रीमति भगवद्-आलये मधुसूदनः
श्री-कृष्णो नित्यम् एव सन्निहितः । अर्थात् तत्रत्यानां किं वा न तत्र
सन्निहितः । भगवान् यादवादि-लक्षणाखिल-निजैश्वर्यवान् एव ।
तद्-आलयम् एव विशिनष्टि स्मृत्येति । साक्षाद् अधुना व्यक्त-तद्-
दर्शनाभावात् स्मृत्येत्य् उक्तम् । यः स्वयम् एवम्भूतस् तस्य त्व् अन्यथा
सम्भावितत्वम् अपि नास्तीति । एवम् एव विष्णु-पुराणे -
प्लावयामास तां शून्यां द्वारकां च महोदधिः ।
नित्यं सन्निहितस् तत्र भगवान् केशवो यतः ॥
तद् अतीव महा-पुण्यं सर्व-पाप-प्रणाशनम् ।
विष्णु-क्रीडान्वितं स्थानं दृष्ट्वा पापात् प्रमुच्यते ॥ [विप् 5.38.9-10] इति ।
[वृ. अद्द्स् हेरे: तथैव श्री-हरि-वंशे यादवान् प्रतीन्द्र-प्रेषितस्य
नारदस्य वाक्यम् -
कृष्णो भोगवतीं रम्याम् ऋषि-कान्तां महा-यशाः ।
द्वारकाम् आत्मसात् कृत्वा समुद्रं गमयिष्यति ॥ [ह्व् 2.102.32]
इत्य् अत्र आत्मसात् कृत्वा इति न तु त्यक्त्वेति । वृ. अद्दितिओन् एन्द्स्.]
॥ 11.31 ॥ श्री-शुकः

5.182

[182]
तद् एवम् अप्रकट-प्रकट-लीलयोः समन्वयो दर्शितः । एते एव पाद्मोत्तर-
खण्डे भोग-लीला-शब्दाभ्याम् उच्येते - भोगे नित्य-स्थितिस् तस्य लीलां
संहरते कदा [भ्प् 6.226.9] इत्य् आदिना । यां कदाचित् संहरते सा लीलेत्य्
अर्थः । तत्र प्रकट-लीला-गत-भावस्य विरह-संयोगादि-लीला-वैचित्री-भर-
वाहित्वेन बलवत्तरत्वात् उभय-लीलैकी-भावानन्तरम् अपि तन्मयस् तेषाम्
अभिमानोऽनुवर्तते एव । तत्रैश्वर्य-ज्ञान-संवलित-भावानां श्री-
यादवानां स तावन् नूनम् एवं सम्भवति । अहो सर्व-दैवान्य-जीवातूनाम्
अस्माकम् ईशिता श्री-कृष्णाख्यो भगवान् अयं नाना-लीलामृत-निर्झरैः
सान्द्रानन्द-चमत्कारम् आस्वादयितुं यादव-शिखामणेर् नित्यम् एव पितृ-
भाव-समृद्धस्य श्रीमद्-आनकदुन्दुभेर् गृहे स्व-जन्मना स्वान् स्वान्
अलंचकार । ततश् च साधितास्मद्-आनन्द-सत्र-प्रधान-विविध-कार्यः
परम-बान्धवोऽसौ परमेश्वरस् तत्-तद्-रूपान् एवास्मान् पुनर्
ब्रह्माद्यैर् अपि दुरधिगमे श्री-मथुरा-नाम्नि श्री-द्वारका-नाम्नि वा
परम-धाम्नि नाना-माधुरी-धुरीणाभिर् आत्म-लीलाभिर् अनुशीलित एव
(पगे 106) विभ्राजते इति । सोऽयम् अभिमानः श्री-वृन्दावने तु निज-निज-
सम्बन्ध-सन्धायक-प्रेमैकानुसारिणां श्री-व्रज-वासिनां नूनम् एव
समुज्जृम्भते - अहोयोऽसौ गोकुल-कुल-भाग-धेय-पुञ्ज-मञ्जुल-प्रकाशो
मादृशां दृशां जीवन-सञ्चय-निर्मञ्छनीय-पाद-लाञ्छन-लेशो
वाञ्छातीत-सुख-सन्तति-सन्तानको महा-वन-व्रज-महा-खनिजनिनी-नील-
मणिर् आविरासीत् । योऽसौ दुष्ट-भोज-राज-विसृष्टैः पूतनादि-ग्रह-समूहैर्
उपरकोऽपि मुहुर् अनुकूलेन विधिना तेषां स्वयम् एव विनाश-पूर्वकं
चकोरेभ्यः चन्द्रमा इवास्मभ्यं वितीर्ण एवासीत् । योऽसौ तादृश-तदीय-
महा-गुण-गणाद् एव परितुष्यद्भिर् मुनि-देवैर् इव दत्तेन केनापि
प्रभावेण मुहुर् अपि विपद्-गणाद् आत्म-क्लेशम् अगणयन्न् एव नः
परित्रातवान् । योऽसौ निज-शील-लावण्य-रूप-गुण-विलास-केलि-विनिगूढ-
सौहृद्य-प्रकटन-चातुरी-गुम्फित-माधुरीभिर् अस्मान् सुस्ठु पुष्टांश्
चकार । योऽसौ लघुनापि गुणाभासेनास्माकम् आनन्द-सन्दोहम्
अभिविन्दमानो यद् यद् अपि मादृशाम् अभिलषितं तद्-अतीता वा तत् तद् अपि
प्रतिलवम् अप्य् आश्चर्य-भूतं निज-माधुर्य-वर्यम् उल्लासितवान् । योऽसौ
सकल-साधु-जनावनाय विख्यापित-यादव-सम्बन्धस् तद्-द्वारा स्वयम्
अपि च राजन्यासुर-सङ्घ-संहरणाय यदु-पुरीं प्रस्थितवान् । योऽसौ
कार्यानुरोधेन तत्रैव चिराय तिष्ठत आत्मनो विप्रयोगेन सतप्त-बुद्धीन्
उद्धवादिभिर् अस्मान् असकृद् आश्वासयामास । योऽसौ पुनर्-उत्कण्ठा-कोटि-
समाकृष्ट-मूर्तिभिस् तीर्थ-व्रज्या-व्याजेन कुरुक्षेत्र-प्रगतैर् अस्माभिः
श्वास-मात्रावशिष्टैर् इवामृत-वारिधि-रूप-लब्धो बभूव । योऽसौ
तथाविधान् अस्मान् आत्म-सन्निधौ मास-कतिपयं संवास्य परम-
स्वजनया मुधैव कृताभिमानेभ्यो यादवेभ्यो निगूढां काम् अपि स्नेह-
मुद्राम् अस्मासु समुद्घटय्य भवताम् एवाहम् इति व्यञ्जनया मुहुर्
एवास्मान् अभितः सन्धुक्षितवान् । योऽसौ श्री-वृन्दावनम् एवास्माकम्
आत्मनोऽपि परमम् अभीष्टम् इति निष्टङ्क्य शपथादिना निज-झटित्य्-
आगमने विस्रभ्य साग्रहम् अस्मान् अत्रैव प्रस्थापितवान् । सोऽयम् अहो
अकृतापर-कर्तव्य-शेष एवास्मान् निजागमनं विना समारब्ध-प्राण-कोटि-
मोचन-व्यवसायान् आशङ्क्य झटिति स्वयम् एव गोकुलं साम्प्रतम् आगम्य
निज-विरह-काल-व्याल-मुखान् निष्कास्य च स्वावलोकनामृत-पूरेण सिञ्चन्न्
एवास्ते ।
तत्र च प्रतिक्षणम् अपि नव-नवी-कृतेनानन्य-साधारणेन केनापि स्नेह-
सन्दोहमयेन केवलेन निज-स्वभाव-विशेषेण तत्रापि निज-सौन्दर्य-
वर्यामृत-पूर-प्रपाचय-चयनेन, तत्रापि विविध-पुष्पादि-विभूषण-पर-
भाग-पराभोगेन, तत्रापि विलास-माधुरी-धुरा-विशेषाधानेन, तत्रापि
विचित्र-गुण-गणोल्लास-चमत्कार-विद्या-विनोदेन, तत्रापि गो-पालन-
गवाकारण-बाल्य-क्रीडन-मोहन-मन्त्रायित-मुरली-वादनादि-विभ्रमेण,
तत्रापि गोकुल-निर्गमन-प्रवेशादि-लीला-चातुरी-माधुर्याडम्बरेण, तत्रापि
सुहृदां यथायथम् अनुसन्तर्पण-केलि-कला-विशेष-प्रकाशित-
स्नेहातिशयेनास्मान् उपलालयन्न् एवास्ते ।
तेन वयम् अहो समय-गमनागमनम् अपि सम्भालयितुं न पारयाम इति ।
एतद्-अनुसारेण द्वारकातः समागते श्री-कृष्णे केषाञ्चिद् व्रज-वासिनाम् एव
तदानीन्तनम् उल्लास-वचनं जयति जननिवास [भ्प् 10.90.48] इत्य्-आदिकं श्री-
शुक-मुखाद् आविर्भूतम् इति व्रजैकान्त-भक्ता व्याचक्षन्ते ।
अक्लेशेनैवार्थ-विशेष-स्फूर्तेः । सम्भवति च श्री-भागवतस्य
विचित्रार्थत्वं, विद्वत्-काम-धेनु-रूपत्वात् । तथा हि जयति इत्य् आदि ।
कोऽपि सोऽयम् अस्माकं जीवन-कोटि-प्रियतमो विष्वक्-प्रचारेण श्री-
वृन्दावनस्यैव (पगे 107) विशेषतः स्थावराणां जङ्गमानां च तद्-
विरहाद् यद् दुःखं तन्-निहन्ता जयति सर्वोत्कर्षेण वर्तते । अर्थाच् छ्री-
वृन्दावन एव । श्री-वृन्दावनस्य स्थावराणाम् अपि भावो वर्णित एव,
केवलेनैव भावेन इत्य् आदिना । केन विशिष्टः ? सुस्मितेन श्री-मुखेन ।
एतेन सदातनम् आनन्दैक-रसत्वं स्वेषु सदैव सुप्रसन्नत्वं च तस्य
प्रकाशितम् । किं कुर्वन् ? व्रज-रूपं यत् पुरं तत्-सम्बन्धिन्यो या वनिता
जनितानुरागाः कुल-वध्वस् तासां काम-देवं सर्व-
प्रेमानन्दोपरिविराजमानत्वात् तासां कामस् तु देवः परम-दिव्य-रूपस्
तं वर्धयन् ।
ननु श्री-देवक्याः पुत्रोऽयम् इत्य् एवं वदन्ति, तत् कथं युस्माकम्
अत्रास्मदीयत्वेनाभिमानः ? तत्राह देवक्यां जन्मेति वादो मिथ्यैव लोक-
ख्यातिर् यस्य सः । तर्हि कथं वासुदेव इति नामेत्य् आशङ्क्याह जननिवासो
जनानां स्वजनानाम् अस्माकं निवासत्वाद् आश्रयत्वाद् एव तथाभिधीयत
इत्य् अर्थः । स्वजनेष्व् अस्मासु कृत-वासत्वाद् एव वा । ततश् चाधिकरणे कर्तरि
वौणादिको वासुः । स च दीव्यति क्रीडतीति देवश् च स इति विग्रहः । प्राग् अयं
वासुदेवस्य [भ्प् 10.8.14] इत्य् आदिका श्री-गर्गोक्तिर् अपि नास्मभ्यं भातीति
भावः । किम् अर्थम् असौ देवकी-जन्म-वादोऽभूद् इत्य् आशङ्कायाम् आह -
यदु-वराः परिषत्-सहाय-रूपा यत्र तादृशं यथा स्यात् तथा, स्वैर् दोर्भिर्
भुज-प्रायैर् अर्जुनादिभिर् अधर्मं तत् प्रचुरं दुष्ट-कुलम् अस्यन्
निहन्तुं, लक्षण-हेत्वोः, क्रियायाः शतृ-प्रत्यय-स्मरणात् । तस्याम् आत्म-
जन्मनि ख्यापिते ते ते सहाया भविष्यन्तीत्य् एवम् अनुसन्धायेत्य् अर्थः ।
तथोक्तं कंस-वधानन्तरं श्री-कृष्णेन श्री-व्रजेश्वरं प्रति ज्ञातीन् वो
द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् [भ्प् 10.45.23] इति । अत्र
विशेषेणेनैव श्री-कृष्ण-रूप-विशेष्य-पदम् उपस्थाप्यते अयम् उदयति
मुद्रा-भञ्जनः पद्मिनीनाम् इतिवत् ॥
॥ 10.90 ॥ श्री-शुकः

5.183

[183]
अथ तेषां तेन परमानन्देन समयाननुसन्धानम् अप्य् उक्तम् व्रजति न
हि यत्रापि समयः [ब्रह्मस् 5.56] इति । अतस् तेषां श्री-कृष्णागमन-
परमानन्द-मत्तानाम् अद्यैवायम् आगत इतीव सदा हृदि वर्तते ।
[वृ. अद्द्स् हेरे:] स एष यद्वद् अप्रकट-स्वारसिक्यां प्रकट-लीला-गत-भाव-
प्रवेशस् तथा तद्-वैभव-रूपासु मन्त्रोपासनामयीष्व् अपि स्व-स्व-
प्राक्तन-तद्-भाव-प्रवेशो ज्ञेयः । गङ्गाया भावस् तदीय-ह्रद-श्रेणीष्व्
एव । उभयत्राप्य् असौ समान एव दर्शितः । पाद्म-पाताल-खण्डे गो-गोप-
गोपिका-सङ्गे यत्र क्रीडति कंसहा इति गोविन्द गोपीजन-वल्लभेश
कंसासुरघ्न इत्य् आभ्याम् । एवं यथा स्वारसिक्याम् इव मन्त्र-मय्याम् अपि
नन्दनन्दनत्वम् अनुगच्छेद् एवं श्रूयते - सकल-लोक-मङ्गलो नन्द-
गोप-तनयो देवता इत्य् अत्र गौतमीय-तन्त्रे द्वितीयाध्याये नन्दनन्दन
इत्य् उक्तः इत्य् अत्र च । [वृ. अद्दितिओन् एन्द्स्.]
तद् एवं प्रकट-लीला-गत-भाव-विशेषस्याप्रकट-लीलायां प्रवेशाद् बहिर्-
अन्तर्धान-लीला-द्वितीयस्यैक्यं वर्णितम् । तत्र यद्यपि पूर्व-पूर्वम् अपि
तादृश-भावस् तेषाम् अनादित एवानुवर्तते तथापि तम् एव नवनवीकृत्य
समुद्दीपयितुं पुनः पुनर् अवतार इति ज्ञेयम् ।
तद् एवं श्री-कृष्णस्य स्वयं भगवत्त्वं दर्शितम् । तत्रापि श्री-गोकुले तत्-
प्रकाशातिशयो दृश्यते । स चैश्वर्य-गतस् तावत् सत्य-ज्ञानानन्तानन्द-रस-
मात्रैक-मूर्ति-ब्रह्माण्ड-कोटीश्वर-दर्शनादौ । कारुण्य-गतश् च
पूतनाया अपि साक्षान् मातृ-गति-दाने । माधुर्य-गतश् च ।
व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृण-वीरुधः ।
गावश् चारयतो गोपाः पाद-स्पर्शं (पगे 108) महात्मनः ॥ [भ्प् 10.83.43]
इति श्री-पट्ट-महिषी-प्रार्थनादौ ।
अत्र स्थितेऽपि सर्वतोऽपि प्रेम-वरीयसीनां तासां तत्-पाद-स्पर्श-सौभाग्ये
तन्-माधुर्य-प्रकाशातिशय-वैशिष्ट्याभिप्रायेणैव तथोक्तिः सङ्गच्छते ।
तथैव चोक्तं -
त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं
यद् गो-द्विज-द्रुम-मृगान् पुलकान्य् अबिभ्रत् ॥ [भ्प् 10.29.40] इत्य् आदिषु ।
अतो लीला-गतश् चासौ श्लाघ्यते पितरौ नान्वविन्देतां कृष्णोदारार्भके हितम्
[भ्प् 10.8.47] इत्य् आदिषु । अतस् तदीयानाम् अप्य् उत्कर्ष उक्तः वृन्दावनं
गोवर्धनं यमुना-पुलिनानि च [भ्प् 10.11.36] वीक्ष्यामीत्य् आदौ । ततः
परिकराणां तु अहो भाग्यम् अहो भाग्यम् [भ्प् 10.14.32] इत्य् आदौ । इत्थं
सताम् [भ्प् 10.12.11] इत्य् आदौ, नन्दः किम् अकरोत् [भ्प् 10.8.43] इत्य् आदौ, एताः
परम् [भ्प् 10.47.51] इत्य् आदौ, गोप्यस् तपः किम् अचरन् [भ्प् 10.44.14] इत्य्
आदौ । तत्रापि तत्रातिशुशुभे ताभिः [भ्प् 10.33.6] इत्य् आदौ च तासु
प्रकाशातिशय-सीमा दर्शिता । ततः सर्वास्व् अपि तासु अनयाराधितो नूनं
भगवान् हरिर् ईश्वरः [भ्प् 10.30.28] इत्य् आदिभिः । प्रेम-वरीयस्त्वेन
प्रसिद्धायां श्री-राधिकायां तु किम् उतेति ज्ञेयम् । अत्र चेदं तत्त्वम् ।
द्वितीये सन्दर्भे खलु परमत्वेन श्री-भगवन्तं निरूप्य तस्य शक्ति-
द्वयी निरूपिता । तत्र प्रथमा श्री-वैष्णवानां श्री-भगवद्-उपास्या
तदीय-स्वरूप-भूता यन् मय्य् एव खलु तस्य सा भगवत्ता । द्वितीया चाथ
तेषां जगद्वद्-उपेक्षणीया माया-लक्षणा, यन् मय्य् एव खलु तस्य
जगत्ता । तत्र पूर्वस्यां शक्तौ शक्तिमति भगवच्-छब्दवल्-लक्ष्मी-शब्दः
प्रयुज्यत इत्य् अपि द्वितीय एव दर्शितम् । ततोऽस्मिन् सन्दर्भे तु स च भगवान्
श्री-कृष्णाख्य एवेति निर्धारिते तदीया स्वरूप-शक्तिस् तु किम् आख्येति
निर्धार्यम् । तत्र द्वयोर् अपि पुर्योः श्री-महिसाख्या ज्ञेया । मथुरायाम्
अप्य् अप्रकट-लीलायां श्रुतौ रुक्मिण्याः प्रसिद्धेर् अन्यासाम् उपलक्षणात् ।
श्री-महिषीणां तदीय-स्वरूप-शक्तित्वं स्कान्द-प्रभास-खण्डे श्री-शिव-
गौरी-संवादे गोप्यादित्य-माहात्म्ये दृष्टम् -
पुरा कृष्णो महातेजा यदा प्रभासम् आगतः ।
सहितो यादवैः सर्वैः षट्-पञ्चाशत्-प्रकोटिभिः ॥
षोडशैव सहस्राणि गोप्यस् तत्र समागताः ।
लक्षम् एकं तथा षष्ठिर् एते कृष्ण-सुताः प्रिये ॥ इत्य् उपक्रम्य,
ततो गोप्यो महा-देवि विद्यायाः षोडश स्मृताः ।
तासां नामानि ते वक्ष्ये तानि ह्य् एकमनाः शृणु ॥
लम्बिनी चन्द्रिका कान्ता क्रूरा शान्ता महोदया ।
भीषणी नन्दिनी शोका सुपूर्व-विमला क्षया ॥
शुभदा शोभना पुण्या हंसस्यैताः कला क्रमात् ।
हंस एव मतः कृष्णः परमात्मा जनार्दनः ॥
तस्यैताः शक्तयो देवि षोडशैव प्रकीर्तिताः ।
चन्द्र-रूपी मतः कृष्णः कला-रूपास् तु ताः स्मृताः ॥
सम्पूर्ण-मण्डला तासां मालिनी षोडशी कला ।
प्रतिपत्-तिथिम् आरभ्य सञ्चरत्य् आसु चन्द्रमाः ॥
षोडशैव कला यास् तु गोपी-रूपा वराणने ।
एकैक-शस्ताः सम्भिन्नाः सहस्रेण पृथक् पृथक् ॥
एवं ते कथितं देवि रहस्यं ज्ञान-सम्भवम् ।
य एवं वेद पुरुषः स ज्ञेयो वैष्णवो बुधैः ॥ [108.5-8, 10-16] इति ।
अत्र गोप्यो राज्ञ्यः इत्य् अर्थः । गोपो भूपेऽपि इति नाम-लिङ्गानुशासनात् ।
लम्बिनी अवतार-शक्तिः । सुपूर्व-विमला सुविमला । हंसशीतेत्य् अत्र प्राप्तस्य
हंसयेत्य् अस्य वाच्यम् आह हंस एवेति । स च चन्द्र-रूपी चन्द्र-
दृष्टान्तेनोद्देश्य इत्य् अर्थः । कला-रूपा इति ताश् च शक्तयश् च
चन्द्रस्यामृतेत्य् आदि-कला-दृष्टान्तेनोद्देश्या इत्य् अर्थः । अनुक्ताम् अन्तिमां
महा-शक्तिम् आह सम्पूर्णेति । सेयं तु (पगे 109) कला-समष्टि-रूपा ज्ञेया ।
दृष्टान्तोपपादनाय चन्द्रस्य तादृशत्वम् आह प्रतिपद् इति । आसु एतत्-तुल्यासु
कलासु । विवक्षितम् आह षोडशैवेति षोडशानाम् एव विद्या-रूपत्वात् । एतद्-
उपदेशस्य ज्ञान-सम्भव-रहस्यत्वात् । तज्-ज्ञानस्य वैष्णवतानुमापक-
लिङ्गत्वाच् च ।
क्रूराभीषणी-शोकानाम् अपि भगवत्-स्वरूप-भूतानाम् एव सतीनां
मल्लानाम् अशनिः [भ्प् 10.4717] इतिवत् श्री-कृष्णस्य कठिनत्व-
प्रत्यायकत्वात् । मृत्युर् भोज-पतेर् इतिवद् दुर्जन-वित्रासकत्वात्, असतां शास्ता
इतिवत् तदीय-शोक-हेतुत्वाद् एव च तत्-तन्-निरुक्तिर् उपपद्यते । यथा
प्रकाशैक-रूपाया एव सूर्य-कान्तेर् उलूकेषु तम-आदि-व्यञ्जकतेति । अतश्
चन्द्र-रूपी मतः कृष्णः कला-रूपास् तु ताः स्मृताः इति स्फुटम् एव
स्वरूप-भूतत्वं दर्शितम् ।
तद् एवं तासां स्वरूप-शक्ति-भूतत्वे लक्ष्मीत्वं सिध्यत्य् एव । तद् एवम्
अभिप्रेत्य लक्ष्मीत्वम् आह --
गृहेषु तासाम् अनपाय्य् अतर्क-कृन्
निरस्त-साम्यातिशयेष्व् अवस्थितः ।
रेमे रमाभिर् निज-काम-सम्प्लुतो
यथेतरो गार्हक-मेधिकांश् चरन् ॥ [भ्प् 10.59.34]
टीका च -रमाभिर् लक्ष्म्या अंश-भूताभिर् इत्य् एषा । स्वरूप-शक्तित्वाद् एव
रेमे इत्य् उक्तम् । अतएव निजः स्वकीयः परमानन्द-शक्ति-वृत्ति-विशेषोदय-
रूप-प्रेम-विशेष-स्वरूपो यः कामस् तेन सम्प्लुतो व्याप्त इति ॥
॥ 10.49 ॥ श्री-शुकः

5.184

[184]
इत्थम् अष्टानां श्री-पट्ट-महिषीणां तु तत्-स्वरूप-शक्तित्वं
कैमुत्येनैव सिध्यति । तत्र श्री-सत्यभामाया भू-शक्ति-रूपत्वं
पाद्मोत्तर-खण्डादौ प्रसिद्धम् । श्री-यमुनायाः कृपा-शक्ति-रूपत्वं
स्कान्द-यमुना-माहात्म्यादाव् इत्य् आद्य्-अन्वेषणीयम् । किन्तु श्री-
हरिवंशादौ सत्यभामायाः सौभाग्यातिशयस्य विख्यातत्वात् प्रेम-शक्ति-
प्रचुर-भू-शक्तित्वं ज्ञेयम् । स्वयं लक्ष्मीस् तु श्री-रुक्मिणी --
द्वारकायाम् अभूद् राजन् महा-मोदः पुरौकसाम् ।
रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम् ॥ [भ्प् 10.54.6]
इत्य् आदिषु तस्याम् एव भूरिशः प्रसिद्धेः । अतः स्वयं लक्ष्मीत्वेनैव
परस्पर-योग्यताम् आह -
अस्यैव भार्या भवितुं रुक्मिण्य् अर्हति नापरा ।
असाव् अप्य् अनवद्यात्मा भैष्म्याः समुचितः पतिः ॥ [भ्प् 10.53.37]
स्पष्टम् ।
॥ 10.53 ॥ विदर्भ-पुर-वासिनः परस्परम्

5.185

[185]
तथा तां रुक्मिणीं श्रियम् इत्य् आदौ या लीलया धृत-तनोर् अनुरूप-रूपा
[भ्प् 10.60.9] इति । स्पष्टम् ।
अतः स्वयं भगवतोऽनुरूपत्वेन स्वयं लक्ष्मीत्वं सिद्धम् एव । अतएव
वैदर्भीं भीष्मक-सुतां श्रियो मात्रां स्वयंवरे [भ्प् 10.52.16] इत्य् अत्र
माति अन्तर्भवत्यस्याम् इति मात्रा-पदं बाहुल्याद् अधिकरण एवौणादिकं
ज्ञेयम् । कार्त्स्न्ये अवधारणे मात्रम् इतिवत् । ततश् च वैकुण्ठ-प्रसिद्धाया
लक्ष्म्या अन्तर्भावास्पदत्वाद् एषैव लक्ष्मीः सर्वतः परिपूर्णेत्य् अर्थः ।
यत् तु -
नन्व् एवम् एतद् अरविन्द-विलोचनाह
यद् वै भवान् भगवतो ऽसदृशी विभूम्नः ।
क्व स्वे महिम्न्य् अभिरतो भगवांस् त्र्य्-अधीशः
क्वाहं गुण-प्रकृतिर् अज्ञ-गृहीत-पादा ॥ [भ्प् 10.60.34]
इति तस्या एवोक्तिस् तत्र निजांशाभासम् एव दैन्येन स्वं मत्वोक्तम् इति
मन्तव्यम् । यद् वा, गुणा गौणी प्रकृतिः स्वभावो यस्याः सा अपकृष्ट-
रूपेत्य् अर्थः । यथा तत्रैव, स्यान् मे तवाङ्घ्रिर् अरणं सृतिभिर्
भ्रमन्त्याः [भ्प् 10.60.43] इति मनुष्यावतारताभिनिवेशात् तस्या एव
दैन्योक्तिः । अत्र दैव-प्रेरितो वास्तवोऽर्थस् त्व् एवं (पगे 110) हेऽरविन्द-
लोचन भगवतस् तवासदृश्य् अहम् इत्य् एतद् । यद् भवान् आह ननु निश्चितं
तत् त्व् एवं वक्ष्यमाण-प्रकारकं न त्व् अन्य-प्रकारकम् । तथैवाह स्वे
स्वरूप-भूते महिम्नि ऐश्वर्यादाव् अभिरतो भगवान् क्व कुत्रान्यत्र,
तथाहं ता ते गुणा ऐश्वर्यादय एव प्रकृतिः स्वरूपं यस्यास् तथाभूता
क्व कुत्रान्यत्र, किन्तु न कुत्रचिद् अन्यत्रेति द्वयोर् एकत्र एव स्वरूपे स्थितिर्
इत्य् अर्थः । अतएवाज्ञैर् अस्य श्री-विष्णोस् तव तत्त्वज्ञैर् गृहीतौ सेवितौ पादौ
यस्यास् तथाभूताहं तस्माच् छक्ति-शक्तिमतोर् अत्यन्त-भेदाभावाद्
एवोपमानोपमेयत्वाभावेन सादृश्याभाव इति भावः । एवं सृतिभिर्
भ्रमन्त्या इत्य् अत्रापि हि त्वदीय-पदवीभिर् इत्य् एव वास्तवोऽर्थः । तद् उक्तम्
- देवत्वे देव-देहैयं मनुष्यत्वे च मानुषी [विप् 1.9.143] इति ।
एवम् एव -
अस्त्व् अम्बुजाक्ष मम ते चरणानुराग
आत्मन् रतस्य मयि चानतिरिक्त-दृष्टेः ।
यर्ह्य् अस्य वृद्धय उपात्त-रजो-ऽति-मात्रो
माम् ईक्षसे तद् उ ह नः परमानुकम्पा ॥ [भ्प् 10.60.46]
इत्य् अत्रापि तस्याः प्रकृतित्वं दैन्यजेनाभेदोपचारेणैव व्याख्येयम् । यद्
वा अस्य गार्हस्थस्य उपात्ता अङ्गीकृता रजोऽतिमात्रो सर्व-
भूतानुरञ्जनातिशयो येन सः । वास्तवार्थस् त्व् एवं यद् उक्तं - उदासीना
वयम् इत्य् आदि, श्री-भगवता तत्राह - अस्त्व् इति । हे अम्बुजाक्ष आत्मन् आत्मनि
मयि च रतस्य ते चरणानुरागो ममास्तु । मयि रतत्वं चोक्तं तथाहम् अपि
तच्-चित्तो निद्रां च न लभे निशि [भ्प् 10.53.2] इति स्वयम् एवेति भावः ।
नन्व् आत्म-रतस्य मम कथं त्वयि रतिस् तत्राह अनतिरिक्त-दृष्टेः ।
शक्तिमत्य् आत्मनि शक्तौ च मय्य् अनतिरिक्ता पृथग्-भाव-शून्या दृष्टिर्
यस्य । शक्ति-शक्तिमतोर् अपृथग्-वस्तुत्वाद् द्वयोर् अपि मिथो
विशिष्टतयैवावगमाद् वा युज्यत एव मय्य् अपि रतिर् इति भावः ।
तद् एवं सत्याम् अपि स्वाभाविक्यां रतौ विशेषतस् तु, यर्ह्य् अस्य रत्याख्यस्य
भावस्य वृद्धये उपात्ता रजोऽतिमात्रा रागातिशयो येन तथाभूतस् त्वं
माम् ईक्षसे स-भावम् आलोकयसि तदासौ नोऽस्मान् प्रति
परमैवानुकम्पेति । एवम् उदासीनत्वं तव साक्षान् मत्-सम्बन्धाद्
अन्यत्रैवेति मम सुदृढ एव विश्वास इति भावः । तस्मात् साधूक्तं या
लीलया धृत-तनोः [भ्प् 10.60.9] इत्य् आदिना श्री-रुक्मिणी-देव्याः स्वयं
लक्ष्मीत्वम् ।
॥ 10.60 ॥ श्री-शुकः

5.188

[186-187]
अथ वृन्दावने तदीय-स्वरूप-शक्ति-प्रादुर्भावाश् च श्री-व्रज-देव्यः ।
यथा ब्रह्म-संहितायाम् -
आनन्द-चिन्मय-रस-प्रतिभाविताभिस्
ताभिर् य एव निज-रूपतया कलाभिः ।
गोलोक एव निवसत्य् अखिलात्म-भूतो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्रह्मस् 5.30] इति ।
ताभिः श्री-गोपीभिर् मन्त्रे तच्-छब्द-प्रयोगात् । कलाभिः शक्तिभिः । निज-
रूपतया स्व-स्वरूपतया । शक्तित्वं च तासां पूर्वोक्तोत्कर्षेण परम-
पूर्ण-प्रादुर्भावानां सर्वासाम् अपि लक्ष्मीत्वम् एव । तद् उक्तं तत्रैव -
लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानम् इति, श्रियः कान्ताः कान्तः
परम-पुरुषः इति च । एतद् अभिप्रेत्यैव स्वायम्भुवागमेऽपि श्री-भू-लीला-
शब्दैस् तत्-प्रेयसी-विशेष-त्रयम् उपदिष्टम् । तस्माल् लक्ष्मीतोऽप्य् उत्कर्ष-
वर्णनम् आसां (पगे 111) पर-व्योमादि-स्थिताभ्यस् तन्-नाम्नैव
लक्ष्मीभ्य आधिक्य-विवक्षयेति मन्तव्यम् । श्री-वृन्दावन-लक्ष्म्यस् त्व् एता
एवेति ।
एवम् एव पाद-न्यासैर् भुज-विधूतिभिः [भ्प् 10.33.7] इत्य् आदौ कृष्ण-
वध्वः इत्य् उक्तम् । अतएव गोपी-जनाविद्या-कला-प्रेरकः [ग्तु 1.8] इत्य् अत्र
तापनी-वाक्ये श्रीमद्-दशाक्षरस्थ-नाम-निरुक्तौ ये गोपी-जनास् ते आ
सम्यग् या विद्या परम-प्रेम-रूपा तस्याः कला वृत्ति-रूपा इति व्याख्येयम् ।
राज-विद्या राज-गुह्यम् [गीता 9.2] इत्य् आदि श्री-गीता-प्रकरणात् । (अविद्या-
कला-शब्देन अविद्यैव कला वृत्तिर् यस्याः सा सर्वेन्द्रिय-विमोह-कारिणी
प्रेम-शक्तिर् एवाख्याता ।) व्याख्यान्तरे भगवत्य् अविद्या-संश्लेषाभावात् ।
तद् उक्तं -
ह्लादिन्या संविद्-आश्लिष्टः सच्चिदानन्द ईश्वरः ।
स्वाविद्या-संवृतो जीवः संक्लेश-निकराकरः ॥ इति स्वामि-सूक्तौ । तथा -
ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्व-संश्रये ।
ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ इति [विप् 1.12.69] विष्णु-पुराणे
च ।
[ब् हेरे अद्द्स्: अथवा वैभव-मात्राभिज्ञान् प्रति विराड्-उपासनावत् गोपीजन-
शब्दस्यान्य-निरुक्तिर् इयम् । यथा तत्रैव गोपाल-पद-निरुक्तौ सृष्टि-
पर्यन्तम् आलातीत्य् उक्तम् । तत्राविद्या-कला-शब्देन मायैवोच्यते इति । ब्
अद्दितिओन् एन्द्स्.]
ततस् तासां प्रेरकस् तत्-तत्-क्रीडायां प्रवर्तक इति वल्लभ-
शब्देनैकार्थ्यम् एव । स वो हि स्वामी इति तस्याम् एव श्रुतौ ताः प्रति
दुर्वाससो वाक्यात् । यच् च तासां क्वचित् पूर्व-जन्मनि साधकत्वम् इव
श्रूयते । तत् तु पूर्वासाम् एव व्याख्येयम् । तास् तु नित्य-सिद्धा एव । अत इदम्
इत्थम् एव व्याख्येयम् -
ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो विभुः ।
व्यरोचताधिकं तात पुरुषः शक्तिभिर् यथा ॥ [भ्प् 10.32.10]
यथा यथावत् । अतएवाधिकं व्यरोचत इत्य् उक्तम् उपपद्यते स्व-शक्त्य्-एक-
प्रकाशकत्वात् श्री-भगवतः --
गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्त-वल्लभम् ।
गृहीत-कण्ठ्यस् तद्-दोर्भ्यां गायन्त्यस् तं विजह्रिरे ॥ [भ्प् 10.33.15]
गोप्य एव श्रियः । कान्तं मनोहरम् । एकान्त-वल्लभं रहो-रमणम्
(अपाणिग्राहकत्वात्) ।
॥ 10.32 ॥ श्री-शुकः ॥ 186-187 ॥
[188]
तासां महत्त्वं तु ह्लादिनी-सार-वृत्ति-विशेष-प्रेम-रस-सार-विशेष-
प्राध्यान्यात् । तद् उक्तं आनन्द-चिन्मय-रस-प्रतिभाविताभिः [ब्रह्मस्
5.30] इति । आनन्द-चिन्मय-रसेन प्रेम-रस-विशेषेण प्रतिभाविताभिर् इत्य्
अर्थः । अतएव तत्-प्राचुर्य-प्रकाशेन श्री-भगवतोऽपि तासु परमोल्लास-
प्रकाशो भवति । येन ताभी रमणेच्छा जायते । तथैवाह -
भगवान् अपि ता रात्रीः शरदोत्फुल्ल-मल्लिकाः ।
वीक्ष्य रन्तुं मनश् चक्रे योग-मायाम् उपाश्रितः ॥ [भ्प् 10.29.1]
योग-मायां दुर्घट-सम्पादिकां स्वरूप-शक्तिं तत्-तल्-लीला-सौष्ठव-
घटनायोपाश्रित इति तस्मै तां प्रवर्त्येत्य् अर्थः ।
॥ 10.29 ॥ श्री-शुकः

मूल पाठ: Satsamdarbha with Baladevavidyābhūṣaṇa's Ṭippaṇī · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc