Satsamdarbha · अध्याय 7
तद् एतद् व्याख्यातम् अभिधेयम् । अत्रान्योऽपि विशेषः शास्त्र-महाजन-
दृष्ट्य्-अनुसन्धेयः ।
(पगे 180)
गुरुः शास्त्रं श्रद्धा रुचिर् अनुगतिः सिद्धिर् इति मे
यद् एतत् तत् सर्वं चरण-कमलं राजति ययोः ।
कृपा-माध्वीकेन स्नपित-नयनाम्भोज-युगलौ
सदा राधा-कृष्णाव् शरण-गती तौ मम गतिः ॥
इति श्री-कलि-युग-पावन-स्व-भजन-विभाजन-प्रयोजनावतार-श्री-श्री-
भगवत्-कृष्ण-चैतन्य-देव-चरणानुचर-विश्व-वैष्णव-राज-सभाजन-
श्री-रूप-सनातनानुशासन-भारती-गर्भे श्री-भागवत-सन्दर्भे श्री-
भक्ति-सन्दर्भो नाम पञ्चमः सन्दर्भः ॥
समाप्तश् चायं श्री-भक्ति-सन्दर्भः ॥
[*एन्द्नोते #1] नोत् fओउन्द्.
[*एन्द्नोते #2] वात-वासना ये मुनयो ओर् ऋषयः ।
[*एन्द्नोते #3] जीवऽस् रेअदिन्ग् हस् अङ्गिरस-शाखाध्यापकेन. हे अल्सो
स्किप्स् मेन्तिओन् ओf थे तापनीयोपनिषद्-अध्यापक.
[*एन्द्नोते #4] अवैष्णवोपदिष्टेन मन्त्रेण न परा गतिः ॥
अवैष्णवोपदिष्टं चेत् पूर्व-मन्त्र-वरं द्वयम् ।
पुनश् च विधिना सम्यक् वैष्णवाद् ग्राहयेद् गुरोः ॥ [पद्मप् 6.226.1-2]
[*एन्द्नोते #5] इन् ह्ब्व् 11.615, थेसे वेर्सेस् अरे अत्त्रिबुतेद् तो थे गौतमीय-
तन्त्रई
श्री-प्रीति-सन्दर्भः
तौ सन्तोषयता सन्तौ श्रील-रूप-सनातनौ ।
दाक्षिणात्येन भट्टेन प्नुअर् एतद् विविच्यते ॥ओ॥
तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ओ॥
[1]
अथ प्रीति-सन्दर्भो लेख्यः । इह खलु शास्त्र-प्रतिपाद्यं परम-तत्त्वं
सन्दर्भ-चतुष्टयेन पूर्वं सम्बद्धम् । तद्-उपासना च तद्-अनन्तर-
सन्दर्भेणाभिहिता । तत्-क्रम-प्राप्तत्वेन प्रयोजनं खल्व् अधुना
विविच्यते ।
पुरुष-प्रयोजनं तावत् सुख-प्राप्तिर् दुःख-निवृत्तिश् च । श्री-भगवत्-
प्रीतौ तु सुखत्वं दुःख-निवर्तकत्वं चात्यन्तिकम् इति । एतद् उक्तं भवति
यत् खलु परम-तत्त्वं शास्त्र-प्रतिपाद्यत्वेन पूर्वं निर्णीतं, तद् एव सद्-
अनन्त-परमानन्दत्वेन सिद्धम् । श्रुताव् अपि सैषानन्दस्य मीमांसा
भवति इत्य् आरभ्य मानुषानन्दतः प्राजात्यानन्द-पर्यन्तं दश-कृत्वः
शत-गुणिततया क्रमेण तेषाम् आनन्दोत्कर्ष-परिमाणं प्रदर्श्य पुनश्
च ततोऽपि शत-गुणत्वेन पर-ब्रह्मानन्दं प्रदर्श्याप्य् अपरितोषात् यतो
वाचो निवर्तन्ते इत्य् आदि श्लोकेन तद्-आनन्दस्यानन्त्यत्वम् एव स्थापितं
विलक्षणत्वं च । को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्याद्
इत्य् अनेन नाना-स्वरूप-धर्मतोऽपि तस्य केवलानन्द-स्वरूपत्वम् एव च
दर्शितम् । तथाभूत-मार्तण्डादि-मण्डलस्य केवल-ज्योतिष्ट्ववत् ।
अथ जीवश् च तदीयोऽपि तज्-ज्ञान-संसर्गाभाव-युक्तत्वेन तन्-माया-
पराभूतः सन्न् आत्म-स्वरूप-ज्ञान-लोपान् माया-कल्पितोपाध्यावेशाच्
चानादि-संसार-दुःखेन सम्बध्यत इति परमात्म-सन्दर्भादाव् एव
निरूपितम् अस्ति । तत इदं लभ्यते परम-तत्त्व-साक्षात्कार-लक्षणं तज्-
ज्ञानम् एव परमानन्द-प्राप्तिः । सैव परम-पुरुषार्थ इति ।
स्वात्माज्ञान-निवृत्तिः दुःखात्यन्त-निवृत्तिश् च निदाने तद्-अज्ञाने गते सति
स्वत एव सम्पद्यते । पूर्वस्याः परम-तत्त्व-स्वप्रकाशताभिव्यक्ति-
लक्षण-मात्रात्मकत्वाद् उत्तरस्याश् च ध्वंसाभाव-रूपत्वाद्
अनश्वरत्वम् । उक्तं च पूर्वस्याः परम-पुरुषार्थत्वं धर्मस्य ह्य्
अपवर्गस्य इत्य् आदिना [भ्प् 1.2.9],
तच्-छ्रद्दधाना मुनयो ज्ञान-वैराग्य-युक्तया ।
पश्यन्त्य् आत्मनि चात्मानं भक्त्या श्रुत-गृहीतया ॥ इत्य् अन्तेन [भ्प् 1.2.12] ।
स्वतः सर्व-दुःख-निवृत्तिश् च तत्रैवोक्ता - भिद्यते हृदय-ग्रन्थिर् [भ्प्
1.2.13] इत्य् आदिना । श्री-विष्णु-पुराणे च -
निरस्तातिशयाह्लाद-सुख-भावैक-लक्षणा ।
भेषजं भगवत्-प्राप्तिर् एकान्तात्यन्तिकी मता ॥ [विप् 6.5.59] इति ।
श्रुतौ च - आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति [तैत्तु 2.4.1] ।
एष एव च मुक्ति-शब्दार्थः । संसार-बन्ध-च्छेद-पूर्वकत्वात् । यथोक्तं
श्री-सूतेन -
यदैवम् एतेन विवेक-हेतिना
माया-मयाहङ्करणात्म-बन्धनम् ।
छित्त्वाच्युतात्मानुभवो ऽवतिष्ठते
तम् आहुर् आत्यन्तिकम् अङ्ग सम्प्लवम् ॥ [भ्प् 12.4.34] इति ।
अच्युताख्ये आत्मनि परमात्मनि अनुभवो यस्य तथाभूतः सन् अवतिष्ठते
यत् तम् आत्यन्तिकं सम्प्लवं मुक्तिम् आहुर् इत्य् अर्थः ।
अथ मुक्तिर् हित्वान्यथा-रूपं स्वरूपेण व्यवस्थितिर् इत्य् [भ्प् 2.10.6] एतद् अपि
तत्-तुल्यार्थम् एव । यतः स्वरूपेण व्यवस्थितिर् नाम स्वरूप-साक्षात्कार
उच्यते । तद्-अवस्थान-मात्रस्य संसार-दशायाम् अपि स्थितत्वात् । अन्यथा-
रूपत्वस्य च तद्-अज्ञान-मात्रार्थत्वेन तद्-धानौ तज्-ज्ञान-पर्यवसानात् ।
स्वरूपं चात्र मुख्यं परमात्म-लक्षणम् एव । रश्मि-परमाणूनां
सूर्य इव स एव हि जीवानां परमोऽंशि-स्वरूपः । यथोक्तं ब्रह्माणं प्रति
श्रीमता गर्भोदशायिना -
यदा रहितम् आत्मानं भूतेन्द्रिय-गुणाशयैः ।
स्वरूपेण मयोपेतं पश्यन् स्वाराज्यम् ऋच्छति ॥ [भ्प् 3.9.33] इति ।
उपेतं युक्तम् इत्य् एवाक्लिष्टोऽर्थः । जीव-स्वरूपस्यैव गौणानन्दत्वं
दर्शितम् । तस्मात् प्रियतमः स्वात्मेत्य् उक्त्वा [भ्प् 10.14.54] -
कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।
जगद्-धिताय सोऽप्य् अत्र देहीवाभाति मायया ॥ इत्य् अनेन [भ्प् 10.14.55],
जीव-परयोर् अभेद-वादस् तु परमात्म-सन्दर्भादौ विशेषतोऽपि
परिहृतोऽस्ति । अतएव निरधारयच् छ्रुतिः रसो वै सः रसं ह्य् एवायं
लब्ध्वानन्दी भवति [तैत्त् 2.7.1] इति । अत्रांशेनांशि-प्राप्तिश् च द्विधा
योजनीया । तत्राद्या ब्रह्म-प्राप्तिर् माया-वृत्त्य्-अविद्या-नाशानन्तरं केवल-
तत्-स्वरूप-शक्ति-लक्षण-तद्-विज्ञानाविर्भाव-मात्रम् । सा च स्व-स्थान एव
वा स्यात् । क्रमेण सर्व-लोक-सर्वावरणातिक्रमानन्तरं वा स्यात् । उपासना-
विशेषानुसारेण । द्वितीया भगवत्-प्राप्तिश् च तस्य विभोर् अप्य् असर्व-
प्रकटस्यतस्मिन्न् एवाविर्भावेन । विभुनापि वैकुण्ठे सर्व-प्रकटेन
तेनाचिन्त्य-शक्तिना स्व-चरणारविन्द-सान्निध्य-प्रापणया च ।
तद् एवं स्थिते, सा च मुक्तिर् उत्क्रान्त-दशायां जीव-दशायाम् अपि भवति ।
उत्क्रान्तस्योपाध्य्-अभावेऽपि तदीय-स्वप्रकाशता-लक्षण-
धर्माव्यवधानस्यैतत्-साक्षात्कार-रूपत्वात् । जीवतस् तत्-साक्षात्कारेण
माया-कल्पितस्यान्यथा-भावस्य मिथात्वावभासात् सैषा मुक्तिर्
एवात्यन्तिक-पुरुषार्थतयोपदिश्यते -
तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते ।
त्रैवर्ग्यो ऽर्थो यतो नित्यं कृतान्त-भय-संयुतः ॥ [भ्प् 4.22.35]
इति श्री-पृथुं प्रति श्री-सनत्-कुमारेण । श्रुतिश् च - येनाहं नामृतः स्यां
किम् अहं तेन कुर्याम् [बौ 2.4.3] इति । तद् एवं परम-तत्त्व-
साक्षात्कारात्मकस्य तस्य मोक्षस्य परम-पुरुषार्थत्वे स्थिते पुनर्
विविच्यते । तच् च परमं तत्त्वं द्विधाविर्भवति । अस्पष्ट-विशेषत्वेन
स्पष्ट-स्वरूप-भूत-विशेषत्वेन च । तत्र ब्रह्माख्यास्पष्ट-विशेष-पर-
तत्त्व-साक्षात्कारतोऽपि भगवत्-परमात्माद्य्-आख्य-स्पष्ट-विशेष-तत्-
साक्षात्कारस्योत्कर्षं भगवत्-सन्दर्भे [87] -
जिज्ञासितम् अधीतं च ब्रह्म यत् तत् सनातनम् ।
तथापि शोचस्य् आत्मानम् अकृतार्थ इव प्रभो ॥ [भ्प् 1.5.4]
इत्य् आदि-प्रकरण-प्रघट्टकेन दर्शितवान् अस्मि । अत्रापि वचनान्तरं
दर्शयिष्यामि । तस्मात् परमात्मत्वादि-लक्षण-नानावस्थ-भगवत्-
साक्षात्कार एव तत्रापि परमः । तत्र सत्य् अपि निरुपधि-प्रीत्य्-आस्पदत्व-
स्वभावस्य तस्य स्वरूप-धर्मान्तर-वृन्द-साक्षात्कृतौ परमत्वे प्रीति-
भक्त्य्-आदि-संज्ञं प्रियत्व-लक्षण-धर्म-विशेष-साक्षात्कारम् एव
परमतमत्वेन मन्यन्ते । तया प्रीत्यैवात्यन्तिक-दुःख-निवृत्तिश् च । यां
प्रीतिं विना तत्-स्वरूपस्य तद्-धर्मान्तर-वृन्दस्य च साक्सात्कारो न
सम्पद्यते । यत्र सा तत्रावश्यम् एव सम्पद्यते । यावत्य् एव प्रीति-सम्पत्तिस्
तावत्य् एव तत्-सम्पत्तिः । सम्पद्यमाने सम्पन्ने च तस्मिन् साधिकम्
आविर्भवति । तद् एतत् सर्वम् अपि युक्तम् एव । परम-सुखं खलु भगवतस्
तद्-गुण-वृन्दस्य च स्वरूपम् । सुखं च निरुपाधि-प्रीत्य्-आस्पदम् । ततस्
तद्-अनुभवे प्रीतेर् एव मुख्यत्वम् इति । तस्मात् पुरुषेण सैव
सर्वदान्वेषितव्येति पुरुष-प्रयोजनत्वं तत्रैव परमतमम् इति स्थितम् ।
क्रमेणोदाह्रियते ।
तत्र सत्य् अपीत्य् आदिकम् -
सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ [भ्प् 11.20.33]
इत्य् आदि श्री-भगवद्-वाक्यादौ । तयेत्य् आदिकम् ।
प्रीतिर् न यावन् मयि वासुदेवे
न मुच्यते देह-योगेन तावत् । [भ्प् 5.5.6] इति श्री-ऋषभदेव-वाक्ये ।
याम् इत्य् आदिकं -
भक्त्याहम् एकया ग्राह्यः
श्रद्धयात्मा प्रियः सताम् । [भ्प् 11.14.21] इति श्रीभगवद्-वाक्ये ।
सम्पद्यमाने इत्य् आदिकं -
मद्-रूपम् अद्वयं ब्रह्म मध्याद्यन्त-विवर्जितम् ।
स्व-प्रभं सच्चिदानन्दं भक्त्या जानाति चाव्ययम् ॥ इति वासुदेवोपनिषदि ।
यत्रेत्यादिकं -
भक्तिर् एवैनं नयति, भक्तिर् एवैनं दर्शयति
भक्ति-वशः पुरुषो भक्तिर् एव भूयसी ॥ इति माठर-श्रुतौ ।
यावतीत्यादिकम् -
भक्तिः परेशानुभवो विरक्तिर्
अन्यत्र चैष त्रिक एक-कालः ।
प्रपद्यमानस्य यथाश्नतः स्युस्
तुष्टिः पुष्टिः क्षुद्-अपायो ऽनु-घासम् ॥ कवि-योगेश्वर-वाक्ये [भ्प् 11.2.42]
एवं तत् त्वम् असि [छु 6.8.7] इत्य्-आदि-शास्त्रम् अपि तत्-प्रेम-परम् एव ज्ञेयम् ।
त्वम् एवामुक इतिवत् । किं च लोक-व्यवहारोऽपि तत्-पर एव दृश्यते । सर्वे हि
प्राणिनः प्रीति-तात्पर्यका एव । तद्-अर्थम् आत्म-व्ययादेर् अपि दर्शनात् ।
किन्तु योग्य-विषयम् अलब्ध्वा तैस् तत्र तव सा परिवर्ज्यते । अतः सर्वैर् एव
योग-तद्-विषयेऽन्वेष्टुम् इष्टे सति श्री-भगवत्य् एव तस्याः पर्यवसानं
स्याद् इति । तद् एवं भगवत्-प्रीतेर् एव परम-पुरुषार्थत्वे समर्थिते
साधूक्तं ôअथ प्रीति-सन्दर्भो लेख्यö इत्य् आदि ।
स एष एव परम-पुरुषार्थः क्रम-रीत्या सर्वोपरि दर्शयितुं
संदृभ्यते । तत्रोक्त-लक्षणस्य मुक्ति-सामान्यस्य शास्त्र-प्रयोजनत्वम्
आह - सर्व-वेदान्तेत्य् आदौ कैवल्यैक-प्रयोजनम् इति [भ्प् 12.13.12] । केवलः
शुद्धः तस्य भावः कैवल्यम् । तद् एकम् एव प्रयोजनं परम-
पुरुषार्थत्वेन प्रतिपाद्यं यस्य तद् इदं श्री-भागवतम् इति पूर्व-
श्लोकस्थेनान्वयः । दोष-मूलं हि जीवस्य परम-तत्त्व-ज्ञानाभाव एवेत्य्
उक्तम् - भयं द्वितीयाभिनिवेशतः स्याद् इत्य् आदौ [भ्प् 12.2.37], ईशाद्
अपेतस्येत्य् आदिभिः । अतस् तज्-ज्ञानम् एव शुद्धत्वम् इति कैवल्य-शब्दस्यात्र
पूर्ववत् तद्-अनुभव एव तात्-पर्यम् ।
अथवा कैवल्य-शब्देन परमस्य स्वभाव एवोच्यते । यथा स्कान्दे -
ब्रह्मेशानादिभिर् देवैर् यत् प्राप्तुं नैव शक्यते ।
स यत् स्वभावः कैवल्यं स भवान् केवलो हरे ॥ इति ।
क्वचित् स्वार्थिक-तद्-धितान्तेन कैवल्य-शब्देनापि परम उच्यते । यथा श्री-
दत्तात्रेय-शिक्षायां -
परावराणां परम आस्ते कैवल्य-संज्ञितः ।
केवलानुभवानन्द-सन्दोहो निरुपाधिकः ॥ इति [भ्प् 11.9.18] ।
तथाप्य् उभयथैव तद्-अनुभव एव तात्-पर्यम् । तत्-स्वभावम् एव वा ।
तम् एवानुभावयितुम् इदं शास्त्रं प्रवृत्तम् इत्य् अर्थः ।
॥ 12.13 ॥ श्री-सूतः
[2]
तथा चान्यत्र -
एतावान् एव मनुजैर् योग-नैपुण्य-बुद्धिभिः ।
स्वार्थः सर्वात्मना ज्ञेयो यत्-परात्मैक-दर्शनम् ॥ [भ्प् 6.16.63]
टीका च - न चातः परः पुरुषोऽस्तीत्याह एतावान् इति । परस्यात्मन एकं
दर्शनम् इति यत् एतावान् एवेत्य् एषा । परमात्मनः केवलस्य दर्शनम् इति
वा ।
॥ 6.16 ॥ श्री-शङ्कर्षणश् चित्रेकेतुम्
[3]
सैषा हि मुक्तिर् उत्क्रान्त-दशायां द्विधा भवति सद्य एव च, क्रम-रीत्या
च । तत्र पूर्वा । द्वितीये स्थिरं सुखं चासनम् [भ्प् 2.2.15] इत्य् आदि
प्रकरणान्ते विसृजेत् परं यत इत्य् अत्र [भ्प् 2.2.21] । उत्तरा च तद्-अनन्तरं
यदि प्रयास्यन् नृप पारमेष्ट्यम् इत्य् आदौ [भ्प् 2.2.22] तेनात्मनात्मानम्
उपैति शान्तम् इत्य् अत्र [भ्प् 2.2.31] । जीवद्-दशायाम् अपि सा तु तद्-विशेषष्व्
अग्रतो दर्शनीया । तत्र ब्रह्म-साक्षात्कार-लक्षणां जीवन्-मुक्तिम् आह -
यत्रेमे सद्-असद्-रूपे प्रतिषिद्धे स्व-संविदा ।
अविद्ययात्मनि कृते इति तद्-ब्रह्म-दर्शनम् ॥ [भ्प् 1.3.33]
यत्र यस्मिन् दर्शने स्थूल-सूक्ष्म-रूपे शरीरे स्व-संविदा जीवात्मनः
स्वरूप-ज्ञानेन प्रतिषिद्धे भवतः । केन प्रकारेण ? वस्तुत आत्मनि ते
न स्त एव किन्त्व् अविद्ययैवात्मनि कृते अध्यस्ते इति एतत् प्रकारेणेत्य् अर्थः ।
तद् ब्रह्म-दर्शनम् इति यत्-तदोर् अन्वयः । ब्रह्मणो दर्शनं
साक्षात्कारः । यत्र स्व-संविदेत्य् उक्त्या जीव-स्वरूप-ज्ञानम् अपि तद्-आश्रयम्
एव भवति इति । तथा केवल-स्व-संविदा ते निषिद्धे न भवत इति च
ज्ञापितम् । ततश् च जीवत एवाविद्या-कल्पित-माया-कार्य-सम्बन्ध-
मिथ्यात्व-ज्ञापक-जीव-स्वरूप-साक्षात्कारेण तादात्म्यापन्न-ब्रह्म-
साक्षात्कारो जीवन्-मुक्ति-विशेष इत्य् अर्थः ॥
॥1.3॥ श्री-सूतः
[4]
ईदृशम् एव तन्-मुक्ति-लक्षणं श्री-कापिलेये मुक्ताश्रयम् (भ्प् 3.28.35-38)
इत्य् आदि-चतुष्टये दर्शितम् । तत्र हि प्रतिनिवृत्त-गुण-प्रवाहः सन् आत्मानम्
पर्मात्मानम् ईक्षत इति मुक्ताश्रयम् इत्य् आदौ स्व-स्वरूप-भूते महिम्नि
अवस्थितो निष्ठां प्राप्तः सन्न् उपलब्ध-परात्म-काष्ठ इति सोऽप्य् एतयेत्य्
आदौ स्वरूपं जीव-ब्रह्मणो याथात्म्यअ-मध्यगमद् इति देहं चेत्य्
आदौ । एवं प्रतिबुद्ध-वस्तुर् इति देहोऽपीत्य् आदौ चेति । तस्माद् अस्य
प्रारब्ध-कर्म-मात्राणाम् अनभिनिवेशेनैव भोगः । एवम् एवोक्तं तत्र
को मोहः कः शोक एकत्वम् अनुपश्यत इति (ईशोपनिषद् 7) ।
अथान्तिमां ब्रह्म-साक्षात्कार-लक्षणां मुक्तिम् आह -
यद्य् एषोपरता देवी माया वैशारदी मतिः ।
सम्पन्न एवेति विदुर् महिम्नि स्वे महीयते ॥ (भ्प् 1.3.34)
एषा जीवन्-मुक्ति-दशायां स्थिता विशारदेन परमेश्वरेण दत्ता देवी
द्योतमाना मतिर् विद्या तद्-रूपा या माया स्वरूप-शक्ति-वृत्ति-भूत-
विद्याविर्भाव-द्वार-लक्षणा सत्त्वमयी माया-वृत्तिः सा यदि उपरता निवृत्ता
भवति । तदा व्यवधानाभासस्यापि राहित्यात् सम्पन्नो लब्ध-
ब्रह्मानन्द-सम्पत्तिर् एवेति विदुर् मुनयः । ततश् च तत्-सम्पत्ति-लाभात् स्वे
महिम्नि स्वरूप-सम्पत्ताव् अपि महीयते पूज्यते । प्रकृष्ट-प्रकाशो
भवतीत्य् अर्थः ॥
॥ 1.3 ॥ श्री-सुतः
[5]
अत्र पूर्वे तत्त्व-भगवत्-परमात्म-सन्दर्भेष्व् एवं मूल्येन श्रुत्य्-
आदिभिश् च पर्तिपादितम् । (पगे 6)
जीवाख्य-समष्टि-शक्ति-विशिष्टस्य परम-तत्त्वस्य खल्व् अंश एको जीवः ।
स च तेजो-मण्डलस्य बहिश् चर-रश्मि-परमाणुर् इव परम-चिद्-एक-रसस्य
तस्य बहिश् चर-चित्-परमाणुः । तत्र तस्य व्यापकत्वात् तद्-एक-देशत्वम् एव
जीवे स्यात् । निराकारतया तद्-एकदेशत्वं न विरुद्धम् । तथापि
बहिश्चरत्वं तद्-आश्रयित्वात् । तज्-ज्ञानाभावात् छायया रश्मिवत्
माययाभिभाव्यत्वाच् च बहिश्चरत्वं व्यपदिश्यते । रश्मि-स्थानीयत्वं च
तद्-व्यतिरेकाद् व्यतिरेकितया यस् तदाश्रयि-भावः । या च पूर्व-युक्त्या
बहिश्चरत्वेऽप्य् एकवस्तुत्व-श्रुतिस् तदादिभिर् गम्यते । शक्तित्वं च तद्-
रूपतयैव तदीय-लीलोपकरणत्वात् । अणुत्वं च शब्दात् हरि-चन्दन-
बिन्दुवत् तस्य प्रभाव-लक्षण-गुणेनैव सर्व-देह-व्याप्तेः । सर्वं चैतत्
परमस्याचिन्त्य-शक्तिमयत्वाद् अविरुद्धम् इति पूर्वं दृढीकृतम् अस्ति श्रुतेस्
तु शब्द-मूलत्वात् [व्स् 2.1.17] इति न्यायेन, एकदेश-स्थितस्याग्नेर् इत्य् आदिना च ।
तत्र जीवेश्वरयोर् अत्यन्ताभेदे युगपद् अविद्याविद्याश्रत्वाय्-अनुपपत्तिश् च
पूर्वं विवृता । तत्त्वम् असि इत्य् आदौ लक्षणा त्व् अत्यन्ताभेदे तद्-अंशत्वे च
समानैव । परम-तत्त्वस्य निरंशत्व-श्रुतिस् तु द्विधा प्रवर्तते । तत्र
केवल-विशेष्य-लक्षण-निर्देश-पराया मुख्यैव प्रवृत्तिः । आनन्द-
मात्रत्वात् तस्य । आनन्दैक-रूपस्य तस्य स्वरूप-शक्ति-विशिष्टस्य निर्देश-
परायास् तु प्राकृतांश-लेश-राहित्य-मात्रे तात्पर्याद् गौणी प्रवृत्तिः । सर्व-
शक्ति-विशिष्टस्य तस्य तु सर्वांशित्वं गीतम् एव ।
तद् एवं तस्य रश्मि-परमाणु-स्थानीयांशत्वे सिद्धे तद्वत् सर्वस्याम् अपि
दशायां कर्तृत्व-भोक्तृत्वादि-स्वरूप-धर्मा अपि सिध्यन्ति । तद्वद् एव च
परमेश्वर-शक्त्य्-अनुग्रहेणैव ते कार्य-क्षमा भवन्ति तत्र तेषां
प्रकृति-विकार-मय-कर्तृत्वादिकं तदीय-माया-शक्ति-मयानुग्रहेण ।
अतएव तत्-सम्बन्धात् तेषां संसारः । स्वानुभव-ब्रह्मानुभव-
भगवद्- (पगे 7) अनुभव-कर्तृत्वादिकं तु तदीय-स्वरूप-शक्त्य्-
अनुग्रहेण । यत्र तस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येद् [बौ
2.4.14] श्रुतिश् च । तत्-स्वरूप-शक्तिं विना तद्-दर्शनासामार्थ्यं द्योतयति
यम् एवैष वृणुते तेन लभ्य [कठु 1.2.23] इत्य् आदि-श्रुतेः ।
अतएव स्वरूप-शक्ति-सम्बन्धान् मायान्तर्धाने तेषां संसार-नाशः ।
येषां तु मते मुक्ताव् आनन्दानुभवो नास्ति । तेषां पुमर्थता न
सम्पद्यते । सतोऽपि वस्तुनः स्फुरणाभावे निरर्थकत्वाअत् । न च सुखम्
अहं स्याम् इति कस्यचिद् इच्छा, किन्तु सुखम् अहन् अनुभवामि इत्य् एव । ततश्
च प्रवृत्त्य्-अभावात् तादृश-पुरुषार्थ-साधन-प्रेरणापि शास्त्रे व्यर्थैव
स्यात् । तन्-मते केवलानन्द-रूपस्याज्ञान-दुःख-सम्बन्धासम्भवात् तन्-
निवृत्ति-रूपश् च पुरुषार्थो न घटते । विगीतं त्व् ईदृश-पुरुषार्थत्वं
प्राचीनबर्हिषं प्रति श्री-नारद-वाक्ये दुःख-हानिः सुखावाप्तिः श्रेयस्
तन् नेह चेष्यते [भ्प् 4.25.4] तस्माद् अस्त्य् एवानुभवः । तथा च श्रुतिः -
रसं ह्य् एवायं लब्ध्वानन्दी भवति इति । आत्म-रतिः आत्म-क्रीडः [छाउ
7.25.2] इत्य् आदिश् च ।
यथा विष्णुधर्मे -
भिन्ने दृतौ यथा वायुर् नैवान्यः सह वायुना ।
क्षीण-पुण्याघ-बन्धस् तु तथात्मा ब्रह्मणा सह ॥
ततः समस्त-कल्याण-समस्त-सुख-सम्पदाम् ।
आह्लादम् अन्यम् अकलङ्कम् अवाप्नोति शाश्वतम् ॥
ब्रह्म-स्वरूपस्य तथा ह्य् आत्मनो नित्यदैव सः ।
व्युत्थानकाले राजेन्द्र आस्ते हि अतिरोहितः ॥
आदर्शस्य मलाभावाद् वैमल्यं काशते यथा ।
ज्ञानाग्नि-दग्ध-हेयस्य स ह्लादो ह्य् आत्मनस् तथा ॥
यथा हेय-गुण-ध्वंसाद् अवबोधादयो गुणाः ।
प्रकाशन्ते न जन्यन्ते नित्या एवात्मनो हि ते ॥
ज्ञानं वैराग्यम् ऐश्वर्यं धर्मश् च मनुजेश्वर ।
आत्मनो ब्रह्म-भूतस्य नित्यम् एव चतुष्टयम् ॥
एतद् अद्वैतम् आख्यातम् एष एव तवोदितः ।
अयं विष्णुर् इदं ब्रह्म तथैतत् सत्यम् उत्तमम् ॥ इति ।
अत्र जीव-ब्रह्मणोर् अंशांइत्वांशेनैव वायु-दृष्टान्तः । अंशत्वेऽपि
बहिरङ्गत्वं त्व् अन्यतो ज्ञेयम् । अतः पृथग्-ईश्वरे स्वरूप-भूतानुभवे
च सति तद्-वैमुख्येनानादिना लब्ध-च्छिद्रयेश-मायया तद्-अनुभव-
लोपादेः सम्भवात् कथञ्चित् साम्मुख्येन तद्-अनुग्रहान् निवृत्तिश् चास्ति ।
आनन्दं ब्रह्मणो विद्वान् [तैत्तु 2.4.1] इत्य् आदि श्रुतेः । न तस्मात् प्राणा
उत्क्रामन्ति अत्रैव समवलीयन्ते ब्रह्मैव सन् ब्रह्माप्य् एति [बौ 4.4.6] इत्य्
अत्रापि ।
अन्यो ब्रह्म-भावस् तथान्यो ब्रह्मण्य् अप्यय इति स्पष्टम् । ब्रह्म-
भावानन्तरं तद्-अप्ययस्य पुनर् अभिधानात् । अप्य् एतेः कर्मतया ब्रह्म-
निर्देशाच् च । ततश् च ब्रह्मैव सन्न् इति तत्-साम्य-तत्-तादात्म्यापत्त्याव्
अभेद-निर्देशः । एवं ब्रह्म वेद ब्रह्मैव भवति [मुण्डु 3.2.8] इत्य्
अत्रापि व्याख्येयम् ।
क्वचिद् एकत्व-शब्देनापि तथैवोच्यते । अत्र तत्-साम्यं यथोक्तम् -
निरञ्जनं परम-साम्यम् उपैति [मुण्डु 3.2.3] इत्य् आदि श्रुतौ । इदं ज्ञानम्
उपाश्रित्य मम साधर्म्यम् आगता (पगे 8) [गीता 14.2] इति गीतोपनिषत्सु च ।
उभयं चोक्तं स्पष्टम् एव -
यथोदकं शुद्धे शुद्धम् आसिक्तं तादृग् एव भवति ।
एवं मुनेर् विजानत आत्मा भवति गौतम ॥ [कठ् उ 2.1.15]
तत्रैव-कारेण न तु तद् एव भवति न तु वा तद्-असाधर्म्येण पृथग्
उपलभ्यत इति द्योत्यते । स्कान्दे च -
उदके तूदकं सिक्तं मिश्रम् एव यथा भवेत् ।
तद् वै तद् एव भवति यतो बुद्धिः प्रवर्तते ॥
एवम् एवं हि जीवोऽपि तादात्म्यं परमात्मना ।
प्राप्तोऽपि नासौ भवति स्वातन्त्र्यादि-विशेषणात् ॥ इति ।
बिम्ब-प्रतिबिम्ब-निर्देशश् च अम्बुद-ग्रहणाद् [व्स्. 3.2.19] इत्य् आदि-सूत्र-
द्वये गौण एव योजितः । एवम् एवैष संप्रसादोऽस्माच् छरीरात् समुत्थाय
परं ज्योतिर् उपसंपद्य स्वेन रूपेणाभिनिष्पद्यते [छाउ 8.12.3] इत्य् अत्रापि
तथैव भेदः प्रतिपादितः । श्री-विष्णु-पुराणेऽपि विभेद-जनकेऽज्ञाने
नाशम् [विप् 6.7.84] इत्य् आदौ देवादि-भेद-नाशानन्तरं ब्रह्मात्मनोर्
भेदं न कोऽप्य् असन्तं करिष्यति अपि तु सन्तम् एव करिष्यतीति व्याख्यातम्
एव ।
एवम् एव टीका-कृद्भिः सम्मतं श्री-गोपानां ब्रह्म-सम्पत्त्य्-अनन्तरम्
अपि वैकुण्ठ-दर्शनम् । तस्मात् साधु व्याख्यातम् यद्य् एषोपरत इत्य् आदि
[भ्प् 1.3.34] तद् एवं ब्रह्म-सम्पत्तिर् व्याख्याता ।
तत्र श्री-विष्णु-पुराणे परमार्थ-निर्णये रहूगणं प्रति जड-भरत-
वाक्यं यथा । तत्र केवल-ब्रह्मानुभवस्यैव पर्मार्थत्वं निर्णेतुं
यज्ञाद्य्-अपूर्वस्य तावद् अपरमार्थत्वं चतुर्भिर् उक्तम् --
ऋग्-यजुः-साम-निष्पाद्यं यज्ञ-कर्म-मतं तव ।
परमार्थ-भूतं तत्रापि श्रूयतां गदतो मम् ॥
यत् तु निष्पाद्यते कार्यं मृदा कारण-भूतया ।
तत्-कारणानुगमनाज् जायते नृप मृन्-मयम् ॥
एवं विनाशि-द्रव्यैः समिद्-आज्य-कुशादिभिः ।
निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥
अनाशी परमार्थश् च प्राज्ञैर् अभुपगम्यते ।
तत् तु नाशि न सन्देहो नाशि-द्रव्योपपादितम् ॥ [विप् 2.14.21-24] इति ।
एतद्-दृष्टान्तेन पूजादिमय-भक्तेर् अपि तादृशत्वं नानुमेयम् ।
अपूर्ववद्-भक्तेर् निष्पाद्यत्वाभावात् । गुणमयं हि निष्पाद्यं स्यात्
नागुणमयम् । कैवल्यं सात्त्विकं ज्ञानम् [भ्प् 11.25.24] इत्य् आरभ्य
एकादशे श्री-भगवतैवागुणमयत्वम् अङ्गीकृतम् । अतः स्वरूप-शक्ति-
वृत्ति-विशेषत्वेन तस्याः भगवत्-प्रसादे सति स्वयम् आविर्भाव एव न
जन्म । (पगे 9)
स चाविर्भावोऽनन्त एव तदीय-फलानन्त्य-श्रवणात् । तस्मात्
पर्मेश्वरानाश्रयत्वं तत्रोपाधिर् भविष्यति । हिंसायां पापोत्पत्त्य्-
अनुमिताव् अविहिततत्ववत् । ज्ञान-प्रकरणे चास्मिन् भक्तिर् न प्रस्तूयत इति
साधारण-यज्ञादिकम् उपादायैव प्रवृत्तिश् चेयम् । तद् एवं यज्ञादि-
कर्मापूर्वस्य विनाशित्वाद् अपरमार्थत्वम् उक्त्वा निष्काम-कर्मणोऽपि
साह्दनत्वेनार्थान्तरस्यैव साध्यत्वात् तादृशत्वम् उक्तम् एकेन --
तद् एवाफलदं कर्म परमार्थो मतस् तव ।
मुक्ति-साधन-भूतत्वात् परमार्थो न साधनम् ॥ [विप् 2.14.25] इति ।
अत्र भक्तेः साधन-भूतत्वे न तादृशत्वं मन्तव्यम् । भगवत्-प्रेम-
विलास-रूपतया सिद्धानाम् अपि तद्-अत्याग-श्रवणात् । तस्माद् इदम् अपि
पूर्ववत् ज्ञेयम् ।
ननु, शुद्ध-जीवात्म-ध्यानस्य परमार्थत्वं भवेत्, मुक्ति-दशायाम् अपि
स्फूर्त्य्-अङ्गीकारेण तद्-रूपस्य तस्यानश्वरत्वात् । तद्-आच्छादनाद् अधुना
संसार इति तस्यैव साध्यत्वाच् च । तत्रोक्तम् एकेन --
ध्यानं चेद् आत्मनो भूप परमार्थार्थ-शब्दितम् ।
भेद-कारि-परेभ्यस् तत् परमार्थो न भेदवान् ॥ [विप् 2.14.26] इति ।
यद्-विज्ञानेन सर्व-विज्ञानं भवति तद् एव ब्रह्म श्रुतौ परमार्थत्वेन
प्रतिज्ञातम् । सर्व-विज्ञान-मयत्वं च तस्य सर्वात्मत्वात् । अग्नि-विज्ञानं हि
ज्वाला-विस्फुलिङ्गादेर् अपि विज्ञापकं भवति । एकस्य जीवस्य तु तदीय-जीव-
शक्ति-लक्षणांश-परमाणुत्वम् इत्य् अतस् तस्य तत्-स्फुरणस्य च भेदवतो
न परमार्थत्वम् इत्य् अर्थः ।
ननु जीवात्म-परमात्मनोर् एकत्र-स्थिति-भावनयात्यन्त-संयोगे
प्रादुर्भूते सति तस्यापि सर्वात्मना स्यात्, तद्-अभेदापत्तेः । स च योगो न
विनश्वरः । ज्ञानानन्तर-सिद्धत्वात् । तस्मात् तयोर् योग एव परमार्थो
भवतु । तत्रोक्तम् एकेन --
परमात्मात्मनोर् योगः परमार्थ इतीष्यते ।
मिथ्यैतद् अन्यद् द्रव्यं हि नैति तद्-द्रव्यतां यतः ॥ [विप् 2.14.27] इति ।
एतत् परमार्थत्वं मिथ्यैवेष्यत इत्य् अर्थः । हि निश्चितम् । यतो यस्मात् जीव-
लक्षणम् अन्यद् द्रव्यं तद्-द्रव्यतां परमात्म-लक्षण-द्रव्यतां न
याति । तस्मात् महा-तेजः प्रविष्ट-स्वल्प-तेजोवद् अत्यन्त-संयोगतोऽप्य्
अभेदानुपपत्तेस् तयोर् योगोऽपि न परमार्थ इति भावः । अथवात्र योग-
शब्देनैकत्वम् एवोच्यते । ततश् चैतद् एकत्वम् इति व्याख्येयम् । शेषं
पूर्ववत् ।
तद् एवं पूर्व-पक्षान् निषिध्य उत्तर-पक्षं स्थापयितुम् उपक्रान्तम्
एकेन --
तस्मात् श्रेयांस्य् अशेषाणि नृपैतानि न संशयः ।
परमार्थस् तु भूपालअ सङ्क्षेपाच् छ्रूयतां मम ॥ [विप् 2.14.28] इति ।
श्रेयांसि परमार्थ-साधनानि । परमार्थ-निर्देशस् त्रयेणोक्तः --
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ।
जन्म-वृद्ध्यादि-रहित आत्मा सर्व-गतोऽव्ययः ॥
पर-ज्ञानयोऽसद्भिर्नाम-जात्य्-आदिभिर् विभुः ।
न योगवान् न न युत्कोऽभून् नैव पार्थिव योक्ष्यति ॥
तस्यात्म-पर-देहेषु सतोऽप्य् एकमयं हि यत् ।
विज्ञानं परमार्थोऽसौ द्वितनोऽतथ्य-दर्शिनः ॥ [विप् 2.14.29-31] इति ।
एकः । न तु जीवा इवानेके । ज्वाला-विस्फूलिङ्गेष्व् अग्निर् इव स्व-शक्तिषु स्व-
कार्येषु सर्वेषु व्याप्नोतीति व्यापि । सर्व-गत इत्य् अनेन जीव इव नाखण्डे
देहे प्रभावेनैव व्यापीति ज्ञापितम् । जीव-ज्ञानाद् अपि परं यज्-ज्ञानं तन्-
मयः तत्-प्रकाश-प्रधानः । असद्भिर् इति विशेषणात् भगवद्-रूपे
प्रकाश्येऽपि सद्भिः स्वरूप-सिद्धैर् एव नामादिभिर् योगवान् भवतीति
विज्ञापितम् । तस्यैवं-लक्षणस्य परमात्म-रूपेणात्म-पर-देहेषु
आत्मनः परेषाम् अपि देहेषु तत्-तद्-उपाधि-भेदेन पृथक् पृथग् इव
सतोऽपि एकं तदीयं स्व-स्वरूपं तन्-मयं तद्-आत्मकं यद्-विज्ञानं तद्-
अनुभवः (पगे 10) असाव् एव परमार्थः । अनाशित्वात् साध्यत्वात् सर्व-
विज्ञानान्तर्भाववत्त्वाच् चेति भावः । ये तु द्वैतिनः तत्-तद्-उपाधि-दृष्ट्या
तस्यापि भेदं मन्यन्ते । तद्-विज्ञानेन सर्व-विज्ञानान्तर्भावं च न
मन्यन्ते । ते पुनर् अतथ्य-दर्शिन एवेति ।
तत्रोपाधि-भेदैर् अंश-भेदेऽप्य् अभेदो दृष्टान्तेन साधितो द्वाभ्याम् -
वेणु-रन्ध्र-विभेदेन भेदः षड्-जादि-संज्ञ्तः ।
अभेद-व्यापिनी वायोस् तथा तस्य महात्मनः ॥
एकत्वं रूप-भेदश् च बाह्य-कर्म-प्रवृत्तिजः ।
देवादिभेद-मध्यास् ते नास्त्य् एवाचरणो हि सः ॥ [विप् 2.14.32-33] इति ।
तथा तस्यैकत्वम् इत्य् अन्वयः । रूपस्य तत्-तद्-आकारस्य भेदस् तु बाह्यस्य
तदीय-बहिरङ्ग-चिद्-अंशस्य जीवस्य या कर्म-प्रवृत्तिस् ततो जातः । स तु
परमात्मा देवादि-भेदम् अन्तर्यामितयैवाधिष्ठायास् ते तत्-तद्-उपाधि-
सम्बन्धाभावाच् च नास्त्य् एवावरणं यस्य तथा-भूतः सन्न् इति । तस्मात्
तस्य देवादि-रूपता तु स्व-लीला-मय्य् एवेति भावः ।
अथ श्री-भगवत्-साक्सात्कारस्य मुक्तित्वम् आह --
ततो विदूरात् परिहृत्य दैत्या; दैत्येषु सङ्गं विषयात्मकेषु ।
उपेत नारायणम् आदि-देवं; स मुक्त-सङ्गैर् इषितो ऽपवर्गः ॥ [भ्प् 7.6.18]
टीका च - यस्मात् स एवापवर्ग इष्टः इत्य् एषा । अत्र नारायणस्यापवर्गत्वं
तत्-साक्षात्कृताव् एव पर्यवस्यति । तस्या एव संसार-ध्वंस-पूर्वक-
परमानन्द-प्राप्ति-रूपत्वात् तद्-अस्तित्व-मात्रत्वे तादृशत्वाभावाच् च ॥
॥ 7.6 ॥ श्री-प्रह्लादः
[6]
तथा -
सत्याशिषो हि भगवंस् तव पाद-पद्मम्
आशीस् तथानुभजतः पुरुषार्थ-मूर्तेः ।
अप्य् एवम् अर्य भगवान् परिपाति दीनान्
वाश्रेव वत्सकम् अनुग्रह-कातरो ऽस्मान् ॥ [भ्प् 4.9.17]
टीका च - हे भगवन् ! पुरुषार्थः परमानन्दः स एव मूर्तिर् यस्य तस्य
एव पाद-पद्मम् । आशिषो राज्यादेः सकाशात् सत्या आशीः परमार्थ-फलम् ।
हि निश्चितम् । कस्य, तथा तेन प्रकारेण त्वम् एव पुरुषार्थ इत्य् एवं
निष्कामतया अनुभजतः । यद्यप्य् एवं तथापि हे अर्य हे स्वामिन् दीनान्
सकामान् अप्य् अस्मान् इत्य् आदिका ।
॥ 4.9 ॥ ध्रुवः श्री-ध्रुव-प्रियम्
[7]
स चात्म-साक्षात्कारो द्विविधः । अन्तराविर्भाव-लक्षणो बहिर्-आविर्भाव-
लक्षणश् च । (पगे 11) यथा -
प्रगायतः स्व-वीर्याणि तीर्थ-पादः प्रिय-श्रवाः ।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ [भ्प् 1.6.34] इत्य् आदौ ।
तेऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् ॥ [भ्प् 3.15.38] इत्य् आदौ च ।
तत्रान्तः-साक्षात्कारे योग्यता श्री-रुद्र-गीते -
न यस्य चित्तं बहिर्-अर्थ-विभ्रमं
तमो-गुहायां च विशुद्धम् आविशत् ।
यद्-भक्ति-योगानुगृहीतम् अञ्जसा
मुनिर् विचष्टे ननु तत्र ते गतिम् ॥ [भ्प् 4.24.59]
तत्र तेषां पूर्वोक्तानां सतां भक्ति-योगेनानुगृहीतं विशुद्धं यस्य
चित्तं बाह्येष्व् अर्थेषु भ्रान्तं न भवति तमो-रूपायां गुहायां च न
विशति स मुनिर् इत्य् आदिकं च व्याख्येयम् ।
बहिः-साक्षात्कारेऽपि व्यतिरेकेण तथैव नारदं प्रति श्री-भगवतोक्तम् -
हन्तास्मिन् जन्मनि भवान् मा मां द्रष्टुम् इहार्हति ।
अविपक्व-कषायाणां दुर्दर्शो ऽहं कुयोगिनाम् ॥ [भ्प् 1.6.22] इति ।
न केवलं शुद्ध-चित्तत्वम् एव योग्यता । किं तर्हि ? तद्-भक्ति-
विशेषाविष्कृत-तद्-इच्छामय-तदीय-स्व-प्रकाशता-शक्ति-प्रकाश एव मूल-
रूपा सा, यत्-प्रकाशेन तद् अपि निःशेषं सिध्यति ।
यथा अन्तः-साक्षात्कारे भिद्यते हृदय-ग्रन्थिर् [भ्प् 1.2.21] इत्य् आदि । तथा
बहिः-साक्षात्कारेऽपि श्री-सङ्कर्षणं प्रति चित्रकेतु-वाक्ये, न हि भगवन्
न घटितम् इदं त्वद्-दर्शनान् नॄणाम् अखिल-पाप-क्षयः [भ्प् 1.16.44] इति ।
प्रह्लादं प्रति श्री-नृसिंह-वाक्ये --
स त्वं शाधि स्व-भृत्यान् नः किं देव करवाम हे ।
एतद्-अन्तो नृणां क्लेशो यद् भवान् अक्षि-गोचरः ॥ [भ्प् 10.86.49] इति ।
तद् एवं तत्-प्रकाशेन निःशेष-शुद्ध-चित्तत्वे सिद्धे पुरुष-करणानि
तदीय-स्व-प्रकाशता -शक्ति-तादात्म्यापन्नतयैव तत्-
प्रकाशताभिमानवन्ति स्युः । तत्र भक्ति-विशेष-सापेक्षत्वम् उक्तम् तच्-
छ्रद्दधाना मुनयः [भ्प् 1.2.12] इत्य् आदौ । तद्-इच्छामयेत्य् आद्य्-
उदाहरणं च ब्रह्म-भगवतोर् अविशेषतयैव दृश्यते । यथा सत्यव्रतं
प्रति श्री-मत्स्य-देव-वाक्ये -
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [भ्प् 8.24.38] इति ।
(पगे 12)
तथैव हि ब्रह्माणं प्रति श्री-भगवद्-वाक्ये - मनीषितानुभावोऽयं
मम लोकावलोकनम् [भ्प् 2.9.21] इति । श्री-नारायणाध्यात्मे -
नित्याव्यक्तोऽपि भगवान् ईक्ष्यते निज-शक्तितः ।
ताम् ऋते पुण्डरीकाक्षं कः पश्येतामितं प्रभुम् ॥ इति ।
श्रुतौ च -- यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनुं
स्वाम् [कठु 1.2.23] इति ।
ततस् तत्-करण-शुद्ध्य्-अपेक्षापि तच्-छक्ति-प्रतिफलनार्थम् एव ज्ञेया ।
एवम् अपि भक्त्या तं दृष्ट्वापि मुचुकुन्दादौ या मृगयापापाद्यस्थिता
श्री-भगवता कीर्तिता, सा तु प्रेम-वर्धिन्या झटिति-भगवद्-अप्राप्ति-
शङ्का-जन्मनस् तद्-उत्कण्ठाया वर्धनार्थं विभीषिकयैव कृता । यत् तु
तदीय-स्निग्धानां श्री-युधिष्ठिरादीनां नरक-दर्शनं तत् खलु इन्द्र-
माया-मयम् एवेति स्वर्गारोहण-पर्वण्य् एव व्यक्तम् अस्ति । विष्णु-धर्मे
तृतीइय-जन्मनि दत्त-तिल-धेनोर् अपि विप्रस्य प्रसङ्ग-मात्रेण नरकाणाम्
अपि स्वर्ग-तुल्य-रूपता-प्राप्ति-वर्णनात् । श्री-भागवतेन तु तद् अपि
नाङ्गीक्रियते । तद्-अनुपाख्यानात् प्रत्युताव्यवहित-भगवत्-प्राप्ति-
वर्णनाच् च ।
अथ यद्-अवतारादाव् अशुद्ध-चित्तानाम् अपि तत्-साक्षात्कारः श्रूयते, तत् खलु
तद्-आभास एव ज्ञेयः । नाहं प्रकाशः सर्वस्य योग-माया-समावृतः
[गीता 7.25] इति श्री-गीतोपनिषद्भ्यः ।
योगिभिर् दृश्यते भक्त्या
नाभक्त्या दृश्यते क्वचित् ।
द्रष्टुं न शक्यो रोषाच् च
मत्सराद् वा जनार्दनः ॥ [पद्मप् 6.238.83] इति पाद्मोत्तर-खण्डाच् च ।
अदर्शनं चानवतार-समये व्यापकस्यापि दर्शनाभावः । अवतार-समये
तु परमानन्देऽपि दुःखदत्वं, मनोरमेऽपि भीषणत्वम्, सर्व-सुहृद्य्
अपि दुर्हृत्त्वम् इत्य् आदिविपरीत-दर्शनम् एव । तद्-अप्रकाशे योग-माया-
प्रकाशे च मूलं कारणं तद्-भक्तापराधादिमय-पुरुष-
चित्तास्वाच्छ्यम् । यत् खलु तदानीन्तने तस्य सार्वत्रिक-प्रकाशेऽपि
वज्रलेपायते । अतएव मुक्तिर् हित्वा [भ्प् 2.10.6] इत्य्-आदि-लक्षणस्याव्याप्तेर् न
तस्य साक्षात्काराभासस्य मुक्ति-संज्ञत्वम् अपि । अतएव श्री-विष्णु-पुराणे तच्
च रूपम् [विप् 4.15.8] इत्य् आदि-गद्येन यद्यपि शिशुपालस्य तद्-दर्शनम्
उक्तम् । तथापि निर्दोष-दर्शनं त्व् अन्तकाल एव उक्तम् । आत्म-वधाय
यावद्-भगवद्-धस्त-चक्रांशु-मालोज्ज्वलम् अक्षय-तेजः-स्वरूपं ब्रह्म-
भूतम् अपगत-द्वेषादि-दोषं भगवन्तम् अद्राक्षीत् [विप् 4.15.9] इत्य् अनेन ।
एतद्-अन्तो नॄणां क्लेशो यद् भवान् अक्षि-गोचरः [भ्प् 10.83.43] इत्य् आदिकं च
नृषु ये स्वच्छ-चित्ता ये च तद्-भक्तापराधेतर-दोष-मलिन-चित्तास् तेषां
क्लेश-नाशस्य तदात्वापेक्षया, ये त्व् अन्यादृशास् तेषां तन्-
नाशस्योन्मुखतापेक्षयैव - तेभ्यः स्व-वीक्षण-विनष्ट-तमिस्र-
दृग्भ्यः क्षेमं तिर्लोक-गुरुर् अर्थ-दृशं च यच्छन् [भ्प् 10.83.81] इति
श्रवणात्, श्री-विष्णु-पुराणाद्य्-अनुसाराच् च ।
ते चास्वच्छ-चित्ता द्विविधाः - भगवद्-बहिर्मुखा भगवद्-विद्वेषिणश् च ।
तद्-बहिर्मुखा द्विविधाः - लब्धे तद्-दर्शनेऽपि विषयाद्य्-अभिनिवेशवन्तस्
तद्-अवज्ञातारश् च । यथा तद्-अवतार-समये साधारण-देव-
मनुष्यादयः, यथा च कृष्णं मर्त्यम् उपाश्रित्य [भ्प् 10.25.3] इत्य् आदि
दुर्वचसो महेन्द्रादयः । यत उक्तं श्रुतिभिः -
दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे
न पुनर् उपासते पुरुष-सार-हरावसथान् । [भ्प् 10.87.35] इति ।
महेन्द्रं प्रति श्री-भगवता च -
माम् ऐश्वर्य-श्री-मदान्धो दण्ड-पाणिं न पश्यति ।
तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्य् अनुग्रहम् ॥ [भ्प् 10.27.16] इति ।
श्री-गोपानां तु विषय-सम्बन्धो न स्वार्थः । किन्तु तत्-सेवोपयोगार्थ
एव । यथा (पगे 13) यद् धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-
कृते [भ्प् 10.14.35] इति । कृष्णे ऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामा [भ्प्
10.16.10] इति । कृष्णः कमल-पत्राक्षः पुण्य-श्रवण-कीर्तनः [भ्प् 10.15.42]
इति च ।
श्री-यादव-पाण्डवानां स्वार्थ इवापि तत्-सम्बन्धस् तद्-आभास एव ।
यथोक्तम् --
शय्यासनाटनालाप- क्रीडा-स्नानाशनादिषु ।
न विदुः सन्तम् आत्मानं वृष्णयः कृष्ण-चेतसः ॥ [भ्प् 10.90.46] इति ।
किं ते कामाः सुर-स्पार्हा मुकुन्द-मनसो द्विजाः ।
अधिजह्रुर् मुदं राज्ञः क्षुधितस्य यथेतरे ॥ [भ्प् 1.12.6] इति ।
अतः, एवं गृहेषु सक्तानां प्रमत्तानां तद्-ईहया [भ्प् 1.13.17] इत्य् आदिकं
जहल्-लक्षणया तद्-उपलक्षितान् धृतराष्ट्रादीन् अपेक्ष्योक्तम् ।
अतएवानन्तरं विदुरस् तद् अभिप्रेत्य [भ्प् 1.13.18] इत्य् आदौ । तेन
धृतराष्ट्रस्यैव शिक्षा, न तु तेषाम् अपि ।
क्वचिच् च लीला-शक्तिर् एव स्वयं तल्-लीला-माधुर्य-पोषाय प्रतिकूलेष्व्
अनुकूलेषु चात्मोपकरणेषु तादृश-शक्तिं विन्यस्य तादृश-तत्-प्रिय-जनानाम्
अपि विषयावेशाद्य्-आभासं सम्पादयति । यथा पूतना-वर्णने -- वल्गु-
स्मितापाङ्ग-विसर्ग-वीक्षितैर् मनो हरन्तीं वनितां व्रजौकसाम् [भ्प्
10.16.6] इति । तद्-आभासत्व-विवक्षया च मनो हरन्तीं मनो-हरेवाचरन्तीम्
इति शिष्टम् उक्तम् । तद्-दत्त-शक्तित्वं च तस्यास् तत्रैव सूचितम् -
न यत्र श्रवणादीनि रक्षो-घ्नानि स्व-कर्मसु ।
कुर्वन्ति सात्वतां भर्तुर् यातुधान्यश् च तत्र हि ॥ [भ्प् 10.6.3] इत्य् अनेन ।
तथैवेदं घटते -
अमंसताम्भोज-करेण रूपिणीं
गोप्यः श्रियं द्रष्टुम् इवागतां पतिम् ॥ [भ्प् 10.6.6] इति ।
श्रियं प्राकृत-सम्पद्-अधिष्ठात्रीं पतिं यं कञ्चित् तद्-उचित-प्राचीन-
पुण्य-भाजम् इत्य् अर्थः । पूर्ववद् एव तां तीक्ष्ण-चित्ताम् [भ्प् 10.6.9] इत्य्
आदौ तत्-प्रभया च धर्षिते निरीक्ष्यमाणे जननी ह्य् अतिष्ठताम् [भ्प्
10.6.9] इत्य् उक्तम् ।
एवम् एव क्वचित् तादृशानाम् अपि मायाभिभवाभासो मन्तव्यः । यथा
प्रायो मायास् तु मे भर्तुर् नान्या मेऽपि विमोहिनी [भ्प् 10.13.37] इत्य् आदिषु
श्री-बलदेवादीनाम् । यथा दैत्य-जन्मनि जय-विजययोः ।
अत्र पूर्वेषांस्वल्प एव तद्-आभासः । तयोस् तु सम्यग् इति विशेषः, तत्
प्रेमादीनाम् अनावरणाद् आवरणाच् च । तत्र तयोर् वैर-भाव-प्राप्तौ
खलु मुनि-कृतत्वं न स्यात् । मतं तु मे [भ्प् 3.16.29] इत्य् अत्र भगवद्-
इच्छायास् तत्-कारणत्वेन स्थाप्तितत्वात् ।
नापि सा तदीय-वैर-भावाय सम्पद्यते स्वेच्छामयस्य इत्य् आदिभ्यः ।
त्रैवर्गिकायास-विघातम् अस्मत्-पतिर् विधत्ते पुरुषस्य शक्र [भ्प् 10.14.2]
इत्य् आदिभिः कैमुत्यापाताच् च । यथा चोक्तम् - तथा न ते माधव तावकाः
क्वचिद् भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः [भ्प् 10.2.33] इति । न च तयोर्
एव स्वापराध-भोग-शीघ्र-निस्तारार्थम् अपि तादृशीच्छा जाता इति वाच्यम् ।
तादृशैः परम-भक्तैः हि भक्तिं विना सालोक्यादिकम् अपि नाङ्गीक्रियते ।
तत्-सद्-भावे निरयोऽप्य् अङ्गीक्रियत इति (पगे 14) नात्यन्तिकं विगणयन्त्य् अपि
[भ्प् 3.15.48] इत्य् आदेः । कामं भवः स्व-वृजिनैर् निरयेषु नस् ताद् [भ्प्
3.15.49] इत्य् आदेश् च ।
अतएवाभ्याम् अपि तथैव प्रार्थितम् -
मा वो ऽनुताप-कलया भगवत्-स्मृति-घ्नो
मोहो भवेद् इह तु नौ व्रजतोर् अधो ऽधः [भ्प् 3.15.36] इत्य् अनेन ।
न च तयोर् वास्तव-वैर-भावे सति भक्तान्तराणाम् अपि सुखं स्याद् इति
वाच्यम् । भक्ति-स्वभाव-भक्त-सौहृद-विरोधाद् एव । तस्मात् तयोर् वैर-
भावाभासत्व एव श्री-भगवतस् तयोर् अन्येषां भक्तानाम् अपि रसोदयः
स्याद् इति स्थितम् । तत एवम् अर्थापत्ति-लब्धं सर्व-भक्त-सुखद-श्री-
भगवद्-अभिमत-युद्ध-कौतुकादि-सम्पादनार्थं
वैरभावात्मकमायिकोपाधिं स्वाभिकाणिमादि-सिद्धिकेन शुद्ध-
सत्त्वात्मक-स्व-विग्रहेण प्रविश्य स्व-सान्निध्येन चेन्तईकृत्य च विलीय
स्थिताया अपि भक्ति-वासनायाः प्रभावेण तत्रानाविष्टाव् एव तिष्ठतः । अतो
वैर-भाव-ज-स्मरणेन वैर-भावोऽपगत इत्य् उभयम् अपि बाह्यम् । एतद्
अभिप्रेत्यैव श्री-वैकुण्ठेनाप्य् उक्तम् -- यातं मा भैष्टम् अस्तु शम्
[भ्प् 3.16.29] इति ।
तथा हि हिरण्याक्ष-युद्धे -- परानुषक्तं [भ्प् 3.18.9] इत्य् आदि-पद्ये टीका
च -- प्रचण्ड-मन्युत्वम् अधिक्षेपादिकं चानुकरण-मात्रं दैत्य-वाक्य-
भीतानां देवानां भय-निवृत्तये । वस्तुतस् तेन तथानुक्तत्वेन कोपादि-
हेत्व्-अभावाद् इत्य् एषा । कराला [भ्प् 3.19.8] इति पद्ये च इवेति वस्तुतः
क्रोधाभावः इत्य् एषा ।
तद् एवं स्यमन्तकोपाख्यान-महा-काल-पुरोपख्यान-
मौषलोपाख्यानादौ श्री-बलदेवार्जुन-नारदादीनां क्रोधाद्य्-आवेशोऽपि
तद्-आभासत्व-लेशेनैव सङ्गमयितव्यः । तत्र श्री-बलदेवार्जुनादीनां श्री-
भगवन्-मताज्ञानेन श्री-नारदादीनां तु तज्-ज्ञानेनेति विवेकः - कोपिता
मुनयः शेपुर् भगवन्-मत-कोविदाः [भ्प् 3.3.24] इति तृतीये श्रीमद्-
उद्धव-वाक्यात् । तस्मात् येषां लिङ्गान्तरेण निष्णात एव साक्षात्कारो
गम्यते, तेषाम् अस्वच्छान्तःकरणत्वं प्रतीयमानम् अपि तद्-आभास एव ।
येषां तु न गम्यते विषयावेशादिकं च दृश्यते, तेषां साक्षात्-काराभास
एवेति निर्णीतम् । तद् एवम् अस्वच्छ-चित्तेषु बहिर्मुखाः पश्यन्तोऽपि न
पश्यन्तीत्य् उक्तम् ।
तद्-द्वेषिणश् च द्विविधाः । एके सौन्दर्यादिकं गृह्णन्ति तथापि तन्-
माधुर्याग्रहणात् तत्रैवारुच्या द्विषन्ति यथा कालयवनादयः । अन्ये तु
वैकृत्यम् एव प्रतियन्ति ततो द्विषन्ति च यथा मल्लादयः । तद् एवं
पूर्वोत्तरयोश् चतुर्ष्व् अपि भेदेषु स-दोष-जिह्वाः खण्डाशिनो दृष्टान्ताः ।
एके हि (पगे 15) पित्त-वात-ज-दोषवन्तस् तद्-आस्वादं न गृह्णन्ति, किन्तु
सर्वादरम् अवधाय नावजानन्ति । अन्ये त्व् अभिमानिनोऽवजानन्त्य् अपि ।
अथापरे मधुर-रसम् इदम् इति गृह्णन्ति किन्तु तिक्ताम्लादि-रस-प्रियास् तम्
एव रसं द्विषन्ति । अवरे च तिक्ततयैव तद् गृह्णन्ति, द्विषन्ति चेति । सर्वेषां
चैषां निज-दोष-सव्यवधान-खण्ड-ग्रहण-वत् तद्-आभासत्वम् । तेषां
भगवत्-स्वभावानुभवश् च युक्त एव ज्ञान-भक्ति-शुद्ध-प्रीत्य्-
अभावेन सच्-चिद्-आनन्दत्व-पारमैश्वर्य्-परम-माधुर्य-लक्षणानां तत्-
स्वभावानां ग्रहीतुम् अशक्यत्वात् । तद्-अग्रहणेऽपि कालान्तरे निस्तारः
खण्ड-सेवनवद् एव ज्ञेयः । यथोक्तं विष्णु-पुराणे -- ततस् तम्
एवाक्रोशेषूच्चारयन् [विप् 4.15.9] इत्य् आदिना अपगत-द्वेषादि-दोषं
भगवन्तम् अद्राक्षीत् [विप् 4.15.14] इत्य् अन्तेन ।
तस्मात् स्वच्छ-चित्तानाम् एव साक्षात्कारः, स एव च मुक्ति-संज्ञ इति स्थितम् ।
तस्य ब्रह्म-साक्षात्काराद् अप्य् उत्कर्षस् तु भगवत्-सन्दर्भे सनकादि-
वैकुण्ठ-दर्शन-प्रस्तावे श्री-नारद-व्यास-संवादादि-मय-ब्रह्म-
भगवत्-तारतम्य-प्रकरणे च दर्शित एव । यत्र तस्यारविन्द-नयनस्य
[भ्प् 3.15.43] इत्य् आदिकं, जिज्ञासितम् अधीतं च [भ्प् 1.5.4] इत्य् आदिकं च वचन-
जातं प्रबलतमम् । तथैव श्री-ध्रुवोक्तम् - या निर्वृतिस् तनु-भृताम् [भ्प्
4.9.10] इत्य् आदि श्री-भागवत-वक्तृ-तात्पर्यं च तत्रैव स्व-मुख-निभृत-
चेतास् तद्-व्युदस्तान्य-भावः [भ्प् 12.12.69] इत्य् आदिना दर्शितम् । श्री-
गीतोपनिषत्सु च - ब्रह्म-भूतः प्रसन्नात्मा [गीता 18.54] इत्य् आदिना तेद्
एवाङ्गीकृतम् । अतएव श्री-प्रह्लादस्य भगवत्-साक्षात्कार-कृत-
सर्वावधूनन-पूर्वक-ब्रह्म-साक्षात्कारानन्तर-भगवत्-साक्षात्कार-
विशेषात्मक-निर्वृतिं पर्माभीष्टत्वेनाह --
स तत्-कर-स्पर्श-धुताखिलाशुभः
सपद्य् अभिव्यक्त-परात्म-दर्शनः
तत्-पाद-पद्मं हृदि निर्वृतो दधौ
हृष्यत्-तनुः क्लिन्न-हृद्-अश्रु-लोचनः ॥ [भ्प् 7.9.6]
॥ 7.9 ॥ श्री-शुकः
[8]
ईदृशेऽपि भगवत्-साक्षात्-कारे बहिः-साक्षात्कारस्योत्कर्षम् आह -
गृहीत्वाजादयो यस्य श्रीमत्-पादाब्ज-दर्शनम् ।
मनसा योग-पक्वेन स भवान् मे ऽक्षि-गोचरः ॥ [भ्प् 12.9.5]
टीका च - यस्य तव श्रीमत्-पादाब्ज-दर्शनं मनसापि गृहीत्वा प्राप्य
प्राकृता अप्य् अजादयो भवन्ति स भवान् मेऽक्षि-गोचरो जातोऽस्ति किम् अतः परं
वरेणेत्य् अर्थः इत्य् एषा । अत्र यत्-पाद-पांशुर् बहु-जन्म-कृच्छ्रतः [भ्प्
10.12.12] इत्य् आदिकम् अप्य् अनुसन्धेयम् । अतएव -
प्रगायतः स्व-वीर्याणि तीर्थ-पादः प्रिय-श्रवाः ।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ [भ्प् 1.6.34]
इत्य् एवम्-भाववान् अपि -
गोविन्द-भुज-गुप्तायां द्वारवत्यां कुरूद्वह ।
अवात्सीन् नारदो ऽभीक्ष्णंकृष्णोपासन-लालसः ॥ [भ्प् 11.2.1] इत्य् उक्तम् ।
॥ 12.9 ॥ मार्कण्डेयः श्री-नारायनर्षिम्
[9]
अथैतस्यां भगवत्-साक्षात्कार-लक्षणायां मुक्तौ जीवद्-अवस्थायाम् आह
(पगे 16)
अकिञ्चनस्य दान्तस्य शान्तस्य सम-चेतसः
मया सन्तुष्ट-मनसः सर्वाः सुख-मया दिशः ॥ [भ्प् 11.14.13]
भगवन्तं विना किञ्चनान्यद् उपादेयत्वेन नास्तीत्य् अकिञ्चनस्य । तत्र हेतुः
मेयेति । अकिञ्चनत्वेनैव हेतुना विशेषण-त्रयं दान्तस्येति । अन्यत्र
हेयोपादेयतारोहित्यात् सम-चेतसः । सर्वत्र तस्यैव साक्सात्कारात् सर्वा इत्य्
उक्तम् ॥
॥ 11.14 ॥ श्री-भगवान्
{10]
तत्रोत्क्रान्तावस्था च श्री-प्रह्लाद-स्तुतौ -
उशत्तम ते ऽङ्घ्रि-मूलं प्रीतो ऽपवर्ग-शरणं ह्वयसे कदा नु [भ्प् 7.9.16]
इत्य् आदौ ज्ञेया । सैवान्तिमा । मुक्तिश् च पञ्चधा - सालोक्य-सार्ष्टि-सारूप्य-
सामीप्य-सायुज्य-भेदेन । तत्र सालोक्यं समान-लोकत्वं श्री-वैकुण्ठ-
वासः । सार्ष्टिस् तत्रैव समानैश्वर्यम् अपि भवतीति । सारूप्यं तत्रैव
समान-रूपतादि प्राप्यत इति । सामीप्यं समीप-गमनाधिकारित्वम् ।
सायुज्यं केषांचित् भगवच्-छ्री-विग्रह एव प्रवेशो भवतीति । सालोक्यादि-
शब्दानां मुक्त्य्-आदि-शब्द-सामानादिकरण्यं च सालोक्यादित्व-
प्राधान्येन । तत्र सालोक्य-सार्ष्टि-सारूप्य-मात्रे प्रायोऽन्तः-करण-
साक्षात्कारः । सामीप्ये प्रायो बहिः । सायुज्ये चान्तर एव । तथापि प्रकट-
स्फूर्ति-लक्षणं तत् सुषुप्तिवद् अनति-प्रकट-स्फूर्ति-लक्षणात् ब्रह्म-
सायुज्याद् भिद्यते । उत्क्रान्त-मुक्त्य्-अवस्थायाम् अपि विशेष-स्फूर्तिः श्रुताव्
एव सम्मता --
स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः स
एवेदं सर्वम् इत्य् अथातोऽहंकारादेश एवाहम् एवाधस्ताद् अहम् उपरिष्टाद्
अहं पश्चाद् अहं पुरस्ताद् अहं दक्षिणतोऽहम् उत्तरतोऽहम् एवेदं सर्वम्
इति । [छु 7.25.1] इति ।
एषा च पञ्चविधापि गुणातीतैव । निर्गुणायां भूम-विद्यायाम् एव -- स
एकधा भवति त्रिधा भवति [छु 7.26.2] इत्य् आदिना तद्-विधस्य मुक्तस्य
स्वेच्छया नाना-विध-रूप-प्राकट्य-श्रवणात् न यत्र माया [भ्प् 2.9.10] इत्य्
आदौ वैकुण्ठस्य मायातीतत्व-श्रवणात् । अत्रावृत्ति-राहित्यं चाङ्गीकृतम् -
अनावृत्तिः शब्दाद् [व्स्. 4.4.23] इत्य् अनेन न स पुनर् आवर्तते [छाउ 8.15.1] इति
श्रुतेः । तथोक्तं हिरण्य-कशिपूपद्रुत-देवैः -
तस्यै नमो ऽस्तु काष्ठायै यत्रात्मा हरिर् ईश्वरः ।
यद् गत्वा न निवर्तन्ते शान्ताः सन्न्यासिनो ऽमलाः ॥ [भ्प् 7.4.22] इति ।
श्री-कपिल-देवेन च -
न कर्हिचिन् मत्-पराः शान्त-रूपे
नङ्क्ष्यन्ति नो मे ऽनिमिषो लेढि हेतिः ॥ [भ्प् 3.25.39] इति ।
तथैव -
आ-ब्रह्म-भुवनाल् लोकाः पुनर् आवर्तिनो ऽर्जुन ।
माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते ॥ [गीता 8.16] इति ।
यद् गत्वा न निवर्तन्ते तद् धाम परमं मम । [गीता 15.4] इति ।
तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् । [गीता 18.62] इति च
श्री-गीतोपनिषदश् च दृश्याः ।
पाद्म-सृष्टि-खण्डे च --
आ-ब्रह्म-सदनाद् एव दोषाः सन्ति महीपते ।
अतएव हि नेच्छन्ति स्वर्ग-प्राप्तिं मनीषिणः ॥
आ-ब्रह्म-सदनाद् ऊर्ध्वं तद्-विष्णोः परमं पदम् ।
शुभ्रम् सनातनं ज्योतिः पर-ब्रहेति तद् विदुः ॥
न तत्र मूढा गच्छन्ति पुरुषा विषयात्मकाः ।
दम्भ-लोभ-भय-द्रोह-क्रोध-मोहैर् अभिद्रुताः ॥
निर्ममा निरहङ्कारा निर्द्वन्द्वाः संयतेन्दिर्याः ।
ध्यान-योग-रताश् चैव तत्र गच्छन्ति साधवः ॥ इति ।
तत्रैव सुबाहु-नृप-वाक्यम् -
ध्यान-योगेन देवेशं यजिष्ये कमला-प्रियम् ।
भव-प्रलय-निर्मुक्तं विष्णु-लोकं व्रजाम्य् अहम् ॥ इति ।
(पगे 17)
सालोक्यादीनाम् अविच्युतस् त्वं दर्शयिष्यते च -
मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् काल-विप्लुतम् ॥ [भ्प् 9.5.67]
इत्य् आदिषु तद्-इतरत्रैव काल-विप्लुतत्वाङ्गीकारात् । तस्मात् क्वचिद् आवृत्ति-
श्रवणं तु प्रपञ्चान्तर्गत-तद्-धामत्वापेक्षया कादाचित्क-तल्-लीला-
कौतुकापेक्षया च मन्तव्यम् । पश्चात् तु नित्य-सालोक्यम् एव, यथा
भविष्योत्तरे -
एवं कौन्तेय कुरुते योऽरण्य-द्वादशीं नरः ।
स देहान्ते विमान-स्थ-दिव्य-कन्या-समावृतः ॥
याति ज्ञाति-समायुक्तः श्वेतद्वीपं हरेः पुरम् ।
यत्र लोका पीत-वस्त्रा इत्य् आदि ।
तिष्ठन्ति विस्णु-सान्निध्ये यावद्-आहूत-सम्प्लवम् ।
तस्माद् एत्य महा-वीर्याः पृथिव्यां नृप पूजिताः ।
मर्त्य-लोके कीर्तिमन्तः सम्भवन्ति नरोत्तमाः ॥
ततो यान्ति परं स्थानं मोक्ष-मार्गं शिवं सुखम् ।
यत्र गत्वा न शोचन्ति न संसारे भ्रमन्ति च ॥ इति ।
उत्क्रान्त-मुक्ति-दशायां तु तेषां भगवत्-तुल्यत्वम् एवाह -
वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः ।
ये ऽनिमित्त-निमित्तेन धर्मेणाराधयन् हरिम् ॥ [भ्प् 3.15.14]
निमित्तं फलं न तन्-निमित्तं प्रवर्तकं यस्मिन् तेन निष्कामेनेत्य् अर्थः ।
धर्मेण भागवताख्येन । वैकुण्ठस्य भगवतो ज्योतिर्-अंश-भूता
वैकुण्ठ-लोक-शोभा-रूपा या अनन्ता मूर्तयस् तत्र वर्तन्ते । तासाम् एकया
सह मुक्तस्यैकस्य मूर्तिः भगवता क्रियत इति वैकुण्ठस्य मूर्तिर् इव
मूर्तिर् येषाम् इत्य् उक्तम् ।
॥ 3.15 ॥ श्री-ब्रह्मा देवान्
[11]
यथैवाह --
प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।
आरब्ध-कर्म-निर्वाणो न्यपतत् पाञ्च-भौतिकः ॥ [भ्प् 1.6.29]
हित्वावद्यम् इमं लोकं गन्ता मज्जनताम् असि [भ्प् 1.6.24] इति या तनुः श्री-
भगवता दातुं प्रतिज्ञाता, तां भागवतीं भगवद्-अंश-ज्योतिर्-अंश-रूपां
शुद्धां प्रकृति-स्पर्श-शून्यां तनुं प्रति श्री-भगवतैव मयि
प्रयुज्यमाने नीयमाने आरब्धं यत् कर्म तन्-निर्वाणं समाप्तं यस्य
स पाञ्चभौतिको न्यपतद् इति । प्राक्तन-लिङ्ग-शरीर-भङ्गोऽपि लक्षितः ।
तादृश-भगवन्-निष्ठे प्रारब्ध-कर्म-पर्यन्तम् एव तत्-स्थितेः । इत्थम्
एव टीका च - अनेन पार्षद-तनूनाम् अकर्मारब्धत्वं शुद्धत्वं
नित्यत्वम् इत्य् आदि सूचितं भवति इत्य् एषा ।
॥ 1.6 ॥ श्री-नारदः श्री-व्यासम्
[12]
एतां मूर्तिम् उद्दिश्यैवाह यं धर्म-कामार्थ [भ्प् 8.3.19] इत्य् आदौ रात्य्
अपि देहम् अव्ययम् इति । टीका च - देहम् अप्य् अव्ययं राति इत्य् एषा ।
॥ 8.6 ॥ श्री-गजेन्द्रः
(पगे 18)
[13]
तद् एतत् ताण्डिनां श्रुताव् अप्य् उक्तं - अश्व इव रोमाणि विधूय धूत्वा
शरीरम् अकृतं कृताम्ता ब्रह्म-लोकम् अभिसम्भवानि [छाउ 8.13.1] इति ।
क्वचित् प्राकृत्य् अपि मूर्तिर् अचिन्त्यया भगवच्-छक्त्या तादृशत्वम् आपद्यते ।
यथोक्तं श्री-ध्रुवम् उद्दिश्य बिभ्रद्-रूपं हिरण्मयम् [भ्प् 4.12.29] इति ।
तद् एवं रूपं हिरण्मयं बिभ्रद् इति टीका च । तथा सार्ष्टिश् च दर्शिता
भक्ति-सन्दर्भे । मर्त्यो यदा त्यक्त-समस्त-कर्मा इत्य् आदौ मयात्म-
भूयाय च कल्पते वै [भ्प् 12.29.35] इत्य् अनेन ।
श्रुतिश् चात्र स तत्र पर्येति जक्षन् क्रीडन् रममाण [छाउ 8.12.3] इत्य् आदिका,
आप्नोति स्वाराज्यं सर्वेऽस्मै देवा बलिम् आहरन्ति [तैत्तु 1.6.2, 1.5.3], तस्य
सर्वेषु लोकेषु काम-चारो भवति [छाउ 7.25.2] इत्य् आदिका, सर्वेश्वरः [बौ
4.4.22] इत्य् आदिका च ।
किन्तु, जगद्-व्यापार-वर्जम् [व्स् 4.4.17] इत्य् आदि-न्यायेन सृष्टि-स्थित्य्-आदि-
सामर्थ्यं तस्य न भवति कुतो वैकुण्ठैश्वर्यादिकम् । उक्तं च
अदृष्ट्वान्यतमं लोके [भ्प् 10.3.41] इत्य् आदि । ततो भाक्तम् एव
समानैश्वर्यम् । अतएवाणिमादि-प्राप्तिर् अप्य् अंशेनैव ज्ञेया ।
श्री-भगवत्-प्रसाद-लब्ध-सम्पत्तेश् चाविनश्वरत्वम् आह द्वयेनैव --
ये मे स्व-धर्म-निरतस्य तपः-समाधि-
विद्यात्म-योग-विजिता भगवत्-प्रसादाः ।
तान् एव ते मद्-अनुसेवनयावरुद्धान्
दृष्टिं प्रपश्य वितराम्य् अभयान् अशोकान् ॥
अन्ये पुनर् भगवतो भ्रुव उद्विजृम्भ-
विभ्रंशितार्थ-रचनाः किम् उरुक्रमस्य ।
सिद्धासि भुङ्क्ष्व विभवान् निज-धर्म-दोहान्
दिव्यान् नरैर् दुरधिगान् नृप-विक्रियाभिः ॥ [भ्प् 3.23.7-8]
तपश् च समाधिश् च विद्या च उपासना तासु य आत्म-योगिश् चित्तैकाग्र्यम् ।
अन्ये पुनर्-भोगाः किम् उरुक्रम-सम्बन्धिनः । अपि तु नेत्य् अर्थः । अतएव
भगवतो ध्रुव इत्य् आदि ॥
॥ 3.23 ॥ श्री-कर्दमो देवहूतिम्
[14]
तद् एवं सारूप्यम् अपि ज्ञेयम् । यथा -
गजेन्द्रो भगवत्-स्पर्शाद् विमुक्तो æज्ञान-बन्धनात् ।
प्राप्तो भगवतो रूपं पीत-वासाश् चतुर्-भुजः ॥ [भ्प् 8.4.6]
स्पष्टम् ।
॥ 8.4 ॥ श्री-शुकः
[15]
सामीप्यम् अप्य् उदाहृतं भगवत्-सन्दर्भे कर्दम-निर्याण-वर्णनया ।
मनो ब्रह्मणि युञ्जान [भ्प् 3.24.43] इत्य् आरभ्य मध्ये च लब्धात्मा
मुक्त-बन्धन [भ्प् 3.24.55] इत्य् उक्त्वा सर्वान्ते, भगवद्-भक्ति-योगेन
प्राप्तो भागवती गतिम् [भ्प् 3.24.47] इत्य् एवम् उक्त-रीत्या ।
अथ सायुज्यम् अघासुरादि-दृष्टान्तेन साधकानाम् अपि गम्यम् ।
सालोक्यादिवत्-स्वाभिमतत्वाभावात् स्पष्टोदाहरणं श्रीमता भागवतेन
न कृतम् इति । अस्य भगवल्-लक्षणानन्द-निमग्नता-स्फूर्तिर् एव प्रधानं,
क्वचिद् इच्छया तद्-अनुग्रहेण तदीय-तच्-छक्ति-लेश-प्राप्त्यैव यथा-युक्तं
बहिस् तद्-दत्ताप्राकृत-तद्-भोगोच्छिष्ट-लेशम् एवानुभवतीत्य् एके । तत्र च
न तु तम् एव सर्वम् एव चानुभवतीत्य् अभ्युपगम्यम् । सर्वथा तत्-
प्राप्तेर् अनभ्युपगमत्वात् ।
जगद्-व्यापारादि-निषेधेन इदम् एवोक्तं यदैनं मुक्तो न प्रविशति मोदते
च कामांश् चैवानुभवति [बौ] इति बृहच्-छ्रुतौ, ब्रह्माभिसम्पद्य
ब्रह्मणा पश्यति ब्रह्मणा शृणोति इत्य् आदि-माध्य-दिनायन-श्रुतौ । आदत्ते
हरि-हस्तेन इत्य् आदिकम् अपि तच्-छक्ति-लेश-प्राप्त्य्-आद्य्-अभिप्रायेणैवोक्तम् ।
(पगे 19)
क्वचिद् इच्छया लीलार्थं बहिर् अपि निष्कामयति पार्षदत्वेन च संयोजयति ।
यथा शिशुपाल-दन्तवक्रौ लब्ध-सायुज्याव् अपि पुनः पार्षदताम् एव
प्राप्तौ ।
वैरानुबन्ध-तीव्रेण
ध्यानेनाच्युत-सात्मताम् ।
नीतौ पुनर् हरेः पार्श्वं
जग्मतुर् विष्णु-पार्षदौ ॥ [भ्प् 7.1.46] इति ताव् उद्दिश्य श्री-नारद-वाक्यात् ।
तत्रैषां सालोक्यादीनाम् अनवच्छिन्न-भगवत्-प्राप्ति-रूपतया तत्-
साक्षात्कार-विशेषत्वेन ब्रह्म-कैवल्याद् आधिक्यं प्राचीन-वचनैः
सुतराम् एव सिद्धम् । अतएव क्रम-मुक्तिवत् क्रम-भगवत्-प्राप्तौ
ब्रह्म-प्राप्त्य्-अनन्तर-भावित्वम् अपि क्वचित् श्रूयते । यथा
श्रीमतोऽजामिलस्य सिद्धि-प्राप्तौ --
स तस्मिन् देव-सदन आसीनो योगम् आस्थितः ।
प्रत्याहृतेन्द्रिय-ग्रामो युयोज मन आत्मनि ॥
ततो गुणेभ्य आत्मानं वियुज्यात्म-समाधिना ।
युयुजे भगवद्-धाम्नि ब्रह्मण्य् अनुभवात्मनि ॥
यर्ह्य् उपारत-धीस् तस्मिन्न् अद्राक्षीत् पुरुषान् पुरः ।
उपलभ्योपलब्धान् प्राग् ववन्दे शिरसा द्विजः ॥
हित्वा कलेवरं तीर्थे गङ्गायां दर्शनाद् अनु ।
सद्यः स्वरूपं जगृहे भगवत्-पार्श्व-वर्तिनाम् ॥
साकं विहायसा विप्रो महापुरुष-किङ्करैः ।
हैमं विमानम् आरुह्य ययौ यत्र श्रियः पतिः ॥ [भ्प् 6.2.40-44]
स्पष्टम् । एवं सद्यो भगवत्-प्राप्त्याव् अप्य् आधिक्यम् अवगतम् ।
॥ 6.2 ॥ श्री-शुकः
[16]
सालोक्यादिषु च सामीप्यस्याधिक्यं बहिः साक्षात्कारमयत्वात् तस्यैव ह्य्
आधिक्यं दर्शितम् । तद् एवं मुक्तिर् दर्शिता । तत्र विष्णु-धर्मोत्तरे श्री-
वज्र-प्रश्नः -
कल्पानां जीव-साम्ये हि मुक्तिर् नैवोपपद्यते ।
कदाचिद् अपि धर्मज्ञ तत्र पृच्छामि कारणम् ॥
एकैकस्मिन् नरे मुक्तिं कल्पे कल्पे गते द्विज ।
अभविष्यज् जगच् छून्यं कालस्यादेर् भावतः ॥
अथ श्री-मार्कण्डेयस्योत्तरम् -
जीवस्यान्यस्य सर्गेण नरे मुक्तिम् उपागते ।
अचिन्त्य-शक्तिर् भगवान् जगत् पूरयते सदा ॥
ब्रह्मणा सह मुच्यन्ते ब्रह्म-लोकम् उपागताः ।
सृज्यन्ते च महा-कल्पे तद्-विधाश् चापरे जनान् ॥ [विध्प् 1.81.11-14] इति ।
अत्र क्वचिद् अपि कल्पे केषांचिद् अपि जीवानाम् अनुद्बुद्ध-कर्मत्वेन
सुषुप्तवत् प्रकृताव् अपि लीनानाम् अनन्त-ब्रह्माण्ड-गतानाम् इवानन्तानाम्
एकस्त्योपाधि-सृष्ट्या ब्रह्माण्ड-प्रवेशेनं सर्ग इति ज्ञेयम् । अपूर्व-सृष्टौ
सादित्वे कृत-हान्य-कृताभ्यागमः स्यात् ।
अथ मुक्तिभ्यो भगवत्-प्रीतेर् आधिक्यं विव्रियते । तत्र यद्यपि तत् प्रीतिं
विना ता पै न सन्त्य् एव तथापि केषाञ्चित् तेषां स्वस्य दुःख-हानौ
सामीप्यादि-लक्षण-सम्पत्ताव् अपि तात्पर्यं, न तु श्री-भग्तवत्य् एवेति तेषु
न्यूनता । तत्र कैवल्यैक-प्रयोजनम् [भ्प् 12.13.12] इति यद् उक्तम् । तस्य
चार्थस्य तत्रैव विश्रान्तिः । तथैव सर्व-वेदान्त इत्य् आदि-प्राक्तन-पाद-
त्रयस्य विश्रान्तिस् तत्त्व-भगवत्-सन्दर्भाभ्यां श्री-भगवत्य् एव दर्शिता ।
तत्रैव तत्त्व-पदार्थस्य पूर्णत्व-स्थापनात् ।
तथैतत्-पूर्वम् अपि हरि-लीला-कथा (पगे 20) व्रातामृतानन्दित-सत्-सुरम्
[भ्प् 12.13.11] इति ग्रन्थ-स्वभाव-वर्णने तत्-प्रीतेर् एव मुख्यत्वं
दर्शितम् । हरि-लीला-कथा-व्रात एवामृतं, सन्त आत्मरामा एव सुरा इति ।
इत्थं सतां ब्रह्म-सुखानुभूत्या [भ्प् 10.12.11] इति प्रसिद्धेः ।
परिनिष्ठितोऽपि नैर्गुण्ये [भ्प् 2.1.9] इत्य् आदेश् च । अतः कैवल्य-शब्दश् च तत्-
तद्-अनुसारेण व्याख्यातव्यः । तथा हि यदि तत्र केवल-शब्देन शुद्धत्वं
वक्तव्यं तदा तत्-प्रीत्येक-तात्पर्या एव परम-शुद्धा इति तस्याम् एव
तात्पर्यम् । पूर्वं भक्ति-सन्दर्भेऽपि शुद्ध-शब्देनैकान्ति-भक्त एव
प्रतिपादितः ।
तद् उक्तम् अन्यस्य स-दोषत्व-कथनेन । धर्मः प्रोज्झित-कैतवोऽत्र
परमः [भ्प् 1.1.2] इत्य् अत्र । टीका च - प्र-शब्देन मोक्षाभिसन्धिर् अपि
निरस्तः इत्य् एषा । अत्र भागवत-धर्मे मोक्षाभिसन्धिर् अपि कैतवम् । यदि
च तत्र कैवल्य-शब्देन भगवान् एवोक्तस् तत्-स्वभावो वा, तथापि
प्रीतिमताम् एव । कामं भवः स्व-वृजिनैर् निरयेषु नस् ताच् चेतोऽलिवद् यदि
नु ते पदयो रमेत [भ्प् 6.15.49] इति न्यायेन तद्-एकानुशीलन-मात्र-
तात्पर्यात् प्रीताव् एव विश्रान्तिः ।
अतएव कैवल्यान् मोक्षाद् अप्य् एकः श्रेष्ठो यो भगवत्-प्रीति-लक्षणोऽर्थस्
तत्-प्रयोजनम् इति व्याख्यान्तरम् । वस्तुतस् तूक्त-न्यायेन कैवल्यादि-शब्दाः
शुद्ध-भक्ति-वाचकता-प्रधाना एव । तथैवाह गद्याभ्याम् - यथा-
वर्ण-विधानम् अपवर्गश् चापि भवति [भ्प् 5.19.19] इति, यो ऽसौ भगवति
सर्व-भूतात्मन्य् अनात्म्ये ऽनिरुक्ते ऽनिलयने परमात्मनि वासुदेवे ऽनन्य-
निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थि-रन्धन-
द्वारेण यदा हि महा-पुरुष-पुरुष-प्रसङ्गः [भ्प् 5.19.20] इति च ।
यस्य वर्णस्य यद् विधानं भगवद्-अर्पित-स्व-स्वधर्मानुष्ठानं, तद्
अनुक्रमेणापवर्गश् च भवति । तस्यापवर्गस्य स्वरूपम् आह द्वितीयेन
योऽसौ इति । आत्मनि भवम् आत्म्यं रागादि तद्-रहिते । स हि भक्त-
सुखार्थम् एव प्रयतते, न तु पृथक् स्व-सुखार्थम् । यथा हि भक्तस् तत्-
सुखार्थम् एवेति । अनिरुक्ते स्वरूपतो गुणाश् च वाचाम् अगोचरे । अनिलयने
निलयनम् अन्तर्धानं तद्-रहिते, सदैव प्रकाशमान इत्य् अर्थः । अनन्य-
निमित्तो मोक्षाद्य्-उपाधि-रहितो यो भक्ति-योगः स एव लक्षणं स्वरूपं
यस्य सः । तत्रोपवर्ग-शब्दस्य प्रवृत्तिं घटयति । नाना-गतीनां निमित्तं
योऽविद्या-ग्रन्थिस् तस्य रन्धनम् । अपवर्जनं छेदनम् इति यावत् तद्-
द्वारेण योऽसाव् अपवर्ग उच्यते इत्य् अर्थः । अपवृज्यते येनेति निरुक्त्या इति
भावः । पाद्मोत्तर-खण्डे च - विष्णोर् अनुचरत्वं हि मोक्षम् आहुर्
मनीषिणः इति ।
तथा स्कान्दे रेवा-खण्डे -
निश्चला त्वयि भक्तिर् या सैव मुक्तिर् जनार्दन ।
मुक्ता एव हि भक्तास् ते तव विष्णो यतो हरेः ॥ इति ।
श्री-रुक्मिणी-सान्त्वने श्री-भगवताप्य् एवम् अभिप्रेतं तां प्रति - सन्ति ह्य्
एकान्त-भक्तायास् तव [भ्प् 10.60.50] इत्य् उक्त्वा, मां प्राप्य मानिन्य्
अपवर्ग-सम्पदं वाञ्छन्ति ये सम्पद एव तत्-पतिम् [भ्प् 10.60.53] इति ।
अतएव कैवल्य-सम्मत-पथस् त्व् अथ भक्ति-योगः [भ्प् 2.3.12] इत्य् अत्र
टीका-कारैर् अप्य् उक्तम् - कैवल्यम् इत्य् एव सम्मतः पन्था यो भक्ति-योगः
इति । पन्था भगवत्-प्राप्त्य्-उपाय-भूतोऽपीत्य् अर्थः । स खलु कदा स्यात्
तत्राह यदा हीति ॥
॥ 5.19 ॥ श्री-शुकः
[17]
तद् एवम् अत्र सर्गो विसर्गश् च [भ्प् 2.10.1] इत्य् आदिषु दशस्व् एतन्-महा-
पुराण-प्रतिपाद्येषु अर्थेषु मुक्ति-शब्दस्य तत्रैव विश्रान्तिः । पोषणेऽपि
तद् एव मुख्यं प्रयोजनम् । पोषण- (पगे 21) शब्देन ह्य् अनुग्रह
उच्यते । तस्य च पराकाष्ठा-प्राप्तिः स्व-प्रीति-दान एव । तद् उक्तं मुक्तिं
ददाति कर्हिचित् स्म न भक्ति-योगम् [भ्प् 5.6.18] इति । तथैवान्यत्रापि श्री-
पृथुं प्रति वरं च मत्-कञ्चन-मानवेन्द्र वृणीष्व [भ्प् 4.20.16] इत्य्
उक्त्वा, यथा चरेद् बालहितं पिता स्वयं तथा त्वम् एवार्हसि नः समीहितुम्
[भ्प् 4.20.31] इति तद्-वाक्यानन्तरं, तम् आह राजन् मयि भक्तिर् अस्तु ते [भ्प्
4.20.31] इति । भक्तिः प्रीति-लक्षणा ।
॥ 4.20 ॥ श्री-विष्णुः
[18]
एवम् एव श्री-भागवत-ग्रन्थ-श्रवण-फलत्वेनापि सैव परम-
पुरुषार्थतया निर्णीतास्ति तत्त्व-सन्दर्भे सङ्क्षेप-तात्पर्ये । श्री-व्यास-
समाधिना श्री-शुक-हृदयेण च तथैव निर्णयो विहितः - यस्यां वै
श्रूयमाणायाम् [भ्प् 1.6.7] इत्य् आदिषु । स्व-सुख-निभृत-चेताः [भ्प् 12.12.69]
इत्य् आदौ च । प्रतिज्ञा चेदृश्य् एव - धर्मः प्रोज्झितः कैतवोऽत्र [भ्प् 1.1.2]
इत्य् आदौ किं वा परैर् ईश्वरः सद्यो हृद्य् अवरुध्यतेऽत्र कृतिभिः
शुश्रूषुभिस् तत्-क्षणात् इति । अतएव चतुःश्लोक्यां रहस्य-शब्देन सैवोक्ता ।
सैव च तृतीय-श्लोकार्थत्वेन भगवत्-सन्दर्भे विस्पष्टीकृतास्ति ।
तद् एवं श्रीमत्-प्रीतेर् एवावपवर्गत्वेन परम-भगवद्-अनुग्रह-
मयत्वं श्री-भागवत-श्रवण-फलत्वं पुरुषार्थेषु तस्याः परमत्व-
साधनाय दर्शितम् । तथैव श्री-नारद आक्षेप-द्वार शिक्षितवांश् च तत्-
संहिताम् आविर्भावयिष्यन्तं श्री-व्यासम् । यथाह -
यथा धर्मादयश् चार्था मुनि-वर्यानुकीर्तिताः ।
न तथा वासुदेवस्य महिमा ह्य् अनुवर्णितः ॥ [भ्प् 1.5.9]
च-शब्दोऽप्य्-अर्थे । महिमानुवर्णनम् तत्-प्रीत्य्-उद्बोधनं भवेद् इत्य्
आशयेनैवम् उक्तम् ॥
॥ 1.5 ॥ श्री-नारदः
[19]
तथान्येषाम् अपवर्गाणाम् अपि तया तिरस्कृतौ मुक्त-कण्ठा एव शब्दा
उदाहार्याः । सा च तिरस्कृतिः क्वचित् तत्-स्वरूपेण क्रियते । क्वचित् तत्-परिकर-
द्वारा च । तत्र तत्-स्वरूपेण तिरस्कृतिम् आह गद्येन --
यस्याम् एव कवय आत्मानम् अविरतं विविध-वृजिन-संसार-
परितापोपतप्यमानम् अनुसवनं स्नापयन्तस् तयैव परया निर्वृत्या ह्य्
अपवर्गम् आत्यन्तिकं परम-पुरुषार्थम् अपि स्वयम् आसादितं नो
एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्त-सर्वार्थाः । [भ्प् 5.6.17] इति ।
यस्यां पूर्व-गद्योक्त-लक्षणायां भक्तौ मुक्तादि-सम्पदां भक्ति-
सम्पद्-अनुचरीत्वात् परस्माप्त-सर्वार्थत्वम् । तथोक्तं श्री-नारद-
पञ्चरात्रे -
हरि-भक्ति-महा-देव्याः सर्वा मुक्त्य्-आदि-सिद्धयः ।
भुक्तयश् चाद्भुतास् तस्याश् चेटिकावद् अनुव्रताः ॥ इति ।
अतएवानादरोऽपि । यथोक्तं श्री-वृत्रं प्रति महेन्द्रेण --
यस्य भक्तिर् भगवति हरौ निःश्रेयसेश्वरे ।
विक्रीडतो ऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ [भ्प् 6.12.22] इति ।
॥ 6.12 ॥ श्री-शुकः
(पगे 22)
[20]
अथ तत्-परिकरेषु तदीय-कार्य-द्वारा, यथा तत्र तदीय-गुण-
कथानुशीलन-द्वारा ताम् आहुः -
दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश्
चरित-महामृताब्धि-परिवर्त-परिश्रमणाः ।
न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते
चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ [भ्प् 10.87.21]
आत्म-तत्त्वं तादृश-सच्-चिद्-आनन्द-मूर्तित्वादिकं निज-याथात्म्यं
निगमोऽनुभावना । आत्त-तनोः प्रकटित-स्व-मूर्तेः, परिवर्जनार्थः ।
चरित-महामृताब्धेः पर्वर्तेनाभ्यासेन वर्जित-श्रमाः । चरण-सरोज-
हिंसानां श्री-शुकदेवादीनां यानि कुलानि शिष्योपशिष्य-परम्पराः । तेषां
सङ्गेन विसृष्ट-मात्र-गृहा अपि यद्य् अपवर्गं न परिलषन्ति, तदा चरण-
सरोज-हंसादयस् तु किम् उतेत्य् अर्थः ॥
॥ 10.87 ॥ श्रुतयः
[21]
तदीय-पाद-सेवा-तदीय-गुण-कथा-द्वारा मुक्ति-विशेषस्य तिरस्कृतिर् भक्ति-
सन्दर्भे दर्शितास्ति श्री-कपिल-देव-वाक्येन - नैकात्मतां मे स्पृहयन्ति
केचिद् [भ्प् 3.25.34] इत्य् आदिना । एकात्मतां ब्रह्म-सायुज्यं भगवत्-सायुज्यम्
अपि । एवं सेवा-द्वारा मुक्ति-विशेषाणां च श्री-विष्णु-वाक्येन मत्-सेवया
प्रतीतं ते [भ्प् 9.4.67] इत्य् आदिना, श्री-कपिल्देव-वाक्येन सालोक्य-सार्ष्टी [भ्प्
3.29.13] इत्य् आदिना ।
अथ पुरुषार्थान्तरवन्-मुक्तिर् अपि हेयैवेति वक्तुं तैर् अपि साध्यं तस्यास्
तिरस्कृतिर् निर्दिश्यते । तत्र भक्तेः स्वरूपेण मुक्ति-सामान्यस्य तिरस्कृतिर्
उदाहृतैवास्ति भक्ति-सन्दर्भादौ । न किञ्चित् साधवो धीराः [भ्प् 11.20.34]
इत्य् आदिना ।
नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत ।
भक्तिं परां भगवति लब्धवान् पुरुषे ऽव्यये ॥ [भ्प् 12.10.6] इति चान्यत्र ।
अथ कार्य-द्वारेषु तत्रापतत-महा-सुख-दुःखान्तर-तिरस्कारि-तद्-आसक्ति-
द्वारा ताम् आह --
नारायण-पराः सर्वे न कुतश्चन बिभ्यति ।
स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः ॥ [भ्प् 6.17.18]
स्वर्गादीनां तुल्य-हेयत्वात् तेषु तुल्य-भगवद्-एक-पुरुषार्थत्वाच् च तुल्य-
दर्शिनः ॥
॥ 6.17 ॥ श्री-रुद्रो देवीम्
[22]
तदीय-पाद-सेवापरमोत्कण्ठा-द्वारा ताम् आह-
को न्व् ईश ते पाद-सरोज-भाजां
सुदुर्लभो ऽर्थेषु चतुर्ष्व् अपीह ।
तथापि नाहं प्रवृणोमि भूमन्
भवत्-पदाम्भोज-निषेवणोत्सुकः ॥ [भ्प् 3.4.15]
हे ईश ॥
॥ 3.4 ॥ उद्धवः श्री-भगवन्तम्
[23]
सर्वात्मार्पण-कारि-भजनीय-विषयकाभिलाष-द्वारा ताम् आह -
न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ [भ्प् 11.14.14]
टीका च-रसाधिपत्यं पातालादि-साम्यम् । अपुनर्भवं मोक्षम् अपि । मद्
विना मां हित्वान्यन् नेच्छति । अहम् एव तस्य प्रेष्ठ इत्य् अर्थः । इत्य् एषा ।
सार्वभौमं श्री-प्रियव्रतादीनाम् इव महाराज्यम् । पारमेष्ठ्यादि-
चतुष्टयस्यानुक्रमश् चाधोऽधो-विवक्षया न्यूनत्वअ-विवक्षया च । ततश्
चोत्तरोत्तरं कैमुत्यम् अपि । योग-सिद्ध्य्-आदि-द्वयं तु सार्वत्रिकम् इति
पश्चाद् विन्यस्तम् । अनयोस् तूत्तर-श्रैष्ठ्यम् ॥
॥ 11.14 ॥ श्री-भगवान्
(पगे 23)
[24]
तथैवाह --
न नाक-पृष्ठं न च पारमेष्ठ्यं
न सार्व-भौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
समञ्जस त्वा विरहय्य काङ्क्षे ॥ [भ्प् 6.11.25]
नाकपृष्ठं ध्रुव-पदम् । अत्र च चतुष्टये पूर्ववत् न्यूनत्व-विवक्षया
कैमुत्यम् । ध्रुव-पदस्य श्रैष्ठ्यं विष्णु-पद-सन्निहितत्वात् ॥
॥ 6.11 ॥ श्री-वृत्रः
[25]
गाढ-तत्-प्रपत्ति-द्वाराहुः --
न नाक-पृष्ठं न च सार्व-भौमं
न पारमेष्ठ्यं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
वाञ्छन्ति यत्-पाद-रजः-प्रपन्नाः ॥ [भ्प् 10.16.37]
तत्र नाक-पृष्ठम् अपि न वाञ्छन्ति किम् उत सार्वभौमम् ।
पारमेष्ठ्यम् अपि न वाञ्छन्ति किम् उत रसाधिपत्यम् इति पूर्वार्धे
योज्यम् । उत्तरार्धे वा-शब्दोऽप्य्-अर्थे । पाद-रजः-शब्देन भक्ति-विशेष-
ज्ञापनाय गाढ-प्रपत्तिर् ज्ञाप्यते ।
॥ 10.16 ॥ नाग-पत्न्यः श्री-भगवन्तम्
[26]
गुण-गान-द्वाराह-
तुष्टे च तत्र किम् अलभ्यम् अनन्त आद्ये
किं तैर् गुण-व्यतिकराद् इह ये स्व-सिद्धाः ।
धर्मादयः किम् अगुणेन च काङ्क्षितेन
सारं जुषां चरणयोर् उपगायतां नः ॥ [भ्प् 7.6.25]
अगुणेन मोक्षेण । सारं-जुषां तन्-माधुर्यास्वादिनां सताम् ॥
॥ 7.6 ॥ श्रीप्रह्लादो दैत्य-बालकान्
[27]
गुण-श्रवण-द्वाराह --
वरान् विभो त्वद् वरदेश्वराद् बुधः
कथं वृणीते गुण-विक्रियात्मनाम् ।
ये नारकाणाम् अपि सन्ति देहिनां
तान् ईश कैवल्य-पते वृणे न च ॥
न कामये नाथ तद् अप्य् अहं क्वचिन्
न यत्र युष्मच्-चरणाम्बुजासवः ।
महत्तमान्तर्-हृदयान् मुख-च्युतो
विधत्स्व कर्णायुतम् एष मे वरः ॥ [भ्प् 4.20.23-24]
तद् अपि कैवल्यम् अपि ॥
॥ 4.20 ॥ पृथुः श्री-विष्णुम्
[28]
तदीय-निज-सेवकता-प्राप्ति-कामना-द्वाराह -
यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान्
प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् ।
नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्-
सेवानुरक्त-मनसाम् अभवो ऽपि फल्गुः ॥ [भ्प् 5.14.44]
य आर्षभेय्यो भरतः ।
॥ 5.14 ॥ श्री-शुकः
[29]
लोक-पालता-मात्र-लक्षण-तत्-सेवाभिमान-द्वाराप्य् आह --
प्रत्यानीताः परम भवता त्रायता नः स्व-भागा
दैत्याक्रान्तं हृदय-कमलं तद्-गृहं प्रत्यबोधि ।
काल-ग्रस्तं कियद् इदम् अहो नाथ शुश्रूषतां ते
मुक्तिस् तेषां न हि बहुमता नारसिंहापरैः किम् ॥ [भ्प् 7.8.42]
स्पष्टम् ।
॥ 7.8 ॥ महेन्द्रः श्री-नृसिंहम्
[30]
अथ कारणेषु महा-भागवत-सङ्ग-द्वाराह -
क्षणार्धेनापि तुलये न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ [भ्प् 4.24.57]
टीका च-तत्-पाद-मूले प्रविष्टस्य कृतान्त-भयाभावः कियान् अयं लाभः ।
यावता तद्-भक्त-सङ्ग एव सकल-पुरुषार्थ-श्रेणि-शिरसि नरीनर्ति इत्य् आदि ।
॥ 4.24 ॥ श्री-रुद्रः प्रचेतसः
[31]
तथैवाहुः -
यावत् ते मायया स्पृष्टा भ्रमाम इह कर्मभिः ।
तावद् भवत्-प्रसङ्गानां सङ्गः स्यान् नो भवे भवे ॥
तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ [भ्प् 4.30.32-33] (पगे 24)
तद्-बहिर्मुखताप्राप्त्य्-आशङ्कया तत्-परिहार्-कारणं प्रार्थयन्ते यावद्
इति । नैतावत्त्वं तत्-सङ्गस्य किन्त्व् अपार-महिमत्वम् एवेत्य् आहुः
तुलयामेवेति । अतो यावद् इत्य् आदिकं प्रेम्नैव भगवच्-चरण-सामीप्य-
प्राप्त्य्-आशयोक्तं न सामीप्याद्-मुक्ति-सम्पत्त्याशयेति ज्ञेयम् ।
॥ 4.30 ॥ प्रचेतसः श्रीमद्-अष्टभुजं पुरुषम्
[32]
अन्यत्रापीदृशोऽर्थो दृश्यते । तत्र तत्-तच्-छास्त्रस्य परम-फलत्वे । यथा
माध्व-भाष्य-धृतं बृहत्-तन्त्रम् -
यथा श्री-नित्य-मुक्तापि प्राप्त-कामापि सर्वदा ।
उपास्ते नित्यशो विष्णुम् एवं भक्तो भवेद् अपि ॥
ब्रह्म-वैवर्ते च -
न ह्रासो न च वृद्धिर् वा मुक्तानां विद्यते क्वचित् ।
विद्वत्-प्रत्यक्ष-सिद्धत्वात् कारणाभावतोऽनुमा ॥
हरेर् उपासना चात्र सदैव सुख-रूपिणी ।
न च साधन-भूता सा सिद्धिर् एवात्र सा यतः ॥ इति ।
तद्-उत्थापिता सौपर्ण-श्रुतिश् च -
सर्वदैतम् उपासीत यावद्-विमुक्तिर् मुक्ता ह्य् एतम् उपासते । इति ।
तदीय-भारत-तात्पर्ये च श्रुत्य्-अन्तराभिधानम् -
मुक्तानाम् अपि भक्तिर् हि परमानन्द-रूपिणी इति ।
एष एवार्थः श्री-बृहद्-गौतमीयेऽपि दृश्यते, यथा -
एवं दीक्षां चरेद् यस् तु पुरुषो वीत-कल्मषः ।
स लोके वर्तमानोऽपि जीवन्-मुक्त प्रमोदते ॥
उदिताकृतिर् आनन्दः सर्वत्र सम-दर्शकः ।
पूर्णाहन्तामयी साक्षाद् भक्तिः स्यात् प्रेम-लक्षणा ॥
अन्यत्र हानोपादान-वृद्धि-रहितत्वात् सम-दर्शित्वं ज्ञेयम् । अत्र मुनय
ऊचुः -
कथं भक्तिर् भवेत् प्रेम्ना जीवन्-मुक्तस्य नारद ।
जीवन्-मुक्त-शरीराणां चित्-सत्ता-निःस्पृहा यतः ।
विरक्तेः कारणं भक्तिः सा तु मुक्तेस् तु साधनम् ॥
नारद उवाच -
भद्रम् उक्तं भवद्भिश् च मुक्तिस् तुर्यातीता निगद्यते ।
कृष्ण-धाम-मयं ब्रह्म क्वचित् कुत्रापि भासते ॥
निर्बीजेन्द्रियगं तत् तु आत्मस्थं केवलं सुखम् ।
कृष्णस् तु परिपूर्णात्मा सर्वत्र सुख-रूपकः ।
भक्ति-वृत्ति-कृताभ्यासात् तत्-क्षणाद् गोचरीकृतः ॥ इति ।
तादृग्-अर्थत्वेनैवाद्वैत-वाद-गुरुभिर् अपि सम्मता श्री-नृसिंह-तापनी च -
यं ह वै सर्वे वेदा आनमन्ति मुमुक्षवो ब्रह्म-वादिनश् च [न्तु 2.4]
इति । यथा मुक्ता अपि लीलया विग्रहं कृत्वा भगवन्तं भजन्ते इति हि तद्-
भाष्यम् ।
ब्रह्मणा वदितुं स्थिरीभवितुं शीलम् एषाम् इति ब्रह्म-वादिनी मुक्ता इति
वद स्थैर्ये [पाण् 7.2.7] इति स्मरणात् । श्री-गीतोपनिषदश् च - तेषां ज्ञानी
नित्य-युक्त एक-भक्तिर् विशिष्यते [गीता 7.10] इति ।
अथ तस्याः परम-भगवद्-अनुग्रह-प्राप्यत्वे नारद-पञ्चरात्रीय जितं
ते स्तोत्रं, यथा -
मोक्ष-सालोक्य-सारूप्यान् प्रार्थये न धराधर ।
इच्छामि हि महाभाग कारुण्यं तव सुव्रत ॥
पुरुषार्थान्तरय-तिरस्कारे हयशीर्षीय-श्री-नारायण-व्यूह-स्तवः -
न धर्मं कामम् अर्थं वा मोक्षं वा वरदेश्वर ।
प्रार्थये तव पादाब्जे दास्यम् एवाभिकामये ॥
पुनः पुनर् वरान् दित्सुर् विष्णुर् मुक्तिं न याचितः ।
भक्तिर् एव वृता येन प्रह्लादं तं नमाम्य् अहम् ॥ (पगे 25)
यदृच्छया लब्धम् अपि विष्णोर् दाशरथेस् तु यः ।
नैच्छन् मोक्षं विना दास्यं तस्मै हनुमते नमः ॥ इति ।
पुनर् जितं-ते-स्तोत्रं च -
धर्मार्थ-काम-मोक्षेषु नेच्छा मम कदाचन ।
तत्-पाद-पङ्कजस्याधो जीवितं दीयतां मम ॥ इति ।
न च तादृश-भगवत्-प्रीत्या तत्-तत्-पुरुषार्थ-तिरस्कारोऽद्भुत इव । यस्यास्ति
भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः [भ्प् 5.18.12]
इति भक्ति-स्वाभाविक-भूतअ-कारुण्य-गुणेनाप्य् असौ श्रूयते । यथाह -
न कामये ऽहं गतिम् ईश्वरात् पराम्
अष्टर्द्धि-युक्ताम् अपुनर्-भवं वा ।
आर्तिं प्रपद्ये ऽखिल-देह-भाजाम्
अन्तः-स्थितो येन भवन्त्य् अदुःखाः ॥ [भ्प् 9.21.12]
स्पष्टम् । न चात्र यथा दया-वीरस्यास्य दया-मात्रेणाप्य् अपरित्यागः । न
तु सारासारत्व-ज्ञानेन । तथा उपस्थित-महार्थ-परित्यागित्वाद् दान-
वीराणां तेषाम् अपि भगवत्-प्रीति-जनोत्साह-मात्रेणेत्य् आशङ्क्यम् । सर्व-
तत्त्वानुभविनां परमार्थैक-निष्ठा-ग्रहाणां श्री-शुक-देवादीनाम् अपि
तत्रोदाहृतत्वाद् । तस्माद् अस्त्य् एव भगवत्-प्रीतेः सर्वस्माद् अप्य् अपवर्गाद्
उपादेयत्वम् ॥
॥ 9.21 ॥ रन्ति-देवः
[33]
अतएवान्येषाम् अपि वैदिकानां साधनानां सैव मुख्यं फलम् इति निर्दिशति
पूर्तेन तपसा यज्ञैर् दानैर् योग-समाधिना ।
राद्धं निःश्रेयसं पुंसां मत्-प्रीतिस् तत्त्वविन्-मतम् ॥ [भ्प् 3.9.41]
टीका च-न च मत्-प्रीतेर् अप्य् अधिकं किञ्चिद् अस्ति इत्य् आहुः पूर्तादिभी
राद्धं सिद्धं यन् निःश्रेयसं फलम् । तत् मत्-प्रीतेर् एवेति तत्त्व-विदां
मतम् इत्य् एषा ।
[34]
अन्यत् तु फलम् अतत्त्व-विदां मतं तत्राह -
अहम् आत्मात्मनां धातः प्रेष्ठः सन् प्रेयसाम् अपि ।
अतो मयि रतिं कुर्याद् देहादिर् यत्-कृते प्रियः ॥ [भ्प् 3.9.42]
आत्मनां रश्मि-स्थानीयानां शुद्ध-जीवानाम् अपि आत्मा मण्डल-स्थानीयः
परमात्माहम् । कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् [भ्प्
10.14.55] इति च वक्ष्यते । अतः प्रेयसाम् आत्मनाम् अपि प्रेष्ठः सन्
निरवद्यः । येषाम् आत्मनां कृते देहादिर् अर्थोऽपि प्रियो भवति । कुर्यात्
सर्व एव कर्तुम् अर्हतीत्य् अर्थः । अतो मद्-अज्ञान-दोषेणैव न करोतीत्य्
भावः ॥
॥ 3.9 ॥ श्री-गर्भोदशायी ब्रह्माणम् ॥ 33-34 ॥
[35]
अतएव शुद्ध-प्रीतिमत एव सर्वतः श्रैष्ठ्यम् आह -
रजोभिः सम-सङ्ख्याताः पार्थिवैर् इह जन्तवः ।
तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥
प्रायो मुमुक्षवस् तेषां केचनैव द्विजोत्तम ।
मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति ॥
मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ [भ्प् 6.14.3-5]
श्रेयः पर-लोक-सुख-साधनं धर्मादि । मुच्येत जीवन्-मुक्तओ भवति ।
जीवन्-मुक्तस्य च यस्य भगवद्-आद्य्-अपराधो दैवान् न स्यात् स एव
सिध्यति तत्-तल्-लक्षणाम् अनित्मां मुक्तिं प्राप्नोति ।
आरुह्य कृच्छ्रेण परं पदं ततः
पतन्त्य् अधोऽनादृत्य-युष्मद्-अङ्घ्रयः ॥ [भ्प् 10.2.32]
जीवन्-मुक्ताः प्रपद्यन्ते पुनः संसार-वासनाम् ।
यद्य् अचिन्त्य-महा-शक्तौ भगवत्य् अपराधिनः ॥ [भागवत-परिशिष्ट]
नानुव्रजति यो मोहाद् व्रजन्तं परमेश्वरम् ।
ज्ञानाग्नि-दग्ध-कर्मापि स भवेद् ब्रह्म-राक्षसः ॥ इत्य् आदि भक्ति-
सन्दर्भे दर्शित-प्रमाणेभ्यः । (पगे 26) तत्र जीवन्-मुक्तानां सिद्ध-
मुक्तानां च याः कोटयस् तास्व् अपि नायं सुखापो भगवान् [भ्प् 10.9.21] इत्य्
आदेः । मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भ्प् 5.6.18] इत्य् अतश् च
नारायण-परायणः सुदुर्लभ एव यतः स एव प्रशान्तात्मा प्रकृष्ट-
भगवत्-तत्त्व-निष्ठा-वरिष्ठ इत्य् अर्थः । शमो मन्-निष्ठता बुद्धेः
[भ्प् 11.19.16] इति श्री-भगवता स्वयं व्याख्यातत्वात् ।
॥ 6.14 ॥ राजा श्री-शुकम्
[36]
अतएव --
प्रायेण मुनयो राजन् निवृत्ता विधि-षेधतः ।
नैर्गुण्य-स्था रमन्ते स्म गुणानुकथने हरेः ॥ [भ्प् 2.1.7]
इत्य् आदि-त्रयेणात्माराम-श्रेष्ठानां भक्तिं प्रदर्श्य तद्-अभाववतां
निन्दा - तद्-अश्म-सारं हृदयं बतेदं [भ्प् 2.3.24] इत्य् आदिना । अतएवाह --
तथापि ब्रूमहे प्रश्नांस् तव राजन् यथा-श्रुतम् ।
सम्भाषणीयो हि भवान् आत्मनः शुद्धिम् इच्छता ॥ [भ्प् 7.13.23]
शुद्धिं शुद्ध-भक्ति-वासना-रूपाम् ।
॥ 7.13 ॥ श्री-दत्तात्रेयः श्री-प्रह्लादम्
[37]
अतएव -
वाग् गद्गदा द्रवते यस्य चित्तं
रुदत्य् अभीक्ष्णं हसति क्वचिच् च ।
विलज्ज उद्गायति नृत्यते च
मद्-भक्ति-युक्तो भुवनं पुनाति ॥ [भ्प् 11.14.24]
स्पष्टम् ।
[38]
तथा -
निरपेक्षं मुनिं शान्तं निर्वैरं सम-दर्शनम् ।
अनुव्रजाम्य् अहं नित्यं पूयेयेत्य् अङ्घ्रि-रेणुभिः ॥ [भ्प् 11.14.16]
निरपेक्षं निष्किञ्चन-भक्तम् । अतएव शान्तं क्षोभ-रहितम् अतएवान्यत्र
निर्वैरं सम-दर्शनं च हेयोपादेय-भावना-रहितं मुनिं श्री-
नारदादिम् अनुव्रजामि । यतस् तस्य तादृश-निष्कपट-भक्ति-मय-साधुत्व-
दर्शनेन ममापि तत्र भक्ति-विशेषो जायते । कथं गोपनीय इत्य् आह
पूयेयेति । मद्-भक्त्य्-अनिष्कृति-दोषात् पवित्रितः स्याम् इति भावेनेति भावः ।
॥ 11.14 ॥ श्री-भगवान् ॥ 37-38 ॥
[39]
अतएवाह -
गुणैर् अलम् असङ्ख्येयैर् माहात्म्यं तस्य सूच्यते ॥
वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ [भ्प् 7.4.36]
तस्य श्री-प्रह्लादस्य ।
॥ 1.4 ॥ श्री-शुकः
[40]
तस्मात् प्रीतेर् एवे पुरुषार्थ-श्रेष्ठत्वं सिद्धम् । यथाहुर् गद्येन -
अथ ह वाव तव महिमामृत-रस-समुद्र-विप्रुषा सकृद् अवलीढया स्व-
मनसि निष्यन्दमानानवरत-सुखेन विस्मारित-दृष्ट-श्रुत-विषय-सुख-
लेशाभासाः परम-भागवता एकान्तिनो भगवति सर्व-भूत-प्रिय-सुहृदि
(पगे 27) सर्वात्मनि नितरां निरन्तरं निर्वृत-मनसः कथम् उ ह वा एते
मधुमथन पुनः स्वार्थ-कुशला ह्य् आत्म-प्रिय-सुहृदः साधवस् त्वच्-
चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनर् अयं संसार-पर्यावर्तः [भ्प्
6.9.39] इति ।
सकृद् अपि इति चित्तं ब्रह्म-सुख-स्पृष्टं नैवोत्तिष्ठेत कर्हिचित् [भ्प् 7.15.35]
इति वदत्रापि सूचितम् । आत्मा त्वम् एव प्रियः सुहृच् च येषां ते ।
॥ 6.9 ॥ देवाः श्री-पुरुषोत्तमम्
[41]
अतएवाह -
तस्यैव हेतोः प्रयतेत कोविदो
न लभ्यते यद् भ्रमताम् उपर्य् अधः ।
तल् लभ्यते दुःखवद् अन्यतः सुखं
कालेन सर्वत्र गभीर-रंहसा ॥
न वै जनो जातु कथञ्चनाव्रजेन्
मुकुन्द-सेव्य् अन्यवद् अङ्ग संसृतिम् ।
स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर्
विहातुम् इच्छेन् न रस-ग्रहो जनः ॥ [भ्प् 1.5.18-19]
स्पष्टम् ।
॥ 1.5 ॥ श्री-नारदः
[42]
तथा -
भजन्त्य् अथ त्वाम् अत एव साधवो
व्युदस्त-माया-गुण-विभ्रमोदयम् ।
भवत्-पदानुस्मरणाद् ऋते सतां
निमित्तम् अन्यद् भगवन् न विद्महे ॥ [भ्प् 4.20.29]
टीका च - यतस् त्वं दीन-वत्सलः अतएव साधवो निष्कामा । अथ
ज्ञानान्तरम् अपि त्वां भजन्ति । कथम्भूतम् । माया-गुणानां विभ्रमो
विलासः तस्योदयः कार्यं स निरस्तो यस्मिन् तम् । ते किमर्थं भजन्ति ?
तत्राह - भवत्-पदानुस्मरणादिना अन्यत् तेषां फलं न विद्महे इत्य् एषा ।
॥ 4.20 ॥ पृथुः श्री-विष्णुम्
[43]
तस्मात् तत्-तद्-भक्तानां तत्-प्रीति-मनोरथ एवोपादेयः । तद् अन्यस् तु
सर्वोऽपि हेय इत्य् आह -
सुखोपविष्टः पर्यङ्के राम-कृष्णोरु मानितः ।
लेभे मनोरथान् सर्वान् पथि यान् स चकार ह ॥
किम् अलभ्यं भगवति प्रसन्ने श्री-निकेतने ।
तथापि तत्-परा राजन् न हि वाञ्छन्ति किञ्चन ॥ [भ्प् 10.39.1-2]
सोऽक्रूरः । यान्
किं मयाचरितं भद्रं किं तप्तं परमं तपः ।
किं वाथाप्य् अर्हते दत्तं यद् द्रक्ष्याम्य् अद्य केशवम् ॥ [भ्प् 10.38.3]
इत्य् आदि-भक्ति-वासना-मयान् । ननु मुक्त्य्-आदिकम् अपि कथं न प्रार्थितम् ।
तत्राह किम् अलभ्यम् इति ।
॥ 10.39 ॥ श्री-शुकः
[44]
यथैवाह -
पुनश् च भूयाद् भगवत्य् अनन्ते
रतिः प्रसङ्गश् च तद्-आश्रयेषु ।
महत्सु यां याम् उपयामि सृष्टिं
मैत्र्य् अस्तु सर्वत्र नमो द्विजेभ्यः ॥ [भ्प् 1.19.16]
सृष्टिं जन्म, अन्यत्र तु सर्वत्र मैत्री अविष्मा दृष्टिर् अस्तु । ब्राह्मणेषु
त्वादर-विशेषोऽस्त्व् इत्य् आह नम इति ।
॥ 1.19 ॥ राजा
[45]
अतएवाह --
न वै मुकुन्दस्य पदारविन्दयो
रजो-जुषस् तात भवादृशा जनाः ।
वाञ्छन्ति तद्-दास्यम् ऋते ऽर्थम् आत्मनो
यदृच्छया लब्ध-मनः-समृद्धयः ॥ [भ्प् 4.9.36]
यदृच्छया अनायासेनैव लब्धा मनः समृद्धिर् येषां ते । स्वतो भक्ति-
माहात्म्य-बलेन सर्व-पुरुषार्थ-प्रतीक्षित-कृपा-दृष्टि-लेशा अपीत्य् अर्थः ।
एतद्-अनुसारेण नैच्छन् मुक्ति-पतेर् मुक्तिं तेन तापम् उपेयिवान् [भ्प् 4.9.29]
इत्य् अत्र श्री-ध्रुवम् उद्दिश्य पूर्वोक्तेऽपि पद्ये मुक्ति-शब्देन दास्यम् एव
वाच्यम् । तद् उक्तं - विष्णोर् अनुचरत्वं हि मोक्षम् आहुर् मनीषिणः
[पद्मप् 6] इति ।
॥ 4.9 ॥ श्री-मैत्रेयः
(पगे 28)
[46]
एतद् एवान्य-निन्दा-शुद्ध-भक्तस् तवाभ्यां द्रढयति गद्य-पञ्चकेन --
यत् तद् भगवतानधिगतान्योपायेन याच्æआ-च्छलेनापहृत-स्व-
शरीरावशेषित-लोक-त्रयो वरुण-पाशैश् च सम्प्रतिमुक्तो गिरि-दर्यां
चापविद्ध इति होवाच । नूनं बतायं भगवान् अर्थेषु न निष्णातो यो ऽसाव्
इन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस् तम् अतिहाय स्वयम्
उपेन्द्रेणात्मानम् अयाचतात्मनश् चाशिषो नो एव तद्-दास्यम् अति-गम्भीर-
वयसः कालस्य मन्वन्तर-परिवृत्तं कियल् लोक-त्रयम् इदम् ।
यस्यानुदास्यम् एवास्मत्-पितामहः किल वव्रे न तु स्व-पित्र्यं यद्
उताकुतोभयं पदं दीयमानं भगवतः परम् इति भगवतोपरते खलु
स्व-पितरि । तस्य महानुभावस्यानुपथम् अमृजित-कषायः को वास्मद्-
विधः परिहीण-भगवद्-अनुग्रह उपजिगमिषतीति ॥ [भ्प् 5.24.23-26]
टीका च - तस्यैकान्त-भक्तिं स-प्रपञ्चम् आह इत्य् आदिका । यत् तद्
अतिप्रसिद्धम् । इति एतद् उवाच श्री-बलिः । तम् उपेन्द्रं प्रति । अतिहाय
पुरुषार्थत्वेनानभिलष्य । स्वयम् उपेन्द्रेणैव द्वार-भूतेन आत्मानं
मां परम-क्षुद्रं प्रति परम-क्षुद्रं लोक-त्रयम् अयाचत । अनुदास्यं
नय मां निज-भृत्य-पार्श्वम् [भ्प् 7.9.24] इत्य् अनेन तद्-दास-दास्यम् । स्व-
पित्र्यं त्रैलोक्य-राज्यम् । यद् उत अकुतो-भयं पदं मोक्षम् । तन् न तु
वव्रे । कथं भगवतः परम् अन्यद् इदम् इति कृत्वा । तद्-अंशाभासस् तद्-
अंश-मात्रात्मकत्वात् तयोः । कदैवं व्यवहृतम् इत्य् आशङ्क्याह
भगवतेति ।
॥ 5.24 ॥ श्री-शुकः
[47]
अतएवान्य-सुख-दुःख-नैरपेक्ष्येणैव शुद्धत्वं भक्तानाम् इति
सिद्धम् । तद् उक्तं नारायण-पराः सर्वे [भ्प् 6.17.28] इत्य् आदि । श्री-भगवान्
अपि तथाविधानुकम्प्यानां सर्वम् अन्यद् दूरीकरोति । यथोक्तं स्वयम् एव
ब्रह्मन् यम् अनुगृह्णामि तद्-द्विषो विधुनोम्य् अहम् [भ्प् 8.22.24] इति ।
यथाह -
त्रै-वर्गिकायास-विघातम् अस्मत्-
पतिर् विधत्ते पुरुषस्य शक्र ।
ततो ऽनुमेयो भगवत्-प्रसादो
यो दुर्लभो ऽकिञ्चन-गोचरो ऽन्यैः ॥ [भ्प् 6.11.23]
पुरुषस्य स्वात्यन्तिक-भक्तस्य यदि कथञ्चित् त्रैवर्गिकायास आपतति तदा
स्वयम् एव तद्-विघातं विधत्त इत्य् अर्थः । अकिञ्चनस् तु गोचरो विषयो
यस्येत्य् अनेन मोक्षआयास्यापि विघात-विधानं व्यञ्जितम् । अकिञ्चन-
शब्दस्य शुद्ध-भक्त्य्-अर्थत्वं हि भक्ति-सन्दर्भे दर्शितम् ।
॥ 6.11 ॥ श्रीमान् वृत्रः शत्रुम्
[48]
तद् एवं तादृशानाम् अपि यदि कदाचिद् अन्यत् प्रार्थनं दृश्यते तदा तत्-प्रीति-
सेवोपयोगितयैव न तु स्वार्थत्वेन तद् इति मन्तव्यम् । यथा --
यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः ।
पारमेष्ठ्य-कामो नृपतिस् तद् भवान् अनुमोदताम् ॥ [भ्प् 10.70.41] इति ।
परमेष्ठि-शब्देनात्र श्री-द्वारका-पतिर् उच्यते । यथा पृथुकोपाख्याने -
तावच् छ्रीर् जगृहे हस्तं तत्-परा परमेष्ठिनः । [भ्प् 10.81.10] इति ।
ततः पारमेष्ट्य-शब्देन द्वारकिश्वर्यम् उच्यते । ततश् च पारमेष्ट्य-
काम इति तत्-समानैश्वर्यं कामयमानः इत्य् अर्थः ।(पगे 29) तत्-कामना
च द्वारकावद् इन्द्रप्रस्थेऽपि श्री-कृष्ण-निवासन-योग्य-सम्पत्ति-सिद्ध्य्-
अर्थैव ज्ञेया नान्यार्था । तान् उद्दिश्यैव ---
किं ते कामाः सुर-स्पार्हा मुकुन्द-मनसो द्विजाः ।
अधिजह्रुर् मुदं राज्ञः क्षुधितस्य यथेतरे ॥ [भ्प् 1.12.6] इत्य् आद्य्-उक्तेः ।
श्री-भगवत्-प्रसादत इहैव च तथैव तत्-प्राप्तिर् अपि तस्य दृश्यते --
सभायां मय-क् प्तायां क्वापि धर्म-सुतो ऽधिराट् ।
वृतो ऽनुगैर् बन्धुभिश् च कृष्णेनापि स्व-चक्षुषा ॥
आसीनः काञ्चने साक्षाद् आसने मघवान् इव ।
पारमेष्ठ्य-श्रिया जुष्टः स्तूयमानश् च वन्दिभिः ॥ [भ्प् 10.75.33-34] इत्य्
अत्र ।
अत्र स्व-चक्षुषेति विशेषणम् अपि तेषाम् अनन्य-कामत्वायोपजीव्यम् । यथा
चक्षुष्मता जनेनानूजनागोचर-सम्पत्ति-विशेषश् चक्ष्ण्ड्र् अर्थम् एव
काम्यते कदाचित् तन्-मुद्रणादौ तु स सर्वोऽपि वृथैव । तथा कृष्ण-नाथैर्
अपीति भावः । तथोक्तं श्रीमत्-पाण्डवानुद्दिश्य श्री-परीक्षितं प्रति
मुनिभिः न वा इत्य् आदौ येऽध्यासनं राज-किरीट-जुष्ट्ं सद्यो जहुर्
भगवत्-पार्श्व-कामा [भ्प् 1.19.20] इति । अतएव तद् भवान् अनुमोदिताम् इति
नारद-वाक्यानुसारेण परमैकान्तिषु श्री-भगवान् अपि तद् अनुमोदते ।
अन्यत्र च तथैव स्वयम् आह
यान् यान् कामयसे कामान् मय्य् अकामाय भामिनि ।
सन्ति ह्य् एकान्त-भक्तायास् तव कल्याणि नित्यदा ॥ [भ्प् 10.60.50]
न विद्यते कामो यत्रेति विग्रहेन शुद्ध-प्रीतिमय-भक्ति-लक्षणोऽर्थः
खल्व् अत्राकाम इत्य् उच्यते । अकामः सर्व-कामो वा [भ्प् 2.3.10] इत्य् आदौ
भक्ति-मात्र-काम इव । तथोक्तं भक्ति-लक्षणं वदता श्री-प्रह्लादेन
भृत्य-लक्षण-जिज्ञासुर् [भ्प् 7.10.3] इत्य् आदौ । तस्माद् अकामाय प्रीति-सेवा-
सम्पत्त्य्-अर्थं यान् यान् अर्थान् कामयसे हे देवि ते तव नित्य-लक्ष्मी-देवी-
रूप-प्रेयसीत्वात् नित्यं सन्त्य् एवेति व्याख्येयम् । तत्रैकान्त-भक्ताया इति
स्वार्थ-कामना-निषेधः । कामिनीति मद्-एक-कामिनीत्य् अर्थः । कल्याणीति
तादृश-सेवा-सम्पत्तेर् अविघ्नत्वं दर्शयतीति ज्ञेयम् ।
॥ 10.60 ॥ श्री-भगवान् रुक्मिणीम्
[49]
एवं सद्यो जहुर् भगवत्-पार्श्व-कामा इत्य् अत्र तत्-सामीप्य-कामनापि
व्याख्येया । तत्-प्रीति-विशेषातिशयवतां हि तेषां तत्-कृतार्ति-भरेणैव तत्-
स्फूर्ताव् अप्य् अतृप्तौ सत्यां तत्-सामीप्य-प्राप्तेश् च तत्-प्राप्ति-विघात-कंस-
सार-बन्धन-त्रोटनस्य च प्रार्थनं दृश्यते । पितृ-मातृ-प्रीत्य्-एक-
सुखिनां विदूर-बद्धानां बालकानाम् इव । यथाह -
त्रस्तो ऽस्म्य् अहं कृपण-वत्सल दुःसहोग्र-
संसार-चक्र-कदनाद् ग्रसतां प्रणीतः ।
बद्धः स्व-कर्मभिर् उशत्तम ते ऽङ्घ्रि-मूलं
प्रीतो ऽपवर्ग-शरणं ह्वयसे कदा नु ॥ [भ्प् 7.9.16]
त्वद्-बहिर्मुख-व्यापारमयत्वाद् दुःख-सहम् अनुशीलयितुम् अशक्यम् ।
त्वद्-भक्ति-विरोधि-व्यापारमयत्वात् तूग्रं भयानकं यत् संसार-चक्रं
तस्माद् यत् कदनं लोकानां मनोदौस्थं तस्माद् अहं त्रस्तोऽस्मि त्वद्-
अभिमुखीभवितुं न पारय इत्य् अर्थः । एवम् एव वक्ष्यते
श्री-नारद उवाच
भक्ति-योगस्य तत् सर्वम् अन्तरायतयार्भकः ।
मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥
श्री-प्रह्राद उवाच (पगे 30)
मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर् वरैः ।
तत्-सङ्ग-भीतो निर्विण्णो मुमुक्षुस् त्वाम् उपाश्रितः ॥ [भ्प् 7.10.1-2] इत्य्
अनेन ।
यद्यप्य् एवं त्रस्तोऽस्मि तथाप्य् अहो ग्रसतां भगवद्-विरोधित्वेन मादृश-
सर्वङ्गिलानाम् एषाम् असुराणां मध्ये स्व-कर्मभिर् बद्धः सन् प्रणीतो
निक्षिप्तोऽस्मि । ततस् तव विरह-दूनतया इदं याचे । कदा नु प्रीतः सन्
अपवर्ग-भूतम् अरणं शरणं तवाङ्घ्रि-मूलं त्व-समीपं प्रति माम्
आह्वास्यसीति ॥
॥ 7.9 ॥ प्रह्लादः श्री-नृसिंहम्
[50]
अतएव विष्णु-पुराणे तस्य श्रीमत्-प्रह्लादस्य केवल-प्रीति-वरयां चापि
नानेन विरुद्धा, यथा -
नाथ योनि-सहस्रेषु येषु येषु व्रजाम्य् अहम् ।
तेषु तेष्व् अच्युता भक्तिर् अच्युतेऽस्तु सदा त्वयि ॥
या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी ।
त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥
कृत-कृत्योऽस्मि भगवन् वरेणानेन यत् त्वयि ।
भवित्री त्वत्-प्रसादेन भक्तिर् अव्यभिचारिणी ॥
धर्मार्थ-कामैः किं तस्य मुक्तिस् तस्य करे स्थिता ।
समस्त-जगतां मूले यस्य भक्तिः स्थिरा त्वयि ॥ [विप् 1.20.18-19, 26-27]
तत्र श्रीमत्-परमेश्वर-वाक्यम् अपि तथैव -
यथा ते निश्चलं चेतो मयि भक्ति-समन्वितम् ।
तथा त्वं मत्-प्रसादेन निर्वाणं परम् आप्स्यति ॥ [विप् 1.20.28]
यथा येन प्रकारेण, तथा तेन प्रकारेणैव परं मदीय-चरण-
सेवोचितत्वेन महद् इत्य् अर्थः । सेवानुरक्त-मनसाम् अभवोऽपि फल्गुर्
[भ्प् 5.14.44] इत्य् उक्तत्वात् । तथा वक्ष्यमाणाभिप्रायेणैवेतद् आह --
अहं किल पुरानन्तं प्रजार्थो भुवि मुक्ति-दम् ।
अपूजयं न मोक्षाय मोहितो देव-मायया ॥ [भ्प् 11.2.28]
सुतपो-नाम्ना निजांशेनाहम् अनन्तम् अन्यत्र मुक्तिदम् अपि तल्-लक्षण-
प्रजा-प्रयोजनक एवापूजयम् । न तु मोक्षायापूजयम् । यतो देवे तस्मिन्
तद्-दर्शनोत्थिता या माया कृपा पुत्र-भावस् तेन मोहितः । माया दम्भे
कृपायां च इति विश्व-प्रकाशात् । किलेति सूती-गृहे श्री-कृष्ण-वाक्यम् अपि
प्रमाणीकृतम् । अथ यथा विचित्र-व्यसनाद् [भ्प् 11.2.9] इत्य् आदि-तद्-
वाक्यान्तरेषु च । व्यसनं श्री-कृष्ण-विच्छेद-हेतुः । भयं भावि-तद्-
विच्छेद-शङ्केति व्याख्येयम् । तत्र मन्येऽकुतश्चिद् [भ्प् 11.2.33] इत्य् आदि श्री-
नारदोदाहृत-वाक्यम् उत्तरं गम्यम् । अत्र हि विश्व-शब्दाद् उक्त-भय-
निवर्तनम् अपि प्रतिपद्यामहे । संवादान्ते त्वम् अप्य् एतान् [भ्प् 11.5.45] इत्य्-
आदि-द्वयं चाति-देशेन साक्षात् श्री-कृष्ण-प्राप्ति-गमकम् एव तयोर् इति ।
॥ 11.2 ॥ श्रीमद्-आनकदुन्दुभिः श्री-नारदम्
[51]
तद् एवं तेषां तत्-तत्-प्रार्थनम् अपि तत्-प्रीति-विलास एव । अत्रेदं तत्त्वम्-
एकान्तिनस् तावद् द्विविधाः अजात-जात-प्रीतित्व-भेदेन । जात-प्रीतयश् च
त्रिविधाः । एके तदीयानुभव-मात्र-निष्ठाः शान्त-भक्तादयः । अन्ये
तदीय-दर्शन-सेवनादि-रस-मयाः परिकर-विशेषाभिमानिनः । स्वयं
परिकर-विशेषाश् च । तत्र तेषु अजात-प्रतीतिभिः सर्व-पुरुषार्थत्वेन तत्-
प्रीतिर् एव प्रार्थनीया ।
अथ जात-प्रीतिषु शान्त-भक्तादयस् तु कदाचिद् दर्शनादिकं वा
प्रार्थयन्ते सेवादिकं विनैव । तद्-वासनाया अभावात् । सकृद् अपि कृपा-
दृष्ट्य्-आदि-लाभेन तृप्ताश् च भवन्ति । नातिक्षामं भगवतः
स्निग्धापाङ्ग-विलोकनाद् [भ्प् 7.12.46] इति श्री-कर्दम-वर्णनात् । अतएव तत्-
सामीप्यादिकेऽपि तेषाम् अनाग्रहः । ये तु तत्-परिकर- (पगे 31)
विशेषाभिमानिनस् ते खलु तत्-तत्-प्रीति-विशेषोत्कण्ठिनो यदा भवन्ति तदा
तत्-तत्-सेवा-विशेषेच्छया प्रार्थयन्त एव तत्-सामीप्यादिकम् । तत्-प्रार्थना
च प्रीति-विलास-रूपैव । पुष्णाति च ताम् इति गुण एव । यदा च तेषां दैन्येन
तत्-प्राप्त्य्-असम्भावना जायते तदापि च तत्-प्रीत्य्-अविच्छेद-मात्रं
प्रार्थयन्ते । सोऽपि च गुण एव । यत् तु केवल-संसार-मोक्ष-तत्-
सामीप्यानन्द-विशेष-प्रार्थनं प्रीति-विकारता-शून्यं तत् पुनः सर्वथा
केषांचिद् अप्य् एकान्तिनां नाभिरुचितम् । अतएव सर्वं मद्-भक्ति-योगेन [भ्प्
11.20.33] इत्य् आदौ कथञ्चिद् भक्त्य्-उपयोगित्वेनैवेति । एवं सालोक्य-सार्ष्टि
[भ्प् 3.29.13] इत्य् आदौ । तेषां मध्ये सेवनं विना यत् तन् न गृह्णन्ति इति
कथ्यते । तत्रैकत्व-लक्षणं सायुज्यं तु स्वरूपत एव तद्-विनाभूतम् ।
अन्यत् तु वासना-भेदेन । सारूप्यस्य तु सेवोपकारित्वं शोभा-विशेषेण । श्री-
वैकुण्ठेऽपि तदीय-नित्य-सेवकानां तथैव तादृशत्वम् । लोकेऽपि किशोर-
विदग्ध-क्षिति-पति-पुत्रैः समान-रूप-वयस्का सेवकाः सङ्गृहीता दृश्यन्ते
श्लाघ्यन्ते च लोकैः । तस्माद् यथा तथा श्रीमत्-प्रीतेर् एव पुरुषार्थत्वम्
इत्य् आयातम् । ते प्रीत्य्-एक-पुरुषार्थिनोऽपि भाव-विशेषेणान्यद् वाञ्छन्तु न
वाञ्छन्तु वा स्व-स्व-भक्ति-जात्य्-अनुरूपा भक्ति-परिकराः पदार्थाः
संसार-ध्वंस-पूर्वकम् उदयन्त एव । न ते कदाचिद् व्यभिरचन्ति च । तद्
एतद् उक्तम् -
अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी ।
जरयत्य् आशु या कोशं निगीर्णम् अनलो यथा ॥
नैकात्मतां मे स्पृहयन्ति केचिन्
मत्-पाद-सेवाभिरता मद्-ईहाः ।
ये ऽन्योन्यतो भागवताः प्रसज्य
सभाजयन्ते मम पौरुषाणि ॥
पश्यन्ति ते मे रुचिराण्य् अम्ब सन्तः
प्रसन्न-वक्त्रारुण-लोचनानि ।
रूपाणि दिव्यानि वर-प्रदानि
साकं वाचं स्पृहणीयां वदन्ति ॥
तैर् दर्शनीयावयवैर् उदार-
विलास-हासेक्षित-वाम-सूक्तैः ।
हृतात्मनो हृत-प्राणांश् च भक्तिर्
अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते ॥
अथो विभूतिं मम मायाविनस् ताम्
ऐश्वर्यम् अष्टाङ्गम् अनुप्रवृत्तम् ।
श्रियं भागवतीं वास्पृहयन्ति भद्रां
परस्य मे ते ऽश्नुवते तु लोके ॥
न कर्हिचिन् मत्-पराः शान्त-रूपे
नङ्क्ष्यन्ति नो मे ऽनिमिषो लेढि हेतिः ।
येषाम् अहं प्रिय आत्मा सुतश् च
सखा गुरुः सुहृदो दैवम् इष्टम् ॥ [भ्प् 3.25.33-39] इति ।
अण्वीं दुर्ज्ञेयां पार्षद-लक्षणाम् इत्य् अर्थः । तद् एवं तत्-क्रतु-न्यायेन
च शुद्ध-भक्तानाम् अन्या गतिर् नास्त्य् एव । श्रुतिश् च - यथा क्रतुर् अस्मिन्
लोके पुरुषो भवति तथेतः प्रेत्य भवति [बौ 3.14.1] इति, क्रतुर् अत्र
सङ्कल्प इति भाष्य-काराः । श्रुत्य्-अन्तरं च - स यथाकामो भवति तत्
क्रतुर् भवति यत् क्रतुर् भवति तत् कर्म कुरुते यत् कर्म कुरुते तद्
अभिसम्पद्यते [बौ 4.4.6] इति । अन्यच् च यद् यथा यथोपासते तद् एव
भवन्ति इति । श्री-भगवत्-प्रतिज्ञा च - ये यथा मां प्रपद्यन्ते तांस्
तथैव भजाम्य् अहम् [गीता 4.11] इति । तथैव ब्रह्म-वैवर्ते - यदि मां
प्राप्तुम् इच्छन्ति प्राप्नुवन्त्य् एव नान्यथा इति । तत्र श्री-व्रज-देवीनां सा
गतिः श्री-कृष्ण-सन्दर्भे सङ्गमितैवास्ति ।
मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते
दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥ [भ्प् 10.82.44]
इत्य्-आदि-बलेन वचनान्तराणाम् अर्थान्तर-स्थापनेन च । तथैव ताः प्रति
स्वयम् अभुपगच्छति ---
सङ्कल्पो विदितः साध्व्यो भवतिनां मदर्चनम् ।
मयानु-मोदितः सोऽसौ सत्यो भवितुम् अर्हति ॥
न मय्य् आवेशितधियां कामः कामाय कल्पते । (पगे 32)
भर्जिताः क्वथिता धाना प्रायो बीजाय नेष्यते ॥ [भ्प् 10.22.25-26]
मद्-अर्चनं पति-भाव-मय-मद्-आराधनात्मको भवतीनां सङ्कल्पो
विदितोऽनुमोदितश् च सन् सत्यः सर्वदा तादृश-मद्-अर्चनाव्यभिचारी
भवितुम् अर्हति युज्यते एव । स च परम-प्रेमवतीनां नान्यवत्
फलान्तरापेक्षः किन्तु स्वयम् एवास्वाद्यः । यतः न मय्य् आवेशित-धियाम्
इति । मय्य् आवेशित-धियाम् एकान्त-भक्त-मात्राणां कामो मद्-अर्चनात्मकः
सङ्कल्पः कामाय फलान्तराभिलाषाय न कल्पते, किन्तु स्वयम् एवास्वाद्यो
भवतीत्य् अर्थः ।
तत्रार्थान्तर-न्यासः भर्जिता इति । प्राय इति वितर्के । धाना भृष्ट-यवाः
ताः स्वरूपत एव भर्जिताः पुनः स्वाद-विशेषार्थं धृतेन वा भर्जिता
गुडादिभिः क्वथिताश् च सत्यो बीजाय बीजत्वाय नेशते न कल्पन्ते । यववत्
ताभिर् अन्य-यव-फलनं नेष्यते किन्तु ता एवास्वाद्यन्त इत्य् अर्थः । तस्मात्
तादृश-मद्-अर्चनम् एव भवतीनां परम-फलम् इति भावः । यच् च
विषय-महिम्ना शान्तिर् एवासां भविष्यतीति शान्तानाम् उत्प्रेक्षितम् । तच् च
ताभिः स्वयम् एवानुभूयान्य-विषयत्वेनैव इतर-राग-विस्मारणम् इत्य्
अनेन । श्री-कृष्ण-विषयत्वे तु तद्-अशान्तिर् एव दर्शिता सुरत-वर्धनम् इत्य्
अनेन ।
॥ 10.22 ॥ श्री-भगवान् व्रज-कुमारीः
[52]
तथा श्री-पट्ट-महिष्य्-आदीनां श्री-यादवादीनां च गतिस् तथैव
सङ्गमितास्ति । एते हि यादवाः सर्वे मद्-गणा एव भामिनि इत्य् आदि, रेमे
रमाभिर् निज-काम-सम्प्लुत [भ्प् 10.59.43] इत्य् आदि-वचन-बलेन । जयति
जननिवासः [भ्प् 10.90.48] इत्य्-आदि-स्फुटार्थ-दर्शनेन लीलान्तरस्यैन्द्र-
जालिकत्वात् । कूर्म-पुराण-गत-साक्षात्-सीता-हरण-प्रत्याख्यायि-मायिक-
सीता-हरणाख्यान-तुल्यत्व-स्थापनाय च । तथैव तदीय-नित्य-गण-
विशेषाणां श्रीमत्-पाण्डवानाम् अपि गतिर् व्याख्येया । तत्र श्रीमद्-
अर्जुनस्य, यथा-
एवं चिन्तयतो जिष्णोः कृष्ण-पाद-सरोरुहम् ।
सौहार्देनातिगाढेन शान्तासीद् विमला मतिः ॥
वासुदेवाङ्घ्र्य्-अनुध्यान- परिबृंहित-रंहसा ।
भक्त्या निर्मथिताशेष- कषाय-धिषणो ऽर्जुनः ॥
गीतं भगवता ज्ञानं यत् तत् सङ्ग्राम-मूर्धनि ।
काल-कर्म-तमो-रुद्धं पुनर् अध्यगमत् प्रभुः ॥
विशोको ब्रह्म-सम्पत्त्या सञ्छिन्न-द्वैत-संशयः ।
लीन-प्रकृति-नैर्गुण्याद् अलिङ्गत्वाद् असम्भवः ॥ [भ्प् 1.15.28-31}
शान्ता चेतसि चक्षुषीव भगवद्-आविर्भावेन दुःख-रहिता । अतएव विमला
तद्-वृत्ति-भूता ये कालुष-विशेषास् तैर् अपि रहिता । वासुदेवेत्य् आदिनोत्तर-
पद्य-द्वयेन तस्यैव विवरणम् । तत्रानुध्यानं पूर्वोक्ता चिन्तैव ।
कषायः पूर्वोक्तं मलम् एव । माम् एवैष्यसि [गीता 18.65] इत्य् अन्तम् । कालो
भगवल्-लीलेच्छा-मयः । कर्म तल्-लीला । तमस् तल्-लीलावेशेन तद्-
अनुसन्धानम् । अध्यगमत् तन्-महा-विच्छेदस्य तस्यान्तेऽपि तथा तत्-
प्राप्तः पुनर् माम् एवैष्यसि इत्य् एतद्-वाक्यं यथार्थत्वेनानुभूतवान् ।
ततश् च कृतार्थोऽभवद् इत्य् आह विशोक इत्य् आदि । ब्रह्म-सम्पत्त्या श्रीमन्-
नराकार-पर-ब्रह्म-साक्षात्कारेण । संछिन्न इयं (पगे 33) मम चेतसि
स्फूर्तिर् एव । साक्षात्कारस् त्व् अन्य इति द्वैते संशयो येन सः । तदा भगवत्-
प्राप्तौ नान्यवज्-जन्मान्तर-प्राप्ति-काल-सन्धिर् अप्य् अन्तरायोऽभवद् इत्य्
आह लीनेति । लीना पलायिता प्रकृतिर् गुण-कारणं यस्माद् एवम्भूतं यन्
नैर्गुण्यं तस्माद् धेतोः । गुण-तत्-कारणातीतत्वाद् इत्य् अर्थः । तथैव
अलिङ्गत्वात् प्राकृत-शरीर-रहितत्वाच् च । असम्भवो जन्मान्तर-रहितः ।
तस्माद् अनन्तरं चक्षुष्य्-आविर्भवतीत्य् एव विशेष इति भावः । अतः कलिं
प्रति श्री-परीक्षिद्-वचनं चाग्रे यस् त्वं दूरं गते कृष्णे सह गाण्डीव-
धन्वना [भ्प् 1.17.6] इति, एवं येऽध्यासनं राज-किरीट-जुष्टं सद्यो जहुर्
भगवत्-पार्श्व-कामाः [भ्प् 1.19.20] इति श्री-मुनि-वृन्द-वाक्यं च । तस्मात्
सर्वेषां पाण्डवानां तदीयानां च सैव गतिः व्याख्येया । श्री-विदुरादीनां
यम् अलोकादि-गतिश् च तत्-तद्-अंशेनैव स्व-स्वाधिकार-पालनार्थं लीलया
काय-व्यूहेनेति ज्ञेयम् । तद् इत्थम् एव श्री-भागवत-भारतयोर् अविरोधः
स्याद् इति ॥
॥ 1.15 ॥ श्री-सुतः
[53]
अथ श्री-परीक्षितो गतिश् च -
स वै महा-भागवतः परीक्षिद्
येनापवर्गाख्यम् अदभ्र-बुद्धिः ।
ज्ञानेन वैयासकि-शब्दितेन
भेजे खगेन्द्र-ध्वज-पाद-मूलम् ॥ [भ्प् 1.18.16] इत्य् अनेन दर्शिता ।
एवम् एवाहुः -
सर्वे वयं तावद् इहास्महे ऽथ
कलेवरं यावद् असौ विहाय ।
लोकं परं विरजस्कं विशोकं
यास्यत्य् अयं भागवत-प्रधानः ॥ [भ्प् 1.19.21]
लोक-शब्देन चात्र नान्यल् लक्ष्यते । भगवत्-पार्श्व-कामा इति तेषाम् एवोक्ति-
स्वारस्यात् । श्री-भागवत-प्रधान इति च । तस्माद् अन्ते चेद् ब्रह्म-कैवल्यं
मन्यते, तथापि क्रम-भगवत्-प्राप्ति-रीत्या तद्-अनन्तरं भगवत्-प्राप्तिस्
त्व् अवश्यं मन्येतैव । यथाजामिलस्य दर्शितम् ।
॥ 1.19 ॥ श्री-मुनयः
[54]
अथ सम्पद्यमानम् आज्ञाय भीष्मं ब्रह्मणि निष्कले [भ्प् 1.9.44] इत्य्
अत्रापि पूर्ववद् एव समाधानम् । किं वा निष्कल-ब्रह्म-शब्देन मायातीतो
नराकृति-पर-ब्रह्म-भूतः श्री-कृष्ण एवोच्यते । तस्मिन् सम्पद्यमानता
तत्-सङ्गतिर् एव । तथाह -
अधोक्षजालम्भम् इहाशुभात्मनः
शरीरिणः संसृति-चक्र-शातनम् ।
तद् ब्रह्म-निर्वाण-सुखं विदुर् बुधास्
ततो भजध्वं हृदये हृद्-ईश्वरम् ॥ [भ्प् 7.7.37]
हृदये वर्तमानं हृदि भजध्वम् ।
॥ 7.7 ॥ श्री-प्रह्लादोऽसुर-बालकान्
[55]
सा च कृत-सङ्गतिस् तस्य प्रापञ्चिकागोचरतयापि कृष्ण-रूपेणैवानन्तधा-
प्रकाशमानस्य श्री-कृष्णस्यैव प्रकाशान्तरे सम्भवेत् । अन्यथा विजय-
सखे रतिर् अस्तु मेऽनवद्या [भ्प् 1.9.33] इति सङ्कल्पानुरूपा फल-प्राप्तिर्
विरुध्येत ।
अथ श्री-पृथोर् गतिर् अपि श्री-परीक्षिद्वद् एव व्याख्येया । तस्यापि ब्रह्म-
धारणान्तरं ब्रह्म-कैवल्य-विलक्षणां श्री-कृष्ण-लोक-प्राप्तिम् एव तद्-
भार्याया अर्चिषो गति-दर्शनया सूचयन्ति -
अहो इयं वधूर् धन्या या चैवं भू-भुजां पतिम् ।
सर्वात्मना पतिं भेजे यज्ञेशं श्रीर् वधूर् इव ॥
सैषा नूनं व्रजत्य् ऊर्ध्वम् अनु वैन्यं पतिं सती ।
पश्यतास्मान् अतीत्यार्चिर् दुर्विभाव्येन कर्मणा ॥ [भ्प् 4.23.25-26] (पगे 34)
टीका च -
त्रयोविंशे सभार्यस्य वने नित्य-समाधितः ।
विमानम् अधिरुह्याथ वैकुण्ठ-गतिर् ईर्यते ॥ इत्य् एषा ॥
॥ 4.2 ॥ देव्यः परस्परम्
[56]
श्री-भागवतस्यान्ते भक्ति-निष्ठाया एव सूचितत्वात् नान्या गतिश् चिन्त्या ।
यथा तम् उद्दिश्य तत्रापि इत्य् आदि गद्ये -- भगवतः कर्म-बन्ध-
विध्वंसन-श्रवण-स्मरण-गुण-विवरण-चरणारविन्द-युगलं मनसा
विदधद् [भ्प् 5.9.1] इत्य् आदि । स्पष्टम् ॥
॥ 5.9 ॥ श्री-शुकः
[57]
रहूगण-महिमानम् उद्दिश्य च - एवं हि नृप भगवद्-
आश्रिताश्रितानुभावः [भ्प् 5.13.25] इति स्पष्टम् ।
॥ 5.13 ॥ श्री-शुकः
[58]
यो दुस्त्यज [भ्प् 5.14.44] इत्य् आदौ मधुद्विट्-
सेवानुरक्त-मनसाम् अभवो ऽपि फल्गुः इति च । स्पष्टम् ।
॥ 5.14 ॥ श्री-शुकः
[59]
अतो विष्णु-पुराणाद्य्-उक्ता ज्ञानि-भरताद्याः कल्प-भेदेनान्ये एव ज्ञेया ।
अधनो ऽयं धनं प्राप्य माद्यन्न् उच्चैर् न मां स्मरेत् ।
इति कारुणिको नूनं धनं मे ऽभूरि नाददात् ॥ [भ्प् 10.81.20]
अभूर्य् अपि । यथा च -
नूनं ब्1अतैतन्-मम दुर्भगस्य
शश्वद् दरिद्रस्य समृद्धि-हेतुः
महा-विभूतेर् अवलोकतो ऽन्यो
नैवोपपद्येत यदूत्तमस्य ॥ [भ्प् 10.81.33] इत्य् अनन्तरम्,
नन्व् अब्रुवाणो दिशते समक्षम् [भ्प् 10.81.34] इत्य् आदिकं, किञ्चित् करोत्य् उर्व्
अपि यत् स्वदत्तम् [भ्प् 10.81.35] इत्य् आदिकं चोक्त्वा तद्-गुणोद्दीपित-प्रीतिर् आह
तस्यैव मे सौहृद-सख्य-मैत्री-
दास्यं पुनर् जन्मनि जन्मनि स्यात्
महानुभावेन गुणालयेन
विषज्जतस् तत्-पुरुष-प्रसङ्गः ॥ [भ्प् 10.81.36]
निरुपाधिकोपकार-मयं सौहृदम् । सह-विहारितामयं तद् एव सख्यम् ।
मैत्री स्निग्धत्वम् । दास्यं सेवकत्व-मात्रम् अपि स्यात् । द्वन्द्वैक्यम् ।
महानुभावेन तेनैव । अतएव सा सम्पत्तिर् अपि भगवत्-सेवार्थम् एव तेन
नियुक्तेत्य् आयातम् ।
॥ 10.81 ॥ श्रीदाम-विप्रः ॥ 59-60 ॥
[61]
तद् एवं भगवत्-प्रीतेर् एव परम-पुरुषार्थता स्थापिता । अथ तस्याः
स्वरूप-लक्षणं श्री-विष्णु-पुराणे प्रह्लादेनातिदेश-द्वारा दर्शितम् -
या प्रीतिर् अविवेकानां विषयेष्व् अनपायिनी ।
त्वाम् अनुस्मरतः सा मे हृदयान् नापसर्पतु ॥ [विप् 1.20.19] इति ।
या यल्-लक्षणा सा तल्-लक्षणा इत्य् अर्थः । न तु या सैवेति वक्ष्यमाण-
लक्षणैक्यात् । तथापि - पूर्वस्या माया-शक्ति-वृत्तिमयत्वेन उत्तरस्याः
स्वरूप-शक्ति-मयत्वेन भेदात् । एतद् उक्तं भवति - प्रीति-शब्देन खलु
मृत्-प्रमोद-हर्सानन्दादि-पर्यायं सुखम् उच्यते । भाव-हार्द-
सौहृदादि-पर्याया प्रियता चोच्यते । तत्र उल्लासात्मको ज्ञान-विशेषः
सुखम् । तथा विषयानुकूल्यात्मकस् तद्-आनुकूल्यानुगत-तत्-स्पृहा-तद्-
अनुभव-हेतुकोल्लास-मय-ज्ञान-विशेषः प्रियता । अतएवास्यां सुखत्वेऽपि
पूर्वतो वैशिष्ट्यम् । तयोः प्रतियोगिणौ च क्रमेण दुःख-द्वेषौ । अतः
सुखस्य उल्लास-मात्रात्मकत्वाद् आश्रय एव (पगे 35) विद्यते, न तु विषयः ।
एवं तत्-प्रतियोगिनो दुःखस्य च प्रियतायास् त्व् आनुकूल्य-स्पृहात्मकत्वाद्
विषयश् च विद्यते । एवं प्रातिकूल्यात्मकस्य तत्-प्रतियोगिनो द्वेषस्य च । तत्र
सुख-दुःखयोर् आश्रयौ सुष्ठु-दुष्ट-कर्माणौ जीवौ । प्रियता-द्वेषयोर्
आश्रयौ प्रीयमाण-द्विषन्तौ विषयौ च तत्-प्रिय-द्वेष्यौ । तत्र प्रीत्य्-
अर्थानां क्रियाणां विषयस्याधिकरणत्वम् एव दीप्त्य्-अर्थवत् ।
द्वेषार्थानां तु विषयस्य कर्मत्वं हन्त्य् अर्थवत् । एतद् उक्तं भवति
कर्तुर् ईप्सिततमं खलु कर्म । ईप्सिततमत्वं च या क्रियारभ्यते साक्षात्
तयैव साधयितुम् इष्टतमत्वम् ।
साधनं चोत्पाद्यत्वेन विकार्यत्वेन संस्कार्यत्वेन प्राप्यत्वेन च
सम्पादनम् इति चतुर्विधम् । तस्माद् अन्तर्भूतण्य् अर्थो घो धातुः स एव
स-कर्मकः स्यात्, नान्यः । यथा घटं करोतीत्य् उक्ते घटे उत्पद्यते तम्
उत्पादयतीति गम्यते । तण्डुलं पचतीति तण्डुलो विक्लिद्यति तं विक्लेदयतीत्य्
आदि । सत्ता-दीप्त्य्-आदीनां तु न तादृशत्वं गम्यत इत्य् अकर्मकत्वम् एवेति ।
न च प्रीतेर् ज्ञान-रूपत्वेन सकर्मकत्वम् आशङ्क्यम् । चेतति-प्रभृतीनां
तद्-विनाभाव-दर्शनात् । अतो ब्रह्म-ज्ञानवद् भूत-रूपोऽयम् अर्थो, न च
यज्ञादि-ज्ञानवद् भव्य-रूपो विधि-सापेक्ष इति सिद्धम् ।
तद् एवं प्रीति-शब्दस्य सुख-पर्यायत्वे प्रियता-पर्यार्थत्वे च स्थिते या
प्रीतिर् अविवेकानाम् इत्य् अत्र तूत्तरत्रत्वम् एव स्पष्टम् । न पूर्वत्वम् ।
पूर्वत्वे सति विषयेष्व् अनुभूयमानेषु या प्रीतिः सुखम् इत्य् अर्थः ।
उत्तरत्वे तु विषयेषु या प्रीतिः प्रियतेत्य् अर्थः । ततश् चानुभूयमानेष्व् इत्य्
अध्याहार-कल्पनया क्लिष्टा प्रतिपत्तिर् इति ।
तद् एवं पुत्रादि-विषयक-प्रीतेस् तद्-आनुकूल्याद्य्-आत्मकत्वेन भगवत्-
प्रीतेर् अपि तथाभूतत्वेन समान-लक्षणत्वम् एव । तत्र पूर्वस्या माया-
शक्ति-वृत्तिमयत्वम् इच्छा द्वेषः सुखं दुःखम् [गीता 13.6] इत्य् आदिना श्री-
गीतोपनिषद्-आदौ व्यक्तम् अस्ति । उत्तरस्यास् तु स्वरूप-शक्ति-वृत्तिमयत्वम्
अन्तिके दर्शयिष्यामः । तस्मात् साधु व्याख्यातं या यल्-लक्षणा सा तल्-
लक्षणा इति । इयम् एव भगवत्-प्रीतिर् भक्ति-शब्देनाप्य् उच्यते परमेश्वर-
निष्ठत्वात् पित्रादि-गुरु-विषयक-प्रीतिवत् ।
अतएव तद्-अव्यवहित-पूर्व-पद्ये भक्ति-शब्देनैविपादाय प्रार्थितासौ
नाथ योनि-सहस्रेष्व् [विप् 1.20.18] इत्य् आदौ । अत्र या प्रार्थिता, सैव हि
स्वरूप-निर्देश-पूर्वकम् उत्तर-श्लोकेन या प्रीतिर् इत्य् आदिना विविच्य
प्रार्थिता । अतएव न पौनरुक्त्यम् अपि । अतो द्वयोर् ऐक्याद् एव श्रीमत्-
परमेश्वरेणाप्य् अनुगृह्णता तयोर् एकयोक्त्यैवानुभाषितम् भक्तिर् मयि
तवास्त्य् एव भूयोऽप्य् एवं भविष्यति [विप् 1.20.20] इति ।
तयोर् भेदे तु तद्वत् प्रीतिर् अप्य् अनुभाष्येत । अतएव हे माप लक्ष्मीपते सा
विषय-प्रीतिर् मम हृदयात् सर्पतु पलायताम् इति विरक्ति-प्रार्थना-
मयोऽर्थोऽपि न सङ्गच्छते । तस्या अप्य् अनुभाषणाभावात् नापसर्पत्व् इति
प्रसिद्ध-पाठान्तर्-विरोधाच् च । ततस् तद्-भक्तेर् अपि तत्-प्रीति-पर्यायत्वे
स्थितेऽपि प्रीणातिवन् न भजतिः सर्व-प्रत्ययान्त एव प्रीतिं [दृष्ट्वा] वदति
प्र्योगादर्शनात् [प्रयोग-दर्शनात्] । प्रयोगस् तु क्तिन्-क्त-प्रत्ययान्त एव
दृश्यते । यदा च प्रीत्य्-अर्थ-वृत्तिस् तदा प्रीणातिवद् अकर्मक एव भवतीति ।
तद् एवं विषय-प्रीति- (पगे 36) दृष्टान्तेन श्री-भगवद्-
विषयानुकूल्यात्मकस् तद्-अनुगत-स्पृहादिमयो ज्ञान-विशेषस् तत्-प्रीतिर् इति
लक्षितम् । विषय-माधुर्यानुभववत् भगवन्-माधुर्यानुभवस् तु
ततोऽन्यः । अतएव भक्तिर् विरक्तिर् भगवत्-प्रबोधः [भ्प् 11.2.43] इति
भेदेनाम्नातम् ।
भक्त्या त्व् अनन्यया शक्य अहम् एवंविधो ऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ [गीत 11.54]
अथैनं भगवत्-प्रीतिं साक्षाद् एव लक्षयति सार्धेन -
देवानां गुण-लिङ्गानाम् आनुश्रविक-कर्मणाम् ।
सत्त्व एवैक-मनसो वृत्तिः स्वाभाविकी तु या ॥
अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी ॥ [भ्प् 3.25.32]
पूर्वं श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति [भ्प् 3.25.25] इत्य् उक्तम् । अत्र
यद्यपि रति-भक्त्योर् द्वयोर् अपि तारतम्य-मात्र-भेदयोः प्रीतित्वम् एव
तथापि प्रीत्य्-अतिशय-लक्षणायां प्रेमाख्यायां भक्तौ तद् अतिस्फुटं स्याद्
इति कृत्वा भक्ति-पदेन ताम् उपादाय लक्षयति । अर्थश् चायम् - गुण-
लिङ्गानां गुण-त्रयोपाधीनाम् । आनुश्रविकं श्रुति-पुराणादिगम्यं
कर्माचरितं येषां ते तथोक्ताः । तेषां देवानां श्री-विष्णु-ब्रह्म-शिवानां
मध्ये सत्त्वे सान्निध्य-मात्रेण सत्त्व-गुणोपकारके स्वरूप-शक्ति-वृत्ति-
भूत-शुद्ध-सत्त्वात्मके वा श्री-विष्णौ । एतच् चोपलक्षणम् । श्री-भगवद्-
आद्य्-अनन्ताविर्भावेष्व् एकस्मिन्न् अपीत्य् अर्थः । एव-कारेण नेतरत्र न च
तत्रापि चेतरत्रापि च । एक-मनसः पुरुषस्य या वृत्तिस् तद्-आनुकूल्यात्मको
ज्ञान-विशेषः । अनिमित्ता फलाभिसन्धि-शून्या । स्वाभाविकी स्वरसत एव
विषय-सौन्दर्याद् अयत्नेनैव जायमाना न च बलाद् आपाद्यमाना । सा
भाग-घती भक्तिः प्रीतिर् इत्य् अर्थः । प्रीति-सम्बन्धाद् एवान्यस्या भक्तेः
स्वाभाविकत्वं स्यात् । तस्माद् वृत्ति-शब्देन प्रीतिर् एवात्र मुख्यत्वेन
ग्राह्येति । सा च सिद्धेर् मोक्षाद् गरीयसी इति । सालोक्य-सार्ष्टि इत्य् आदि
श्रवणात् । अतएव ज्ञान-साध्यस्यापि तिरस्कार-प्रसिद्धेर् ज्ञान-मात्र-
तिरस्कारार्थ-सिद्धेर् ज्ञानाद् इति व्याख्यानम् असदृशम् । अत्र मोक्षाद्
गरीयस्त्वत्वेन तस्या वृत्तेर् गुणातीतत्वं ततोऽपि घन-परमानन्दत्वं च
दर्शितम् ।
॥ 3.25 ॥ श्री-कपिल-देवः
[62]
अथ तद् एव गुणातीतत्वादिकं दर्शयितुं पुनः प्रक्रिया । तत्र तस्यां
भगवत्-सम्बन्धि-ज्ञान-रूपत्वेन तत्-सम्बन्धि-सुख-रूपत्वेन च
गुणातीतत्वं श्री-भगवतैव दर्शितम् --
कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् ।
प्राकृतं तामसं ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम् ॥ [भ्प् 11.25.24] इति ।
सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोह-दैन्योत्थं निर्गुणं मद्-अपाश्रयम् ॥ [भ्प् 11.25.29] इति च ।
एवम् एव च श्री-प्रह्लादस्य सर्वाध-धूनन-ब्रह्मानुभवानन्तरं
परम-प्रेमोदयो दर्शितः । तथास्याः स्वाभाविकानिमित्त-तद्-भक्ति-
रूपत्वेन च निर्गुणत्वं सिद्धम् अस्ति । मद्-गुण-श्रुति-मात्रेण [भ्प् 3.29.11]
इत्य् आदि श्री-कपिल-देव-वाक्येन । एतद्-अनन्तरं च सालोक्य इत्य्-आदि-पद्ये
सर्वाभ्योऽपि मुक्तिभ्यः परमानन्द-रूपत्वं दर्शितम् । अन्येषु च तस्याः
परम-पुरुषार्थता-निर्णय-वाक्येषु परितस् तद् एव व्यक्तम् । तत्र यथा
वर्ण-विधानम् [भ्प् 5.19.18] इत्य् आदि-गद्ये तस्या अपवर्गत्व-निर्देशेन
गुणातीतत्वं नियत्वं च दर्शितम् । मुक्तिं ददाति कर्हिचिद् इत्य् आदौ मुक्ति-
दानम् अतिक्रम्यापि भगवत्-प्रसाद-विशेषमयत्वेन तत् त्रयम् । (पगे 37)
वरान् विभो [भ्प् 4.20.23] इत्य् आदि-द्वयेऽपि कथं वृणीते गुण-विक्रियात्मनाम्
इत्य् अत्रागुण-विकारत्वं तत एव नित्यत्वम् । न कामये नाथ [भ्प् 4.20.24] इत्य्
आदौ ततोऽप्य् आनन्दातिशयो दर्शितः । यस्यां वै श्रूयमानायाम् [भ्प् 1.7.7]
इत्य् आदौ परमार्थ-वस्तु-पर्तिपादक-श्री-भागवतस्य फलत्वेनापि तत्
त्रयम् । तत्रैवात्मारामाणाम् अपि तत्-सुख-श्रवणेन ताद्-दार्ढ्यम् ।
मायातीत-वैकुण्ठादि-वैभव-गतानां तत्-पार्षदानां तच्-छ्रवणेन तु
किम् उत । तथैव तुष्टे च तत्र [भ्प् 7.8.42] इत्य् आदौ, किं तैर् गुण-व्यतिकराद्
इह ये स्वसिद्धाः धर्मादयः इत्य् उक्त्वा गुणातीतत्वं, किम् अगुणेन च
काङ्क्षितेन इत्य् उक्त्वा मोक्षाद् अपि परमानन्द-रूपत्वं दर्शितम् ।
प्रत्यानीता [भ्प् 7.8.42] इत्य् अत्रान्यस्य काल-ग्रस्तत्वम् उक्त्वा मुक्तेस् तस्याश्
चाकाक-ग्रस्तत्वेन साम्येऽपि तस्या आनन्दाधिक्यम् उक्तम् । एवं नात्यन्तिकं
विगणयन्ति [भ्प् 3.15.48] इत्य् आदौ, मत्-सेवया प्रतीतं ते [भ्प् 9.4.67] इत्य् आदौ,
या निर्वृतिस् तनु-भृताम् [भ्प् 4.9.10] इत्य् आदि श्री-ध्रुव-वाक्येऽपि योज्यम् ।
सर्वम् एतत् यस्याम् एव कवयः [भ्प् 5.6.17] इत्य् आदि-गद्ये व्यक्तम् अस्ति ।
तत्रैव तया परया निर्वृत्या इत्य् अनेन साक्षाद् एव तस्या मोक्षाद् अपि
परमत्वम् आनन्दैक-रूपत्वं च निगदेनैवोक्तम् अस्ति । किं बहुना
परमानन्दैक-रूपस्य सर्वानन्द-कदम्बावलम्बस्य श्री-भगवतोऽप्य्
आनन्द-चमत्कारिता तस्याः प्रीतेः श्रूयते । यथोक्तं -प्रीतः स्वयं प्रीतिम्
अगाद् गायस्य [भ्प् 5.15.13] इति ।
अथा चाह-
अहं भक्त-पराधीनो ह्य् अस्वतन्त्र इव द्विज
साधुभिर् ग्रस्त-हृदयो भक्तैर् भक्त-जन-प्रियः
यथा ह्य् अस्वतन्त्रो जीवः पराधीनो भवति तथैवाहं स्वतन्त्रोऽपि भक्त-
पराधीन इत्य् अर्थः । तत्र हेतुः भक्त-ज्नेषु प्रियः तत्-प्रीति-
लाभेनातिप्रीतिमान् ।
[63]
भगवद्-आनन्दः खलु द्विधा -- स्वरूपानन्दः स्वरूप-शक्त्य्-आनन्दश्
च । अन्तिमश् च द्विधा - मानसानन्द ऐश्वर्यानन्दश् च । तत्रानेन
तदीयेषु मानसानन्देषु भक्त्य्-आनन्दस्य साम्राज्यं दर्शितम् ।
स्वरूपानन्देषु ऐश्वर्यानन्देषु चाह पद्याभ्याम् -
नाहम् आत्मानम् आशासे मद्-भक्तैः साधुभिर् विना ।
श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिर् अहं परा ॥ [भ्प् 9.4.64]
नाशासे न स्पृहयामि ॥
॥ 9.4 । श्री-विष्णुर् दुर्वाससम् ॥ 62-63 ॥
[64]
तथैव भक्त-श्रेष्ठत्वेन श्रीमद्-उद्धवं लक्ष्यीकृत्याह -
न तथा मे प्रियतम आत्म-योनिर् न शङ्करः ।
न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् ॥ [भ्प् 11.14.15]
यथा भक्तत्वातिशय-द्वारा भवान् मे प्रियतमः तथात्म-योनिर् ब्रह्मा
पुत्रत्व-द्वारा न प्रियतमः । न च शङ्करो गुणावतारत्व-द्वारा, न च
सङ्कर्षणो भ्रातृत्व-द्वारा । न च श्रीर् जायात्व-व्यवहार-द्वारा । न चात्मा
परमानन्द-घन-स्वरूपता-द्वारेत्य् अर्थः ।
॥ 11.14 ॥ श्री-भगवान्
[65]
अथ श्रुतौ -- भक्तिर् एवैनं नयति, भक्तिर् एवैनं दर्शयति भक्ति-वशः
पुरुषो भक्तिर् एव भूयसी इति श्रूयते । तस्माद् एवं विविच्यते । या चैवं
भगवन्तं स्वानन्देन मदयति सा (पगे 38) किं लक्षणा स्याद् इति । न तावत्
साङ्ख्यानाम् इव प्राकृत-सत्त्व-मय-मायिकानन्द-रूपा । भगवतो
मायानभिभाव्यत्व-श्रुतेः स्वतस्-तृप्तत्वाच् च । न च निर्विशेष-वादिनाम् इव
भगवत्-स्वरूपानन्द-रूपा, अतिशयानुपपत्तेः । अतो नतरां जीवस्य
स्वरूपानन्द-रूपा, अत्यन्त-क्षुद्रत्वात् तस्य । ततो --
ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्व-संश्रये ।
ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ इति [विप् 1.12.69]
इति विष्णु-पुराणानुसारेण ह्लादिन्य्-आख्य-तदीय-स्वरूप-शक्त्य्-आनन्द-रूपर्
वेत्य् अवशिष्यते । यया खलु भगवान् स्वरूपानन्दम् अनुभवति । यद्
आनन्देनानन्द-विशेषी-भवति । ययैवं तं तम् आनन्दम् अन्यान् अप्य्
अनुभावयतीति ।
अथ तस्या अपि भगवति सदैव वर्तमानतयातिशयानुपपत्तेस् त्व् एवं
विवेचनीयम् । श्रुतार्थान्यथानुपपत्त्य्-अर्थापत्ति-प्रमाण-सिद्धत्वात् तस्या
ह्लादिन्या एव कापि सर्वानन्दातिशायिनी वृत्तिर् नित्यं भक्त-वृन्देष्व् एव
निक्षिप्यमाणा भगवत्-प्रीत्य्-आख्यया वर्तते । अतस् तद्-अनुभवेन श्री-
भगवान् अपि श्रीमद्-भक्तेषु प्रीत्य्-अतिशयं भजत इति । अतएव तत्-सुखेन
भक्त-भगवतोः परस्परम् आवेशम् आह -
साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् ।
मद्-अन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि ॥ [भ्प् 9.4.68]
मह्यं मम । हृदयेन स्वस्य सामानाधिकरण्ये बीजम् आह मद्-अन्यद्
इति । अत्यन्तावशेनैकतापत्त्या ज्वलल्-लोहादाव् अग्नि-व्यपदेशवद् अत्राप्य्
अभेद-निर्देश इत्य् अर्थः ।
॥ 9.4 ॥ श्री-विष्णुर् दुर्वाससम्
[66]
तेनैव परस्परं वशवर्तित्वम् आह-
अजित जितः सम-मतिभिः; साधुभिर् भवान् जितात्मभिर् भवता ।
विजितास् ते ऽपि च भजताम्; अकामात्मनां य आत्मदो ऽति-करुणः ॥ [भ्प् 6.16.34]
टीका च-हे अजित अन्यैर् अजितोऽपि भवान् साधुभिर् भक्तैर् जितः । स्वाधीन
एव कृतः । यतो भवान् अतिकरुणः । तेऽपि च निष्कामा अपि भवता विजिताः । यो
भवान् अकामात्मनाम् आत्मानम् एव ददाति इत्य् एषा ।
हरि-भक्ति-सुधोदये च प्रह्लादं प्रति श्री-मुख-वाक्यम् -
स-भयं सम्भ्रमं वत्स मद्-गौरव-कृतं त्यज ।
नैष प्रियो मे भक्तेषु स्वाधीन-प्रणयी भव ॥
अपि मे पूर्ण-कामस्य नवं नवम् इदं प्रियम् ।
निःशङ्क-प्रणयाद् भक्तो यन् मां पश्यति भाषते ॥
सदा मुक्तोऽपि बद्धोऽस्मि भक्तेषु स्नेह-रज्जुभिः ।
अजितोऽपि जितोऽहन्तैर् अवश्योऽपि वशीकृतः ॥
त्यक्त-बन्धु-जन-स्नेहो मयि यं कुरुते रतिम् ।
एकस् तस्यास्मि स च मे न चान्योऽस्त्य् आवयोः सुहृत् ॥
तस्मात् साधु व्याख्यातम् भगवत्-प्रतीति-रूपा वृत्तिर् मायादिमयी न
भवति । किं तर्हि स्वरूप-शक्त्य्-आनन्द-रूपा यदानन्द-पराधीनः श्री-
भगवान् अपीति । यथा च श्रीमती गोपालोत्तर-तापनी श्रुतिः - विज्ञान-घन
आनन्द-घनः सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति [ग्तु 2.79] इति ।
॥ 6.16 ॥ चित्रकेतुः श्री-सङ्कर्षणम्
(पगे 39)
[67]
तद् एवं तस्याः स्वरूप-लक्षणम् उक्तम् । तटस्थ-लक्षणम् अप्य् आह --
स्मरन्तः स्मारयन्तश् च मिथो ऽघौघ-हरं हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥ [भ्प् 11.3.31]
स्पष्टम् ।
॥ 11.3 ॥ श्री-प्रबुद्धो निमिम्
[68]
तथा -
कथं विना रोम-हर्षं द्रवता चेतसा विना ।
विनानन्दाश्रु-कलया शुध्येद् भक्त्या विनाशयः ॥ [भ्प् 11.14.23]
टीका च - रोमहर्षादिकं विना कथं भक्तिर् गम्यते भक्त्या च विना
कथम् आशयः शुद्धेद् इत्य् एषा ।
॥ 11.14 ॥ श्री-भगवान्
[69]
तद् एवं प्रीतेर् लक्षणं चित्त-द्रवस् तस्य च श्री-रोमहर्षादिकम् ।
कथञ्चिज्-जातेऽपि चित्त-द्रवे रोमहर्षादिके वा न चेद् आशय-शुद्धिस् तदापि
न भक्तेः सम्यग्-आविर्भाव इति ज्ञापितम् । आशय-शुद्धिर् नाम चान्य-
तात्पर्य-परित्यागः प्रीति-तात्पर्यं च । अतएव अनिम्त्ता स्वाभाविकी [भ्प्
3.25.23] च इति तद्-विशेषणम् । यथाहाक्रूरम् उद्दिश्य-
देहं-भृताम् इयान् अर्थो हित्वा दम्भं भियं शुचम् ।
सन्देशाद् यो हरेर् लिङ्ग- दर्शन-श्रवणादिभिः ॥ [भ्प् 10.38.27]
टीका च-ननु किम् अर्थम् एवं व्यलुठत् । नास्ति प्रेम-संरम्भे फ्लोद्देश
इत्य् आह देहंभृताम् इति । देह-भाजाम् एतावान् एव पुरुषार्थः । कंसस्य
सन्देशम् आरभ्य हरेः लिङ्ग-दर्शन-श्रवणादिभिर् योऽयम् अक्रूरस्य
वर्णितः इत्य् एषा ।
अत्र दम्भं शुचं भयं हित्वा योऽयं जात इति योजनिकया चैवं गम्यते ।
यथाक्रूरस्य तत्र दम्भो नासीत् । न मय्य् उपैष्यन्य् अरि-बुद्धिम् अच्युत
[भ्प् 10.38.18] इत्य्-आदि-चिन्तनात् । तथान्तः-सुखान्तर-तात्पर्य-लक्षणो यदि
दम्भो न स्यात्, यथा च कंस-प्रतापितो यो बन्धु-वर्गः, तत्
प्रतापयितव्यश् च यः तस्य तस्य हेतोर् निज-कुल-रक्षावतीर्ण-श्री-कृष्ण-
पुरतो व्यञ्जितः शोको भीश् च तादृशावेशे हेतुर् नासीत् । तद्-दर्शनाह्लाद
[भ्प् 10.38.26] इत्य् आद्य्-उक्तेः । प्रेम-विभिन्न-धैर्यः
॥ 10.38 ॥ श्री-शुकः
[70]
लौकिक-शुद्ध-प्रीति-निदर्शनेनापि स्वयं तथैव द्रढयति-
मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते ।
न तत्र सौहृदं धर्मः स्वार्थार्थं तद्द् हि नान्यथा ॥
भजन्त्य् अभजतो ये वै करुणाः पितरो यथा ।
धर्मो निरपवादो ऽत्र सौह्र्दं च सुमध्यमाः ॥ [भ्प् 10.32.17-18]
स्पष्टम् ।
[71]
ततोऽपि स्व-प्रीतेर् वैशिष्ट्यम् आह-
नाहं तु सख्यो भजतो ऽपि जन्तून्
भजाम्य् अमीषाम् अनुवृत्तिवृत्तये ।
यथाधनो लब्ध-धने विनष्टे
तच् चिन्तयान्यन् निभृतो न वेद ॥ [भ्प् 10.32.20]
भजन्त्य् अभजत इत्य् अत्र न करुणादीनां दयनीयादि-कर्तृक-
प्रीत्यास्वाकापेक्षा । तथा दयनीयादीनां करुणादि-विषया या प्रीतिः सा
करुणादि-भजन-जीवना स्याद् इत्य् आयाति । अत्र तु श्री-कृष्णस्य स्व-भक्तेषु
स्व-प्रेमातिशयोदये प्रयत्नः । तद्-उदये च सति तद्-आस्वादाद् भक्त-
विषयक-प्रेम-चमत्कारोऽतिशयेन स्याद् इति तद्-भक्तानां च तत्-
कृतौदासीन्येऽपि प्रेम्नोर् एव वृद्धिः स्याद् इति वैशिष्ट्यम् आगतम् ।
॥ 10.32 ॥ श्री-भगवान् व्रज-देवीः ॥ 70-71 ॥
(पगे 40)
[72]
सा च शुद्धा प्रीतिः श्रीमतो वृत्रस्य दृश्यते । यथा -
अहं हरे तव पादैक-मूल-
दासानुदासो भवितास्मि भूयः ।
मनः स्मरेतासु-पतेर् गुणांस् ते
गृणीत वाक् कर्म करोतु कायः ॥ [भ्प् 6.11.24]
न नाक-पृष्ठम् [भ्प् 6.11.25] इत्य् आदि ।
अजात-पक्षा इव मातरं खगाः
स्तन्यं यथा वत्सतराः क्षुध्-आर्ताः ।
प्रियं प्रियेव व्युषितं विषण्णा
मनो ऽरविन्दाक्ष दिदृक्षते त्वाम् ॥
ममोत्तमश्लोक-जनेषु सख्यं
संसार-चक्रे भ्रमतः स्व-कर्मभिः ।
त्वन्-माययात्मात्मज-दार-गेहेष्व्
आसक्त-चित्तस्य न नाथ भूयात् ॥ [भ्प् 6.11.26-27]
अजातेति अत्राजात-पक्षा इत्य् अनेनानन्याश्रयत्वं तद्-अनुगमनासमर्थत्वं
च । तथा तत्-सहितेन मातरम् इत्य् अनेन अनन्य-स्वाभाविक-दयालुत्वं
तदीय-दयाधिक्यं च व्यञ्जितम् । तेन तेन च मातरि तेषाम् अपि प्रीत्य्-
अतिशयो दर्शितः । ततस् तत्-साम्येन तद्वद् आत्मनोऽपि भगवति प्रीत्याधिक्य-
हेतुका दिदृक्षा व्यञ्जिता । तथापि तन्-मात्रा यद् वस्त्व्-अन्तरम् उपक्रियते तद्
एव तेषाम् उपजीव्यम् आस्वाद्यं चेति केवल-तन्-निष्ठत्वाभावाद् अपरितोषेण
दृष्टान्तरम् आह स्तन्यम् इति । अत्र दिदृक्षा-योजनार्थं मातरम् इत्य्
एवानुवर्तयितव्ये स्तन्यम् इत्य् उक्तिस् तस्यास् तैस् तद्-अंशतया च तद्-अभेद-
विवक्षार्था । ततः स्तन्यं स्तन्य-रूप-तद्-अंशमयीं मातरम् इत्य् एव
लब्धे तादृशी मातैव तैर् उपजीव्यते आस्वाद्यते चेति पूर्वतः श्रैष्ठ्यं
दर्शितम् । तथा वत्सतरा अत्यन्त-बाल-वत्सास् तत एव स्वामि-बद्धतया तद्-
अनुगतावसमर्था इति साधारण्येऽपि बहु-समयातिक्रमात् क्षुधार्ताइत्य्
अनेन पूर्वतो वैशिष्ट्यम् । तथा गो-जातेः स्नेहातिशय-स्वाभाव्येन च तद्-
अनुसन्धेयम् ।
अथ तथाप्य् उत्तर-दृष्टान्ते स्तन्य-गवोः कार्य-कारण-भावेन भेदं
वितर्क्य-दृष्टान्त-द्वयेऽप्य् अजात-पक्षत्वादि-विशेषणैर् आयत्यां तादृश-
प्रीतेर् अस्थिरतां चालोक्य दृष्टान्तान्तरम् आह प्रियम् इति । सत्स्व् अपि
वाचकान्तरेषु तयोः प्रिय-शब्देनैव निर्देशात् स्वाभाविकाव्यभिचारि-
प्रीतिमन्ताव् एव तौ गृहीतौ । यत्र वार्धक्ये बाल्येऽपि सह-मरणादिकं
दृश्यते ततस् तादृशी कापि प्रिया यथा तादृशं प्रियं व्युषितं विदूर-प्रोषितं
सन्तम् अनन्योपजीवित्वेन विषण्णा सती दिदृक्षते लोचन-द्वारा तद् आस्वादाय
भृशम् उत्कण्ठते, तथा मम मनोऽपि त्वाम् इत्य् अर्थः । अत्र
दार्ष्टान्तिकेऽपि स्व-कर्तृत्वम् अनुक्त्वा मनः-कर्तृत्वोल्लेखेनाबुद्धि-
पूर्वक-प्रवृत्ति-प्राप्तौ प्रीतेः स्वाभाविकत्वेनाव्यभिचारित्वं व्यक्तम् ।
तथारविन्दाक्षेति मनसो भ्रमर-तुल्यासूचनेन भगवतः परम-
मधुरिमोल्लेखेन च तस्यैवोपजीव्यत्वम् आस्वाद्यत्वं च दर्शितम् ।
अथ तद्-दर्शन-भाग्यं स्वस्यासम्भवयन्न् इदम् अपि मम स्याद् इति स-
बाष्पम् आह ममोत्तमेति । तद् एतच् छुद्ध-प्रेमोद्गारमयत्वेनैव
श्रीमद्-वृत्र-वधोऽसौ विलक्षणत्वाच् छ्री-भागवत-लक्षणेषु
पुराणान्तरेषु गण्यते । वृत्रासुर-वधोपेतं तद् भागवतम् इष्यते [अग्निप्]
इति ।
॥ 6.11 ॥ श्री-वृत्रः
[73]
तस्मात् केवल-तन्-माधुर्य-तात्पर्यत्वेनैव प्रीतित्वे सिद्धे
तात्पर्यान्तरादौ सति प्रीतेर् अस्मयग्-आविर्भाव इति सिद्धम् । स च द्विविधः ।
तद्-आभासस्यैवोदयः ईषद्-उद्गमश् च । अन्त्यश् च द्विविधः । कदाचिद्
उद्भवत्-तच्-छवि-मात्रत्वं तस्या एवोदयावस्था च । तत्र यत्रान्य-
तात्पर्यं तत्र तद्-आभासत्वम् । यत्र प्रीति-तात्पर्याभावस् तत्र कदाचिद्
उद्भवत्-तच्- (पगे 41) -छवि-मात्रत्वम् । यत्र तत्-तात्पर्यम् अन्यासङ्गस्
तु दैवात् तत्र तस्या उदयावस्था च । अन्यासङ्गस्य गौणत्वम् । तच् च
द्विविधम् । नष्ट-प्रायत्वम् आभास-मात्रत्वं च । तयोः पूर्वत्र तस्याः
प्रथमोदयावस्था । उत्तरत्र प्रकटोदयावस्था । तस्मात् प्रथमोदय-
पर्यन्त एवासम्यग्-आविर्भावः । प्रकटोदयस्य तु सम्यक्त्वम् एव । यत्र
त्व् अन्यासङ्ग एव न विद्यते तत्र दर्शित-प्रभाव-नामान आविर्भावा
ज्ञेयाः । तत्र प्रकटोदयम् आरभ्यैव भक्त्य्-आरब्धेऽपवर्गे जीवन्-
मुक्ताः । प्राप्तायां भगवत्-पार्षदतायां परमम् उक्ताः । नित्य-पार्षदास्
तु नित्य-मुक्ता ज्ञेयाः । तत्राभासम् आह-
एवं हरौ भगवति प्रतिलब्ध-भावो
भक्त्या द्रवद्-धृदय उत्पुलकः प्रमोदात् ।
औत्कण्ठ्य-बाष्प-कलया मुहुर् अर्द्यमानस्
तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते ॥ [भ्प् 3.28.34]
एवं पूर्वोक्त-योग-मिश्र-भक्त्य्-अनुष्ठानेन हरौ प्रतिलब्ध-भावो
भवति । तत्र लिङ्गं भक्तेत्यादि । भक्त्या स्मरणादिना अपि एवम् अपि लब्ध-
ध्येय-मधुरत्वस्य भावेन तादृशतापन्नं तस्य चित्तं शनकैर् वियुङ्क्ते
विमुक्तम् अपि भवति । येन योगाङ्गतया भक्तिर् अनुष्ठिता, तस्मात्
कैवल्येच्छा-कैतव्-दोषाद् एवेति भावः । यथोक्तं -धर्मः प्रोज्झितः
कैतवोऽत्र परमः [भ्प् 1.1.2] इत्य् अत्र प्र-शब्देन मोक्षाभिसन्धिर् अपि
कैतवम् इति । अतएव बडिश-शब्देन काठिन्यम् अरसवित्त्वं दाम्भिकत्वं
स्वार्थ-मात्र-साधनत्वं च व्यञ्जितम् । शुद्ध-भक्तास् तु न कदाचित् तया
तं ध्येयं त्यजन्ति । यथोक्तं राज्ञा -
धौतात्मा पुरुषः कृष्ण- पाद-मूलं न मुञ्चति ।
मुक्त-सर्व-परिक्लेशः पान्थः स्व-शरणं यथा ॥ [भ्प् 2.8.6] इति ।
श्री-नारदेन च-
न वै जनो जातु कथञ्चनाव्रजेन्
मुकुन्द-सेव्य् अन्यवद् अङ्ग संसृतिम् ।
स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर्
विहातुम् इच्छेन् न रस-ग्रहो जनः ॥ [भ्प् 1.5.19] इति ।
यो रस-ग्रहः स तु न त्यजतीत्य् अनेनान्येषां लौह-पाषाणादि-तुल्यत्वं
सूचितम् । न तु भगवान् अपि ततोऽन्यथा कुर्यात् । यद् उक्तं श्री-ब्रह्मणा -
भक्त्या गृहीत-चरणः परया च तेषां
नापैषि नाथ हृदयाम्बुरुहात् स्व-पुंसाम् ॥ [भ्प् 3.9.5] इति ।
अतएव पूर्वत्र स्व-पुंसाम् इत्य् अत्र स्वेति विशेषणम् । तद् एवम्
आभासोदाहरणे श्री-कपिल-देवस्यैव वाक्यं भक्त्या पुमान् जात-विरागः
[भ्प् 3.25.26] इत्य् आदिकम् अपि ज्ञेयम् । तथा हि, अस्य पूर्वत्र श्रद्धा रतिर्
भक्तिर् अनुक्रमिष्यति [भ्प् 3.25.25] इति भक्ति-मात्रं दर्शितम् । उत्तरत्र
तस्या लक्षणे पृष्टे तल्-लक्षणं वदतानेन भक्तिर् सिद्धेर् गरीयसी [भ्प्
3.25.32] इति । नैकात्मतां मे स्पृहयन्ति केचिद् [भ्प् 3.25.34] इति च मोक्ष-
निरपेक्षतयैव तस्य मुख्याभिधेयत्वम् उक्तम् । जरयत्य् आशु या कोषम्
[भ्प् 3.35.33] इति च माया-कोष-ध्वंसनस्य तु तद्-आनुषङ्गिक-गुणत्वम्
उक्तम् । अत्र भक्त्या पुमान् इत्य् आदौ तु तादृश्या अपि तस्या भक्तेर् ज्ञानादि-
साहाय्येनैव मोक्ष-मात्र-साधकत्वम् उक्त्वा गौणाभिधेयत्वम् उक्तम् ।
तस्माद् अत्रापि तस्याः (पगे 42) भक्तेर् आभास एव प्रथमतो दर्शितः । एवं
दृष्ट्वा तम् अवनौ सर्व ईक्षणाह्लाद-विक्लवाः ।
दण्डवत् पतिता राजæ छनैर् उत्थाय तुष्टुवुः ॥ [भ्प् 6.9.3]
इत्य् अत्रापि वृत्राख्य-शत्रु-नाश-स्वाराज्य-प्राप्ति-तात्पर्यवतां देवानां
भक्त्य्-आभासत्वम् उदाहार्यम् ।
॥ 6.9 ॥ श्री-कपिल-देवः
[74]
अथ कदाचिद् उद्भवत्-तच्-छवि-मात्रत्वम् आह-
सकृन् मनः कृष्ण-पदारविन्दयोर्
निवेशितं तद्-गुण-रागि यैर् इह ।
न ते यमं पाश-भृतश् च तद्-भटान्
स्वप्ने ऽपि पश्यन्ति हि चीर्ण-निष्कृताः ॥ [भ्प् 6.1.19]
रागो रञ्जन-मात्रम्, न तु तद्-गुण-माधुरी-याथार्थ्य-ज्ञानेन साक्षात्
प्रीतिः । अतएव तत्र तात्पर्याभावात् सकृद् अपीत्य् उक्तम् । तथाप्य् अस्त्य्
अजामिलादिभ्यो विशेष इत्य् आह न ते यमम् इत्य् आदि ।
॥ 6.1 ॥ श्री-शुकः
[75]
अथ प्रथ्मोदयावस्थाम् आह-
यत्रानुरक्ताः सहसैव धीरा
व्यपोह्य देहादिषु सङ्गम् ऊढम् ।
व्रजन्ति तत् पारम-हंस्यम् अन्त्यं
यस्मिन्न् अहिंसोपशमः स्व-धर्मः ॥ [भ्प् 1.18.22]
अन्त्यं पारमहंस्यं भागवत-परमहंसत्वम् । तस्यानुषङ्गिको गुणः
यस्मिन्न् इति ।
॥ 1.18 ॥ श्री-सूतः
[76]
प्रकटोदयावस्थां श्री-प्रियव्रतम् अधिकृत्याह -
प्रियव्रतो भागवतआत्मारामः कथं मुने ।
गृहे ऽरमत यन्-मूलः कर्म-बन्धः पराभवः ॥ [भ्प् 5.1.1] इत्य् आदेः ।
संशयो ऽयं महान् ब्रह्मन् दारागार-सुतादिषु ।
सक्तस्य यत् सिद्धिर् अभूत् कृष्णे च मतिर् अच्युता ॥ [भ्प् 5.1.4]
इत्य् अन्त्यस्य राज-प्रश्नस्यानन्तरेण गद्येन -
बाढम् उक्तं भगवत उत्तमश्लोकस्य श्रीमच्-चरणारविन्द-मकरन्द-
रस आवेशित-चेतसो भागवत-परमहंस-दयित-कथां किञ्चिद् अन्तराय-
विहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति [भ्प् 5.1.5] इति ।
टीका च-अङ्गीकृत्य परिहरति बाढम् इति । बाढम् अभिनिवेशादिकं नास्तीति
सत्यम् एव तथापि विघ्न-वशेन तेषां प्रवृत्तिः पूर्वाभ्यास-बलेन पुनर्
निवृत्तिश् च सङ्गच्छत इत्य् आह भगवत इत्य् आदिका ।
अतएवोक्तं पृथुं प्रति श्री-विष्णुना । दृष्टासु सम्पत्सु विपत्सु सूरयो; न
विक्रियन्ते मयि बद्ध-सौहृदाः [भ्प् 4.20.21] इति । अगस्त्यस्य चेन्द्रद्युम्ने
स्वावमाननया न कोपः । किन्तु वैष्णवोचित-महद्-आदर-चर्यायाः
परित्यागे शिक्षार्थम् एव मन्तव्यः । तयोर् अनुग्रहार्थाय शापं दास्यन्न्
इदं जगौ [भ्प् 10.10.7] इतिवत् ।
अथ परीक्षितो ब्राह्मणावमानना तु श्री-कृष्णस्य तद्-व्याजेन स्व-पार्श्व-
नयनेच्छात् एव ।
तस्यैव मे ऽघस्य परावरेशो
व्यासक्त-चित्तस्य गृहेष्व् अभीक्ष्णम् ।
निर्वेद-मूलो द्विज-शाप-रूपो
यत्र प्रसक्तो भयम् आशु धत्ते ॥ [भ्प् 1.19.14] इति तद्-उक्तेः ।
एवम् अन्यत्रापि योजनीयम् । तस्माच् छ्री-प्रियव्रतस्यापि अभिनिवेशाद्य्-
आसङ्गाभासत्वम् एवायातम् । तद् अपि दुःखदम् एव तद्-विधानाम् इति चाग्रे
तन्-निर्वेदेन दर्शयिष्यते अहो असाध्व् अनुष्ठितम् [भ्प् 5.1.37] इत्य् आदिना ।
॥ 5.1 ॥ श्री-शुकः
[77]
प्रकटोदयावस्थायाश् चिह्नान्तरम् आह-
स उत्तम-श्लोक-पदारविन्दयोर्
निषेवयाकिञ्चन-सङ्ग-लब्धया ।
तन्वन् परां निर्वृतिम् आत्मनो मुहुर्
दुःसङ्ग-दीनस्य मनः शमं व्यधात् ॥ [भ्प् 7.4.42]
(पगे 43)
टीका च-आत्मनः परा निर्वृतिं तन्वन् दुःसङ्ग-दीनस्य अपि मनः शमं
शान्तं व्यधायि इत्य् एषा । शमं स्व-मनसस् तुल्यम् इति वा व्याख्येयम् ।
॥ 7.4 ॥ श्री-नारदो युधिष्ठिरं प्रति
[78]
अथ दर्शित-प्रभावास् तद्-आविर्भावास् तु श्री-शुक-देवादिषु द्रष्टव्याः ।
यथा च श्री-नारद-पञ्चरात्रे -
भावोन्मत्तो हरेः किञ्चिन् न वेद सुखम् आत्मनः ।
दुःखं चेति महेशानि परमानन्द आप्लुतः ॥ इति ।
तद् एवं सभेदा प्रीत्याख्या भक्तिर् दर्शिता । एषा श्री-गीतोपनिषत्सु च
स्वरूप-द्वारा गुण-द्वारा च कथिता-
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भाव-समन्विताः ॥
मच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम् ।
कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ॥ [गीता 10.8-9] इति ।
अथ श्री-भगवत्-प्रीति-लक्षण-वाक्यानां निष्कर्षः । निखिल-परमानन्द-
चन्द्रिका-चन्द्रमसि सकल-भुवन-सौभाग्य-सार-सर्वस्व-सत्त्व-
गुणोपजीव्यानन्त-विलास-मयामायिक-विशुद्ध-सत्त्वानवरतोल्लासाद्
असमोर्ध्व-मधुरे श्री-भगवति कथम् अपि चित्तावताराद् अनपेक्षित-
विधिः स्वरसत एव समुल्लसन्ती विषयान्तरैर् अनवच्छेद्या तात्पर्यान्तरम्
असहमाना ह्लादिनी-सार-वृत्ति-विशेष-स्वरूप भगवद्-आनुकूल्यात्मक-तद्-
अनुगत-तत्-स्पृहादि-मय-ज्ञान-विशेषाकारा तादृश-भक्त-मनो-वृत्ति-विशेष-
देहा पीयूष-पूरतोऽपि सरसेन स्वेनैव स्व-देहं सरसयन्ती भक्त-
कृतात्म-रहस्य-सङ्गोपनन-गुण-मय-रसना-बाष्प-मुक्तादि-व्यक्त-
परिष्कारा सर्व-गुणैक-निधान-स्वभावा दासीकृताशेष-पुरुषार्थ-
सम्पत्तिका भगवत्-पातिव्रत्य-व्रत-वर्या-पर्याकुला भगवन्-
मनोहरणैकोपाय-हारि-रूपा भगवति भागवती प्रीतिस् तम् उपसेवमाना
विराजत इति । सेयम् अखण्डापि निजालम्बनस्य भगवत आविर्भाव-
तारतम्येन स्वयं तारतम्येनैवाविर्भवति ।
तद् एवं सति श्री-कृष्णस्यैव स्वयं-भगवत्त्वेन तत्-सन्दर्भे दर्शितत्वात्
तत्रैव तस्या परा प्रतिष्ठिता । अतएव बाहुल्येन तत्-प्रीति-परिपाटीम्
एवाधिकृत्य प्रक्रिया दर्शयितव्या । या च क्वचिद् अन्याधिकर्तव्या सा खलु
कैमुत्येन तस्या एव पोषणार्थं ज्ञेया ।
अथ श्री-कृष्णे स्वयं भगवत्य् एवाविर्भाव-पूर्णत्व-दर्शनेन तस्याः
पूर्णत्वं दर्शयति-
अद्य नो जन्म-साफल्यं विद्यायास् तपसो दृशः ।
त्वया सङ्गम्य सद्-गत्या यद् अन्तः श्रेयसां परः ॥ [भ्प् 10.84.21]
सतां त्वद्-एक-निष्ठानां तद्-विशेषाणां गत्या त्वया श्री-कृष्णआख्येन
सङ्गम्य नोऽस्माकं वशिष्ठ-चतुः-सन-वामदेव-मार्कण्डेय-नारद-
कृष्ण-द्वैपायनादीनां ब्रह्मानुभवतां भगवदीय-नाना-भक्ति-रस-
विदां दृष्ट-नाना-भगवद्-आविर्भावानाम् अपि अद्य ईदृश-
प्राकट्यावच्छिन्नेऽस्मिन्न् एवावसरे जन्मनः साफल्यं जातम् । यद् एव
साफल्यं पूर्व-लब्धानां तत्-तद्-आविर्भाव-जात-तत्-तत्-साफल्य-रूपाणां
श्रेयसां परम-पुरुषार्थानां परोऽन्तरः परमोऽवधिर् इति ।
॥ 10.84 ॥ महा-मुनयः श्री-भगवन्तम्
(पगे 44)
[79]
एवम् अन्यत्रापि -
अथ ब्रह्मात्म-जैर् देवैः प्रजेशैर् आवृतो ऽभ्यगात् ।
भवश् च भूत-भव्येशो ययौ भूत-गणैर् वृतः ॥ [भ्प् 11.6.1] इत्य्-आदिकम्
उपक्रम्याह --
व्यचक्षतावितृप्ताक्षः कृष्णम् अद्भुत-दर्शनम् । [भ्प् 11.6.5] इति ।
अत्राप्य् अद्भुतत्वं प्राकट्यान्तरापेक्षयैव ॥
॥ 11.6 ॥ श्री-शुकः
[80]
किं च---
यन् मर्त्य-लीलौपयिकं स्व-योग-
माया-बलं दर्शयता गृहीतम् ।
विस्मापनं स्वस्य च सौभगर्द्धेः
परं पदं भूषण-भूषणाङ्गम् ॥ [भ्प् 3.2.12]
स्वयोग-माया-बलं स्व-चिच्-छक्तेर् वीर्यम् । एतादृश-सौभाग्यस्यापि
प्रकाशिकेयं भगवतीत्य् एवंविधं दर्शयताविष्कृतम् । सकल-स्व-
वैभव-विद्वद्-गण-विस्मापनायेति भावः । न केवलम् एतावत् स्वस्यैव
रूपान्तरे तादृशत्वाननुभवात् । तत्रापि प्रतिक्षणम् अप्य् अपूर्व-प्रकाशात्
स्वस्यापि विस्मापनम् । यतः सौभगर्द्धेः परं पदं परा प्रतिष्ठा ।
ननु तस्य भूषणं त्व् अस्ति सौभग-हेतुर् इत्य् आह भूषणेति । कीदृशं
मर्त्य-लीलौपायिकं नराकृतीत्य् अर्थः । तस्मात् सुतरां युक्तम् उक्तं श्री-
महा-काल-पुराधिपेनापि द्विजात्मजा मे युवयोर् दिदृक्षुणा मयोपनीताः
[भ्प् 10.89.58] इत्य् आदि । श्री-हरि-वंशे श्री-कृष्ण-वचनेन च मद्-
दर्शनार्थं ते बाला हृतास् तेन महात्मना [ह्व् 2.114.8] इति ।
॥ 3.2 ॥ श्रीमान् उद्धवो विदुरम्
[81]
अतएव परीक्षिद्-गुण-वर्णने तद्-गुणोपमात्वेनैकम् एकं गुणं श्री-राम-
रमेशयोर् दर्शयित्वा सर्व-साद्गुण्योपमात्वेन श्री-कृष्णं दर्शयितुम्
अत्यन्तोत्कर्ष-दृष्ट्याशङ्कमानैर् ब्राह्मणैः एष कृष्णम् अनुव्रतः [भ्प्
1.12.24] इत्य् एवोक्तम् । न तु स इवेति । अतएव परम-प्रेम-जनक-
स्वभावत्वम् अपि तस्य दृश्यते । विजय-रथ-कुटुम्बः [भ्प् 1.9.39] इत्य् आदौ,
यम् इह निरीक्ष्य हता गताः स्वरूपम् इत्य् अनन्तरं,
ललित-गति-विलास-वल्गुहास-
प्रणय-निरीक्षण-कल्पितोरुमानाः ।
कृत-मनु-कृत-वत्य उन्मदान्धाः
प्रकृतिम् अगन् किल यस्य गोप-वध्वः ॥ [भ्प् 1.9.40]
तत्-स्वभाव-महिम्नः स्वारूप्य-प्रापणत्वं नाम क्रियानुत्कर्षः । यत
एतावतोऽपि प्रेम्नो जनकत्वं दृश्यत इत्य् आह ललितेति । अत्र कृतानुकरणं
नाम लीलाख्यो नायिकानुभावः । तद् उक्तं क्रियानुकरणं लीला [उन् 10.28]
इति । प्रकृतिं स्वभावम् । तादृश-प्रेमावेशो जातः । येन तत्-स्वभाव-निज-
स्वभावयोर् ऐक्यम् एव तासु जातम् इत्य् अर्थः । यथा श्रीमद्-उज्ज्वल-
नीलमणौ महा-भावोदाहरणम्-
राधाया भवतश् च चित्त-जतुनी स्वेदैर् विलाप्य क्रमात्
युञ्जन्न् अद्रि-निकुञ्ज-कुञ्जर-पते निर्धूत-भेद-भ्रमम् ।
चित्राय स्वयम् अन्वरञ्जयद् इह ब्रह्माण्ड-हर्म्योदरे
भूयोभिर् नव-राग-हिङ्गुल-भरैः शृङ्गार-कारुः कृती ॥ [उन् 15.155] इति ।
॥ 1.9 ॥ भीष्मः श्री-भगवन्तम्
[82]
तथा-
यस्याननं मकर-कुण्डल-चारु-कर्ण-
भ्राजत्-कपोल-सुभगं सविलास-हासम् ।
नित्योत्सवं न ततृपुर् दृशिभिः पिबन्त्यो
नार्यो नराश् च मुदिताः कुपिता निमेश् च ॥ [भ्प् 9.24.65]
(पगे 45) टीका च-तत्र प्रदर्शनार्थं मुख-शोभाम् आह इत्य् आदिका । तद्-
दर्शनेऽपि निमेष-कर्तृत्वेन निमेर् नियमे कुपिता बभूवुः । इयं खलु
महाभावस्य गतिः । सा च तत्-स्वभावतः सिद्धेत्य् अभिधानाद् युक्तम्
अत्रास्योदाहरणम् ।
॥ 9.24 ॥ श्री-शुकः
[83]
किं च का स्त्र्य् अङ्ग ते कलपदायत इत्य् आदौ यद् गो-दिव्ज-द्रुम-मृगाः
पुलकान्य् अभिभ्रन्न् [भ्प् 10.29.40] इति ।
अन्यत्र च अस्पन्दनं गतिमतां पुलकस् तरूणाम् [भ्प् 10.29.40] इत्य् आदि ।
अतएवोक्तं श्री-बिल्वमङ्गलेन -
सन्त्व् अवतारा बहवः पुष्कर-नाभस्य सर्वतो-भद्राः ।
कृष्णाद् अन्यः को वा लतास्व् अपि प्रेमदो भवति ॥ [क्क 2.85] इति ।
॥ 10.29 ॥ श्री-व्रज-देव्यः श्री-भगवन्तम्
[84]
तद् एवं श्री-भगवद्-आविर्भाव-तारतम्येन तत्-प्रीतेर् आविर्भाव-
तारतम्यं दर्शितम् । अथ तस्या एव गुणान्तरोत्कर्ष-तारतम्येन
तारतम्यान्तरं भेदाश् च दर्श्यन्ते । तत्र गुणाः द्विविधाः । भक्त-चित्त-
संस्क्रिया-विशेषस्य हेतव एके, तद्-अभिमान-विशेषस्य हेतवश् चान्ये ।
तत्र पूर्वेषां गुणानां स्वरूपाणि तैस् तस्यास् तारतम्यं भेदाश् च यथा
प्रीतिः खलु भक्त-चित्तम् उल्लासयति, ममतया योजयति, विस्रम्भयति,
प्रियत्वातिशयेनाभिमानयति, द्रावयति, स्व-विषयं प्रत्य् अभिलाषातिशयेन
योजयति, प्रतिक्षणम् एव स्व-विषयं नव-नवत्वेनानुभावयति,
असमोर्ध्व-चमत्कारेणोन्मादयति च ।
तत्रोल्लास-मात्राधिक्य-व्यञ्जिका प्रीतिः रतिः यस्यां जातायां तद्-एक-
तात्पर्यम् अन्यत्र तुच्छत्व-बुद्धिश् च जायते । ममतातिशयाविर्भावेन
समृद्धा प्रीतिः प्रेमा । यस्मिन् जाते तत्-प्रीति-समृद्धिश् चान्यत्रापि दृश्यते ।
यथोक्तं मार्कडेये -
मार्जार-भक्षिते दुःखं यादृशं गृह-कुक्कुटे ।
न तादृङ्-ममता-शून्ये कलविङ्केऽथ मूषिके ॥ इति ।
अतएव प्रेम-लक्षणायां भक्तौ प्रचुर-हेतुत्व-ज्ञापनार्थं ममताया
एव भक्तित्व-निर्देशः पञ्चरात्रे -
अनन्य-ममता विष्णौ ममता प्रेम-सङ्गता ।
भक्तिर् इत्य् उच्यते भीष्म-प्रह्लादोद्धव-नारदैः ॥ इति ।
अन्य-ममता-वर्जिता ममेत्य् अन्वयः । तद् उक्तं सत्त्व एवैक-मनसः [भ्प्
3.25.32] इत्य् एव-कारेण ।
अथ विस्रम्भातिशयात्मकः प्रेमा प्रणयः, यस्मिन् जाते सम्भ्रमादि-
योग्यतायाम् अपि तद्-अभावः । प्रियत्वातिशयाभिमानेन कौटिल्याभास-
पूर्वक-भाव-वैचित्रीं दधत् प्रणयो मानः । यस्मिन् जाते श्री-भगवान्
अपि तत्-प्रणय-कोपात् प्रेम-मयं भयं भजते । चेतो-द्रवातिशयात्मकः
प्रेमैव स्नेहः । यस्मिन् जाते तत्-सम्बन्धाभासेनापि महा-बाष्पादि-
विकारः प्रिय-दर्शनाद्य्-अतृप्तिस् तस्य परम-सामर्थ्यादौ सत्य् अपि केषांचिद्
अनिष्टाशङ्का च जायते । स्नेह एवाभिलाषातिशआत्मको रागः । यस्मिन् जाते
क्षणिकस्यापि विरहस्यात्यन्तैवासहिष्णुता । तत्-संयोगे परं दुःखम् अपि
सुखत्वेन भाति, तद्-वियोगे तद्-विपरीतम् । स एव रागोऽनुक्षणं स्व-विषयं
नव-नवत्वेनानुभावयन् स्वयं च नव-नवीभवन्न् अनुरागः । यस्मिन्
जाते परस्पर-वशीभावातिशयः । प्रेम-वैचित्त्यं तत्-सम्बन्धिन्य् अप्राणिन्य्
अपि जन्म-लालसा । विप्रलम्भे विस्फूर्तिश् च जायते । अनुराग एवासमोर्ध्व-
चमत्कारेणोन्मादको महा-भावः । यस्मिन् (पगे 46) जाते योगे
निमेषासहता कल्प-क्षणत्वम् इत्य् आदिकम् । वियोगे क्षण-कल्पत्वम् इत्य्
आदिकम् । उभयत्र महोद्दीप्ताशेष-सात्त्विक-विकारादिकं जायते इति संस्कार-
हेतवो गुणा दर्शिताः ।
अथ भक्ताभिमान-विशेष-हेतवो गुणास् तत्-कृताः प्रीतेर् भक्तानां च
भेदास् तारतम्यं च यथा-सैव खलु प्रीतिर् भगवत्-स्वभाव-
विशेषाविर्भाव-योगम् उपलभ्य कञ्चिद् अनुग्राह्यत्वेनाभिमानयति कञ्चिद्
अनुकम्पित्वेन कञ्चिन् मित्रत्वेन, कञ्चित् प्रियात्वेन च । भगवत्-स्वभाव-
विशेषाविर्भाव-हेतुश् च यस्य भगवत्-प्रिय-विशेषस्य सङ्गादिना लब्धा
प्रीतिस् तस्य प्रीतेर् एव गुण-विशेषो बोद्धव्यः । नित्य-परिकराणां नित्यम् एव
तद् द्वयम् । तत्रानुग्राह्यताभिमान-मयी प्रीतिर् भक्ति-शब्देन
प्रसिद्धा । आराध्यत्वेन ज्ञानं भक्तिर् इति हि तद्-अनुगतम् । यथैवोक्तं
माया-वैभवे -
स्नेहानुबन्धो यस् तस्मिन् बहु-मान-पुरः-सरः ।
भक्तिर् इत्य् उच्यते सैव कारणं परमेशितुः ॥ इति ।
स्नेहोऽत्र प्रीति-मात्रम् । एवं पाद्मे - महित्व-बुद्धिर् भक्तिस् तु स्नेह-
पूर्वाभिधीयते इति ।
तथापि भक्तेर् भगवति प्रीति-सामान्य-पर्यायता मुनिभिर् भक्त्या
प्रयुज्यत इति पूर्वम् उक्तम् । क्वचिद् विशेष-वाचका अपि सामान्ये
प्रयुज्यन्ते । जीव-सामान्ये नृप-भृति-शब्दवत् । क्वचिद् भक्त्य्-अतिशय-
लक्षण-प्रेमण्य् अपि भक्ति-शब्द-प्र्योगो ब्राह्मण-गोष्ठीषु
ब्राह्मण्यातिशयवति अयं ब्राह्मण इतिवत् ।
यथोक्तं पाञ्चरात्रे -
माहात्म्य-ज्ञान-पूर्वस् तु सुदृढः सर्वतोऽधिकः ।
स्नेहो भक्तिर् इति प्रोक्तस् तया सार्ष्ट्य्-आदि नान्यथा ॥ इति ।
मनो-गति-गमनादीनां तु तत्-सम्बन्धेनैव क्वचिद् भक्ति-शब्द-
वाच्यतोक्ता । तद्-अनुग्राह्यताभिमान-मयी प्रीतिर् एव भक्ति-शब्दस्य
मुख्योऽर्थः । ते चानुग्राह्याभिमानिनो द्विविधाः । पोषणम् अनुकम्पा
चेत्य् अनुग्रहस्य द्वैविध्यात् । पोषणम् अत्र भगवता स्वरूप-द्वारा स्व-
गुण-द्वारा चानन्दनम् । अनुकम्पा च पूर्णेऽपि स्वस्मिन् निज-सेवाद्य्-
अभिलाषं सम्पाद्य सेवकादिषु सेवादि-सौभाग्य-सम्पादिका भगवदश्
चित्तार्द्रतामयी तद्-उपकारेच्छा । तेषु द्विविधेषु केषुचिद् भगवति
निर्ममाः केषुचित् सममाश् च । तत्र भगवति परमात्म-पर-ब्रह्म-
भावेनानन्दनीयाभिमानिनो निर्ममा ज्ञानि-भक्ताः श्री-सनकादयः ।
तेषां तद्-अभिमानित्वेऽपि तत्र निर्ममत्वम् -
सत्य् अपि भेदापगमे नाथ तवाहं न मामकीनस् त्वम् ।
सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ इतिवत् ।
तव चन्द्र-दर्शनवन् ममतां विनापि तेषां भगवद्-दर्शनं प्रीतिदं
स्यात् । आनुकूल्यं चात्र तत्-प्रवणत्व-तत्-स्तुत्य्-आदिना ज्ञेयम् । एषां प्रीतिश् च
ज्ञान-भक्त्य्-आख्या । ज्ञानत्वं ब्रह्म-घनत्वेनैवानुभवात् । एषैव
शान्त्य्-आख्ययोच्यते । शम-प्रधानत्वात् । शमो मन्-निष्ठता बुद्धेर् [भ्प्
11.19.36] इति भगवद्-वाक्यम् ।
अथानुकम्प्याः सममा भक्ताः । एषां हि अस्माकं प्रभुर् अयम् इति
भावेन ममतोद्भूता । एतद् अभिप्रेत्यैवानन्य-ममतेत्य् आदि-वक्तृत्वं
केवल-भक्तानां श्री-भीष्मोद्धव-प्रह्लाद-नारदादीनाम् एवोक्तं न तु
सनकादीनाम् अपि । अतो ममतोद्भवाद् एवानुकम्प्यास् तद्-अभिमानिनश् च
ते ।
अनुकम्प्यत्वं त्रिविधं । पाल्यत्वं भृत्यत्वं लाल्यत्वं च । तत्-त्रैविध्येन
क्रमात् ते श्री-भगवति पालक इति भावा द्वारका-प्रजादयः । सेव्य इति
भावाः श्री-दारुकादि-सेवकाः गुरुर् इति भावाः श्री-प्रद्युम्न-गद-
प्रभृति-पुत्रा नृजादय इति । एषां त्रिविधानाम् अपि प्रीतिर् भक्तिरे एव ।
पूर्वापेक्षया चैषां प्रीतेर् आनुकूल्यात्मताधिक्यादाव्
ऋतज्ञानांशत्वेनास्याम् एव श्री-रसामृत-सिन्धौ प्रीतिर् इत्य् (पगे 47)
एवाख्या कृता । सा च भक्तिः क्रमेण पाल्यानाम् आश्रयात्मिका, भृत्यानां
दास्यात्मिका, लाल्यानां प्रश्रयात्मिका ज्ञेया । या तु महद्-बुद्ध्या
चित्तादर-लक्षण-भक्तिर् नमस्कारादि-कार्य-व्यङ्ग्या सा खलु प्रीतिर् न
भवतीति नात्र गण्यते । तत्-तद्-भावं विनैव केवलादर-मयी प्रीतिश् चेद्
भक्ति-सामान्यत्वेन ज्ञेया ।
अथ पुत्रोऽयम् इत्य् आदिभावेनानुकम्पित्वाभिमान-मयी प्रीइत्र् वात्सल्यम् ।
वत्सं वक्षो लातीति निरुक्तिर् हि तत्रैव झटिति प्रतीतिं गमयति । प्रीति-मात्रे
तु तद्-उपलक्षणत्वेनैव प्रयोगः । लौकिक-रसज्ञाश् च केचिद् अत्रैव
वत्सलाख्यं रसं मन्यन्ते । तथोदाहृतं श्री-देवहूत्याः पुत्र-वियोगे
वत्से गौर् इव वत्सला [भ्प् 3.33.21] इति । तस्माद् वात्सल्यं श्री-व्रजेश्वरीणाम् ।
अथ मत्-सम-मधुर-शील-वचनयं निरुपाधिमत्-प्रणयाश्रय्-विशेष इति
भावेन मित्रत्वाभिमान-मयी प्रीतिः मैत्र्य्-आख्या द्विविधाः । परस्पर-
निरुपाधिकोपकार-रसिकता-मयी सौहृदाख्या । सह-विहार-शालि-
प्रणयमयी सख्याख्या चेति । ततो मित्राणि च द्विविधानि । सुहृदः सखायश्
चेति । तत्र सौहृदं श्री-युधिष्ठिर-भीष्म-द्रौपदी-पद्यादिष्व् अंशेन
दृश्यते । सख्यं श्रीमद्-अर्जुन-श्रीदामादिषु ।
अथ कान्तोऽयम् इति प्रीतिः कान्त-भावः । एष एव प्रियता-शब्देन श्री-
रसामृत-सिन्धौ परिभाषिता । प्रियाया भावः प्रियतेति । लौकिक-रसिकैर्
अत्रैव रति-संज्ञा स्वीक्रियते । एष एव काम-तुल्यत्वात् श्री-गोपिकासु कामादि-
शब्देनाप्य् अभिहितः । स्मराख्यकाम-विशेषस् त्व् अन्यः वैलक्षण्यात् । काम-
सामान्यं खलु स्पृहा-सामान्यात्मकम् । प्रीति-सामान्यं तु
विषयानुकूल्यात्मकस् तद्-अनुगत-विषय-स्पृहादिमयो ज्ञान-विशेष इति
लक्षितम् । ततो द्वयोः सामान्य-प्राय-चेष्टत्वेऽपि काम-सामान्यस्य चेष्टा
स्वीयानुकूल्य-तात्पर्या । तत्र कुत्रचिद् विषयानुकूल्यं च स्व-सुख-कार्य-
भूतम् एवेति तत्र गौण-वृत्तिर् एव प्रीति-शब्दः । शुद्ध-प्रीति-मात्रस्य
चेष्टा तु प्रियानुकूल्य-तात्पर्यैव । तत्र तद्-अनुगतम् एव चात्म-सुखम् इति
मुख्य-वृत्तिर् एव प्रीति-शब्दः ।
अतएव यथा-पूर्वं सुख-प्रीति-सामान्ययोर् उल्लासात्मकतया साम्येऽप्य्
आनुकूल्यांशेन प्रीति-सामान्यस्य वैशिष्ट्यं दर्शितम् । तथा काम-प्रीति-
सामान्ययोर् अपि स्पृहा-विशेषात्मकतया साम्येऽपि तेनैव वैशिष्ट्यं
सिद्धम् । अत्र तु - यत् ते सुजात-चरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय
दधीमहि कर्कशेषु [भ्प् 10.31.19] इत्य् आदिभिर् अतिक्रम्यापि स्वानुकूल्यं
प्रियानु (पगे 48) कूल्य-तात्पर्यस्यैव दर्शितत्वात् शुद्ध-प्रीति-विशेष-
रूपत्वम् एव लभ्यते । अतस् तद्-विशेषत्वं च स्पृहा-विशेषात्मकत्वात्
सिद्धम् । ततोऽत्र श्री-कृष्ण-विषयत्वेन कुब्जादि-सम्बन्धि-कामवद्
अप्राकृत-कामत्वस्याप्य् अनभ्युपगमे सति प्राकृत-कामत्वं तु सुतराम्
असिद्धम् । तथा दर्शितं च -
विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः
श्रद्धान्वितो यः शृणुयाद् अथ वर्णयेद् वा ।
भक्तिं परां भगवति परिलभ्य कामं
हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ [भ्प् 10.33.40] इत्य् अनेन ।
यद् विक्रीडितं खलु निज-श्रवण-द्वाराप्य् अन्येषां दूर-देश-काल-
स्थितानाम् अपि शीघ्रम् एव यं कामम् अपनयत् परमं प्रेमाणं
वितनोति । तत् पुनस् तत् काम-मयं न स्यात् । अपि तु परम-प्रेम-विशेष-
मयम् एव । न हि पङ्केन पङ्कं क्षाल्यते । न तु स्वयम् अस्नेहः
स्नेहयति ।
अतएव तस्य भावस्य शुद्ध-प्रेम-मयत्वं निगदेनैवोक्त्वा शुद्धत्वे
हेतुतया पुनस् तेन भगवत्-प्रसादश् च दर्शितः । भगवान् आह ता वीक्ष्य
शुद्ध-भाव-प्रसादितः [भ्प् 10.22.1] इति । तस्यात्मराम-शिरोमणेस् तेन
रमणं च दर्शितम्-कृत्वा तावन्तम् आत्मानम् [भ्प् 10.33.19] इत्य्-आदिभिः ।
वशीकृतत्वं च स्वयं दर्शितं-न पारयेऽहं निरवद्य-संयुजाम् [भ्प्
10.32.22] इत्य् आदिना । तत्र निरवद्येति प्रीतेः शुद्धत्वम् । स्व-साधुकृत्यम् इति
परमोत्तमोत्कृष्टत्वम् । न पारय इति स्ववशीकारत्वम् । अतः शुद्ध-
प्रेम-जातिषु तस्य परम्त्वाद् एव श्रीमद्-उद्धवेनाप्य् एवम् उक्तम्-
वाञ्छन्ति यद् भव-भियो मुनयो वयं च [भ्प् 10.47.58] इति । तस्मात् सर्वतः
परमैव कान्त-भाव-रूपा प्रीतिर् इति स्थितम् ।
तद् एवं ज्ञान-भक्तिर् भक्तिर् वात्सल्यं मैत्री कान्त-भाव इति तद्-
भावाभिमानयोर् भेदेन पञ्च-विधा प्रीतिः । एताश् च ज्ञान-भक्त्य्-आदयः
क्वचित् मिश्रतयापि वर्तन्ते । तत्र श्री-भीष्मादौ ज्ञान-भक्त्य्-आश्रय-
भक्ती । श्री-युधिष्ठिरे सौहृद्यान्तर्भूते आश्रय-भक्ति-वात्सल्ये । श्री-
भीमस्य सख्यम् अपि । श्री-कुन्त्याम् आश्रय-भक्त्य्-अन्तर्भूतं वात्सल्यम् ।
श्री-वसुदेव-देवक्योर् भक्ति-सामान्य-वात्सल्ये । तथा तथा दर्शनात् ।
श्रीमद्-उद्धवस्य दास्यान्तर्भूतं सख्यं-त्वं मे भृत्यः सुहृत् सखा
[भ्प् 11.11.48] इति श्री-भगवद्-उक्तेः । श्री-बलदेवस्य सख्य-वात्सल्य-
भक्तयः । तत्र वात्सल्य-सख्ये--
क्वचित् क्रीडा-परिश्रान्तं गोपोत्सङ्गोपबर्हणम् ।
स्वयं विश्रमयत्य् आर्यं पाद-संवाहनादिभिः ॥
नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः ।
गृहीत-हस्तौ गोपालान् हसन्तौ प्रशशंसतुः ॥ [भ्प् 10.15.14-15] इत्य् आदिषु ।
भक्तिश् च प्रायो मायास्तु मे भर्तुः [भ्प् 10.13.37] इत्य्-आदि-तद्-उक्तिषु । अत्र
च तस्य व्रजे सख्यान्तर्भूते वात्सल्य-सख्ये ऐश्वर्य-प्रकाश-मय-
लीलाविष्कारात् । व्रजे तस्याग्रजत्वं श्री-वसुदेव-नन्दनयोर् भ्रातृत्व-
प्रसिद्धेः । श्रीमन्-नन्देन पुत्रतया पालनाच् च । यथोक्तं--
भ्रातर् मम सुतः कच्चिन् मात्रा सह भवद्-व्रजे ।
तातं भवन्तं मन्वानो भवद्भ्याम् उपलालितः ॥ [भ्प् 10.5.27] इति ।
वदन्ति तावका ह्य् एते कुमारास् तेऽग्रजोऽप्ययम् [भ्प् 10.8.34] इति च ।
एवं श्री-पट्ट-महिषीषु दास्य-मिश्रः कान्त-भावः । श्रीमद्-व्रज-देवीषु
सख्य-मिश्र इत्य् आदिकं ज्ञेयम् । (पगे 49)
अथ तत्-तद्-भावाभिमानो विनां तु या प्रीतिः सा सामान्या
तादृशत्वायोग्यानां भवति । यथा मिथिला-प्रयाण --
आनर्त-धन्व-कुरु-जाङ्गल-कङ्क-मत्स्य-
पाञ्चाल-कुन्ति-मधु-केकय-कोशलार्णाः ।
अन्ये च तन्-मुख-सरोजम् उदार-हास-
स्निग्धेक्षणं नृप पपुर् दृशिभिर् नृ-नार्यः ॥ [भ्प् 10.86.20] इत्य् अत्र
केषांचित् ।
एते च निर्ममा ज्ञेयाः । किं च तेष्व् एतेषु भगवत्-प्रियेषु सामान्य-शान्तौ
तटस्थाख्यौ । अनयोः प्रीतिश् च तटस्थाख्या । तेषु च पाल्य-भृत्यौ
अनुगतौ । तयोर् भक्तिश् च सम्भ्रम-प्रीत्य्-आख्या । लाल्यादयस् तु
बान्धवाः । तेषां प्रीतिश् च बान्धवताख्या ज्ञेया । तैर् एतैः प्रीति-भेदैः
प्रिय-भेदान् प्रति स्वस्य भजनीयता-भेदा उक्ताः - येषाम् अहं प्रिय आत्मा
सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् [भ्प् 3.25.38] इति । प्रियः कान्तः ।
आत्मा परमात्मा । सुतः पुत्र-भ्रातृजादि-रूपः अनुज-रूपश् च । सखा
प्रणय-पूर्वकः सह खेलति यः । गुरु-पित्रादि-रूपः । सुहृदो द्विविधाः
सम्बन्धिनो निरुपाधि-हित-कारिणश् च । तत्र पूर्वेषां प्रियत्वादौ
प्रवेशाद् उत्तरे गृह्यन्ते । दैवम् इष्टम् आश्रयणीयः सेव्यश् चेत्य् अर्थः ।
एतान् भावांश् च विना सामान्य-प्रीति-विषय इति भावः ।
अथ पूर्वोक्ता रत्य्-आदि-भावा उदाह्रियन्ते । तत्र रतिम् आह-
तत्रान्वहं कृष्ण-कथाः प्रगायताम्
अनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मे ऽनुपदं विशृण्वतः
प्रियश्रवस्य् अङ्ग ममाभवद् रुचिः ॥
तस्मिंस् तदा लब्ध-रुचेर् महा-मते
प्रियश्रवस्य् अस्खलिता मतिर् मम ।
ययाहम् एतत् सद्-असत् स्व-मायया
पश्ये मयि ब्रह्मणि कल्पितं परे ॥ [भ्प् 1.5.26-27]
मयि शुद्ध-जीवे व्यष्टि-रूपं परे ब्रह्मणि च समष्टि-रूपम्
अध्यारोपितम् ।
॥ 1.5 ॥ श्री-नारदः श्री-व्यासम्
[85]
प्रेमाणम् आह -
उपलब्धं पति-प्रेम पाति-व्रत्यं च ते ऽनघे ।
यद् वाक्यैश् चाल्यमानाया न धीर् मय्य् अपकर्षिता ॥ [भ्प् 10.60.51]
॥ 10.60 ॥ श्री-भगवान् रुक्मिणी-देवीम्
[86]
प्रणयम् आह - उवाह कृष्णो भगवान् श्रीदामानं पराजितः [भ्प् 10.18.24]
इति । स्पष्टम् ॥
॥ 10.18 ॥ श्री-शुकः
[87]
मानम् आह -- एका भ्रू-कुटिम् आबद्ध्य प्रेम-संरम्भ-विह्वला [भ्प्
10.32.6] इति । स्पष्टम् ॥
॥ 10.32 ॥ श्री-शुकः
[88]
स्नेहम् आह -
सत्-सङ्गान् मुक्त-दुःसङ्गो हातुं नोत्सहते बुधः ।
कीर्त्यमानं यशो यस्य सकृद् आकर्ण्य रोचनम् ॥
तस्मिन् न्यस्त-धियः पार्थाः सहेरन् विरहं कथम् ।
दर्शन-स्पर्श-संलाप- शयनासन-भोजनैः ॥
सर्वे ते ऽनिमिषैर् अक्षैस् तम् अनु द्रुत-चेतसः ।
वीक्षन्तः स्नेह-सम्बद्धा विचेलुस् तत्र तत्र ह ॥
न्यरुन्धन्न् उद्गलद् बाष्पम् औत्कण्ठ्याद् देवकी-सुते ।
निर्यात्य् अगारान् नो ऽभद्रम् इति स्याद् बान्धव-स्त्रियः ॥ [भ्प् 1.10.11-14]
(पगे 50)
विचेलुः अर्हणाद्यानयनार्थम् इतस्ततश् चलन्ति स्म । अभद्रं यात्रा-समये
दुःशकुनं प्राभूद् इति न्यरुन्धन् आछादिअवत्यः ।
॥ 1.10 ॥ श्री-सूतः
[89]
रागम् आह -
विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्-गुरो ।
भवतो दर्शनं यत् स्याद् अपुनर् भव-दर्शनम् ॥ [भ्प् 1.8.25]
भवतः कर्म-भूतस्य दर्शनम् अवलोकनम् । यत् यासु । अपुनर्भवम्
अन्यत्र कुत्रापि तादृश-माधुर्याभावात् पुनर् न जातं दर्शनं साम्य-
प्रतीतिर् यस्य तद् अपूर्वम् इत्य् अर्थः ।
॥ 1.8 ॥ श्री-कुन्ती श्री-भगवन्तम्
[90]
अनुरागम् आह -
यद्यप्य् असौ पार्श्व-गतो रहो-गतस्
तथापि तस्याङ्घ्रि-युगं नवं नवम् ।
पदे पदे का विरमेत तत्-पदाच्
चलापि यच् छ्रीर् न जहाति कर्हिचित् ॥ [भ्प् 1.11.34]
असौ श्री-कृष्णः । तासां श्री-महिषीणां पार्श्व-गतः समीपस्थः । तत्रापि
रहो-गतः एकान्ते वर्तते । पदे पदे प्रतिक्षणम् । तच् च तासां
स्वाभाविकानुरागवतीनां नाश्चर्यम् । यतः का वा अन्यापि तत्-पदाद्
विरमेत तत्-पदास्वादेन तृप्ता भवेत् । तत्र कैमुत्येनोदाहरणं चलापीति ।
जगति चञ्चल-स्वभावत्वेन दृष्टापि । अत्रोदाहरण-पोषार्थं
प्राकृताप्राकृत-श्रियोर् अभेद-विवक्षा ।
॥ 1.11 ॥ श्री-सूतः
[91]
महाभावम् आह -
गोपीनां परमानन्द आसीद् गोविन्द-दर्शने ।
क्षणं युग-शतम् इव यासां येन विनाभवत् ॥ [भ्प् 10.19.16]
स्पष्टम् ।
॥ 10.19 ॥ श्री-शुकः
[92]
एषा प्रीति-जाती रति-मात्रात्मा ज्ञानि-भक्तेषु परमानन्द-घन-
मात्रतयानुभव-सुखस्य ममत्वाभावेनातिशय-कारणत्वायोगात् । एवं
समान्येष्व् अपि । कामं भवः स्व-वृजिनैर् निरयेषु नस् तात् [भ्प् 3.15.49] इत्य्
आदौ तु सनकादीनां तादृश-राग-प्रार्थनैव, न तु साक्षाद् एव राग इति
समाधेयम् ।
अथ पाल्येषु प्रेम-पर्यन्तैव । ममतायाः स्पष्टत्वात् । न तु स्नेहादि-
पर्यन्ता । विदूर-सम्बन्धेन तस्या अनौचित्यात् । यत् तु यर्ह्य्
अम्बुजाक्षापससार भो भवान् [भ्प् 1.11.9] इत्य् आदौ तत्राब्द-कोटि-प्रतिमः
क्षणो भवेद् इति द्वारका-प्रजा-वाक्ये तद्-अतिशयः प्रतीयते । तत् खलु
तत्रैव केषांचिन् नापितमालाकारादीनां साक्षात् तत्-सेवा-भाग्यवतां भाव-
विशेष-धारिणम् उक्तित्वेन सङ्गतम् ।
अथ श्रीमद्-भृत्येषु राग-पर्यन्तापि सम्भाव्यते । तेषां ममताधिक्येन
सन्तत-तत्-सेवालम्पटत्वेन तद्-एक-जीवनत्वात् । लाल्येषु साक्षाच्-छ्री-
विग्रह-सम्बन्धेन ततोऽपि ममता-विशेषोर्जितत्वात् रागातिशयो मन्तव्यः ।
तेभ्यः सखिभ्योऽपि ममताधिक्याद् वत्सल-मुख्ययोः पित्रोः सर्वतस् तद्-
अतिशयः । अन्यत्राषि प्रायः विपदः सन्तु ताः शश्वत् [भ्प् 1.8.25] इत्य् आदि श्री-
कुन्ती-वाक्यात् सखिषु प्रणयोत्कर्षांशेन तु तद्-आधिक्यम् अस्ति । सुहृत्सु
नातिसन्निकर्षात् प्रेमातिशय एव । प्रणय-मानौ तु सखि-प्रेयस्योर् एव
सम्भवतः ।
अथ श्री-प्रेयसीषु श्रीमत्-पट्ट-महिषीणां महा-भावतोन्मुखानुराग-
पर्यन्तैव । यद्-विवर्त-विशेषः प्रेम-वैचित्त्याख्यो विप्रलम्भ-शृङ्गारस्
तासां ऊचुर् मुकुन्दैक-धियः [भ्प् 10.90.14] इत्य् आदिना (पगे 51) इतीदृशेन
भावेन इत्य् अन्तेन वर्णितः । ततोऽधिकं न च श्रूयते । ताभ्योऽन्यत्र त्व्
अनुरागोऽपि न श्रूयते । ननु सताम् अयं सार-भृतां निसर्गः [भ्प् 10.13.2]
इत्य् आदौ अन्यत्राप्य् अनुरागो वर्ण्यते । प्रतिक्षणं नव्यत्व-स्फुरणात् ।
नैवं अनुरागस्यन तादृश-स्फुरण-मात्र-लक्षणत्वं किन्तूल्लासादि-
दुःख-सुखत्व-भान-पर्यन्त-रत्य्-आदि-गुण-क्षणत्वम् अपि ।
अत्र तु सर्वत्र तत्-तल्-लक्षणोदयासम्भावनया नानुरागो निर्णीयते इति ।
तथा नव्यवद् इत्य् उक्तं न च नव्यम् इति । श्री-व्रज-देवीनां तु महा-
भाव-पर्यन्तता ।
तास् ताः क्षपाः प्रेष्ठ-तमेन नीता
मयैव वृन्दावन-गोचरेण ।
क्षणार्ध-वत् ताः पुनर् अङ्ग तासां
हीना मया कल्प-समा बभूवुः ॥ [भ्प् 11.12.11] इत्य् आदि-प्रसिद्धेः ।
निमेषासहत्वं तासाम् एव --
कुटिल-कुन्तलं श्री-मुखं च ते
जड उदीक्षितां पक्ष्म-कृत् दृशाम् [भ्प् 10.31.15] इति ।
यस्याननम् [भ्प् 9.24.35] इत्य्-आदिकस्य नार्यो नराश् च मुदिताः कुपिता निमेश्
च इत्य् अत्र सामान्यतो नरा नार्यश् च तावन् मुदिता बभूवुः । च-कारात्
तत्रैव काश्चिच् छ्री-गोप्यो निमेर्नियमे निमेष-कर्त्रे कुपिता बभूवुर् इत्य्
अर्थः । अन्यत्र तद्-अश्रवणाद् एव । अन्यथा कुरुक्षेत्र-यात्रायां ।
गोप्यश् च कृष्णम् उपलभ्य चिराद् अभीष्टं
यत्-प्रेक्षणे दृशिषु पक्ष्म-कृतं शपन्ति ।
दृग्भिर् हृदी-कृतम् अलं परिरभ्य सर्वास्
तद्-भावम् आपुर् अपि नित्य-युजां दुरापम् ॥ [भ्प् 10.82.39]
इत्य् अत्र यत्-प्रेक्षण इत्य् आदौ वैशिष्ट्यानापत्तिश् च स्यात् । यद्यपि श्री-
कृष्णस्य तादृश-भाव-जनकत्वं स्वभाव एव तथाप्य् आधार-गुणम् अप्य्
अपेक्षते स्वात्य्-अम्बुनो मुक्तादि-जनकत्वम् इव । अत्र च तद्-भावम् आपुर्
इति श्री-कृष्ण-विषयक-महा-भाव-विशेषाभिव्यक्तिं दधुर् इय् अर्थः ।
अतएव नित्य-युजां दुरापम् इत्य् उक्तम् । नित्य-युक्-शब्देनाप्य् अत्र तत्-स-
लक्षणाः पट्ट-महिष्य एव लभ्यन्ते । न तद्-विलक्षणा अन्ये दूर-
प्रतीतत्वात् । ततश् च नित्य-युजाम् एता विरहिण्यो वयं तु प्रिय-संयोगं
दिनन्दिनम् एव प्राप्नुम इति प्रेष्ठन्-मन्यानाम् अपीत्य् अर्थः । अतएव --
श्रुत्वा पृथा सुबल-पुत्र्य् अथ याज्ञसेनी
माधव्य् अथ क्षितिप-पत्न्य उत स्व-गोप्यः ।
कृष्णे ऽखिलात्मनि हरौ प्रणयानुबन्धं
सर्वा विसिस्म्युर् अलम् अश्रु-कलाकुलाक्ष्यः ॥ [भ्प् 10.84.1]
इत्य् अत्र क्वचिद् अन्यत्रादृष्ट-चरेण व्रज-स्त्रियो यद् वाञ्छन्ति [भ्प् 10.83.43]
इत्य् आदि-तदीय-पूर्वोक्त-रीत्या स्वीय-भाव-तुल्यता-स्पर्शिना
प्रणयानुबन्धेन विस्मितानाम् अपि श्री-गोपीनां विशेषणत्वेन स्व-शब्दः
पठितः परमान्तरङ्गताविबोधिषया । तथा अहो अलं श्लाघ्यतमं यदोः
कुलम् [भ्प् 1.10.26] इत्य् आदि-पद्य-त्रयात्मके प्रथम-स्कन्ध-सम्बन्धिनि
पुर-स्त्री-वाक्येऽपि, तेषु प्रथम-द्वयं सर्वस्य मथुरा-व्रज-द्वारका-
वासिनो जनस्य भाग्य-महिमा-प्रतिपादकम् । (पगे 52)
तृतीयं खलु-
नूनं व्रत-स्नान-हुतादिनेश्वरः
समर्चितो ह्य् अस्य गृहीत-पाणिभिः ।
पिबन्ति याः सख्य् अधरामृतं मुहुर्
व्रज-स्त्रियः सम्मुमुहुर् यद्-आशयाः ॥ [भ्प् 1.10.28] इत्य् एतत् ।
अत्र पट्ट-महिषीणां भाग्य-श्लाघायाम् अपि श्री-व्रज-देवीनाम् एव हि
पर्मोत्कृष्टत्वम् आस्वादाभिज्ञतरत्वं चायातम् । यस्यामृतस्य माधुर्य-
स्मरणे देवा अपि मुह्यन्ति तन्-मनुष्येणाप्य् अनेनास्वाद्यत इतिवत् । तस्मात्
तासाम् एव सर्वोत्तम-भावना । अयम् अत्र सन्दर्भः - श्री-भगवतः
स्वभावस् तावद् उभय-विधः । ब्रह्मत्व-लक्षणो भगवत्त्व-लक्षणश्
चेति । भक्ताश् च सामान्यतो द्विविधा उक्ताः तटस्थाः परिकराश् चेति ।
तत्रैके तटस्था ब्रह्मता-पुरस्कारेण तत्-स्वभावेन प्रीयमाणाः
शान्ताख्याः । अन्ये च तटस्थाः परिकरवद् भगवत्ता-विशेषेणापि
प्रीयमाणाः परिकरत्वाभिमानम् अप्राप्ताः । ततः स्फुटम् एवैते
परिकरात् प्रीति-विहीनाः ।
अथाद्या अपि प्रीति-कारणस्य प्रीति-कार्यस्य च निर्हीनत्वात् परिकरात् प्रीति-
निर्हीनाः । कारणं चात्र साहाय्यम् । सहायो द्विविधाः । ममता-
लक्षणोऽर्थस् तद्-अङ्गं ब्रह्मत्वानुभवादयस् तद्-उपाङ्गानीति । अत्र तेषां
ममत्वं नास्तीति दर्शितम् एव । तच् च युक्तं सम्बन्ध-विशेषास्फुरणात् ।
ततोऽङ्ग-निर्हीणत्वम् । उपाङ्गेषु च तेषां ब्रह्म-ज्ञानम् एव मुख्यम् ।
तद्-अनुशीलन-स्वाभाव्यात् । भगवत्ता-ज्ञानं तु तद्-अनुगतम् । तस्या एव
तादृश-भावेन तेषाम् आकर्षणात् । यद् उक्तम्-आत्मारामाश् च इत्य् आदौ
इत्थम्भूत-गुणो हरिः [भ्प् 1.7.11] इति ।
वस्तुतस् तु प्रीति-साहाय्ये भगवत्ताया एव मुख्यत्वं तैर् अनुभूतम् ।
तस्यारविन्द-नयनस्य पदारविन्द- [भ्प् 3.15.43] इत्य् आदौ चकार तेषां
सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः इति । तथापि तादृश-
स्वभावत्वापरित्यागाद् उपाङ्ग-निर्हीनत्वम् ।
अथ प्रीति-कार्यम् अपि तेषां निर्हीनत्वम् । यतः प्रायशो भगवत्-स्मरणम्
एव तत्-कार्यम् । तद्-दर्शनं तु कादाचित्कम् एव । परिकराणां पुनः साक्षात्
तद्-अङ्गसेवादिकम् अपि सन्ततम् एव । अतएव तेषाम् एव सौभाग्यातिशय-
वर्णनम् । श्री-जय-विजय-शाप-प्रस्तावे-
तस्मिन् ययौ परमहंस-महा-मुनीनाम् ।
अन्वेषणीय-चरणौ चलयन् सह-श्रीः ॥ [भ्प् 3.15.37] इत्य् उक्त्वा,
तं त्व् आगतं प्रतिहृतौपयिकं स्व-पुम्भिस्
तेऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् । [भ्प् 3.15.38] इति । तथा--
विनता-सुतांसे विन्यस्त-हस्तम् [भ्प् 3.15.40] इति ।
तथा तदा जय-विजययोर् एव (पगे 53) भगवत आत्मीयत्वं स्पष्टम् अस्ति ।
मुनिषु तु गौरवम् । तत्र श्री-ब्रह्म-वाक्ये --
एवं तदैव भगवान् अरविन्द-नाभः ।
स्वानां विबुध्य सद्-अतिक्रमम् आर्य-हृद्यः ॥ [भ्प् 3.15.37] इति ।
श्री-वैकुण्ठ-नाथ-वाक्ये च --
तद् वः प्रसादयाम्य् अद्य ब्रह्म दैवं परं हि मे ।
तद् धीत्य् आत्म-कृतं मन्ये यत् स्व-पुम्भिर् असत्-कृताः ॥ [भ्प् 3.16.4]
तच् च परिकराणां सौभाग्यं स्वयम् अपि दृष्ट्वा ते मुनयश् च तयोः स्व-
कृत-शापाद् अलज्जन्त --
यं वानयोर् दमम् अधीश भवान् विधत्ते
वृत्तिं नु वा तद् अनुमन्महि निर्व्यलीकम् ।
अस्मासु वा य उचितो ध्रियतां स दण्डो
ये ऽनागसौ वयम् अयुङ्क्ष्महि किल्बिषेण ॥ [भ्प् 3.16.25]
तथा तयोस् तस्यात्मीयत्वेनैव सह-कारुण्यम् अपि मुनिषु निर्गतेषु व्यक्तम्
अस्ति --
भगवान् अनुगाव् आह यातं मा भैष्टम् अस्तु शम् ।
ब्रह्म-तेजः समर्थो ऽपि हन्तुं नेच्छे मतं तु मे ॥ [भ्प् 3.16.29] इति ।
तस्मात् कार्य-निर्हीनत्वम् अपि । तेभ्यश् च सर्व-निर्हीनत्वेभ्यस् तटस्थान्
अतिक्रम्य परिकराणां प्रीत्य्-उत्कर्षो दर्शितः ।
ननु निरुपाधिप्रेमास्पदस्य प्रीतौ परिकरत्वाभिमान उपाधिः स्यात् ।
ततो ज्ञानात्मिकां सामान्यां च प्रीतिम् अपेक्ष्य तद्-अभिमानि-प्रीतयो गौण्य
एव स्युः । किं च ममतायाः प्रीति-हेतुत्वे जाते च यस्यात्मनः सम्बन्धात्
प्रीतिर् भवेत् तस्मिन्न् एव तद्-आधिक्यं स्यात् । नैवं श्रीभगवतो येन
स्वभावेनैवानुभूतेनाभिमान-विशेषं विनापि तेषां प्रीतिर् उदयते तेनापि
परिकराणाम् उदयते । तथा निज-स्वभाव-सिद्धो वा तात्कालिको वा
योऽभिमान-विशेषस् तेनाप्य् उदयते । समुच्चये को विरोधः । प्रत्युतोल्लास
एव । तत्र भगवत्-स्वभावमयत्वं भक्त-तात्कालिकाभिमान-
विशेषमयत्वं चाह-
गो-गोपीनां मातृतास्मिन्न् आसीत् स्नेहर्धिकां विना ।
पुरोवद् [भ्प् 10.13.25] इति । स्पष्टम् ।
॥ 10.13 ॥ श्री-शुकः
[93]
उभय-स्वभावमयत्वम् आह -
यथा भ्राम्यत्य् अयो ब्रह्मन् स्वयम् आकर्ष-सन्निधौ ।
तथा मे भिद्यते चेतश् चक्र-पाणेर् यदृच्छया ॥ [भ्प् 7.5.14]
स्पष्टम् ।
॥ 7.5 ॥ श्री-प्रह्लादः
[94]
किं च भक्ताभिमान-विशेषमयश् च प्रेमा भगवत्-स्वभावाविर्भूत
एवेति ब्रूमः । भगवति हि स्वरूप-सिद्धाः सर्वे प्रकाशा नित्यम् एव
वर्तन्ते इति श्री-भगवत्-सन्दर्भादौ दर्शितम् अस्ति । आगमादाव् अपि
नानोपासनाः श्रूयन्ते । तत्र यथा यत्र प्रकाशस् तथा तत्राभिमान-
विशेषमयी प्रीतिर् उदयते । प्रकाश-वैशिष्ट्य-हेतुश् च भक्त-विशेष-सङ्ग
एव नित्य-सिद्धेषु तु नित्य-सिद्ध एव तथा-प्रकाशः प्रीतिर् अभिमानश् च ।
अथ प्रीत्यैव सहोदयात् तादृशोऽभिमानोऽपि प्रीति-वृत्ति-विशेष इत्य् उक्तम् ।
तस्माद् अपि न तत्-समवायेन प्रीति-हानिः प्रत्युतात्यन्त-सन्निकर्ष-
व्यञ्जकेन तत्-तद्-अभिमानेन तस्या उल्लास एव । किं च लौकिकोऽपि ममता-
विशेष आत्मनोऽप्य् आधिक्येन स्वास्पदे प्रीतिं जनयति । पुत्राद्य्-अर्थम् आत्म-
व्ययादिकं दृश्यते । तथैवोक्तं व्रजेश्वरं प्रति श्री-भगवतैव - पित्रोर्
अप्य् अधिका प्रीतिर् आत्मजेष्वात्मनोऽपि हि [भ्प् 10.45.21] इति । भगवद्-विषया
ममता तु स्वात्म-गत-तदीयाभिमान-विशेष-हेतुकैव । तद्-अभिमान-
विशेषश् च तत्-स्वभाव-विशेष-हेतुक इत्य् उक्तम् । स च प्रथमम्
आविर्भवति । तद्-अनन्तरम् एव ममता-विशेष आविर्भवतीति । तस्माद् यथा
(पगे 54) तथा तत्-स्वभाव एव तत्-प्रीतेर् मूल-कारणम् -
ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत् ।
योऽभूत-पूर्व-स्तोकेषु स्वोद्भवेष्व् अपि कथ्यताम् ॥ [भ्प् 10.14.49] इति राज-
प्रश्नोत्तरं श्री-शुकदेवेन श्री-कृष्ण-प्रीतौ तत्-स्वभाव-सिद्धत्वम्
उक्तम् । तत्-स्वभावाविर्भाव-विशेषाविर्भूत-ममता-विशेषेण तु केवल-
ममता-हेतुक-प्रीतिम् अतिक्रम्य वैशिष्ट्यं चाभिप्रेतम् । तस्मात् सर्वथा
ममता-सम्बन्धेन प्रीते वैशिष्ट्यम् एव भवतीति सिद्धम् । भगवत्-
सम्बन्धेनात्मन्य् अपि तेषां प्रीतिर् जायते । तथैवाहुः -
सु-दुस्तरान् नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो ।
न शक्नुमस् त्वच्-चरणं सन्त्यक्तुम् अकुतो-भयम् ॥ [भ्प् 10.17.24]
टीका च-न मृत्योर् विभीमः । किन्तु त्वच्-चरण-वियोगाद् इत्य् आहुः न
शक्नुम इति इत्य् एषा । न च त्वच्-चरणं निज-वियोग-भयं न दूरीकर्तुम्
अर्हतीत्य् आहुः । अकुतोभयम् इति । यद् वा तव चर्ण-सन्निधाने सत्य् अस्माकं
सर्वम् एव सुखाय कल्पते अन्यदा तु दुःखायैवेत्य् आहुः । न विद्यते
कुतश्चिद् भयं येनेति ।
॥ 10.17 ॥ श्री-व्रजौकसः श्री-भगवन्तम्
[95]
तथा तत्-प्रीतेर् एव तत्-तद्-अभिमानोल्लासित्वम् । ततः श्री-भगवतोऽपि तत्-तद्-
अभिमानित्वम् आह - एष वै भगवान् साक्षाद् [भ्प् 1.9.18] इत्य् आदौ -
यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् ।
अकरोः सचिवं दूतं सौहृदाद् अथ सारथिम् ॥
सर्वात्मनः सम-दृशो ह्य् अद्वयस्यानहङ्कृतेः ।
तत्-कृतं मति-वैषम्यं निरवद्यस्य न क्वचित् ॥
तथाप्य् एकान्त-भक्तेषु पश्य भूपानुकम्पितम् ।
यन् मे ऽसूंस् त्यजतः साक्षात् कृष्णो दर्शनम् आगतः ॥ [भ्प् 1.9.20-22]
सौहृदात् तादृश-प्रेम्ण एव हेतोः । यं मातुलेयं मन्यसे प्रियं प्रीति-
विषयं मित्रं प्रीति-कर्तारं सुहृत्तमम् उपकार्नानपेक्षोपकारकं च
मन्यसे । अथ सारथिं सारथिम् अपीत्य् अर्थः । स एष साक्षाद्-भगवान् इत्य्
आदिकः पूर्वेणान्वयः ।
ननु भवतु प्रीति-विशेषेणास्माकं तस्मिंस् तथा मतिस् तस्य सर्वेषां
परमात्मनस् तस्माद् एव समदृशः परमात्मत्वाद् एव सर्वेषां तच्-
छक्ति-वैभव-रूपाणाम् आत्मनां ततोऽनन्यत्वाद् अद्वयस्य तस्माद् एव
मातुलेयोऽहम् इत्य् आद्य्-अभिमान-शून्यस्य, तथा निर्दोषस्य च कथम् अहम्
अस्य मातुलेयः । न त्व् अमुषेत्वादि-रूपं मातुलेयत्वादि-कृतं मति-
वैषम्यं स्याद् इत्य् आदि-पूर्व-पक्षोट्टङ्कन-पूर्वकं सिद्धान्तयति
सर्वात्मन इत्य् आदि द्वाभ्याम् ।
यद्यपि तादृशस्य तन् न सम्भवति तथापि हे भूप एकान्त-भक्तेषु
युष्मासु अनुकम्पां पश्य । येषां भक्ति-विशेषेण पर-वशः सन्न् असाव् अपि
तथा तथात्मानं बाढम् एवाभिमन्यत इत्य् अर्थः । यः खलु शरीरस्यापि
सम्बन्ध-हेतुः सोऽभिमान एव हि सम्बन्ध-हेतुर् मुख्यः, न शरीरम् ।
एवं सति, स्वाविर्भावादिना शरीर-सम्बन्धेऽपि तस्य मातुलेयत्वादिकं
सुतराम् एव सिध्यतीति तात्पर्यम् । तत्र हेतु-गर्भो दृष्टान्तः यन् मेऽसून्
इति । यस्मात् युष्मत्-सम्बन्धाद् एव हेतोः ।
तद् एवं परमोपादेयत्व-ज्ञानाद् एव तत्-सम्बन्धात्मक एव श्री-
भगवानुत्क्रान्ताव् अपि मुहुर् एव निजालम्बनी-कृतः विजय-सखे रतिर् अस्तु
मेऽनवद्या [भ्प् 1.9.33] इति, पार्थ-सखे रतिर् ममास्तु [भ्प् 1.9.35] इति, विजय-
रथ-कुटुम्बः [भ्प् 1.9.39] इत्य् आरभ्य भगवति रतिर् अस्तु मे मुमूर्षोः
इति च ।
॥ 1.9 ॥ भीष्मः श्री-युधिष्ठिरम्
[96]
तम् एवाभिमान-ममताभ्यां प्रीतेर् अतिशयं दर्शयति - (पगे 55)
राजन् पतिर् गुरुर् अलं भवतां यदूनां
दैवं प्रियः कुल-पतिः क्व च किङ्करो वः ।
अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ [भ्प् 5.6.18]
यस्याम् एव कवयः [भ्प् 5.6.17] इत्य् आदि प्राक्तन-गद्ये मुक्त्य्-अधिकतया
सामान्या प्रीति-लक्षण-भक्तिर् उक्ता । अत्र तु हे राजन् भवतां यदूनाम् अपि
पत्य्-आदि-रूपो भगवान् । एवं नाम दूरेऽस्तु श्री-भगवतस् तादृशत्व-
प्रापकस्य प्रेम-विशेषस्यास्य वार्ता सर्वेषाम् अपि दूरे स्थितेत्य् अर्थः ।
यतोऽन्येषां नित्यं भजताम् अपि मुकुन्दोऽसौ मुक्तिम् एव ददाति, न तु
भक्ति-योगं पूर्वोक्त-महिम-प्रीति-सामान्यम् अपीति पतित्वादि-भावमय्यां
परम-वैशिष्ट्यम् उक्तम् । अतस् तेष्व् एव यत् किञ्चिद् रूपत्वम् अपि श्री-
ब्रह्मणा प्रार्थितं तद् अस्तु मे नाथ स भूरि-भागः [भ्प् 10.14.30] इत्य्
आदिना ।
॥ 5.6 ॥ श्री-शुकः
[97]
अथ परिकराणाम् अपि भावेषु तारतम्यं विवेचनीयं, येषां
भगवत्तैवोपजीव्या । तत्र भगवत्ता तावत् सामान्यतो द्विविधैव ।
परमैश्वर्य-रूपा परम-माधुर्य-रूपा चेति । ऐश्वर्यं प्रभुता ।
माधुर्यं नाम च शील-गुण-रूप-वयो-लीलानां सम्बन्ध-विशेषाणां च
मनोहरत्वं, परमत्वं च चासमोर्ध्वत्वम् ।
अथ भक्तादि-चतुर्-विधाः परिकराअपि द्विविधाः । परमैश्वर्यानुभव-
प्रधानाः परम-माधुर्यानुभव-प्रधानाश् च । तत्रैश्वर्य-मात्रस्य
साध्वस-सम्भ्रम-गौरव-बुद्धि-जनकत्वं माधुर्य-मात्रस्य प्रीति-
जनकत्वम् इति सर्वानुभव-सिद्धम् एव । ततस् तत्रैश्वर्य-माधुर्ययोः
परमत्वम् इति ताभ्यां यथासङ्ख्यं साध्वसादीनां प्रीतेश् च
परमत्वम् एव स्यात् । अतएव -
देवकी वसुदेवश् च विज्ञाय जगद्-ईश्वरौ ।
कृत-संवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ [भ्प् 10.44.51]
पितराव् उपलब्धार्थौ विदित्वा पुरुषोत्तमः ।
मा भूद् इति निजां मायां ततान जन-मोहिनीम् ॥
उवाच पितराव् एत्य साग्रजः सात्वतर्षभः ।
प्रश्रयावनतः प्रीणन्न् अम्ब तातेति सादरम् ॥ [भ्प् 10.45.1-2] इत्य् आद्य्-
अनन्तरम्,
इति माया-मनुष्यस्य हरेर् विश्वात्मनो गिरा ।
मोहिताव् अङ्कम् आरोप्य परिष्वज्यापतुर् मुदम् ॥
सिञ्चन्ताव् अश्रु-धाराभिः स्नेह-पाशेन चावृतौ ।
न किञ्चिद् ऊचतू राजन् बाष्प-कण्ठौ विमोहितौ ॥ [भ्प् 10.45.10-11]
उपलब्धो जातो जगदीश्वरत्व-लक्षणोऽर्थो याभ्यां तथाभूतौ ज्ञात्वा ।
माभूद् इति । समारूढ-पितृत्व-पदवीकत्वेन ज्ञानि-भक्त-जन-केवल-
भक्त-जनादि-दुर्लभ-परम-प्रेमैक-योग्ययोस् तयोस् तद्-आच्छादकं तज्-
ज्ञानं न भवत्व् इति निजां मायाम् आवरण-शक्तिं निज-
जगदीश्वरत्वाच्छादनाय ततान विस्तारितवान् । तद्-अनन्तरं निज-तादृश-
प्रेम-पोष्कं माधुर्यम् एव व्यञ्जितवान् इत्य् आह उवाचेत्य् आदि ।
अथवा माया दम्भे कृपायां च इति विश्व-प्रकोशात् निजां स्व-विषयां
मायां कृपां तद्-आत्मिकां वात्सल्याख्यां प्रीतिं तयोस् ततान
आविर्भावितवान् । कीदृशीं या निज-माधुर्येण सर्वम् एव जनं मोहयति
ताम् । कथं ततानेत्य् आशङ्क्य निजैश्वर्याच्छादक-निज-माधुर्य-
प्रकाशनेनेत्य् आह उवाचेति ।
अथवा माया वयुनं ज्ञानम् इति निघण्टु-दृष्ट्या निजां तादृश-प्रेम-
जनकत्वेनान्तरङ्गां मायां निज-माधुर्य-ज्ञानं ततान । तत्-प्रकारम्
आह उवाचेति । माया-मनुष्यस्याशेष-विद्या-प्रचुरस्य नराकृति-पर-
ब्रह्मण इति ।
॥ 10.45 ॥ श्री-शुकः
[98]
तद् एवं पारमैश्वर्यस्य भक्तौ यत् क्वचिद् उद्दीपनत्वं, तत् तु
सम्भ्रम-गौरवादि तद्-अवयवस्यैव । तत्राप्य् अवयविनि प्रीत्यंशे तु
माधुर्यस्यैवोद्-दीपनत्वम् । उभय-समाहारस्य पुनः परमेश्वर-
(पगे 56) भक्ति-जनकत्वम् इति विवेक्तव्यम् ।
तद् एवं माधुर्यस्यैव प्रीति-जनकत्वे स्थिते तद्-अनुभवश् च श्रीमद्-
गोकुलस्य स्वभाव-सिद्धः । आगन्तुकः खल्व् ऐश्वर्यानुभवः । तथैव
श्री-गोवर्धनोद्धरणानन्तरे-
एवं-विधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते ।
अतद्-वीर्य-विदः प्रोचुः समभ्येत्य सु-विस्मिताः ॥ [भ्प् 10.26.1] इत्य्-आद्य्-
अध्याये,
दुस्त्यजश् चानुरागो ऽस्मिन् सर्वेषां नो व्रजौकसाम् ।
नन्द ते तनये ऽस्मासु तस्याप्य् औत्पत्तिकः कथम् ॥ [भ्प् 10.26.13]
इति श्री-गोप-गण-प्रश्ने, श्री-व्रजेश्वरेण च तद्-ऐश्वर्यम् आप्त-वाक्य-
द्वारैव तेषां समाधानायोक्तं, माधुर्यं तु स्वानुभव-सिद्धत्वेन
व्यञ्जितम् । यथाह-
श्रूयतां मे वचो गोपा व्येतु शङ्का च वो ऽर्भके ।
एनं कुमारम् उद्दिश्य गर्गो मे यद् उवाच ह ॥ [भ्प् 10.26.15] इत्य् आदि,
इत्य् अद्धा मां समादिश्य गर्गे च स्व-गृहं गते ।
मन्ये नारायणस्यांशं कृष्णम् अक्लिष्ट-कारिणम् ॥ [भ्प् 10.26.23] इत्य् अन्तम् ।
अथ गर्गो मां यद् उवाच ह इति शब्द-द्वारा परोक्षं ज्ञानम् उक्तम् ।
तत्रापि मन्ये इति वितर्क एव । अर्भक-कुमार-शब्द-प्रयोगस् तु बाल-भाव-
मय-माधुर्ये स्व-स्वभावानुभवस्य सूचक इत्य् अवगम्यते ।
॥ 10.26 ॥ श्री-व्रजेश्वरः
[99]
तथा मत्-कामा रमणं जारम् अस्वरूप-विदोऽबलाः [भ्प् 11.12.13] इति श्री-
भगवता चोक्तम् । न चैवं तेषाम् अज्ञानं च वक्तव्यम् । माधुर्य-
ज्ञानेनैव परम-भगवत्ता-ज्ञान-सद्-भावात् । यत एव तेषाम्
अन्यत्रानावेशः ।
यद् एव खल्व् आत्मारामाणाम् अपि मोदनम् । न च सर्वापि भगवत्ता
सर्वेणोपास्यते अनुभूयते वा । अपि तु स्व-स्वाधिकार-प्राप्तैव अनन्तत्वाद्
अनुपयुक्तत्वाच् च । अतएव वेदान्तेऽपि गुणोपासना-वाक्येषु तत्-तद्-विद्यायां
गुण-समाहारः पृथक् पृथग् एव सूत्र-कारेण व्यवस्थापितः ।
तथैवोक्तं-
यस्य यस्य हि यः कामस् तस्य तस्य ह्य् उपासनम् ।
तादृशानां गुणानां च समाहारं प्रकल्पयेत् ॥ इति ।
तथा मल्लानाम् अशनिः [भ्प् 10.43.17] इत्य् आदौ च टीका चूर्णिका-तत्र च
शृङ्गारादि-रस-कदम्ब-मूर्तिर् भगवांस् तत्-तद्-अभिप्रायानुसारेण
बभौ, न साकल्येन सर्वेषाम् इत्य् आह इत्य् एषा । अत्र परम-तत्त्वतया
जानताम् अपि न सम्यग्-ज्ञानम् इत्य् आयातम् । युक्तं चेदं तत्-तन्-माधुर्य-
विशेषाननुभवात् । माधुर्यानुभाविनां भक्तानां तु - यस्यास्ति भक्ति
भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः [भ्प् 5.18.12] इत्य् आदि-
न्यायेनानादृतम् अपि सर्वं ज्ञानं समय-प्रतीक्षकम् एव स्यात् ।
पूर्वत्रैव पद्ये तेषां परम-विद्वत्ताम् अभिप्रैति । यथा -
मल्लानाम् अशनिर् नृणां नर-वरः स्त्रीणां स्मरो मूर्तिमान्
गोपानां स्व-जनो ऽसतां क्षिति-भुजां शास्ता स्व-पित्रोः शिशुः ।
मृत्युर् भोज-पतेर् विराड् अविदुषां तत्त्वं परं योगिनां
वृष्णीनां पर-देवतेति विदितो रङ्गं गतः साग्रजः ॥ [भ्प् 10.43.17]
अत्र खलु पद्ये त्रिविधा जना उक्ताः प्रतिकूल-ज्ञानाः, मूढाः, विद्वांसश्
च । तत्र निरुपाधि-परम-प्रेमास्पदता-स्वभावे तस्मिन् विरोध-लिङ्गेन
मल्लानां कंस-पक्षीयासत्-क्षिति-भुजां कंसस्य च प्रतिकूल-ज्ञानत्वं
बोध्यते । विराड् अविदुषाम् इति पृथग्-उपादानेन (पगे 57) विराट्त्व-
ज्ञानिनाम् एव मूढत्वम् । पारिशेष्य-प्रमाणेनान्येषां तु विद्वत्तैव । तत्र
विराट्त्वं नाम विराद्-अंशे-भौतिक-देहत्वं यत्-किञ्चिन्-नर-दारकत्वम् इत्य्
अर्थः । अतस् तत्र मूढता । ते च भगवद्-याच्ञाम् अश्रद्दधानैर् याज्ञिक-
विप्रैः सदृशाः ।
केचित् तद्-अवज्ञातारो न द्वेष्टारो न च प्रीयमाणाः । अत्र तेषां भौतिकत्व-
स्फूर्तौ भक्तानां जुगुप्सां जायत इति बीभत्स-रसश् च भगवता पोष्यते ।
नर-वरत्वे तु तन्-माधुर्य-प्रभावयोर् अंशेनैव नरेषु तस्य
श्रेष्ठत्वम् अनुभूतम् इति तद्-अनुभव-सद्-भावात् साधारण-नॄणाम् अपि
विद्वत्ता । अतएव च सामान्य-भक्ताः । यथैव तेषां प्रीतिर् वर्णिता ।
निरीक्ष्य ताव् उत्तम-पुरुषौ जना
मञ्च-स्थिता नागर-राष्ट्रका नृप ।
प्रहर्ष-वेगोत्कलितेक्षणाननाः [भ्प् 10.43.20] इत्य् आदिना ।
एतेषां प्रजात्वेऽपि प्रायस् तदानीम् अजात-ममत्वान् न पाल्यान्तः-प्रवेशः ।
अथैवं तेषाम् अपि विद्वत्तायाम् अन्येषां सुतराम् एव सा । तत्रापि किम् उत
श्री-गोपानां । तथा हि तत्र नॄणां सामान्य-भक्तानां योगिनां तल्-लीला-
दिदृक्षा-गताकाशादि-स्थित-चतुःसन-प्रभृति-ज्ञानि-भक्तानां च ममत्व-
सूचक-पद-विन्यासो न कृतः । तथा-
तद् बलाबलवद् युद्धं समेताः सर्व-योषितः ।
ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ॥ [भ्प् 10.44.6] इत्य् आदौ ।
क्व व्रज-सार-सर्वाङ्गौ [भ्प् 10.44.8] इत्य् आदि-तद्-
वाक्योदाहृतानुकम्पामय-परम-प्रीति-विकाराणां नाना-भाव-स्त्रीणां
मध्ये स्मरत्वेन विदित-कृष्णानां गोप्यस् तपः किम् अचरन् [भ्प् 10.44.14]
इत्य् आदिक-गिरां स्त्री-विशेषाणां कान्त-भावाख्य-प्रीतेर् लोक-प्रसिद्ध-
स्मरेणापि मिश्रत्वेन श्री-व्रज-देवीवच् छुद्धत्वाभावः । तत्-काल-
दृष्टत्वेन ममत्वाभावश् चागतश् च । वृष्णि-पितृ-गोपानां तु तत्-तच्-
छब्दैर् ममता-विशेषः सूचितः ।
तस्माद् एतेष्व् एव परम-माधुर्यानुभवेषूत्तमत्वं मतम् । तत्र च
गोपानां स्वजनो वृष्णीनां पर-देवतेत्य् अनेन श्री-गोपानां बान्धव-
भावापादक-माधुर्य-ज्ञानं स्वाभाविकं, वृष्णीनां तु पर-
देवताभावापादकैश्वर्य-ज्ञानं स्वाभाविकम् इत्य् अङ्गीकृतम् ।
सम्बन्धाद् वृष्णयः [भ्प् 7.1.30] इति तु तथा गौणस्यापि बन्धु-भावस्य
तद्-अनुगतौ स्वतः प्राबल्यापेक्षयोक्तम् ।
किं च, तेषु यथा कंसादयः प्रतिकूल-ज्ञाना वृष्ण्य्-अधमाः ।
तथैवाविद्वांसः शतधन्व-प्रभृतयः सन्ति । तद्-अपेक्षयैव न यं
विदन्त्य् अमी भूपा एकारामाश् च सात्वताः [भ्प् 10.84.23] इत्य् आदिकं ज्ञेयम् ।
अत उत्तम-वृष्णितया सामान्यतो लब्धम् ऐश्वर्य-ज्ञानम् उत्तमम् एव श्री-
वसुदेव-देवक्योः सम्मतम् । ततः तत्-संसृष्टत्वेऽपि लीला-विशेषाद् एव
पित्रोः शिशुर् इत्य् अनेन माधुर्य-ज्ञानं व्यज्यते । अतो गौणत्वाद् एव -
नातिचित्रम् इदं विप्रा
वसुदेवो बुभुत्सया ।
कृष्णं मत्वार्भकं यन् नः
पृच्छति श्रेय आत्मनः ॥ [भ्प् 10.84.30] इत्य् आदौ श्री-नारदेन तन्
नानुमोदितम् ।
राज्ञा तु स्वाभाविकत्वात् श्री-व्रजेश्वरयोस् तद्-अनुमोदितम् । नन्दः किम्
अकरोद् ब्रह्मन् [भ्प् 10.8.46] इत्य् आदौ । तयोर् ऐश्वर्य-ज्ञानस्य
स्वाभाविकत्वं च जन्म-क्षणम् आरभ्य तादृश-स्तुत्य्-आदौ प्रसिद्धम् ।
अतएवअ पितराव् उपलब्धार्थो विदित्वा [भ्प् 10.45.1] इत्य् अत्र टीका-कारैर् अपि
तयोर् ऐश्वर्य-ज्ञानं सिद्धम् एव । पुत्रतया प्रेम तु दुर्लभम् इत्य्
उक्तम् । तथा श्री-गोपानां स्वजनत्वं सामान्यतो निर्दिष्टम् । तच् च वृष्णि-
कंसादिवन् न व्रजे क्वचिद् अपि (पगे 58) जने व्यभिचरति-
आबाल-वृद्ध-वनिताः सर्वे ऽङ्ग पशु-वृत्तयः ।
निर्जग्मुर् गोकुलाद् दीनाः कृष्ण-दर्शन-लालसाः ॥ [भ्प् 10.16.15] इत्य् आदि-
दर्शनात् ।
तद् एवं सति स्वयम् एव गोप-राजे कदाप्य् अव्यभिचारि-वात्सल्ये वैशिष्ट्यम्
आयातम् इति तस्यापि शिशुर् इति किं वक्तव्यम् इति भावः ।
॥ 10.43 ॥ श्री-शुकः
[100]
तद् एवं परम-माधुर्यातिशयानुभव-स्वभावत्वेन परम-ज्ञानित्वम्
एव श्री-गोपालानाम् अङ्गीकृतम् । अतएव दृष्ट-चतुर्भुजाद्य्-अनन्त-तद्-
आविर्भावेनापि ब्रह्मणा तेषाम् आलम्बनं रूपम् एव निजालम्बनीकृतम्
नौमीड्य तेऽभ्र-वपुषे [भ्प् 10.14.1] इत्य् आदिना । तेषाम् अपि यत्-
स्वभावत्वेनैव चागन्तुकाद् अन्य-ज्ञानात् नासौ प्रीतिर् व्यभिचरति । प्रत्युत
तद् एव तिरस्करोति । तेनानतराय-प्राये वर्धते च विषयिणां विषय-प्रीतिर्
इव । यतो विषयिणां विषयेषु स-दोषत्वे श्रुते दृष्टेऽपि राग-प्राप्त-
गुणवत्त्व-बुद्धिः प्रबला दृश्यते । तथैवोक्तं - या प्रीतिर् अविवेकानां
[विप् 1.20.19] इति । अत्र च श्री-सङ्कर्षणं प्रति श्रीमन्-नन्द-यशोदा-
वचनम्-
चिरं नः पाहि दाशार्ह सानुजो जगद्-ईश्वरः ।
इत्य् आरोप्याङ्कम् आलिङ्ग्य नेत्रैः सिषिचतुर् जलैः ॥ [भ्प् 10.65.3] इत्य्-आदि ।
येन वसुदेव-पुत्रत्वे क्षत्रियत्वे परमेश्वरत्वे च व्यक्ते श्री-
बलदेवस्यापि तत्-पुत्रोचित-भावो नान्यथा ज्ञातः । यथा तत्-पूर्वम् उक्तम्-
बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः ।
सुहृद्-दिदृक्षुर् उत्कण्ठः प्रययौ नन्द-गोकुलम् ॥
परिष्वक्तश् चिरोत्कण्ठैर् गोपैर् गोपीभिर् एव च ।
रामो ऽभिवाद्य पितराव् आशीर्भिर् अभिनन्दितः ॥ [भ्प् 10.65.1-2] इति ।
परमैश्वर्यादि-ज्ञान-स्वभावानाम् अपि प्रीति-प्राबल्य-मये तत्-तिरस्कारो
दृश्यते । यथा श्री-देवहूत्याः-
वनं प्रव्रजिते पत्याव् अपत्य-विरहातुरा ।
ज्ञात-तत्त्वाप्य् अभून् नष्टे वत्से गौर् इव वत्सला ॥ [भ्प् 3.33.21] इति ।
श्री-देवकी-देव्याः-समुद्विजे भवद्-धेतोः कंसाद् अहम् अधीरधीः [भ्प्
10.2.29] इति । श्री-युधिष्ठिरस्य-
अजात-शत्रुः पृतनां गोपीयाय मधु-द्विषः ।
परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्ते चतुरङ्गिणीम् ॥ [भ्प् 1.10.32]
इयं च तस्य प्रशंसाम् अर्थम् एवोक्तम्-
अथ दूरागतान् शौरिः
कौरवान् विरहातुरान् ।
संनिवर्त्य दृढ-स्निग्धान्
प्रायाद् स्व-नगरीं प्रियैः ॥ [भ्प् 1.10.33] इत्य् उक्त-वाक्येऽपि तादृग्-
अभिप्रायात् ।
तथा श्री-सङ्कर्षणस्य च-
श्रुत्वैतद् भगवान् रामो विपक्षीय-नृपोद्यमम् ।
कृष्णं चैकं गतं हर्तुं कन्यां कलह-शङ्कितः ॥
बलेन महता सार्धं भ्रातृ-स्नेह-परिप्लुतः ।
त्वरितः कुण्डिनं प्रागाद् गजाश्व-रथ-पत्तिभिः ॥ [भ्प् 10.53.20-21]
भगवान् सर्वज्ञोऽपीत्य् अर्थः । अतएव कृष्णं महा-बक-ग्रस्तं दृष्ट्वा
रामादयोऽर्भकाः [भ्प् 10.11.49] इत्य् आदिकम् अपि ।
तद् एवं माधुर्य-ज्ञानस्यैव बलवत्-सुखमयत्वे स्थिते तस्मिंश् च श्री-
गोपानाम् एव स्वाभाविकतया लब्धे ब्रह्मत्वेश्वरत्वानुभवम् अतिक्रम्य
तेषाम् एव भाग्येन श्री-शुकदेवोऽपि युक्तम् एव चमत्कृतिम् अवाप -इत्थं
सतां ब्रह्म-सुखानुभूत्या [भ्प् 10.12.11] इत्य् आदौ, नेमं विरिञ्चो न
भवः [भ्प् 10.9.20] इत्य् आदौ, नायं सुखाप इत्य् आदिकस्य गोपिका-सुत [भ्प्
10.9.21] अत्र, नायं श्रियोऽङ्ग [भ्प् 10.47.60] इत्य् आदौ च । क्वचिच् च तादृश-
स्वभावेषु तेष्व् ऐश्वर्य-प्रकटनम् अपि विस्मय-द्वारा माधुर्य-ज्ञानम्
एव पुष्णाति । अस्माकं पुत्रादि (पगे 59) रूपोऽयं कथम् ईदृश-क्रियावान्
इति । तथा-
नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः ।
कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ [भ्प् 10.28.17] इत्य् आदि ।
तद् एवं शुद्धत्वाच् छ्री-गोकुल-बालिकानाम् एव प्रीतिः प्रशस्ता । यथोक्तं
एषां घोष-निवासिनाम् उत भवान् [भ्प् 10.14.35] इति । यत्रैव पशूनाम् अपि
परमः स्नेहो दृश्यते । यथा काली-ह्रदावगाहे-
गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः ।
कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे ॥ [भ्प् 10.16.11] इति ।
तथा तत उत्थाने नरा गावो वृषा वत्सा लेभिरे परमां मुदाम् [भ्प्
10.17.16] इति । तथा स्थावराणाम् अपि तत्रैव कृष्णं समेत्य लब्धेहा आसन्
शुष्का नगा अपि [भ्प् 10.17.65] इति ।
अतएव श्री-ब्रह्मणापि प्रार्थितम्-
तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां
यद् गोकुलेऽपि कतमाङ्घ्रि-रजोऽभिषेकम् । [भ्प् 10.14.34] इति ।
तद् एवं परम-माधुर्यैक-ज्ञान-निधौ श्रीमति गोकुलेऽपि अनुगता
बान्धवाश् चेति द्विविधानां तत्-प्रियाणां मध्ये ममता-विशेष-धारित्वाद्
अन्त्यानां महान् एवोत्कर्षः । यथोक्तं - अहो भाग्यम् अहो भाग्यम् [भ्प्
10.14.32] इत्य् आदिना । अत्र व्रजौकसां कनिष्ठेष्व् अपि तेन मित्रतया स्वीकार
इति यद् उच्यते तत् खलु मित्रतायाः प्रशंसाम् एवावहतीति ।
अथ तेष्व् अपि सखीनां तावद् उत्कर्षम् आह-
इत्थं सतां ब्रह्म-सुखानुभूत्या
दास्यं गतानां पर-दैवतेन ।
मायाश्रितानां नर-दारकेण
साकं विजह्रुः कृत-पुण्य-पुञ्जाः ॥ [भ्प् 10.12.11]
सतां ज्ञानिनां ब्रह्मत्वेन स्फुरंस् तावद् विरल-प्रचारः । दास्यं
गतानां-
मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ [भ्प् 6.14.3-5]
इत्य् अनुसारेण पर-दैवत्वेन स्फुरंस् ततोऽपि विरल-प्रचारः । मायाश्रितानां
तु ज्ञान-भक्ति-मैत्री-हीनानां चिद्-एक-रूपत्वेन न स्फुरति । न च
परमेश्वरत्वेन, न च प्रेमास्पदत्वेन । ततस् तदीयासाधारणता-स्फूर्तौ
योग्यताश्रयाभावात् । अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम्
[गीता 9.11] इति न्यायेन अलभ्य एवेति पाद-त्रयेण तस्योदय-मात्र-
दौर्लभ्यं विवक्षितम् ।
ततश् चैवम्भूतो योऽसुलभ-स्फूर्तिः श्री-कृष्णस् तेन समं साक्षाद् एव
प्रेम-भूमिकोत्कर्षम् अधिरूढेन परम-सख्येनापि विजह्रुर् इति श्री-
शुकदेवस्य चमत्कारः ।
अथवा योऽयम् अहो तदानीं विषूचीनया कृपया मायाश्रितानां साधारण-
जनानाम् अपि दर्शित-सर्वाकारातिक्रमित्-माहात्म्येन साक्षान् नराकृति-पर-
ब्रह्मत्वेन स्फुरंस् ततोऽपि तथा तथा लब्धे लाभे बन्धु-भावस् तु तैर्
न लब्धः । सखायस् तु तथाभूतेन तेन सार्धं बन्धु-भावोत्कर्ष-
रूपेण सख्येन विजह्रुर् इत्य् अतस् त एव कृत-पुण्य-पुञ्जाः श्री-भगवत्-
पारितोषिकानेक-सत्-कर्म-कारि-वृन्देषु परम-श्रेष्ठा इत्य् अर्थः । अतएव
बान्धवान्तरेषु नेदृशं सख्यम् अस्तीति तेभ्योऽपि माहात्म्यम् आयातम् ।
अतएव किम् एषां सखीनां साक्षात् तेन समं प्रणय-लक्षण-हार्द-
विशेषेण विहरतां (पगे 60) भाग्यं वर्णनीयम् । ये साधारणा अपि व्रज-
वासिनस् तेषाम् अप्य् आस्तां तत् तद् अन्यद् भाग्यम् । तद्-दर्शन-मात्र-
भाग्यम् अपि परेषां महा-मुनीनां परम-दुर्लभम् एवेत्य् अभिप्रायेण
यत्-पादांशुर् बहु-जन्म-कृच्छ्रत [भ्प् 10.12.12] इत्य् अनन्तर-पद्यम् अपि
व्याकृत्यैतद् एव सखीनां महा-भाग्य-वर्णनं पोषणीयम् ।
अतएवाक्रूरेण अथावरूढ [भ्प् 10.38.15] इत्य् अत्र नमस्य आभ्यां च सखीन्
वनौकस इति चोक्तम् ।
तद् एतत् तावद् अस्तु येषु सखिषु वत्सेष्व् अपि ब्रह्मणा हृतेषु अन्यान् सृज्यां
तत् तुल्यान् दृष्ट्वा स्वयम् एवैतत् तया बभूव । तेष्व् अपि परितोषम् अप्राप्य
तान् सखीन् एवानिनायेत्य् अप्य् अनुसन्धेयम् ।
॥ 10.12 ॥ श्री-शुकः
[101]
अथ तेभ्योऽपि श्री-पित्रोर् उक्तं -
ततो भक्तिर् भगवति पुत्री-भूते जनार्दने ।
दम्पत्योर् नितराम् आसीद् गोप-गोपीषु भारत ॥ [भ्प् 10.8.51] इत्य् अनेन ।
भक्तिः प्रेम । नितरां स्नेह-राग-पराकाष्ठाध्यारूढत्वात् । गोपाः
सर्वे । गोप्यस् तत्-प्रेयसी-वर्ग-वनिताः । वक्ष्यमाणानुरोधात् । अथ
सर्वेभ्योऽपि मुनि-गण-प्रशस्तत्या सर्वतोऽपि प्रेम-प्रणय-मान-राग-
वैशिष्ट्य-पुष्टया विशेषतोऽनुराग-महाभाव-सम्पत्ति-धारिण्या स्व-
प्रीत्या वशीकृत-कृष्णानां श्री-व्रज-देवीनां त्व् असमोर्धम् एव तद्-
वैभवम् । एतत्-क्रमेणैवोद्धवस्याप्य् अनुज्ञापन-क्रमो दृश्यते । यथा -
अथ गोपीर् अनुज्ञाप्य यशोदां नन्दम् एव च ।
गोपान् आमन्त्र्य दाशार्हो यास्यन्न् आरुरुहे रथम् ॥ [भ्प् 10.47.64] स्पष्टम् ।
॥ 10.47 ॥ श्री-शुकः
[102]
अतएव सर्वम् अपि श्री-गोकुलम् अतिक्रम्य -
दृष्ट्वैवम्-आदि गोपीनां कृष्णावेशात्म-विक्लवम् ।
उद्धवः परम-प्रीतस् ता नमस्यन्न् इदं जगौ ॥
एताः परं तनु-भृतो भुवि गोप-वध्वो
गोविन्द एव निखिलात्मनि रूढ-भावाः ।
वाञ्छन्ति यद् भव-भियो मुनयो वयं च
किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य ॥ [भ्प् 10.47.57-58]
परं केवलम् एतास् तनु-भृतः सफल-जन्मानः । अतोऽखिलम् आत्मनि
परमात्मत्वेन सर्वेषाम् अपि दुर्लभ-स्फूर्ति-मात्रे स्व-सन्निधौ तु
गोविन्दे साक्षात् श्री-गोकुलेन्द्रतया विराजमाने एवम् ईदृश-भाव-विशेष-
माधुर्येण रूढ-भावाः उद्भूत-महा-भावा जाताः । यद् एव
महाभाव-तात्पर्यान्त-गति-समर्थं भाव-विशेष-माधुर्यं यदि
यदृच्छया वर्णन-द्वारा कर्ण-गोचरं स्यात्, तदा स्व-स्वभावं परित्यज्य
यद् अयं भावं प्रेम्णः पराकाष्टेयम् इत्य् अनुभाव-महिम-द्वारा
वितर्क्य भव-भियो मुमुक्षवो मुनयो प्राप्नुमः । एतासाम् इवास्माकं
तन्-माधुर्य-विशेषास्वाद-योग्यत्वाभावाद् इति भावः । तत्र तद्-अवाञ्छकं
निन्दति । अनन्तस्यानन्त-लीलस्य श्री-कृष्णस्य कथासु कथा-मात्रेषु किम् उत
ईदृशीषु कथासु अरसो रसाभावो यस्य तस्य साङ्ख्यैर् विरिञ्च-जन्मभिर् अपि
किं, न किञ्चिद् अपीत्य् अर्थः ।
[103]
ननु ते मुक्ता मुमुक्षवश् च तत्-तद्-भावेन शास्त्र-प्रशस्ता एव । भक्तास्
त्व् अतितमाम् । तर्हि तद्-विधानां कथम् अन्यत्र वाञ्छा । तत्राह -
क्वेमाः स्त्रियो वन-चरीर् व्यभिचार-दुष्टाः
कृष्णे क्व चैष परमात्मनि रूठ-भावः ।
नन्व् ईश्वरो ऽनुभजतो ऽविदुषो ऽपि साक्षाच्
छ्रेयस् तनोत्य् अगद-राज इवोपयुक्तः ॥ [भ्प् 10.47.59]
तत्र तासु श्रीमद्-उद्धवस्योपक्रमोपसंहारादिषु महा-भक्तेर् एव
स्पष्टत्वात्, तासां श्री-कृष्ण-भजने व्यभिचारित्वस्य सुतरां तद्-दोषस्य च
रासान्ते -
गोपीनां तत्-पतीनां च
सर्वेषाम् अपि देहिनाम् । (पगे 61)
यो ऽन्तश् चरति सो ऽध्यक्षः
क्रीडनेनेह देह-भाक् ॥ [भ्प् 10.33.35] इत्य् आदिना निराकृतत्वात् ।
स्वयम् एवाधुनापि परमात्मनीति तस्यैव सूच्यमानत्वात् । दुर्धियां मते
वा तासां व्यभिचार-शीलत्वस्य तु आर्य-पथं हित्वा [भ्प् 10.47.61] इति
प्राप्यस्यैव परित्यागोपपत्तेः स्वयम् एव निराक्रियमाणत्वाद्
अन्यथार्थस्याप्रस्ताव्यत्वम् इति वक्ष्यमाण एवार्थः समञ्जसः । यथा -
इमा वनचर्यः वृन्दावन-विहारिण्यः स्त्रियः कृष्णे तद्-रूपे आश्रये क्व कां
वा भूमिकाम् अधिकृत्य वर्तन्ते । तया व्यभिचार-दुष्टा एतादृश-
भावोत्कर्षाभावेन यो व्यभिचारो गाढ-तद्-आसक्त्य्-अभावस् तेन दुष्टा
अन्ये भव-भी-प्रभृतयो वयं वा तस्मिन् क्व कां भूमिकाम् अधिकृत्य
वर्तामहे । ततो महद् एवान्तरम् इति भावः । कथम् ? एष श्री-गोप-
वधूष्व् एतासु दृश्यमानः परमात्मनि सर्वेषाम् एव भजनीयत्वेन
स्पृहास्पदे परमेश्वरे रूढ-भावः उद्भूत-महा-भावः
समुज्जृम्भते । न त्व् अस्मास्व् इति ।
तर्हि ताभिर् अनुभूयमानस्य ताड्श-भाव-जनकस्य श्री-कृष्ण-गुण-
विशेषस्यानभिज्ञा यूयं कथं तद्-वाञ्छयापि तत् प्राप्स्यथ, तत्राह नन्व्
इति । अविदुषोऽपि । तत्र ममैव अकस्मात् स्वयम् अत्र प्रस्थापितस्य
दृष्टान्तत्वम् इति भावः । यथोक्तं स्वयम् एव - विरहेण महाभागा
महान् मेऽनुग्रहः कृतः [भ्प् 10.47.27] इति ।
अथवा- पूर्वम् एवार्थं तद्-रस-विमुखीनां महा-पतिव्रतानाम् अपि
निन्दया द्रढत्यति क्वेमा इति । इमाः श्री-वृन्दावन-विहारिण्यः श्री-कृष्ण-
प्रेयस्यः स्त्रियः क्व । अ-कार-प्रश्लेषेण याश् च वन-चर्यस् तद्-वन-
विहारिणीभ्यस् ताभ्यो भिन्नाः । अथ च स्त्रियो व्रतिअस् त्वाम् [भ्प् 5.18.19] इत्य्
आदि केतुमाल-वर्ष-वर्णन-स्थित-लक्ष्मी-वचन-रीत्या परमात्मनि स्वतः
सर्व-पतौ श्री-कृष्णे वैमुख्येन व्यभिचार-दुष्टाः स्त्रियः क्व । महद्
एवान्तरम् इति भावः । यतश् चैतास्व् एष सर्व-पुरुषार्थ-शिरोमणि-रूपो
रूढ-भावो दृश्यते न तु तास्व् इव तल्-लेशस्याप्य् अभाव इति ।
[104]
एवं परम-प्रेमवतीष्व् आसुअ तस्य सौदृदम् अपि परम-काष्ठापन्नं
भवेत् । यतो भक्त-मात्राणां स्वभावत एव सुहृद् असाव् इत्य् आह नन्व् इति ।
किं बहुना -
नायं श्रियो ऽङ्ग उ नितान्त-रतेः प्रसादः
स्वर्-योषितां नलिन-गन्ध-रुचां कुतो ऽन्याः ।
रासोत्सवे ऽस्य भुज-दण्ड-गृहीत-कण्ठ-
लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् ॥ [भ्प् 10.47.60]
अङ्गे तदीये श्री-वैकुण्ठ-नाथाख्य-श्री-विग्रह-विशेषे परम-प्रेयसी-
रूपायाः श्रियो या नितान्त-रतिः प्रगाढः कान्त-भावः तस्या अपि अयं
एतावान् प्रसादः सौख्य-प्रकाशो नास्ति । यदि श्रियोऽपि नास्ति तदा नलिनस्य
तत्रत्य-दिव्य-स्वर्ण-कमलस्येव गन्धो रूक् कान्तिश् च यासां तादृशीनाम् अपि
स्वर्-योषितां वैकुण्ठ-पुराङ्गनानाम् अन्यासां सुतराम् एव नास्ति । ततः
कुतोऽन्याः । अन्याः पुनर् दूरतोऽपि निरस्ता इत्य् अर्थः । कासाम् इव कियान्
प्रसादो नास्ति, तत्राह रासेति । अस्य श्री-व्रजेन्द्र-नन्दन-रूपस्य । यद्-
वाञ्छया श्रीर् ललनाचरत् तपः [भ्प् 10.16.36] इत्य् उक्त-दिशा तस्या अपि
स्पृहणीयस्य इत्य् अर्थः । ततो न केवलं विप्रलम्भ एवासाम् ईदृशो
भावोत्कर्षः परन्तु सम्भोगेऽपि लक्ष्या अपि स्पृहणीयः । तेन मद्-
विधानां का वार्ता इति भावः । भुज-दण्ड-गृहीत-कण्ठ-लब्धाशिषां
परमावेशेन गृहीत-कण्ठतया प्राप्त-परम-मनोरथानां रासोत्सवे
वः यावान् उदगात् सततं निगूढमन्तः सन्न् अपि प्राकट्यं प्रापेति । अपि यत्
स्पृहा श्रीः [भ्प् 10.15.8] इत्य् अत्र (पगे 62) लक्ष्मी-स्पर्धामय-वाक्ये व्रज-
सुन्दरीणाम् इति सुन्दरी-पद-विन्यासः सौन्दर्यादिकम् अपि तासां तद्वद्
अधिकम् इति सूचयति । तच् च युक्तं यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना [भ्प्
5.18.12] इति न्यायेन तद्-उत्कर्षत उत्कर्ष-प्राप्तेः । अत्र सर्व-भाव-
शिरोमणिना कान्त-भावांशेनैवोभयत्र तारतम्यं दर्शितम् । न तु न च
सङ्कर्षणो न श्रीः [भ्प् 11.14.15] इत्य् आदाव् इव भक्ति-जायात्वांशाभ्याम् ।
ततो नान्येन साधारण्यं मन्तव्यम् । श्री-कृष्ण-लक्षण-स्वयं-भगवद्-
विषयतया विशेषान्तरं स्वस्त्य् एवेति ज्ञेयम् ।
[105]
तस्माद् आस्तां तावद् आसां भाव-च्छवि-लाभाभिलाषः । मम त्व् इदम् एव
प्रार्थनीयम् इथ् आह -
आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां
वृन्दावने किम् अपि गुल्म-लतौषधीनाम् ।
या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा
भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् ॥ [भ्प् 10.47.61]
अयम् अर्थः - मय्य् आसां श्री-कृष्ण-प्रेम-विशेष-च्छवि-स्पर्शोऽपि न
सम्भवत्य् एव विजातीय-जन्म-वासनत्वात् । ततश् च साक्षाच् चरण-स्पर्शोऽपि
नेति किं वक्तव्यम् । यद्य् एवं तद् आसां चरणस्य यो रेणुस् तस्य स्पर्श-
भाग-धेयानां श्री-गुल्म-लतौषधीनां मध्ये किम् अपि यत् किञ्चिद्
अनादृत-रूपम् इति स्याम् इति । अहो इत्य् अभिलाष-कृत-हृदयार्तौ ।
कथम्भूतानाम् इत्य् आह या इति । याः खलु कुल-वधूत्वाद् आपात-विचारेण
स्वयं दुस्त्यजं स्वजनम् आर्य-पथं च हित्वा रागातिशयेन लोक-वेद-
मर्यादाम् उल्लङ्घ्येत्य् अर्थः । वस्तुतस् तु श्रुतिभिर् विमृग्यां सर्व-श्रुति-
समन्वयेन परम-पुरुषार्थ-शिरोमणितया निर्णेयाम् ईदृश-परम-
प्रेम-लक्षणां मुकुन्दस्य प्रस्तुतत्वात् श्री-व्रजेन्द्र-नन्दन-रूपस्य
पदवीं तदीय-संयोगानन्द-पद्धतिं भेजुर् इति ।
[106]
तद् एवम् आर्य-पथं त्यजाम इति तु तासां भ्रम एवेति भावः । य एव तत्-
संयोगानन्दः श्री-प्रभृतीनां परम-दुर्लभ एवेति स्वयम् एव व्यनक्ति ।
या वै श्रियार्चितम् अजादिभिर् आप्त-कामैर्
योगेश्वरैर् अपि यद् आत्मनि रास-गोष्ठ्याम् ।
कृष्णस्य तद् भगवतश् चरणारविन्दं
न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ [भ्प् 10.47.62]
या रास-गोष्ठ्यां विराजमानस्य श्री-कृष्णस्य भगवतः परम-
माधुर्य-सार-भगवत्ताप्रकाशिनस् तद्-अनिर्वचनीय-माधुर्यक-
प्रकृष्टं पदारविन्दं न्यस्तं, तेन स्वयम् अर्पितं परिरभ्य तापं
साक्षात् तद्-अप्राप्ति-हेतुकम् आधिं जहुः । तत् तु योगेश्वरैर् भक्ति-योग-
प्रवीणैः श्री-शुकादिभिर् अपि आत्मनि मनस्य् एवार्चितम् । यद् वाञ्छया श्रीर्
ललनाचरत् तपः [भ्प् 10.16.36] इत्य् उक्त-दिशा श्रियापि यत् प्राप्तुं मनस्य्
एवार्चितम् । तच् च सदैवानादित एव न तु कदाचिद् अपि साक्षात् प्राप्तम् । तद्-
अश्रवणाद् इति भावः ।
[107]
एवं तासाम् एव साक्षान् नमस्कारे कृत-चित्ततया तथाविधं गायन्न् एवासौ
पुनर् अपि महा-महिम-स्फूर्तेर् अतिदैन्य-भर-सङ्कुचिततया तत्राप्य्
आत्मनोऽनधिकारितां मन्यमानस् तत्-पाद-रेणुम् एव नमस्कुर्वन् तत्रापि
दैन्येन तद्-एक-वर्ग-सम्बन्धात् साधारण-व्रज-स्त्रीणाम् एव नमस्करोति
वन्दे नन्द-व्रज-स्त्रीणां पाद-रेणुम् अभीक्ष्णशः ।
यासां हरि-कथोद्गीतं पुनाति भुवन-त्रयम् ॥ [भ्प् 10.47.63]
उत्तरार्धेन तादृशीनाम् अप्य् आसां साक्षाद् एव पाद-रेणुं वन्दे, तद् एतद्
अप्य् अहो अस्माकं (पगे 63) भाग्यम् अस्तीत्य् एतद् अपि महद् अद्भुतम् इति
भावः । अत्रैतद् उक्तं भवति -
एते हि यादवाः सर्वे मद्-गणा एव भामिनि । [पद्मप् 6.89.22]
सर्वदा मत्-प्रिया देवि मत्-तुल्य-गुण-शालिनः ॥
इति पाद्म-कार्तिक-माहात्म्य-दृष्ट-श्री-भगवद्-वाक्यानुसारेण
शय्यासनाटनालापे [भ्प् 10.90.46] इत्य् आद्य्-अनुसारेण च यादवा एव तावत्
स्वयं भगवतः श्री-कृष्ण-देवस्य परम-प्रेष्ठाः । अतः
प्रादुर्भावान्तर-भक्तास् तु स्वतो दूरत एव स्थिता ।
अथ भक्तान्तरेषु यादवेष्व् अपि त्वं तु भागवतेष्व् अहम् [भ्प् 11.16.29],
त्वं मे भृत्यः सुहृत् सखा [भ्प् 11.11.49], नोद्धवोऽण्व् अपि मन्-न्यूनः
[भ्प् 3.4.31], न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् [भ्प्
11.14.15] इत्य् आदि काम-कृच्-छ्री-कृष्ण-वाक्यानुसारात् भक्त्य्-अंशेन तु
सर्वतोऽप्य् उद्धव एव श्रेयान्, तस्य तु श्री-व्रज-देवीष्व् एवैवं दैन्य-
वचनं, न जातु महिषीस्व् अपीति जातान्धस्यापि चाक्ष्षम् एवेदं तासां यशो-
राका-चन्द्रमः-सौन्दर्यम् इति ॥
॥ 10.47 ॥ श्री-उद्धवः ॥ 102-107 ॥
[108]
तत्र स्वेभ्यः षोडश-सहस्र-सङ्ख्याभ्यः श्री-यदु-देवस्य पत्नीभ्यस्
तथाष्टभ्यः पट्ट-महीषिभ्यश् च तासां माहात्म्यं वदन्त्यः
परमकाष्ठापन्नतया श्री-राधिका-देव्या आहुः --
न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यम् अप्य् उत ।
वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥
कामयामह एतस्य श्रीमत्-पाद-रजः श्रियः ।
कुच-कुङ्कुम-गन्धाठ्यं मूर्ध्ना वोठुं गदा-भृतः ॥
व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृण-वीरुधः ।
गावश् चारयतो गोपाः पाद-स्पर्शं महात्मनः ॥ [भ्प् 10.83.41-43]
हे साध्वि, साम्राज्यादिकं न कामयामहे । तत्र साम्राज्यं सार्वभौमं
पदम् । स्वाराज्यं ऐन्द्रं पदं भोज्यं तद्-उभय-भोग-भाक्त्वम् ।
भुनक्तीति भुक् तस्य भाव इति । विविधं राजत इति विराट् तस्य भावो
वैराज्यम् । अणिमादि-सिद्धि-भाक्त्वम् इत्य् अर्थः । पारमेष्ट्यं ब्रह्म-
पदम् । आनन्त्यं ये ते शतम् [तैत्तु 2.8.2] इत्य् आदि-श्रुति-रीत्या
मनुष्यानन्दम् आरभ्य शत-शत-गुणितत्वेन प्राजापत्यस्य गणनायाः
परां काष्ठां दर्शयित्वा पर-ब्रह्मणि तु यतो वाचो निवर्तन्ते [तैत्तु
2.4.1] इत्य् अनेन यदानन्दस्यानन्त्यं दर्शितं तद् अपीत्य् अर्थः । किं बहुना,
हरेः श्री-पतेः पदं सामीप्यादिकम् अपि यत् तद् एतद् अपि न कामयामहे ।
नाधीनं कर्तुम् इच्छाम इत्य् अर्थः ।
तर्हि किम् अधिकं लब्धं कामयध्वे ? न, तत्राहुः - एतस्यास्मत्-पतित्वेन
सर्व-विज्ञातस्य गदा-भृतः श्रीमत्-पादरज एव तावन् मूर्ध्ना वोड्ध्रुं
कामयामहे । तत्रापि यत् श्रियः कुच-कुङ्कुम-गन्धेनाढ्यं तद्-
गन्धेन प्राप्त-सम्पद्-विशेषं तत् पुनर् अधिकं कामयामह इत्य् अर्थः ।
ननु, श्रीपतेर् एव पदं श्री-कुङ्कुम-गन्धाढ्यं [वृ. हेरे अद्द्स्: तत्-
सामीप्याद् इत्य् आगात् तत् तु भवत्यस् त्यक्तवत्य एव । यदि च श्रीर् अत्र
रुकुम्ण्य् अभिप्रेयते तर्हि तत् तु भवतीनां प्राप्तम् एव । तस्मात् तत्-तद्-
विलक्षणाया एव श्रियः कुच-कुङ्कुम-गन्धाढ्यम् । वृ. अद्दितिओन् एन्द्स्.] तत्
स्याद् इति गम्यते । ततस् तद्-अवबोधनाय पुनर् विशिष्यताम् । तत्राहुः व्रज-
स्त्रिय इति । पूर्णाः पुलिन्द्य उरुगाय [भ्प् 10.21.17] इत्य् आदि स्व-वाक्याद्य्-
अनुसारेण व्रज-स्त्र्य्-आदयो यद् वाञ्छन्ति ववाञ्छुर् इत्य् अर्थः । वर्तमान-
प्रयोगेण तत्-तद्-अविच्छेद उत्प्रेक्ष्यते । अत्र पुलिन्द्य्-आदि-निर्देशस् तु स्वेषाम्
अपि तत्-प्राप्ति-योग्यता-विवक्षया । तृण-वीरुधो (पगे 64) दूर्वाद्याः । आसां
तादृग्-अनुभवश् च तत्-कुच-कुङ्कुम-सौरभ-वासितत्वाविच्छिन्न-तत्-
पादप-भावाद् एवेति भावः । गावो गाः । चारयतश् चारयन्तः । गोपा इत्य् अन्ते
निर्देशस् तु केषांचित् प्रिय-नर्म-सखादीनां तद्-अनुमोदकारित्वेऽपि
पुरुषत्वात् तत्रायोग्यता-विवक्षया । अयं भावः - श्रीत्वेन प्रसिद्धायाः
श्रियस् तत्र कामनैव श्रूयते, न तु सङ्गतिः । यद्-वाञ्छया श्रीर् [भ्प्
10.16.36] इति नाग-पत्नीनां, या वै श्रियार्चितम् [भ्प् 10.47.62] इत्य् उद्धवस्याप्य्
उक्तेः ।
न च रुक्मिणीत्वेन प्रसिद्धाया श्रियस् तत्र सङ्गतिः । काल-देशयोर्
अन्यतमत्वात् । न च व्रज-स्त्रीणां श्री-सम्बन्ध-लालसा युक्ता - नायं
श्रियोऽङ्ग [भ्प् 10.47.60] इत्य्-आदिना ततोऽपि परमाधिक्य-श्रवणात् । तस्माद्
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इति मात्स्यानुसारेण
रुक्मिण्या सह पठिता । शास्त्र-दृष्ट्या तूपदेशो वाम-देवाद् [व्स्. 1.1.30] इति
न्याय-रीत्या महेन्द्रेण परमेश्वर इव दुर्गयाप्य् अहंग्रहोपासना-
शास्त्र-दृष्ट्या स्वाभेदेनोपदिष्टा । श्री-राधा तु सर्वतः पूर्णा तल्-
लक्ष्मीः ।
तथा देवी कृष्णमयी प्रोक्ता राधिका इत्य् आदि बृहद्-गौतमीयानुसारेण,
राधया माधवो देवो माधवेनैव राधिका इत्य् आदि ऋक्-परिशिष्टानुसारेण
च तासु राधात्वेन प्रसिद्धा सर्वतो विलक्षणा या श्रीर् विराजते ताम्
उद्दिश्यैव तासां तद् इदं वाक्यम् । यथा च - अनयाराधितो नूनं भगवान्
[भ्प् 10.30.28] इत्यादि । अप्य् एणपत्न्य्-उपगत [भ्प् 10.30.11] इत्य्-आदि-द्वयं च ।
ततश् च तासां यथा तत्र स्पृहास्पन्दता तथास्माकं चेति ।
तद् एवं तादृश-प्रेम-स्फूर्तिमय-तद्-गन्धाढ्यतायाः सम्प्रत्य् अप्य्
अस्मासु प्रकाशः स्याद् इति दर्शितम् । न केवलं तादृशं तद्-रज एव
वाञ्छन्ति अपि तु तादृश-पाद-स्पर्शम् च । अतो वयम् अपि तं कामयामह
इत्य् अर्थः । यद् वा तद्-रजस एव विशेषणं पाद-स्पर्शम् इति । तद्-अव्यभिचारि-
फलत्वाद् अभिन्नम् एवेत्य् अर्थः ।
एतस्य तत्र कीदृशस्य ? महान् सर्वत्रत्याद् अपि स्वभावाद् उत्तम आत्मा
सौन्दर्यादि-प्रकाश-मयः स्वभावो यस्य तादृशस्य तत्रातिशुशुभे ताभिर्
भगवान् [भ्प् 10.33.6] इति श्री-शुकोक्तेः ॥
॥ 10.83 ॥ श्री-महिष्यो द्रौपदीम्
(पगे 65)
[109]
अथ तत्रैव श्री-राधा-देव्याः, आदि-पुराणे -
त्रैलोक्ये पृथिवी धन्या तत्र वृन्दावनं पुनः ।
तत्रापि गोपिकाः पार्थ तत्र राधाभिधा मम ॥ इति ।
पाद्मे कार्त्तिक-माहात्म्ये -
यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा ।
सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥ इति ।
अतएव तस्या एव प्रमाधिक्यं वर्णितम् आग्नेये वासना-भाष्योद्धृतं
वचनम् -
गोप्यः पप्रच्छुर् उषसि कृष्णानुचरम् उद्धवम् ।
हरि-लीला-विहारांश् च तत्रैकां राधिकां विना ।
राधा तद्-भाव-संलीना वासनाया विरामिता ॥ इति ।
नवमावस्था-प्राप्तत्वेन प्रश्नादि-वासनाया विरामिता तस्याम् असमर्थ्येत्य्
अर्थः । तस्माद् अनेन सर्व-व्रज-देवीष्व् अपि श्रैष्ठ्यादि-चिह्नेन श्री-रास-
विहारे ताभिर् एव स्वयं कस्याः पदानि [भ्प् 10.30.27] इत्य् आदिना वर्णित-
सौभाग्यातिशया श्री-राधिकैव भवेत् । अतस् तन्-नाम्नैव ताः सूचयामासुः
अनयाराधितो नूनं भगवान् हरिर् ईश्वरः ।
यन् नो विहाय गोविन्दः प्रीतोऽयम् अनयद् रहः ॥ [भ्प् 10.30.28]
अनया राधया भगवान् राधितः साधितो वशीकृत इत्य् अर्थः । नूनम् इति
वितर्के । यतश् च राधयतीति निरुक्त्या तस्या राधेति संज्ञापि जातेति भावः ।
राधितत्वे हेतुः यन् न इति । गोविन्दः श्री-गोकुलेन्द्रः ॥
॥ 10.30 ॥ श्री-व्रज-देव्यः
[110]
तद् एवं तथाभूत-श्री-भगवत्-प्रीति-माधुरीषु श्री-राधायास् तन्-
माधुरी-सर्वोर्ध्वम् अधिरूढेत्य् एतावत् तत्-परावस्था-स्थापना-
पर्यन्तेन सन्दर्भेण तत्-प्रीति-जाति-तारतम्यं दर्शितम् ।
एषा च तत्-प्रीतिर् लौकिक-काव्य-विदां रत्य्-आदिवत् कारण-कार्य-सहायैर्
मिलित्वा रसावस्थाम् आपुन्वती स्वयं स्थायी भाव उच्यते । कारणाद्याश् च
क्रमेण विभावानुभाव-व्यभिचारिण उच्यन्ते । तत्र तस्या भावत्वं प्रीति-
रूपत्वाद् एव । स्थायित्वं च -
विरुद्धैर् अविरुद्धैर् वा
भावैर् विच्छिद्यते न यः ।
आत्म-भावं नयत्य् अन्यान्
स स्थायी लवणाकरः ॥ [दशरूपक 4.34] इति रस-शास्त्रीय-लक्षण-व्याप्तेः ।
अन्येषां विभावत्वादिकं च तद्-विभावनादि-गुणेन दर्शयिष्यमाणत्वात् ।
ततः कारणादि-स्फूर्ति-विशेष-व्यक्त-स्फूर्ति-विशेषा तन् मिलिता भगवत्-प्रीतिस्
तदीय-प्रीतिमय-रस उच्यते । भक्तिमयो रसो भक्ति-रस इति च । यथाहुः -
भावा एवाभिसम्पन्नाः प्रयान्ति रस-रूपताम् इति ।
यत् तु प्राकृत-रसिकै रस-सामग्री-विरहाद् भक्तौ रसत्वं नेष्टं, तत्
खलु प्राकृत-देवादि-विषयम् एव सम्भवेत् । सामग्री हि रसत्वापत्तौ
त्रिविधा । स्वरूप-योग्यता, परिकर-योग्यता, पुरुष-योग्यता च । तत्र
लौकिकेऽपि रसे रत्य्-आदेः स्थायिनः स्वरूप-योग्यता । स्थायि-भाव-रूपत्वात्
सुख-तादात्म्याङ्गीकाराद् एव च । भगवत्-प्रीतौ तु स्थायि-भावत्वं तद्-
विधाशेष-सुख-तरङ्गार्णव-ब्रह्म-सुखाद् अधिकतमत्वं च
प्रतिपादितम् एव ।
तथा तत्र कारणादयस् तत्-परिकराश् च लौकिकत्वाद् विभावनादिषु
स्वतोऽक्षमाः । किन्तु सत्-कवि-निबन्ध-चातुर्याद् एवालौकिकत्वम् आपन्नास्
तत्र योग्या भवन्ति । तत्र तु ते स्वत एवालौकिकाद्भुत-रूपत्वेन दर्शिता
दर्शनीयाश् च ।
पुरुष-योग्यता च श्री-प्रह्लादादीनाम् इव तादृश-वासना । तां विना च
लौकिक-काव्येनापि तन्-निष्पत्तिं न मन्यते । यथोक्तम् - पुण्यवन्तः
प्रमिण्वन्ति योगिवद् रस-सन्ततिम् ॥ [साहित्य-दर्पण 3.2] इति । न जायते तद्-
आस्वादो विना (पगे 66) रत्य्-आदि-वासनाम् ॥ [साहित्य-दर्पण 3.8] इति च ।
लौकिक-रसस्योत्पत्तिः स्वरूपम् आस्वाद-प्रकारश् चैवम् एवोच्यते । यथा -
सत्त्वोद्रेकाद् अखण्ड-स्वर्प्रकाशानन्द-चिन्-मयः ।
वेद्यान्तर-स्पर्श-शून्यो ब्रह्मास्वाद-सहोदरः ॥
लोकोत्तर-चमत्कार-प्राणः कैश्चित् प्रमातृभिः ।
स्वाकारवद् अभिन्नत्वेनायम् आस्वाद्यते रसः ॥ [साहित्य-दर्पण 3.2] इति ।
अत्र तु अप्राकृत-विशुद्ध-सत्त्व-हेतुत्वं सत्त्वं विशुद्धं वसुदेव-
शब्दितम् इत्य् आदेः । दर्शितं चास्य सत्त्वस्याप्राकृतत्वं भगवत्-सन्दर्भे ।
तथा ब्रह्मास्वादाद् अप्य् अधिकत्वं या निर्वृतिस् तनु-भृतां [भ्प् 4.9.10] इत्य्
आदेः । नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादम् [भ्प् 3.15.48] इत्य् आदेश् च ।
ततश् चमत्कारश् च सुतराम् एव । विस्मापनं स्वस्य च सौभगार्द्धेः
[भ्प् 3.2.12] इत्य् आदेः ।
किं चालौकिक-रस-विदां प्राचीनानाम् अपि मतानुसारेण सिध्यत्य् असौ रसः ।
तत्र सामान्यतः श्री-भगवन्-नाम-कौमुदी-कारैर् दर्शितः । तस्य
विशेषतस् तु शान्तादिषु पञ्चसु भेदेषु वक्तव्येषु श्री-स्वामि-चरणैर्
मल्लानाम् अशनिर् [भ्प् 10.43.17] इत्य् आदौ ते पञ्चैव दर्शिताः । स्त्रीणां
शृङ्गारः । समवयसां गोपानां हास्य-शब्द-सूचित-नर्म-मय-सख्य-
स्थायी सख्य-मयः प्रेयान् । ततस् तन्-मते गोपानां श्रीदामादीनाम् इत्य्
एवार्थः । पित्रोर् दयापर-पर्याय-वात्सल्य-स्थायी वत्सलः । योगिनां ज्ञान-
भक्ति-मयः शान्तः । वृष्णीनां भक्तिमय इति । तथा सामान्य-प्रीति-मय-
रसश् च नॄणां दर्शितः । तत्राद्भुतत्व-निर्देशश् च सर्वस्यैव रसस्य तत्-
प्राणत्वात् शान्तत्वादि-वैशिष्ट्याभावे तद् एव निर्दिष्टम् इति । यथाह
धर्म-दत्तः -
रसे सारश् चमत्कारः सर्वत्राप्य् अनुभूयते ।
तच्-चमत्कार-सारत्वे सर्वत्राप्य् अद्भुतो रसः ।
तस्माद् अद्भुतम् एवाह कृती नारायणो रसम् ॥ [साहित्य-दर्पण 3.2] इति ।
ये तु मल्लादीनां रौद्रादि-रसास् तत्रैव स्वामिभिर् अङ्गीकृतास् ते खलु
प्रीतिर्-विरोधित्वान् नात्रादृताः । तद् एतद् अलौकिक-रसविन्-मतम् । तथा
कैश्चिल्-लौकिक-रसविद्भिर् भोज-राजादिभिः प्रेयान् वत्सलश् च रसः
सम्मतोऽस्ति । तथा चोक्तम् - स्नेह-स्थायि-भावः प्रेयान् । यथा -
यद् एव रोचते मह्यं तद् एव कुरुते प्रिया ।
इति वेत्ति न जानाति तत्-प्रियं यत् करोति सा ॥ [सरस्वती-कण्ठाभरणम् 5] इति ।
दम्पत्योर् अनयोः सख्य-विशेष-विवक्षया तद् इदम् उदाहृतम् । एवं -
स्फुटं चमत्कारितया वत्सलं च रसं विदुः । (पगे 67)
स्थायी वत्सलतास्येह पुत्राद्य्-आलम्बनं मतम् ॥ [साहित्य-दर्पण 3.201] इत्य्
आदि ।
तथा सुदेवाद्यैर् भक्ति-मयश् चेति । किं च लौकिकस्य रत्यादेः सुख-
रूपत्वं यथा-कथञ्चिद् एव वस्तु-विचारे दुःख-पर्यवसायित्वात् । तद् उक्तं
स्वयं भगवता सुखं दुःख-सुखात्ययः दुःखं काम-सुखापेक्षा
[भ्प् 11.19.41] इति । तदीयः शमोऽपि शमो मन्-निष्ठता बुद्धेः [भ्प्
11.19.36] इति वदता तेनैवानादृतः । जुगुप्सादीनां तु सुख-रूपता लौकिकैर्
अपि द्वेष्या । तत्-तन्-निन्दा भागवत-रस-श्लाघा च श्री-नारद-वाक्ये -
न यद् वचश् चित्र-पदं हरेर् यशो
जगत्-पवित्रं प्रगृणीत कर्हिचित् ।
तद् वायसं तीर्थम् उशन्ति मानसा
न यत्र हंसा निरमन्त्य् उशिक्-क्षयाः ॥
तद्-वाग्-विसर्गो जनताघ-विप्लवो
यस्मिन् प्रति-श्लोकम् अबद्धवत्य् अपि ।
नामान्य् अनन्तस्य यशो ऽङ्कितानि यत्
शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ [भ्प् 1.5.10-11] इति ।
श्री-रुक्मिणी-वाक्येऽपि -
त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर्
मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् ।
जीवच्-छवं भजति कान्त-मतिर् विमूठा
या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥ [भ्प् 10.60.45] इति ।
तस्माल् लौकिकस्यैव विभावादेः रस-जनकत्वं न श्रद्धेयम् । तज्-
जनकत्वे च सर्वत्र बीभत्स-जनकत्वम् एव सिध्यति । श्री-भागवत-रसस्य
तु विष्यिणम् आरभ्य मुक्त-पर्यन्ते जने तद्वद् अहो अनिन्द्रिये चैतन्य-
शून्येऽपि विकार-हेतुत्वात् कथं तत्रासम्भावनापि स्यात् । यथोक्तं - निवृत्त-
तर्षैर् उपगीयमानात् [भ्प् 10.1.4] इत्य् आदि । अस्पन्दनं गतिमतां पुलकस्
तरूणां [भ्प् 10.21.19] इति । कृष्णं समेत्य लब्धेहा आसन् शुष्का नगा अपि
[भ्प् 10.17.15] इति । तद् एतद् अभिप्रेत्य श्री-भगवत्-प्रीत्य्-एक-व्यञ्जकस्य श्री-
भागवत-पुराणस्य रसात्मकत्वं शब्देनैव निर्दिशति निगम-कल्प-तरोः
[भ्प् 1.1.3] इत्य् आदि ।
हे भावुकाः परम-मङ्गलायनाः । ये रसिका भगवत्-प्रीति-रसज्ञा इत्य्
अर्थः । ते यूयं वैकुण्ठात् क्रमेण भुवि पृथिव्याम् एव गलितम् अवतीर्णं
निगम-कल्प-तरोः सर्व-फलोत्पत्ति-भुवः शाखोपशाखाभिर् वैकुण्ठम्
अध्यारूढस्य वेद-रूप-तरोर् यत् खलु रस-रूपं श्री-भागवताख्यं
फलं तत् भुव्य् अपि स्थिताः पिबत आस्वाद्यान्तर्गतं कुरुत । अहो इत्य् अलभ्य-
लाभ-व्यञ्जना भागवताख्यं यच् छास्त्रं तत् खलु रसवद् अपि
रसैकमयता-विवक्षया रस-शब्देन निर्दिष्टम् । भागवत-शब्देनैव
तस्य रसस्यान्यदीयत्वं व्यावृत्तम् । भागवतस्य तदीयत्वेन रसस्यापि
तदीयत्वाक्षेपात् । शब्द-श्लेषेण च भगवत्-सम्बन्धि-रसम् इति गम्यते ।
स च रसो भगवत्-प्रीति-मय एव । यस्यां वै श्रूयमाणायाम् [भ्प् 1.7.7] इत्य्-
आदि-फल-श्रुतेः । यन्-मयत्वेनैव श्री-भगवति रस-शब्दः श्रुतौ
प्रयुज्यते रसो वै सः [तैत्तु 2.7.1] इति । स एव च प्रशस्यते रसं ह्य् एवायं
लब्ध्वानन्दी भवति इति । तत्र रसिका इत्य् अनेन प्राचीनार्वाचीन-
संस्काराणाम् एव तद्-विज्ञत्वं दर्शितम् ।
गलितम् इत्य् अनेन तस्य सुपाकिम्त्वेनाधिक-स्वादुमत्त्वम् उक्त्वा शास्त्र-पक्षे
सुनिष्पन्नार्थत्वेनाधिक-स्वादुत्वं दर्शितम् । रसम् इत्य् अनेन फल-पक्षे
त्वग्-अष्ट्य्-आदि-राहित्यं व्यज्यात्र च पक्षे हेयांश-राहित्यं दर्शितम् । तथा
भागवतम् इत्य् अनेन सत्स्व् अपि फलान्तरेषु निगमस्य परम-
फलत्वेनोक्त्वा तस्य परम-पुरुषार्थत्वं दर्शितम् ।
एवं तस्य रसात्मकस्य फलस्य स्वरूपतोऽपि वैशिष्ट्ये सति परमोत्कर्ष-
बोधनार्थं वैशिष्ट्यान्तरम् आह शुकेति । अत्र फल-पक्षे कल्प-तरु-
वासित्वाद् अलौकिकत्वेन शुकोऽप्य् अमृत-मुखोऽभिप्रेयते । (पगे 68) ततस् तन्-
मुखं प्राप्य यथा तत् फलं विशेषतः स्वादु भवति तथा परम-
भागवत-मुख-सम्बन्धं भगवद्-वर्णनम् अपि । ततस् तादृश-परम-
भागवत-वृन्द-महेन्द्र-श्री-शुकदेव-मुख-सम्बन्धं किम् उतेति
भावः । अतएव परम-स्वाद-परम-काष्ठा-प्राप्तत्वात् स्वतोऽन्यतश् च
तृप्तिर् अपि न भविष्यतीत्य् आलयं मोक्षानन्दम् अप्य् अभिव्याप्य पिबतेत्य्
उक्तम् । तथा च वक्ष्यते - परिनिष्ठितोऽपि [भ्प् 2.1.9] इत्य् आदि ।
अनेनास्वाद्यान्तरवन् नेदं कालान्तरेऽप्य् आस्वादक-बाहुल्येऽपि व्ययिष्यतीत्य्
अपि दर्शितम् ।
यद् वा, तत्र तस्य रसस्य भगवत्-प्रीतिमयत्वेऽपि द्वैविध्यम् । तत्-प्रीत्य्-
उपयुक्तत्वं तत्-प्रीति-परिणामत्वं चेति । यथोक्तं द्वादशे --
कथा इमास् ते कथिता महीयसां
विताय लोकेषु यशः परेयुषाम् ।
विज्ञान-वैराग्य-विवक्षया विभो
वचो-विभूतीर् न तु पारमार्थ्यम् ॥
यत् तूत्तमः-श्लोक-गुणानुवादः
सङ्गीयते ऽभीक्ष्णम् अमङ्गल-घ्नः ।
तम् एव नित्यं शृणुयाद् अभीक्ष्णं
कृष्णे ऽमलां भक्तिम् अभीप्समानः ॥ [भ्प् 12.3.14-15] इति ।
ततः सामान्यतो रसत्वम् उक्त्वा विशेषतोऽप्य् आह अमृतेति । अमृतं तल्-लीला-
रसः । हरि-लीला-कथा-व्रातामृतानन्दित-सत्-सुरम् [भ्प् 12.13.11] इति द्वादशे
श्री-भागवत-विशेषणात् । लीला-कथा-रस-निषेवणम् [भ्प् 12.4.40] इति तस्यैव
रसत्व-निर्देशाच् च । सत्-सुरम् इति सन्तोऽत्रात्मारामाः । इत्थं सताम् [भ्प्
10.12.11] इत्य् आदिवत् । त एव सुराः । अमृत-मात्र-स्वादित्वात् । अत्र त्व् अमृत-
द्रव-पदेन लीला-रसस्य सार एवोच्यते । तस्माद् एवं व्याख्येयम् । यद्यपि
प्रीति-मय-रस एव श्रेयान् तथाप्य् अस्त्य् अत्र विवेकः । रसानुभविनो ह्य् अत्र
द्विविधाः । पिबतेत्य् उपदेश्याः । स्वतस् तद्-अनुभविनो लीला-परिकराश् च ।
तत्र लीला-रसानुभविनो ह्य् अत्र परिकरा एव तस्य सारम् अनुभवन्ति
अन्तरङ्गत्वात् । परे तु यत् किञ्चिद् एव बहिरङ्गत्वात् । यद्यप्य् एवं तथापि
तद्-अनुभव-मयं रस-सारं स्वानुभव-मयेन रसेनैकतया विभाव्य
पिबत । यतस् तादृशतया तादृश-शुक-मुखाद् गलितं प्रवाह-रूपेण
वहन्तम् इत्य् अर्थः ।
तद् एवं भगवत्-प्रीतेः परम-रसत्वापत्तिः शब्दोपात्तैव । अन्यत्र च
सर्व-वेदान्त-सारं हि [भ्प् 12.13.15] इत्य् आदौ तद्-रसामृत-तृप्तस्य इत्य् आदि ।
एवम् एवाभिप्रेत्य भावुका इत्य् अत्र रस-विशेष-भावना-चतुरा इति टीका ।
तथा स्मरन् मुकुन्दाङ्घ्र्य्-उपगूहनं पुनर् विहातुम् इच्छेन् न रस-
ग्रहो जनः [भ्प् 1.5.19] इत्य् आदि ।
॥ 1.1 ॥ श्री-वेद-व्यासः
[111]
एवं विभावादि-संयोगेन भगवत्-प्रीति-मयो रसो व्यक्तीभवति । तत्र
लौकिक-नाट्य-रस-विदाम् अपि पक्ष-चतुष्कम् । रसस्य मुख्यया
वृत्त्यानुकार्ये प्राचीने नायक एव वृत्तिः । नटे तूपचाराद् इत्य् एकः पक्षः ।
पूर्वत्र लौकिकत्वात् पारिमित्याद् भयादि-सान्तरायत्वाच् चानुकर्तरि नट एव
द्वितीयः । तस्य शिक्षा-मात्रेण शून्य-चित्ततयैव तद्-अनुकर्तृत्वात्
सामाजिकेष्व् एवेति तृतीयः । यदि च द्वितीये सचेतस् त्वं तदोभयत्रापि कथं
न स्याद् इति चतुर्थ इति । श्री-भागवतानां तु सर्वत्रैव तत्-प्रीतिमय-रस-
स्वीकारः । लौकिकत्वादि-हेतोर् अभावात् । तत्रापि विशेषतोऽनुकार्येषु तत्-
परिकरेषु येषां नित्यम् एव हृदयम् अध्यारूढः पूर्णो रसोऽनुकर्त्रादिषु
सञ्चरति । तत्र भगवत्-प्रीतेर् अलौकिकत्वम् अपरिमितत्वं च स्वत एव
सिद्धम् । न तु लौकिक-रत्य्-आदिवत् काव्य-क् प्तम् । तच् च स्वरूप-निरूपणे
स्थापितम् । भयाद्य्-अनवच्छेद्यत्वं श्री-प्रह्लादादौ श्री-व्रज-देवी-आदौ
च व्यक्तम् । जन्मान्तराव्यवच्छेद्यत्वं श्री-वृत्र-गजेन्द्रादौ दृष्टम् ।
श्री-भरतादौ वा । किं बहुना, (पगे 69) ब्रह्मानन्दाद्य्-
अनवच्छेद्यत्वम् अपि श्री-शुकादौ प्रसिद्धम् । एवं तत्-कारणादेश्
चालौकिकत्वं ज्ञेयम् । तत्रालम्बन-कारणस्य श्री-
भगवतोऽसमोर्ध्वातिशयि-भगवत्त्वाद् एव सिद्धम् । तत्-परिकरस्य च तत्-
तुल्यत्वाद् एव । तच् च श्रुति-पुराणादि-दुन्दुभि-घोषितम् ।
अथोद्दीपन-कारणानां तदीयानां च तदीयत्वाद् एव । तच् च यथा दर्शितम्
- तस्यारविन्द-नयनस्य [भ्प् 3.15.43] इत्य् आदौ चकार तेषां संक्षोभम्
अक्षर-जुषाम् अथ चित्त-तन्वोः इति, गोप्यस् तपः किम् अचरन् [भ्प् 10.44.14] इत्य्
आदि, का स्त्र्य् अङ्ग [भ्प् 10.29.40] इत्य् आदौ यद् गो-द्विज-द्रुम-मृगान् पुलकान्य्
अबिभ्रत् इति, विविध-गोप-चरणेषु विदग्ध [भ्प् 10.35.14] इत्य् आदि ।
वेणुवाद्य-वर्णने -
सवनशस् तद्-उपधार्य सुरेशाः
शक्र-शर्व-परमेष्ठि-पुरोगाः ।
कवय आनत-कन्धर-चित्ताः
कश्मलं ययुर् अनिश्चित-तत्त्वाः ॥ [भ्प् 10.35.15] इति ।
आगन्तुका अपि तच्-छक्त्य्-उपबृंहितत्वेन सादृश्यात् तत्-स्फूर्तिमयत्वेन
चालौकिकीं दशाम् आप्नुवन्ति । यथोक्तं -
प्रावृट्-श्रियं च तां वीक्ष्य सर्व-काल-सुखावहाम्
भगवान् पूजयां चक्रे आत्म-शक्त्य्-उपबृंहिताम् ॥ [भ्प् 10.20.31]
यथा मेघादयश् च, तथा कार्य-रूपाः पुलकादयोऽप्य् अलौकिकाः । ये खलु
अस्पन्दनं गति-मतां पुलकस् तरूणाम् [भ्प् 10.21.19] इत्य् आदौ तर्व्-आदिष्व्
अप्य् उद्भवन्तो मनुष्येषु स्वस्यात्यद्भुतोदयम् एव ज्ञापयन्ति ।
एवं निर्वेदाद्याः सहायाश् चालौकिका मन्तव्याः । यत्र लोक-विलक्षण-
वैचित्त्य-विप्रलम्भादि-हेतव उन्मादादय उदाहरिष्यन्ते । क्वचित् तु
सर्वेषाम् अपि स्वत एवालौकिकत्वम् । श्री-ब्रह्म-संहितायाम् -
श्रियः कान्ताः कान्तः परम-पुरुषः कल्प-तरवो
द्रुमा भूमिश् चिन्तामणि-गण-मयि तोयम् अमृतम्
कथा गानं नाट्यं गमनम् अपि वंशी प्रिय-सखि
चिद्-आनन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च
स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश् च सु-महान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः
भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं
विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये ॥ [ब्रह्मस् 5.67-68] इति ।
गानं नाट्यम् इति तद्वद् रसाधायकम् इत्य् अर्थः ।
तद् एवम् अलौकिकत्वादिनानुकार्येऽपि रसे रसत्वापादान-शक्तौ सत्यां प्रीति-
कारणादयस् ते तदापि विभावाद्याख्यां भजन्ते । तथैव हि तेषां तत्-तद्-
आख्या । यथोक्तं -
विभावनं रत्यादेर् विशेषेणास्वादाङ्कुर-योग्यतानयनम् । अनुभावनम्
एवम्भूतस्य रत्यादेः समनन्तरम् एव रसादि-रूपतया भावनम् ।
सञ्चारणे तथाभूतस्य तस्यैव सम्यक् चारणम् [साहित्य-दर्पणम् 3.13] इति ।
किं च स्वाभाविकालौकिकत्वे सति यथा लौकिक-रस-विदां लौकिकेभ्योऽपि
काव्य-संश्रयाद् अलौकिक-शक्तिं दधानेभ्यो विभावाद्य्-आख्याप्राप्त-
कारणादिभ्यः शोकादाव् अपि सुखम् एव जायते इति रसत्वापत्तिस्
तथैवास्माभिर् वियोगादाव् अपि मन्तव्यम् । तत्र बहिस् तदीय-वियोग-मय-
दुःखेऽपि परमानन्द-घनस्य भगवतस् तद्-भावस्य च हृदि स्फूर्तिर्
विद्यत एव । परमानन्द-घनत्वं च तयोस् त्यक्तुम् अशक्यत्वात् । ततः
क्षुधातुराणाम् अत्युष्ण-मधुर-दुग्धवन् न तत्र रसत्व-व्याघातः ।
तदा तद्-भावस्य परमानन्द-रूपस्यापि वियोग-दुःख-निमित्तत्वं
चन्द्रादीनां तापनत्वम् एव ज्ञेयम् ।
तथा तस्य दुःखस्य च भावाननन्द-जन्यत्वाद् आयत्यां संयोग-सुख-
(पगे 70)
पोषकत्वाच् च सुखान्तःपात एव । तथा तदीयस्य करुणस्यापि रसस्य
सर्वज्ञ-वचनादि-रचित-प्राप्त्य्-आशामयत्वात् संयोगावशेषत्वात् तत्र तथैव
गतिः सिद्धा ।
तद् एवम् अनुकार्ये रसोदयः सिद्धः । स एव च मुख्यः ।
श्रवणजानुरागाद् दर्शनजानुरागस्य श्रेष्ठत्वात् -
श्रुत-मात्रो ऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।
उरु-गायोरु-गीतो वा पश्यन्तीनां च किं पुनः ॥ [भ्प् 10.90.26] इति न्यायेन ।
अतस् तव विक्रीडितं ब्रह्मन् [भ्प् 11.6.44] इत्य् आदिकोद्भव-वचन-मयं
पद्य-द्वयं चाहार्यम् ।
अथ अनुकर्ताप्य् अत्र भक्त एव सम्मतः । अन्येषां सम्यक् तद्-
अनुकरणासामार्थ्यात् । ततस् तत्रापि तद्-रसोदयः स्याद् एव । किन्तु भक्तेर्
भक्ति-विषयको भगवद्-रसः प्रायो नोदयते भक्ति-विरोधाद् एव । ततो
नानुक्रियते च । तद्-अनुभवश् च भगवत्-सम्बन्धित्वेनैव भवति
नात्मीयत्वेन । स च भक्ति-रसोद्दीपकत्वेनैव चरितार्थताम् आपद्यते ।
ततः क्वचिच् छ्रुद्ध-भक्तानाम् अपि यदि तद्-अनुभावानुकरणं स्यात् तदा
तदीयत्वेनैव तैस् तद् भाव्यते न तु स्वीयत्वेनेति समाधेयम् । यत्र तु
भक्त-विरोधः । यथा गदादि-तुल्य-भावानां वसुदेवादौ तत्रोदयतेऽपि ।
अथ सामाजिका अपि भक्ता एवेष्टा इति । तत्रापि सिद्धिः । इति दृश्य-काव्येषु रस-
भावना-विधिः । श्रव्य-काव्येष्व् अपि वर्णनीय-वर्ण-श्रोतृ-भेदेन
यथायथं बोधव्यः । किं चात्र प्रायस् तत्-तद्-अपेक्षा रत्य्-अङ्कुरवताम्
एव । प्रेमादिमतां तु यथा-कथञ्चित् स्मरणम् अपि तत्र हेतुः येषां
षड्जादिमय-स्वर-मात्रम् अपि तत्र हेतुर् भवति । यथोक्तं श्री-नारदम्
उद्दिश्य षष्ठे -
स्वर-ब्रह्मणि निर्भात- हृषीकेश-पदाम्बुजे ।
अखण्डं चित्तम् आवेश्य लोकान् अनुचरन् मुनिः ॥ [भ्प् 6.5.22] इति ।
ततः प्रेमादि-भाव एव तेषु सर्वां सामग्रीम् उद्भावयति । यथोक्तं श्री-
प्रह्लादम् उद्दिश्य - क्वचिद् रुदति वैकुण्ठ-चिन्ता-शवल-चेतनः [भ्प्
7.4.36] इत्य् आदिना -
क्वचिद् उत्पुलकस् तूष्णीम् आस्ते संस्पर्श-निर्वृतः ।
अस्पन्द-प्रणयानन्द- सलिलामीलितेक्षणः ॥ [भ्प् 7.4.41] इत्य् अन्तेन ।
लौकिक-रसज्ञैर् अपि हीनाङ्गत्वेऽपि तत्-तद्-अङ्ग-समाक्षेपाद् रस-निष्पत्तिर्
अभिमता ।
किं च, भगवत्-प्रीति-रसिकाः द्विविधाः - तदीय-लीलान्तः-पातिनस् तद्-अन्तः-
पातिताभिमानिनश् च । तत्र पूर्वेषां प्राक्तन-युक्त्या स्वत एव सिद्धो
रसः । उत्तरेषां तु द्विविधा गतिः । तत्-तल्-लीलान्तः-पाति-सहित-भगवच्-
चरित-श्रवणादिनैका । भगवन्-माधुर्यादि-श्रवणादिना चान्या । तत्र
पूर्वत्र यदि समान-वासनस् तल्-लीलान्तः-पाती भवेत् तदा स्वयं सदृशो
भाव एव तस्य तल्-लीलान्तः-पाति-विशेषस्य विभावादिकं तादृशत्वाभिमानिनि
साधारणी करोति । यथा -
परस्य न परस्येति ममेति न ममेति च । (पगे 71)
तद्-आस्वादे विभावादेः परिच्छेदो न विद्यते ॥ [साह्द् 3.12] इति ।
यदि तु विलक्ष्ण-वासनस् तदा विभावानां सञ्चारिणाम् अनुभावानां च
प्रायश एव साधारण्यं भवति । तेन तद्-भाव-विशेषस्योद्दीपन-मात्रं
स्यात्, न तु रसोद्बोधः । यदि तु विरुद्ध-वासनः स्यात्, यथा वत्सलेन
प्रेयसी, तदापि तस्य प्रीति-सामान्यस्यैव वात्सल्यादि-दर्शनेनोद्दीपनं
भवति । न भाव-विशेषस्य । न च रसोद्बोधो जायते ।
अथोत्तरत्र श्री-भगवन्-माधुर्यादि-श्रवणादौ तल्-लीलान्तः-पातिवत्
स्वतन्त्र एव रसोद्बोध इति । तद् एवं भगवत्-प्रीते रसत्वापत्तौ
सिद्धायाम् एवं विभाव्यते । विभावादिभिः संवलिता तत्-प्रीतिस् तत्-प्रीतिमयो
रस इति । तद् उक्तं -
यथा खण्ड-मरिचादीनां सम्मेलनाद् अपूर्व एव कश्चिद् आस्वादः
प्रपानक-रसे जायते, विभावादि-सम्मेलनाद् इहापि तथा [साह्द् 3.15] इति ।
स चायं रसो भगवन्-माधुर्यानुकूल्यानुभव-लक्षणास्वादेनोद्दीपन-
विभाव-रूपेण स्वांशेनास्वाद-रूपः । भगवद्-आदि-लक्षणालम्बन-
विभावादि-रूपेणास्वाद्य-रूपश् च । अत उभयथा व्यपदेशः ।
तत्र विभावा द्विविधाः । आलम्बनम् उद्दीपनश् च । यथोक्तम् अग्नि-पुराणे
विभाव्यते हि रत्यादिर् यत्र येन विभाव्यते ।
विभावो नाम स द्वेधालम्बनोद्दीपनात्मकः ॥ [अप् 339-35-36]
आलम्बनो द्विविधः । प्रीति-विषयत्वेन स्वयं भगवान् श्री-कृष्णः । तत्-
प्रीत्य्-आधारत्वेन तत्-प्रिय-वर्गश् च । उभयत्रैव यत्रेति सप्तम्य्-अर्थत्व-
व्याप्तेः ।
तत्र श्री-कृष्णो यथा पूर्वम् उदाहृतः यस्याननं मकर-कुण्डलं [भ्प्
9.24.65] इत्य् आदिना । गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपम् [भ्प् 10.44.24]
इत्य् आदिना च । तस्य तत्-तन्-माधुर्यानभिव्यक्ताव् अपि स्वभावत एव
प्रियतमत्वं स्वयं दर्शयति -
प्राण-बुद्धि-मनः-स्वात्म-दार-पत्य-धनादयः ।
यत्-सम्पर्कात् प्रिया आसंस् ततः को न्व् अपरः प्रियः ॥ [भ्प् 10.23.27]
स्वः शुद्धो जीवः । आत्मा देहः । यस्य मम सम्पर्कात्
परम्परासम्बन्धात् । अहं तावत् परमानन्द-घन-रूप इति स्वतः
प्रियः । स्वस्य ममांशत्वाद् अन्तर्यामी पुरुषोऽपि प्रियः । तस्य च जीव-
रूपोऽंश इति मत्-सम्बन्ध-परम्परया प्रियः । तद्-अध्यास-सम्बन्ध-
परम्परया च प्राणादयः प्रिया इत्य् अर्थः । एवं व्यक्तीकृत-रूपान्तरेऽपि
श्री-रामेणानुभूतम् --
किम् एतद् अद्भुतम् इव वासुदेवे ऽखिलात्मनि ।
व्रजस्य सात्मनस् तोकेष्व् अपूर्वं प्रेम वर्धते ॥ [भ्प् 10.13.36] इति ।
ततः -
श्यामं हिरण्य-परिधिं वन-माल्य-बर्ह-
धातु-प्रवाल-नट-वेषम् अनुव्रतांसे ।
विन्यस्त-हस्तम् इतरेण धुनानम् अब्जं
कर्णोत्पलालक-कपोल-मुखाब्ज-हासम् ॥ [भ्प् 10.23.22]
इत्य् एतल्-लक्षणेषु ममाविर्भावेषु युष्माकं प्रीत्य्-उत्कर्षोदयो नापूर्व
इति भावः ।
॥ 10.23 ॥ श्री-भगवान् यज्ञपत्नीः
[112-114]
तथा तत्-प्रिय-वर्गश् च पूर्वं दर्शितः । तुलयाम लवेनापि [भ्प् 1.18.13] इत्य्
आदिना । अस्य भगवद्-विषय-प्रीत्य्-आलम्बनत्वम् अपि युक्तम् । स्मरणादि-
पथं गते ह्य् अस्मिंस् तद्-आधारा सा प्रीतिर् अनुभूयते । आलम्बन-शब्दश् च
विषयाधारयोर् वर्तन इति । अतएवोक्तं -
तत् कथ्यतां महा-भाग यदि कृष्ण-कथाश्रयम् ।
अथवास्य पदाम्भोज- मकरन्द-लिहां सताम् ॥ [भ्प् 1.16.6] इति ।
तद् एवम् अपि यम् आश्रित्य श्री-भगवति स प्रीति-विशेषः प्रवर्तते स
एवालम्बनो ज्ञेयः । अन्ये तूद्दीपनाः । अथैवं स-वासन-भिन्न-वासनक-
द्विध- (पगे 72) तत्-प्रिय-वर्ग-विषया च या प्रीतिः सापि तत्-प्रीत्य्-
आधारत्वेनैव न तु स्व-सम्बन्धादिना । अतएव तत्-प्रिय-वर्गेऽपि स्व-
सम्बन्ध-हेतुकां प्रीतिं निषिध्य श्री-भगवत्य् एव ताम् अभ्यर्थ्य पुनस्
तत्-प्रिय-वर्गे तद्-आधारत्वेनैव प्रीतिम् अङ्गीकरोति #
अथ तत्र निषेधः -
अथ विश्वेश विश्वात्मन् विश्व-मूर्ते स्वकेषु मे ।
स्नेह-पाशम् इमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ [भ्प् 1.8.41]
अथ अभ्यर्थना --
त्वयि मे ऽनन्य-विषया मतिर् मधु-पते ऽसकृत् ।
रतिम् उद्वहताद् अद्धा गङ्गेवौघम् उदन्वति ॥ [भ्प् 1.8.42]
अथ अङ्गीकारः --
श्री-कृष्ण कृष्ण-सख वृष्ण्य्-ऋषभावनि-ध्रुग्-
राजन्य-वंश-दहनानपवर्ग-वीर्य ।
गोविन्द गो-द्विज-सुरार्ति-हरावतार
योगेश्वराखिल-गुरो भगवन् नमस् ते ॥ [भ्प् 1.8.43]
॥ 1.8 ॥ श्री-कुन्ती श्री-भगवन्तम् ॥ 112-114 ॥
[115]
एवं वृक्नः इत्य् आदि-द्वयं श्रीमद्-उद्धव-वाक्यम् अपि सङ्गमनीयम् ।
यथा --
वृक्णश् च मे सु-दृठः स्नेह-पाशो
दाशार्ह-वृष्ण्य्-अन्धक-सात्वतेषु ।
प्रसारितः सृष्टि-विवृद्धये त्वया
स्व-मायया ह्य् आत्म-सुबोध-हेतिना ॥
नमो ऽस्तु ते महा-योगिन् प्रपन्नम् अनुशाधि माम् ।
यथा त्वच्-चरणाम्भोजे रतिः स्याद् अनपायिनी ॥ [भ्प् 11.29.39-40]
सृष्टि-विवृद्धये त्वया स्वाधीनया मायया यो देहादि-सम्बन्धजः स्नेह-
पाशः प्रसारितः स वृक्णश् छिन्नः । केन ? आत्म-सुबोध-हेतिना, त्वदीय-
प्रीत्य्-उत्पादक-शोभन-ज्ञान-लक्षण-शस्त्रेण । अधुना त्वत्-
सम्बन्धेनैव स भातीत्य् अर्थः । अतएवोत्तर-पद्यम् अपि तथैव । इयं
चोक्तिः श्रीमद्-उद्धवस्य सिद्धत्वान् न सम्बहवतीति स्व-व्याजेनान्यान्
उद्दिश्यैवेति ज्ञेयम् ।
अथ श्री-कुन्ती-वाक्यस्यान्यावतारिका, यथा गमने पाण्डवानाम् अकुशलं
अगमने वृष्णीनाम् इत्य् उभयतो व्याकुल-चित्ता सती [वृ हेरे अद्द्स्: तेषु स्नेह-
निवृत्तिः प्रार्थयते अथेति । एवम् अप्य् उभयेषां तादृश-तद्-एकालम्बनता-
दर्शनेन तेष्व् अधिक-भगवत्-प्रीत्य्-आधारत्वं स्वस्याधिक-स्नेह-हेतुर्
इति । एन्द् वृ अद्दितिओन्] तेषु स्नेह-च्छेद-व्याजेनोभयेषाम् अपि त्वद्-अविच्छेद
एव क्रियताम् इति च व्यज्यते । ततश् चोत्तरत्र श्री-सुत-वाक्ये तां बाढम् इत्य्
उपामन्त्र्ये [भ्प् 1.8.45] इत्य् अत्र भगवद्-अभ्युपगमोऽपि सर्वत्रैव
सङ्गच्छते । तथाप्य् अस्य वृक्णश् चेत्य् आदि-वाक्यस्य सङ्गमनार्थं तत्-
तथावअतारितम् ।
॥ 11.29 ॥ श्रीमद्-उद्धवः
[116]
एवं श्री-देवक्याः षड्-गर्भानयने तान् प्रति यः स्नेहो दृश्यते स खलु
स्वपीत-शेष-स्तन्य-प्रसादेन तद्-उद्धरणार्थं श्री-भगवतैव
प्रपञ्चितः । यथोक्तम्-
अपाययत् स्तनं प्रीता सुत-स्पर्श-परिस्नुतम् ।
मोहिता मायया विष्णोर् यया सृष्टिः प्रवर्तते ॥
पीत्वामृतं पयस् तस्याः पीत-शेषं गदा-भृतः ॥ [भ्प् 1.85.54-55] इत्य् आदि ।
ययुर् विहायसा धाम [भ्प् 10.85.56] इत्य् अन्तम् । तथापि तन्-माया तत्-
सहोदरता-स्फूर्तिम् एवावलम्ब्य तां मोहितवतीति मन्तव्यम् ।
अथ श्री-रुक्मिण्या रुक्मिण्यापि स्नेहस् तद्-दैन्यादि-कौतुकं दिदृक्षुणा श्री-
भगवतैव (पगे 73) वा तद्-अर्थं तल्-लीला-शक्त्यैव वा रक्षितोऽस्तीति
लभ्यते । स च भक्ति-स्फोरणांशम् एवावलम्ब्य, तस्या ह्य् ऐश्वर्य-ज्ञान-
संवलितत्वाद् अन्तःकरणम् एवं जातम् - अयं परमेश्वरः । अयं त्व्
अतिनिकृष्टः । तस्माद् अस्मिन्न् अयं विप्रकुर्वन्न् अपि किञ्चित् कर्तुम् अशक्त एव ।
ततोऽतिदीनोऽयम् इति तथा श्री-भगवच्-चरणाश्रिताया मम देह-
सम्बन्धवान् इति, दीन-दयालोर् भक्त-सम्बन्ध-परम्परा-
मात्रेणाभयदाद् अस्मात् तन् नार्हतीति । एवं ह्य् ऐश्वर्य-दृष्ट्यैव तत्-
प्रार्थनम् योगेश्वराप्रमेयात्मन् [भ्प् 10.54.33] इत्य् आदि ।
अथ श्री-बलदेवस्य स्व-शिष्यीभूत-दुर्योधन-पक्ष-पातोऽप्य् एवं
मन्तव्यः । क्वचित् तत्र तत्-क्षय-करः क्रोधोऽपि दृश्यते । यथा लक्ष्मणा-
हरणे । सर्वम् एतत् तु वैचित्री-पोषार्थं श्री-भगवल्-लीला-शक्त्यैव
प्रपञ्च्यते इत्य् उक्तम् ।
अथ उद्दीपनाः । यद्-विशिष्टतया श्री-कृष्ण आलम्बनस् त एव भाव-
विभावन-हेतुत्वेन पृथङ्-निर्दिष्टा उद्दीपनाः कथ्यन्ते । ते च तस्य गुण-
जाति-क्रिया-द्रव्य-काल-रूपाः । गुणाश् त्रिविधाः काय-वाङ्-मानसाश्रयाः ।
सर्व एवैते न प्राकृता इत्य् उक्तम् --
मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।
सुहृदं प्रियम् आत्मानं साम्यासङ्गादयो ऽगुणाः ॥ [भ्प् 11.13.40] इत्य् आदिना ।
तान् एव श्री-कृष्णम् आलम्बनी-कृत्य समुद्दिश्य -
सत्यं शौचं दया क्षान्तिस् त्यागः सन्तोष आर्जवम् ।
शमो दमस् तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥
ज्ञानं विरक्तिर् ऐश्वर्यं शौर्यं तेजो बलं स्मृतिः ।
स्वातन्त्र्यं कौशलं कान्तिर् धैर्यं मार्दवम् एव च ॥
प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।
गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्तिर् मानो ऽनहङ्कृतिः ॥
एते चान्ये च भगवन् नित्या यत्र महा-गुणाः ।
प्रार्थ्या महत्त्वम् इच्छद्भिर् न वियन्ति स्म कर्हिचित् ॥ [भ्प् 1.16.28-31]
सत्यं यथार्थ-भाषणम् । शौचं शुद्धत्वम् । दया पर-दुःखासहनम्
अनेन शरणागत-पालकत्वम् भक्त-सुहृत्त्वं च । क्षान्तिः क्रोधापत्तौ
चित्त-संयमः । त्यागो वदान्यता । सन्तोषः स्वतस् तृप्तिः । आर्जवम् अवक्रता ।
शमो मनो-नैश्चल्यम् अनेन सुदृढत्वं च । दमो बाह्येन्द्रिय-
नैश्चल्यम् । तपः क्षत्रियत्वादि-लीलावतारानुरूपः स्व-धर्मः । साम्यं
शत्रु-मित्रादि-बुद्ध्य्-अभावः । तितिक्षा स्वस्मिन् परापराध-सहनम् ।
उपरतिर् लाभ-प्राप्ताव् औदासीन्यम् । श्रुतम् शास्त्र-विचारः ।
ज्ञानं पञ्च-विधम् -- बुद्धिमत्त्वं कृतज्ञत्वं देश-काल-पात्रज्ञत्वं
सर्वज्ञत्वम् आत्मज्ञत्वं च । विरक्तिर् असद्-विषय-वैतृष्ण्यम् । ऐश्वर्यं
नियन्तृत्वम् । शौर्यं सङ्ग्रामोत्साहः । तेजः प्रभावः । अनेन प्रतापश् च ।
स च प्रभाव-विख्यातिः । बलं दक्षत्वम् । तच् च दुष्कर-क्षिप्र-कारित्वम् ।
धृतिर् इति पाठे क्षोभ-कारणे प्राप्तेऽव्याकुलत्वम् । स्मृतिः
कर्तव्यार्थानुसन्धानम् । स्वातन्त्र्यम् अपराधीनता ।
कौशलं त्रिविधं - क्रिया-निपुणता युगपद्-भूरि-समाधान-कारिता-
लक्षणा चातुरी कला-विलास-विद्वत्ता-लक्षणा वैदग्धी च । कान्तिः
कमनीयता । एषा चतुर्विधा - अवयवस्य हस्ताद्य्-अङ्गादि-लक्षणस्य वर्ण-
रस-गन्ध-स्पर्श-शब्दानाम् । तत्र रसश् चाधार-चरण-स्पृष्ट-वस्तु-
निष्ठो ज्ञेयः । वयसश् चेति । एतया नारी-गण-मनोहारित्वम् अपि । धैर्यं
अव्याकुलता । (पगे 74) मार्दवम् प्रेमार्द्र-चित्तत्वम् । अनेन प्रेम-
वश्यत्वं च ।
प्रागल्भ्यं प्रतिभातिशयः । अनेन वावदूकत्वं च । प्रश्रयो विनयः ।
अनेन ह्रीमत्त्वम् । यथा-युक्त-सर्व-मान-दातृत्वम् । प्रियंवदत्वं च ।
शीलं सु-स्वभावः । अनेन साधु-समाश्रयत्वं च । सहो मनः-पाटवम् ।
ओजो ज्ञानेन्द्रिय-पाटवम् । बलं कर्मेन्द्रिय-पाटवम् । भगस् त्रिविधः -
भोगास्पदत्वं सुखित्वं सर्व-समृद्धिमत्त्वं च ।
गाम्भीर्यं दुर्विबोधाशयत्वम् । स्थैर्यम् अचञ्चलता । आस्तिक्यं शास्त्र-
चक्षुष्ट्वम् । कीर्तिः साद्गुण्य-ख्यातिः । अनेन रक्त-लोकत्वं च । मानः
पूज्यत्वम् । अनहङ्कृतिस् तथापि गर्व-रहितत्वम् । च-काराद् ब्रह्मण्यत्वम् ।
सर्व-सिद्धि-निषेवितत्वम् । सच्-चिद्-आनन्द-घन-विग्रहत्वादयो ज्ञेयाः ।
महत्त्वम् इच्छद्भिः प्रार्थ्या इति महा-गुणा इति च । वरीयस्त्वम् अपि
गुणान्तरम् । एतेन तेषां गुणानां अन्यत्र स्वल्पत्वं चञ्चलत्वं च । तत्रैव
पूर्णत्वम् अविनश्वरत्वं चोक्तम् । अतएव श्री-सूत-वाक्यम् -
नित्यं निरीक्षमाणानां यद् अपि द्वारकौकसाम् ।
न वितृप्यन्ति हि दृशः श्रियो धामाङ्गम् अच्युतम् ॥ [भ्प् 1.11.26] इति ।
तथा नित्या इति न वियन्तीति सदा स्वरूप-गुणान्तरम् । अन्ये च जीवालभ्या
यथा तत्राविर्भाव-मात्रत्वेऽपि सत्य-सङ्कल्पत्वम् ।
वशीकृताचिन्त्यमायत्वम् । आविर्भाव-विशेषत्वेऽप्य् अखण्ड-सत्त्व-गुणस्य
केवल-स्वयम्-अवलम्बनत्वम् । जगत्-पालकत्वम् । यथा तथा हतारि-स्वर्ग-
दातृत्वम् । आत्माराम-गणाकर्षित्वम् । ब्रह्म-रुद्रादि-सेवितत्वम् ।
परमाचिन्त्य-शक्तित्वम् । आनन्त्येन नित्य-नूतन-सौन्दर्याद्य्-
आविर्भावत्वम् । पुरुषावतारत्वेऽपि माया-नियन्तृत्वम् । जगत्-सृष्ट्य्-आदि-
कर्तृत्वम् । गुणावतारादि-बीजत्वम् । अनन्त-ब्रह्माण्डाश्रय-रोम-
विवरत्वम् । वासुदेवत्व-नारायणत्वादि-लक्षण-भगवत्त्वाविर्भावेऽपि
स्वरूप-भूत-परमाचिन्त्याखिल-महा-शक्तिमत्त्वम् । स्वयं भगवल्-
लक्ष्ण-कृष्णत्वे तु हतारि-मुक्ति-भक्ति-दायकत्वम् । स्वस्यापि विस्मापक-
रूपादि-माधुर्यवत्त्वम् । अनिन्द्रियाचेतन-पर्यन्ताशेष-सुख-दातृ-स्व-
सान्निध्यत्वम् इत्य् आदयः ।
॥ 1.16 ॥ ॥ श्री-पृथिवी धर्मम्
[117]
तद् एतद् दिङ्-मात्र-दर्शनम् । यत आह -- गुणात्मनस् ते ऽपि गुणान् विमातुं
हितावतीर्णस्य क ईशिरे ऽस्य [भ्प् 10.14.7] इत्य् आदि । स्पष्टम् ।
॥ 10.14 ॥ ब्रह्मा श्री-भगवन्तम्
[118]
ते च तस्य गुणाः केचिन् मिथो विरुद्धा अपि अचिन्त्य-शक्तित्वेनैकाश्रयाः ।
श्रुतेस् तु शब्द-मूलत्वात् [व्स् 2.1.27] इति न्यायेन । मल्लानाम् अशनिः [भ्प्
10.43.17] इत्य् आदि-दर्शनात् । शिशोर् अनोऽल्पक-प्रवाल-मृद्व्-अङ्घ्रि-हतं
व्यवर्तते [भ्प् 10.7.7] इत्य्-आदेश् च । तत्र केवल-कौमल्य-गुणाविष्कारे सति
क्वचित् पल्लव-तल्पेषु नियुद्ध-श्रम-कर्षितः [भ्प् 10.15.16] इत्य् आदिकम् अपि
यथार्थम् एव ।
एवम् एव श्रीदाम-विप्रानीत-कदन्न-भोजन-निवारणे लक्ष्म्या अपि
प्रवृत्तिः । यथैव तच्-चरितेन व्यक्तम् - बाल-व्यजनम् आदाय रत्न-दण्डं
सखी-करात् [भ्प् 10.60.7] इत्य् आदौ । अतएव इति (पगे 75) मुष्टिम् [भ्प् 10.81.10]
इत्य् आदौ सा तत्-परा इत्य् उक्तम् । अत्र च एतेनैव मद्-अंश-लेश-रूपाया
विभूतेर् अनुग्रह-भाजन-मयं जात इति कदन्न-भोजनेनालम् इति भावः ।
विरुद्धार्थ-सद्-भावेऽपि न तु दोषास् तत्र सम्भाव्याः अयम् आत्मापहत-
पाप्मा [छाउ 8.15] इति श्रुतेः । यथा चोक्तं कौर्मे -
ऐश्वर्य-योगाद् भगवान् विरुद्धार्थोऽभिधियते ।
तथापि दोषाः परमे नैवाहार्याः समन्ततः ॥ इति ।
ततस् तद्-गुणानाम् अन्यदीयानाम् इव दोष-मिश्रत्वं निषेधति -
ततस् ततो नूपुर-वल्गु शिञ्जितैर्
विसर्पती हेम-लतेव सा बभौ ।
विलोकयन्ती निरवद्यम् आत्मनः
पदं ध्रुवं चाव्यभिचारि-सद्-गुणम् ।
गन्धर्व-सिद्धासुर-यक्ष-चारण-
त्रैपिष्टपेयादिषु नान्वविन्दत ॥ [भ्प् 8.8.19-20]
सा लक्ष्मीः । पदम् आश्रयं ध्रुवं नित्यम् । अव्यभिचारिणो नित्याः सन्तश्
च गुणा यस्मिन् ।
[119]
तद् एव व्यनक्ति त्रिभिः -
नूनं तपो यस्य न मन्यु-निर्जयो
ज्ञानं क्वचित् तच् च न सङ्ग-वर्जितम् ।
कश्चिन् महांस् तस्य न काम-निर्जयः
स ईश्वरः किं परतो व्यपाश्रयः ॥
धर्मः क्वचित् तत्र न भूत-सौहृदं
त्यागः क्वचित् तत्र न मुक्ति-कारणम् ।
वीर्यं न पुंसो ऽस्त्य् अज-वेग-निष्कृतं
न हि द्वितीयो गुण-सङ्ग-वर्जितः ॥
क्वचिच् चिरायुर् न हि शील-मङ्गलं
क्वचित् तद् अप्य् अस्ति न वेद्यम् आयुषः ।
यत्रोभयं कुत्र च सो ऽप्य् अमङ्गलः
सुमङ्गलः कश्च न काङ्क्षते हि माम् ॥ [भ्प् 8.8.21-23]
अत्र तप-आदिभिर् अपि न साम्यं विवक्षितम् । असाम्य-प्रसिद्धेः । यथोक्तं
इमे च [भ्प् 1.16.30] इत्य् आदौ प्रार्थ्या महत्त्वम् इच्छद्भिर् इति । [वृ.
अद्दितिओनल् रेअदिन्ग्: किन्त्व् अन्यदीय-तप-आदि-लेशानां सताम् अपि
दोषान्तरोपरक्तत्वम् इत्य् एवम् अत्यन्तासाम्यम् एव विवक्षितम् । वृ. एन्द्]
यस्य दुर्वास-आदेः । क्वचिद् गुरु-शुक्रादौ । कश्चिद् ब्रह्म-सोमादिः । यः
परतो व्यपाश्रयः परापेक्ष इन्द्रादिः । स किम् ईश्वरः । क्वचित्
परशुरामादि-तुल्ये तदानीन्तने न भूत-सौहृदम् । शिविराज-तुल्ये न
मुक्ति-कारणं त्यागः । पुंसः कार्तवीर्यादि-तुल्यस्य वीर्यम् अस्ति, किन्त्व् अज-
वेग-निष्कृतं काल-वेग-परिहृतं न भवति । यतस् तेषां तत्-तद्-गुणत्वम्
अपि माया-गुण-कृतम् एव न तु तद्-अतीत-तत्-तद्-गुणत्वम् इति परामृशति ।
न हीति । हि यस्मात् द्वितीयः श्री-मुकुन्दाद् अन्यः । अनेन सनकादय
आत्मारामा अपि परिहृताः । तेषां शम-दमादि-गुणानां मायिकत्वात् । तथा
शिवोऽपि परिहृत शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो गुण-संवृतः [भ्प् 10.88.3]
इति । हरिर् हि निर्गुणः साक्षात् [भ्प् 10.88.5] इत्य् आद्य्-उक्तेः ।
अथ प्रकारान्तरेण शिवं परिहर्तुम् उपक्रमते । क्वचिन् मार्कण्डेयादौ
चिरायुश् चिर-जीविता । शील-मङ्गल-शब्देनात्र भोग उच्यते । इन्द्रिय-दमन-
शीलत्वाद् इति टीकायां हेतु-विन्यासात् । अभोगिनो ह्य् अमङ्ग-स्वभावत्वेन लोके
नामाग्रहण-दर्शनाच् च । यद् वा क्वचिन्-मय-दानवादौ चिर-जीवितास्ति ।
शीले स्वभावे मङ्गलं माङ्गल्यं नास्तीत्य् अर्थः । असुर-स्वभावत्वाद् एव ।
बलि-प्रभृतिषु शील-मङ्गलम् अप्य् अस्ति, किन्त्व् आयुषो वेद्यं वेदनं नास्ति
(पगे 76) मरणानिश्चयात् । यत्र शिवे मङ्गलः स्वभावो नित्यत्वाच् चायुषो
वैद्यत्वं चेत्य् उभयम् अप्य् अस्ति । सोऽप्य् अमङ्गलः बहिः श्मशान-वासाद्य्-
अमङ्गल-चेष्टितः । श्री-मुकुन्दं लक्ष्यीकृत्याह कश् च कोऽपि तत्-तद्-
गुणातिक्रम्यानन्त-गुणत्वात् तत्-तद्-दोष-हीनत्वाच् च सुमङ्गलः अतिशयेन
सर्वेषां मङ्गल-निधान-रूपः । स तु मां स्वरूपेण परमानन्द-रूपां
शक्त्या च सर्व-सम्पत्ति-दायिनीम् अपि न हि काङ्क्षति । स एव स्वरूप-गुण-
सम्पत्तिभिः पूर्ण इत्य् अर्थः । अथ च प्रेम-वशोऽसौ प्रेमवतीं मां
कथं नाकाङ्क्षेद् इत्य् अभिप्रेत्य श्लेषेण कश्चन कोऽपि सुमङ्गलोऽसौ हि
निश्चितं मां काङ्क्षतीत्य् अपि भावितम् ॥
[120]
इदम् अत्र तत्त्वम् । परमानन्द-रूपे तस्मिन् गुणादि-सम्पल्-लक्षणानन्त-
शक्ति-वृत्तिका स्वरूप-शक्तिर् द्विधा विराजते । तद्-अन्तरेऽनभिव्यक्त-निज-
मूर्तित्वेन तद्-बहिर् अप्य् अभिव्यक्त-लक्ष्म्य्-आख्य-मूर्तित्वेन । इयं च मूर्तिर्
मती सती सर्व-गुण-सम्पद्-अधिष्ठात्री भवति । ततः स्वस्मिन्
परमानन्दत्वस्य सर्व-गुण-सम्पत्तेश् च स्वरूप-सिद्ध-परम-
पूर्णत्वाद् उभयथापि न तां पृथग्-भूय स्थितां मूर्तिमतीम् अपेक्षते ।
यथा खल्व् अन्यः । किन्तु भक्त-वश्यता-स्वभावेन तां प्रेमवतीम्
अपेक्षत एवेति प्रकरणं निगमयति -
एवं विमृश्याव्यभिचारि-सद्-गुणैर्
वरं निजैकाश्रयतयागुणाश्रयम् ।
वव्रे वरं सर्व-गुणैर् अपेक्षितं
रमा मुकुन्दं निरपेक्षम् ईप्सितम् ॥ [भ्प् 8.8.24]
मुकुन्दः वरं वव्र इत्य् अन्वयः । तं विशिनष्टि । अव्यभिचारिभिः सद्भिर्
निर्दोषैश् च गुणैर् वरं सर्वोत्तमम् । निजैकाश्रयतया अन्य-
निरपेक्षत्वेनैव च गुणाश्रयं स्वरूप-सिद्ध-तत्-तद्-गुणम् इत्य् अर्थः ।
अतएव तेषां गुणानां प्रकृति-सम्बन्धित्वम् अपि खण्डितम् । स्वतः
परमानन्द-घन-रूपत्वात् सर्व-गुणैर् अपेक्षितं स्वयं निरपेक्षम् ।
अतएव निजाभीप्सितम् इति ।
॥ 8.8 ॥ श्री-शुकः ॥ 118-120 ॥
[121]
अथ पूर्वोक्त-गुण-विरोधित्वाद् दोष-मात्रं तस्मिन् नास्त्य् एव । तत्र
सामान्यैश्वर्ये दया-विपरीतं परम-समर्थस्य तस्याभक्त-नरकादि-
संसार-दुःखानुद्धारित्वं प्राकृत-दुःखास्पृष्ट-चित्तत्वेन परमात्म-
सन्दर्भादौ परिहृतम् अस्ति । पाण्डवादिवत् क्वचित् प्राकृत-दुःखाभावात्
तद्-वियोगाद् वा उत्थिते भक्ति-रस-सञ्चारि-लक्षण-भक्त-दैन्येऽपि कदाचित्
तत्-प्रसाद-दर्शनाभावश् च, तेन पुष्टेन सञ्चारिणा भक्ति-रस-
पोषणार्थ एव -- भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः [भ्प्
1.8.20] इति तस्यैव मुख्य-प्रयोजनत्वात् । ब्रह्मन् यम् अनुगृह्णामि तद्-विशो
विधुनोम्य् अहम् [भ्प् 8.22.24] इति । सुदुस्तरान् नः स्वान् पाहि [भ्प् 10.17.24]
इत्य् आदौ । न शकुन्मस् त्वच्-चरणं सन्त्य् उक्तम् इति । विपदः सन्तु ताः
शश्वत् [भ्प् 1.8.25] इति । नाहं तु सख्यो भजतोऽपि [भ्प् 10.32.20] इति च
दैन्येन तत्-पोषण-श्रवणात् । एतम् एव श्रीमद्-व्रज-बालानां ब्रह्म-
द्वारा मोहनम् अपि व्याख्येयम् । तस्मिन् बहिर् मोहेऽपि तेषां मनसि
भोजन-मण्डलावस्थितम् आत्मानम् अनुसन्दधानानां
वत्सान्वेषणार्थागत-श्री-कृष्ण-प्रत्यागमन-भावना सातत्येन प्रेम-
रस-पोषणात् । यथोक्तम् -
ऊचुश् च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा ।
नैकोऽप्य् अभोज्क-बल एहीतः साधु भुज्यताम् ॥ [भ्प् 10.14.45] इति ।
यज्ञ-पत्नीनाम् अस्वीकारस् तासां ब्राह्मणीत्वात् तादृश-लीलायां सर्वेषाम्
(पगे 77) अनभिरूचेः भजते तादृशीः क्रीडा याः श्रुत्वा तत्-परो भवेत्
[भ्प् 10.33.36] इति न्यायात् ।
नैतत् पूर्वैः कृतं त्वद् ये न करिष्यन्ति चापरे ।
यस् त्वं दुहितरं गच्छेर् अनिगृह्याङ्गजं प्रभुः ॥ [भ्प् 3.12.30]
तेजीयसाम् अपि ह्य् एतन् न सुश्लोक्यं जगद्-गुरो इत्य् अत्र तेजीयसाम् अपि तद्-
अनुचिन्तता श्रूयते इति । एवम् एवाह -
न प्रीतये ऽनुरागाय ह्य् अन्गसन्गो नृणाम् इह ।
तन् मनो मयि युञ्जाना अचिरान् माम् अवाप्य्स्यथ ॥ [भ्प् 10.23.32]
इह ब्राह्मण-जन्मनि भवतीनाम् अङ्ग-सङ्गः साक्षान् मत्-परिचर्या-
रूपोऽर्थो नृणाम् एतच्-चरित-द्रष्टृ-श्रोतॄणां प्रीतये रुचि-मात्राय न
भविष्यति, किम् उत नानुरागायेति । तत् तस्माद् अचिराद् अनन्तर-जन्मनि इति ।
॥ 10.23 ॥ श्री-भगवान् यज्ञपत्नीः
[122]
अनेन क्वचित् भक्त-सुहृत्त्व-वैपरीत्याभासोऽपि व्याख्यातः । किं च भक्ता
द्वि-विधाः दूरस्थाः परिकराश् च । तत्र दूरस्थ-भक्तार्थं क्वचिद्
भक्त-सुहृत्त्व-लक्षणेन परम-प्रबलेन गुणेन ब्रह्मण्यत्वाद्य्-
आवरणम् अपि प्रायो दृश्यते श्रीमद्-अम्बरीष-चरितादौ । पर्करार्थं तु
न दृश्यते श्री-जय-विजय-शापादौ । स्कान्द-द्वारका-माहात्म्य-गत-
दुर्वाससो दुर्वृत्त-विशेषे च उभयम् अपि तत्र तत्र सुहृत्त्वस्यैव चिह्नम् ।
तथैव हि पूर्वत्रात्मीयत्वम् उत्तरत्र चात्मैकत्वं प्रसिध्यति । तथोक्तं
अहं भक्त-पराधीनः [भ्प् 9.4.63] इत्य् आदिना । तद् धि ह्य् आत्म-कृतं मन्ये
यत् स्व-पुम्भिर् असत्-कृता [भ्प् 3.16.4] इत्य् आदिना च ।
तद् एवं भक्त-महत्त्व-मात्रस्य तादृशत्वे स्थिते प्रेमार्द्रत्वं तद्-
वश्यत्वं च सुतराम् एव सर्वाच्छादकम् । तच् च प्रेम्णः स्वरूप-निरूपणे
दर्शितम् । अतएव सर्वोद्दीपन-गुण-मुख्यत्वेन तत्र तत्र स-चमत्कारम्
अनुस्मृतम् । तत्रोद्भास्वराख्येनानुभावेन व्यञ्जितं तस्य प्रेमार्द्रत्वं,
यथा --
भगवान् अथ विश्वात्मा पृथुनोपहृतार्हणः ।
समुज्जिहानया भक्त्या गृहीत-चरणाम्बुजः ॥
प्रस्थानाभिमुखो ऽप्य् एनम् अनुग्रह-विलम्बितः ।
पश्यन् पद्म-पलाशाक्षो न प्रतस्थे सुहृत् सताम् ॥ [भ्प् 4.20.19-20]
स आदिराजो रचिताञ्जलिर् हरिं विलोकितुं नाशकद् अश्रु-लोचनः इत्य् आदि ।
स्पष्टम् ।
॥ 4.20 ॥ श्री-शुकः
[123]
अथ सात्त्विकेनापि व्यञ्जितं यथा । तत्र भक्त्य्-आर्द्रत्वम् आह -
यस्मिन् भगवतो नेत्रान् न्यपतन्न् अश्रु-बिन्दवः ।
कृपया सम्परीतस्य प्रपन्ने ऽर्पितया भृशम् ॥
तद् वै बिन्दुसरो नाम [भ्प् 3.21.38-39] इत्य् आदि ।
भगवतः श्री-शुबलाख्यस्य । प्रपन्ने भक्ते श्री-कर्दमाख्ये ॥
॥ 3.12 ॥ श्री-मैत्रेयः
[124]
वात्सल्यार्द्रत्वम् आह-
कृष्ण-रामौ परिष्वज्य पितराव् अभिवाद्य च ।
न किञ्चनोचतुः प्रेम्णा साश्रु-कण्ठौ कुरूद्वह ॥ [भ्प् 10.82.33]
पितरौ कुरुक्षेत्र-मिलितौ श्री-यशोदानन्दाख्यौ माता-पितरौ ।
॥ 10.82 ॥ श्री-शुकः
(पगे 78)
[125]
मैत्र्यार्द्रत्वम् आह-
तं विलोक्याच्युतो दूरात् प्रिया-पर्यङ्कम् आस्थितः ।
सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन् मुदा ॥
सख्युः प्रियस्य विप्रर्षेर् अङ्ग-सङ्गाति-निर्वृतः ।
प्रीतो व्यमुञ्चद् अब्-बिन्दून् नेत्राभ्यां पुष्करेक्षणः ॥ [भ्प् 10.80.18-19]
तं श्रीदाम-विप्रम् ॥
॥ 10.80 ॥ श्री-शुकः
[126]
कान्ताभावार्द्रत्वम् आह-
तासाम् अतिविहारेण श्रान्तानां वदनानि सः ।
प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ [भ्प् 10.33.21]
तासां श्री-गोपीनाम् । प्रेम्णा करुणः साश्रु-णेत्र इत्य् अर्थः । सात्त्विकान्तरं
चोक्तं वैष्णवे -
गोपी-कपोल-संश्लेषम् अभिपत्य हरेर् भुजौ ।
पुलकोद्गम-शस्याय स्वेदाम्बु-घनतां गतौ ॥ [विप् 5.13.55]
॥ 10.33 ॥ श्री-शुकः
[127]
अथ प्रेम-वश्यत्वं, यथा तत्र श्री-भक्ति-वश्यत्वम् आह गद्येन-- यस्य
भगवान् स्वयम् अखिल-जगद्-गुरुर् नारायणो द्वारि गदा-पाणिर् अवतिष्ठते
निज-जनानुकम्पित-हृदयः [भ्प् 5.24.27] इति । यस्य श्री-बलेः ।
॥ 5.24 ॥ श्री-शुकः
[128]
वात्सल्य-वश्यत्वम् आह-
गोपीभिः स्तोभितो ऽनृत्यद् भगवान् बालवत् क्वचित् ।
उद्गायति क्वचिन् मुग्धस् तद्-वशो दारु-यन्त्रवत् ॥ [भ्प् 10.11.7] इत्य् आदि ।
स्पष्टम् ।
॥ 10.11 ॥ श्री-शुकः
[129]
मैत्री-वश्यत्वम् आह-
सारथ्य-पारषद-सेवन-सख्य-दौत्य-
वीरासनानुगमन-स्तवन-प्रणामान् ।
स्निग्धेषु पाण्डुषु जगत्-प्रणतिं च विष्णोर्
भक्तिं करोति नृ-पतिश् चरणारविन्दे ॥ [भ्प् 1.16.18]
स्निग्धेषु पाण्डुषु विष्णोर् यानि सारथ्यादीनि कर्माणि तानि शृण्वंस् तथा
विष्णोर् जगत्-कर्तृकां प्रणतिं च शृण्वन् नृपतिः परीक्षिद् विष्णोश्
चरणारविन्दे भक्तिं करोति । पारषदं पार्षदत्वं सभा-पतित्वम् ।
सेवनं चित्तानुवृत्तिः । वीरासनं रात्रौ खड्ग-हस्तस्य तिष्ठतो जागरणम् ।
॥ 1.16 ॥ श्री-सूतः
[130]
कान्त-भाव-वश्यत्वम् आह-
न पारये ऽहं निरवद्य-संयुजां
स्व-साधु-कृत्यं विबुधायुषापि वः ।
याम् आभजन् दुर्जर-गेह-शृङ्खलाः
संवृश्च्य तद् वः प्रतियातु साधुना ॥ [भ्प् 10.32.22]
निरवद्या परम-शुद्ध-भाव-विशेष-मात्रेण प्रवृत्तत्वात् परम-शुद्धा
संयुक्-संयोगे यासां तासां वः स्व-साधु-कृत्यं तद्-अनुरूप-मदीय-
परम-सुखद-सेवां न पारये । न प्रत्युपकारेणानुकर्तुं शक्नोमीत्य्
अर्थः । केनापि न पारये । विगतो बुधो गणना-विज्ञो यस्मात् तेन स्वभाव-
नित्येनाप्य् आयुषेत्य् अर्थः । तासाम् अनुरागस्य साधिष्ठत्वं लोक-
धर्मातिक्रान्तत्वाद् आह या इति । तस्माद् वः साधुना सौशील्येनैव तत्
प्रतियातु प्रत्युपकृतं भवतु । अहं तु भवतीनां ऋणी एवेति भावः ।
॥ 10.32 ॥ श्री-शुकः
[131]
तद् एवं तस्य प्रेमार्द्रत्वादिके स्थिते तद्-आदिकस्य तस्मिन् परम-साधु-
गणे च परम-हृद्य-सुखदत्वात् तद्-धेतुकं कादाचित्कं सत्यादि-
वैपरीत्यम् अपि परम-गुण-शिरोमणि-शोभां भजते । तत्र सत्य-विरोध्य्
अपि गुणो यथा-
स्व-निगमम् अपहाय मत्-प्रतिज्ञाम्
ऋतम् अधिकर्तुम् अवप्लुतो रथस्थः ॥ [भ्प् 1.9.37]
स्पष्टम् ।
॥ 1.9 ॥ श्री-भीष्मः
(पगे 79)
[132]
शौच-विरोधी यथा -- अंस-न्यस्त-विषाणो ऽसृङ्- मद-बिन्दुभिर् अङ्कितः [भ्प्
10.43.15] इत्य् आदि । स्पष्टम् ॥
॥ 10.43 ॥ श्री-शुकः
[133]
क्षान्ति-विरोधी च, यथा यस् तान् द्वेष्टि स मां द्वेष्टि यस् तान् अनु स माम्
अनु इत्य्-आदि-महाभारत-स्थ-श्री-भगवद्-वाक्यात् । यथा धनं हरत
गोपानाम् [भ्प् 10.44.32] इत्य् आद्य्-अनन्तरम् एवं विकत्थमाने वै कंसे
प्रकुपितो ऽव्ययः [भ्प् 10.44.34] । स्पष्टम् ।
॥ 10.44 ॥ श्री-शुकः
[134]
सन्तोष-विरोधी च अपि मे पूर्ण-कामस्य इत्य् आदेः भक्ति-सुधोदय-स्थ-
भगवद्-वाक्यात् [14.28] । यथा-
तम् अङ्कम् आरूढम् अपाययत् स्तनं
स्नेह-स्नुतं स-स्मितम् ईक्षती मुखम् ।
अतृप्तम् उत्सृज्य [भ्प् 10.9.5] इत्य् आदि ।
एवं जघास हैयङ्गवम् अन्तरं गतः [भ्प् 10.96] इत्य् आदौ रहोऽपि तत्-तल्-
लीलावेशः ।
॥ 10.9 ॥ श्री-शुकः
[135]
एवं बालि-प्रभृतावार्जवादि-गुण-विरोधी च सुग्रीव-हनुमद्-आदि-
पक्षपात-मयो ज्ञेयः । सर्व-शुभङ्करत्वं च क्रोधोऽपि देवस्य वरेण
तुल्यः इति न्यायेन सिद्धम् ।
अथ शम-विरोधी कामश् च तस्य प्रेष्ठ-जन-विशेष-रूपासु तासु प्रेम-
विशेष-रूप एव । तथा हि -
स एष नर-लोके ऽस्मिन्न् अवतीर्णः स्व-मायया ।
रेमे स्त्री-रत्न-कूटस्थो भगवान् प्राकृतो यथा ॥ [भ्प् 1.11.36]
स्वेषु निज-जनेषु या माया कृपा तत्-सुख-चिकीर्षा-मय-प्रेमा तया
लोकेऽवतीर्ण इति तस्या एव सर्वावतार-प्रयोजन-निमित्तत्वात् स्त्री-रत्न-
कूटस्थोऽपि तादृश-रमण-वश-कारि-प्रेम-विशेष-रूपया तयैव रेमे, न
तु प्रसिद्ध-कामेनेत्य् अर्थः । अत्र रत्न-पदेन तासाम् अपि तद्-योग्यत्वं
बोधयित्वा तादृश-प्रेम-विशेष-मयत्वं बोधितम् । एवं भाव-
वैलक्षण्येऽपि क्रियया साम्यम् इत्य् आह प्राकृतो यथा इति । अत्र श्री-
भगवतोऽप्य् अप्राकृतत्वं दर्शयित्वा तद्वत् काम-विषयत्वं निराकृतम् ।
[136]
अथ पुनर् अपि तादृश-प्रेमवतीषु तास्व् अपि प्राकृत-कामाधिकारो नास्तीति
दर्शनेन तस्यापि कामुक-वैलक्षण्येन तद् एव स्थापयति --
उद्दाम-भाव-पिशुनामल-वल्गु-हास-
व्रीडावलोक-निहतो मदनो ऽपि यासाम्
सम्मुह्य चापम् अजहात् प्रमदोत्तमास् ता;
यस्येन्द्रियं विमथितुं कुहकैर् न शेकुः ॥ [भ्प् 1.11.37]
मदनः प्राकृतः कामः । उद्भट-भाव-सूचक-निर्मल-मनोहराभ्यां
हास-व्रीडावलोकाभ्यां निहतस् तन्-महिम-दर्शनेन स्वयम्
एवोक्तार्थीकृत-स्वास्त्रादि-बलोऽभूत । अतएव संमुह्य चापम् अजहात् भ्रू-
पल्लवं धनुर् अपाङ्ग-तरङ्गितानि बाणा इत्य्-आदिवत् । तत्र निजास्त्र-प्रयोगं
न कुरुत एवेत्य् अर्थः । तथाभूता अपि प्रमदोत्तमाः प्रमदेन प्रकृष्ट-
प्रेमानन्द-विशेषेण परमोत्कृष्टास् ताः स्व-वृन्द एव याः स्वतोऽप्य्
उत्कृष्ट-प्रेमवत्यस् तासां साम्येच्छया कुहकैस् तादृश-प्रेमाभावेन
कपटांश-प्रयुक्तः सद्भिः कपटादिभिर् यस्येन्द्रियं विमथितुं (पगे
80) तद्वद् विशेषेण मथितुं न शेकुः किन्तु स्व-प्रेमानुरूपम् एव शेकुर्
इति । तस्मात् प्रेम-मात्रोत्थायित्-विकारत्वात् तस्य कामुक-वैलक्षण्यम् इति
भावः ।
[137]
तस्माद् एतत् तत्त्वम् अविज्ञायैव --
तम् अयं मन्यते लोको ह्य् असङ्गम् अपि सङ्गिनम् ।
आत्मौपम्येन मनुजं व्यापृण्वानं यतो ऽबुधः ॥ [भ्प् 1.11.38]
अयं साधारणो लोकः असक्तम् अपि प्राकृत-गुणेष्व् अनासक्तम् अपि । यतः
आत्मौपम्येन मनुजं व्यापृण्वानं कामादि-व्यापार-युक्तं मन्यते ।
यथा आत्मनः प्राकृत-मनुष्यत्वादि तथैव मन्यत इत्य् अर्थः ।
अतएवाबुधः एवासौ लोक इति ।
[138]
प्राकृत-गुणेष्व् असक्तत्वे हेतुः -
एतद् ईशनम् ईशस्य प्रकृति-स्थो ऽपि तद्-गुणैः ।
न युज्यते सदात्म-स्थैर् यथा बुद्धिस् तद्-आश्रया ॥ [भ्प् 1.11.39]
अवतारादौ प्रकृति-गुण-मये प्रपञ्चे तिष्ठन्न् अपि सदैव तद्-गुणैर् न
युज्यते इति यद् एतद् ईशस्येशनम् ऐश्वर्यम् । तत्र व्यतिरेके दृष्टान्तः,
यथेति । एवम् एवोक्तं श्रीमद्-उद्धवेन तृतीये --
भगवान् अपि विश्वात्मा लोक-वेद-पथानुगः ।
कामान् सिषेवे द्वार्वत्याम् असक्तः साङ्ख्यम् आस्थितः ॥ [भ्प् 3.3.19]
[139]
ननु तादृशम् ऐश्वर्यं तस्य ताः किं जानन्ति । यदि जानन्ति तदा रहो-लीलायां
त्रुट्यत्य् एव तादृश-प्रेमेत्य् आशङ्क्याह -
तं मेनिरे ऽबला मूढाः स्त्रैणं चानुव्रतं रहः ।
अप्रमाण-विदो भर्तुर् ईश्वरं मतयो यथा ॥ [भ्प् 1.11.40]
ईश्वरम् अपि तं रह एकान्त-लीलायां मौढ्यात् तादृश-प्रेम-मोहाद् भर्तुर्
अप्रमाण-विदस् तादृशैश्वर्यअ-ज्ञान-रहिताः स्त्रैणम् आत्म-वश्यम्
अनुव्रतम् अनुसृतं च मेनिरे । तच् च नायुक्तम् इत्य् आह, यथा तासां मतयः
प्रेम-वासनास् तथैव स इति ये यथा माम् [गीता 4.11] इत्य् आदेः ।
स्वेच्छामयस्य [भ्प् 10.14.2] इत्य् आदेश् च प्रामाण्याद् इति भावः ।
॥ 1.11 ॥ श्री-सूतः ॥ 135-139 ॥
[140]
तथा चान्यत्र -
गृहाद् अनपगं वीक्ष्य राज-पुत्र्यो ऽच्युतं स्थितम् ।
प्रेष्ठं न्यमंसत स्वं स्वं न तत्-तत्त्व-विदः स्त्रियः ॥ [भ्प् 10.61.2]
आत्मानं प्रत्येकम् एव प्रेष्ठं सर्वतः प्रियतमम् अमंस्तेत्य् अर्थः ।
अतएवातत्त्व-विदः । ऊर्ध्वोर्ध्व-प्रेयसी-सद्-भावात् ।
[141]
नन्व् आत्मारामस्य कथं पत्नीषु प्रेम, उच्यते । तासु रमणत्वेनैव
लोकवन् न तस्य प्रेम, किन्तु शुद्ध-प्रेम-सम्बन्धेनैव । तथा हि -
चार्व्-अब्ज-कोश-वदनायत-बाहु-नेत्र-
स-प्रेम-हास-रस-वीक्षित-वल्गु-जल्पैः ।
सम्मोहिता भगवतो न मनो विजेतुं
स्वैर् विभ्रमैः समशकन् वनिता विभूम्नः ॥ [भ्प् 10.61.3]
अत्र स-प्रेमेति तासु श्री-कृष्ण-प्रेम दर्शितम् । अतएव वनिता-शब्द-
प्रयोगः । वनिता-जनितात्यर्थानुरागायां च योषिति इति नानार्थ-वर्गात् । तेन
तस्मिन् तासां च (पगे 81) प्रेम दर्शितम् । अतस् तत्-प्रेम-मात्र-विजितं यद्
भगवतो मनस् तत् तु स्वैः केवल-स्त्री-जातीयैर् विभ्रमैर् विजेतुं न शेकुर्
इत्य् अर्थः ।
[142]
स्त्री-जातीय-विभ्रमानुवाद-पूर्वकं पूर्वार्थम् एव विशदयति ---
स्मायावलोक-लव-दर्शित-भाव-हारि-
भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः ।
पत्न्यस् तु षोडश-सहस्रम् अनङ्ग-बाणैर्
यस्येन्द्रियं विमथितुं करणैर् न शेकुः ॥ [भ्प् 10.61.4]
स्वयम् एवानङ्ग-बाण-रूपैः करणैर् भाव-हावादिभिर् न शेकुः । तानि
विशिनष्टि स्मायेति । स्मायः स्मितम् । भावोऽभिप्रायः । तादृश-भ्रू-
मण्डलैः प्रहिता विक्षिप्ताश् च ते सौरत-मन्त्रैः सुरत-रूपार्थ-साधक-
मन्त्रैः शौण्डाः प्रगल्भाश् च ते तादृशैः ॥
॥ 10.61 ॥ श्री-शुकः ॥ 141-142 ॥
[143]
अथ श्री-रघुनाथ-चरिते स्त्री-सङ्गिनां गतिम् इति प्रथयंश् चचार [भ्प्
9.10.11] इत्य् आदिक-वाक्येष्व् अन्तस् तत्-प्रेम-वश एव स्त्री-सङ्गिनां कामिनां
गतिं प्रथयन् क्रिया-साम्येन बहिर् विख्यापयन् इत्य् एवाभिप्रायः । उक्तं
च तद्-अध्यायान्ते-
प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती ।
भिया ह्रिया च भाव-ज्ञा भर्तुः सीताहरन् मनः ॥ [भ्प् 9.10.56] इति ।
तद्-अनन्तराध्यायेऽपि---
तच् छ्रुत्वा भगवान् रामो रुन्धन्न् अपि धिया शुचः ।
स्मरंस् तस्या गुणांस् तांस् तान् नाशक्नोद् रोद्धुम् ईश्वरः ॥ [भ्प् 9.11.16]
इत्य् अनेनान्तस्-तत्-प्रेम-वशतां भक्ति-विशेष-सौख्याय व्यज्य बहिः
कामुक-क्रिया-साम्य-दर्शनया साधारण-जन-वैराग्य-जननायोक्तम्-
स्त्री-पुं-प्रसङ्ग एतादृक् सर्वत्र त्रासम्-आवहः । [भ्प् 9.11.17] इत्य् आदि ।
युक्तं चोभय-विधत्वं भगवच्-चरितस्य चतुरस्र-हितत्वात् । तस्मात् तत्-
कामस्य प्रेयसी-विषयक-प्रीति-विशेष-मात्र-शरीरत्वम् । अतो न दोषश् च ।
तन्-मात्र-शरीरत्वेनैवं विशिष्योक्तम् - रेमे रमाभिर् निज-काम-सम्प्लुतः
[भ्प् 10.59.43] इति स सत्य-कामोऽनुरताबला-गणः [भ्प् 10.33.25] इति ।
अथ साम्यम् अपि भक्ताद् अन्यत्रैव ।
समो ऽहं सर्वभूतेषु न मे द्वेष्यो ऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥ [गीता 9.29] इत्य् आदेः ।
अथ भक्त-प्रेम-विशेष-मय-नर-लीलावेश-मये क्वचित् तत्-प्रकाश-विशेषे
कदाचित् सर्वज्ञत्वादि-विरोधि-मोहादिकोऽपि दृश्यते । सोऽपि गुण एव । तादृश-
मोहादिकस्य तल्-लीला-माधुर्य-वाहित्वेन विदुषाम् अपि प्रीति-सुखदत्वात् न
तु दोषः । स्वेच्छयाङ्गीकृतत्वात् । अतएवाह --
रक्षो विदित्वाखिल-भूत-हृत्-स्थितः
स्वानां निरोद्धुं भगवान् मनो दधे ॥ [भ्प् 10.12.25]
तावत् प्रविष्टास् त्व् असुरोदरान्तरं
परं न गीर्णाः शिशवः स-वत्साः ॥ [भ्प् 10.12.26] इति ।
तथा ततो वत्सान् अदृष्ट्वैत्य [भ्प् 10.13.16] इत्य् आदि ।
॥ 10.12 ॥ श्री-शुकः
[144]
यदा च तस्य स्वेच्छा न भवति प्रतिकुलैर् मोहादिना योजयितुम् इष्यते च
सः । तदा सर्वथा तेन न युज्यते एव । यथा शाल्व-मायया तस्य
मोहाभावं स्थापयन्न् आह-एवं वदन्ति राजर्षे ऋषयः केचनान्विताः [भ्प्
10.77.30] इत्य् आदौ ।
क्व शोक-मोहौ स्नेहो वा भयं वा ये ऽज्ञ-सम्भवाः ।
क्व चाखण्डित-विज्ञान- ज्ञानैश्वर्यस् त्व् अखण्डितः ॥ [भ्प् 10.77.33] इत्य् आदि ।
पूर्वोक्त-रीत्यैवोक्तं ये त्व् अज्ञ-सम्भवाः परमायादि-पारवश्य-मात्र-
कृताः शोकादयस् ते क्वेति ।
॥ 10.77 ॥ श्री-शुकः
(पगे 82)
[145]
भक्त-प्रेम-पारावश्य-सम्बन्धेन तु शोकादयोऽपि वर्णिता एव - श्रुत्वा
तां भगवान् रामः [भ्प् 9.11.16] इत्य् आदौ श्री-राम-चरिते । सख्युः प्रियस्य
विप्रर्षेः [भ्प् 10.80.19] इत्य् आदौ श्री-दामादि-विप्र-चरिते । तथाह-
गोप्य् आददे त्वयि कृतागसि दाम तावद्
या ते दशाश्रु-कलिलाञ्जन-सम्भ्रमाक्षम् ।
वक्त्रं निनीय भय-भावनया स्थितस्य
सा मां विमोहयति भीर् अपि यद् बिभेति ॥ [भ्प् 1.8.31]
तत्र भीर् अपि यद् बिभेति इत्य् उक्त्या तस्य ऐश्वर्य-ज्ञानं व्यक्तम् । ततो यदि
सा भीः सत्या न भवति तदा तस्या मोहोऽपि न सम्भवेद् इति गम्यते ।
स्फुटम् एव चान्तर्भयम् उक्तं भय-भावनया स्थितस्येति ।
॥ 1.8 ॥ श्री-कुन्ती श्री-भगवन्तम्
[146]
अथ स्वान्तन्त्र्यं भक्त-सम्बन्धं विनैव अहं भक्त-पराधीनः [भ्प्
9.4.63] इत्य् आदेः । अथ गोचारणादाव् अपि सुखित्व-गुणानुकूल्यम् एव
मन्तव्यम् । तद्-व्याजेन नाना-क्रीडा-सुखम् एव ह्य् उपचीयते । यथाह-
व्रज-विक्रीडतोर् एवं गोपाल-च्छद्म-मायया ।
ग्रीष्मो नामर्तुर् अभ्वन् नातिप्रेयान् शरीरिणाम् ॥
स च वृन्दावन-गुणैर् वसन्त इव लक्षितः ॥ [भ्प् 10.18.2-3]
क्रिया-कृतस्य दुःखस्य निषेधः । व्रजे विक्रीडतोर् इति । छद्म व्याजः ।
माया वञ्चनम् । गोपाल-व्याजेन यद् वञ्चनं तेन विक्रीडतोः । प्रातस् तद्-
व्याजेन नाना-जनान् वञ्चयित्वा व्रजाद् वनं गत्वा स्वच्छन्दं निजाभीष्टाः
क्रीडाः कुर्वतोर् इत्य् अर्थः । सायं व्रजावासागमने चान्या इति । काल-कृतस्य
दुःखस्य निषेधः । स चेति । अनेन देश-कृतस्य च इति ज्ञेयः ।
॥ 10.18 ॥ श्री-शुकः इति
[147]
अथ पूर्ववत् स्थैर्य-विरोधी बाल्यादि-चाञ्चल्यम् अपि गुणत्वेनैव स्फुटं
दृश्यते । यथा वत्सान् मुञ्चन् क्वचिद् असमये [भ्प् 10.8.29] इत्य् आदि । अथ
रक्त-लोकत्वं च यथाह-
स्निग्ध-स्मितावलोकेन वाचा पीयूष-कल्पया ।
चरित्रेणानवद्येन श्री-निकेतेन चात्मना ॥
इमं लोकम् अमुं चैव रमयन् सुतरां यदून् ।
रेमे क्षणदया दत्त- क्षण-स्त्री-क्षण-सौहृदः ॥ [भ्प् 3.3.20-21]
रजन्या दत्तावसरः स्त्रीणां क्षणं उत्सव-रूपं सौहृदं यस्य ॥
॥ 3.3 ॥ श्रीमान् उद्धवः
[148]
अत्र एवं लीला-नर-वपुः [भ्प् 10.23.33] इत्य्-आदिकम् अपि उदाहार्यम् । एवम् अपि
यद् असुराणाम् अपरक्तत्वम् । तत्र कारणम् आह-
पापच्यमानेन हृदातुरेन्द्रियः
समृद्धिभिः पूरुष-बुद्धि-साक्षिणाम् ।
अकल्प एषाम् अधिरोढुम् अञ्जसा
परं पदं द्वेष्टि यथासुरा हरिम् ॥ [भ्प् 4.3.21]
स्पष्टम् ।
॥ 4.3 ॥ श्री-शिवः
[149]
यद्यप्य् एषां गुणानां सर्वेषाम् अपि भगवति नित्यत्वम् एव तथापि तत्-तल्-
लीला-सिद्ध्य्-अर्थं तेषां क्वचित् कस्यचित् प्रकाशः कस्यचिद् अप्रकाशश् च
भवति । अतएवाह-
अश्रूयन्ताशिषः सत्यास् तत्र तत्र द्विजेरिताः ।
नानुरूपानुरूपाश् च निर्गुणस्य गुणात्मनः ॥ [भ्प् 1.11.19]
निर्गुणस्य मध्य-पद-लोपेन निर्गता गुणेभ्यो गुणा यस्य तस्य, प्राकृत-
गुणातीत-नित्य- (पगे 83) गुणस्य नानुरूपाः नित्य-तत्-परिपूर्णत्वेन
लाभान्तरायोगात् । गुणात्मनः तदाशीर्वादाङ्गीकार-द्वारा तत्-तद्-गुण-
विशेष-प्रवर्तक-निवर्तकस्य अनुरूपाश् च । तद्-अङ्गीकारे हेतुः सत्या इति ।
तद् एवं प्रकाशनाप्रकाशन-हेतोर् एव श्री-भगवतश् चन्द्र-पर-
परार्धोज्ज्वलतादिके सत्य् अपि तल्-लीला-माधुर्य-विस्तारकस् तमिस्रादि-
व्यवहारः सिध्यति ।
॥ 1.10 ॥ श्री-सूतः
[150]
अतएवावसर-विशेषं प्राप्य तत्-तद्-गुण-समुदाय-विशेषाविर्भावाद् एक
एवासौ तत्र तत्र पृथक् पृथग् इव धीरोदात्तादि-व्यवहार-चतुष्टयम् अपि
प्रकाशयति । तत्र धीरोदात्तो यथा -
गम्भीरो विनयी क्षन्ता करुणः सुदृढ-व्रतः ।
अकत्थनो गूढ-गर्वो धीरोदात्तः सु-सत्त्व-भृत् ॥ [ब्र्स् 2.1.226] इति ।
एते च गुणा गोवर्धनोद्धारणादि-शक्र-सम्भाषान्त-लीलायां व्यक्ताः
सन्ति । अथ धीर-ललितः -
विदग्धो नव-तारुण्यः परिहास-विशारदः ।
निश्चिन्तो धीर-ललितः स्यात् प्रायः प्रेयसी-वशः ॥ [ब्र्स् 2.1.230]
एते च श्रीमद्-व्रज-देवी-सहित-लीलायां सुष्ठु व्यक्ताः । अथ धीर-शान्तः
शम-प्रकृतिकः क्लेश-सहनश् च विवेचकः ।
विनयादि-गुणोपेतो धीर-शान्त उदीर्यते ॥ [ब्र्स् 2.1.233]
एते च तादृशानां युधिष्ठिरादीनां सन्निधौ तत्-पालन-लीलायाम्
उज्जृम्भते । अथ धीरोद्धतः -
मात्सर्यवान् अहङ्कारी मायावी रोषणश् चलः ।
विकत्थनश् च विद्वद्भिर् धीरोद्धत उदाहृतः ॥ [ब्र्स् 2.1.236]
एते च तादृशान् असुरान् प्राप्य क्वचिद् उदयन्ते । अतएव दुष्ट-दण्डन-
हेतुत्वाद् एषां गुणत्वं च । तद् एवम् उद्दीपनेषु गुणा व्याख्याताः । अथ
तेषु जातिर् द्विविधाः । तस्य तत्-सम्बन्ध-सम्बन्धिनां चेति । तत्र तस्य जातिर्
गोपत्व-क्षत्रियत्वादिका । श्यामत्व-किशोरत्वादिकम् अन्यत्र तद्-उपमा-
बुद्धि-जनकत्वं च । तत्-सम्बन्धिनां जातिस् तु गोत्वादिका ज्ञेया ।
अथोद्दीपनेषु क्रिया लीला एव । ताश् च द्विविधाः । तत्र तत्-सान्निध्येन
मायया दर्शिताः । सृष्ट्य्-आदयो मायिक्यः । तदीय-श्री-विग्रह-चेष्टास् तु
स्मित-विलास-खेलानृत्य-युद्धादयः स्वरूप-शक्तिमय्यः । श्री-विग्रहस्य
स्वरूपानन्दैक-रूपत्वात् । रमयात्म-शक्त्या यद् यत् करिष्यति [भ्प् 3.9.23]
इति तृतीय-स्थ-ब्रह्म-स्तवाच् च । ईश्वरस्यापि तस्य वर्तत एव स्वाभाविकं
तद्-इच्छा-कौतुकं लोकवत् तु लीला-कैवल्यम् [व्स् 2.1.33] इति न्यायेन । यथाह-
एक एवेश्वरस् तस्मिन् सुर-कार्ये सुरेश्वरः ।
विहर्तु-कामस् तान् आह समुद्रोन्मथनादिभिः ॥ [भ्प् 8.6.17]
एक एवेश्वरः समर्थोऽपीति टीका च । अतएव तत्-तज्-जाति-लीलाभिनिवेशः
श्रूयते, यथा विष्णु-धर्मोत्तरे-
यस्यां यस्यां यदा योनौ प्रादुर्भवति कारणात् ।
तद्-योनि-सदृशं वत्स तदा लोके विचेष्टते ॥
संहर्तुं जगदीशानः समर्थोऽपि तदा नृप ।
तद्-योनि-सदृशोपायैर् वध्यान् हिंसति यादव ॥ इत्य् आदि ।
॥ 8.6 ॥ श्री-शुकः
[151]
तत्र श्री-विग्रह-चेष्टा द्विविधाः । ऐश्वर्यमय्यो माधुर्य-मय्यश् चेति ।
तत्र निज-जन-प्रेममयत्वान् माधुर्य-मय्य एव रमणाधिक्ये हेतवः ।
यथैव परम-विस्मय-हर्षाभ्याम् आह- (पगे 84)
एवं निगूढात्म-गतिः स्व-मायया
गोपात्मजत्वं चरितैर् विडम्बयन् ।
रेमे रमा-लालित-पाद-पल्लवो
ग्राम्यैः समं ग्राम्य-वद् ईश-चेष्टितः ॥ [भ्प् 10.15.19]
श्री-नारायणादि-रूपेषु स्वाविर्भावेषु रमा-लालित-पाद-पल्लवोऽपि स्वेषु
अलौकिकेष्व् अपि व्रज-वासिषु निरीक्ष्य तद्-वपुर् अलम् अम्बरे चरत् [भ्प्
10.18.27] इत्य् आदौ हलधर ईषद् अत्र सत् इति न्याय-लब्धेन तल्-लीला-
माधुर्य-स्थितिः सन् लौकिकं यद् गोपात्मजत्वं तद् एव अलौकिक-
गोपात्मजमयिश् चरितैर् विडम्बयन् अनुकुर्वन् रेमे स्वयम् अपि रतिम्
उवाह । अतस् तादृश-रमणेषु यथा तद्-इच्छा । न तथा रमा-लालित-पाद-
पल्लवत्वेऽपीति दर्शितम् ।
रमणम् एव दर्शयति । यथाधुनापि ग्राम्यैर् बालकैः समं कश्चिद्
ग्रामाधिप-बालको रमते तद्वत् । तत्-तल्-लीला-प्रधान एव रमते न त्व्
ऐश्वर्य-प्रधान इत्य् अर्थः । दृश्यते च तत्-तल्-लीलावेशः । स जात-कोप-
स्फुरितारुणाधरः [भ्प् 10.9.6] इत्य् आदौ । रहोऽपि जात-तादृश-भावात् । तान्
वीक्ष्य कृष्णः [भ्प् 10.12.27] इत्य् आदौ बालानां स्वकरापच्युतताजातानुतापाद्
दिष्ट-कृतत्व-मननाच् च । अतएव तस्य तत्-तल्-लीलासु लोकानुसारि यद् यद्
बुद्धि-कर्म-सौष्ठवं तत् तत् सुष्ठु मुनिभिर् अपि स-चमत्कारं
वर्ण्यते । यथोक्तं श्री-शुकेन जरासन्ध-युद्धान्ते-
स्थित्य्-उद्भवान्तं भुवन-त्रयस्य यः
समीहिते ऽनन्त-गुणः स्व-लीलया ।
अन तस्य चित्रं पर-पक्ष-निग्रहस्
तथापि मर्त्यानुविधस्य वर्ण्यते ॥ [भ्प् 10.50.30] इति ।
तेषु चरितेषु यद्-अलौकिकम् आसीत् तद् अपि तत्-तल्-लीला-रस-मात्रासक्तस्य तस्य
स्वभाव-सिद्धैश्वर्यत्वेन लीलाख्या शक्तिर् एव स्वयं सम्पादितवतीत्य् आह
ईशं तत्-तल्-लीलोचित-सुघट-दुर्घट-सर्वार्थ-साधकं चेष्टितं लीलैव
यस्य स इति । यथोक्तम्-
अथोवाच हृषीकेशं नारदः प्रहसन्न् इव ।
योग-मायोदयं वीक्ष्य मानुषीम् ईयुषो गतिम् ॥ [भ्प् 10.69.37]
यथा च--
यद्य् एवं तर्हि व्यादेही- त्य् उक्तः स भगवान् हरिः ।
व्यादत्ताव्याहतैश्वर्यः क्रीडा-मनुज-बालकः ॥ [भ्प् 10.8.36]
सा तत्र ददृशे विश्वम् [भ्प् 10.8.37] इति । अत्र यदि सत्य-गिरस् तर्हि समक्षं
पश्य मे मुखम् [भ्प् 10.8.35] इत्य् अन्ता तदीय-सरस-कृतैव लीला पूर्वम्
उक्ता । अव्याहतैश्वर्य इत्य् आदिका तु तत्-तल्-लीला-शक्ति-कृतैव । सा च श्री-
व्रजेश्वर्या वात्सल्य-पोषिके विस्मय-शङ्के पुष्णाति । नाहं भकृइतवान्
अम्ब [भ्प् 10.8.35] इति सम्भ्रमेण मिथ्यैव कृष्ण-वाक्यं च सत्यापयति ।
एवं श्री-दामोदर-लीलायां यावत् तस्य बन्धनेच्छा न जातासीत् तावद्-रज्जु-
परम्पराभ्यस् तस्मिन् द्व्य्-अङ्गुलाधिकत्व-प्रकाशः । तद् उक्तं तद्-दामा
[भ्प् 10.8.15] इत्य् आदिना । यदा तु मातृ-श्रमेण तद्-इच्छा जाता तदा न तत्-
प्रकाशः । तद् उक्तं - स्व-मातुः स्विन्न-गात्रायाः [भ्प् 10.9.18] इत्य् आदिना ।
एवं श्री-कृष्ण-कृपा-दृष्टि-प्रभावेणैव विषमय-मोहात् सखीनां
समुद्धरणं तद्-आवेशेनैव दावाग्नि-पाने चिकीर्षित-मात्रे स्वयं तन्-
नाश इत्य् आदिकं ज्ञेयम् । क्रीडा-मनुज-बालक इति क्रीडया लीलया मनुजा-
बालक-स्थितिं प्राप्तोऽपीत्य् अर्थः । अन्यत्र च क्रीडा-मानुष-रूपिणः [भ्प्
10.16.68] इति । एवं कार्य-मानुषः [भ्प् 10.16.60] इत्य् अत्रापि कार्यं क्रीडैव ।
तस्मात् साधु व्याख्यातम् एवं निगूढात्म-गतिः इत्य् आदि ।
॥ 10.15 ॥ श्री-शुकः
(पगे 85)
[152]
अन्यत्र च पूर्व-रीत्यैवाह-
कृत्वा तावन्तम् आत्मानं यावतीर् गोपयोषितः ।
रेमे स भगवांस् ताभिर् आत्मारामो ऽपि लीलया ॥ [भ्प् 10.33.20]
तादृशोऽपि ताभिः सह रेमे । तस्यारविन्द-नयनस्य [भ्प् 3.15.43] इत्य् आदौ
चकार तेषां सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः इतिवत् । तत्र
सर्वाभिर् एव युगपल्-लीलेच्छा यदा जाता तदैव तावत्-प्रकाशा अपि तथैव
लीला-शक्त्या घटिता इत्य् आह कृत्वेति । लीलया लीला-शक्ति-द्वारैव, न तु स्व-
द्वारा । तावन्तम् आत्मानम् आत्मनः प्रकाशं कृत्वा प्रकटय्य ।
॥ 10.33 ॥ श्री-शुकः
[153]
तद् एवं माधुर्य-मय्या लीलाया उत्कर्षो दर्शितः । अस्यां माधुर्य-मय्यां
च युगपद् विचित्र-लीला-विधानस्य तस्यापि रमणाधिक्य-हेतुत्वेन पूर्व-
दर्शित-विलास-मय्य् एव श्री-शुकदेवादीनाम् अपि श्री-शिव-ब्रह्मादीनाम् अपि
परम-मधुरत्वेन भासते । पूर्वत्र यथा इत्थं सतां ब्रह्म-
सुखानुभूत्या [भ्प् 10.12.11] च तादृशत्वेन वर्णनात् । उत्तरत्र शक्र-शर्व-
परमेष्ठि-पुरोगाः [भ्प् 10.35.15], कश्मलं ययुर् इत्य् आदिषु तत्रैव मोह-
श्रवणाच् च ।
अथ क्रीडा-मानुष-रूपिणस् तस्यान्या लोक-मर्यादा-मयी धर्मानुष्ठान-
लीला तु धर्म-वीरादि-भक्तानाम् एव मधुरत्वेन भासते न तादृशानाम् ।
यथाह-
ब्रह्मन् धर्मस्य वक्ताहं कर्ता तद्-अनुमोदिता ।
तच् छिक्षयन् लोकम् इमम् आस्थितः पुत्र मा खिदः ॥ [भ्प् 10.69.60]
तत्र हि श्री-नारदो नाना-क्रीडान्तर-दर्शनेन सुखं लब्धवान्
धर्मानुष्ठान-दर्शनेन तु खेदं तत्राह ब्रह्मन्न् इति ।
॥ 10.69 ॥ श्री-भगवान् नारदम्
[154]
अथ पूर्ववद् एव कनिष्ठ-ज्ञानि-भक्तानाम् एव मधुरत्वेन
भासमानां तद्-औदासीन्य-लीलाम् अप्य् आह-
तस्यैवं रममाणस्य संवत्सर-गणान् बहून् ।
गृहमेधेषु योगेषु विरागः समजायत ॥ [भ्प् 3.3.22]
गृह-मेधेषु गार्हस्थ्योचित-धर्मानुष्ठानेषु वैराग्यम् औदासीन्यम् ।
॥ 3.3 ॥ श्रीमान् उद्धवो विदुरम्
[155]
अथोद्दीपनेषु तदीय-द्रव्याणि च परिष्कारास्त्र-वादिक्र-स्थान-चिह्न-
परिवार-भक्त-तुलसी-निर्माल्यादीनि । तत्र परिष्कारा वस्त्रालङ्कार-
पुष्पादयः । ते च तदीयास् तत्-स्वरूप-भूतत्वेनैव भगवत्-सन्दर्भे
दर्शिताः । तथापि भूषण-भूषणाङ्गम् [भ्प् 3.2.11] इति न्यायेन तत्-
सौन्दर्य-सौरभ्यादि-परिष्क्रियमाणतयैव तं परिष्कुर्वन्ति न केवल-स्व-
गुणेन । स च तत्-तद्-रूपान् तान् स्व-शक्ति-विलासान् प्राप्य स्वीय-तत्-तद्-गुणान्
विशेषतः प्रकाशयतीति तस्य तत्-तद्-अपेक्षापि सिध्यति । अतएव पीताम्बर-
धरः स्रग्वी साक्षान् मन्मथ-मन्मथः [भ्प् 10.32.2] इत्य् आदौ
अभिव्यक्तासमोर्ध्व-सौन्दर्यस्यापि परिष्कारत्वेन वर्णितयोः स्रक्-
पीताम्बअयोर् अपि तादृशत्वं गम्यते । ईदृशान्य् एव वासांसि नित्यं गिरि-
वनेचराः [भ्प् 10.41.35] इति रजक-वाक्यं त्व् आसुर-दृष्ट्या श्री-विष्णु-पुराणे
लौकिक-दृष्ट्यापि सुवर्णाञ्जन-चूर्णाभ्यां तौ तदा भूषिताम्बरौ [विप्
5.9.5] इत्य् उत्तमागमत्वावगमात् । तथा मूले च श्यामं हिरण्य-परिधिम्
[भ्प् 10.23.22] इत्य् आदि । आस्तां तद् अपि कालिय-वरुण-गोविन्दाभिषेक-कर्तृ-
महेन्द्राद्य्-उपहृतासख्य-वस्त्रादीनां तद्-दिने चावश्यं विचित्र-
परिहितानां तेनान्यथा प्रतीयमानत्वम् एव जायते । ततः (पगे 86)
कंसाहृत-वाससां स्वीकारश् च तदीय-स्वरूप-शक्त्यैक-प्रादुर्भाव-
रूपाणां नरकाहृत-कन्यानाम् इवेति ज्ञेयम् । अथास्त्राणि यष्टि-चक्रादीनि ।
वादित्राणि वेणु-शङ्खादीनि । स्थानानि वृन्दावन-मथुरादीनि । चिह्नानि
पदाङ्कादीनि । परिवारा गोपयादवाद्याः । निर्मल्याणि गोपी-चन्दनादीनि
यथायथं तत्र तत्र ज्ञेयानि । अथोद्दीपनेषु कालाश् च तदीय-
जन्माष्टम्यादयः । तथा भक्तस्य स्व-योग्यता च तद्-उद्दीपनत्वेन
दृश्यते । यथा-
ततो रूप-गुणौदार्य- सम्पन्ना प्राह केशवम् ।
उत्तरीयान्तम् आकृष्य स्मयन्ती जात-हृच्-छया ॥ [भ्प् 10.42.9]
स्पष्टम् ।
॥ 10.42 ॥ श्री-शुकः
[156]
तथा तद्-रस-विशेषेषु श्री-भगवद्-अङ्ग-विशेषा अपि उद्दीपन-वैशिष्ट्यं
भजन्ते । यथा-
श्रियो निवासो यस्योरः पान-पात्रं मुखं दृशाम् ।
बाहवो लोक-पालानां सारङ्गाणां पदाम्बुजम् ॥ [भ्प् 1.11.27]
श्रियः प्रेयस्याः । याः सर्वेषाम् एव प्रिय-वर्गाणां दृशश् चक्षूंषि तासाम् ।
लोक-पालानां पाल्यानाम् । सारङ्गाणां सर्वेषाम् अपि भक्तानां निवास
आश्रयः । यथास्वं भावोद्दीपनत्वात् ।
॥ 1.11 ॥ श्री-सूतः
[157]
क्वचिद् विरोधिनोऽपि प्रतियोगि-मुखेन तद्-उद्दीपना भवन्ति । सूर्यादि-तापा
इव जलाभिलाषस्य । यथा-
श्रुत्वैतद् भगवान् रामो विपक्षीय-नृपोद्यमम् ।
कृष्णं चैकं गतं हर्तुं कन्यां कलह-शङ्कितः ॥
बलेन महता सार्धं भ्रातृ-स्नेह-परिप्लुतः । [भ्प् 10.53.20-21] इत्य् आदि ।
एवं वात्सल्यादौ श्री-कृष्णस्य धूलि-पङ्क-क्रीडादि-कृत-मालिन्यादयोऽपि
ज्ञेयाः । कान्त-भावादौ वृद्धादि-प्रातिकूल्यादयोऽपि यदा च ते
भयानकादि-गौण-रस-सप्तकं जनयन्ति तदापि पञ्च-विध-मुख्य-प्रीति-
रस-पोषकताम् एव प्रपद्यन्ते । यथोक्तं भक्ति-रसामृत-सिन्धौ-
अमी पञ्चैव शान्ताद्या हरेर् भक्ति-रसा मताः ।
एषु हास्यादयः प्रायो बिभ्रति व्यभिचारिताम् ॥ [ब्र्स् 4.7.14] इति ।
॥ 10.53 ॥ श्री-शुकः
[158]
तद् एवम् उद्दीपना उद्दिष्टाः । एषु च श्री-वृन्दावन-सम्बन्धिनस् तु
प्रकृष्टाः । अहो यत्र सर्वेषाम् एव परम-प्रीत्य्-एकास्पदस्य श्री-
कृष्णस्यापि परम-प्रीत्य्-आस्पदत्वं श्रूयते-वृन्दावनं गोवर्धनम् [भ्प्
10.11.16] इत्य् आदौ, श्लाघितं च स्वयम् एव अहो अमी देव-वरामरार्चितम्
[भ्प् 10.15.5] इत्य् आदिभिः ।
तथा तदीय-परम-भक्तैश् च तद् भूरि-भाग्यम् इह जन्म [भ्प् 10.14.34]
इत्य् आदिना, आसाम् अहो चरण-रेणु-जुषाम् [भ्प् 10.47.61] इत्य् आदिना, वृन्दावनं
सखि भुवो वितनोति कीर्तिं [भ्प् 10.21.10] इत्य् आदिना च । अतएव श्री-कृष्णस्यापि
तत्रस्थाः प्रकाशा लीलाश् च परम-वरीयांसः । यथा त्रैलोक्य-संमोहन-
तन्त्रे तदीय-श्रीमद्-अष्टादशाक्षर-प्रस्तावे-
सन्ति तस्य महा-भागा अवताराः सहस्रशः ।
तेषां मध्येऽवताराणां बालत्वम् अतिदुर्लभम् ॥ इति ।
बाल्यं च षोडश-वर्ष-पर्यन्तम् इति प्रसिद्धम् । तथा हरि-लीला-टीकायाम्
उदाहृता स्मृतिः-
गर्भस्थ-सदृशो ज्ञेय आष्टमाद् वत्सराच् छिशुः ।
बालश् चाषोडशाद् वर्षात् पौगण्डश् चेति प्रोच्यते ॥ इति ।
अन्यत्र च श्लाघितम्-
नन्दः किम् अकरोद् ब्रह्मन् श्रेय एवं महोदयम् ।
यशोदा च महा-भागा पपौ यस्याः स्तनं हरिः ॥ (पगे 87)
पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् ।
गायन्त्य् अद्यापि कवयो यल् लोक-शमलापहम् ॥ [भ्प् 10.8.46-47]
अतएव एकादशे सर्व-श्री-कृष्ण-चरित-कथान्ते सामान्यतः श्री-कृष्ण-
चरितस्य भक्त्य्-उद्दीपनत्वम् उक्त्वा वैशिष्ट्य-विवक्षया बाल्य-चरितस्य
पृथग्-उक्तिः --
इत्थं हरेर् भगवतो रुचिरावतार-
वीर्याणि बाल-चरितानि च शन्तमानि ।
अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो
भक्तिं परां परमहंस-गतौ लभेत ॥ [भ्प् 11.31.28] इति ।
सोऽयं च तत्-प्रकाश-लीलानाम् उत्कर्षो बहु-विधः । ऐश्वर्य-गतस् तावत्
सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्ति-ब्रह्माण्ड-कोटीश्वर-
दर्शनादौ । कारुण्य-गतश् च पूतनायाम् अपि साक्षान् मातृ-गति-दाने,
माधुर्य-गतस् तु ताव् अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ [भ्प् 10.8.22]
इत्य् आदौ, वत्सान् मुञ्चन् क्वचिद् असमये [भ्प् 10.8.29] इत्य् आदौ, गोपीभिः
स्तोभितोऽनृत्यत् [भ्प् 10.11.7] इत्य् आदौ, क्वचिद् वादयतो वेणुम् [भ्प् 10.11.39]
इत्य् आदौ, क्वचिद् विनाशाय मनो दधद् व्रजात् [भ्प् 10.21.1] इत्य् आदौ, क्वचिद्
गायति गायत्सु [भ्प् 10.15.10] इत्य् आदौ, तं गो-रजश् छुरित-कुन्तल-बद्ध-
बर्ह- [भ्प् 10.15.42] इत्य् आदौ, कृष्णस्य नृत्यतः केचिद् [भ्प् 10.18.10] इत्य् आदौ,
धेनवो मन्द-गामिन्यः [भ्प् 10.20.26] इत्य् आदौ, अक्षण्वतां फलम् [भ्प्
10.21.7] इत्य् आदौ, श्यामं हिरण्य-परिधिम् [भ्प् 10.23.22] इत्य् आदौ, भगवान्
अपि ता रात्रीः [भ्प् 10.29.1] इत्य् आदौ, वाम-बाहु-कृत-वाम-कपोलः [भ्प्
10.35.2] इत्य् आदौ च । किं बहुना सर्वत्रैव सहृदयैः सर्व एवावगन्तव्यः ।
अथ अनुभावास् तु चित्त-स्थ-भावानाम् अवबोधकाः । [ब्र्स् 2.2.1] । ते
द्विविधाः - उद्भास्वराख्याः सात्त्विकाख्याश् च । तत्र भावजा अपि बहिश्-
चेष्टा-प्राय-साध्या उद्भास्वराः । ते चोक्ताः -
नृत्यं विलुठितं गीतं क्रोशनं तनु-मोटनम् ।
हुङ्कारो जृम्भणं श्वास-भूमा लोकानपेक्षिता ।
लाला-स्रवोऽट्टहासश् च घूर्णा-हिक्कादयोऽपि च ॥ [ब्र्स् 2.2.2] इति ।
अथ सात्त्विकाः अन्तर्-विकारैक-जन्याः । यत्रान्तर्-विकारोऽपि तद्-अंश इति
भावत्वम् अपि तेषां मन्यन्ते । तत्र-
ते स्तम्भ-स्वेद-रोमाञ्चाः स्वर-भेदोऽथ वेपथुः ।
वैवर्ण्यम् अश्रु प्रलय इत्य् अष्टौ सात्त्विकाः स्मृताः ॥[ब्र्स् 2.3.16]
एषु प्रलयो नष्ट-चेष्टता । भगवत्-प्रीति-हेतुक-प्रलये च बहिश्-चेष्टा-
नाशः । नअ त्व् अन्तर्-भगवत्-स्फूर्त्य्-आदेर् अपि । यथोक्तं श्रीमद्-उद्धवम्
उद्दिश्य-
स मुहूर्तम् अभूत् तूष्णीं कृष्णाङ्घ्रि-सुधया भृशम् ।
तीव्रेण भक्ति-योगेन निमग्नः साधु निर्वृतः ॥ [भ्प् 3.2.4] इत्य् आदिना ।
शनकैर् भगवल्-लोकान् नृलोकं पुनर् आगतः ॥ [भ्प् 3.2.6] इत्य् अन्तेन ।
यथा गारुडे-
जाग्रत्-स्वप्न-सुसुप्तेषु योग-स्थस्य च योगिनः ।
या काचिन् मनसो वृत्तिः सा भवेद् अच्युताश्रयः ॥ इति ।
अतएव तदानीं तत्-तद्-रसानाम् आस्वाद-भेद-स्फूर्तिर् अप्य् अवगन्तव्या ।
अथ सञ्चारिणः । ये व्यभिचारिणश् च भण्यन्ते । सञ्चारयन्ति भावस्य गतिं
[ब्र्स् 2.4.2] इति (पगे 88) विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति [ब्र्स्
2.4.1] इति च निरुक्तेः । ते च त्रयस्त्रिंशत् -
निर्वेदोऽथ विषादो दैन्यं ग्लानि-श्रमौ च मद-गर्वौ ।
शङ्का-त्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥
मोहो मृतिर् आलस्यं जाड्यं व्रीडावहित्था च ।
स्मृतिर् अथ वितर्क-चिन्ता-मति-धृतयो हर्ष उत्सुकत्वं च ॥
औग्र्यम् अर्षासूयाश् चापल्यं चैव निद्रा च ।
सुप्तिर् बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥ [ब्र्स् 2.4.4-6]
एषां लक्षणम् उज्ज्वले दर्शनीयम् । एषु त्रासः कृष्ण-वत्सलादिषु
भयानकादि-दर्शनात् । तद्-अर्थं तत्-सङ्गति-हानि-तर्केणात्मार्थं च
भवति । निद्रा तच्-चिन्तया शून्य-चित्तत्वेन तत्-सङ्गत्य्-आनन्द-व्याप्त्या च
भवति । श्रमः परमानन्द-मय-तद्-अर्थायास-तादात्म्यापत्तौ भवति ।
आलस्यं तादृश-श्रम-हेतुकं कृष्णेतर-सम्बन्धि-क्रिया-विषयकं भवति ।
बोधश् च तद्-दर्शनादि-वासनायाः स्वयम् उद्बोधेन भवतीत्य् आदिकं
ज्ञेयम् । किं च निर्वेदादीनां चामीषां लौकिक-गुण-मय-
भावायमानानाम् अपि वस्तुतो गुणातीतत्वम् एव तादृश-भगवत्-प्रीत्य्-
अधिष्ठानत्वात् । अथैतत्-संवलनात्मको भगवत्-प्रीतिमयो रसोऽपि व्यञ्जित
एव-
स्मरन्तः स्मारयन्तश् च मिथो ऽघौघ-हरं हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥
क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद्
धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः ।
नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं
भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ [भ्प् 11.3.31-32] इत्य् अनेन ।
अत्र हरिर् आलम्बनो विभावः । स्मरणम् उद्दीपनः । स्मारणादिक
उद्भास्वराख्योऽनुभावः । पुलकः सात्त्विकः । चिन्तादयः सञ्चारिणः ।
संजातया भक्त्येति स्थायी । भवन्ति तूष्णीं परम् एत्य निर्वृता इति तत्-
संवलनम् । परं परम-रसात्मकं वस्त्व् इत्य् अर्थः । एष च भगवत्-
प्रीति-मय-रसः पञ्चधा प्रीतेर् भेद-पञ्चकेन । ते च ज्ञान-भक्ति-मय-
भक्ति-मय-वत्सल-मैत्री-मयोज्ज्वलाख्याः क्रमेण ज्ञेयाः ।
एतेषां च स्थायिनां भावान्तराश्रयत्वात् नियताधारत्वाच् च मुख्यत्वम् ।
तत्-प्रीति-सम्बन्धेनैव भागवत-रसान्तः-पातात् पञ्च-विधेषु प्रियेषु
कादाचित्कोद्भवत्वेनानियताधारत्वाच् च गौणता । ततस् तदीय-रसानाम् अपि
गौणता । तत्र मुख्याः मधुरेण समापयेत् इति न्यायेन गौण-रसानां
रसाभासानाम् अप्य् उपरि विवरणीयाः ।
गौणाः सम्प्रति विव्रियन्ते । येषु विस्मयादयो विभाव-वैशिष्ट्य-वशेन
स्वयं तत्-प्रीत्य्-उत्था अपि तत्-प्रीतिम् आत्म-सात्कृत्य वर्धमानाः स्थायितां
प्रपद्यन्ते । ते च-
अद्भुतो हास्य-वीरौ च रौद्रो भीषण इत्य् अपि ।
बीभत्सः करुणश् चेति गौणाः सप्त रसाः स्मृताः ॥
तत्र तत्-प्रीतिमयोऽयम् अद्भुतो रसः । यत्रालम्बनो लोकोत्तराकस्मिक-
क्रियादिमत्त्वेन विस्मय-विषयः श्री-कृष्णः । तद्-आधारस् तत्-प्रियश् च ।
उद्दीपनास् तादृश-तच्-चेष्टाः । (पगे 89) अनुभावाः नेत्र-विस्ताराद्याः ।
व्यभिचारिणश् चावेग-हर्षजाद्य्-आद्याः । स्थायी तत्-प्रीतिमयो विस्मयः । तद्-
उदाहरणं च-
चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् ।
गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ [भ्प् 10.69.2] इत्य् आदिकं
ज्ञेयम् ।
अथ तन्-मयो हास्यो रसः । तत्रालम्बनश् चेष्टा-वाग्-वेष-वैकृत्य-
विशेषवत्त्वेन तत्-प्रीति-मय-हास-विषयः श्री-कृष्णः । तद्-आधारस् तत्-
प्रियश् च । तथा यदि तद्-विशेषवत्त्वेनैव तत्-प्रियाप्रियौ च तत्-प्रीतिमय-
हास-विषयौ भवतस् तदापि तत्-कारणस्य प्रीतेर् विषयः श्री-कृष्ण इति स एव
मूलम् आलम्बनम् । हास्यस्यापि तद्-विशिष्टत्वेनैव प्रवृत्तेस् तु सुतराम् एव ।
अतः केवलस्य हासांशस्य विषयत्वेन विकृत-तत्-प्रियाप्रियौ बहिरङ्गाव्
एवावलम्बनाव् इति । एवं दान-युद्ध-वीर-रसादिष्व् अपि ज्ञेयम् । उद्दीपनास्
तु तज्-जनकस्य चेष्टावाग्-वेष-वैकृतादयः । अनुभावाश् च नासौष्ठ-
गण्डकि-स्पन्दनादयः । व्यभिचारिणो हर्षालस्यावहित्थादयः । स्थायी च
तत्-प्रीतिमयो हासः । स च स्व-विषयानुमोदनात्मकस् तद्-उत्प्रासात्मको वा
चेतो-विकाशः । ततस् तद्-आत्मकत्वेन विषयोऽप्य् अस्यास्ति ।
तस्योदाहरणेऽनुमोदनात्मको यथा -- वत्सान् मुञ्चन् क्वचिद् असमये
क्रोश-सञ्जात-हासः [भ्प् 10.8.29] इत्य् आदि, हस्ताग्राह्ये रचयति विधिं [भ्प्
10.8.30] इति, एवं धार्ष्ट्यान्य् उशति कुरुते [भ्प् 10.8.31] इत्य् आदि इत्थं स्त्रीभिः
सभन-नयन-श्री-मुखालोकिनीभिर् व्याख्यातार्था प्रहसितमुखी न ह्य्
उपालब्धुम् ऐच्छत् इत्य् अन्तम् । व्याख्यातस् तदीय-चापल्य-लक्षणोऽर्थो यस्यै
सा ।
॥ 10.8 ॥ श्री-शुकः
[159]
उत्प्रासात्मको यथा-
तासां वासांस्य् उपादाय नीपम् आरुह्य सत्वरः ।
हसद्भिः प्रहसन् बालैः परिहासम् उवाच ह ॥ [भ्प् 10.22.9]
स्पष्टम् ।
॥ 10.22 ॥ श्री-शुकः
[160]
यथा च-
कत्थनं तद् उपाकर्ण्य पौण्ड्रकस्याल्प-मेधसः ।
उग्रसेनादयः सभ्या उच्चकैर् जहसुस् तदा ॥ [भ्प् 10.66.7]
स्पष्टम् ।
॥ 10.66 ॥ श्री-शुकः
[161]
अथ तत्-प्रीति-मयो वीर-रसः । तत्र वीर-रसश् चतुर्धा धर्म-दया-दान-
युद्धात्मकत्वेनोत्साहस्य स्थायिनश् चातुर्विध्यात् । तत्र धर्म-वीर-रसः ।
तत्रालम्बनो धर्म-चिकीर्षातिशय-लक्षणस्य धर्मोत्साहस्य विषयाभावात्
प्रीतिमयत्वेनैव लब्धो विषयः श्री-कृष्णः । तद्-आधारस् तद्-भक्तश् च ।
उद्दीपनाः सच्-छास्त्र-श्रवणादयः । अनुभावा विनय-श्रद्धादयः ।
व्यभिचारिणो मति-स्मृत्य्-आदयः । स्थायी तत्-प्रीतिमयो धर्मोत्साहः । तद्-
उदाहरणं च-
क्रतु-राजेन गोविन्द राजसूयेन पावनीः ।
यक्ष्ये विभूतीर् भवतस् तत् सम्पादय नः प्रभो ॥ [भ्प् 10.72.3] इत्य्
आदिकम् ।
अथ तन्-मयो दया-वीर-रसः । अत्रालम्बनस् तत्-प्रीति-जातया तदीयतावगत-
सर्व-भूत-विषयक-दययात्म-व्ययेनापि सन्तर्प्यमाण-दीन-वेषाच्
छन्न-निज-रूपः श्री-कृष्णः । तादृश-दयाधारो भक्तः । पित्रादीनां
तादृशी दया तु वत्सलादिकम् एव पुष्णाति करुणं वा । उद्दीपनास् तद्-आर्ति-
व्यञ्जनादयः । अनुभावा आश्वासनोक्त्य्-आदयः । व्यभि-(पगे 90)-चारिणः
औत्सुख्य-मति-हर्षादयः । स्थायी तत्-प्रीति-मयो दयोत्साहः । उदाहरणं
च-
कृच्छ्र-प्राप्त-कुटुम्बस्य क्षुत्-तृड्भ्यां जात-वेपथोः ।
अतिथिर् ब्राह्मणः काले भोक्तु-कामस्य चागमत् ॥
तस्मै संव्यभजत् सो ऽन्नम् आदृत्य श्रद्धयान्वितः ।
हरिं सर्वत्र सम्पश्यन् [भ्प् 9.21.5-6] इत्य् आरभ्य,
एवं (इति) प्रभाष्य पानीयं म्रियमाणः पिपासया
पुल्कसायाददाद् धीरो निसर्ग-करुणो नृपः ।
तस्य त्रिभुवनाधीशाः फलदाः फलम् इच्छताम्
आत्मानं दर्शयां चक्रुर् माया विष्णु-विनिर्मिताः ॥ [भ्प् 9.21.15] इत्य् अन्तम् ।
स्पष्टम् ।
॥ 9.21 ॥ श्री-शुकः
[162]
अथो तन्-मयो दान-वीर-रसः । द्विधा चायं सम्पद्यते । बहु-प्रदत्वेन
समुपस्थित-दुरापार्थ-त्यागेन च । तत्र प्रथमस्यालम्बनम् अन्य-
सम्प्रदानके च दाने दान-द्रव्येण तत्-तृप्तेर् एव मुख्योद्देशेन तद्-
उद्देशे पर्यवसानात् । तत्-सम्प्रदानके तु स्पष्ट-तद्-उद्देशाद् दित्सातिशय-
लक्षणस्य दानोत्साहस्य विषयः श्री-कृष्णस् तद्-आधारस् तत्-प्रियश् च । अन्यः
सम्प्रदान-वीर-रसस् तु बहिरङ्गः । उद्दीपनाः सम्प्रदान-वीक्षाद्याः ।
अनुभावा वाञ्छाधिक-दान-स्मिताद्याः । व्यभिचारिणो वितर्कौत्सुक्य-
हर्षाद्याः । स्थायी तत्-प्रीतिमयो दानोत्साहः । उदाहरणं च -- नन्दस् त्व्
आत्मज उत्पन्ने जाताह्लादो महामनाः [भ्प् 10.5.1] इत्य् आदि । स्पष्टम् ।
॥ 10.5 ॥ श्री-शुकः
तथा,
एवं शप्तः स्व-गुरुणा सत्यान् न चलितो महान् ।
वामनाय ददाव् एनाम् अर्चित्वोदक-पूर्वकम् ॥ [भ्प् 8.20.16]
एतां पृथ्वीम् ।
॥ 8.20 ॥ श्री-शुकः
[164]
अथ द्वितीयस्यालम्बनः । उपस्थित-दुरापार्थ-त्यागेच्छातिशय-लक्षणस्य
तद्-उत्साहस्य धर्मोत्साहवद् एव विषयः श्री-कृष्णस् तद्-आधारस् तद्-
भक्तश् च । उद्दीपनाः कृष्णालाप-स्मितादयः । अनुभावास् तद्-उत्कर्ष-
वर्णन-द्रढिमादयः । सञ्चारिणो धृति-प्रचुराः । स्थायी तत्-प्रीति-मयस्
त्यागोत्साहः । तद्-उदाहरणम्-सालोक्य-सार्ष्टि-सारूप्य- [भ्प् 3.29.13] इत्य्
आदिकम् एव ।
अथ तन्-मयो युद्ध-वीर-रसः । तत्र योद्धा तत्-प्रियतमः । तस्यैव तत्-
प्रीति-मय-युद्धोत्साहात् । प्रतियोद्धा तु क्रीडा-युद्धे श्री-कृष्णो वा तत्-
पुरस् तस्यैव मित्र-विशेषो वा । साक्षाद् युद्धे पुनस् तत्-प्रतिपक्षः । तत्र
श्री-कृष्ण-प्रतियोद्धृकत्वे तत्-प्रीतिमय-युयुत्सातिशय-लक्षण-तद्-उत्साह-
विषयतया तस्यैवालम्बनत्वं सर्वथा सिद्धम् । इतर-प्रतियोद्धृकत्वेऽपि
हास्य-रसवत् तत्-प्रीतिमयत्वेन मूलम् आलम्बनत्वं तस्यैव । तत्-
प्रतिपक्षस् तु युयुत्सांश-मात्रस्य बहिरङ्ग आलम्बनः । तत्र योद्धृ-
प्रतियोद्धारौ मित्र-विशेषावाधारत्व-विषयत्वाभ्याम् आलम्बनाव् इति ।
उद्दीपनाः प्रतियोद्धृक-स्मितादयः । अनुभावाः योद्धृक-स्मितादयः ।
व्यभिचारिणो गर्वावेगादयः । स्थायी तत्-प्रीति-मयो योद्धोत्साहः ।
उदाहरणं च त्रिविध-प्रतियोद्धृ-क्रमेण-
भ्रामणैर् लङ्घनैः क्षेपैर् आस्फोटन-विकर्षणैः ।
चिक्रीडतुर् नियुद्धेन काक-पक्ष-धरौ क्वचित् ॥ [भ्प् 10.18.12]
काक-पक्षश् चूडा-करणात् प्राक्तनाः केशाः । तद्-धारिणौ राम-कृष्णौ ।
नियुद्धेन बाहु-युद्धेन तद्-भेदैर् भ्रामणादिभिः । एवम् एव हरि-
वंशे-
तथा गाण्डीव-धन्वानं (पगे 91) विक्रीडन् मधुसूदनः ।
जिगाय भरत-श्रेष्ठं कुन्त्याः प्रमुखतो विभुः ॥ इति ।
॥ 10.18 ॥ श्री-शुकः
[165]
तथा-
राम-कृष्णादयो गोपा ननृतुर् युयुधुर् जगुः ॥ [भ्प् 10.18.12]
अत्र तद्-अग्रे परेऽपि गोपास् तं सन्तोषयन्तो युयुधुर् इत्य् आगतम् ।
॥ 10.18 ॥ श्री-शुकः
[166]
तथा जरासन्ध-वधे-
सञ्चिन्त्यारि-वधोपायं भीमस्यामोघ-दर्शनः ।
दर्शयाम् आस विटपं पाटयन्न् इव संज्ञया ॥
तद् विज्ञाय महा-सत्त्वो भीमः प्रहरतां वरः ।
गृहीत्वा पादयोः शत्रुं पातयाम् आस भू-तले ॥ [भ्प् 10.72.41-42]
स्पष्टम् ।
॥ 10.72 ॥ श्री-शुकः
[167]
अथ तत्-प्रीतिमयो रौद्र-रसः । तत्रालम्बनस् तत्-प्रीति-मय-क्रोधस्य
विषयः श्री-कृष्णस् तद्-आधारस् तत्-प्रिय-जनश् च । तस्य विषयश् चेत् तद्-धितस्
तद्-अहितः स्वाहितो वा भवति तद्-आदि पूर्ववत् तत्-प्रीतेर् विषयत्वेन तस्यैव
मूलम् आलम्बनत्वम् । अन्ये तु क्रोधांश-मात्रस्य बहिरङ्गालम्बनाः ।
तत्र प्रमादादिना श्री-कृष्णात् सख्या अत्याहिते सख्याः क्रोध-विषयः श्री-
कृष्णः । तेन बध्वादीनाम् अवगते सङ्गमे वृद्धादीनां च स एव । अथ
तद्-धितश् च प्रमादेन तद्-अनवेक्षणाद् अन्यस्य क्रोध-विषयः स्यात् । तद्-
अहितो दैत्यादिः । स्वाहितस् तु स्वस्य तत्-सम्बन्ध-बाधकः ।
अथोद्दीपनाः क्रोध-विषयस्यावज्ञादयः । अनुभावाः हस्त-निष्पेषादयः ।
व्यभिचारिण आवेगादयः । स्थायी तत्-प्रीतिमयः क्रोधः । वृद्धायास् तत्-
प्रीतिमयः क्रोधः । वृद्धयास् तत्-प्रीतिमयत्वं व्रज-जनत्वात् तदापि
स्वाभाविक्याः प्रीतेर् अन्तर्भाव-मात्रेण अन्वेषां तद्-विकारत्वेन । तच् च
तस्यैव मङ्गल-कामना-प्रायतया । तत्र पूर्वेषां त्रयाणाम् उदाहरणम्
अन्यत्रान्वेष्यम् । उत्तरयोर् द्वयोस् तु यथा-
ततः पाण्डु-सुताः क्रुद्धा मत्स्य-कैकय-सृञ्जयाः ।
उदायुधाः समुत्तस्थुः शिशुपाल-जिघांसवः ॥ [भ्प् 10.74.41]
स्पष्टम् ।
॥ 10.74 ॥ श्री-शुकः
[168]
तथा-
मैतद्-विधस्याकरुणस्य नाम भूद्;
अक्रूर इत्य् एतद् अतीव दारुणः ।
यो ऽसाव् अनाश्वास्य सु-दुःखितं जनं
प्रियात् प्रियं नेष्यति पारम् अध्वनः ॥ [भ्प् 10.39.26]
स्पष्टम् ।
॥ 10.39 ॥ श्री-गोप्यः
[169]
अथ तत्-प्रीतिमयो भयानक-रसः । तत्रालम्बनश् चिकीर्षित-तत्-पीडनाद्
दारुणात् यत् तदीय-प्रीति-मयं भयं तस्य विषयश् श्री-कृष्णः । तद्-
आधारस् तत्-प्रिय-जनश् च । किं च स्वस्य तद्-विच्छेदं कुर्वाणाद् यत् तादृशं
भयं यच् च स्वापराध-कदर्थितान् श्री-कृष्णाद् एव वा स्यात् तस्य तस्य स्व-
विषयकत्वेऽपि पूर्ववत् प्रीइतेर् विषयत्वात् श्री-कृष्ण एव मूलालम्बनः ।
भय-हेतुस् तूद्दीपन एव भवेत् । विभाव्यते हिस् रत्यादिर् यत्र [भ्प् 2.1.10]
इति सप्तम्य्-अर्थत्वस्य पूर्वत्रैव व्याप्तेः । येनेति तृतीयार्थस्य तूत्तरत्रैव
व्याप्तेश् च । स्व-विषयत्वे तु य एव विषयः स एवाधार इति भयांश-मात्र-
विषयत्वेन पूर्ववद् बहिरङ्ग एवालम्बनोऽसौ । तद्-आधारत्वेन त्व्
अन्तरङ्गोऽपि ।
अथोद्दीपनाः भीषण-भ्रू-कुट्याद्याः । अनुभावा मुख-शोषाद्याः ।
व्यभिचारिणश् चापल्याद्याः । स्थायी तत्-प्रीतिमयं भयम् । तद्-उदाहरणं
च- (पगे 92)
जन्म ते मय्य् असौ पापो मा विद्यान् मधुसूदन ।
समुद्विजे भवद्-धेतोः कंसाद् अहम् अधीर-धीः ॥ [भ्प् 10.3.29]
अत्र विषयत्वेनैव हेतुत्वं न तु कारकान्तरत्वेन ।
॥ 10.3 ॥ श्री-देवकी श्री-भगवन्तम्
[170]
तथा शङ्खचूड-दौरात्म्ये-
क्रोशन्तं कृष्ण रामेति विलोक्य स्व-परिग्रहम् ॥ [भ्प् 10.34.27] इति ।
स्पष्टम् ।
॥ 10.34 ॥ श्री-शुकः
[171]
अतः (अथ) क्षमस्वाच्युत मे रजो-भुवो
ह्य् अजानतस् त्वत्-पृथगीश-मानिनः ।
अजावलेपान्धतमोऽन्धचक्षुष
एषोऽनुकम्प्यो मयि नाथवान् इति ॥ [भ्प् 10.14.10]
स्पष्टम् ।
॥ 10.14 ॥ ब्रह्मा श्री-भगवन्तम्
[172]
अथ तन्-मयो बीभत्स-रसः । अत्रापि अन्य-जुगुप्सायास् तत्-प्रीतिमयत्वेन
पूर्ववत् तत्-प्रीति-विषयत्वाच् छ्री-कृष्ण एव मूलालम्बनः । तद्-आधारस् तत्-
प्रिय-जनश् च । जुगुप्सा-मात्रांशस्य विषयोऽन्यस् तु बहिरङ्गालम्बनः ।
उद्दीपना अन्य-गतामेध्यतादयः । अनुभावाः निष्ठीवनादयः ।
व्यभिचारिणो विषादादयः । स्थायी च तत्-प्रीति-मयी जुगुप्सा । उदाहरणं
च त्वक्-श्मश्रू-रोम-नख-केश-पिनद्धम् [भ्प् 10.60.45] इत्य् आदिकम् । श्री-
रुक्मिणी-वाक्यम् एव ।
अथ तन्-प्रीति-मयः करुण-रसः । तत्रालम्बनः केवल-बन्धु-भाव-
मय-प्रेम्णानिष्ठाप्तिपदतावेद्यत्वेन तत्-प्रीतिमय-करुणा-विषयः श्री-
कृष्णस् तद्-आधारस् तत्-प्रियश् च । उद्दीपनास् तत्-कर्म-गुण-रूपाद्याः ।
अनुभावा मुख-शोष-विलापाद्याः । व्यभिचारिणो जाड्य-निर्वेदादयः ।
स्थायी च तत्-प्रीति-मयः शोकः । उदाहरणं च-
अन्तर् ह्रदे भुजगभोगपरीतम् आरात्
कृष्णं निरीहम् उपलभ्य जलाशयान्ते ।
गोपांश् च मूढधिषणान् परितः पशूंश् च
सङ्क्रन्दतः परमकश्मलम् आपुर् आर्ताः ॥ [भ्प् 10.16.19]
स्पष्टम् ।
॥ 10.16 ॥ श्री-शुकः
[173]
अथ कृष्ण-प्रीतिमतो जनस्य च यद्य् अन्योऽपि तत्-कृपा-हीनो जनः शोचनीयो
भवति तदा तत्रापि तन्-मय एव करुणः स्यात् । यथा-
न ते विदुः स्वार्थ-गतिं हि विष्णुं
दुराशया ये बहिर्-अर्थ-मानिनः ।
अन्धा यथान्धैर् उपनीयमानास्
ते ऽपीश-तन्त्र्याम् उरु-दाम्नि बद्धाः ॥ [भ्प् 7.5.31]
स्पष्टम् ।
॥ 7.5 ॥ श्री-प्रह्लादो गुरु-पुत्रम्
[174]
किं च, त एव विस्मयादयो यदि श्री-कृष्णाधारा भवन्ति त एव तत्-प्रीति-
मय-चित्तेषु सञ्चरन्ति, तदापि तत्-प्रीति-मयाद्भुत-रसादयो भवन्ति ।
यथा - अहो अमी देव-वरामरार्चितम् [भ्प् 1.15.5] इत्य् आदिषु अजात-प्रीतीनां
तु तत्-सम्बन्धेन ये विस्मयादयो भावास् तदीय-रमाश् च दृश्यन्ते तेऽत्र
तद्-अनुकारिण एव ज्ञेयाः ।
अथ रसानाम् आभास-तापत्यादि-ज्ञानायाश्रय-नियमः परस्परं
व्यवहारोऽप्य् उद्दिश्यते । तत्र आश्रय-नियमः श्री-कृष्ण-सम्बन्धानुरूप
एव । यथा पित्रादिषु प्राकृतस्य वात्सल्यस्याश्रयत्वं नियतम् । तथा
मुख्यानां पञ्चानां मिथो व्यवहारस् तद्-आश्रयाणां जनानाम् इव स च
कुलीन-लोकत एवावगन्तव्यः । ततो येषां यैर् मिलित्वा नर्म-विहारादौ
यथा सङ्कोचार्हता । तदीयानां रसानां तदीयै रसैर् अपि मिलने तथा तद्-
अर्हता । यथा न, तथा (पगे 94) न यथोल्लासस् तथोल्लास इति । यथा तत्-
प्रेयस्यादीनां तद्-वत्सलादिभिस् तद्-आदिकम् ।
अथ गुणानां सप्तानाम् अपि रसानां तेषु मुख्येषु पञ्चसु प्रतीपत्वम्
उदासीनत्वम् अनुगामित्वं च यथायुक्तम् अवगन्तव्यम् । यथा हास्यस्य
वियोगात्मकेषु भक्तिमयादिषु चतुर्षु प्रतीपत्वम् । शान्त उदासीनत्वं,
अन्यत्रानुगामित्वम् इत्य् आदि ।
अथ गौणानां गौणैर् अपि वैर-माध्यस्थ-मैत्राणि ज्ञेयानि । यथा
हास्यस्य करुण-भयानकौ वैरिणौ । वीरादयो मध्यस्थाः । अद्भुतो
मित्रम् इत्य् आदि । एवं तेषु द्वादशस्व् अपि स्थायिनां सञ्चारिणाम्
अनुभावानां विभावानां विषयान्तर-गत-भावादीनाम् अपि
प्रतीपत्वौदासीन्यानुगामित्वानि विवेचनीयानि । तद् एवं स्थिते श्री-कृष्ण-
सम्बन्धिषु जनेषु काव्येषु च रसस्यायोग्य-रसान्तरादि-सङ्गत्या
बाध्यमानास्वाद्यत्वम् आभासत्वम् । यत्र तु तत्-सङ्गतिर् भङ्गि-विशेषेण
योग्यस्य स्थायिन उत्कर्षाय भवति तत्र रसोल्लास एव । केनाप्य्
अयोग्यस्योत्कर्षे तु रसाभासस्यैवोल्लास इति ।
अथ तत्र मुख्यस्य मुख्य-सङ्गत्य्-आभासित्वं, यथा-
स वै किलायं पुरुषः पुरातनो
य एक आसीद् अविशेष आत्मनि । [भ्प् 1.10.21] इति ।
नूनं व्रत-स्नान-हुतादिनेश्वरः
समर्चितो ह्य् अस्य गृहीत-पाणिभिः ।
पिबन्ति याः सख्य् अधरामृतं मुहुर्
व्रज-स्त्रियः सम्मुमुहुर् यद्-आशयाः ॥ [भ्प् 1.10.28] इत्य् आद्य्-अन्तम् ।
ज्ञान-विवेकादि-प्रकाशेनात्र हि शान्त एवोपक्रान्तः । उपसंहृतश् चोज्ज्वलः ।
तेन चास्य वस्तलेनैव मिलने सङ्कोच एवेति परस्परम् अयोग्य-
सङ्गत्याभास्यते । अत्र समाधीयते चान्यैः । स वै किल इत्य् आदिकम् अन्यासां
वाक्यम् । नूनम् इत्य् आदिकं त्व् अन्यासाम् । एवंविधा वदन्तीनाम् [भ्प् 1.10.31]
इत्य् आदि श्री-सूत-वाक्यं च सर्वानन्दन-परम् एवेति ।
॥ 1.10 ॥ कौरवेन्द्र-पुर-स्त्रियः
[175]
तथा-
अथाभजे त्वाखिल-पूरुषोत्तमं
गुणालयं पद्म-करेव लालसः ।
अप्य् आवयोर् एक-पति-स्पृधोः कलिर्
न स्यात् कृत-त्वच्-चरणैक-तानयोः ॥
जगज्-जनन्यां जगद्-ईश वैशसं
स्याद् एव यत्-कर्मणि नः समीहितम्
करोषि फल्ग्व् अप्य् उरु दीन-वत्सलः
स्व एव धिष्ण्ये ऽभिरतस्य किं तया ॥ [भ्प् 4.20.27-28] इत्य् आदि ।
अत्र दास-भावाख्य-भक्ति-मयस्य प्रकृतत्वेन योग्यस्य तद्-अयोग्योज्ज्वल-
सङ्गत्याभासितत्वम् । तत्र दास-भावस् तत्-प्रकरण-सिद्ध एव । उज्ज्वल-
सङ्गतिश् च पद्म-करेव लालस इत्य् आदिनावगम्यते । अत्र समाधानं च ।
न खल्व् अस्य तद्वत् कान्त-भाव-वासना जाता किन्तु भक्ति-वासनैव ।
दृष्टान्तस् तत्र तस्या भक्त्य्-अंश एव । तया स्पर्धा तु तत्-परम-
कृपोन्नद्धत्वेन वीराख्य-दासतां प्राप्तस्य नायोग्येति । अन्ये त्व् एवं
मन्यन्ते । तत् खलु तदीय-दीन-विषयक-कृपा-सूचक-स्व-प्रेम-वचन-
विनोद-मात्रं, न तु लक्ष्मी-स्पर्धावहम् । करोषि फल्ग्व् अप्य् उरु दीन-
वत्सलः [भ्प् 4.20.28] इति स्वस्मिंस् तुच्छत्व-मननात् । एवं श्री-त्रिविक्रमेण
बलि-शिरसि चरणेऽर्पिते नेमं विरिञ्चो लभते प्रसादम् [भ्प् 8.23.6] इति श्री-
प्रह्लाद-वाक्यम् अपि दृष्टम् । श्री-नृसिंह-कृपायां स्वानुकम्पायाम् अपि -
क्वाहं रजः-प्रभव ईश तमो ऽधिके ऽस्मिन्
जातः सुरेतर-कुले क्व तवानुकम्पा ।
न ब्रह्मणो न तु भवस्य न वै रमाया
यन् मे ऽर्पितः शिरसि पद्म-करः प्रसादः ॥ [भ्प् 7.9.26]
अत्र ब्रह्मादेर् अधुना विद्यमानस्यापि ममैव शिरसीत्य् अर्थः । अत
उभयत्रापि तत्-तद्-अवतार-समयापेक्षयैव तादृश-प्रसादाभावो विवक्षित
इति ज्ञेयम् ।
॥ 4.20 ॥ पृथुः श्री-विष्णुम्
(पगे 94)
[176]
तथा श्री-वसुदेवादीनाम् अपि पित्रादित्वेन वात्सल्यस्य तद्-अयोग्य-भक्ति-
मय-सङ्गत्य्-आभासितत्वं तत्र तत्र दृश्यते । तत्र समाधानं चाग्रे । अथ
बलदेवादाव् इत्य् आदौ चिन्त्यम् । मनसो वृत्तयो नःय् स्युः [भ्प् 10.47.66] इत्य्
आदिकानि श्री-व्रजेश्वरादि-वाक्यानि तु न तादृशानि । अभिप्राय-विशेषेण
वत्सल-रसस्यैव पुष्टतया स्थापयिष्यमाणत्वात् । तथा-
किम् अस्माभिर् अनिर्वृत्तं देव-देव जगद्-गुरो ।
भवता सत्य-कामेन येषां वासो गुरोर् अभूत् ॥ [भ्प् 10.80.44] इत्य् आदि ।
अथ सख्यमयस्यैश्वर्य-ज्ञान-संवलित-भक्ति-मय-
सङ्गमेनाभासीकृतिः । अस्य श्रीदाम-विप्रस्य सख्यं हि कृष्णस्यासीत् सखा
कश्चित् [भ्प् 10.80.6] इत्य् आदिना, कथयञ्चक्रतुः [भ्प् 10.80.27] इत्य् आदौ, करौ
गृह्य परस्परम् इत्य् अनेन च प्रकृतं दृश्यते इति । अत्र च समाधानं श्री-
बलदेवादिवद् एव चिन्त्यम् ।
॥ 10.80 ॥ श्री-शुकः
[177]
तथा --
त्वं न्यस्त-दण्ड-मुनिभिर् गदितानुभाव
आत्मात्म-दश् च जगताम् इति मे वृतो ऽसि ॥ [भ्प् 10.60.39] इति ।
आत्मा परमात्मा । आत्मदो मोक्षेषु तत्-तद्-आत्माविर्भाव-प्रकाशकः । अत्र
कान्तात्वेन योग्य उज्ज्वल आत्मादि-शब्द-व्यञ्जित-तद्-अयोग्य-शान्त-
सङ्गमेनाभास्यते । अत्र समाधीयते च । अस्याः स्वीयात्वेन कान्त-भावे
दासीत्वाभिमानमयी भक्तिर् अपि युज्यत एव पतिव्रता-शिरोमणित्वात् ।
यथोक्तं तद्-आद्या एवोद्दिश्य-दासी-शता अपि विभोर् विदधुः स्म दास्यम्
[भ्प् 10.59.4] इति । श्री-रुक्मिण्यास् तु लक्ष्मी-रूपत्वेनैश्वर्य-स्वरूप-ज्ञान-
मिश्र-तादृश-भक्ति-मिश्र-कान्त-भावत्वाद् अत्र तादृश-भक्ति-मात्र-
पोषाय तादृग् अप्य् उक्तं युक्तम् इति ।
॥ 10.60 ॥ श्री-रुक्मिणी
[178]
अथ तन्-माधुर्य-मात्रानुभवमय-केवल-कान्त-भावानाम् अपि श्री-
व्रज-देवीनां न खलु गोपिकानन्दनो भवान् [भ्प् 10.31.4] इत्य् आदिषु या
शान्तादि-सङ्गतिर् दृश्यते, सा तु पुरतः सोपालम्भादि-श्लेष-वाग् भङ्गि-
मयत्वेन व्याख्यास्यमानत्वात् । प्रत्युत रसोल्लासायैव स्यात् । तथा
बद्धान्यथा स्रजा काचित् [भ्प् 10.30.23] इत्य् आदौ वात्सल्य-सङ्गतिः सङ्गत्य्-
अन्तरेण व्याख्यास्यते । तथा प्रकृतोज्ज्वले रसे रास-वर्णने दुःसह-
प्रेष्ठ-विरहः [भ्प् 10.29.10] इत्य् आदिकं श्री-मुनीन्द्र-वचनं, तथा तद्-
अनन्तरं, कृष्णं विदुः परं कान्तम् [भ्प् 10.29.12] इत्य् आदिके राज-
मुनीश्वर-प्रश्नोत्तरे च मोक्ष-प्रस्ताव-व्यञ्जित-शान्त-रस-सङ्गत्या
रसाभासत्वम् अकुर्वन्न् इत्य् अत्र समाधानं च श्री-कृष्ण-सन्दर्भे
तथैवाग्रे च तात्कालिक-श्री-कृष्ण-प्राप्त्य्-अन्तराय-निरास-मात्रम् एव तत्-
प्रसङ्गे दर्शितं, न त्व् अन्यो मोक्ष (पगे 95) इत्य् अतश् चिन्त्यम् । तथा तं
काचिन् नेत्र-रन्ध्रेण [भ्प् 10.32.8] इत्य् आदौ योगीवानन्द-सम्प्लुता इति चैवं
व्याख्यायते । योगीति क्लीबैक-वचनं, तच् च क्रिया-विशेषणम् । लज्जया यद्यॡ
मनसि निधायैवोपगुह्यास् ते तथाप्य् अत्यन्ताभिनिवेशेन योगि संयोगि यथा
स्यात् तद् इवोपगुह्यास् ते इत्य् अर्थः । एवम् अन्यत्रान्यत्रापि यथा-योगं
समाधेयम् ।
अथ श्री-बलदेवादौ विरुद्ध-भावावस्थानं चैव चिन्त्यम् । यथैव श्री-
कृष्णस् तद्-भक्त-सुख-व्यञ्जक-नाना-लीलार्थे विरुद्धान् अपि गुणान्
धारयति न च तैर् विरुध्यते अचिन्त्य-शक्तित्वात्, तथा तल्-लीलाधिकारिणस्
तेऽपि । अस्ति चैषां तद्-योग्यता । यथा श्री-बलदेवस्य ज्येष्ठत्वाद्
वत्सलत्वम् । एकात्मत्वाद् बाल्यम् आरभ्य सह-विहारित्वाच् च सख्यम् ।
पारमैश्वर्य-ज्ञान-सद्-भावाद् भक्तित्वम् इति । ततः श्री-कृष्णस्य यादृश-
लीला-समयस् तादृश एव भावस् तद्-विधस्याविर्भवति । ततो न विरोधोऽपि ।
ततः शङ्खचूड-वध-प्राक्तन-होरिका-लीलायां श्री-कृष्णेन समं
युग्मीभूय गानादिकं तद्-द्वारा द्वारकातः श्री-व्रज-देवीषु सन्देशश् च
नासमञ्जसः । एवं श्रीमद्-उद्भवादीनाम् अपि व्याख्येयम् ।
अथ मुख्यस्यायोग्य-गौण-सङ्गत्याभासत्वम्-
देवकी वसुदेवश् च विज्ञाय जगद्-ईश्वरौ ।
कृत-संवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ [भ्प् 10.44.51] इत्य् आदिषु
ज्ञेयम् ।
अत्र श्री-कृष्ण-विभावित-भयानक-सङ्गत्या तद्-विषयो वत्सल आभास्यते ।
अत्र समाधानं च प्राक्तनम् एव । अथ गौणस्यायोग्य-गौण-सङ्गत्य्-
आभासत्वम् । यथा कालिय-हृदय-प्रवेश-लीलायाम्-
तांस् तथा कातरान् वीक्ष्य भगवान् माधवो बलः ।
प्रहस्य किंचिन् नोवाच प्रभावज्ञोऽनुजस्य सः ॥ [भ्प् 10.16.16]
अत्र श्री-बलदेवस्य ऐश्वर्य-ज्ञानवतोऽप्य् आधुनिक-सामाजिक-भक्तस्येव
व्रज-जनाधारक-करुणानुभव-मयः करुणो योग्यः । स च हास-
सङ्गत्याभास्यते । समाधानं च पूर्ववन् नाना-भावस्यापि तद्-विधस्य
तल्-लीला-विशेष-रक्षा-समयानुरूप-भावोदयात् । तद्-विधा हि तस्य लीला-
प्रवर्तक-परिकरा इति । हासस्य कारणं प्रभाव-ज्ञानं हि अत्र तेषां
प्राण-रक्षार्थम् एव भावान्तराण्य् अतिक्रम्योदितम् । ततश् चैवं हि तेषां
ज्ञानम् अभूत् । अयं चेतस्य परम-प्रेष्ठो मर्म-वेत्ता च हसति तदा
नास्त्य् एव काचिच् चिन्तेति । पुनर् अपि तद्-अर्थैव तस्य चेष्टा दृष्टा -
कृष्णप्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् ।
प्रत्यषेधत् स भगवान् रामः कृष्णानुभाववित् ॥ [भ्प् 10.16.22]
इत्य् अत्र लीलान्ते पुनः श्री-कृष्ण-लाभे रामश् चाच्युतम् आलिङ्ग्य
जहासास्यानुभाव-वित् [भ्प् 10.17.16] इत्य् अत्र तु हासः श्री-कृष्णं
प्रत्युपालम्भ-व्यञ्जक एव । श्री-रुक्मिणी-हरण-लीलादौ तु भ्रातृ-स्नेह-
परिप्लुतत्वं वर्णितम् । तस्मात् तद्-इष्ट-लीलानुरूप्यान् न वैरूप्यम् इति तत्र
हास्योऽपि नायोग्यः ।
॥ 10.16 ॥ श्री-शुकः
[179]
अथ स्थायि-भाव-योग्यत्वं प्रीति-लक्षणत एव प्रतिपन्नम् । ततः प्रीत्य्-
आभासत्वेऽवगते रसाभासत्वम् अप्य् अवगम्यम् । अथायोग्य-सञ्चारि-सङ्गत्य्-
आभासत्वं यथा-
स्व-वचस् तद् ऋतं कर्तुम् अस्मद्-दृग्-गोचरो भवान् ।
यद् आत्थैकान्त-भक्तान् मे नानन्तः श्रीर् अजः प्रियः ॥ [भ्प् 10.86.32]
अथ भक्तिर् अनन्तादि-हेलन-लक्षण-गर्व-सङ्गत्याभास्यते । तत्-
समाधानं च व्याख्यान्तरेण । (पगे 96) तद् यथा एकान्त-भक्तान् मे
मम अनन्तः सवधामत्वेनापि , श्रीर् जायात्वेनापि, अजः पुत्रत्वेनापि न
प्रियः । किन्तु तेऽप्य् एकान्त-भक्त-श्रेष्ठत्वेनैव मम प्रेष्ठा इत्य् अर्थः ।
तद् एतद् यद् आत्थ तत् स्व-वचः ऋतं सत्यं कर्तृ दर्शयितुं भवान् अस्मद्-
दृग्-गोचरोऽभूत् । तद्-अनुगामितांशेनैवास्मान् प्रत्य् अपि कृपां कृतवान् इत्य्
अर्थः ॥
॥ 10.86 ॥ मैथिलः श्री-भगवन्तम्
[180]
तथा-
तयोर् इत्थं भगवति कृष्णे नन्द-यशोदयोः ।
वीक्ष्यानुरागं परमं नन्दम् आहोद्धवो मुदा ॥ [भ्प् 10.46.29]
इत्थं तद्-वियोगज-महा-दुःख-व्यञ्जनाप्रकारेण । अत्र श्री-व्रजेश्वरयोः
श्री-कृष्ण-वियोग-दुःखानुभव-मयी श्रीमद्-उद्धवस्य भक्तिस् तद्-
अयोग्येन हर्ष्येणाभास्यते । समाधानं च श्री-बलदेव-हासवद् एव
कार्यम् । तेषां सान्त्वनार्थम् आगतस्य तसापि दुःखाभिव्यक्तिर् न योग्या ।
ततस् तद्-योग्यस् तदीयानुराग-महिम-चमत्कारजो हर्ष एव तद्-अर्थम्
उदितः । अनन्तरं तथैव सान्त्विताश् च ते इति ।
॥ 10.46 ॥ श्री-शुकः
[181]
तथा-
एहि वीर गृहं यामो न त्वां त्यक्तुम् इहोत्सहे ।
त्वयोन्मथित-चित्तायाः प्रसीद पुरुषर्षभ ॥ [भ्प् 10.42.10]
अत्र नायिकायाः सर्वेषाम् अग्रत एतादृशं चापल्यम् अत्ययोग्यम् । तत्-सङ्गतिश्
चोज्ज्वलम् आभासयति । समाधानं चास्याः सामान्यत्वाद् अदोष इति ।
॥ 10.42 ॥ सैरिन्ध्री भगवन्तम्
[182]
अत्र तव सुतः सति यदाधर-बिम्बे [भ्प् 10.35.14] इत्य् आदिके तु न तथा
चापल्यं मन्तव्यम् । तेषां पद्यानां युगलेन युगलेन पृथक् पृथक्
संवाद-सङ्ग्रह-रूपत्वा । श्री-व्रजेश्वई-सभा-स्थितायाश् चास्याः
सामान्यतस् तन्-माधुर्य-वर्णनम् एव । तेन च सक्रादीनाम् एव मोह
उक्तः । न तु व्रजति तेन वयम् [भ्प् 10.35.17] इत्य् आदिवत् । व्योमयान् अवनिता
[भ्प् 10.35.3] इत्य् आदिवच् च स्वभावस्य सजातीय-भावस्य वा प्रकाशनम् इति ।
एवं कुन्द-दाम [भ्प् 10.35.20] इत्य् आदाव् अपि ज्ञेयम् । तथा मैवं
विभोऽर्हति भवान् [भ्प् 10.29.31] इत्य् आदिषु प्रकट-तत्-सङ्ग-प्रार्थन-
दैन्यादिकम् अयोग्यत्वेन प्रतीतम् अपि पुरतः श्लेषेण निषेधार्थादितया
व्याख्यास्यमानत्वात् परम-रसावहत्वेनैव स्थापनीयम् ।
अथायोग्यानुभाव-सङ्गत्य्-आभासत्वं यथा-
यद्यप्य् असाव् अधर्मेण
मां बध्नीयाद् अनागसम् ।
तथाप्य् एनं न हिंसिष्ये
भीतं ब्रह्म-तनुं रिपुम् ॥ [भ्प् 8.20.12] इत्य् आदि-द्वयम् ।
अत्र शुक्रत्वं च नार्थ-प्रयुक्तस्यापि अधर्मादि-शब्द-प्रयोगस्य
तत्रायोग्यत्वाद् आभास्यत एव भक्ति-मयः । समाधानं च तदानीं साक्षात्
भक्तेर् अजातत्वात् श्री-त्रिविक्रम-पाद-स्पर्शानन्तरम् एव च जातत्वान् न
विरोध इति ।
॥ 8.20 ॥ श्री-बलिः शुक्रम्
[183]
तथा जरासन्ध-वधः कृष्ण-भूर्य्-अर्थायोपकल्पते [भ्प् 10.71.10] इति ।
(पगे 97)
अत्रायोग्येन साक्षान्-नाम्ना सम्बोधनेन दास्य-मय आभास्यते । वस्तुतस्
तु तद्-आदि-नाम्नां तत्-परम-महिम-मयत्वात् तन्-मय-नाम्नां च
दासादिभिर् अपि साक्षाद्-ग्रहण-दर्शनात् तद्-अदोष इति । यस्य नाम महद्
यशः [श्वेतु 4.19] इति श्रुतेः ।
॥ 10.71 ॥ उद्धवः श्री-भगवन्तम्
[184]
तथा सतां शुश्रूषणे जिष्णुः कृष्णः पादावनेजने [भ्प् 10.75.5] ।
पादवनेजने इति णिज्-अन्तम् । अत्र पाण्डव-राज-कृत-तादृश-श्री-कृष्ण-
नियोगस्यायुक्तत्वात् तस्य भक्ति-मयस् तेनाभास्यते । वस्तुतस् तु बान्धवाः
परिचर्यायां तस्यासन् प्रेम-बन्धना [भ्प् 10.75.3] इत्य् उक्तत्वात् तेषु
नियोज्येषु बान्धवाः स्वयम् एवावर्तन्ते, नेतरे इव तन्-नियुक्ता एव । ततः
श्री-कृष्णस्य तु सुतराम् एव स्वेच्छा-प्रवृत्तिः । तेन च चिन्तितम् इदम् इति
गम्यते । सर्वाणि कर्माण्य् अन्यैः सेत्स्यन्ते । पादावनेजनम् तु नान्यैः
साभिमानत्वात् । ततश् च मम बन्धूनाम् एषां कर्म विगीताङ्गं स्याद् इति
मयिवात्राग्रहीतव्यम् इति ।
तद् एवं तस्येच्छायास् तद्-आश्रितैर् दुर्लङ्घत्वात् तद्-बलाद् एव तत्र तस्य
प्रवृत्तिः । एवं स्वयम् एव नारदादि-पाद-प्रक्षालनेऽपि दृष्टम् । तं प्रति
च स्वेच्छयैव हि भगवान् ब्राह्मणत्वेन भक्तत्वेन च व्यवहरति । तत
एव क्वचित् पुत्र मा खिदः [भ्प् 10.69.40] इत्य् अपि वदतीति ।
॥ 10.75 ॥ श्री-शुकः
[185]
तथा--
श्रीदामा नाम गोपालो राम-केशवयोः सखा ।
सुबल-स्तोककृष्णाद्या गोपाः प्रेम्णेदम् अब्रुवन् ॥
राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण ।
इतो ऽविदूरे सु-महद् वनं तालालि-सङ्कुलम् ॥ [भ्प् 10.15.21-22] इत्य् आदि ।
अत्रायोग्येन भय-स्थान-गमन-नियोगेन सख्य-मय आभास्यते । वस्तुतस्
तु समान-शीलत्वेन श्री-कृष्णस्य वीर्य-ज्ञानात् तैस् तन्-नियोगोऽपि नायोग्यः ।
प्रत्युत तेषां तद्वद् वीर-स्वभावानां तन्-मय-प्रीति-पोषायैव भवति-
साकं कृष्णेन सन्नद्धो
विहर्तुं विपिनं महत् ।
बहु-व्याल-मृगाकीर्णं
प्राविशत् पर-वीर-हा ॥ [भ्प् 10.58.14] इत्य् अर्जुन-चरितवत् ।
अतएव प्रेम्णेति महा-सत्त्व-दुष्ट-निवर्हणेति चोक्तम् । अन्यत्र च अस्मान्
किम् अत्र ग्रसिता निविष्टान्; अयं तथा चेद् बकवद् विनङ्क्ष्यति [भ्प् 10.12.14]
इति ।
॥ 10.15 ॥ श्री-शुकः
[186]
एवं द्वारका-जल-विहारे न चलसि [भ्प् 10.90.22] इत्य् आदौ वसुदेव-
नन्दनाङ्घ्रिम् इति ।
अत्रायोग्येन श्वशुर-नाम-ग्रहणेन स्वीयानां कान्ताभाव आभास्यते ।
वस्तुतस् तु देवस्य परमाराध्यस्य श्वशुरस्य यो नन्दनो मुख्यः
पुत्रः । अस्मत्-पतिर् इत्य् अर्थः । तस्याङ्घ्रिं वसु परम-धन-स्वरूपम् इत्य्
एव तन्-मनसि स्थितम् । तथापि दैवात् तन्-नामानुकरण-दोष-समाधानं
चोन्मत्त-वचस्-त्वेनोपक्रान्तत्वात् ।
॥ 10.90 ॥ श्री-पट्ट-महिष्यः
[187]
तथा-
तम् आत्मजैर् दृष्टिभिर् अन्तरात्मना
दुरन्त-भावाः परिरेभिरे पतिम् ।
निरुद्धम् अप्य् आस्रवद् अम्बु नेत्रयोर्
विलज्जतीनां भृगु-वर्य वैक्लवात् ॥ [भ्प् 1.11.33]
(पगे 98)
दुरन्त-भावा उद्भट-भावा, अतएव निरुद्धम् अप्य् आस्रवम् । अत्रात्मज-
द्वारालिङ्गनेन कान्त-भाव आभास्यते । तद्-द्वारा तत्-सम्भोगायोग्यत्वात् ।
समाधानं च प्रीति-सामान्य-परिपोषायैव तथाचरितं न तु कान्त-भाव-
पोषाय । तत्-पोषस् तु दृष्टादि-द्वारैव । तस्मान् न दोष इति ।
॥ 1.11 ॥ श्री-सूतः
[188]
अथायोग्य-विभाव-सङ्गत्याभासत्वम् उदाह्रियते । तत्रायोग्योद्दीपन-
सङ्गत्या यथा यद्-अर्चितम् [भ्प् 10.38.8] इत्य् आदौ, यद् गोपिकानां कुच-
कुङ्कुमाङ्कितम् इति ।
अत्रानेन रहस्य-लीला-चिह्नेन दासानुसन्धानायोग्येन दास्य-भाव-मय
आभास्यते । समाधानं च । अत्रास्य भक्ति-मात्र-सुलभत्व-
चिन्तनेऽभिनिवेशः । न तु तादृश-लीला-विशेषानुसन्धाने । यथोक्तं
टीकायाम्-यद् गोपिकानाम् इति प्रेम-मात्र-सुलभत्वम् इत्य् एतत् ।
ततोऽननुसन्धायैव तद्-विशेषं भक्ति-मात्रोद्वलकत्वेन निर्दिष्टत्वान् न
दोष इति । एवं समर्हणं यत्र [भ्प् 10.38.17] इत्य् आदिकं व्याख्येयम् ।
॥ 10.38 ॥ अक्रूरः
[189]
एवम् उज्ज्वलेऽपि पुत्र-रूपस्योद्दीपनत्वायोग्यता यं वै मुहुर् [भ्प् 10.55.40]
इत्य् आदौ गम्या । तच् चाग्रे समाधानं व्याख्येयम् ।
अथाल्म्बनायोग्यतायां तादृश-प्रीत्य्-आधारायोग्यतयाभासत्वे
यज्ञपत्नीनां पुलिन्दी- हरिण्य्-आदिन्यां तत्-तज्-जाति-रूपम् अयोग्यम्
उदाहार्यम् । अथ तादृश-प्रीति-विषयायोग्यत्वं यथा-अक्षण्वताम् [भ्प्
10.21.7] इत्य् आदौ वक्त्रं व्रजेश-सुतयोः इत्य् आदि ।
अत्र यद्यपि श्री-रामोऽपि श्री-कृष्ण-व्यूहत्वात् स एव, तथापि श्री-
कृष्णत्वाभावात् तत्-प्रेयसी-भाव-विशेषायोग्य एव । ततस् तेनात्रोज्ज्वलम्
आभास्यते । वस्तुतस् त्व् अग्रेऽवहित्था-गर्भेण व्रजेश-सुतयोर् मध्ये अनु
पश्चात् वेणु-जुष्टं यन्-मुखम् इत्य् आदि व्याख्यानेन रसोत्कर्ष एव
साधयितव्यः । एवम् एव टीकायाम् अपि । रामः क्षपासु भगवान् गोपीनां
रतिम् आवहत् [भ्प् 10.65.17] इत्य् अत्र व्याख्यातम्-गोपीनां रतिम् इति श्री-कृष्ण-
क्रीडा-समयेऽनुत्पन्नान् नातिबालानां चान्यासाम् इत्य् अभियुक्त-प्रसिद्धिर् इति ।
॥ 10.21 ॥ श्री-व्रज-देव्यः
[190]
अथायोग्यस्य विषयान्तर-गत-भावादिकस्य सङ्गत्य्-आभासत्वं यथा
देवहूति-वर्णने-कामः स भूयात् [भ्प् 3.22.16] इत्य् आदौ क्षिपतीम् इव श्रियम्
इति ।
अत्र देवहूति-गतेनेदृश-वर्णन-रूपेणानुभावेन श्री-कर्दमस्य भक्तिर्
आभास्यते । वस्तुतस् तु तेन जगत्-सम्पत्ति-रूपां प्राकृतीं श्रियम् एवोद्दिश्य
तयोक्तम् इति न दोषः ॥
॥ 3.22 ॥ श्री-कर्दमः
[191]
तथा-
उवास तस्यां कतिचिन् मिथिलायां समा विभुः ।
मानितः प्रीति-युक्तेन जनकेन महात्मना ।
ततो ऽशिक्षद् गदां काले धार्तराष्ट्रः सुयोधनः ॥ [भ्प् 10.57.26]
विभुः श्री-सङ्कर्षणः । मानित इत्य् आदिकं च तस्यैव विशेषणम् इति
समाधानं च ।
॥ 10.57 ॥ श्री-शुकः
[192]
एवम् अग्रे च केचिद् अन्ये रसाभासाः परिहरिष्यन्ते । अथ यद् उक्तं अयोग्य-
सङ्गतिर् अपि भङ्गी-विशेषेण योग्यस्य स्थायिन उत्कर्षाय चेत् तदा रसोल्लासः
इति । तत्र मुख्य-सङ्गत्या (पगे 99) मुख्यस्योल्लासो, यथा-अहो भाग्यम्
अहो भाग्यम् [भ्प् 10.14.32] इत्य् आदौ । अत्र ब्रह्मणा व्रज-वासि-प्रसङ्गे
ज्ञान-भक्ति-बन्धु-भावौ भावितौ । योग्यश् चात्र बन्धु-भाव एव
भावयितुम् । तदीय-स्वाभाविक-तद्-भावास्वादे सत्य् अन्यस्य विरसत्व-
प्रतिभानात् । तथापि तत्र परम-ब्रह्म-पद-व्यञ्जिताया ज्ञान-भक्तेर्
अयोग्याया भावना ज्ञान-भक्त्य्-अंश-वासित-सहृदय-चमत्काराय तदीय-
भाग्य-प्रशंसा-वैशिष्ट्य-शंसन-भङ्ग्या तम् एवोत्कर्षयितुं प्रवर्तितेत्य्
उल्लसत्य् एव रसः । एवम् इत्थं सतां ब्रह्म-सुखानुभूत्या [भ्प् 10.12.11]
इत्य् आदिकम् अपि व्याख्येयम् । तथा-
भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्त-वत्सलः ।
पैतृ-ष्वस्रेयान् स्मरति रामश् चाम्बुरुहेक्षणः ॥ [भ्प् 10.49.9]
अत्र पितृष्वसुस् तस्या ऐश्वर्य-ज्ञान-मयी भक्तिर् अयोग्या, वात्सल्यं तु
योग्यम् । तथापि भगवद्-आदि-पद-व्यञ्जित-तादृश-सङ्गतिर् यासीत् । ताम्
अतिक्रम्य भ्रात्रेय इति पैतृष्वसेयान् इति । अम्बुरुहेक्षण इति चोक्ति-भङ्ग्या
वात्सल्यस्योत्कर्षे सति रसोल्लासः ।
॥ 10.49 ॥ श्री-कुन्ती
[193]
एवं श्री-राघवेन्द्रस्य केवल-माधुर्यमय-लीलायां हनुमतः केवल-
तन्-मय-दास-भावोऽपि स्वरूपैश्वर्यादि-ज्ञान-मय-तद्-भाव-सङ्गतिर्
नातिर् योग्यापि पश्चान् माधुर्यमय एव पर्यवसायिताभङ्ग्या
तस्यैवोकर्षाय जातेत् रसोल्लास एव योजनीयः । तत्रैश्वर्य-माधुर्ययोर्
महिम-ज्ञानं तस्याह -- ओं नमो भगवते उत्तमश्लोकाय [भ्प् 5.19.3] इत्य्
आदि ।
[194]
अत्र भगवत इत्य् ऐश्वरम् उत्तमश्लोकायेति माधुर्यं दर्शितम् । स्वरूप-
ज्ञानम् आह -- यत् तद् विशुद्धानुभव-मात्रम् एकम् [भ्प् 5.19.4] इत्य् आदि ।
यत् तत् प्रसिद्धं श्री-रामचन्द्रस्य दुर्वाद-श्यामल-रूपम् । अत्र
प्रकाशैक-लक्षण-वस्तुनः सूर्यादि-ज्योतिषः प्रकाशत्वं शौक्लादिमत्त्वम्
इत्य् आदि धर्मवत् गुण-रूपादि-लक्षण-तत्-स्वरूप-धर्मस्यापि तद्-
आत्मकत्व-दृष्ट्या तन्-मात्रत्वम् उक्तम् । य एव धर्मः स्वरूप-शक्तिर् इति
भगवत्-सन्दर्भादौ स्थापितम् । अतएवैकम् अपि । तस्याश् च शक्तेर्
मायातिरिक्तत्वम् आह स्वतेजसा ध्वस्त-गुण-व्यक्वस्थम् इति । स्वरूप-शक्त्या
दूरीभूता त्रैगुण्यात्मिका माया शक्तिर्यस्मात् यत् । अतः प्रशान्तं
सर्वोपद्रव-रहितम् । अनुभाव-मात्रत्वे हेतुः प्रत्यग्-दृश्याद् अन्यत् । न
चक्षुषा पश्यन्त रूपम् अस्य [कठु 2.39], यम् एवैष वृणुते तेन लभ्यस्
तस्यैषा आत्मा विवृणुते तनुं स्वाम् [कठु 1.2.23] इति श्रुतेः । तत् कुतः ।
अनाम-रूपं एतास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे
व्याकरवाणी [छा 6.3.2] इति प्रसिद्ध-प्राकृत-नाम-रूप-रहितम् । तत्र
हेतुः निरीहम् इति । आत्म-शब्देन हि श्रुताव् अस्यां परमात्मनो जीवाख्य-
शक्ति-रूपोऽंश उच्यते । अनेनेति (पगे 100) पृथक्त्व-निर्देशात् । तद्-रूपेण च
प्रवेशो नाम देवता-शब्द-वाच्य-तेजो-वारि-मृल्-लक्षणोपाध्य्-अभिनिवेशः ।
स च तस्य जीवस्य तत्राहन्ताध्यासाद् एव भवति । ततोऽन्तर्यामि-रूपेण
स्वयं तत्र स्थितस्यापि तद्-अध्यासाभावाद् उपाधिकृत-नाम-रूप-राहित्यं
युक्तम् एवेत्य् अर्थः । सर्वथाहङ्कार-राहित्ये सति व्याकर-वाणीति-
प्रयोगस्यानर्हत्वाद् इति भावः ।
[195]
ननु, श्री-राम-रूपं न सर्वैर् एव प्रतीयते तत्राह सुधियोपलम्भनम् ।
शुद्ध-चित्तेन स्वरूपतयिवोपलभ्यत इत्य् अर्थः । नातः परं परम यद्
भवतः स्वरूपम् [भ्प् 3.9.3] इत्य् आदि श्री-ब्रह्म-वाक्यात् ।
नन्व् एवंभूतस्य मर्त्येषु प्राकट्ये किं प्रयोजनम् । उच्यते । गौणे सत्य्
अपि प्रयोजनान्तरे मुख्यं तु भक्तेषु लीला-माधुर्याभिव्यञ्जनम् एवेत्य्
आह-
मर्त्यावतारस् त्व् इह मर्त्य-शिक्षणं
रक्षो-वधायैव न केवलं विभोः ।
कुतो ऽन्यथा स्याद् रमतः स्व आत्मनः
सीता-कृतानि व्यसनानीश्वरस्य ॥ [भ्प् 5.19.5]
तु-शब्द आशङ्का-निवृत्त्य्-अर्थः । मर्त्य-लोके योऽवतार आविर्भावः । स तु
साधु-जनोद्वेज-कर-क्षोबधायैव केवलं न भवति किन्तु मर्त्य-
शिक्षणम् अपि । मर्त्येषु शिक्षणं तद्-अर्थ-प्रकाशनं यत् तन्-मयम् अपि ।
तत्र बहिर्मुखेषु विषयासङ्ग-दुर्वारताप्रकाशनम् आनुषङ्गिकम् ।
उद्देश्यं तु स्वभक्ति-वासनेषु चित्तार्द्रता-कर-विरह-संयोगमय-निज-
लीला-विशेष-माधुर्य-प्रकाशनम् । ततस् तद्-अर्थम् एवेत्य् अर्थः । अन्यथा
यदि केवलं तद्-वधायैव स्यात् तदा आत्मनः परमात्मत्वेन
परिपूर्णस्येश्वरस्य सर्वान्तर्यामिणः स्वे स्व-स्वरूपे तद्-एक-रूपे
वैकुण्ठे च रममाणस्य सीता-कृत-व्यसनानीति कुतः स्यात् । मनसैव तद्-
वधे शक्तत्वात् तद्-व्यसना-सम्भवाच् च । निज-माधुर्य-प्रकाशन-पक्षे
तु तत् तत् सम्भवत्य् एवेति भावः ।
[196]
अत्र कृपा-रूपं तादृश-लीला-रूपं च माधुर्यम् अधिकं श्लाघितम् । तत्र
श्री-सीता-वियोग-दुःखं च लीला-माधुर्यान्तर्गतम् एवेति न दोष इत्य् अपि
दर्शितम् । तादृश-लीला च न प्राकृतवत् कामादि-सक्ततया, किन्तु स्वजन-
विशेष-विषयक-कृपा-विशेषेणैवेत्य् आह-
न वै स आत्मात्मवतां सुहृत्तमः
सक्तस् त्रि-लोक्यां भगवान् वासुदेवः ।
न स्त्री-कृतं कश्मलम् अश्नुवीत
न लक्ष्मणं चापि विहातुम् अर्हति ॥ [भ्प् 5.19.6]
स वै खलु त्रिलोक्यां न सक्तः । तत्र हेतुः । आत्मा परमात्मा भगवान्
परिपूर्णैश्वर्यादिः वासुदेवः सर्वाश्रयश् चेति । किन्तु आत्मवताम् आत्मा
स्वयम् एव नाथत्वेन विद्यते येषां तेषां स्व-विषयक-ममता-धारिणां
भक्त-विशेषाणाम् इत्य् अर्थः । तेषाम् एव सुहृत्तमः । तस्माद् यथान्यो
स्त्रीत्व-हेतुकं कश्मलश्नुवते तथा नासाव् अश्नुवीत । अतस् तस्या
आत्मवत्त्वेनैव तादृश-कश्मल-हेतु-तत्-प्रीति-विषयतापीति भावः । तथा
देवदूत-समयातिक्रमेण आत्मवतोऽपि लक्ष्मणस्य परित्यागो यः, स खलु
नात्यन्तिक इत्य् आह, न लक्ष्मणम् इति । विहातुम् अपि नार्हति न शक्नोति ।
अनन्तरं झटित्य् एव स्वर्ग-स्थतया स्वागमनं प्रतीक्षमाणैस् तद्-
आदिभिः सह स्वधिष्ण्यारोहात् । अधुनापि तेन सीतादिभिश् च सहैवास्मिन्
(पगे 101) किं-पुरुष-वर्षेऽप्य् अस्माभिर् दृश्यमानत्वात् । ततो मर्यादा-
रक्षार्थम् एव किञ्चित् तत्-तद्-अनुकरणम् इति भावः ।
[197]
पूर्वार्थम् एव स्थापयितुं भक्त्य्-एक-कारण-कारुण्य-प्रमुख-परम-
माधुर्यं सर्वोर्ध्वम् आह द्वाभ्यां-
न जन्म नूनं महतो न सौभगं
न वाङ् न बुद्धिर् नाकृतिस् तोष-हेतुः ।
तैर् यद् विसृष्टान् अपि नो वनौकसश्
चकार सख्ये बत लक्ष्मणाग्रजः ॥ [भ्प् 5.19.7]
महतः पुरुषाज् जन्म । सौभगं सौन्दर्यम् । आकृतिर् जातिः । यद् यस्मात् ।
तैर् जन्मादिभिर् विसृष्टान् त्यक्तान् अस्मान् तदीय-परम-भक्त-श्री-
सीतान्वेषणादि-भक्ति-तुष्टत्वेन बताहो लक्ष्मणस्य सर्व-सद्-गुण-लक्ष्म-
लक्षितस्य सुमित्रानन्दनस्याग्रजोऽपि सखित्वे कृतवान् दास्यायोग्यान् अपि सह-
विहारादिना सखीन् इव कृतवान् इत्य् अर्थः । सुग्रीवम् उपलक्ष्य वा
तथोक्तम् ।
[198]
तस्मात्-
सुरो ऽसुरो वाप्य् अथ वानरो नरः
सर्वात्मना यः सुकृतज्ञम् उत्तमम्
भजेत रामं मनुजाकृतिं हरिं
य उत्तरान् अनयत् कोसलान् दिवम् इति ॥ [भ्प् 5.19.8]
पूर्वं स्वरूप-ज्ञान-मय-भक्त्या मनुज-कृताव् एव परम-स्वरूपत्वं
दर्शितवान् । सम्प्रति माधुर्य-ज्ञान-मय-भक्त्यापि विशिष्य तम्
एवाराधयति मनुजाकृतिं हरिम् इति । तत्रापि श्री-कपिलादिकं व्यावर्तयति
रामम् इति । उत्तमम् असमोर्ध्व-गुणं सुकृतज्ञं स्वल्पयापि भक्त्या
सन्तुष्यन्तम् इति ।
॥ 5.19 ॥ श्री-हनूमान् ॥ 193-198 ॥
[199]
तथा मैवं विभोऽर्हति [भ्प् 10.23.31] इत्य् आदौ प्रेष्ठो भवांस् तनुभृतां
किल बन्धुर् आत्मा [भ्प् 10.29.32] इत्य् अत्रापि नर्मालाप-मय-श्लेषम् अङ्ग्या
स्वीय-भावोत्कर्षेण रसोल्लासः पुरतो दर्शनीयः । अथायोग्य-गौण-
सङ्गत्यापि मुख्यस्योल्लासो यथा त्वक्-श्मश्रु-रोम-नख-केश- [भ्प्
10.60.45] इत्य् आदिकं श्री-रुक्मिणी-वाक्यम् । अत्र प्रतीपत्वेनायोग्यस्यापि
बीभत्स्यस्य सङ्गतिः प्रकृत-कृष्ण-विषयक-कान्त-भाव-प्रशंसा-कारि-
वचन-भङ्ग्यैव कृतेति तद्-उत्कर्षायैव जाता । ततो रसोल्लास एवेति ।
तथान्यत्र-
एताः परं स्त्रीत्वम् अपास्तपेशलं
निरस्त-शौचं बत साधु कुर्वते ।
यासां गृहात् पुष्कर-लोचनः पतिर्
न जात्व् अपैत्य् आहृतिभिर् हृदि स्पृशन् ॥ [भ्प् 1.10.30]
स्त्रीत्वं स्त्री-जातिः । सा च श्री-रुक्मिण्याद्य्-अवर-तज्-जाति-भेदत्वेनैवात्र
गृहीता । अपास्त-पेशलत्वादिकं हि तज्-जात्य्-अन्तराश्रयं न तु
रुक्मिण्याद्याश्रयम् । ताभिस् तासाम् अपि साधुत्व-करणात् । ततश् चान्यां तत्-
तद्-दोष-युक्तां स्त्री-जातिम् अपि य निज-कीर्त्य्-आदिना शुद्धां कुर्वन्तीत्य्
अर्थः । तासां तत्-तद्-दोष-रहित-सर्व-गुणालङ्कृतत्वे तद्-अवरासां
साधुत्व-विधाने च हेतुम् आह यासाम् इति । स्वयं तथाविधोऽपि आहृतिभिः
प्रेयसी-जनोचित-गुण (पगे 102) -समाहारैर् या एव हृदि स्पृशन्
मनस्यासज्जन् यासां गृहाद् अपि न जात्व् अपैतीति । तस्माद् अत्रापि बीभत्स-
सङ्गतिः पूर्ववद् व्याख्येया ।
॥ 1.10 ॥ कौरवेन्द्र-पुर-स्त्रियः
[200]
अथ गौणेष्व् अयोग्य-मुख्यानां सङ्गताव् अपि पूर्व-रीत्या रसोल्लासो, यथा-
गोप्यो ऽनुरक्तमनसो भगवत्य् अनन्ते
तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः ।
ग्रस्ते ऽहिना प्रियतमे भृशदुःखतप्ताः
शून्यं प्रियव्यतिहृतं ददृशुस् त्रिलोकम् ॥ [भ्प् 10.16.20]
अत्र गौणः करुण-रस एव योग्यः । तत्र स्व-प्रतीपे सम्भोगाख्य उज्ज्वलस्
त्व् अयोग्यः । तथापि तत्र स्मित-विलोकादि-रूप-तत्-सङ्गतिः स्मर्यमाण-
मात्रत्वेन तत्-तद्-भावाभिव्यञ्जन-भङ्ग्या शोकम् उत्कर्षयति । ततो
रसोल्लास एवेति ।
॥ 10.60 ॥ श्री-शुकः
[201]
अथ मुख्येष्व् अयोग्य-सञ्चारि-सङ्गताव् अपि यथा ता वार्यमाना पतिभिः
[भ्प् 10.29.8] इत्य् आदि ।
अथ च तेषाम् अग्रे तादृशं चापल्यम् अयोग्यम् अपि तदानीं
मोहातिरेकाभिव्यञ्जना-भङ्ग्या महाभावाख्यं सर्वानुसन्धान-रहितं
कान्त-भावस्य उत्कर्षम् एव गमयामास । तत उल्लसत्य् एव रस इति ।
॥ 10.29 ॥ श्री-शुकः
[202]
एवम् उदाहरणान्तराण्य् अप्य् उन्नेयानि । अथ यद् उक्तम् अयोग्यस्योत्कर्षे तु
रसाभासत्वस्यैव उल्लास इति तत्रोदाहरणम् - युवां न नः सुतौ साक्षात्
प्रधान-पुरुषेश्वरौ [भ्प् 10.65.18] इति ।
अत्र पितृ-भावेनाभिव्यक्तस्य श्री-वसुदेवस्य एव योग्यं वात्सल्यम्
अतिक्रम्य सङ्गता भक्तिर् न रसत्वायोपपद्यते इति । समाधानं च
पूर्वानुसारेण श्री-बलदेव-वद् एव योजनीयम् । रसाभास-प्रसङ्गे
समाधानानि चैतानि तेष्व् एव निर्दोषेषु क्रियन्ते । तद्-इतरेषु तु न तद्-
अर्थम् अनुगृह्यते । तस्मात् सर्वथा परिहार्यस् तत्-प्रसङ्गः । योग्येन
योग्य-सङ्गत्या रसोल्लासस्योदाहरणानि तु स्वयम् उह्यानि ।
॥ 10.65 ॥ श्री-वसुदेवः
[203]
अथ तत्-प्रीति-विशेष-मया रसाः प्रकर्तव्याः । तत्र शान्तापर-नामा ज्ञान-
भक्ति-मयो रसः । तत्रालम्बनः पर-ब्रह्मत्वेन स्फुरन् ज्ञान-भक्ति-
विषयश् चतुर्भुजादि-रूपः श्री-भगवान् । तद्-आधारा भगवल्-लीला-गत-
महा-ज्ञानि-भक्ताश् च । तत्र भगवान् एवं तदैव भगवान् अरविन्द-
नाभः [भ्प् 3.15.27] इत्य् आदिभिः श्री-सनकादीनां वैकुण्ठ-गमने
दर्शितः । ज्ञानि-भक्ताश् च आत्मारामाश् च मुनयः [भ्प् 1.7.10] इत्य् आदिना
वर्णिताः । तेषु च श्री-चतुःसनाद्या (पगे 103) एव तादृशाः । श्री-
शुकदेवस्य तु लीला-रस-माधुर्याकृष्टतया श्री-भागवताभिनिवेशाद्
यत्रैव श्रीमद्-भागवतं सर्वोत्तमत्वम् अभिप्रैति तत्रैव गृध्नुना
भवेत् ।
अथोद्दीपनाश् च तस्य गुण-क्रिया-द्रव्य-प्रायाः तत्र गुणाः । सच्-चिद्-
आनन्द-सान्द्राङ्गत्वं, सदा स्वरूप-सम्प्राप्तत्वं, भगवत्त्वं,
परमात्मत्वं, विद्या-शक्ति-प्रधानत्वं, विभुत्वं, हतारि-मुक्ति-
दायकत्वं, शान्त-भक्त-प्रियत्वं, समत्वं, दान्तत्वं, शान्तत्वं, शुचित्वं,
अद्भुत-रूपवत्त्वम् इत्य् आदयः । क्रियाश् च भक्त-पालनाद्याः । द्रव्याणि च
महोपनिषज्-ज्ञानि-भक्त-पाद-रजस्-तुलसी-तदीय-स्थानादीनि ।
अथानुभावाः । तत्-तद्-गुणादि-प्रशंसा पर-ब्रह्म-परमात्मादि-
नामोच्चारणं ब्रह्म-सुखावधीरणा-पूर्वक-भगवद्-उन्मुखत्वम् इत्य्
आदयः । नासाग्र-न्यस्त-दृष्टित्वावधूत-चेष्टा-ज्ञान-मुद्रादि-पूर्वक-
जृम्भाङ्ग-मोटन-हरि-नति-स्तुति-प्रभृतयश् च । सात्त्विकाश् च प्रायः
प्राकृता एव ।
अथ सञ्चारिणः । निर्वेद-धृति-हर्ष-मति-स्मृति-विषादोत्सुकतावेग-
वितर्काद्याः ।
अथ स्थायी ज्ञान-भक्तिः । सा च-
यो ऽन्तर्हितो हृदि गतो ऽपि दुरात्मनां त्वं ।
सो ऽद्यैव नो नयन-मूलम् अनन्त राद्धः ॥ [भ्प् 3.15.46] इत्य् आदिभिर्
व्यञ्जिता ।
तन्-मय-रस-व्यञ्जकं च तत्रैव--
तस्यारविन्द-नयनस्य पदारविन्द-
किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः ।
अन्तर्-गतः स्व-विवरेण चकार तेषां
सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः ॥ [भ्प् 3.15.43] इत्य् आदिकम् ।
अत्रारविन्द-नयन आलम्बनः । वायुर् उद्दीपनः । तनु-सङ्क्षोभ-रूप
उद्भास्वर-विशेषः सात्त्विक-विशेषश् चानुभावः । चित्त-सङ्क्षोभ-रूपो
हर्षः सञ्चारी । अक्षर-जुषाम् अपीति निर्देश-विशिष्टेन तन्-निर्देशेन लब्धा
ज्ञान-भक्तिः स्थायी । तत्-समूहस्यैकत्रानुभवेन समर्थनात् ज्ञान-
भक्ति-मयो रस इति विवेचनीयम् ।
अथ भक्ति-मयेषु रसेषु आश्रय-भक्ति-मयो रस उदाहृइयते ।
तत्रालम्बनः पालकत्वेन स्फुरन्न् आश्रय-भक्त्य्-आश्रयः श्री-कृष्णस् तदा
धारास् तल्-लीला-गत-परम-पाल्याश् च ।
अत्र श्री-कृष्णोऽन्यत्रत्येषु श्रीमन्-नराकारता-प्रधानः परमेश्वराकारश्
च । श्रीमद्-व्रज-वासिषु तु पर-मधुर-परम-प्रभाव-श्रीमन्-
नराकार एव ।
अथ ते पाल्या द्विविधाः । साधारणाः प्रपञ्च-कार्याधिकृता बहिरङ्गाः
तदीय-चरण-च्छायैक-जीवनाश् चान्तराङ्गाः । तत्र पूर्वेषां ब्रह्म-
शिवादयस् तु भक्ति-विशेष-सद्-भावात् तद्-अन्तरङ्गा एव ।
अथोत्तरे त्रिविधाः । साधारणाः श्री-यदु-पुर-वासिनः । श्रीमद्-व्रज-पुर-
वासिनश् च । तत्र प्रथमे जरासन्ध-बद्ध-राजादयो मुनि-विशेषादयश्
च । उत्तर-वर्ग-द्वयं श्रेणी-जनादिकम् । अथोद्दीपनेषु गुणाः । तत्र
परमेश्वराकारावलम्बनानां भगवत्त्वम् अवतारावई-बीजत्वम्
आत्मारामाकर्षित्वं पुतनादीनाम् अपि तद्-वेशानुकरणेन महा-भक्त-
भाव-दातृत्वं परमात्मत्वम् अनन्त-ब्रह्माण्डाश्रयैक-रोम-
विवरांशत्वम् इत्य् आदयो वक्ष्यमाण-मिश्राः । श्रीमन्-
नराकारावलम्बनानां कृपाम्बुधित्वम् आश्रित-पालकत्वम् अविचिन्त्य-महा-
शक्तित्वं परमाराध्यत्वं सर्वज्ञत्वं सुदृढ-व्रतत्वं समृद्धिमत्त्वं
क्षमा-शीलत्वं दाक्षिण्यं सत्यं दाक्ष्यं सर्व-शुभङ्करत्वं
धार्मिकत्वं शास्त्र-चक्षुष्ट्वं भक्त-सुहृत्त्वं वदान्यत्वम् ओजः कीर्तिः
तेजः सहो बलानि प्रेम-वश्यत्वादयश् च ।
अथ जातयः पूर्वेषां तत्-तद्-अनुकारितया प्रतीता गोपत्वादयः तत्-
स्मारकाः श्यामत्वादयश् च । उत्तरेषां तत्-तच्-छ्रेष्ठत्वेनैव प्रतीतास् ते
उभये ।
अथ क्रियाः । पूर्वेषां सृष्टि-स्थित्य्-आदिकृतो विश्वरूप-दर्शनाद्याः
वक्ष्यमान-मिश्राः । उत्तरेषां पर-पक्ष-निबर्हण-स्व-पक्ष-पालन-
सानुग्रहावलोकनाद्याः ।
अथ द्रव्याणि । तदीयास्त्र-वादित्र-भूषण-स्थान-पदाङ्क-भक्तादीनि ।
तानि च (पगे 104) पूर्वेषाम् अलौकिकतयैव स्पष्टानि । उत्तरेषां
चैतान्येवालौकिकत्वेऽपि लौकिकायमानतयैव दर्शित-प्रभावानि ।
अथ कालाश् चोभयत्र तज्-जन्म-तद्-विजयादिसम्बन्धित इति । अथानुभावाः ।
तत्-सम्बन्धेनैव वसतिस् तत्-प्रभावादि-मय-गुण-नाम-कीर्तनम् इत्य्
आदयः । तथा पूर्वोक्ता अपि । अथ सञ्चारिणः । तत्र योगे हर्ष-गर्व-
धृतयः । अयोगे क्लम-व्याधी । उभयत्र निर्वेद-शङ्का-विषाद-दैन्य-
चिन्ता-स्मृति-व्रीडा-मत्य्-आदयो मृतिश् च । सा योगेऽपि यथा श्री-भीष्मान्तिम-
चरिते - विशुद्धया धारणये [भ्प् 1.9.31] ।
एवं तत्र युधि तु गगरजः [भ्प् 1.9.34] इत्य् आदौ मम निशित-शरैर्
विभिद्यमानत्वची इत्य् अनेनैव स्वापराध-द्योतक-वाक्ये दैन्यम्
उदाहार्यम् । शित-विशिख-हतः [भ्प् 1.9.38] इत्य् आदिकेऽपि ।
॥ 1.9 ॥ श्री-सूतः
[204]
अथ स्थायी चाश्रय-भक्त्य्-आख्यः । यथा -
भवाय नस् त्वं भव विश्व-भावन
त्वम् एव माताथ सुहृत्-पतिः पिता ।
त्वं सद्-गुरुर् नः परमं च दैवतं
यस्यानुवृत्त्या कृतिनो बभूविम ॥ [भ्प् 1.11.7]
अत्र विभावोद्भास्वरानुभाव-वैशिष्ट्येनऐव सात्त्विकादीनाम् अपि
लब्धत्वात् तत्-संवलन-चमत्कारात्म्क-रसोदाहरणम् अपि ज्ञेयम् ।
यथोक्तम् -
सद्-भावश् चेद् विभावादेर् द्वयोर् एकस्य वा भवेत् ।
झटित्य् अन्य-समाक्षेपात् तदा दोषो न विद्यते ॥ [साह्द् 3.17]
अन्य-समाक्षेपश् च प्रकरण-वशाद् इति ।
॥ 1.11 ॥ द्वारका-प्रजाः श्री-भगवन्तम्
[205]
आश्रय-भक्ति-मयो रसो द्विविधः । अयोगात्मको योगात्मकश् च । अयोगो
द्विविधः । प्रथमाप्राप्तिर् वियोगश् च । योगश् च द्विविधः । क्रमेण
द्विविधायोगानन्तरजः सिद्धिस् तुष्टिश् चेति । तत्र प्रथमा प्रात्य्-आत्मकम्
अयोगम् आह-
इति मागध-संरुद्धा भवद्-दर्शन-काङ्क्षिणः ।
प्रपन्नाः पाद-मूलं ते दीनानां शं विधीयताम् ॥ [भ्प् 10.70.31]
अत्र भगवद्-दर्शन-काङ्क्षिण इत्य् अनेन तद्-दर्शनाथैव बन्ध-
मुमुक्षापि विज्ञापिता । ततः स्थायी दर्शितः । पाद-मूलम् आलम्बनम् ।
संरोधी विरोध-मुखेनोद्दीपनः । प्रपत्तिर् उद्भास्वरः । औत्सुक्यं
दैन्यं च सञ्चारिणौ । ताभ्यां सात्त्विकादयश् च ज्ञेयाः ।
॥ 10.60 ॥ राज-दूतः श्री-भगवन्तम्
[206]
एतद्-अनन्तरं सिद्ध्य्-आख्यं योगं तेषाम् एवाह-
ददृशुस् ते घन-श्यामं पीत-कौशेय-वाससम् ।
श्रीवत्साङ्कं चतुर्-बाहुं [भ्प् 10.73.2-3] इत्य् आरभ्य-
पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ॥
जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः ।
प्रणेमुर् हत-पाप्मानो मूर्धभिः पादयोर् हरेः ॥
कृष्ण-सन्दर्शनाह्लाद- ध्वस्त-संरोधन-क्लमाः ।
प्रशशंसुर् हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः ॥ [भ्प् 10.73.5-7]
पिबन्त इत्य् आदाव् इव शब्द उत्प्रेक्षायाम् । तद्-अद्भुत-रूप-दर्शनेन
चक्षुषोर् अत्यन्त-विस्फारणात् पिबन्त इवेत्य् उक्तम् । एवं तदीय-मधुर-
गन्ध-जात-चरणारविन्द-लेहन-लोभात् पुनः पुनर् या जृम्भा जाता तल्-
लिङ्गेन तच्-चरणारविन्दं लिहन्त इवेत्य् उक्तम् । अतएव जिघ्रन्त इव
नासाभ्याम् इति । नासा-पुट-फुल्लतालिङ्गेन तस्य सर्वाङ्गम् एव युगपज्
जिघ्रन्त इवेत्य् उक्तम् । तद्-अर्थम् इव तद्-विस्तारणं कृतम् इत्य् अर्थः ।
तथापि भक्तत्वात् तच्-चरणस्यैवावले (पगे 105) हेच्छा युक्तेति तथा
व्याख्यातम् । एवम् उत्तरत्रापि । परमावेश-कृत-बाहु-चालन-लिङ्गेन तच्-
चरणारविन्दं श्लिष्यन्त इवापीति सर्वथा तद्-आवेश एव तात्पर्यम् ।
॥ 10.73 ॥ श्री-शुकः
[207]
अथ वियोगः । यर्ह्य् अम्बुजाक्षापससार [भ्प् 1.11.9] इत्य् आदौ श्री-द्वारका-
प्रजा-वाक्ये तासां प्रभावो व्यक्तः । श्री-व्रज-प्रजानां च यदुपतिर्
द्विरद-राज-विहारः [भ्प् 10.35.25] इत्य् आदौ-मोचयन् व्रज-गवां दिन-तापम्
इत्य् अनेन सूचितः । व्रज एव तिष्ठतां बुद्ध-बाल-गवाम् अपि किम् उत
मनुष्याणाम् इत्य् अर्थः । अथ तद्-अनन्तरजं तुष्ट्य्-आख्यं योगं
द्वारकआ-प्रजानाम् आह--
आनर्तान् स उपव्रज्य स्वृद्धाæ जन-पदान् स्वकान् ।
दध्मौ दरवरं तेषां विषादं शमयन्न् इव ॥ [भ्प् 1.11.1]
इवेति वाक्यालङ्कारे ।
॥ 1.11 ॥ श्री-सूतः
[208]
श्री-व्रज-प्रजानाम् अपि मोचयन्न् इत्य् आदिनैव व्यक्तः । तथा व्रज-वन-
स्थितानाम् अपि श्री-व्रज-देवी-वाक्यैः वृन्दावनं सखि भुवो वितनोति
कीर्तिम् [भ्प् 10.21.10] इत्य् आदिभिः । हन्त चित्रम् अबला शृणुतेदम् [भ्प् 10.35.4]
इत्य् आदिभिश् च ज्ञेयः ।
अथ दास्य-भक्ति-मयो रसः । तत्रालम्बनः प्रभुत्वेन स्फुरन् दास्य-
भक्त्य्-आश्रयः श्री-कृष्णः । तद्-आधाराः श्री-कृष्ण-लीला-गत-स्वोत्कृष्ट-
तदीय-भृत्याश् च । श्री-कृष्ण इह परमेश्वराकारः श्रीमन्-नराकारश् चेति
द्विविधः पूर्वोक्ताविर्भाव एव । तद्-भृत्याश् च तत्-तद्-अनुशीलत्वेन
द्विविधाः । पुनस् ते च त्रिविधाः । अङ्ग-सेवकाः पार्षदाः प्रेष्याश् च ।
तत्राङ्ग-सेवका अङ्गाभ्यञ्जक-ताम्बूल-वस्त्र-गन्ध-समर्पकादयः ।
पार्षदा मन्त्रि-सारथि-सेनाध्यक्ष-धर्माध्यक्ष-देशाध्यक्षादयः ।
विद्याधदि-चातुर्येण सभा-रञ्जकाश् च । पुरोहितस्य प्राधान्याद् गुरु-
वर्गान्तः-पात एव । पार्षदत्वम् अप्य् अंशेन । प्रेष्याः सादिपदातिशिल्पि-
प्रभृतयः । एते च यथा-पूर्वं प्रायः प्रियतराः । श्रीमद्-उद्धव-
दारुक-प्रभृतीनां त्व् अङ्ग-सेवादि-वैशिष्ट्यम् अप्य् अस्तीति सर्वतोऽप्य्
आधिक्यम् । तत्रापि श्रीमद्-उद्धवस्य बहुशोऽपि त्वं मे भृत्यः सुहृत्
सखा [भ्प् 11.11.49] इत्य् आद्य् उक्तेः ।
अथोद्दीपनाः पूर्वोक्ता एव । तत्र विशेषतोऽङ्ग-सेवकेषु गुणाः सौन्दर्य-
सौकुमार्यादयः । क्रिया शयन-भोजनादिकाः । द्रव्याणि तत्-सेवोपयोग्यानि
तद्-उच्छिष्टानि च । पार्षदेषु गुणाः प्रभुत्वादयः । प्रेष्येषु प्रतापादय
इत्य् आदि ।
अथानुभावाः प्रायः पूर्वोक्ता एव । तथा योगे स्व-स्व-कर्मणि तात्पर्यम् ।
यत् खलु सेवा-समये कम्प-स्तम्भाद्य्-उद्भवम् अपि विलापयति तत्-तत्-
कर्म-तात्पर्यं हि तस्यासाधारणो धर्मः । कम्पादिस् तु सर्व-साधारणस्
ततः पूर्वस्यैव बलवत्त्वम् इति । एवम् अन्यत्रापि रसे यथायथम् उन्नेयम् ।
अथायोगेऽपि स्व-स्व-कर्मानुसन्धानं तद्-अर्चास्व् अपि तत्-तत्-कृतिर् एव वा ।
अथ सञ्चारिणोऽपि प्राग्-उक्ता एव । अथ स्थायी च दास्य-भक्त्य्-आख्यः । स
चाक्रूरादीनाम् ऐश्वर्य-ज्ञान-प्रधानः । श्रीमद्-उद्धवादीनां तत्-तत्-
सद्-भावेऽपि माधुर्य-ज्ञान-प्रधानः । श्री-व्रज-स्थानं तु माधुर्येक-
मय एव ।
अथाप्य् एषां प्रीतेर् भक्तित्वं श्री-गोप-राज-कुमारत्व-परम-गुण-
प्रभावत्वादिनैवादर-सद्-भावात् । तत्राक्रूरस्य ददर्श रामं कृष्णं
च व्रजे गो-दोहनं गतौ [भ्प् 10.28.28] इत्य् आदि लीलायाम् अनुभूत-तादृश-
माधुर्यस्यापि यमुना-ह्रदे दृष्टेन तद्-ऐश्वर्य-विशेषेणैव चमत्कार-
परिपोषात् तत्-प्रधानत्वं व्यक्तम् । श्रीमद्-उद्धवस्य माधुर्य-
प्रधानत्वं (पगे 106) तु श्री-गोकुल-वासि-भाग्य-श्लाघायां स्फुटम् एव
व्यक्तम् । अतएव तादृशस्यापि तस्यैवं स्वेच्छा-मय-नर-लीला-
माधुर्यावेशः स्मर्यमाणो मम तद्-वियोग-खेदं वर्धयतीति
भगवद्-अन्तर्धानानन्तरम् उद्धवः स्वयम् आह-
मां खेदयत्य् एतद् अजस्य जन्म-
विडम्बनं यद् वसुदेव-गेहे ।
व्रजे च वासो ऽरि-भयाद् इव स्वयं
पुराद् व्यवात्सीद् यद्-अनन्त-वीर्यः ॥ [भ्प् 3.2.16] इति ।
[209]
अतएव श्लाघितं यन्-मर्त्य-लीलौपायिकम् [भ्प् 3.2.12] इति । अग्रे परम-
मधुरत्वेन तां लीलाम् अपि वर्णयति-
वसुदेवस्य देवक्यां जातो भोजेन्द्र-बन्धने ।
चिकीर्षुर् भगवान् अस्याः शम् अजेनाभियाचितः ॥
ततो नन्द-व्रजम् इतः पित्रा कंसाद् विबिभ्यता ।
एकादश समास् तत्र गूढार्चिः स-बलो ऽवसत् ॥
परीतो वत्सपैर् वत्सांश् चारयन् व्यहरद् विभुः ।
यमुनोपवने कूजद्- द्विज-सङ्कुलिताङ्घ्रिपे ॥
कौमारीं दर्शयंश् चेष्टां प्रेक्षणीयां व्रजौकसाम् ।
रुदन्न् इव हसन् मुग्ध- बाल-सिंहावलोकनः ॥ [भ्प् 3.2.25-28] इत्य् आदि ।
रुदन्न् इव हसन्न् इति जनन्य्-आद्य्-अग्रे कौमार-चेष्टा-विशेषः ॥
॥ 3.2 ॥ श्रीमान् उद्धवः ॥ 208-209 ॥
[210]
अथ श्री-व्रज-स्थानां माधुर्य-ज्ञानैक-मयत्वम् आह-
पाद-संवाहनं चक्रुः केचित् तस्य महात्मनः ।
अपरे हत-पाप्मानो व्यजनैः समवीजयन् ॥ [भ्प् 10.15.18]
महात्मानो महा-गुण-गण-गुणितस्य हत-पाप्मानो न तु वयम् इव
तादृश-भाग्यान्तराय-लक्षण-पाप-युक्ता इति श्री-शुकदेवस्य दैन्योक्तिस् तत्-
स्पृहातिशयं व्यञ्जयति ।
॥ 10.15 ॥ श्री-शुकः
[211]
तथा हन्तायम् अद्रिर् अबला हरि-दास-वर्यः [भ्प् 10.21.18] इत्य् आदि ।
स्पष्टम् ॥
॥ 10.21 ॥ श्री-गोप्यः
[212]
तद् एतद्-विभावादि-स्थाय्य् अन्त-संवलन-चमत्कारात्मको रसो ज्ञेयः । स च
पूर्ववत् प्रथ्माप्राप्त्य्-आत्मको यथा-
अप्य् अद्य विष्णोर् मनुजत्वम् ईयुषो
भारावताराय भुवो निजेच्छया ।
लावण्य-धाम्नो भवितोपलम्भनं
मह्यं न न स्यात् फलम् अञ्जसा दृशः ॥ [भ्प् 10.38.10]
स्पष्टम् ।
॥ 10.38 ॥ श्री-अक्रूरः
[213]
तद्-अनन्तर-प्राप्ति-लक्षण-सिद्ध्य्-आत्मको, यथा-
भगवद्-दर्शनाह्लाद- बाष्प-पर्याकुलेक्षणः ।
पुलकाचिताङ्ग औत्कण्ठ्यात् स्वाख्याने नाशकन् नृप ॥ [भ्प् 10.38.25]
स्वाख्याने अक्रूरोऽहं नमस्करोमि इत्य् एतल्-लक्षणे ।
॥ 10.38 ॥ श्री-शुकः
[214]
अथ भगवद्-अन्तर्धानान्तरं वियोगात्मको यथा -
इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् ।
प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात् स्मारितेश्वरः ॥
यः पञ्च-हायनो मात्रा प्रातर्-आशाय याचितः ।
तन् नैच्छद् रचयन् यस्य सपर्यां बाल-लीलया ॥
स कथं सेवया तस्य कालेन जरसं गतः ।
पृष्टो वार्तां प्रतिब्रूयाद् भर्तुः पादाव् अनुस्मरन् ॥ [भ्प् 3.2.1-3]
भागवतः श्रीमान् उद्धवः । क्षात्रा विदुरेण । जरसं वर्षाणां
पञ्चविंशत्य्-उत्तर-शतस्य तादृशानां प्राकट्य-मर्यादा-कालस्यान्तिमं
भागम् इत्य् एव विवक्षितं न तु जीर्णत्वम् । (पगे 107) श्री-कृष्ण-सवयसस्
तस्यापि तद्वन् नित्य-वयसत्वेन श्री-कृष्ण-सन्दर्भे स्थापितत्वात्
नोद्धवोऽण्व् अपि मन्-न्यूनः [भ्प् 3.4.31] इति श्री-भगवद्-वाक्य-
वैशिष्ठ्यात् । तत्र प्रवयसोऽप्य् आसन् युवानोऽतिमहौजस [भ्प् 10.45.19] इत्य्
आदिना कैमुत्याच् च ॥
॥ 3.2 ॥ श्री-शुकः
[215]
अत्र कृष्ण-द्युमणि-निम्लोचे [भ्प् 3.2.7] इत्य् आदौ दुर्भगो बत लोकोऽयम् [भ्प्
3.2.8] इत्य् आदिषु चात्मात्मीय-विगर्हादि-लक्षणो विलापश् च ज्ञेयः । अथ
वियोगानन्तर-योग-लक्षण-तुष्ट्य्-आत्मक उदाहार्यः । तत्र साक्षात्कार-
तुल्य-स्फूर्तात्मको यथा तद्-अनन्तरम् एव श्रीमद्-उद्धवस्य-
स मुहूर्तम् अभूत् तूष्णीं कृष्णाङ्घ्रि-सुधया भृशम् ।
तीव्रेण भक्ति-योगेन निमग्नः साधु निर्वृतः ॥ [भ्प् 3.2.4] इत्य् आदि ।
स्पष्टम् ।
॥ 3.2 ॥ श्री-शुकः
[216]
एवम् एव व्रजे तद्-विरह-दुःख-मग्ने कृपया व्यवहार-रक्षार्थं
केषुचिद् अव्यवच्छेदेनैव स्फुरतीत्य् अत एव श्रीमद्-उद्धव-प्रवेशे
केषांचित् सुखम् अपि वर्णितम् । वासितार्थेऽभियुद्धद्भिः [भ्प् 10.46.9] इत्य्
आदिभिश् च । तां दीप-दीप्तैर् मणिभिर् विरेजुः [भ्प् 10.46.45] इत्य् आदिना च ।
अतएव श्री-भगवतापि प्रायः पितरौ प्रेयसीश् चैवोद्दिश्य सन्दिष्टम्
गच्छोद्धव व्रजं सौम्य [भ्प् 10.46.3] इत्य् आदिना । पित्रादीनां तु सर्वत्र
दुःख-मात्र-स्फुरणाद् अन्येषां सुखम् अपि नानुभव-पदवीम् आरोहति ।
अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन् ।
गोपान् व्रजं चात्म-नाथं गावो वृन्दावनं गिरिम् ॥ [भ्प् 10.46.18]
इत्य् आदि श्री-व्रजेश्वर-वचनात् । तत्र श्रीमद्-उद्धव-वासे तु प्रायः
सर्वेषाम् अपि तादृशीं स्फूर्तिं वर्णयति-
उवास कतिचिन् मासान् गोपीनां विनुदन् शुचः ।
कृष्ण-लीला-कथां गायन् रमयाम् आस गोकुलम् ॥
यावन्त्य् अहानि नन्दस्य व्रजे ऽवात्सीत् स उद्धवः ।
व्रजौकसां क्षण-प्रायाण्य् आसन् कृष्णस्य वार्तया ॥
सरिद्-वन-गिरि-द्रोणीर् वीक्षन् कुसुमुतान् द्रुमान् ।
कृष्णं संस्मारयन् रेमे हरि-दासो व्रजौकसाम् ॥ [भ्प् 10.47.54-56]
संसारयन् स्फोरयन्न् इत्य् अर्थः । अतएव विनुदन् शुच इत्य् आदिकम् उक्तम् ।
॥ 10.47 ॥ श्री-शुकः
[217]
अथ साक्षात्कार-लक्षण-तुष्ट्य्-आत्मकं श्रीमद्-उद्धवस्याह-
ततस् तम् अन्तर् हृदि सन्निवेश्य
गतो महा-भागवतो विशालाम् ।
यथोपदिष्टां जगद्-एक-बन्धुना
तपः समास्थाय हरेर् अगाद् गतिम् ॥ [भ्प् 11.29.47]
(पगे 108)
गम्यते इति गतिः । यथोपदिष्टां गतिम् इत्य् अस्य तृतीयानुसारेणायम् अर्थः ।
पूर्वं तत्र तं प्रति श्री-भगवता वेदाहम् अन्त्रमनसीप्सितं ते ददामि
यत् तद् दूर-वापम् अन्यैः [भ्प् 3.4.11] इत्य् अनेन तद्-अभीप्सितं दातुं
प्रतिश्रुतम् । त्वद्-ईप्सित-पूर्त्य्-अर्थं यद्-अन्यैर् दुरवापं तद् ददामीत्य्
अर्थः । तच् च देयं पुरा मया प्रोक्तम् अजाय नाभा [भ्प् 3.4.13] इत्य् आदिना
सङ्क्षेप-भागवत-रूपम् इत्य् उद्दिष्टम् ।
अथ तादृश-तत्-प्रतिश्रुत-श्रवणेन परमोत्सुकतया परम-निजाभीप्सितम्
असौ स्वयम् एव निवेदितवान्--
को न्व् ईश ते पाद-सरोज-भाजां
सुदुर्लभो ऽर्थेषु चतुर्ष्व् अपीह ।
तथापि नाहं प्रवृणोमि भूमन्
भवत्-पदाम्भोज-निषेवणोत्सुकः ॥ [भ्प् 3.4.15] इत्य् अनेन ।
अथागन्तुकं निज-मोह-विशेषं च निवेदितवान्-कर्माण्य् अनीहस्य
भवोऽभवय [भ्प् 3.4.16] इत्य् आदिभ्याम् । तच् च साक्षात्-तद्-उपदेश-बलेन
प्रायः पर-प्रत्यायनार्थम् एव ज्ञेयम् नोद्धवोऽण्व् अपि मन्-न्यूनः [भ्प्
3.4.31] इत्य् आदेः ।
अथ तत्-तद्-अर्थोपयुक्तत्या भगवद्-उद्दिष्टार्थम् अपि प्रार्थितवान् ।
ज्ञानं परं स्वात्म-रहः प्रकाशं प्रोवाच कस्मै [भ्प् 3.4.18] इत्य् आदिना ।
तत्र यद् वृजिनं तरेम इति वृजिनं तादृश-सेवा-विरह-दुःखम् । तादृश-लोक-
मोह-दुःखं च । तत् तरणस्य तद्-रहस्य-ज्ञानाधीनत्वाद् इति भावः ।
ततश् च मद्-अभीष्टं श्री-भगवान् अपि सम्पादितवान् इति श्री-विदुरं प्रति
कथितं श्रीमद्-उद्धवेन स्वयम् एव -
इत्य् आवेदित-हार्दाय मह्यं स भगवान् परः ।
आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् ॥ [भ्प् 3.4.19] इति ।
द्वितीये ब्रह्मणेऽपि परम-वैकुण्ठं दर्शयता तेनात्मनः परम-
भगवत्ता-रूपा स्थितिर् दर्शिता । सा च श्री-द्वारका-वैभव-रूपेति श्री-
भगवत्-सन्दर्भे स्थापितम् अस्ति । सङ्क्षेप-श्री-भागवत-रूपया चतुः-
श्लोक्या च । तस्य तादृशत्वेऽपि विचित्र-लीला-भक्त-परवशत्व-रूपासाव् इति
तत्रैव बोधितम् ।ततस् तद्-अनुभवेनोभयत्रापि श्रीमद्-उद्धवस्य
धैर्यं जातम् इति तत्-तद्-उपयोगः । ततश् च ताम् एव तद्-उपदिष्टां गतिं
जगामेत्य् अर्थः । तथैवोप्द्दिष्टम् अन्ते तं प्रत्य् एकादशे -
ज्ञाने कर्मणि योगे च वार्तायां दण्ड-धारणे ।
यावान् अर्थो नृणां तात तावांस् ते ऽहं चतुर्-विधः ॥ [भ्प् 11.29.33] इति ।
तस्य श्री-कृष्ण-रूपा गतिश् चेयं श्री-शुक-द्वारा श्री-भागवत-प्रचारात्
पूर्वम् एव ज्ञेया । स्व-ज्ञान-प्रचारार्थम् एव हि सोऽयं पृथिव्यां रक्षितः ।
तद्-अनन्तरं चरितार्थत्वात् न प्रयोजनम् इति । किन्तु काम-व्यूहेन श्रीमद्-
व्रजेऽप्य् अस्य तत्-प्राप्तिर् ज्ञेया । आसाम् अहो चरण-रेणु-जुषाम् अहं स्याम् [भ्प्
10.47.61] इति दृढ-मनोरथावगमात् ।
॥ 11.29 ॥ श्री-शुकः
[218]
अथ प्रश्रय-भक्ति-मयो रसः । तत्रालम्बनो लालकत्वेन स्फुरन् प्रश्रय-
भक्ति-विषयः श्री-कृष्णश् च पूर्ववत् परमेश्वराकारः श्रीमन्-नराकारश्
चेति द्विविधाविर्भावः । तत्-तद्-आश्रयत्वेन च लाल्याश् च त्रिविधाः । तत्र
परमेश्वराकाराश्रया ब्रह्मादयः । श्रीमन्-नराकाराश्रयाः श्री-
दशाक्षर-ध्यान-दर्शित-श्री-गोकुल-पृथुकाः । उभयाश्रयाः श्री-
द्वारका-जन्मानः । ते (पगे 109) च सर्वे यथायथं पुत्रानुज-
भ्रातुष्पुत्रादयः । तत्र पुत्राः केचिद् गुणतः केचिद् आकारतः केचिद्
उभयतश् च तद्-अनुहारि-प्रायाः । तत्र गुणानुहारित्वम् आह--
एकैकशस् ताः कृष्णस्य पुत्रान् दश-दशाबलाः ।
अजीजनन्न् अनवमान् पितुः सर्वात्म-सम्पदा ॥ [भ्प् 10.61.1]
[219]
तत्र साम्बादीनां श्री-कृष्ण-श्लाघित-गुणत्वम् आह -- जाम्बवत्याः सुता ह्य्
एते साम्बाद्याः पितृ-सम्मताः [भ्प् 10.61.12] इति ।
[220]
अतः श्री-साम्बस्यैकादशादो श्रुतम् अन्यथा-चेष्टितं श्री-कृष्णस्य
मर्यादा-दर्शक-तत्-तल्-लीलेच्छयैव । तत्र श्री-रुक्मिणी-पुत्रास् तु तेष्व् अपि
श्रेष्ठा इत्य् आह-प्रद्युम-प्रमुखा जाता रुक्मिण्यां नावमाः पितुः [भ्प्
10.61.9] इति । अत्र पुनर् उक्तिर् एव श्रैष्ठ्य-बोधिका ।
॥ 10.61 ॥ श्री-शुकः ॥ 218-220 ॥
[221]
तत्र श्री-प्रद्युम्नस्यातिशयम् आह-
कथं त्व् अनेन सम्प्राप्तं सारूप्यं शार्ङ्ग-धन्वनः ।
आकृत्यावयवैर् गत्या स्वर-हासावलोकनैः ॥ [भ्प् 10.55.33]
स्पष्टम् ।
॥ 10.55 ॥ श्री-रुक्मिणी
[222]
किं च-
यं वै मुहुः पितृ-सरूप-निजेश-भावास्
तन्-मातरो यद् अभजन् रह-रूठ-भावाः ।
चित्रं न तत् खलु रमास्पद-बिम्ब-बिम्बे
कामे स्मरे ऽक्ष-विषये किम् उतान्य-नार्यः ॥ [भ्प् 10.55.40]
यं प्रद्युम्नं तन्-मातरो मुहुर् अभजन् द्रष्टुम् आगताः पुनर् लज्जया
रह एकान्त-देशं च अभजन् निलिल्युर् इत्य् अर्थः । तद् एवं यद् अभजन् तत्
खलु रमास्पद-बिम्बस्य लक्ष्मी-विलास-भुमि-मुर्तेर् बिम्बे प्रतिमूर्तौ
तस्मिन् न चित्रम् । बालकस्य पितृ-सादृश्ये मातॄणां वात्सल्योद्दीप्ति-
सम्भवात् । तत्र यच् च रहः अभजन् तद् अपि न चित्रम् इत्य् आह पितृ-स्वरूप-
निजेश-भावाः । तद्-अनन्तरं पितुः श्री-कृष्णस्य स-रूपेण सारूप्यातिशयेन
निजेशस्य आत्मीय-प्रभु-मात्र-बुद्ध्यावगतस्य न तु रमण-
बुद्ध्यावगतस्य श्री-कृष्णस्य भावः स्फूर्तिर् यासु ताः । ततो लज्जा-हेतुकं
रहो-भजन-लक्षणं पलायनम् अप्य् उचितम् एवेति भावः । तथोक्तम् एतत्
प्राग् एव - तं दृष्ट्वा जलद-श्यामम् [भ्प् 10.55.27] इत्य् आदौ कृष्णं मत्वा
स्त्रियो ह्रीता निलिल्युस् तत्र तत्र ह [भ्प् 10.55.28] इति । तत्र प्रभुत्व-मात्र-
स्फूर्तौ हेतुः रूढ-भावाः रूढः श्री-कृष्णे बद्ध-मूलः भावः
कान्ताभावो यासां ताः । कदाचिद् अन्यत्र चेतने तत्-सादृश्यातिशयेनेश्वर-
भावः स्फुरतु नाम रमण-भावस् तु न सर्वेथेत्य् अर्थः । श्री-
रुक्मिण्यास् तत्-सदृश-वत्सलाया अन्यस्याश् चेश्वर-भावोऽपि नोदयते किन्तु
सर्वथा पुत्र-भाव एव तत्-सारूप्येणोद्दीप्तः स्यात् । यथोक्तं श्री-रुक्मिणी-
देव्यैव कथं त्व् अनेन सम्प्राप्तम् [भ्प् 10.55.33] इत्य् आद्य्-अनन्तरं -
स एव वा भवेन् नूनं यो मे गर्भे धृतो ऽर्भकः ।
अमुष्मिन् प्रीतिर् अधिका वामः स्फुरति मे भुजः ॥ [भ्प् 10.55.34]
तद् एवं तासाम् अपि यत्र रमास्पद-बिम्ब-बिम्बत्वेन तादृशी भ्रान्तिस् तत्र
परम-मोहने रमास्पद-बिम्बस्यैवाप्राकृत-काम-रूपांशे जगद्-गत-
निजांशेन स्मरे स्मरण-पथं गत्वापि क्षोभके सम्प्रति तु स्वयम्
एवाक्ष-विषयतां प्राप्ते सति अन्य-नार्यः किम् उत सृष्ट्वैव मोहं प्राप्तम्
उइच्ता इत्य् अर्थः ।
॥ 10.55 ॥ श्री-शुकः
(पगे 110)
अथ उद्दीपनाः । गुणाः स्व-विषयक-श्री-कृष्ण-वात्सल्य-स्मित-प्रेक्षादयः ।
तया तस्य कीर्ति-बुद्धि-बलादीनां परम-महत्त्वं च तथा जाति-
क्रियादयोऽपि यथा-योगम् अगन्तव्याः ।
अथ अनुभावाः । बाल्ये मुहुस् तं प्रति मृदु-वाचा स्वैर-प्रश्न-
प्रार्थनादिकम् । तद्-अङ्गुलि-बाह्व्-आद्य्-आलम्बनेन स्थितिः । तद्-
उत्सङ्गोपवेशः । तत्-ताम्बुल-चर्वित-दानम् इत्य् आद्याः । अन्यदा तद्-आज्ञा-
प्रतिपालन-तच्-चेष्टानुसरण-स्वैरता-विमोक्षादयः । उभयत्र तद्-
अनुगतिः ।
सात्त्विकाश् च सर्वे । अथ व्यभिचारिणः पूर्वोक्ता एव । अथ स्थायी च
प्रश्रय-भक्त्य्-आख्यः । तत्र बाल्येऽतिलाल्यताभिमानमयत्वेन प्रश्रय-
बीजस्य दैन्यांशस्य सद्-भागात् तद्-आख्यत्वम् । तत्र बाल्योदाहरणम्
अवगन्तव्यम् । अन्यदीयं यथा-निशम्य प्रेष्ठम् आयान्तम् [भ्प् 1.11.16]
इत्य् आदौ ।
प्रद्युम्नश् चारुदेष्णश् च साम्बो जाम्बवती-सुतः ।
प्रहर्ष-वेगोच्छशित-शयनासन-भोजनाः ॥
वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः ।
शङ्ख-तूर्य-निनादेन ब्रह्म-घोषेण चादृताः ।
प्रत्युज्जग्मू रथैर् हृष्टाः प्रणयागत-साध्वसाः ॥ [भ्प् 1.11.19]
प्रणयोऽत्र भक्ति-विशेषः ।
॥ 1.11 ॥ श्री-सुतः
[224]
एवम् अत्र विभावादि-संवलनात्मके प्रश्रय-भक्ति-मये रसे पूर्ववद्
योगादयोऽपि भेदा ज्ञेयाः । इति भक्तिमयो रसः ।
अथ वात्सल्य-मयो वत्सलाख्यो रसः । तत्रालम्बनः लाल्यत्वेन स्फुरन्
वात्सल्य-विषयः श्री-कृष्णस् तद्-आधारास् तत्-पित्रादि-रूपा गुरवश् च । तत्र
श्री-कृष्णः श्रीमन्-नराकार एव । अथ गुरवः । तत्र भक्त्य्-आदि-मिश्राः
श्री-वसुदेव-देवकी-कुन्ती-प्रभृतयः । शुद्धास् तु श्री-यशोदा-नन्द-तत्-
सवयो-बल्लवी-बल्लव-प्रभृतयः । स्वाभाविकं चैषां वात्सल्योपयोगि
वैदुष्यं --
गोप्यः संस्पृष्ट-सलिला अङ्गेषु करयोः पृथक् ।
न्यस्यात्मन्य् अथ बालस्य बीज-न्यासम् अकुर्वत ॥ [भ्प् 10.6.21] इत्य् आदिभिः
स्पष्टम् ।
अथोद्दीपनेषु गुणाः । तत्र प्रथमतस् तस्य तदीय-लाल्य-भावम् आह-
तां स्तन्य-काम आसाद्य मथ्नन्तीं जननीं हरिः ।
गृहीत्वा दधि-मन्थानं न्यषेधत् प्रीतिम् आवहन् ॥ [भ्प् 10.9.4]
स्पष्टम् ।
॥ 10.9 ॥ श्री-शुकः
[225]
एवम्-
उवाच पितराव् एत्य साग्रजः सात्वतर्षभः ।
प्रश्रयावनतः प्रीणन्न् अम्ब तातेति सादरम् ॥ [भ्प् 10.45.2] इत्य् आदि ।
इति माया-मनुष्यस्य [भ्प् 10.45.10] इत्य् आद्य्-अन्तम् । पितरौ श्री-देवकी-
वसुदेवौ । प्रीणन् प्रीणयन् ।
॥ 10.45 ॥ श्री-शुकः
[226]
अथ शैशव-चापल्यम् आह-
शृङ्ग्य्-अग्नि-दंष्ट्र्य्-असि-जल-द्विज-कण्टकेभ्यः
क्रीडा-पराव् अतिचलौ स्व-सुतौ निषेद्धुम् ।
गृह्याणि कर्तुम् अपि यत्र न तज्-जनन्यौ
शेकात आपतुर् अलं मनसो ऽनवस्थाम् ॥ [भ्प् 10.8.25]
[227]
तथा -
कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमार-चापलम् ।
शृण्वन्त्याः किल तन्-मातुर् इति होचुः समागताः ॥ [भ्प् 10.8.28]
वत्सान् मुञ्चन् क्वचिद् असमये [भ्प् 10.8.29] इत्य् आदि ।
[228]
गोप्यश् चेमाः श्री-व्रजेश्वर्याः स्व-वयसः सम्बन्धिन्यः श्री-कृष्णस्यैव
प्रौढ-भ्रातृजायाश् च । अन्यदा प्रश्रयो लज्जा प्रियंवदत्वं सारल्यं
दातृत्वम् इत्य् आदयः । तत्राद्योदाहरणं कुरुक्षेत्र-यात्रायां कृष्ण-रामौ
परिष्वज्य पितराव् अभिवाद्य च [भ्प् 10.82.34] इत्य् आदिकम् । (पगे 111)
अतो बालत्वेन मतत्वाद् इन्द्र-मख-प्रसङ्गे प्रागल्भ्यम् अपि तेषां
सुखदम् । कान्त्वयव-वयसां सौन्दर्यं सर्व-सल्-लक्षणत्वं पूर्ण-
कैशोर-पर्यन्तं वृद्धिर् इत्य् आदयस् तु सर्वदैव । तत्रान्त्या यथा-
कालेन व्रजताल्पेन गोकुले राम-केशवौ ।
जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ॥ [भ्प् 10.8.21] इत्य् आदि ।
[229]
तथा-
कालेनाल्पेन राजर्षे रामः कृष्णश् च गोकुले ।
अघृष्ट-जानुभिः पद्भिर् विचक्रमतुर् अञ्जसा ॥ [भ्प् 10.8.26]
स्पष्टम् ।
॥ 10.8 ॥ सः ॥ 226-229 ॥
[230]
जातिस् तु पूर्वोक्ता । क्रियाश् च जन्म-बाल्य-क्रीडादयः । तत्र नन्दस् त्व् आत्मज
उत्पन्नः [भ्प् 10.5.1] इत्य् आदिना जन्म दर्शितम् । बाल्य-क्रीडाम् आह-
ताव् अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ
घोष-प्रघोष-रुचिरं व्रज-कर्दमेषु ।
तन्-नाद-हृष्ट-मनसाव् अनुसृत्य लोकं
मुग्ध-प्रभीतवद् उपेयतुर् अन्ति मात्रोः ॥ [भ्प् 10.8.22] इत्य् आदि ।
यर्ह्य् अङ्गना-दर्शनीय-कुमार-लीलाव्
अन्तर्-व्रजे तद् अबलाः प्रगृहीत-पुच्छैः ।
वत्सैर् इतस् तत उभाव् अनुकृष्यमाणौ
प्रेक्षन्त्य उज्झित-गृहा जहृषुर् हसन्त्यः ॥ [भ्प् 10.8.24]
स्पष्टम् ।
॥ 10.8 ॥ सः
[232]
आदि-ग्रहणात् पौगण्डादौ माल्यमाननादयो ज्ञेयाः । अथ द्रव्याणि च तत्-
क्रीडा-भाण्ड-वसनादीनि । कालाश् च तज्-जन्म-दिनादयः । तत्र जन्म-दिनं
यथा-
कदाचिद् औत्थानिक-कौतुकाप्लवे
जन्मर्क्ष-योगे समवेत-योषिताम् ।
वादित्र-गीत-द्विज-मन्त्र-वाचकैश्
चकार सूनोर् अभिषेचनं सती ॥ [भ्प् 10.4.7] इत्य् आदि ।
स्पष्टम् ।
॥ 10.8 ॥ सः
[233]
अथानुभावेषूद्भास्वराः । तत्र लालनम्-
तयोर् यशोदा-रोहिण्यौ पुत्रयोः पुत्र-वत्सले ।
यथा-कामं यथा-कालं व्यधत्तां परमाशिषः ॥
गताध्वान-श्रमौ तत्र मज्जनोन्मर्दनादिभिः ।
नीवीं वसित्वा रुचिरां दिव्य-स्रग्-गन्ध-मण्डितौ ॥
जनन्य्-उपहृतं प्राश्य स्वाद्व् अन्नम् उपलालितौ ।
संविश्य वर-शय्यायां सुखं सुषुपतुर् व्रजे ॥ [भ्प् 10.15.44-46]
स्पष्टम् ।
॥ 10.8 ॥ सः
[234]
शिरो-घ्राणम् ।
नन्दः स्व-पुत्रम् आदाय प्रेत्यागतम् उदार-धीः ।
मूर्ध्न्य् उपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ [भ्प् 10.6.43]
स्पष्टम् ।
॥ 10.6 ॥ सः
[235]
आशीर्वादः -
ता आशिषः प्रयुञ्जानाश् चिरं जीवेति बालके ।
हरिद्राचूर्ण-तैलाद्भिः सिञ्चन्त्योऽजनम् उज्जगुः ॥ [भ्प् 10.52.15]
स्पष्टम् ।
॥ 10.15 ॥ सः
[236]
हितोपदेश-दानम् ।
कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब ।
अलं विहारैः क्षुत्-क्षान्तः क्रीडा-श्रान्तो ऽसि पुत्रक ॥ [भ्प् 10.11.15] इत्य् आदि ।
स्पष्टम् ।
॥ 10.11 ॥ श्री-व्रजेश्वरी श्री-कृष्णम्
[237]
इदम् अखिलं साधारण-वत्सलानाम् अपि स्यात् । पित्रोस् तु विशेषतः । तत्र हित-
प्रवर्तनार्थ-तर्जनादिकं यथा-
एकदा क्रीडमानास् ते रामाद्या गोप-दारकाः ।
कृष्णो मृदं भक्षितवान् इति मात्रे न्यवेदयन् ॥ (पगे 112)
सा गृहीत्वा करे कृष्णम् उपालभ्य हितैषिणी ।
यशोदा भय-सम्भ्रान्त- प्रेक्षणाक्षम् अभाषत ॥
कस्मान् मृदम् अदान्तात्मन् भवान् भक्षितवान् रहः ।
वदन्ति तावका ह्य् एते कुमारास् ते ऽग्रजो ऽप्य् अयम् ॥ [भ्प् 10.8.32-34]
स्पष्टम् ।
॥ 10.8 ॥ सः
[238]
यदा च दधि-मण्ड-भाजन-भेदनादि-चापल्यानन्तरं -
कृतागसं तं प्ररुदन्तम् अक्षिणी
कषन्तम् अञ्जन्-मषिणी स्व-पाणिना ।
उद्वीक्षमाणं भय-विह्वलेक्षणं
हस्ते गृहीत्वा भिषयन्त्य् अवागुरत् ॥
त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भक-वत्सला ।
इयेष किल तं बद्धुं दाम्नातद्-वीर्य-कोविदा ॥ [भ्प् 10.9.11-12]
स्पष्टम् ।
॥ 10.9 ॥ सः
[239]
अथ तर्जन-विस्वादौषध-पायनादिवत्-तदात्व-भवं तत्-सुखम् अप्य्
अतिक्रम्यायातिभद्रायैतत् समृद्धये चेष्टा यथा-
तम् अङ्कम् आरूढम् अपाययत् स्तनं
स्नेह-स्नुतं स-स्मितम् ईक्षती मुखम् ।
अतृप्तम् उत्सृज्य जवेन सा ययाव्
उत्सिच्यमाने पयसि त्व् अधिश्रिते ॥ [भ्प् 10.9.5]
यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते [भ्प् 10.14.35] इत्य्
अनेन कैमुत्य-प्राप्तेस् तद्-गृह-सम्पत्ति-सम्पादन-प्रयत्नस् तु सुतराम्
एव तदायति-समृद्ध्य्-अर्थ एव । तत्र गोप-जातीनां सत्य् अपि महा-सम्पत्त्य्-
अन्तरे तत्-कारणे च दुग्ध-हेतुक-सम्पत्त्य्-अर्थम् एव्व महान् आग्रहः
स्वाभाविकः । तस्माद् आयतीयतत्-सम्पत्ति-वर्धनार्थं दुग्ध-रक्षायाम्
औत्सुख्यम् इदं वात्सल्य-विलसितम् एव सत् वात्सल्यं पुष्णाति समुद्रम् इव
तरङ्ग-सङ्घः । अत्र तस्या हृडयम् ईदृशम् अयं सम्पत्ति-रक्षां न
जानाति । ततः सम्प्रति मद्-एक-कर्तव्यासाव् इति । अत्र च स्नेह-स्नुतम् इति
स्वाभाविक-गाढ-स्नेहं दर्शयित्वा तथैव सूचितम् । एवं तत्-कृते दधि-
मण्ड-भाण्ड-भङ्गेऽपि तस्या बहिर् एव कोपाभासो दर्शितः । मनसि तु
प्रबल-चापल्य-दर्शनेन हर्ष एव । यथाह-
उत्तार्य गोपी सुशृतं पयः पुनः
प्रविश्य संदृश्य च दध्य्-अमत्रकम् ।
भग्नं विलोक्य स्व-सुतस्य कर्म तज्
जहास तं चापि न तत्र पश्यती ॥ [भ्प् 10.9.7]
स्पष्टम् ।
॥ 10.9 ॥ सः
[241]
अथ दुःखेऽपि तत्-प्रस्तोभनार्थं --
उलूखलं विकर्षन्तं दाम्ना बद्धं स्वम् आत्मजम् ।
विलोक्य नन्दः प्रहसद्- वदनो विमुमोच ह ॥ [भ्प् 10.11.6]
प्रहसद्-वदनम् इति तु पाठः क्वचित् ।
॥ 10.11 ॥ सः
[242]
अथ दुष्ट-जीवादिभ्योऽनिष्ट-शङ्खाम् आह--
जन्म ते मय्य् असौ पापो मा विद्यान् मधुसूदन ।
समुद्विजे भवद्-धेतोः कंसाद् अहम् अधीर-धीः ॥ [भ्प् 10.3.29]
स्पष्टम् ।
॥ 10.3 ॥ श्री-देवकी
[243]
एवं शृङ्ग्य्-अग्निर्-दंष्ट्र्य्-अहि-जल-द्विज [भ्प् 10.8.15] इत्य् आदिकं दर्शितम् ।
अथ तच्-छ्रेयो-निबन्धना देवादि-पूजा-
तैस् तैः कामैर् अदीनात्मा यथोचितम् अपूजयत् ।
विष्णोर् आराधनार्थाय स्व-पुत्रस्योदयाय च ॥ [भ्प् 10.5.16]
अनेन विष्णुः प्रीणातु तेन च मत्-पुत्रस्योदयो भवत्व् इति सङ्कल्प्य सर्वा
यथोचिताम् अपूजयद् इत्य् अर्थः ।
॥ 10.5 ॥ सः
[244]
तथान्येषां सम्यङ्-निर्णीत एव प्रभावे तत्-कार्यस्य प्रकारान्तर-
कारणता-भावना सम्भवति । यथा-
अहो बतात्य्-अद्भुतम् एष रक्षसा (पगे 113)
बालो निवृत्तिं गमितो ऽभ्यगात् पुनः ।
हिंस्रः स्व-पापेन विहिंसितः खलः
साधुः समत्वेन भयाद् विमुच्यते ॥ [भ्प् 10.7.31] इति ।
श्रीमत्-पित्रोस् तु सम्यङ्-निर्णीतेऽपि सम्भवति यथा श्रीमती माता किं
स्वप्नः [भ्प् 10.8.40] इत्य् आदिना श्री-कृष्णस्य विश्वोदरादित्वं स्वभावं
मत्वापि पुनस् तद् असम्भवं मन्वाना अथो यथावन् न वितर्क-गोचरम्
[भ्प् 10.8.14] इत्य् आदिना । तच् च परमेश्वर-निर्मितम् इत्य् अङ्गीकृतवती ।
उत्पातवत् तन्-निवृत्त्य्-अर्थं तच्-चरणारविन्दम् एव शरणत्वेनाश्रतवती च ।
पुनश् च अहं ममासौ [भ्प् 10.8.41] इत्य् आदिना निज-भावम् एव दृढीकृत्य
तच्-छरणत्वम् एवावधारितवती । अहं ममासौ पतिर् एष मे सुतः इत्य्
आदिकम् इदन्ता-निर्दिष्टत्वेन प्रत्यक्ष-सिद्धम् एव । तथापि यन्-
माययेत्थं [भ्प् 10.8.42] एतन्-नाना-प्रकारेण विश्वरूप-दर्शनाकारा
कुमतिः । स एवेश्वरो मम गतिर् इत्य् अर्थः ।
यच् च इत्थं विदित-तत्त्वायां [भ्प् 10.8.43] इत्य् आदिकं तद्-अन्ते श्री-शुक-
वाक्यं तत्रापि तत्त्वं पुत्रत्वम् । स ईश्वरः [भ्प् 10.8.43] श्री-
कृष्णस्यैवेश्वर-रूपो य आविर्भाव-विशेषः । यत्रैव प्रणतास्मि तत्-पदम्
[भ्प् 10.8.41] इति तद्-वाक्यानुसन्धानजम् अपि पर्यवसितं, स एव व्यज्यते ।
वैष्णवीम् इति विशेषएएन माया-शब्दस्य शक्ति-मात्र-वाचकत्वेन तस्यास् तत्-
स्वरूप-शक्तित्वं बोध्यते । दया-मात्र-वाचकत्वेन वा ।
अतएव त्रय्या चोपनिषद्भिश् च [भ्प् 10.8.45] इत्य् आदिना, नायं सुखापो
भगवान् [भ्प् 10.9.21] इत्य्-आद्य्-अन्तेन ग्रन्थेन तत्-प्रशंसापि कृता । एवम्
अपि स्मरति नः कृष्णः [भ्प् 10.46.18] इत्य्-आदिकस्य, अप्य् आयास्यति गोविन्दः
[भ्प् 10.46.19] इत्य्-आदिकस्य च स्वभावोचित-श्री-व्रजेश्वर-वाक्यस्यान्ते लोक-
रीत्या तद्-दुःख-शान्त्य्-अर्थं श्रीमद्-उद्धवेन युवां श्लाघ्यतमौ
नूनं [भ्प् 10.46.30] इत्य् आदिना तत्-स्तुति-गर्भ-तत्त्वोपदेशे कृतेऽपि तद्-भाव-
नैश्चल्यं दर्शितम् । एवं निशा सा ब्रुवतोर् व्यतीता नन्दस्य कृष्णानुचरस्य
राजन् [भ्प् 10.46.44] इति ।
एवं श्री-व्रजेश्वरस्य वियोग-दुःख-व्यञ्जना-प्रकारेण श्रीमद्-
उद्धवस्य तत्-सान्त्वना-प्रकारेणेत्य् अर्थः । अतस् तद्-भाव-नैश्चल्यम् ।
तत्त्वोपदेशस्य वास्तवम् अर्थान्तरं तु श्री-कृष्ण-सन्दर्भे दर्शितम् अस्ति ।
एवं कुरुक्षेत्र-यात्रायां परितः स्तुवत्स्व् अपि तादृश-महा0मुनि-गोष्ठी-
प्रभृतिषु विख्यायमानेऽपि श्री-वसुदेव-पुत्रत्वे श्री-व्रजेश्वरयोस् तद्-
भाव-नैश्चल्यं, यथा-
ताव् आत्मासनम् आरोप्य बाहुभ्यां परिरभ्य च ।
यशोदा च महा-भागा सुतौ विजहतुः शुचः ॥ [भ्प् 10.82.35] इति ।
अतएव मनसो वृत्तयो नः स्युः [भ्प् 10.47.66] इत्य्-आदि-द्वये श्रीमद्-उद्धवं
प्रति श्री-कृष्णैश्वर्य-प्रतिपादक-तद्-उपदेशाभ्युपगम-वादेनापि
तथोक्तम् । तादृशेऽपि तस्मिन् प्रतिजन्मैव स्वीयां रतिम् एव प्रार्थयामह
इत्य् अर्थः । एषा तेषां रति-प्रार्थना चानुराग-मय्य् एव न तु (पगे 114) तद्-
अभाव-मयी -
तं निर्गतं समासाद्य नानोपायन-पाणयः ।
नन्दादयो ऽनुरागेण प्रावोचन्न् अश्रु-लोचनाः ॥ [भ्प् 10.47.65] इत्य् उक्तत्वात् ।
तस्मात् तदीयानुराग-योग्यम् एव व्याख्येयम्, न त्व् ऐश्वर्य-ज्ञान-कृत-
भक्ति-योग्यम् । यथा यद्यपि तत्-प्राप्ति-भाग्यम् अस्माकं दूरे वर्तते
तथापि तदीया रतिर् अस्तु मापयात्व् इति काकुः । तादृश-रागानुरूपम् एव
जीवान्तर-साधारण्येनोक्तम् - कर्मभिर् भ्राम्यमाणानाम् [भ्प् 10.47.67]
इति ।
तद् एवं केवल-वात्सल्यानुरूपम् अर्थान्तरं च सिध्यति, यतः पाद-शब्द-
प्रयोगो वात्सल्येऽपि सम्प्रति प्राप्त्य्-असम्भावनामयात् दूर-देश-वियोगाद्
दैन्येन युक्तः । तथैव हि चित्रेकेतोः करुण-रसे दृष्टम् अस्ति । तत्-
प्रह्वणश् च तत्-कर्तृकं प्रह्वणं नमस्कार इत्य् अर्थः । पूर्ववद् ईश्वर-
शब्दश् च लालनयैव प्रयुक्तः । लोकेऽपि तादृग्-उक्ति-दर्शनाद् इति । इत्य् आदयः
उद्भास्वराः ।
अथ सात्त्विकाश् च पूर्ववद् अष्टौ । मातुस् तु नव, स्तन्य-स्रव-सहितत्वात् ।
अथ सञ्चारिणोऽप्य् अत्र प्रसिद्धा एव । ते च साक्षाच् छ्री-कृष्ण-कृत-लीला-जातास्
तल्-लीला-शक्ति-कृतैश्वर्य-मय-लीला-जाताश् च ज्ञेयाः । क्रमेण यथा--
कस्मान् मृदम् अदान्तात्मन् [भ्प् 10.8.34] इत्य् आदाव् अमर्षः । सा तत्र ददृशे
विश्वं [भ्प् 10.8.37] इत्य् आदौ विस्मयः शङ्का चेत्य् आदि ।
अथ वात्सल्याख्यः स्थायी । स यथा-
तन्-मातरौ निज-सुतौ घृणया स्नुवन्त्यौ
पङ्काङ्ग-राग-रुचिराव् उपगृह्य दोर्भ्याम्
दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य
मुग्ध-स्मिताल्प-दशनं ययतुः प्रमोदम् ॥ [भ्प् 10.8.23]
तयोः श्री-कृष्ण-रामयोर् मातरौ । घृणया कृपया ॥
॥ 10.8 ॥ श्री-शुकः
[245]
तद् एवं विभावादि-संवलन-चमत्कारात्मको वत्सल-रसः । तस्य च
प्रथम-प्राप्ति-मयो भेदो यथा-
गोप्यश् चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् ।
आत्मानं भूषयां चक्रुर् वस्त्राकल्पाञ्जनादिभिः ॥ [भ्प् 10.5.9] इत्य् आदि ।
स्पष्टम् ।
॥ 10.5 ॥ सः
[246]
अथ च तद्-अनन्तर-प्राप्ति-लक्षण-सिद्ध्य्-आत्मको, यथा स आशिषः [भ्प्
10.5.12] इत्य् आदौ । अथ वियोगात्मको, यथा-
इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्त-धीः ।
अत्य्-उत्कण्ठो ऽभवत् तूष्णीं प्रेम-प्रसर-विह्वलः ॥
यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च ।
शृण्वन्त्य् अश्रूण्य् अवास्राक्षीत् स्नेह-स्नुत-पयोधरा ॥ [भ्प् 10.46.27-28]
स्पष्टम् ।
॥ 10.46 ॥ सः
[247]
अथ तद्-अनन्तर-तुष्ट्य्-आत्मको यथा ताव् आत्मासन्नम् आरोप्य [भ्प् 10.82.35]
इत्य् आदौ । यथा च तत्रैव-
नन्दस् तु सख्युः प्रिय-कृत् प्रेम्णा गोविन्द-रामयोः ।
अद्य श्व इति मासांस् त्रीन् यदुभिर् मानितो ऽवसत् ॥ [भ्प् 10.84.66]
गोविन्द-रामयोः प्रेम्णा हेतुना मांसांस् त्रीन् अवसत् । तच् च मास-त्रयम्
अद्य श्व इति कृत्वा अवसद् इत्य् अर्थः । अत्यन्त-परमानन्देन तत्र दिन-
द्वयम् इवावसद् इत्य् अर्थः । कथम्भूतः सन्न् अवसत् । सख्युः श्री-
वसुदेवस्य प्रिय-कृद् एव सन् तद्-अग्रे श्री-कृष्णं प्रति स्व-पुत्र-
भावाप्रकटनेन व्यवहरंस् तस्य व्रज-नयनाग्रहं साक्षान् न कुर्वन्न्
इत्य् अर्थः । तथा यदुभिर् मानितश् चावसद् इति ।
[248]
तद्-अनन्तरम् अपि पुनर् वियोगात्मको यथा-
ततः कामैः पूर्यमाणः स-व्रजः सह-बान्धवः ।
परार्ध्याभरण-क्षौम- नानानर्घ्य-परिच्छदैः ॥
वसुदेवोग्रसेनाभ्यां कृष्णोद्धव-(पगे 115) बलादिभिः ।
दत्तम् आदाय पारिबर्हं यापितो यदुभिर् ययौ ॥
नन्दो गोपाश् च गोप्यश् च गोविन्द-चरणाम्बुजे ।
मनः क्षिप्तं पुनर् हर्तुम् अनीशा मथुरां ययुः ॥ [भ्प् 10.84.67-69]
कामैः श्री-कृष्ण-व्रजागमनादि श्री-कृष्ण-व्रजागमनादि-रूपैर्
अभिलाषैर् निभृतं श्री-कृष्णेन पूर्यमाणः तद्-अङ्गीकारेण सन्तोष्यमाण
इत्य् अर्थः । श्री-राम-व्रजागमने तान् उद्दिश्य कृष्णे कमल-पत्राक्षे
सन्न्यस्ताखिल-राधसः [भ्प् 10.65.6] इति श्री-शुकोक्तेः । तत्रैव कृष्णे कृष्ण-
प्राप्त्य्-अर्थं कमल-पत्राक्षे सन्न्यस्ताखिल-राधसस् त्यक्त-सर्व-विषया
इति टीकोक्तिः । ततः श्री-वसुदेवादिभिः कर्तृभिः परार्ध्याभरणादिभिः
कृत्वा दत्तं यत् पारिबर्हं तत् तेषां प्रीतिमयत्वेनैवादायेत्य् अर्थः । यापितो
महता सैन्येन प्रस्थापितः । तद्-अनन्तरं तेषां पुनर् अत्यन्त-
प्रेमावेशं वर्णयति नन्द इत्य् आदि । माथुरान् इति तत्रैव तेन रूपेणैव
केवल-स्व-सम्भन्धितया तेषां श्री-कृष्ण-प्राप्त्य्-आग्रहो दर्शितः ।
॥ 10.84 ॥ सः ॥ 247-248 ॥
[249]
एतद्-अनन्तरं यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ
सुहृद्-दिदृक्षया [भ्प् 1.11.9] इति श्री-द्वारका-प्रजा-वाक्यानुसारेण श्री-
कृष्ण-सन्दर्भोत्थापित-पाद्म-गद्यानुसारेण च नित्यैव तुष्टिर्
अवगन्तव्या । इति वात्सल्याख्यो रसः ।
अथ मैत्रीमयः । तत्रालम्बनः मित्रत्वेन स्फुरन् मैत्री-विषयः श्री-
कृष्णस् तद्-आश्रय-रूपाणि तल्-लीला-गतानि स्वोत्कृष्ट-सजातीय-भावानि तदीय-
मित्राणि च । तत्र श्री-कृष्णः क्वचिच् चतुर्भुजोऽपि श्रीमन्-नराकारत्वेनैव
प्रतीतः । यथा श्री-गीतासु श्रीमद्-अर्जुनेन -
तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते [गीता 11.46]
इति स्व-प्रार्थनानन्तरं तद्-रूपे प्रादुर्भूते,
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ [गीता 11.51] इत्य् उक्तम् ।
अतएव विश्व-रूपादीनां तद्-दर्शन-जात-साध्वसादि-भावानां च न कथम्
अपि तद्-अभीष्टत्वम् ।
अथ तन्-मित्राणि । सुहृदः सखायश् च । तत्र पूर्वोक्त-लक्षणाः सुहृदः
श्री-भीमसेन-द्रौपदी-प्रभृतयः । सखायः श्रीमद्-अर्जुन-श्रीदाम-
विप्रादयः । श्रीमति गोकुले श्रीदामादयश् च । ते च श्री-भागवतादौ
प्रसिद्धाः । तथागमे वसुदाम-किङ्किण्य्-आदयः । भविष्योत्तरे मल्ल-
लीलायां सुभद्र-मण्डलीभद्र-भद्र-वर्धन-गोभटाः ।
यक्षेन्द्रभटः इत्य् आद्या गणिताः । गणानां तु तेनैव साकं पृथुकाः [भ्प्
10.12.2] इत्य् उक्त्या एषाम् अपि श्री-कृष्ण-साम्यम् एव ।
गोपैः समान-गुण-शील-वयो-विलास-वेषैश् च इत्य् आदौ दर्शितम् । गोपजाति-
प्रतिच्छन्नाः [भ्प् 10.18.11] इत्य् आदि-पद्ये श्री-कृष्ण-सन्दर्भे तथैव
व्याख्यातम् । एषां स्वाभाविक-वैदुष्य-लक्षकम् अपि दीक्षायाः पशु-
संस्थायाः [भ्प् 10.23.8] इत्य् आदि-पद्यम् अस्ति । वैदग्ध्यम् अपि क्वचिन् नृत्यत्सु
बालेषु [भ्प् 10.18.13] इत्य् आदौ श्री-भगवतापि श्लाघित-गुणत्वेन
व्यञ्जयिष्यते ।
ते च त्रिविधाः - सखायः प्रियसखाः प्रिय-नर्म-सखाश् च तत्-तद्-भाव-
वैशिष्ट्यात् । तत्र श्रीदामादयः परम-माधुर्यैक-मय-प्रणयातिशयि-
विहार-लालित्येनाधिकाः इत्थं सताम् [भ्प् 10.12.11] इत्य्-आदिनोक्तेः । तत्र श्री-
कृष्णस्यालम्बनत्वं च बर्हापीडं नट-वर-वपुः [भ्प् 10.21.5] इत्य् आदिना
वर्णितम् ।
अथोद्दीपनेषु गुणाः अभिव्यक्त-मित्र-भावता आर्जवं कृतज्ञत्वं बुद्धिः
पाण्डित्यं प्रतिभा दाक्ष्यं शौर्यं बलं क्षमा कारुण्यं रक्त-लोकत्वम्
इत्य् आदयः । अवयव-वयः-सौन्दर्य-सर्व-सल्-लक्षणत्वम् इत्य् आदयश् च ।
तत्र सौहृद्य-मये आर्जवादीनां प्राधान्यम् (पगे 116) सख्यमये तु
वैदग्ध्य-सौन्दर्यादि-मिश्राणां तेषाम् । तद्-उभयाश-मिश्रायां मैत्र्यां
तु यथा स्वम् अंश-द्वयम् । तत्राभिव्यक्त-तत्-तद्-भावता श्रीमद्-
अर्जुनानुतापे यथा, सख्यं मैत्रीं सौहृदं च [भ्प् 1.15.4] इत्य् अग्रे
वक्ष्यते । श्री-गोपेषु च तां व्यनक्ति-
तान् दृष्ट्वा भय-सन्त्रस्तान् ऊचे कृष्णो ऽस्य भी-भयम् ।
मित्राण्य् आशान् मा विरमते- हानेष्ये वत्सकान् अहम् ॥ [भ्प् 10.13.13] इत्य् आदि ।
ततो वत्सान् अदृष्ट्वैत्य पुलिने ऽपि च वत्सपान् ।
उभाव् अपि वने कृष्णो विचिकाय समन्ततः ॥ [भ्प् 10.13.16] इत्य् अन्तम् ।
स्पस्टम् ।
॥ 10.13 ॥ श्री-शुकः
[250]
तथा -
ते सम्प्रतीत-स्मृतयः समुत्थाय जलान्तिकात् ।
आसन् सु-विस्मिताः सर्वे वीक्षमाणाः परस्परम् ॥ [भ्प् 10.15.52]
स्पस्टम् ।
॥ 10.15 ॥ सः
[251]
अहो ऽतिरम्यं पुलिनं वयस्याः [भ्प् 10.13.5] इत्य् आदि । स्पष्टम् ।
॥ 10.13 ॥ श्री-भगवान्
[252]
तथा-
क्वचित् पल्लव-तल्पेषु नियुद्ध-श्रम-कर्शितः ।
वृक्ष-मूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः ॥ [भ्प् 10.15.17]
स्पष्टम् ।
॥ 10.15 ॥ श्री-शुकः
[253]
तथा-
कुन्द-दाम- [भ्प् 10.35.20] इत्य् आदौ नर्म-दः प्रणयिणां विजहार इति ।
[254]
मणि-धरः [भ्प् 10.35.20] इत्य् आदौ प्रणयिनो ऽनुचरस्य कदांसे प्रक्षिपन्
भुजम् अगायत यत्र इति । स्पष्टम् ।
॥ 10.35 ॥ श्री-गोप्यः ॥ 253-254 ॥
[255]
अथ जातिश् च क्षत्रियत्वम् । यत्र सौहृदमयस्य प्राचुर्यम् । तथा गोपत्वं
यत्र सख्यमयस्य प्राचुर्यम् । अथ क्रियाश् च सौहृदमये विक्रान्त्य्-आदि-
प्रधानाः । सख्य-मये तु नर्म-गान-नाना-भाषांशन-गवाह्वान-
वेणु-वाद्यादि-कला-बाल्याद्य्-उचित-क्रीडादयः । तत्र नर्म, यथा-
बिभ्रद् वेणुं जठर-पटयोः शृङ्ग-वेत्रे च कक्षे ।
वामे पाणौ मसृण-कवलं तत्-फलान्य् अङ्गुलीषु ॥ [भ्प् 10.13.11]
स्पष्टम् ।
॥ 10.13 ॥ सः
[256]
अन्याश् च, यथा-
एवं वृन्दावनं श्रीमत् कृष्णः प्रीत-मनाः पशून् ।
रेमे सञ्चारयन्न् अद्रेः सरिद्-रोधःसु सानुगः ॥
क्वचिद् गायति गायत्सु मदान्धालिष्व् अनुव्रतैः ।
उपगीयमान-चरितः पथि सङ्कर्षणान्वितः ॥ [भ्प् 10.15.9-10] इत्य् आदि ।
[257]
तथा-
मेघ-गम्भीरया वाचा नामभिर् दूर-गान् पशून् ।
क्वचिद् आह्वयति प्रीत्या गो-गोपाल-मनोज्ञया ॥ [भ्प् 10.15.13]
चकोर-क्रौञ्च [भ्प् 10.15.14] इत्य् आदि ।
स्पष्टम् ।
॥ 10.15 ॥ सः
[258]
तथा-
तत्रोपहूय गोपालान् कृष्णः प्राह विहार-वित् ।
हे गोपा विहरिष्यामो द्वन्द्वी-भूय यथा-यथम् ॥ [भ्प् 10.18.19]
स्पष्टम् ।
॥ 10.18 ॥ सः
[259]
तथा-
बर्ह-प्रसून-नव-धातु-विचित्रिताङ्गः
प्रोद्दाम-वेणु-दल-शृङ्ग-रवोत्सवाढ्यः ।
वत्सान् गृणन्न् अनुग-गीत-पवित्र-कीर्तिर्
गोपी-दृग्-उत्सव-दृशिः प्रविवेश गोष्ठम् ॥ [भ्प् 10.14.47] इत्य् आदि ।
स्पष्टम् ।
॥ 10.14 ॥ सः
(पगे 117)
[260]
अनेन गोप-वेषश् च दर्शितः । गा-गोपकैर् अनुवनं नयतोः [भ्प् 10.21.19]
इत्य् आदौ निर्योग-पाश-कृत-लक्षणयोर् विचित्रम् इत्य् अनेन च । विचित्रत्वं चात्र
पट्ट-सूत्र-मुक्तादि-मयत्वेनावगन्तव्यम् । तथा बर्हिण-स्तवक-धातु-
पलाशैर् बद्ध-मल्ल-परिबर्ह-विडम्बः । [भ्प् 10.35.6] इत्य् आदिषु मल्ल-
वेषः । श्यामं हिरण्य-परिधिं इत्य् आदौ नट-वेषम् इत्य् अनेन नट-वेषः ।
महार्ह-वस्त्राभरण- कञ्चुकोष्णीष-भूषिताः ।
गोपाः समाययू राजन् [भ्प् 10.5.8] इत्य् अनुसारेण राज-वेषश् च ।
एष तु द्वारकाद्दौ प्रचुरः । तथा तत्र गोकुले च
परिधानीयोत्तरीयाभ्यां धार्मिक-गृहस्थ-वेषश् चावगन्तव्यः । एष एव
नीविं वसित्वा रुचिराम् [भ्प् 10.15.45] इत्य् अनेन दर्शितः । तैस् तैर् एव हि तत्-तल्-
लीलाः शोभन्त इति ।
अथ द्रव्याणि च वसन-भूषण-शङ्ख-चक्र-शृङ्ग-वेणु-यष्टि-प्रेष्ठ-
जन-प्रभृतीनि । कालाश् च तत्-तत्-क्रीडोचिताः । ते तु, यथा-
एवं वनं तद् वर्षिष्ठं पक्व-खर्जूर-जम्बुमत् ।
गो-गोपालैर् वृतो रन्तुं स-बलः प्राविशद् धरिः ॥ [भ्प् 10.20.25]
धेनवो मन्द-गामिन्य [भ्प् 10.20.26] इत्य् आदि, वनौकसः प्रमुदिता [भ्प्
10.20.27] इत्य् आदि, क्वचिद् वनस्पति-क्रोडे [भ्प् 10.20.28] इत्य् आदि, दध्य्-ओदनं
समानीतं [भ्प् 10.20.29] इत्य् आदि, शद्वलोपरि संविश्य [भ्प् 10.20.30] इत्य् आदि,
प्रावृट्-श्रियं च तां वीक्ष्य [भ्प् 10.20.31] इत्य् आद्य्-अन्तम् । स्पष्टम् ।
॥ 10.20 ॥ सः
[261]
एवम् अन्येऽपि स्मर्तव्याः । अथानुभावेषूद्भास्वराः । तत्र सौहृद-मये
निरुपाधि-तदीय-हितानुसन्धान-युक्तायुक्तादि-कथन-सस्मित-गोष्ठी-
प्रभृतयः । सख्य-मये असङ्कुचित-प्रीति-मय-चेष्टाः । ताश् च सह नाना-
क्रीडा-सङ्गीतादि-कलाभ्यास-भोजनोपवेश-शयनादयः । नर्म-रहो-
लीलाकर्णन-कथादयश् च ज्ञेयाः । इत्थं [भ्प् 10.1211] इत्य् आदिना या एव
प्रशस्ताः तथोदाह्रियन्ते-
प्रवाल-बर्ह-स्तबक- स्रग्-धातु-कृत-भूषणाः ।
राम-कृष्णादयो गोपा ननृतुर् युयुधुर् जगुः ॥
कृष्णस्य नृत्यतः केचिज् जगुः केचिद् अवादयन् ।
वेणु-पाणितलैः शृङ्गैः प्रशशंसुर् अथापरे ॥
गोप-जाति-प्रतिच्छन्ना देवा गोपाल-रूपिणौ ।
ईडिरे कृष्ण-रामौ च नटा इव नटं नृप ॥
भ्रामणैर् लङ्घनैः क्षेपैर् आस्फोटन-विकर्षणैः ।
चिक्रीडतुर् नियुद्धेन काक-पक्ष-धरौ क्वचित् ॥
क्वचिन् नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् ।
शशंसतुर् महा-राज साधु साध्व् इति वादिनौ
क्वचिद् बिल्वैः क्वचिद् कुम्भैः [भ्प् 10.18.9-14] इत्य् आदि । स्पष्टम् ।
॥ 10.18 ॥ श्री-शुकः
[262]
तथा-
कृष्णस्य विष्वक् पुरु-राजि-मण्डलैर्
अभ्याननाः फुल्ल-दृशो व्रजार्भकाः ।
सहोपविष्टा विपिने विरेजुश्
छदा यथाम्भोरुह-कर्णिकायाः ॥ [भ्प् 10.13.8]
केचिद् पुष्प-दलैः केचिद् [भ्प् 10.13.9] इत्य् आदि ।
सर्वे मिथो दर्शयन्तः स्व-स्व-भोज्य-रुचिं पृथक् ।
हसन्तो हासयन्तश् चा- भ्यवजह्रुः सहेश्वराः ॥ [भ्प् 10.13.10]
स्पष्टम् ।
॥ 10.13 ॥ सः
[263]
एवम् अन्या अपि । तथा सौहृद-सख्ययोः सात्त्विकाश् चोन्नेयाः । तत्र
सौहृदेऽश्रुर् यथा-
तं मातुलेयं परिरभ्य निर्वृतो
भीमः स्मयन् प्रेम-जलाकुलेन्द्रियः ।
यमौ किरीटी च सुहृत्तमं मुदा
प्रवृद्ध-बाष्पाः परिरेभिरे ऽच्युतम् ॥ [भ्प् 10.71.27]
(पगे 118) अत्र सत्य् अप्य् अग्रजानुजत्व-व्यवहारे सुहृत्तमम् इत्य् अनेन तद्-
अंशस्यैवोल्लासोऽभुपगतः ।
॥ 10.71 ॥ सः
[264]
सख्ये प्रलयोऽपि, यथा-
तं नागभोगपरिवीतम् अदृष्टचेष्टम्
आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः ।
कृष्णे ऽर्पितात्मसुहृदर्थकलत्रकामा
दुःखानुशोकभयम् ऊढधियो निपेतुः ॥ [भ्प् 10.16.10]
स्पष्टम् ।
॥ 10.16 ॥ सः
[265]
एवं तत्र तत्र सञ्चारिणश् चोन्नेयाः । यथा सौहृदे तं मातुलेयम् [भ्प्
10.71.27] इत्य् आदौ हर्षः । यथा च सख्ये कृष्णं ह्रदाद् विनिष्क्रान्तम् [भ्प्
10.17.13] इत्य् आद्य्-अनन्तरम्-
उपलभ्योत्थिताः सर्वे लब्ध-प्राणा इवासवः ।
प्रमोद-निभृतात्मानो गोपाः प्रीत्याभिरेभिरे ॥ [भ्प् 10.17.14]
स्पष्टम् ।
॥ 10.17 ॥ सः
[266]
अथ स्थायी मैत्र्य्-आख्यः । स चैश्वर्य-ज्ञान-सङ्कुचितः श्रीदाम-
विप्रादीनाम् । सङ्कोचितैश्वर्य-ज्ञानः श्रीमद्-अर्जुनादीनाम् । शुद्धः श्री-
गोप-बालानाम् । अतएव कदाचिद् अपि न विकरोति । तथैव श्री-राम-
व्रजागमने समुपेत्याथ गोपालान् हास्य-हस्त-ग्रहादिभिः [भ्प् 10.65.5] इत्य्
आदिक-व्यवहारः ।
तत्र सौहृद्-आख्यो भेदः तं मातुलेयं परिरभ्य निर्वृतः [भ्प् 10.71.27]
इत्य् आदौ ज्ञेयः । सख्यं, यथा-
एकदा रथम् आरुह्य विजयो वानर-ध्वजम् ।
गाण्डीवं धनुर् आदाय तूणौ चाक्षय-सायकौ ॥
साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत् ।
बहु-व्याल-मृगाकीर्णं प्राविशत् पर-वीर-हा ॥ [भ्प् 10.58.13-14]
कृष्णेन साकं विहर्तुम् इत्य् अन्वयः ।
॥ 10.58 ॥ सः
[267]
यथा च-
तेनैव साकं पृथुकाः सहस्रशः
स्निग्धाः सुशिग्-वेत्र-विषाण-वेणवः ।
स्वान् स्वान् सहस्रोपरि-सङ्ख्ययान्वितान्
वत्सान् पुरस्कृत्य विनिर्ययुर् मुदा ॥ [भ्प् 10.12.2]
एव-कारेण तदासत्ति-रूपोऽनुभावो दर्शितः । यथा-
यदि दूरं गतः कृष्णो वन-शोभेक्षणाय तम् ।
अहं पूर्वम् अहं पूर्वम् इति संस्पृश्य रेमिरे ॥ [भ्प् 10.12.6]
स्पष्टम् ॥
॥ 10.12 ॥ सः
[269]
यथा च-
ऊचुश् च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा ।
नैकोऽप्य् अभोज्क-बल एहीतः साधु भुज्यताम् ॥ [भ्प् 10.14.45]
स्पष्टम् ॥
॥ 10.14 ॥ सः
[270]
श्री-कृष्ण एव तेषां जीवनम् इत्य् आह-
कृष्णं महा-बक-ग्रस्तं दृष्ट्वा रामादयो ऽर्भकाः ।
बभूवुर् इन्द्रियाणीव विना प्राणं विचेतसः ॥ [भ्प् 10.11.49]
मुक्तं बकास्याद् उपलभ्य बालका
रामादयः प्राणम् इवेन्द्रियो गणः ।
स्थानागतं तं परिरभ्य निर्वृताः
प्रणीय वत्सान् व्रजम् एत्य तज् जगुः ॥ [भ्प् 10.11.53]
स्पष्टम् ॥
॥ 10.11 ॥ सः
[271]
तद् एवं विभावादि-संवलनात्मको मैत्रीमयो रसः । अस्य च सौहृदमयः
सख्यमय इति भेद-द्वयं तत्र तत्रावगन्तव्यम् । तस्य प्रथमाप्राप्त्य्-
आत्मक-सिद्ध्य्-आत्मकौ भेदौ पूर्ववद् ऊह्यौ । वियोगात्मको भेदो यथा-
एवं कृष्ण-सखः कृष्णो भ्रात्रा राज्ञा विकल्पितः । (पगे 119)
नाना-शङ्कास्पदं रूपं कृष्ण-विश्लेष-कर्शितः ॥
शोकेन शुष्यद्-वदन- हृत्-सरोजो हत-प्रभः ।
विभुं तम् एवानुस्मरन् नाशक्नोत् प्रतिभाषितुम् ॥
कृच्छ्रेण संस्तभ्य शुचः पाणिनामृज्य नेत्रयोः ।
परोक्षेण समुन्नद्ध- प्रणयौत्कण्ठ्य-कातरः ॥
सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् ।
नृपम् अग्रजम् इत्य् आह बाष्प-गद्गदया गिरा ॥ [भ्प् 1.15.1-4]
कृष्णोऽर्जुनः । अविकल्पित इति च्छेदः । नाना-शङ्कास्पदं रूपम् आलक्ष्य
विकल्पित इत्य् अर्थः । शुचः शोकाश्रूणि आमृज्य च । परोक्षेण दर्शआगोचरेण
श्री-कृष्णेन हेतुना । अतएवानिष्ट-शङ्काया अभावात् नात्र करुण-
रसावकाशः । तद्-अभावश् चैषाम् ऐश्वर्य-ज्ञान-समुध्भाविनां भवत्य्
एव इति । वञ्चितोऽहम् [भ्प् 1.15.5] इत्य् आदिकं वक्ष्यमाणं विलापम् ।
[272]
अथ तद्-अनन्तरं तुष्ट्य्-आत्मक-योगो यथा-
ते साधु-कृत-सर्वार्था ज्ञात्वात्यन्तिकम् आत्मनः ।
मनसा धारयाम् आसुर् वैकुण्ठ-चरणाम्बुजम् ॥
तद्-ध्यानोद्रिक्तया भक्त्या विशुद्ध-धिषणाः परे ।
तस्मिन् नारायण-पदे एकान्त-मतयो गतिम् ॥
अवापुर् दुरवापां ते असद्भिर् विषयात्मभिः ।
विधूत-कल्मषा स्थानं विरजेनात्मनैव हि ॥ [भ्प् 1.15.46-48]
ते पाण्डवाः साधु यथा स्त्यात् तथा कृत-सर्वार्था वशीकृत-धर्मार्थ-
काम-मोक्षा अपि वैकुण्ठस्य श्री-कृष्णस्य चरणाम्बुजम् एव आत्यन्तिकं
परम-पुरुषार्थं ज्ञात्वा तद् एव मनसा धारयामासुः । नारायणः श्री-
कृष्णः । पूर्ण-गतिम् एव विशिनष्टि । विधूत-कल्मसं यदास्थानं नित्य-
श्री-कृष्ण-प्रकाशास्पदं तदीया सभा । आत्मना स्व-शरीरेणैव । तत्र
हेतुः विरजेनाप्राकृतेन । हि-शब्दोऽसम्भावना-निवृत्त्य्-अर्थः ।
[273]
तथा-
द्रौपदी च तदाज्ञाय पतीनाम् अनपेक्षताम् ।
वासुदेवे भगवति ह्य् एकान्त-मतिर् आप तम् ॥ [भ्प् 1.15.50]
आत्म्नानं प्रति अनपेक्षमाणानाम् । तत् कृष्ण-सङ्गमनम् आज्ञाय सम्यग्
ज्ञात्वा । वासुदेवे श्री-वसुदेव-नन्दने । हि प्रसिद्धौ । तस्मिन्न् एकान्त-
मतिस् तम् एव प्राप्तवती ।
॥ 1.15 ॥ श्री-सूतः ॥ 271-273 ॥
[274]
श्री-व्रज-कुमाराणां देशान्तर-वियोगात्मओदाहरणं तद्-अनन्तर-तुष्ट्य्-
आत्मोदाहरणं च वत्सलानुसारेणैव ज्ञेयम् । इति मईत्रीमयो रसः ॥
अथ उज्ज्वलः । अत्रालम्बनः कान्तत्वेन स्फुरन् कान्त-भाव-विषयः श्री-
कृष्णः । तद्-आधारआः सजातीय-भावास् तदीय-परम-वल्लभाश् च । तत्र
श्री-कृष्णो यथा-
श्रुत्वा गुणान् भुवन-सुन्दर शृण्वतां ते
निर्विश्य कर्ण-विवरैर् हरतो ऽङ्ग-तापम् ।
रूपं दृशां दृशिमताम् अखिलार्थ-लाभं
त्वय्य् अच्युताविशति चित्तम् अपत्रपं मे ॥ [भ्प् 10.52.37]
स्पष्टम् ।
॥ श्री-रुक्मिणी
[275]
यथा च-
तासाम् आविरभूच् छौरिः स्मयमानमुखाम्बुजः ।
पीताम्बर-धरः स्रग्वी साक्षान् मन्मथ-मन्मथः ॥ [भ्प् 10.32.2]
॥ 10.32 ॥ श्री-शुकः
[276]
अथ तद्-वल्लभासु सामान्या सैरिन्ध्री कूर्म-पुराणोक्ताः कैलास-वासिन्यश्
च । तत्र पूर्वोक्ता (पगे 120) यथा-
सैवं कैवल्य-नाथं तं प्राप्य दुष्प्राप्यम् ईश्वरम् ।
अङ्ग-रागार्पणेनाहो दुर्भगेदम् अयाचत ॥ [भ्प् 10.48.8] इति दर्शिता ।
पूर्वं तादृश-दुर्भगापि अङ्ग-रागार्पण-मात्र-लक्षणेन भजनेन तं
प्राप्य । अहो आश्चर्यम् । तेन हेतुना इदं सहोष्यताम् [भ्प् 10.48.9] इत्य् आदि-
लक्षणम् अपि अयाचत याचितुं योग्याभूत् । तं कथम्भूतम् अपि । केवलः
शुद्ध-प्रेमवांस् तस्य भावः कैवल्यं, तत्रैव नाथं वल्लभम् अपि ।
अतोऽस्या आत्म-तर्पणैक-तात्पर्यायाः सम्प्रत्य् अपि श्री-व्रज-देव्य्-आदि-वच्
छुद्ध-प्रेमाभावो दर्शितः ।
स्वीयाः श्री-रुक्मिण्य्-आदयः । या एवोद्दिश्य स्तौति--
याः सम्पर्यचरन् प्रेम्णा पाद-संवाहनादिभिः ।
जगद्-गुरुं भर्तृ-बुद्ध्या तासां किं वर्ण्यते तपः ॥ [भ्प् 10.90.27]
स्पष्टम् ।
॥ 10.90 ॥ श्री-शुकः
[277]
तथा-
इत्थं रमा-पतिम् अवाप्य पतिं स्त्रियस् ता
ब्रह्मादयो ऽपि न विदुः पदवीं यदीयाम् ।
भेजुर् मुदाविरतम् एधितयानुराग-
हासावलोक-नव-सङ्गम-लालसाद्यम् ॥
प्रत्युद्गमासन-वरार्हण-पाद-शौच-
ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः ।
केश-प्रसार-शयन-स्नपनोपहार्यैर्
दासी-शता अपि विभोर् विदधुः स्म दास्यम् ॥ [भ्प् 10.61.5-6]
अतएव ये मां भजन्ति दाम्पत्या [भ्प् 10.60.52] इत्य् आदि निन्दा त्व् अन्य-
परत्वेनैव निर्दिष्टा । दिष्ट्या गृहेश्वरी [भ्प् 10.60.54] इत्य् आद्य्-उत्तर-
वाक्यात् । यथैव केतुमाल-वर्षे श्री-कामदेवाख्य-भगवद्-व्यूह-स्तुतौ
लक्ष्मी-वाक्यम्-स्त्रियो व्रतैस् त्वा हृषीकेश्वरं स्वतो ह्य् आराध्य लोके पतिम्
आशासतेऽन्यम् [भ्प् 5.18.19] इत्य् आदिकम् ।
॥ 10.61 ॥ श्री-शुकः
[278]
अथ वस्तुतः परम-स्वीया अपि प्रकट-लीलायां परकीयायमाणाः श्री-व्रज-
देव्यः । या एवासमोर्ध्वं स्तुताः-
नायं श्रियो ऽङ्ग उ नितान्त-रतेः प्रसादः
स्वर्-योषितां नलिन-गन्ध-रुचां कुतो ऽन्याः ।
रासोत्सवे ऽस्य भुज-दण्ड-गृहीत-कण्ठ-
लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् ॥ [भ्प् 10.47.30] इत्य् आदिषु ।
गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं [भ्प् 10.44.14] इत्य् आदौ या
एवासमोर्ध्वं रूपं पश्यन्तीत्य् अत्र । तथा चाह या दोहने ऽवहनने मथनोपलेप-
[भ्प् 10.44.15] इत्य् आदौ धन्या व्रज-स्त्रिय उरुक्रम-चित्त-यानाः ।
उरुक्रम-चित्तम् एव यानं यासां ताः । यास् तच्-चित्तं यत्र यत्र गच्छति तत्र
तत्रैव तद्-आरूढास् तिष्ठन्ति इत्य् अर्थः । चिन्ता-याना इति पाठे चिन्तश् चिन्ता
भवनेति पूर्ववद् एवार्थः ।
॥ 10.44 ॥ श्री-माथुर-स्त्रियः
[279}
अतएवासाम् एव तत्र तत्र दर्शित उत्कर्षः । परकीयायमानत्वेन
निवारणादि-मात्रांशे लौकिक-रस-विदाम् अपि मतेन सेवितः । यथाह
भरतः-
बहु वार्यते यतः खलु यत्र प्रच्छन्न-कामुकत्वं च ।
या च मिथो दुर्लभता सा परमा मन्मथस्य रतिः ॥ [उन् 1.20] इति ।
रुद्रः-
वामता दुर्लभत्वं च स्त्रीणां या च निवारणा ।
तद् एव पञ्च-बाणस्य मन्ये परमम् आयुधम् ॥ [उन् 3.20]
विष्णु-गुप्तः-
यत्र निषेध-विशेषः सुदुर्लभत्वं च यन् मृगाक्षीणाम् ।
तत्रैव नागराणां निर्भरम् आसज्जते हृदयम् ॥ [उन् 3.21] इति ।
(पगे 121)
अतएव कासाञ्चिद् गोप-कुमारीणां कात्यायनी-जपानुसारेण पति-भावेऽप्य्
आधिक्यम् अनुवर्तते इति । केचित् तु वारणादित एवासां प्रेमाधिक्यं
मन्यन्ते । तन् न, जातितोऽप्य् आधिक्यात् । तच् च व्रज-स्त्रियो यद् वाञ्छन्ति [भ्प्
10.83.43] इति, वाञ्छन्ति यद् भव-भियः [भ्प् 10.47.58] इत्य् आदिना व्यक्तम् । न
हि वारणाद्य्-अंशम् अङ्गीकृत्य तेषां लोभो जातः, अनभीष्टत्वात् । अतो जात्य्-
अंशम् एवेति गम्यते । अतः प्रबल-जातित्वान् निवारणादिकम् अप्य् अयम्
अतिक्रामतीत्य् एवम् एव श्लाघ्यते या दुस्त्यजम् [भ्प् 10.47.61] इत्य् आदिना ।
मत्त-हस्तिनां बलस्य दुर्गातिक्रमवन् निवारणाद्य्-अतिक्रमो हि तासां
प्रेम-बलस्य व्यञ्जक एव न तूत्पादकः । जात्य्-अंशेनैव प्राबल्ये सति
निवारणादि-साम्येऽपि तासां स्वेषु प्रेम-तारतम्यं सम्भवति । यथा ताभिर्
अपि श्री-राधायाः प्रेम-वैशिष्ट्येन श्री-कृष्ण-वशीकारित्व-वैशिष्ट्यं
दर्शितम् । अनयाराधितो नूनम् [भ्प् 10.30.28] इत्य् आदिना ।
या च तासां क्षोभे सति प्रेम्णः प्रफुल्लता सा खलु कृष्ण-सर्पस्येव स्वत
एव सिद्धतया न त्व् अपरत आहार्यतया । केवलौपपत्यस्य प्रेम-
वर्धनत्वं तु ताभिर् एव स्वयं निःस्वं त्यजन्ति गणिकाः [भ्प् 10.47.7], जारा
भुक्त्वा रतां स्त्रियम् [भ्प् 10.47.8] इति निन्दितम् ।
यत् तु कश्चित् परकीयासु लघुत्वं वक्ति तत् खलु प्राकृत-नायकम्
अवलम्बमानासु युक्तं, तत्रैव जुगुप्सितत्वात् । अत्र तु गोपीनां तत्-पतीनां
च [भ्प् 10.33.35] इत्य् आदिना तत्-प्रत्याख्यानात् । अत्र च तत्-पतीनाम् इति तद्-
व्यवहार-दृष्टि-मात्रेणोक्तं, न तु परमार्थ-दृष्ट्या । तद्-दृष्ट्या तु श्री-
कृष्ण-सन्दर्भे तासां स्वरूप-शक्तित्वम् एवात्र परत्र स्थापितम् । तथास्य
श्री-कृष्ण-लक्षणस्य नायकस्य तादृश-भावेनैव प्राप्तौ एताः परं तनु-
भृतः [भ्प् 10.47.58] इत्यादिषु सर्वोर्ध्व-श्लाघाश्रवणात् परम-
गरीयस्त्वम् एव । अतएवोक्तम्-
नेष्टा यद् अङ्गिनि रसे कविभिर् परोढा
तद् गोकुलाम्बुजदृशां कुलम् अन्तरेन ।
आशांसया रसविधेर् अवतारितानां
कंसारिणा रसिकमण्डलशेखरेण ॥ [उन् 5.3] इति ।
अथ तासां स्वपत्याभास-सम्बन्धम् अपि वारयितुं योजयति -
नासूयन् खलु कृष्णाय मोहितास् तस्य मायया ।
मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ [भ्प् 10.33.37]
तद् एवं भावत उत्कर्षो दर्शितः । दैहिकं तम् आह-ताभिः समेताभिर्
उदार-चेष्टितः [भ्प् 10.29.43] इत्य् आदौ व्यरोचतैणाङ्क इवोडुभिर् वृतः इति ।
स्पष्टम् ।
॥ 10.29 ॥ सः
[281]
किं च-
तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः । (पगे 122)
मध्ये मणीनां हैमानां महा-मरकतो यथा ॥ [भ्प् 10.33.7]
स्पष्टम् ।
॥ 10.33 ॥ सः
[282]
गुण-वैभव-कृतम् अप्य् आह-
ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो विभुः ।
व्यरोचताधिकं तात पुरुषः शक्तिभिर् यथा ॥ [भ्प् 10.32.10]
स्पष्टम् ।
॥ 10.32 ॥ सः
[283]
कला-वैदग्धीकृतम् आह पाद-न्यासैर् भुज-विधुतिभिः [भ्प् 10.33.7] इत्य्
आदि ।
उच्चैर् जगुर् नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः ।
कृष्णाभि-मर्शमुदिता यद् गीतेनेदम् आवृतम् ॥ [भ्प् 10.33.9]
इदं जगत् । अद्यापि यासां गीतांशा एव जगति प्रचरन्तीत्य् अर्थः । यद् उक्तं
सङ्गीत-सारे-
तावन्त एव रागाः स्युर् यावत्यो जीव-जातयः ।
तेषु षोडश-साहस्री पुरा गोपी-कृता वरा ॥ इति ।
अन्ते च तेषाम् एव विभागश् च तत्र स्वर्गादिषु दर्शित इति । किं च-
काचित् समं मुकुन्देन स्वरजातीर् अमिश्रिताः ।
उन्निन्ये पूजिता तेन प्रीयता साधु साध्व् इति ।
तद् एव ध्रुवम् उन्निन्ये तस्यै मानं च बह्व् अदात् ॥ [भ्प् 10.33.10]
स्वराः षड्जादयः सप्त जातयस् तेषु रागोत्पत्ति-हेतवः । ता उभयोर् अपि
परम-प्रवीणत्वात् स्वरान्तरेण जात्य्-अन्तरेण चामिश्रिताः शुद्धा एव
उन्निन्ये उत्कर्षेण जगौ । तत्र शक्र-शर्वर-परमेष्टि-पुरोगा-निश्चित-
तत्त्व-गानस्य श्री-मुकुन्दस्यापि सहार्थत्वेनाप्राधान्यं विवक्षितम् ।
तत्राप्य् उच्-छब्देन ।अतएव तेन पूजिता । तदैव तालान्तरेण निबद्धं गीतं
ध्रुवाख्यं ताल-विशेषं कृत्वा या ततोऽप्य् उत्कर्षेण जगौ तस्यै पूर्वस्या
अप्य् अधिकं मानम् अदात् ।
॥ 10.33 ॥ सः
[285]
अथ तासु सामान्यासु सैरिन्ध्री मुख्या । सर्वत्र ख्यातत्वात् । स्वकीयासु
पट्ट-महिषीषु श्री-रुक्मिणी-सत्यभामे मुख्ये । यथा श्री-हरि-वंशे-
कुटुम्बस्येश्वरी यासीद् रुक्मिणी भीष्मकात्मजा ।
सत्यभामोत्तमा स्त्रीणां सौभाग्ये चाधिकाभवत् ॥
अथ श्री-व्रज-देवीषु मुख्या भविष्योत्तरोक्ताः -
गोपाली पालिका धन्या विशाखा ध्यान-निष्ठिका ।
राधानुराधा सोमाभा तारका दशमी तथा ॥ इति ।
दशम्य् अपि तारका-नाम्नीत्य् अर्थः । स्कान्दे प्रह्लाद-संहितायां तु ललिता
शैव्या पद्मा चतस्रोऽन्याः । अन्यत्र चन्द्रावली च श्रूयते । सा चात्रार्थ-
साम्यात् सोमाभैवानुमेया । कार्त्स्न्येन तु प्रमदा-शत-कोटिभिर् आकुलिता
इत्य् आगमोपदेशः । एतास्व् अपि श्री-राधिकैव मुख्या । सैव रासोत्सवे श्री-
कृष्णेन परम-प्रेम्णान्तर्धापितेति श्री-कृष्ण-सन्दर्भे सन्दर्शितम् अस्ति ।
प्रसिद्धा च तथा सैव सर्वत्रेति । अतः श्रैष्ठ्य-चिह्नेन गोपाल-तपन्य्-
उक्ता गान्धर्विकैव सेत्य् अनुमेया ।
अथ ताः श्री-कृष्ण-वल्लभास् त्रिधा दृश्यन्ते मुग्धा मध्या प्रगल्भा इति ।
तादृश्यं च नव-यौवन-स्पष्ट-यौवन-सम्यग्-यौवनैर् वयो-भेदैस् तत्-
तच्-चेष्टाभिश् च । सम्यग्-यौवनं च प्राप्त-षोडश-वर्षत्वम् एव
नाधिकम् कन्याभिर् द्व्य्-अष्ट-वर्षाभिः इति गौतमीय-तन्त्रात् । तथा
स्वभाव-भेदेन धीरा अधीरा मिश्र-गुणाश् चेति पुनस् त्रिधावगन्तव्याः ।
प्रेम-तारतम्येन श्रेष्ठाः समाः लघव इति च ।
अथ ता लीलावस्था-भेदेनैकैका । अभिसारिका वासक-सज्जोत्कण्ठिता खण्डिता
विप्रलब्धा (पगे 123) कलहान्तरिता प्रोषित-भर्तृका स्वाधीन-भर्तृका इत्य्
अष्टौ नामानि भजन्ति । तथा परस्परं भावानां सादृश्य-किञ्चित्-
सादृश्यास्फुट-सादृश्यानि । विरोधित्वं चैतद् भेद-चतुष्टयात् पुनश्
चत्वारि सखी सुहृत् तटस्था प्रातिपक्षिकी चेति । भाव-भेदाश् च स्थायि-
निरूपणे ज्ञेयाः । तत्र सखी यथा अप्य् एण-पत्नी [भ्प् 10.33.11] इत्य् आदि द्वये
पुरतो दर्शनीया । अत्र हि तन्वन् दृशां सखि सुनिर्वृतिम् इति स्वीय-तद्-
दिदृक्षा-द्योतनात् । सखीति तद्-दर्शन-सुखोपभोग-सौभाग्य-भागिता-
साम्येन तस्यां सख्यारोपणात् कान्तेति कृष्ण-सङ्गिन्याः सौभाग्यातिशयस्य
चानुमोदनात् सख्यम् एव स्पष्टम् । अतएव तल्-लीलानुमोदनम् अपि बाहुं
प्रियांसा- [भ्प् 10.30.12] इत्य् आदिना । सुहृद् यथा -
अनयाराधितो नूनं भगवान् हरिर् ईश्वरः ।
यन् नो विहाय गोविन्दः प्रीतोऽयम् अनयद् रहः ॥ [भ्प् 10.30.28]
अस्याश् च तद्-भाग्य-मात्र-प्रशंसनात् व्यक्तं सौहृद्यम् ।
[286]
तटस्था यथा -
पृच्छतेमा लता बाहून् अप्य् आश्लिष्टा वनस्पतेः ।
नूनं तत्करज-स्पृष्टा बिभ्रत्य् उत्पुलकान्य् अहो ॥ [भ्प् 10.30.13]
अत्र सखी-वचनं श्रुत्वापि ततौदासीन्यात् ताटस्थ्यम् एव व्यक्तम् । एवम्
अनयाराधितो नूनम् इति सुहृद्-वाक्यानन्तरम् अपि धन्या अहो अमी आल्यः
[भ्प् 10.30.29] इत्य्-आदि-वाक्ये च ।
[287]
अथ प्रातिपक्षिका यथा-
अस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् ।
यैकापहृत्य गोपीनां रहो भुङ्क्ते ऽच्युताधरम् ॥ [भ्प् 10.30.30]
अथ प्रकट एव मत्सर इति ताभ्यो विलक्षणत्वम् । तथैव श्री-
हरिवंशादौ पारिजात-हरणे श्री-रुक्मिणीं प्रति सत्यभामायाः । स्पष्टम् ।
॥ 10.30 ॥ श्री-शुकः ॥ 285-287 ॥
[288]
अत्र विचार्यते । ननु भगवद्-भक्तेषु परस्परं प्रतिपक्षित्वम्
असम्भवम् अहृद्यं च । तथा तासां तत् सौभग-मदम् [भ्प् 10.29.48] इत्य्
आदौ तद्-ईर्षामदमानादि-दूरीचिकीर्षां श्री-भगवतोऽपि दृश्यते । तथा
श्रीमता मुनिना स्वयम् अपि ताभिस् तत्र दौरात्म्य-शब्दः प्रयुक्तोऽस्तीति ।
तत्रोच्यते सर्वैव हि श्री-भगवतः क्रीडा प्रीति-पोषायैव प्रवर्तते ।
भजते तादृशीः क्रीडा याः श्रुत्वा तत्-परो भवेत् [भ्प् 10.33.36] इत्य् आदि ।
श्रुत्वापीत्य् अर्थः । तत्र शृङ्गार-क्रीडायाश् चास्याः स्वभावोऽयं यत् खल्व्
ईर्षा-मद-मानादि-लक्षण- (पगे 124) तत्-तद्-भाव-वैचित्री-परिकरतयैव
रसं पुष्णाति । यत एव तादृशतयैव कविभिर् वर्ण्यते । श्री-भगवता च
स्व=लीलायाम् अङ्गीक्रियते । स्वस्मिन्न् अपि दक्षिणानुकूल-शठ-धृष्टतेति
चतुर्भेद-नायकत्वं यथा-स्थानं व्यज्यते । तस्मात् तल्-लीला-शक्तिर् एव
तासु तत्-तद्-भावं दधाति । तं च भावानुरूपेणैवेति दर्शितम् । अतएव
यदा सर्वासाम् एव तद्-विरहो भवति तदा दैन्यनैक-जातीय-
भावत्वापत्त्या सर्वत्र सख्यम् एवाभिव्यज्यते । यथा-
अन्विच्छन्त्यो भगवतो मार्गे गोप्यो ऽविदूरतः ।
ददृशुः प्रियविश्लेषान् मोहितां दुःखितां सखीम् ॥ [भ्प् 10.30.41]
इत्य् अत्र तस्यां पूर्वासाम् एव सखीत्व-व्यञ्जना । विरह-लीला च तासां झटिति
श्री-कृष्ण-विषयक-तृष्णातिशय-वर्धनार्थैव । नागर-चूडामणीन्द्राय
श्री-कृष्णाय च तासां तद्-वृद्धिर् अथ्यर्थं रोचते । यथोक्तं नाहं तु
सख्यो भजतोऽपि जन्तून् [भ्प् 10.32.10] इत्य् आदिना । तस्मान् मध्ये विरहोऽपि
भवति । तदा श्री-कृष्णस्य मद-मानादि-विनोदम् अतिक्रम्यापि तद्-
अध्यवसायः स्यात् । ततो मद-मानयोः प्रशमाय स्व-विषयक-
तृष्णातिशय-रूप-प्रसादाय चेति तासां तत् सौभगेत्य् अत्रार्थः । सर्व-
समुदित-रास-लीलार्थं मदस्य प्रशमाय मानस्य च प्रसादाय
प्रसादनायेत्य् अर्थो वा । ततस् तद्-वर्धनेच्छाप्य् आनुषङ्गीति समानम् ।
अथ जाते च विरहे दैन्येनैव तासां तत्र दौरात्म्य-बुद्धिः । न तु वस्तुत
एव तद्-दौरात्म्यं प्रेमैक-विलास-रूपत्वात् । श्री-मुनीन्द्रोऽपि तद्-
भावानुसारित्वेनैव तद्-वाक्यम् अनुवदति तया कथित्म् आकर्ण्य [भ्प्
10.30.42] इत्य् आदि । स्वयं तु पूर्वं तस्मिंस् तदीये मदे दोषं
प्रत्याख्यातवान् अस्ति । यथा-
रेमे तया चात्मरत आत्मारामो ऽप्य् अखण्डितः ।
कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ [भ्प् 10.30.35]
स्वात्म-रतः स्वतस् तुष्टोऽपि आत्मरामः स्व-क्रीडोऽपि अखण्डितः । तस्यां
सततासक्तः सन् रेमे । तादृशश् चेत् किम् इति तद्-आसक्तो बभूव, तथा रेमे च ।
अत आह तया इत्थम्भूत-गुणो हरिः [भ्प् 1.7.10] इतिवत् तथा-भूत-गुणतया
तदीय-प्रेम-सर्वस्व-सार-रूपयेत्य् अर्थः । अतस् तस्यान्येन
तादृशत्वासम्भवात् प्रेम-विशेष एवासौ स्फुरति न तु कामः । स च
प्रेम-विशेष ईदृश-प्रबलः यत् कामिवद् एव दैन्यादिकं तयोः
प्रकटीभवतीत्य् आह कामिताम् इति । मद-मानाद्य्-आत्मके कामिनीनां
प्रेम्णि कामिनां यद् दैन्यं लोक-प्रसिद्धं तद् एव स्व-द्वारा तत्-प्रेम-
विशेष-पारवेश्येन दर्शयन् प्रकटयन् रेमे । यद् वा ययैव लीलया स्वयम्
एव तुच्छीभूताः सर्वेऽप्य् अन्ये नागरं-मन्या इत्य् आह कामिनाम् इति । स्व-
लीला-महिम्ना कामिनां प्राकृतानां दैन्यं रस-सम्पत्ति-हीनत्वं स्त्रीणां
च प्राकृतानां तं विनान्यस्य भजनेन दुरात्मतां दुष्ट-भावतां
दर्शयन्न् इति दर्शयद् विधु-पराजयं रसावक्तुं उल्लसति धूत-लाञ्छनम्
इतिवत् ।
॥ 10.30 ॥ श्री-शुकः
(पगे 125)
[289]
इत्य् आलम्बनो व्याख्यातः । अथोद्दीपनेषु गुणाः । नारी-मोहन-शीलत्वम् ।
अवयव-वर्ण-रस-गन्ध-स्पर्श-शब्द-सल्-लक्षण-नव-यौवनानां
कमनीयता । नित्य-नूतनत्वम् अभिव्यक्त-भावत्वं प्रेम-वश्यत्वं
सौबुद्ध्य-सत्-प्रतिभादयश् च । तत्र नारी-मोहन-शीलत्वादिकं, यथा-
कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलम् [भ्प् 10.21.12] इति । स्पष्टम् ।
॥ 10.21 ॥ श्री-व्रज-देव्यः
[290]
नित्य-नूतनं च यद्यप्य् असौ पार्श्व-गतः [भ्प् 1.11.34] इत्य् आदौ दृष्टम् ।
अथाभिव्यक्त-भावत्वम् । तत्र पूर्व-रागे-
शरद्-उदाशये साधु-जात-सत्-सरसिजोदरे श्री-मुषा दृषा ।
सुरत-नाथ ते ऽशुल्क-दासिका वरद निघ्नतो नेह किं वधः ॥ [भ्प् 10.31.2]
हे दृशैव सुरत-याचक तत्रापि हे कात्यायन्य्-अर्चनान्ते वर-प्रद, तत्राइ
भाव-विशेष-दर्शितया दृशा कृत्वैवाशुल्क-दासिका-तुल्यत्वं प्राप्तास् तयैव
पुनर् निघ्नतस् तव न किं वधः स्त्री-हत्यापि न भवति । दृशस् तादृशत्वे
महा-मोहन-चौरत्वं दर्शयति । शरद्-उदाशय इत्य् आदि ।
तत्र मोहनत्वं द्विविधं-स्वरूप-कृतं दुष्कर-क्रिया-कृतं च । तद्
उभयम् अपि तत्-तद्-विशेषणैर् व्यक्तम् । तथा-
मधुरया गिरा वल्गु-वाक्यया
बुध-मनो-ज्ञया पुष्करेक्षण ।
विधि-करीर् इमा वीर मुह्यतीर्
अधर-सीधुनाप्याययस्व नः ॥ [भ्प् 10.31.8]
मधुरयेति स्वरूप-माधुर्यं वल्गु-वाक्ययेत्य् अर्थ-माधुर्यं बुध-
मनोज्ञयेति बुधानां तादृश-भावाभिज्ञानाम् एव मनोज्ञयेति भाव-
विशेष-माधुर्यं व्यञ्जितम् ।
[292]
तथा-
प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदि-स्पृशः
कुहक नो मनः क्षोभयन्ति हि ॥ [भ्प् 10.31.10]
संविदाः सङ्केत-नर्माणि ।
[293]
तथा-
दिन-परिक्षये नील-कुन्तलैर्
वन-रुहाननं बिभ्रद् आवृतम् ।
घन-रजस्वलं दर्शयन् मुहुर्
मनसि नः स्मरं वीर यच्छसि ॥ [भ्प् 10.31.12]
मुहुः पुनः पुनर् व्याजेन परावृत्येत्य् अर्थः ।
[294]
तथा-
पति-सुतान्वय-भार्तृ-बान्धवान्
अतिविलङ्घ्य ते ऽन्त्य् अच्युतागताः ।
गति-विदस् तवोद्गीत-मोहिताः
कितव योषितः कस् त्यजेन् निशि ॥
रहसि संविदं हृच्-छयोदयं
प्रहसिताननं प्रेम-वीक्षणम् ।
बृहद्-उरः श्रियो वीक्ष्य धाम ते
मुहुर् अतिस्पृहा मुह्यते मनः ॥ [भ्प् 10.31.16-17]
गति-विदस् तवोद्गीत-मोहिता इति अस्माकं मोहन-प्रकार-ज्ञानेनैव त्वं
तथा वेणुना गीतवान् इत्य् अर्थः ।
॥ 10.31 ॥ श्री-गोप्यः परोक्ष-स्थितं श्री-भगवन्तम् ॥ 292-294 ॥
[295]
एवं-
गवां हिताय तुलसि गोपीनां रति-हेतवे ।
वृन्दावने त्वं वपिता सेविता विष्णुना स्वयम् ॥
इति स्कान्दे रेवा-खण्डीय-तुलसी-स्तव-वचनम् अपि तत्-पूर्व-रागे
दर्शनीयम् । तथा सम्भोगेऽपि इति विक्लवितं तासाम् [भ्प् 10.29.42] इत्य् आदौ
प्रहस्य इति ताभिः समेताभिर् उदार-चेष्टितः [भ्प् 10.29.43] इति, उदार-हास-
द्विज-कुन्द-दीधिति [भ्प् 10.29.46] चाभिव्यक्त-भावत्वोदाहरणम् ।
अथ प्रेम्णा वश्यत्वं द्विविधम् । प्रेमान्तरेण प्रेयसी-प्रेम्णा च । तत्र
पूर्वेण नर्मदः प्रणयिनां (पगे 126) विजहार 10.35.20] इत्य् अत्र दर्शितम् ।
तथोत्तरेण । तत्र पूर्व-रागात्मकेन यथा - तथाहम् अपि तच्-चित्तो निद्रां
च न लभे निशि [भ्प् 10.53.2] इति । स्पष्टम् ।
॥ 10.53 ॥ श्री-भगवान् रुक्मिणी-दूतम्
[296]
तथा --
भगवान् अपि ता रात्रीः शरदोत्फुल्लमल्लिकाः ।
वीक्ष्य रन्तुं मनश्चक्रे योगमायाम् उपाश्रितः ॥ [भ्प् 10.29.1]
योग-मायां तासाम् असङ्ख्यानाम् असङ्ख्य-वाञ्छा-पूरिकां स्व-शक्तिं
स्वभावत एवाश्रित्य इत्य् अर्थः ।
[297]
सम्भोगात्मकेन यथा -
इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः ।
प्रहस्य सदयं गोपीर् आत्मारामो ऽप्य् अरीरमत् ॥ [भ्प् 10.29.42]
अत्र विक्लवितम् इति तासां प्रेमातिशय-ज्ञापकं सदयम् इति तस्य तत्-प्रेम-
वश्यत्वातिशयाभिधायकम् । आत्मारामोऽपीति तासां प्रेम-गुण-माहात्म्य-
दर्शकम् । आत्मारामाश् च मुनयः [भ्प् 1.7.10] इत्य् आदौ इत्थम्भूत-गुणो
हरिः इतिवत् ।
॥ 10.29 ॥ श्री-शुकः ॥ 296-297 ॥
[298]
एवं रेमे स्वयं स्वरतिर् अत्र गजेन्द्र-लीलः [भ्प् 10.33.23] इति ।
स्वासु तासु रतिर् यस्य सः । तथा तासां रति-विहारेण [भ्प् 10.33.20] इत्य्
आदिकम् । गोपी-कपोल-संश्लेषः [विप् 5.13.54] इत्य् आदिकं विष्णु-पुराण-पद्यम्
अप्य् उदाहृतम् ।
[299]
किं च-
एवं परिष्वाङ्गकराभिमर्श-
स्निग्धेक्षणोद्दामविलासहासैः ।
रेमे रमेशो व्रजसुन्दरीभिर्
यथार्भकः स्वप्रतिबिम्बविभ्रमैः ॥ [भ्प् 10.33.17]
अत्र रमेश इत्य् अनेन तस्य रमा-वशीकारित्वं दर्शितम् । परिष्वङ्गेत्य् आदिना
तत्रापि स्निघेक्षणेत्वादिना रेम इत्य् अनेन च तासां प्रेम्णा तस्य वश्यत्वं
व्यक्तम् । दृष्टान्तेन तु तदा तस्य तासां चार्भक-प्रतिबिम्बयोर् इव गान-
नृत्यादि-विलासेषु एक-चेष्टतापत्ति-सूचनया मिथः परम-प्रेमासक्तिर्
दर्शिता ।
[300]
अपि च-
एवं शशाङ्कांशु-विराजिता निशाः
स सत्य-कामो ऽनुरताबला-गणः ।
सिषेव आत्मन्य् अवरुद्ध-सौरतः
सर्वाः शरत्-काव्य-कथा-रसाश्रयाः ॥ [भ्प् 10.33.26]
एवं पूर्वोक्त-प्रकारेण अनुरतो निरन्तरम् अनुरक्तोऽबला-गणो यत्र
तादृशः स श्री-कृष्ण-चन्द्र आत्मनि चित्तेऽवरुद्धं समन्तान् निगृह्य
स्थापितं सौरतं सुरत-सम्बन्धि-भाव-हावादिकं येन तथाभूतः सन् ।
अतएव सत्य-कामः व्यभिचार-रहित-प्रेम-विशेषः सन् शरत्-सम्बन्धिन्यो
यावत्यो रसाश्रयाः काव्य-कथाः सम्भवन्ति ताः सर्वा एव सिषेवे । शरच्-
छब्दोऽत्राखण्डम् एव वा संवत्सरं वदति । ततः शशङ्कांशु-विराजितत्वम्
उपलक्षणम् इति व्याख्येयम् । एवं सौरत-संलापैः [भ्प् 10.60.58] इति श्री-
रुक्मिणी-परिहासेऽपि सौरत-शब्दस् तादृशत्वेन प्रयुक्तः ।
॥ 10.33 ॥ श्री-शुकः
(पगे 127)
[301]
अत्रैवम् अपि स्वयम् उक्तं न पारयेऽहम् [भ्प् 10.32.12] इत्य् आदि । अथ
प्रवासात्मकेन, यथा-
वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा ।
शिष्यो बृहस्पतेः साक्षाद् उद्धवो बुद्धि-सत्तमः ॥
तम् आह भगवान् प्रेष्ठं भक्तम् एकान्तिनं क्वचित् ।
गृहीत्वा पाणिना पाणिं प्रपन्नार्ति-हरो हरिः ॥
गच्छोद्धव व्रजं सौम्य पित्रोर् नौ प्रीतिम् आवह ।
गोपीनां मद्-वियोगाधिं मत्-सन्देशैर् विमोचय ।
ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः ॥ [भ्प् 10.46.1-4] इत्य्
आदि ।
तथा च स्कान्द-प्रह्लाद-संहिता-द्वारका-माहात्म्ये ताः प्रति श्रीमद्-
उद्धव-वाक्यम् -
भगवान् अपि दाशार्हः कन्दर्प-शर-पीडितः ।
न भुङ्क्ते न स्वपिति च चिन्तयन् वो ह्य् अहर्निशम् ॥ इति ।
एवं राज-कुमारीणां परिणयोऽपि ताभिर् गोप-कुमारीभिर् एकात्मत्वात् प्रायस्
तद्-विरह-काल-क्षपणार्थ एव तासां प्राण-परित्याग-परिहारार्थम् एव
च । यथोक्तं पाद्मे-कैशोरे गोप-कन्यास् ता यौवने राज-कन्यका इति । यथा
च श्री-रुक्मिणी-वाक्यम्-
यर्ह्य् अम्बुजाक्ष न लभेय भवत्-प्रसादं
जह्याम् असून् व्रत-कृशान् शत-जन्मभिः स्यात् ॥ [भ्प् 10.52.43] इति ।
[302]
अथोद्दीपनेषु जातिः । तत्र गोपत्व-रूपाम् आह -
विविध-गोप-चरणेषु विदग्धो
वेणु-वाद्य उरुधा निज-शिक्षाः ॥ [भ्प् 10.35.15] इत्य् आदिना । स्पष्टम् ।
॥ 10.35 ॥ श्री-व्रज-देव्यः ॥ 301-302 ॥
[303]
यादवत्व-रूपां सादृश्य-रूपां चाह - मेघः श्रीमंस् त्वम् असि दयितो
यादवेन्द्रस्य नूनम् [भ्प् 10.90.20] इत्य् आदिना ॥ स्पष्टम् ।
॥ 10.90 ॥ श्री-पट्ट-महिष्यः
[304]
अथ क्रियाः । ताश् च द्विविधाः । भाव-सम्बन्धिन्यः स्वाभाविक-विनोद-
मय्यश् च । पूर्वा यथा - निशम्य गीतं तद्-अनङ्ग-वर्धनम् [भ्प् 10.29.4]
इत्य् आदि । स्पष्टम् ।
॥ 10.29 ॥ श्री-शुकः
[305]
उत्तराः-
वाम-बाहु-कृत-वाम-कपोलो
वल्गित-भ्रूर् अधरार्पित-वेणुम् ॥ [भ्प् 10.35.2] इत्य् आदि । स्पष्टम् ।
॥ 10.35 ॥ श्री-व्रज-देव्यः
[306]
विविध-गोप-चरणेषु [भ्प् 10.35.14] इत्य् आदौ च ता ज्ञेयाः । अथ द्रव्याणि ।
तत्र तस्य प्रेयस्यो यथा -
उषस्य् उत्थाय गोत्रैः स्वैर् अन्योन्याबद्ध-बाहवः ।
कृष्णम् उच्चैर् जगुर् यान्त्यः कालिन्द्यां स्नातुम् अन्वहम् ॥ [भ्प् 10.22.6]
गोत्रैर् वर्गैः ।
॥ 10.22 ॥ श्री-शुकः
[307]
तद्-व्रज-स्त्रिय आश्रुत्य [भ्प् 10.21.3] इत्य् आदौ च स्व-सखीभ्योऽन्ववर्णयन्न्
इत्य् उदाहार्यम् ।
तत्-परिकराः - तं वीक्ष कृष्णानुचरं व्रज-स्त्रियः [भ्प् 10.47.1] इत्य् आदि ।
स्पष्टम् ।
॥ 10.47 ॥ सः
[308]
मण्डनम् - पूर्णाः पुलिन्द्य उरुगाय-पदाब्जेअ-राग-श्री-कुङ्कुमेन दयिता
[भ्प् 10.21.17] इत्य् आदि ।
[309]
वंशी-गोप्यः किम् आचरद् अयं कुशलं स्म वेणुः [भ्प् 10.21.17] इत्य् आदि ।
स्पष्टम् ।
॥ 10.21 ॥ ताः
[310]
पदाङ्कः - पदानि व्यक्तम् एतानि नन्द-सूनोर् महात्मनः [भ्प् 10.30.25]
इत्य् आदि ।
[311]
पद-धूलिः -
धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्य्-अब्ज-रेणवः ।
यान् ब्रह्मेशो रमा देवी दधुर् मूर्ध्न्य् अघ-नुत्तये ॥ [भ्प् 10.30.29]
(पगे 128)
अत्र प्रेमैव तद्-उत्कर्षं गमयति न त्व् ऐश्वर्य-ज्ञानम् । स्वभावः खल्व्
अयं प्रीति-परमोत्कर्षस्य यत् स्व-विषयं सर्वत उत्कर्षेणानुभावयति ।
यथादि-भरतेन मृग-प्रेम्णा तदीय-खुर-स्पर्शात् पृथिव्या अपि महा-
भागधेयत्वं वर्णितम्-किं वा अरे आचरितं तपस् तपस्विन्या यद् इयम्
अवनिः [भ्प् 5.8.23] इत्य् आदिना । एवम् एव-
किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि-
स्पर्शोत्सवोत्पुलकिताङ्ग-रुहैर् विभासि ।
अप्य् अङ्घ्रि-सम्भव उरुक्रम-विक्रमाद् वा
आहो वराहवपुषः परिरम्भणेन ॥ [भ्प् 10.30.10]
अत्र पूर्वार्धे प्रेम्णा श्री-कृष्ण-माधुर्य-महिमोक्तिः । उत्तरार्धे
तेनैवान्यत्र हेयतोक्तिः । अत्र च अपीति किम् अर्थे । ततश् च एषोऽङ्घ्रि-
सम्भवो हर्ष-विकारः उरुक्रमस्य त्रिविक्रमस्य विक्रमाद् वापि पाद-
विक्षेपाद् वापि किं जातः । आहो इति पक्षान्तरे । वराह-वपुषः कान्त-
भावतोऽपि परिरम्भणेन वा एषोऽङ्घ्रि-सम्भवः किं जातः । न हि न हीत्य्
अर्थः । अपीति स्तोकार्थे वा सर्पिषोऽपि स्याद् इतिवत् । ततश् च उरुक्रम-विक्रमाद्
अपि एषोऽङ्घ्रि-सम्भवो विकारः स्यात् । किन्तु स्तोक एव स्याद् इत्य् अर्थः ।
॥ 10.30 ॥ ताः
[313]
नखाङ्कः - पृच्छतेमा लता बाहून् [भ्प् 10.30.31] इत्य् आदाव् एव ज्ञातः । एवं
वृन्दावन-यमुनादीन्य् अप्य् उदाहार्याणि । अथ कालश् च रासोत्सवादि-
सम्बन्धी । स यथा-ताः किं निशाः स्मरति यासु [भ्प् 10.47.43] इत्य् आदि ।
स्पष्टम् ।
॥ 10.47 ॥ ताः
[314]
तद् एवं यथा तदीय-गुणादयः उद्दीपनास् तथैव तादृश-सेवोपयोगित्वेन
तत्-प्रेयसी-गुणा अपि ज्ञेयाः । ते च तासाम् आत्म-सम्बन्धिन आत्माभीष्ट-
तद्-वल्लभासम्बन्धिनश् चेत्य् उभयेऽप्य् ऊह्याः ।
अथानुभावाः । तत्र सैरिन्ध्र्यादीनां, यथा -
सा मज्जनालेप-दुकूल-भूषण-
स्रग्-गन्ध-ताम्बूल-सुधासवादिभिः ।
अप्रसाधितात्मोपससार माधवं [भ्प् 10.48.5] इत्य् आदि । स्पष्टम् ।
॥ 10.15 ॥ श्री-शुकः
[315]
श्री-पट्ट-महिषीणाम् इत्थं रमा-पतिम् अवाप्य [भ्प् 10.59.44] इत्य् आदि-द्वय
एव विदितः । श्री-व्रज-देवीनां यथा, आसाम् अहो [भ्प् 10.47.61] इत्य् आदौ । या
दुस्त्यजम् इत्य् आदि । तत्र च विवरणम्-
तं गोरजश्-छुरित-कुन्तल-बद्ध-बर्ह-
वन्य-प्रसून-रुचिरेक्षण-चारु-हासम् ।
वेणुम् क्वणन्तम् अनुगैर् उपगीत-कीर्तिं
गोप्यो दिदृक्षित-दृशो ऽभ्यगमन् समेताः ॥
पीत्वा मुकुन्द-मुख-सारघम् अक्षि-भृङ्गैस्
तापं जहुर् विरह-जं व्रज-योषितो ऽह्नि ।
तत् सत्-कृतिं समधिगम्य विवेश गोष्ठं
सव्रीड-हास-विनयं यद् अपाङ्ग-मोक्षम् ॥ [भ्प् 10.15.42-43} इत्य् आदि
स्पष्टम् ।
॥ 10.15 ॥ श्री-शुकः
[316]
अथ प्रायः सर्वासां ते चतुर्विधाः उद्भास्वर-सात्त्विकालङ्कार-
वाचिकाख्याः । तत्रोद्भास्वरा उक्ताः -
नीव्य्-उत्तरीय-धम्मिल्ल-स्रंसनं गात्र-मोटनम् ।
जृम्भा घ्राणस्य फुल्लत्वं निश्वासाद्याश् च ते मताः ॥[उन् 10.70] इति ।
यथा-
तद्-अङ्ग-सङ्ग-प्रमुदाकुलेन्द्रियाः
केशान् दुकूलं कुच-पट्टिकां वा ।
नाञ्जः प्रतिव्योढुम् अलं व्रज-स्त्रियो
विस्रस्त-मालाभरणाः कुरूद्वह ॥ [भ्प् 10.33.17] इत्य् आदि ।
(पगे 129)
[317]
सात्त्विकाः -
तत्रैकांस-गतं बाहुं कृष्णस्योत्पल-सौरभम् ।
चन्दनालि-समाघ्राय हृष्ट-रोमा चुचुम्ब ह ॥ [भ्प् 10.33.12]
स्पष्टम् ।
॥ 10.33 ॥ श्री-शुकः
[318]
निर्विकारात्मके चित्ते भावः प्रथम-विक्रिया ॥ उन् 11.6] । स यथा -- चित्तं
सुखेन भवतापहृतं गृहेषु [भ्प् 10.29.34] इत्य् आदि । स्पष्टम् ।
॥ 10.29 ॥ श्री-गोप्यः
[319]
ग्रीवारेचक-संयुक्तो भ्रू-नेत्रादि-विकाश-कृत् ।
भावाद् ईषत्-प्रकाशो यः स हाव इति कथ्यते ॥ [उन् 11.9] इति ।
स यथा श्री-लक्ष्मणा-स्वयंवरे -
उन्नीय वक्त्रम् उरु-कुन्तल-कुण्डल-त्विड्-
गण्ड-स्थलं शिशिर-हास-कटाक्ष-मोक्षैः ।
राज्ञो निरीक्ष्य परितः शनकैर् मुरारेर्
अंसे ऽनुरक्त-हृदया निदधे स्व-मालाम् ॥ [भ्प् 10.83.29] इति ।
॥ 10.83 ॥ सैव
[320]
एवं -- हाव एव भवेद् धेला व्यक्त-शृङ्गार-सूचकः [उन् 11.11] इति
लक्षणानुसारेण हेलाप्य् उदाहार्या । सा शोभा रूप-भोगाद्यैर् यत् स्याद्
अङ्ग-विभूषणम् [उन् 11.13] । सा यथा -
तासाम् अतिविहारेण [भ्प् 10.33.21] इत्य् आदि, गोप्यः स्फुरत्-पुरट-कुण्डल-
कुन्तल-त्विड्-गुण-श्रिया सुधित-हास-निरीक्षणेन [भ्प् 10.33.22]
[321]
माधुर्यं नाम चेष्टानां सर्वावस्थासु चारुता [उन् 11.19] । तद् यथा -
काचिद् रास-परिश्रान्ता पार्श्वस्थस्य गदा-भृतः ।
जग्राह बाहुना स्कन्धं श्लथद्-वलय-मल्लिका ॥ [भ्प् 10.33.11]
स्पष्टम् ॥
॥ 10.33 ॥ श्री-शुकः
[322]
निःशङ्कत्वं प्रयोगेषु बुधैर् उक्ता प्रगल्भता ॥ [उन् 11.21]
सा च-
तत्रैकांस-गतं बाहुम् [भ्प् 10.33.11] इत्य् आदौ दर्शिता ।
औदार्यं विनयं प्राहुः सर्वावस्था-गतं बुधाः । [उन् 11.15]
तद् यथा-मृगयुर् इव कपीन्द्रम् [भ्प् 10.47.17] इत्य् आदौ दुस्त्यजस् तत्-
कथार्थः इति । स्पष्टम् ।
॥ 10.47 ॥ सैव
[324]
एवं-
शोभैव कान्तिर् आख्याता मन्मथाप्यायनोज्ज्वला ॥ [उन् 11.15]
कान्तिर् एव वयो-भोग-देश-काल-गुणादिभिः ।
उद्दीपितातिविस्तारं प्राप्ता चेद् दीप्तिर् उच्यते ॥ [उन् 11.17]
इत्य् अनुसारेण कान्ति-दीप्ती अप्य् उदाहार्ये ।
प्रियानुकरणं लीला रम्यैर् वेश-क्रियादिभिः । [उन् 11.28] तस्यां वेश-
क्रियया तच्-चेष्टानुकरणं यथा -
अन्तर्हिते भगवति [भ्प् 10.30.1] इत्य् आद्य् अनन्तरम् गत्यानुराग-स्मित- [भ्प्
10.30.2] इत्य् आदि ॥(पगे 130)
[325]
तास् ताः बाहु-प्रसारा [भ्प् 10.29.46] इत्य् आदिनोक्तास् तदीय-लीला इत्य् अर्थः ।
पश्चादावेशेन रूपं तद्-अभेद-भावना-रूपम् । गति-स्मित-प्रेक्षण-
भाषणादिषु [भ्प् 10.30.3] इत्य् आदि ।
एवं स्व-विलास-रूपां लीलाम् उद्भाव्यापि तासां निजो भावो निगूढं तिष्ठत्य्
एव, यथा वक्ष्यते यतन्त्य् उन्निदधेऽबरम् [भ्प् 10.30.20] इत्य् अत्र यतन्तीति ।
अथैतद् अग्रेऽपि काल-क्षेपार्थं या लीला याभिर् गातुं प्रवर्तिताः
प्रेमावेशेन ता लीला एव तास्व् आविष्ठा इति तत्-तद्-अनुकरण-विशेषे हेतुर्
ज्ञेयः । एतद्-अनुकरणं च प्रायो न लीला-शब्द-वाच्यम् । बाल्यादि-
रूपस्यानालम्बनत्वेनोज्ज्वल-रसाङ्गत्वाभावात् । तत्र पूतनादीनां प्रीति-
मात्र-विरोधि-भावानाम् अपि तथा श्री-कृष्ण-जनन्य्-आदीनां निज-प्रीति-
विशेष-विरोधि-भावानाम् अपि चेष्टानुकरणं श्री-कृष्णानुकर्त्रीणां
गोपिकानां सखीभिस् तासां विरह-काल-क्षेपाय तत्-तद्-भाव-पोषार्थं
कृत्रिमतयिवाङ्गीकृतं, न तु तत्-तद्-भावेनेति समाधेयम् । केचिच् चैवं
व्याचक्षते, पूतना-वध-लीला-स्मरणावेशे सति कासाञ्चित् पूतनानुकरणम्
अपि श्री-कृष्णानिष्ठा-शङ्कया भयेनैव भवति । यथा लोकेऽपि आत्म-
निष्ठा-शङ्कया भयोन्मत्तस्य तद्-भय-हेतु-व्याघ्राद्य्-अनुकरणं
भवति । ततस् तद्-अनुकरणेऽपि आत्मनीव श्री-कृष्णे प्रीतिर् एवोल्लसति न तु
द्वेषः । सा प्रीतिर् यथात्मनि तद्-रूपतयैव तिष्ठति तथैव तासां श्री-
कृष्णेऽपि स्वभावोचितैवानुवर्तते ।
ततः बद्धान्यया स्रजा काचिद् [भ्प् 10.30.23] इत्य् आदौ श्री-यशोदानुकरणं
च तथैव मन्तव्यम् । पूर्वं हि दामोदर-लीला-स्मरणावेशेन तस्याः श्री-
कृष्ण-भावः । ततश् च वक्त्रं निनाय भय-भावनया स्थित्स्य [भ्प् 1.8.31]
इत्य्-उक्त-रीत्या श्री-यशोदातो भयम् अपि जातम् । बाल्य-स्वभावानुस्मरणेन
तद्-अनुकरणं च । ततश् च सैव स्वयम् अन्यां काञ्ची-तल्-लीलावेशेनैव
कृष्णायमानां च बबन्ध । तथापि पूर्ववत् स्वभावोचितैव प्रीतिस् तस्याम्
अन्तर्वर्तत एव । सा हि प्रीतिस् तत्-तद्-भावस्य परमाश्रय-रूपा । ततो बहिर्
एव तत्-तद्-अनुकरणात् श्री-यशोदा-भावस्य च मध्ये श्री-कृष्ण-भाव-
व्यवधानेन निज-भावास्पर्शान् न विरोध इति ।
॥ 10.30 ॥ श्री-शुकः
[326]
गति-स्थानासनादीनां मुख-नेत्रादि-कर्मणाम् ।
तात्कालिकं तु वैशिष्ट्यं विलासः प्रिय-सङ्गजम् ॥ [उन् 11.31]
स यथा -
तं विलोक्यागतं प्रेष्ठं प्रीत्य्-उत्फुल्ल-दृशो ऽबलाः [भ्प् 10.32.3] इति
स्पष्टम् ।
॥ 10.32 ॥ सः
[327]
गर्वाभिलाष-रुदित-स्मितासूया-भय-क्रुधाम् ।
सङ्करी-करणं हर्षाद् उच्यते किल-किञ्चितम् ॥[उन् 11.44]
तद् यथा - तस्य तत् क्ष्वेलितं श्रुत्वा बालाः प्रेमपरिप्लुताः [भ्प् 10.22.12] इत्य्
आदि, एवं ब्रुवति गोविन्दे [भ्प् 10.22.13] इत्यादि, मानयं भोः कृथा [भ्प्
10.22.14] इत्यादि, श्यामसुन्दर ते दास्यः [भ्प् 10.22.15] इत्य् आद्य् अन्तम् ।
स्पष्टम् ।
॥ 10.22 ॥ सः
[328]
वल्लभ-प्राप्ति-वेलायां मदनावेश-सम्भ्रमात् ।
विभ्रमो हार-माल्यादि-भूषा-स्थान-विपर्ययः ॥ [उन् 11.39]
स यथा -- व्यत्यस्त-वस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः [भ्प् 10.29.7]
इति । (पगे 131)
इष्टेऽप्य् गर्व- मानाभ्यां बिब्बोकः स्याद् अनादरः [उन् 11.52] । स च एका
भ्रू-कुटिम् आबध्य [भ्प् 10.32.6] इत्य् आदाव् उदाहरिष्यते ।
विन्यास-भङ्गि-रङ्गानां भ्रू-विलास-मनोहराः ।
सुकुमारा भवेद् यत्र ललितं तद्-उदीरितम् । [उन् 11.56] । तच् च पूर्वत्रैव
ज्ञेयम् ।
॥ 10.32 ॥ सः
[329]
कान्त-स्मरण-वार्तादौ हृदि तद्-भाव-भावतः ।
प्राकट्यम् अभिलाषस्य मोट्टायितम् उदीर्यते ॥ [उन् 11.47]
तच् च कृष्णं निरीक्ष्य वनितोत्सव [भ्प् 10.21.12] इत्य् आदाव् एव ज्ञेयम् ।
ह्री-मानेर्ष्यादिभिर् यत्र नोच्यते स्व-विवक्षितम् ।
व्यज्यते चेष्टयैवेदं विकृतं तद् विदुर् बुधाः ॥ [उन् 11.58]
तद् यथा-
परिधाय स्व-वासांसि प्रेष्ठ-सङ्गम-सज्जिताः ।
गृहीत-चित्ता नो चेलुस् तस्मिन् लज्जायितेक्षणाः ॥ [भ्प् 10.22.23]
स्पष्टम् ।
॥ 10.22 ॥ सः
[330]
आकल्प-कल्पनाल्पापि विच्छित्तिः कान्ति-पोष-कृत् ॥ [उन् 11.34]
स्तनाधरादि-ग्रहणे हृत्-प्रीताव् अपि सम्भ्रमात् ।
बहिः क्रोधो व्यथितवत् प्रोक्तं कुट्टमितं बुधैः ॥ [उन् 11.49]
एवम् इत्य् अनुसारेण विच्छित्ति-कुट्टुमिते अपि ज्ञेये ।
अथ वाचिकाः । तत्र चाटु-प्रियोक्तिर् आलापः [उन् 11.80] । स यथा -- का स्त्र्य्
अङ्ग ते कल-पदायत-मूर्च्छितेन [भ्प् 10.29.40] इत्य् आदि । स्पष्टम् ।
॥ 10.29 ॥ श्री-गोप्यः
[331]
विलापो दुःखजं वचः [उन् 11.83] । स यथा- परं सौख्यं हि नैराश्यं
[भ्प् 10.47.47] इत्य् आदि । स्पष्टम् ।
॥ 10.47 ॥ ताः
[332]
उक्ति-प्रत्युक्तिमद्-वाक्यं संलाप इति कीर्त्यते [उन् 11.85] । स यथा-स्वागतं
वो महाभागाः [भ्प् 10.29.18] इत्य् आदिकं । व्यक्तं भवान् व्रज-भयार्ति-
हरोऽभिजातः [भ्प् 10.29.41] इत्य् आद्य्-अन्तम् ।
अत्र श्री-कृष्ण-वाक्येषु प्रथमोऽर्थस् तासु वेण्व्-आदि-मोहितास्व् अपि वाम्यम्
आचरन्तीषु सङ्ग-प्रार्थना-रूपः । द्वितीयस् तु परिहासाय तद्-भाव-
परीक्षणाय च तद्-आगमन-कारण-स्व-सङ्ग-प्रत्याख्यान-रूपः । तथैव
तासां वाक्येष्व् अपि तत्-प्रार्थना-प्रत्याख्यान-रूपः । अतएव पारस्परिक-
समान-वैदग्धी-मयत्वाद् अतितरां रसः पुष्यते ।
स्वागतं इति उभयत्र समानम् एव । रजन्य् एषा । यदि कथञ्चिद् आगता एव
तदाधुना तु रजन्या घोर-रूपादित्वात् व्रजं प्रति न यात, यातुं नार्हथ ।
किन्तु स्त्रीभिर् युष्माभिर् इह मम वीरस्य सन्निधाव् एव स्थेयं स्थातुं
योग्यम् इति । सुमध्यमा इति पुनर् गमने खेदम् अपि दर्शितवान् ।
न च मत्-सन्निधाव् अवस्थाने बन्धुभ्यो भेतव्यम् इत्य् आह मातरः [भ्प्
10.29.20] इति । बन्धुभ्यः साध्वसं मा कृढ्वं यतस् ते मात्रादयो
बन्धवो रात्राव् अस्मिन् अपश्यन्त एव विचिन्वन्ति । ततो नास्ति तेषाम्
अत्रागमन-सम्भावनेति भावः । पुत्रा देवरं-मन्यादि-पुत्राः
सपत्न्यादि-पुत्रा वा ।
निजाराम-दर्शनया तासां भावम् उद्दीपयति दृष्टं वनं [भ्प् 10.29.21]
इति । निगमयति तद् यात [भ्प् 10.29.22] इति यस्माद् रजन्य् एषा घोर-रूपा इत्य्-
आदिको हेतुः, तत् तस्माच् चिर-कालं व्याप्य घोषं मा यात । अचिरम् अधुनैव
मा यातेति वा । ततस् तत्र गत्वा पतीन् युष्मत्-पतित्वेन क् प्तां तान् अपि मा
शुश्रूषध्वम् । हे सतीः सत्यः परमोत्तमाः । ये च वत्सादयस् ते च मा
क्रन्दन्ति (पगे 132) ततस् तान् मा पाययत तद्-अर्थं मा दुह्यत चेति ।
यदि स्वयम् एव भवत्यो मद्-अनुरागेणैवागता न तत्र मत्-
प्रार्थनापेक्षापि, तदा तद् अतीव युक्तम् आचरितम् इत्य् आह अथवा [भ्प्
10.29.23] इति । मम मयि । यदि जन्तु-मात्राण्य् एव मयि प्रीयन्ते तदा
भवतीनां कामिनीनां कान्त-भावात्मक एव सः स्नेहो भवेद् इति भावः ।
ननु भर्तृ-शुश्रूषण-परित्यागे स्त्रीणां दोषस् तत्राह भर्तुः शुश्रूषणं
[भ्प् 10.29.24] इति । अमायया यो भर्ता तस्यैव शुश्रूषणं परो धर्मः ।
तथा तद्-बन्धूनां च । युष्माकं तु अनुपभुक्तात्वेन लक्ष्यमाणानां
दाम्पत्य-व्यवहाराभावात् केनापि माययैव तत् कल्पितम् इति लक्ष्यते । ततो
न दोष इति भावः ।
अङ्गीकृत्यापि पतित्वं प्रकारान्तरेण तत्-सेवां स्मृति-वाक्य-द्वारापि
परिहरति दुःशीलः [भ्प् 10.29.25] इति । अपातक्य् एव न हातव्यः । ते तु
पातकिन एवेति सासूयो भावः ।
अपातकित्वाङ्गीकारम् आशङ्क्य छलेन स्मृति-वाक्यान्तरम् अन्यार्थतया
व्यञ्जयन्न् अपि तत्-सेवां प्रत्याचष्टे अस्वर्ग्यम् [भ्प् 10.29.26] इति । उप
समीपे पतिर् यस्याः सा उपपतिस् तस्या भाव औपपत्यं पति-सामीप्यम् इत्य्
अर्थः । तत् खल्व् अस्वर्ग्याद् इति ।
अथ मय्य् अपि जातो भावः क्लेशायैव भवतीत्य् आशङ्क्यापि मा
पराङ्मुखीभवतेत्य् आह श्रवणाद् [भ्प् 10.29.27] इति । यथा श्रवणादिना
मद्-भावो मद्-अप्राप्त्या दुःख-मयस् तथा सन्निकर्षेण मत्-प्राप्त्या न
भवति । ततस् तस्माद् गृहान् गृह-सदृशान् कुञ्जान् प्रति यात प्रविशत ।
पर्युदासोऽत्र नञ् इति ।
तद् एवं श्री-कृष्ण-वाक्यस्य प्रार्थना-रूपोऽर्थो व्याख्यातः । अर्थान्तरं
तु प्रसिद्धम् । तत्र पुत्रा इति सपरिहास-दोषोद्गारेणापि प्रत्याख्यानम् ।
अथ तादृश-कृष्ण-वाक्य-श्रवणानन्तरं तासाम् अवस्था-वर्णनम् इति
विप्रियम् आकर्ण्य [भ्प् 10.29.28] इत्य्-आदिभिस् त्रिभिः । अर्थ-द्वितयस्यैव
तर्केण तद्-अभिप्राय-निश्चयाभावाद् उत्कण्ठास्व्याभाव्येन
प्रत्याख्यानस्यैव सुष्ठु स्फुरितत्वात् तद्-वाक्यस्य विप्रियत्वं तासां
विषादादिकं च । तत्रोभयत्रापि चिन्ताया युक्तत्वात् मुख-नमनादि-चेष्टास्व्
अपि न रस-भङ्गः । पदा भ्रू-लेखनं चात्र नायिकया स्वयम् अभियोगेऽप्य्
उक्तम् अस्ति ।
अथ तासाम् अपि तद्-अनुरूपं वाक्यं मैवं [भ्प् 10.29.31] इत्य् आदि । मेति तत्-
प्रार्थना-निराकरणे सर्व-विषयान् पति-पुत्रादीन् सन्त्यज्य यास् तव पाद-
मूलं भक्तास् ता एव दुरवग्रहं निरर्गलं यथा स्यात् तथा भजस्व ।
पाद-मूलम् इति तासु निजोत्कर्ष-ख्यापनम् । अस्मान् पुनर् अतथाभूतान् आ
सम्यग् दर्शन-प्रसङ्गादिष्व् अपि त्यज । तत्रान्यासां भजने स्वेषां त्यागे
च सद्-आचारं दृष्टान्तयति देव इति । स हि त्यक्त-विषय-कर्मादितया स्वं
भजतो मुमुक्षून् एव भजति नान्यान् इति ।
अथ शास्त्रार्थ-द्वारा तद्-उपदेशं निराकुर्वन्ति यत् पत्य्-अपत्य [भ्प्
10.29.32] इति । स्वधर्मः सुष्ठु अधर्मः । धर्म-विदेति सोपहासम् । उक्तं
छलेन प्रतिपादितम् । भर्तुः शुश्रूषणम् इत्य् आदाव् अन्यथा-
योजनाभिप्रायात् । एतद् अधर्म-निराकरणोपदेश-वाक्यम् । तत्-पदे
उपदेष्टरि ईशे स्वतन्त्राचारे त्वय्य् एवास्तु त्वम् एवाधर्मान् निवर्तस्व इत्य्
अर्थः । ततो युष्माकं किम् इत्य् अत आहुः प्रेष्ठ इति । बन्धुर् आत्मा सुन्दर-
स्वभावो भवान् प्राणि-मात्राणां किल प्रेष्ठः । ततस् तेनैव सर्वे वयः
मङ्गलिनः स्यामेत्य् अर्थः ।
अथवा मद्-अभिस्नेहाद् इत्य् आदिकं निराकुर्वन्ति कुर्वन्ति हि [भ्प् 10.29.33] इति ।
आर्तिं द्यन्ति छिन्दन्ति इति तादृशैः पत्यादिभिर् हेतु-भूतैः स्वे (पगे 133)
आत्मनि देहादौ
नित्य-प्रिये सति याः कुशला भवन्ति ताः किं त्वयि रतिं कान्त-भावं कुर्वन्ति
अपि तु नैवेत्य् अर्थः । तत् तस्मात् नोऽस्मभ्यं प्रसीद इमं दुराग्रहं
त्यजेत्य् अर्थः । तत्र वरदेश्वरेति सोपलम्भं सम्बोधनम् । एष एव
वरोऽस्मभ्यं दीयताम् इति बोधकम् ।
तद् एव व्यञ्जयन्ति त्वयि चिराद् धृता अवस्थिता या आशा तृष्णा तां व्याप्य
वयं मा स्म मा भवाम । तस्यां त्वन्-मनः-स्थितायां तृष्णायां वयम्
उदासीना एव भवाम इत्य् अर्थः । ततस् तां छिन्द्या इति । अरविन्द-नेत्रेति ।
एतादृशेऽपि नेत्रे कौटिल्यं न युक्तम् इति भावः । मा स्मेत्य् अस्तेर् मा-योगे
लङि रूपम् ।
आशायाः कर्मत्वं च गो-दोहम् अस्तीतिवत् । श्रवणाद् दर्शनाद् इत्य् आदि-सूचितं
निज-भाव-जन्मापलपन्ति चित्तम् [भ्प् 10.29.34] इति । नोऽस्माकं चित्तं सुख
एव वर्तते न तु भवता तस्माद् अपहृतम् । यस्माग् गृहेषु निर्विशति । तत्र
चिह्नं कराव् अपि गृह-कृत्यार्थं निर्विशत इति । यद् उक्तं सुमध्यमा इति
तत्राहुः पादौ कथं तव पाद-मूलात् पदम् अपि न चलतः । ततः कथं
व्रजं न यामः, अपि तु याम एवेत्य् अर्थः । यत् तूक्तं व्रजं प्रति न यात
किं त्व् इहैव स्थीयताम् इति तत्राहुः करवाम किं वेति ।
अगृहान् प्रतियातेति सतृष्णं यद् उक्तं तत्राहुः सिञ्च [भ्प् 10.29.35] इति । अङ्ग,
हे कामुक, नोऽस्माकं स्वाभाविकात् हासावलोकक-सहितात् कल-गीताज् जातो यस्
तव हृच्-छयाग्निस् तं त्वद्-अधरामृत-पूरकेणैव सिञ्च । अस्मदीयस्य तस्य
कथञ्चिद् अप्राप्यत्वाद् इति । अन्योऽपि रस-लुब्धो लोभ्य-वस्तुनोऽप्राप्तौ
निजौष्ठम् एव लेढीति नर्म च व्यञ्जितम् ।
तत्र हेतुम् आह नो इति । धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि [भ्प्
10.4.10] इत्य्-आदिवत् अत्र चेच् छब्दोऽपि निश्चये । ततश् च यस्मात् निश्चितम् एव
वयं ते तव विरहजाग्न्य्-उपयुक्त-देहा नो भवामः । ततो ध्याने विषयेऽपि
तव पदयोः पदवीम् अपि न यामः न स्पृशामः । सखे इति सम्बोध्य
प्राचीन-मिथो-बाल्य-क्रीडा-गत-सौहृद्य-प्रकटनेन निज-वचस आर्जवं
प्रकटितवत्यः ।
ननु सख्येन बाल्य-क्रीडायाम् अपि स्पर्शादिकं जातम् एवास्ति तर्हि कथम्
अहो इदानीम् उदासीनाः स्थ । तत्राहुः यर्हि [भ्प् 10.29.36] इति । हे अम्बुजाक्ष
अरण्य-जनाः पशु-पक्ष्य्-आदयस् तेषां प्रियस्य बाल्य-भावेन तैर् एव कृत-
मैत्रस्य तव यर्हि यदा क्वचिद् अपि रमाया रमण्या दत्तावसरं पाद-
तलं जातं, तद्-अनुगताव् उन्मुखं बभूवेत्य् अर्थः । तत्-प्रभृत्य् एव वयं
तद् अपि नास्प्राक्ष्म न स्पृष्टवत्यः । किम् उतान्यद् अङ्गम् । तद् एवं निज-
दाढ्येनैव पूर्वं त्वयाभिरमिताः कारित-बाल्य-क्रीडा अपि वयम् अधुना
अञ्जसः अनायासेन अन्येषां गुरु-जनादीनां समक्षं स्थातुं पारयामः ।
बतेति शङ्कायाम् । अन्यथा तैर् अपि त्यज्येमहीति भावः ।
अथ प्रीयन्ते मयि जन्तवः इत्य् अत्र कामिन्यो यूयं कान्त-भावात्मकम् एव
स्नेहं कर्तुम् अर्हथेति यद् अभिप्रेतं तत्र लक्ष्म्य्-आदि-रूपम् उदाहरणम्
आशङ्क्य परिहरन्ति श्रीर् [भ्प् 10.29.37] इति । श्रीर् अपि वक्षसि तथा प्रसिद्धेः
श्री-विष्णोर् उरसि पदं लब्ध्वापि यस्य तव श्री-गोकुल-वृन्दावन-स्थितं
पदाम्बुज-रजस् तुलस्या वृन्दया सह चकमे । त्वज्-जन्मत आरभ्य
नन्दस्य व्रजो रमाक्रीडो बभूवेति तुलसी-लक्षण-रूपान्तरा वृन्दा-देवी
वृन्दावने नित्य-वासम् अकरोद् इति च मुनि-जन-प्रसिद्धेः । कथम्भूतम्
अपि रजश् चकमे । भृत्यैर् व्रज-सम्बन्धिभिर् जुष्टं शिरो-
धारणादिनोपभुक्तम् अपि । सा तु कीदृङ्-महिमापि । यस्याः स्व-विषयक-
(पगे 134) कृपा-वीक्षणे उत अपि । अन्य-सुराणां तत्-पार्षदादीनाम् अपि
प्रयासस् तादृश-महिमापि । वयं चेति च-शब्दः काकु-सूचकस्यापि-शब्दस्य
समानार्थः । ततो यथा श्रीर् यथा च वृन्दा तद्वद् वयम् अपि मुघ्दाः
सत्यः तस्य तव पाद-रजः प्रपन्नाः अपि तु नैवेत्य् अर्थः ।
प्राक्तनं वाक्यं निगमयन्ति तन् नः [भ्प् 10.29.38] इति । वृजिनार्दनेति
कर्मण्य् अन् एव । हे सर्व-दुःख-निवारक, ततस् तस्मात् नोऽस्मान् प्रति
प्रसीद इमां दुर्दृष्टिं त्यजेत्य् अर्थः । ननु यूयम् अपि गृहादि-
त्यागेनात्रागत्य तद्वद् एव मत्-पाद-रजः प्रपन्नाः तत्राहुः न ते ऽङ्घ्रि-
मूलम् इति । तद्वद् असतोर् विसृज्य त्वद्-उपासनाशाः सत्यस् तवाङ्घ्रि-मूलं न
प्राप्ता अपि तु कौतुकेनैव ज्योत्स्नायां वृन्दावन-दर्शनार्थम् आगता इत्य्
अर्थः । अतस् त्वदीय-तादृश-निरीक्षण-जात-तीव्र-कामेन
तप्तात्मानो यास् तासाम् एव दास्यं देहि न तु मादृशीनाम् । अत्र षष्ठी
चात्यन्त-दानाभावे सम्प्रदानत्वं न भवतीति विवक्षया । अतस् तद् अपि
दानं गोकुलेऽस्मिन् नातिस्थिरीभविष्यतीति भावः ।
पुरुष-भूषणेति सम्बोधनं च श्लिष्टम् । पुरुषान् गोकुल-गतान् सखि-
जनान् एव भूषयति न त्व् अद्यापि गोकुल-रमणीं काञ्चिद् अपि । अतस् तादृश-
तप्तात्मानोऽपि नायिकाः कल्पना-मात्र-मय्य इति भावः । अत्र
भावान्तरेणागति-सूचनात् दृष्टं वनं कुसुमितम् [भ्प् 10.29.21] इत्य् अनेन
तद्-भावोद्दीपनम् अपि नादृतम् ।
अथ श्रवणाद् [भ्प् 10.29.27] इत्य् आदौ दर्शनान् मयि भावः इत्य् अनेन यन्-
निज-सौन्दर्य-बलं दर्शितं तत्राहुः वीक्ष्य [भ्प् 10.29.39] इति । अत्राप्य्
अन्त्यश् च-शब्दः काक्वाम् । पूर्वस् तु तत्-तद्-उक्त-समुच्चये । एतद् अपि एतच्
चापि विलोक्य दास्यो भवाम, अपि तु न सर्वथैव इत्य् अर्थः ।
ननु यद्य् एवं दृढ-व्रता भवत तर्हि कथम् इहैव सर्वां रात्रिं न
तिष्ठथेत्य् आशङ्क्य पुनः स-शङ्कम् आहुः का स्त्र्य् अङ्ग ते [भ्प् 10.29.40]
इति । यद्यप्य् एव तथापि अङ्ग हे कल-पदायत-वेणु-गीत, हे सम्मोहित
सम्मोहनाख्य-काम-बाण-मोहित, त्रिलोक्याम् एषा का स्त्री या ते त्वत्तः
सकाशात् आर्य-चरितात् सद्-आचाराद् धेतोर् अपि न चलेत् । अस्त्व् अस्माकं परम-
साधु-मर्यादा-व्रतानां दूरतो वार्ता ।
तद् एवं ततश् चलने हेतुं सम्बोधन-द्वयेन गुण-गतं भाव-गतं च
तदीयं दोषम् उक्त्वा रूप-गतं चाहुः त्रैलोक्येति । तथा आर्य-चरिताद् एव
हेतोर् इदं च रूपं विलोक्य का न चलेत् । यत् यस्मात् गो-द्विजेति । सुन्दरीणां
सुन्दर-पर-पुरुष-निकट-स्थितिर् हि बाढं लोक-विगानाय स्याद् इति ।
रजन्य् एषा [भ्प् 10.29.19] इत्य् आदौ इह वीरस्य मम सन्निधौ स्थेयम् इत्य्
अत्र बलाकारम् अप्य् आशङ्क्य सस्तुतिकम् इव प्रार्थयन्ते व्यक्तं भवान्
[भ्प् 10.29.41] इति । यस्माद् ईदृशो जातस् तस्मात् हे आर्त-बन्धो धर्म-च्युति-
भयतोऽपि व्रज-जनांस् त्रायमाण, किङ्करीणां गृह-दासीनाम् अपि भवद्-
दर्शन-जातकाम् अतप्तेष्व् अपि स्तनेषु कर-पङ्कजं नो निधेहि नार्पय ।
अस्तु तावत् स्तनानां वार्ता तासां शिरःसु च मा निधेहि ।
तद् एवं सति मादृशीनां तु सत्-कुल-जातानां परम-सतीनां तत्-तद्-वार्तां
मनसापि न निधेहीति भावः । तद् एवं श्री-कृष्ण-प्रार्थना-प्रत्याख्यान-
रूपोऽर्थो व्याख्यातः । स्वयं दूत्य-विशेषेण प्रार्थना-रूपो व्यङ्गोऽर्थश्
च प्रायः प्रसिद्ध एव । तत्र धर्म-शास्त्रोपदेश-बलेन यत् पत्य्-आदीनाम्
अनुवृत्तेर् नित्यत्वं श्री-भगवता स्थापितं ज्ञान-शास्त्रम् आलम्ब्य तन्
निराकर्तुं प्रतिभाव-चलनेनैव तस्य परमात्म-तत्त्वं कल्पयन्त्यः
सर्वोपदेशानां तद्-अनुगताव् एव तात्पर्यं स्थापयन्ति यत्-पत्य्-अपत्य [भ्प्
10.29.32] इति । एतत् स्वधर्मोपदेश-वाक्यं सर्वोपदेश-(पगे 135)-वाक्यानां
तात्पर्यास्पदे त्वय्य् एवास्तु । त्वद्-भजन एव पर्यवस्यत्व् इत्य् अर्थः । कथम्
अहं तद्-आस्पदम् । तत्राहुः - त्वम् आत्मा परमात्मेति । ततः तम् एतं
वेदानुवचनेन ब्राह्मणा विविदिषन्ति [बौ 4.4.22] इत्य्-आदि-शास्त्र-बलेन
त्वम् एव तद्-आस्पदम् इत्य् अर्थः ।
अथ मम परमात्मत्वम् अपि कुतः ? तत्र स-प्रतिभम् आहुः किल
प्रसिद्धौ तनु-भृतां प्रेष्ठः निरुपाधि-प्रेमास्पदं बन्धुर्
निरुपाधि-हित-कारी च भवान् इति । तच् च द्वयं परमात्म-लक्षणत्वेन
आत्मनस् तु कामाय सर्वं प्रियं भवति [बौ 2.4.5] इत्य् आदि-ज्ञान-शास्त्रे
प्रसिद्धम् । तस्मात् त्वम् एव परमात्मेति सिद्धम् । तस्मात् त्वद्-
उपासनोन्मुखानाम् अस्माकं ब्राह्मणो निर्वेदम् आयात्, नास्त्य् अकृतः कृतेन
[मुण्डकौ 1.2.12] इति बलवत्तर-ज्ञान-शास्त्रोपदेशेन स्वधर्म-
परित्यागेऽपि न दोष इति भावः । तासां तद्-ऐश्वर्य-ज्ञानं च तन्-
माधुर्यानुभवातिशयेनोदेतुं न शक्नोतीति पूर्वम् एव दर्शितम् । तत्र च
विशेषतः सद्-आचारं प्रमाणयन्ति कुर्वन्ति हि [भ्प् 10.29.33] इति । कुशलाः
सारासार-विद्वंसः सन्तः । हि प्रसिद्धौ । विशेषत इत्य् अर्थः । स्व आत्मनि
परमात्मनीति पूर्वाभिप्रायेण । स्वे आत्मनि अन्तःकरणे नित्य-
प्रियत्वेनानुभूयमानो यस् त्वं तस्मिंस् त्वयीत्य् अर्थः । इत्य् अभिप्रायेणवा ।
यस्मात् ते चैवम्भूते त्वय्य् एव रतिं कुर्वन्ति न तु धर्मादौ तद्-धेतौ
गृहादौ वा ।
तस्माद् अस्माकं पत्य्-आदिभिः किम् ? यर्ह्य् अम्बुजाक्ष [भ्प् 10.29.36] इत्य्
आदिषु रमादि-शब्दाः श्रीर् यत्-पदाम्बुजेत्य् आदिवद् एव व्याख्येयाः । इति
वाचिकानुभावेषु संलाप-व्याख्या ।
॥ 10.29 ॥ श्री-शुकः
[333]
सन्देशस् तु प्रोषितस्य स्व-वार्ता-प्रेषणं भवेत् [उन् 11.93] । स यथा -
हे नाथ हे रमा-नाथ व्रज-नाथार्ति-नाशन ।
मग्नम् उद्धर गोविन्द गोकुलं वृजिनार्णवात् ॥ [भ्प् 10.47.52]
[334]
अन्यार्थ-कथनं यत् तु सोऽपदेश इतीरितः [उन् 11.97] । स यथा-निःस्वं
त्यजन्ति गणिकाः [भ्प् 10.47.78] इत्य् आदि जारा भुक्ता रतां स्त्रियम् इत्य् अन्तम् ।
स्पष्टम् ।
॥ 10.47 ॥ श्री-गोप्य उद्धवम्
[335]
यत् तु शिक्षार्थ-वचनम् उपदेशः स उच्यते [उन् 11.99] । स यथा
बलदेवागमने-
किं नस् तत्-कथया गोप्यः कथाः कथयतापराः ।
यात्य् अस्माभिर् विना कालो यदि तस्य तथैव नः ॥ [भ्प् 10.65.14]
स्पष्टम् ।
॥ 10.65 ॥ ताः
[336]
व्याजेनात्माभिलाषोक्तिर् व्यपदेश इतीर्यते [उन् 11.103] । स यथा---कृष्णं
निरीक्ष्य [भ्प् 10.21.12] इत्य् आदौ देव्यो विमान-गतयः स्मर-नुन्न-साराः इत्य्
आदि । स्पष्टम् ।
॥ 10.21 ॥ ताः
[337]
एवं प्रलापानुलापापलापादिदेश-निर्देशा अपि पञ्च वाचिकेषु ज्ञेयाः । इत्य्
अनुभावाः । अथ व्यभिचारिणः । अत्र निर्वेदः सावमाने स्यात् चरण-रज
उपास्ते यस्य भूतिर् वयं का [भ्प् 10.47.15] इति । स्पष्टम् ।
॥ 10.47 ॥ ताः
[338]
अनुतापो विषादकः - अक्षण्वतां फलम् [भ्प् 10.21.7] इत्य् आदौ दृश्यः ।
दैन्यम् और्जित्य-राहित्ये तन् नः प्रसीद वृजिनार्दन [भ्प् 10.29.38] इत्य् आदि ।
स्पष्टम् ।
॥ 10.21 ॥ ताः
[339]
ग्लानिर् निष्प्राणता मता [ब्र्स् 2.4.26] काचिद् रास-परिश्रान्ता [भ्प् 10.33.10] इत्य्
आदौ दर्शिता । स्वेदात्मा श्रमः तासां रति-विहारेण [भ्प् 10.33.20] (पगे 136)
इत्य् आदि ।
[340]
उल्लासे विवेक-शमने मदः - तद्-अङ्ग-सङ्ग-प्रमदाकुलेन्द्रियाः [भ्प्
10.33.18] इत्य् आदि । स्पष्टम् ।
॥ 10.33 ॥ श्री-शुकः
[341]
अन्यस्य हेलने गर्वः । तस्याः स्युर् अच्युत नृपा भवतोपदिष्टाः [भ्प्
10.60.44] इत्य् आदि । स्पष्टम् ।
॥ 10.60 ॥ श्री-रुक्मिणी
[342]
शङ्का स्वानिष्ठ-तर्किते । अपि मय्य् अनवद्यात्मा दृष्ट्वा किञ्चिज् जुगुप्सितम्
[भ्प् 10.53.24] इत्य् आदि । स्पष्टम् ।
॥ 10.53 ॥ सा
[343]
त्रासो भिया मनः-क्षोभे -- क्रोशन्तं कृष्ण रामेति विलोक्य स्व-परिग्रहम्
[भ्प् 10.34.27] इति । स्पष्टम् ।
॥ 10.34 ॥ श्री-शुकः
[344]
आवेगश् चित्त-सम्भ्रमे -- दुहन्त्योऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः
[भ्प् 10.29.5] इत्य् आदि । स्पष्टम् ।
॥ 10.29 ॥ सः
[345]
उन्मादो हृदय-भ्रान्तौ -- गायन्त्य उच्चैर् अमुम् एव संहता [भ्प् 10.30.4]
इत्य् आदि । स्पष्टम् ।
॥ 10.30 ॥ सः
[346]
अपस्मारो मनो-लये -
मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः ।
स्मरन्त्यो ऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥ [भ्प् 10.46.5]
[347]
व्याधिस् तत्-प्रभवे भावे - धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान्
कथञ्चन [भ्प् 10.46.6] इति । स्पष्टम् ।
॥ 10.46 ॥ श्री-भगवान् उद्धवम् ॥ 346-347 ॥
[348]
मोहो हृन्-मूढतात्मनि । निज-पदाब्ज-दलैः [भ्प् 10.35.17] इत्य् आदौ, कुज-
गतिं गमिता इत्य् आदि । स्पष्टम् ।
॥ 10.35 ॥ श्री-गोप्यः
[349]
प्राण-त्यागे मृतिः सास्मिन्न् असिद्ध-वपुषां रतौ । अन्तर्-गृह-गताः काश्चित्
[भ्प् 10.29.9] इत्य् आदौ श्री-कृष्ण-सन्दर्भे व्याख्याता ।
अन्यत्र कृष्ण-कृत्येभ्यो बलिनः क्लेश-शङ्कया ।
आलस्यम् अचिकीर्षायां कृत्रिमं तेषु चोज्ज्वले ॥
तत्र कृष्ण-कृत्येभ्योऽन्यत्र तद् यथा-तद्-अङ्ग-सङ्ग इत्य् आदौ केशान्
दुकूलं कुच-पट्टिकां वा । नाञ्जः तु प्रतिव्योढुम् अलं व्रज-स्त्रियः [भ्प्
10.33.17] इति ।
॥ 10.33 ॥ श्री-शुकः
[350]
अथोज्ज्वले कृष्ण-सहित-विहार-कृत्येषु च कृत्रिमं तद् यथा - न पारयेऽहं
चलितुम् [भ्प् 10.30.37] इत्य् आदि । स्पष्टम् ।
॥ 10.30 ॥ श्री-राधा
[351]
जाड्यम् अप्रतिपत्तौ स्यात् ---
तम् आगतं समाज्ञाय वैदर्भी हृष्ट-मानसा ।
न पश्यन्ती ब्राह्मणाय प्रियम् अन्यन् ननाम सा ॥ [भ्प् 10.53.31]
स्पष्टम् ।
॥ 10.53 ॥ श्री-शुकः
[352]
व्रीडेत्य् आहु अधृष्टताम् ।
पत्युर् बलं शरासारैश् छन्नं वीक्ष्य सु-मध्यमा ।
स-व्रीडम् ऐक्षत् तद्-वक्त्रं भय-विह्वल-लोचना ॥ [भ्प् 10.54.4]
इदं भाव-साङ्कार्येऽप्य् उदाहार्यम् ।
॥ 10.54 ॥ सः
[353]
अवहित्ताकार-गुप्तौ । सभाजयित्वा तम् अनङ्ग-दीपनम् [भ्प् 10.32.15] इत्य्
आदि । अत्र सम्भाजनादिना कोपाच्छादनम् ।
॥ 10.32 ॥ सः
(पगे 137)
[354]
स्मृतिः प्राग्-ज्ञात-चिन्तने -
ताः किं निशाः स्मरति यासु तदा प्रियाभिर्
वृन्दावने कुमुद-कुन्द-शशाङ्क-रम्ये । [भ्प् 10.47.43] इत्य् आदौ दर्शिता ।
अहो वितर्क इत्य् उक्तः न लक्ष्यन्ते पदान्य् अत्र [भ्प् 10.30.31] इत्य् आदि ।
॥ 10.30 ॥ श्री-गोप्यः
[355]
ध्यानं चिन्तेति भण्यते कृत्वा मुखान्य् अवशुचः [भ्प् 10.29.29] इत्य् आदि ।
स्पष्टम् ।
॥ 10.29 ॥ श्री-शुकः
[356]
मतिः स्याद् अर्थ-निर्धारे -
त्वं न्यस्त-दण्ड-मुनिभिर् गदितानुभाव
आत्मात्म-दश् च जगताम् इति मे वृतो ऽसि । [भ्प् 10.60.39] इति । स्पष्टम् ।
॥ 10.60 ॥ श्री-रुक्मिणी
[357]
औत्सुक्यं समयाक्षमा - निशम्य गीतं तद्-अनङ्ग-वर्धनम् [भ्प् 10.29.4]
इत्य् आदि । स्पष्टम् ।
॥ 10.29 ॥ श्री-शुकः
[358]
औग्र्यं चान्त्ये कृत्रिमं क्वापि । यथा क्रूरस् त्वम् अक्रूरः [भ्प् 10.39.21] इत्य्
आदौ । तच् च क्वापि कृत्रिमं, यथा देहि वासांसि धर्मज्ञ नो चेद् राज्ञे
ब्रुवामहे [भ्प् 10.22.15] इति । स्पष्टम् ।
॥ 10.22 ॥ श्री-व्रज-कुमार्यः
[359]
अमर्षस् त्व् असहिष्णुता । पति-सुतान्वय- [भ्प् 10.31.16] इत्य् आदौ कितव योषितः
कस् त्यजेन् निशि ॥ इति । स्पष्टम् ।
॥ 10.31 ॥ श्री-गोप्यः
[360]
असूयान्योदय-द्वेषे - तस्या अमूनि नः क्षोभम् [भ्प् 10.30.30] इत्य् आदौ ।
चापल्यं चित्त-लाघवे - श्वो भाविनि त्वम् अजितोद्वहने [भ्प् 10.52.41] इत्य् आदौ
मां राक्षसेन विधिनोद्वह वीर्य-शुल्काम् इति । स्पष्टम् ।
॥ 10.52 ॥ श्री-रुक्मिणी
[361]
चेतो-निमीलने निद्रा -
एवं चिन्तयती बाला गोविन्द-हृत-मानसा ।
न्यमीलयत काल-ज्ञा नेत्रे चाश्रु-कलाकुले ॥ [भ्प् 10.53.26]
स्वप्नः सुप्तिर् इतीर्यते । एष च ऊषा-दृष्टान्तेनानुमेयः । बोधो निद्रादि-
विच्छेद इति त्रिंशत्-त्रयाधिकाः-न्यमीलयत कालज्ञा नेत्रे इत्य् अनन्तरम् ।
[362]
एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप ।
वाम ऊरुर् भुजो नेत्रम् अस्फुरन् प्रिय-भाषिणः ॥ [भ्प् 10.53.27]
तेन स्फुरणेन जजागारेत्य् अर्थः ।
॥ 10.53 ॥ श्री-शुकः ॥ 361-362 ॥
[363]
अथ कान्ता-भावः स्थायी । तस्य च हेतु-द्वयम् । श्री-कृष्ण-स्वभावो
वामा-विशेष-स्वभावश् चेति । प्रथमो, यथा - कान्यं श्रयीत तव पाद-
सरोज-गन्धम् आघ्राय [भ्प् 10.60.42] इत्य् आदिषु ।
[364]
उत्तरो, यथा-
नैवालीकम् अहं मन्ये वचस् ते मधुसूदन ।
अम्बाया एव हि प्रायः कन्यायाः स्याद् रतिः क्वचित् ॥
व्यूढायाश् चापि पुंश्चल्या मनो ऽभ्येति नवं नवम् ।
बुधो ऽसतीं न बिभृयात् तां बिभ्रद् उभय-च्युतः ॥ [भ्प् 10.60.47-48] इति ।
यद् भवतोक्तं अथात्मनोऽनुरूपम् [भ्प् 10.60.17] इत्य् आदिकं तत् तव वाक्यं
स्त्री-जातौ प्रायो नानृतं मन्ये । यत अम्बाया यथा क्वचिद् एकत्र साल्व एव
रतिर् जाता तथान्यस्याः कन्याया एकत्र रतिः प्रायः एव स्यात् । न तु
नियमेन । किं च व्यूढाया अपि इति । यद् वा कन्याया अपि क्वचिद् एकत्र रतिः
स्यात् । प्राय इति साध्व्या एवेत्य् अर्थः । तत्र दृष्टान्तः - अम्बाया (पगे 138)
इवेति । पुंश्चल्यास् तु व्यूढाया अपि मनो अवं नवम् अभ्येति । तस्मात् परम-
पुण्य-शीलाया एव त्वयि स्वभावतो रतिर् भवेद् इति भावः ।
॥ 10.60 ॥ श्री-रुक्मिणी
[365]
एष च स्थायी साक्षाद्-उपभोगात्मकस् तद्-अनुमोदनात्मकश् चेति द्विविधः ।
पूर्वः साक्षान् नायिकानाम् । उत्तरः सखीनाम् । उभय-व्यपदेशानाम्
उभाव् अपि । तत्रोपभोगात्मकः स सामान्यतो यथाव्-कृष्णं निरीक्ष्य
वनितोत्सव-रूप-शीलम् [भ्प् 10.21.12] इति । स्पष्टम् ।
॥ 10.21 ॥ श्री-गोप्यः
[366]
स एव पुनः सम्भोगेच्छा-निदानः सैरिन्ध्र्य्-आदौ यथा सहोष्यताम् इह
प्रेष्ठ [भ्प् 10.48.9] इत्य् आदि । स्पष्टम् ।
॥ 10.48 ॥ सैव
[367]
क्वचिद् भेदित-सम्भोगेच्छः पट्ट-महिषीषु यथा, स्मायावलोक-लव-
दर्शित- [भ्प् 10.61.4] इत्य् आदिषु । स्वरूपाभिन्न-सम्भोगेच्छः श्री-व्रज-
देवीषु, यथा-- यत् ते सुजात-चरणाम्बु-रुहं [भ्प् 10.31.19] इत्य् आदिषु । आसां
चैष स्वाभाविक एव । अतएव स्व-परित्याग-जातेर्षया दोषं कल्पयित्वापि तत्-
परित्यागासामर्थ्योक्तिः । यथा मृगयुर् इव कपीन्द्रम् [भ्प् 10.47.17] इत्य्
आदौ दुस्त्यजस् तत्-कथार्थः इति ।
एष चासु बहु-भेदो वर्तते । एकत्र भावे खलु मिथुनस्य मिथ आदर-
विशेषः । तत्र प्रेयसीनां त्वदीयत्वाभिमानातिशयेन कान्तं प्रति
पारतन्त्र्य-विनय-स्तुति-दाक्षिण्य-प्राचुर्यम् । अन्यत्र मदीयत्वातिशयः ।
यत्र परतन्त्र-कान्ततयान्तर्-मर्मज्ञता-नर्म-कौटिल्याभास-
प्राचुर्यम् । एतद् युगलस्य च भेदस्य बह्व्-अंश-स्वल्पांश-तत्-साङ्कर्य-
भेदेनापरासु च बहुविध इति ।
एते च भावा यथोक्ताः -
काचित् कराम्बुजं शौरेर् जगृहे ऽञ्जलिनां मुदा ।
काचिद् दधार तद्-बाहुम् अंसे चन्दन-रूषितम् ॥
काचिद् अञ्जलिनागृहात् तन्वी ताम्बूल-चर्वितम् ।
एका तद्-अङ्घ्रि-कमलं सन्तप्ता स्तनयोर् अधात् ॥
एका भ्रू-कुटिम् आबद्ध्य प्रेम-संरम्भ-विह्वला ।
घ्नतीवैक्षत् सन्दष्ट-दशन-च्छदा ॥
अपरानिमिषद्दृग्भ्यां जुषाणा तन्-मुखाम्बुजम् ।
आपीतम् अपि नातृप्यत् सन्तस् तच्चरणं यथा ॥
तं काचिन् नेत्ररन्ध्रेण हृदिकृत्य निमील्य च ।
पुलकाङ्गुल्युपगुह्यास् ते योगीवानन्दसम्प्लुता ॥
सर्वास् ताः केशवालोकपरमोत्सवनिर्वृताः ।
जहुर् विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ [भ्प् 10.32.4-9]
अत्रादर-विशेष्-मय-प्राग्-उक्त-भावा काचित् कराम्बुजम् इत्य् अत्र
प्रथमोक्ता । इयं च सर्वाग्र-स्थितत्वाद् आदौ वर्ण्यते । ततो ज्येष्ठेति
गम्यते । ततश् च सर्वादौ तयैव मिलनं कृष्णस्य । तथा तस्याम् एव श्री-
कृष्णस्याप्य् आदरातिशयोऽवगम्यते । एवं तथाञ्जलिना कर-ग्रहणात् तस्या
अपि तस्मिन्न् आदरो व्यक्तः । तत्-पारतन्त्र्यादिकम् अपि । मध्य-स्थितत्वं
चास्याः । ततः साध्व् एवेदं प्रथमोदाहरणम् ।
अथ मदीयत्वातिशयमय-द्वितीयोदाहरणम् । एका भ्रू-कुटिम् आबध्य
इत्यादि । एषा खलु मध्यतो वर्णनया मध्य-स्थितेत्य् अवगम्यते । मध्य-
स्थितत्वं चास्याः परम-दुर्लभतां व्यनक्ति । ततो भाव-विशेष-धारिता
चास्या गम्यते । तस्य साक्षात्-प्रत्यायकं च मदीयत्वातिशयादि-बोधक-
भ्रू-भङ्ग्य्-आदिकम् एवास्ति । इयं च श्री-राधैव ज्ञेया ।
ईदृश एव भावोऽस्याः कार्त्तिक-प्रसङ्गे व्रत-रत्नाकर-धृत-भविष्य-
वचने दृश्यते --
तस्मिन् दिने च भगवान् रात्रौ राधा-गृहं ययौ ।
सा च क्रुद्धा तम् उदरे काञ्ची-दाम्ना बबन्ध ह ॥
कृष्णस् तु सर्वम् आवेद्य निज-गेह-महोत्सवम् ।
प्रियां प्रसादयामास ततः (पगे 139) सा तम् अवोचयत् ॥ इति ।
ततः सिद्धे च तस्या भावस्य तादृशत्वे यथा राधा प्रिया इत्य् आदि पाद्मादि-
वचनानुसारेण अनयाराधितो नूनं [भ्प् 10.30.28] इत्य् आद्य्-अनुसारेण च तन्-
माहात्म्यात् तादृश-भाव-माहात्म्यम् एव स्फुटम् उपलभ्यते ।
द्वारकायाम् एतद्-अनुगत-भावत्वेनैव श्री-सत्यभामापि सर्वतः
प्रशस्ता । तत्र भाव-सादृश्यं सर्वतः प्रशस्तत्वं च यथा श्री-विष्णु-
पुराणे -
यदि ते तद्-वचः सत्यं सत्यात्यर्थं प्रियेति मे ।
मद्-गेह-निस्फुटार्थाय तदायं नीयतां तरुः ॥ [विप् 5.30.33] इति ।
पाद्म-कार्त्तिक-माहात्म्ये श्री-कृष्ण-वाक्यं च यथा - न मे त्वत्तः
प्रियतमा इत्य् आदि । श्री-हरि-वंशे वैशम्पायन-वचनं च तन्-निर्धारकम्
- सौभाग्ये चाधिकाभवद् इति ।
अथ या च पूर्व-भावोपलक्षिता सापि तद्-भाव-विरोधि-भावत्वेन तत्-
प्रतिपक्ष-नायिका स्यात् । चन्द्रावल्य् एव सेति च प्रसिद्धम् । तथोक्तं श्री-
बिल्वमङ्गलेन-
राधा-मोहन-मन्दिराद् उपागतश् चन्द्रावलीम् ऊचिवान्
राधे क्षेममयेति तस्य वचनं श्रुत्वाह चन्द्रावली ।
कंस क्षेममये विमुग्ध-हृदये कंसः क्व दृष्टस् त्वया
राधा क्वेति विलज्जितो नत-मुख-स्मेरो हरिः पातु वः ॥ इति ।
अत्र चन्द्रावल्याः सदृश-भावा काचिद् अञ्जलिनेत्य् आदिना वर्णिता । एका तद्-
अङ्घ्रि-कमलम् इत्य् आदिना च । एते तत्-सख्यौ पद्मा-शैव्ये इत्य् अभियुक्त-
सिद्धिः । श्री-राधायाः सदृश-भावा च । अपरिनिमिषद्-दृग्भ्याम् इत्य् आदिना
वर्णिता । तं काचिद् [भ्प् 10.32.8] इत्य् आदिना च । मदीयोऽसौ स्वयम् एव माम्
अनुभविष्यतीति स्वयं ग्राह-स्पर्शाद्य्-अभावेन वाम्य-स्पर्शात् ।
ततश् चैते तत्-सख्यौ । एते च प्रायस् तत्-स-नामत्वात् । तद्-अनुगततया
पाठाच् चानुराधा-विशाखे भवेताम् । ये खलु विशाखा ध्यान-निष्ठिका
इति, राधानुराधा इति भविष्योत्तर-पठिते तत्रानुराधैव ललितेत्य्
अभियुक्त-प्रसिद्धिः । सङ्कर-भावा च काचिद् दधार [भ्प् 10.32.4] इत्य्
आदिनोक्ता । तद् बाहोर् अंसे धारणेन पूर्वस्या दाक्षिण्यांशेन साम्यात् ।
उत्तरस्या एषा खलु श्यामलेत्य् अभियुक्त-प्रसिद्धिः । अत्राष्टमी च विष्णु-
पुराणोक्ता यथा -
काचिद् आयान्तम् आलोक्य गोविन्दम् अतिहर्षिता ।
कृष्ण कृष्णेति कृष्णेति प्राह नान्यद् उदीरितम् ॥ [विप् 5.13.44] इति ।
अस्या नातिस्फुट-भावत्वात् ताटस्थ्यम् । एषा च भद्रेत्य् अभियुक्त-
प्रसिद्धिः । तेषां भावानां परमानन्दैक-रूपत्वं दर्शयति सर्वा [भ्प्
10.32.9] इति ।
॥ 10.32 ॥ श्री-शुकः
[368]
अथानुमोदनात्मके कान्त-भावे साध्ये तत्-सम्भावनार्थं तदीय-
लेशानुमोदन-मात्रस्योदाहरणं यथा --
अस्यैव भार्या भवितुं रुक्मिण्य् अर्हति नापरा ।
असाव् अप्य् अनवद्यात्मा भैष्म्याः समुचितः पतिः ॥
किञ्चित् सु-चरितं यन् नस् तेन तुष्टस् त्रि-लोक-कृत् ।
अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिम् अच्युतः ॥
एवं प्रेम-कला-बद्धा वदन्ति स्म पुरौकसः । [भ्प् 10.53.37-39]
अत्र नाना-वासन-जनानाम् एषां हृदि तत्-तन्-नाना-विलास-मयस्य कान्त-
भावस्य पूर्ण-स्वरूप-स्पर्शायोग्यत्वात् कथञ्चित् तद्-दाम्पत्य-स्थिति-
मात्र-लक्षणस्य तदीय-सामान्यांशस्यैवानुमोदन-मात्रं जातम् । अतएव
प्रेम-कलाबद्धा इत्य् उक्तम् । प्रेम्नः कान्त-भावस्य या कला कोऽपि लेशस्
तेन बद्धास् तद्-अनुमोदन-सुखानुकूला इत्य् अर्थः । तत एवं यस्य
कलयापि विषम-भावानाम् (पगे 140) अपि सर्वेषां पुरौकसां तथा चित्त-
वृन्दम् उल्लासितम्, यथा युगपद् ऐकमत्यम् एव सर्व-भावातिक्रमेण
सर्वेषां जातम् । स एव यत्र भाव-राकाधीशः स्वयम् उदयते तच्-चित्तानां
तादृश उल्लासस् तु परात्पर एव स्याद् इति भावः ।
[369]
अथ साक्षात् तद्-अनुमोदनात्मक-पूर्ण-कान्त-भावस्योदाहरणम् आह --
अप्य् एणपत्न्य् उपगतः प्रिययेह गात्रैस्
तन्वन् दृशां सखि सुनिर्वृतिम् अच्युतो वः ।
कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः
कुन्दस्रजः कुलपतेर् इह वाति गन्धः ॥
बाहुं प्रियांस उपधाय गृहीतपद्मो
रामानुजस् तुलसिकालिकुलैर् मदान्धैः ।
अन्वीयमान इह वस् तरवः प्रणामं
किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ [भ्प् 10.30.11-12]
एणपत्नि एणत्व-प्रयोगेण हे प्रशस्त-नेत्रे पत्नीत्व-प्रयोगेण बुद्ध्या तु
हे मादृश-मानुषी-तुल्ये इत्य् अर्थः । तत्रापि हे सखि, वक्ष्यमाण-
सौभाग्य-भरेण हे लब्ध-मद्-विध-सख्ये, प्रियया सह अच्युतः श्री-
कृष्णः । श्लेषेण तस्याः सकाशाद् अविश्लिष्टः सन् गात्रैर् उभयोः परस्परम्
आसङ्गेन शोभा-विशेषं प्राप्तैर् अङ्गैः कृत्वा वस् त्वादृशीनां दृशां
नेत्राणां सुनिर्वृतिं केवल-श्री-कृष्ण-दर्शनजानन्दाद् अपि अतिशयितम्
आनन्दं तन्वन् विस्तारयन् उत्तरोत्तरम् उत्कर्षयन् अपि किम् उपगतः युष्मत्-
समीपं प्राप्तोऽभूत् ।
ननु कथम् इदं भवतीभिर् अनुमितम् इत्य् आशङ्क्यानुमान-लिङ्गं तन्-
मिथुन-श्लाघा-गर्भ-वचनेनाहुः कान्तेति । कुल-पतेर् व्रज-नाथ-वंश-
तिलकस्य या कुन्द-स्रक् तस्या गन्धः सौरभ्यम् इह वाति वायु-सङ्गेन
प्रसरति । कथम्भूतायाः स्रजः । कान्ता सर्व-साद्गुण्येन तस्यापि
लालसास्पद-रूपा या स्यात् तस्या अङ्ग-सङ्गे कुच-कुङ्कुमेन रञ्जितायाः ।
अतः सन्तत-परिचय-विशेषेण तत्-तत्-सौरभ्य-विशेषस्यात्रास्माभिर्
अवधारितत्वात् भवतीनाम् अत्र चरन्तीनां समीपं प्राप्त एवासौ तया युत
इत्य् अर्थः ।
अथ तां तद्-दर्शन-जातेन हर्षेण सम्प्रति तद्-वियोग-जातेन दुःखेन च
स्थगित-वचनम् आशङ्क्य तेन च तयोः सङ्गमम् एव निर्धार्य
परमानन्देन तद्-अवसरोचितं तदीय-विलास-विशेषं वर्णयन्त्यस् तत्र
पुष्पादि-भर-नम्राणां तरूणाम् अपि तदीय-सौविदल्लादि-भृत्य-विशेष-
भावेन तन्-नमस्कारम् उत्प्रेक्ष्य पुनस् तेषाम् एव तत्-सन्निधि-जन्य-
सौभाग्य-विशेषं तान् प्रत्य् एव पृच्छन्त्यस् तयोस् तादृश-विलासावेशातिशयम्
आहुः बाहुं प्रियांस इति । अन्वीयमानः अनुगम्यमानः । परस्परं
प्रणयावलोकैश् चरन् क्रीडन् । इह वो युष्माकं प्रणामं किं वाभिनन्दति
सादरं गृह्णाति । अपि तु विलासाविष्टस्य तस्य तद्-अभिनन्दनं न
सम्भावयाम इत्य् अर्थः ।
॥ 10.30 ॥ श्री-राधा-सख्यः
[370]
तद् एवम् आलम्बनादि-स्थाय्य्-अन्तर्-भाव-संवलनं चमत्कारावहतया
उज्ज्वलाख्यो रसः स्यात् । तस्य च भवेद् द्वयं विप्रलम्भः सम्भोगश् चेति ।
तत्र विप्रलम्भो विप्रकर्षेण लम्भः प्राप्तिर् यस्य स तथा । यथोक्तम् -
यूनोर् अयुक्तयोर् भावो युक्तयोर् वा तयोर् मिथः ।
अभीष्टालिङ्गनादीनाम् अनवाप्तौ प्रकृष्यते ।
स विप्रलम्भो विज्ञेयः सम्भोगोन्नति-कारकः ॥ [उन् 15.2] इति ।
तद् उन्नति-कारकत्वम् अन्यत्र चोक्तम् -
न विना विप्रलम्भेन सम्भोगः पुष्टिम् अश्नुते ।
काषायिते हि वस्त्रादौ भूयान् एवाभिवर्धते ॥ [उन् 15.3]
यद् उक्तं स्वयं कृष्णेन - नाहं तु सख्यो भजतोऽपि जन्तून् [भ्प् 10.33.20]
इत्य् आदि । अन्यत्र च -
यत् त्व् अहं भवतीनां वै दूरे (पगे 141) वर्ते प्रियो दृशाम् ।
मनसः सन्निकर्षार्थं मद्-अनुध्यान-काम्यया ॥
यथा दूर-चरे प्रेष्ठे मन आविश्य वर्तते ।
स्त्रीणां च न तथा चेतः सन्निकृष्टे ऽक्षि-गोचरे ॥ [भ्प् 10.47.34-35] इति ।
तस्य विप्रलम्भस्य चत्वारो भेदाः - पूर्व-रागो मानः प्रेम-वैचित्त्यं
प्रवासश् चेति । अथ सम्भोगश् च यूनोः सङ्गतयोः सम्बद्धतया भोगो
यत्र स भाव उच्यते । यथोक्तम् -
दर्शनालिङ्गनादीनां आनुकूल्यान् निषेवया ।
यूनोर् उल्लासम् आरोहन् भावः सम्भोग उच्यते ॥ [उन् 15.188] इति ।
स च पूर्व-रागानन्तरज इत्य् आदि-संज्ञया चतुर्विधः ।
तत्र पूर्व-रागः ।
रतिर् या सङ्गमात् पूर्वं दर्शन-श्रवणादि-जा ।
तयोर् उन्मीलति प्राज्ञैः पूर्व-रागः स उच्यते ॥ [उन् 15.5]
स च पट्ट-महिषीषु श्री-रुक्मिण्या यथा -
सोपश्रुत्य मुकुन्दस्य रूप-वीर्य-गुण-श्रियः ।
गृहागतैर् गीयमानास् तं मेने सदृशं पतिम् ॥ [भ्प् 10.52.23] इत्य् आदि ।
स्पष्टम् ।
॥ 10.52 ॥ श्री-शुकः
[371]
अथ व्रज-देवीनाम् । तत्र यद् आसां क्वचिद् बाल्येऽपि सम्भोगो वर्ण्यते तत्
खलु औपपतिक-भाववतीनां तासां मध्ये कासाञ्चिन् निमित्त-विशेषं
प्राप्य कदाचित् कदाचित् तद्-भावाविर्भाव-प्रभावेण कैशोराविर्भावात्
सङ्गच्छते । यथा भविष्ये कार्त्तिक-प्रसङ्गे - बाल्येऽपि भगवान् कृष्णः
कैशोरं रूपम् आश्रितः इत्य् आदिनोक्तम् । अन्यदा तद्-आच्छादने सति तत्
कैशोरादिकम् आच्चन्नम् एव तिष्ठति । तस्माद् भावादीनाम्
अविच्छेदाभावान् नातिरसाधायकत्वम् इति नात्रोट्टङ्क्यते ।
अथ महा-तेजस्वितया ष्ष्ठ-वर्षम् एवारभ्य कैशोराविर्भाव-विच्छेदे सति
तासाम् अपि पुनः पूर्व-रागो जायते । ततोऽन्यासां तु सुतरां स तूदाह्रियते ।
यथा-
आश्लिष्य सम-शीतोष्णं प्रसून-वन-मारुतम् ।
जनास् तापं जहुर् गोप्यो न कृष्ण-हृत-चेतसः ॥ [भ्प् 10.20.45]
गोप्यस् तु न जहुः । तत्र हेतुः कृष्णेति । विरहे प्रत्युत ताप-करत्वाद् इति
भावः ।
॥ 10.20 ॥ श्री-शुकः
[372]
तद्-विवरणं च-
इत्थं शरत्-स्वच्छ-जलं पद्माकर-सुगन्धिना ।
न्यविशद् वायुना वातं स-गो-गोपालकोऽच्युतः ॥
कुसुमित वन-राजि-शुष्मि-भृङ्ग-
द्विज-कुल-घुष्ट-सरः-सरिन्-महीध्रम् ।
मधुपतिर् अवगाह्य चारयन् गाः
सह-पशु-पाल-बलश् चुकूज वेणुम् ॥
तद् व्रज-स्त्रिय आकर्ण्य वेणु-गीतं स्मरोदयम् ।
काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्योऽन्ववर्णयन् ॥
तद् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम् ।
नाशकन् स्मर-वेगेन विक्षिप्त-मनसो नृप ॥
बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं
बिभ्रद्-वासः कनक-कपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान् वेणोर् अधर-सुधया पूरयन् गोप-वृन्दैर्
वृन्दारण्यं स्व-पद-रमणं प्राविशद् गीत-कीर्तिः ॥
इति वेणु-रवं राजन् सर्व-भूत-मनोहरम् ।
श्रुत्वा व्रज-स्त्रियः सर्वा वर्णयन्त्योऽभिरेमिरे ॥
अक्षण्वतां फलम् इदं न परं विदामः
सख्यः पशून् अनुविवेशतयोर् वयस्यैः ।
वक्त्रं व्रजेश-सुतयोर् अनुवेणु-जुष्टं
यैर् वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम् ॥
चूत-प्रवाल-बर्ह-स्तवकोत्पलाब्ज-
मालानुपृक्त-परिधान-विचित्र-वेशौ ।
मध्ये विरेजतुर् अलं पशुपाल-गोष्ठ्यां
रङ्गे यथा नटवरौ क्व च गायमानौ ॥
गोप्यः किम् आचरद् अयं कुशलं स्म वेणुर्
दामोदराधर-(पगे 142) सुधाम् अपि गोपिकानाम् ।
भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रदिन्यो
हृष्यत्-त्वचो ऽश्रु मुमुचुस् तरवो यथार्याः ॥ [भ्प् 10.21.1-9]
तथा वृन्दावनं सखि भुवो वितनोति कीर्तिम् [भ्प् 10.21.10] इत्य् आदि । धन्याः
स्म मूढ-मतयो ऽपि हरिण्य एता [भ्प् 10.21.11] इत्य् आदि । कृष्णं निरीक्ष्य
[भ्प् 10.21.12] इत्य् आदि । गावश् च कृष्ण-मुख- [भ्प् 10.21.13] इत्य् आदि । प्रायो
बताम्ब मुनयः [भ्प् 10.21.14] इत्य् आदि । नद्यस् तदा तद् उपधार्य [भ्प्
10.21.15] इत्य् आदि । दृष्ट्वातपे व्रज-पशून् [भ्प् 10.21.16] इत्य् आदि । पूर्णाः
पुलिन्द्य [भ्प् 10.21.17] इत्य् आदि । हन्तायम् अद्रिर् अबला [भ्प् 10.21.18] इत्य् आदि ।
गा गोपकैर् [भ्प् 10.21.19] इत्य् आदि च स्मर्तव्यम् ।
इत्थम् इति । इत्थं पूर्वाध्याय-वर्णित-प्रकारेण । कुसिमितेति पूर्वेणान्वयः ।
अत्रत्यं वनं तद्-अन्तर्-वनम् । शुष्मिणो मत्ताः । तद् व्रजेति कृष्णस्य वेणु-
गीतम् आश्रुत्य । तथापि परोक्षं लज्जया निज-भावावरणाय तद्-अग्रजादि-
वर्णन-सहयोगेनाच्छन्नं यथा स्यात् तथैवावर्णयन् । समुचित-वर्णनं
हि प्रीति-मात्रं बोधयति न तु कान्त-भावम् इति । तद् वर्णयितुम् इति तथापि
नाशकन् । परोक्ष-वर्णनायां न समर्था बभूवुः । तत्र हेतुः -
स्मरन्त्य इति । तत्र च हेतुः स्मर-वेगेनेति । पूर्वोक्तं कृष्ण-चेष्टितं
वर्णयन्ति बर्हापीडम् इति । अधर-सुधयेति फुत्कारस्य तत्-प्राचुर्यं
विवक्षितम् । ततश् च युक्त एव तद्-अनुभवेन तासां तादृश-मोह इति
भावः । नाशकन्न् इत्य् एतद् विवृणोति इतीति । अभिरेमिरे उन्मदा बभूवुः ।
अथ यथा नाशकंस् तथा तद्-वाक्य-द्वारैव दर्शयति श्री-गोप्य ऊचुर् इत्य्
आदिना । तत्र द्विधा परोक्षी-करणा शक्तिः । एकत्राज्ञाननतोऽपि भाव-
प्राबल्येनैवार्थान्तराविर्-भावेण अन्यत्र भाव-पारवश्येन ज्ञानत एव
तद्-उद्घाटनेन । तत्र प्रथमेन यथा अक्षणवताम् इति । अर्थान्तरं
चात्र व्रजेश-सुतयोर् मध्ये कनिष्ठत्वेन तद् अनु पश्चात् वेणु-जुष्टं
मुखं तद् यैर् निपीतम् इति योज्यम् । अथोत्तरेण यथा - चूत-प्रवालेत्य् आदि-
द्वयम् । तत्र प्रथमं परोक्षी-करणे । द्वितीयं तद्-अशक्ताव् इति ज्ञेयम् ।
एवम् अग्रे च गावश् च कृष्ण-मुख-निर्गत-वेणु-गीतेत्य् आदिषु विजातीय-
भाव-वर्णनम् अपि परोक्ष-विधाने मन्तव्यम् ।
अथोपसंहारः-
एवंविधा भगवतो या वृन्दावन-चारिणः ।
वर्णयन्त्यो मिथो गोप्यः क्रीडास् तन्-मयतां गताः ॥
हेमन्ते प्रथमे मासि नन्द-व्रज-कुमारिकाः ।
चेरुर् हविष्यं भुञ्जानाः कात्यायन्य्-अर्चन-व्रतम् ॥ [भ्प् 10.21.20]
तन्-मयतां तद्-आविष्टताम् । स्त्री-मयः षिङ्ग इतिवत् ।
॥ 10.21 ॥ श्री-शुकः
[374]
तथा तासु कुमारीणाम् --
हेमन्ते प्रथमे मासि नन्द-व्रज-कुमारिकाः ।
चेरुर् हविष्यं भुञ्जानाः कात्यायन्य्-अर्चन-व्रतम् ॥ [भ्प् 10.22.1] इत्य् आदि ।
स्पष्टम् ।
॥ 10.22 ॥ सः
[375]
अत्र काम-लेखादि-प्रस्थापनं मतम् । तत्रोदाहरणं श्रुत्वा गुणान्
भुवन-सुन्दर शृणवतां ते [भ्प् 10.52.37] इत्य् आदि श्री-रुक्मिणी-
सन्देशादिकं ज्ञेयम् ।
अथ पूर्व-रागानन्तर-जः सम्भोगः । तत्र सम्भोगस्य सामान्याकारेण
सन्दर्शन-संजल्प-संस्परश-संप्रयोग-लक्षण-भेद-चतुष्टय-
भिन्नत्वं दृश्यते । सन्दर्शनं सम्यग्-दर्शनं यत्र स भावः इत्य् आदि ।
अथ श्री-रुक्मिण्याः सन्दर्शन-संस्पर्शनाख्यौ तद्-अनन्तर-जौ
सम्भोगौ यथा --
सैवं शनैश् चलयती चल-पद्म-कोशौ
प्राप्तिं तदा भगवतः प्रसमीक्षमाणा ।
उत्सार्य वाम-करजैर् अलकान् अपाङ्गैः (पगे 143)
प्राप्तान् ह्रियैक्षत नृपान् ददृशे ऽच्युतं च ॥
तां राज-कन्यां रथम् आरुरुक्षतीं
जहार कृष्णो द्विषतां समीक्षताम् । [भ्प् 10.53.54-55]
भगवतः प्राप्तिं तत्रागमनं ह्रिया प्रसमीक्षमाणा स-लज्जं द्रष्टुम्
आरभमाणा प्राप्तान् पुरतः स्थितान् नृपान् ऐक्षत । ततश् च व्यूकुल-चित्ता
तत्रैव पुनर् अच्युतम् अपि ददृश इत्य् अर्थः ।
॥ 10.53 ॥ श्री-शुकः
[376]
अथ व्रज-कुमारीणां सन्दर्शन-संजल्पो, यथा--
तासां वासांस्य् उपादाय नीपम् आरुह्य सत्वरः ।
हसद्भिः प्रहसन् बालैः परिहासम् उवाच ह ॥ [भ्प् 10.22.9] इत्य् आदि ।
अत्रैवं विवेचनीयम् । तेन यद्यपि तासां स्व-विषय-प्रेमोत्कर्षो जायत एव
तथापि तद्-अभिव्यञ्जक-चेष्टा-विशेष-द्वारा साक्षात् तद्-आस्वादाय तादृशी
लीला स-लज्जा विस्तारिता । विदग्धानां च यथा वनितानुरागास्वादने वाञ्छा
न तथा तत्-स्पर्शादाव् अपि । तत्र लज्जा-च्छेदो नाम पूर्वानुराग-व्यञ्जको
दशा-विशेषो वर्तते । तथोक्तम् --
नयन-प्रीतिः प्रथमं चिन्ता-सङ्गस् तथा सङ्कल्पः ।
निद्रा-च्छेदस् तनुता विषय-निवृत्तिस् त्रपा-नाशः ।
उन्मादो मूर्च्छा मृतिर् इत्य् एताः स्मर-दशा दशैव स्युः ॥ [उन् 15.71]
तेषु च व्यञ्जकेषु कुल-कुमारीणां लज्जा-च्छेद एव पराकाष्ठा । ता हि
दशमीम् अप्य् अङ्गीकुर्वन्ति, न तु वैजात्यम् । ततोऽनुरागातिशय-
स्वादनार्थं तथा परिहसितम् । सखायश् च ते - न मयोदित-पूर्वं वा
अनृतं तद् इमे विदुः [भ्प् 10.22.11] सन्तत-तद्-अविनाभाव-व्यक्त्या हसद्भिः
[भ्प् 10.22.9] इत्य् आदौ बाल-शब्द-प्रयुक्त्या च तदीय-सख्य-व्यतिरिक्त-
भावान्तरास्पर्शिनस् तद्-अङ्ग-निर्विशेषा अत्र बाला एव च । ये चोक्ता
गौतमीय-तन्त्रे प्रथमावरण-पूजायाम् -
दाम-सुदाम-वसुदाम-किङ्किणीर् गन्ध-पुर्ष्पकैः ।
अन्तः-करण-रूपास् ते कृष्णस्य परिकीर्तिताः ।
आत्माभेदेन ते पूज्या यथा कृष्णस् तथैव ते ॥ इति ।
ततो रहस्यत्वात् तादृशानुरागास्वाद-कौतुक-प्रयोजनक-नर्म-
परिपाटीमयत्वात् तस्यां लीलायां न रसवत्त्व-व्याघातः प्रत्युत उल्लास
एव ।
तथैव तस्यां लीलायां श्री-कृष्णस्याभिप्रायं मुनीन्द्र एव व्याचष्टे -
भगवान् आहता वीक्ष्य शुद्धभावप्रसादितः ।
स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥ [भ्प् 10.22.18]
आहता आगताः । लज्जा-त्यागेऽपि स्त्री-जाति-स्वभावेन लज्जांशावशेषात्
नम्रतयेषद्-भग्न-देहा वा । एवम् उत्कण्ठाभिव्यक्त्या तद्-भाव-
मुग्धत्वाभिव्यक्त्या च शुद्धः परमौज्ज्वल्येनावगतो यो भावस् तेन
तदास्वादनेन जनित-चित्त-प्रसक्तिः ।
अथ पुनर् अपि यूयं विवस्त्रा यद् अपि धृत-व्रता [भ्प् 10.22.19] इत्य् आदिकं
तल्-लज्जांशावशेष-निःशेषता-दर्शन-कौतुकार्थं श्री-कृष्ण-नर्म-
वाक्यम् । तद्-अनन्तरं इत्य् अच्युतेन [भ्प् 10.22.20] इत्य् आदिकं तासाम् अपि
तथैव तद्-अनन्तरम् अपि स्वयं तथैव व्याचष्टे --
दृढं प्रलब्धास् त्रपया च हापिताः
प्रस्तोभिताः कृईडनवच् च कारिताः ।
वस्त्राणि चैवापहृतान्य् अथाप्य् अमुं
ता नाभ्यसूयन् प्रिय-सङ्ग-निर्वृताः ॥ [भ्प् 10.22.22]
(पगे 144)
[379]
10220291 अथ गोपैः परिवृतो भगवान् देवकी-सुतः
10220293 वृन्दावआद् गतो दूरं चारयन् गाः सहाग्रजः
10220363 तरूणां नम्रशाखानां मध्येन यमुनां गतः
[380]
10220301 निदाघार्क-तपे तिग्मे छायाभिः स्वाभिर् आत्मनः
10220303 आतपत्रायितान् वीक्ष्य द्रुमान् आह व्रजौकसः
इत्य् आदि ।
10230211 यमुनोपवने ऽशोकनवपल्लवमण्डिते
10230213 विचरण्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः
10230221 श्यामं हिरण्य-परिधिं वन-माल्य-बर्ह-
10230222 धातु-प्रवाल-नट-वेषम् अनुव्रतांसे
10230223 विन्यस्त-हस्तम् इतरेण धुनानम् अब्जं
10230224 कर्णोत्पलालक-कपोल-मुखाब्ज-हासम्
10230231 प्रायः श्रुतप्रियतमोदयकर्णपूरैर्
10230232 यस्मिन् निमग्नमनसस् तम् अथाक्षिरन्ध्रैः
10230233 अन्तः प्रवेश्य सुचिरं परिरभ्य तापं
10230234 प्राज्ञं यथाभिमतयो विजहुर् नरेन्द्र ॥ [भ्प् 10.23.21-23]
10230341 तत्रैका विधृता भर्ता भगवन्तं यथाश्रुतम्
10230343 हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम्
(पगे 145)
एवं लीला-नर-वपुर् [भ्प् 10.23.37]
॥ 10.22 ॥ श्री-शुकः ॥ 378-382 ॥
[383]
अथ तद्-अनन्तरम् एव शरदि सर्वासाम् एव श्री-व्रज-देवीनां सन्दर्शनादि-
सर्वात्मक एव पूर्व-रागान्तरजः सम्भोगो वर्ण्यते । तत्र कुमारीणाम्
अपि तादृश-प्राप्तावकृतार्थं-मन्यानां पूर्व-रागांशो नातिगतः । कस्याश्चित्
पूर्णाः पुलिन्द्यः [भ्प् 10.21.17] इत्य् अनुसारेण कासाञ्चित् तु यर्ह्य् अम्बुजाक्ष
[भ्प् 10.29.36] इत्य् आदाव् अस्प्राक्ष तत्-प्रभृतीः इत्य् अनेन श्रुतो यः स्पर्शः
सोऽपि वेणु-गीत-कृत-तन्-मूर्च्छादि-शमनानुरोधेनैव न तु सम्भोग-
रीत्येति मन्तव्यः । यत एव तस्य तासाम् अपि अपूर्ववत् प्रत्याख्यान-
प्रार्थना-वाक्ये सङ्गच्छेते ।
अथ तासां स यथा -
निशम्य गीतं तद्-अनङ्ग-वर्धनं
व्रज-स्त्रियः कृष्ण-गृहीत-मानसाः ।
आजग्मुर् अन्योन्यम् अलक्षितोद्यमाः
स यत्र कान्तो जवलोल-कुण्डलाः ॥ [भ्प् 10.29.4] इत्य् आदि । स्पष्टम् ।
॥ 10.29 ॥ श्री-शुकः
[384]
अथ तद्-अन्तराले मान-रूपो विप्रलम्भः । तत्र यथोक्तम्-
अहेर् इव गतिः प्रेम्णः स्वभाव-कुटिला भवेत् ।
अतो हेतोर् अहेतोश् च यूनोर् मान उदञ्चति ॥ [उन् 15.102]
तथा-
अहेतोर् नेति नेत्य् उकेर् हेतोर् यन् मान उच्यते ।
अस्य प्रणय एव स्यान् मानस्य पदम् उत्तमम् ॥ [उन् 15.76] इति ।
ततोऽस्य सहेतुर् निर्हेतुश् चेति भेद-द्वये च सति हेतुर् अपि यथोक्तः -
हेतुर् ईर्ष्या-विपक्षादेर् वैशिष्ट्ये प्रेयसा कृते ।
भावः प्रणय-मुख्योऽयम् ईऋषा-मानत्वम् ऋच्छति ॥ [उन् 15.77] इति ।
यथा च-
स्नेहं विना भयं न स्यान् नेर्ष्या च प्रणयं विना ।
तस्मान् मान-प्रकारोऽयं द्वयोः प्रेम-प्रकाशकः ॥ [उन् 15.78] इति ।
अतएव हरिवंशे-
रुषिताम् इव तां देवीं स्नेहात् सङ्कल्पयन्न् इव ।
भीत-भीतोऽतिशनकैर् विवेश यदु-नन्दनः ॥
रूप-यौवन-सम्पन्ना स्व-सौभाग्येन गर्विता ।
अभिमानवती देवी श्रुत्वैवेर्ष्या-वशं गता ॥ इति ।
अतः प्रिय-कृत-स्नेह-भङ्गानुमानेन सहेतुर् ईर्ष्या-मानो भवति । एष च
विलासः श्री-कृष्णस्यापि परम-सुखदः । यथा चोक्तं श्री-रुक्मिणीं प्रति
स्वयम् एव - त्वद्-वचः श्रोतु-कामेन क्ष्वेल्या-चरितम् अङ्गने [भ्प् 10.60.29]
मुखं च प्रेम-संरम्भ-स्फुरिताधरम् ईक्षितुम् [भ्प् 10.60.30] इत्य् आदि ।
श्री-रुक्मिण्याम् अपि तद्-अविक्षिप्तिवं व्यक्तं । जाड्यं वचस् तव गदाग्रज
[भ्प् 10.60.40] इत्य् आदौ ।
युक्तं च तत् कान्ताभावाख्यायाः प्रीतेः पोषकत्वेन (पगे 146) तद्-
भावस्यावगमात् । प्राचीनार्वादीन-कवि-सम्प्रदाय-सम्मतत्वाच् च ।
तस्माद् आदरणीय एव मानाख्यो भावः । तत्र सर्वासां युगपत्-त्यागेन
सङ्ग-प्राथम्येन च तथानुदयान् निगूढस् तन्-मान-लेशो रासे श्री-व्रज-
देवीनां जातः । स च परित्यागजेर्ष्या-हेतुक एव ज्ञेयः । यथा-
सभाजयित्वा तम् अनङ्ग-दीपनं
सहास-लीलेक्षण-विभ्रम-भ्रुवा ।
संस्पर्शनेनाङ्क-कृताङ्घ्रि-हस्तयोः
संस्तुत्य ईषत् कुपिता बभाषिरे ॥ [भ्प् 10.32.15] इत्य् आदि ।
स्पष्टम् ।
॥ 10.32 ॥ श्री-शुकः
[385]
एष च स्तुत्य्-आदिभिः शाम्यति । यथैव तास् तुष्टाव -
एवं मद्-अर्थोज्झित-लोक-वेद-
स्वानां हि वो मय्य् अनुवृत्तये ऽबलाः ।
मया परोक्षं भजता तिरोहितं
मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥ [भ्प् 10.32.21]
न पारये ऽहं निरवद्य-संयुजां [भ्प् 10.32.22] इत्य् आदि । स्पष्टम् ।
॥ 10.32 ॥ श्री-भगवान्
अथ निर्हेतुः प्रणय-मानः । निर्हेतुत्वं च केवल-प्रणय-विलसित्वेन हेत्व्-
अभावान् मन्यते । एष नायकस्यापि भवति । भगवत्-प्रीति-मये रसे स
तूद्दीपनोऽपि प्रसङ्गाद् अत्रोदाहरणीयः । यथा तासां तत्-सौभाग्य-मदं
वीक्ष्य मानं च केशव [भ्प् 10.29.48] इत्य् आदि-प्रकरणं योजनान्तरेण
मन्यते । तत्र मानः प्रणय-मानः । तस्य हेतुः सौभग-मदः । ततो
मानस्य प्रशम-रूपाय तासां प्रसादाय स्वयम् अपि प्रणय-
मानेनैवान्तरधीयत ।
तथाग्रेऽपि यां गोपीम् अनयत् कृष्णो विहायान्याः स्त्रियो वने [भ्प् 10.30.36] इत्य्
आदौ तस्याः प्रणय-मानः । येनैवोक्तं- न पारये ऽहं चलितुं नय मां
यत्र ते मनः [भ्प् 10.30.38] इति ।
अथ पूर्ववत् तस्यापि प्रणय-मानः । प्रणय-कोपेनैव सोऽप्य् एतद्-
अनन्तरम् एनां स्कन्ध आरुह्यताम् [भ्प् 10.30.39] इत्य् उक्तवान्
ततोऽन्तर्हितवांश् च । अत्र श्री-व्रज-देवीनाम् अहेतुः श्री-कृष्णसय तु हेत्व्-
आभासजोऽसौ । यासां खलु प्रणयः स्व-प्रवाहाद्य्-उद्रेकेन स्वरसावर्त-
रूपं कौटिल्यं स्पृशन्-मानाख्य-प्रीति-विशेषतां प्राप्नोति । तासाम् एव
मानाख्य-विप्रलम्भोऽपि शुद्धो जायते ।
ततोऽन्यासां पुनर्-हेतु-लाभेऽपि विषाद-भय-चिन्ता-प्राय एव जायते । यथा
श्री-रुक्मिणीं प्रति श्री-कृष्णस्य स-प्रणय-परिहास-वचनमयेऽध्याये तद्
वृत्तम् । तत्र श्री-कृष्णस्य स-कौतुकोऽयम् अभिप्रायः । इयं खलु सरसल-
प्रेमवती परम-गाम्भीर्यवती च । ततो ममाभीष्टः प्रिया-कोप-विलासः
प्रेम-निर्बन्ध-प्रकाशक-स-विकार-कण्ठोक्ति-विशेषो वा नास्यां स्फुटम्
उपलभ्यते । तस्मात् कोप-विलासो वा तज्-जननाभावे तु तादृशोक्तिर् वा
यथास्यां प्रकाशते तथा बाढं परिहासेन प्रयतिष्ये । तत्र यस्यां कोप-
जनने भ्रातृ-वैरूप्यादिकम् अपि कारणं नासीत् । तस्यां तत्रान्यत्
परमायोग्यम् एव किन्तु मद-विश्लेष-सुखम् एवास्याः सर्वस्वम् इति तद्-
दर्प-न्यक्कारेणैव कोपः सम्भवेत् । यदि ततोऽपि कोपो नाविर्भवेत् । तथापि
मद्-विश्लेष-भयेन पूर्वानुरागवद् अधुनापि विकार-विशेष-सहित-
निगदेनैव प्रेम-निर्बन्धं प्रकाश्येतेति । तथा हि तत्र तां रूपिणीम् [भ्प्
10.60.10] इत्य् आदौ प्रीतः स्मयन् इत्य् अनेन व्यक्तम् । परिहासमयत्वं तु
विशेषतोऽप्य् उक्तम् । प्रसङ्गेन तस्याः प्रेम-सारल्यादि-द्वयम् अपि---
तद् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम् ।
हास्य-प्रौठिम् अजानन्त्याः करुणः सो ऽन्वकम्पत ॥ [भ्प् 10.60.25] इति ।
हास्यं परिहासः । तत्र प्रौढिः अवश्यम् एनां सरल-प्रेमाणम् अपि
गम्भीराम् अपि क्षोभयिष्यामीति (पगे 147) गर्वः । तां प्रणय-रस-
कौटिल्याभावेनाजानन्त्या इत्य् अर्थः । एव अग्रेऽपि हास्य-प्रौढि-भ्रमच्-
चित्ताम् [भ्प् 10.60.28] इत्य् उक्तम् ।
तत्र तेन परिहासेन कोप-विलासादि-दर्शनम् एवाभीष्टम् इति स्वयम्
एवोक्तम्-
मा मा वैदर्भ्य् असूयेथा जाने त्वां मत्-परायणाम् ।
त्वद्-वचः श्रोतु-कामेन क्ष्वेल्याचरितम् अङ्गने ॥
मुखं च प्रेम-संरम्भ- स्फुरिताधरम् ईक्षितुम् ।
कटाक्षेपारुणापाङ्गं सुन्दर-भ्रु-कुटी-तटम् ॥
अयं हि परमो लाभो गृहेषु गृह-मेधिनाम् ।
यन् नर्मैर् ईयते यामः प्रियया भीरु भामिनि ॥ [भ्प् 10.60.29-31] इति ।
अत्र यद्यपि तस्याः प्राग् भयम् एव वर्णितं तथापि तत्रासूया-प्रयोगः
प्रोत्तम्भनार्थ एव । तत्-प्रयोगेण हि स्वस्य तद्-अधीनताक्षिप्यते । अतएव
भामिनीत्य् अपि सम्बोधितम् ।
अथ तस्य प्रेम-निर्बन्ध-प्रकाशक-विकार-दर्शनेच्छापि प्राक्तनैव
वाक्येन व्यक्ता । तद् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम्
[भ्प् 10.60.25] इत्य् अनेन । तथा निगदेनैव तद्-व्यक्ति-दर्शनेच्छा स्वयम् एव
व्यञ्जिता -- साध्व्य् एतच्-छ्रोतु-कामैस् त्वं राज-पुत्रि प्रलम्भिता [भ्प्
10.60.49] इति । पूर्वं हि त्वं वै समस्त-पुरुषार्थ-मयः फलात्मा [भ्प्
10.60.38] इत्य् आदिकम् । तयापि निगदितम् अस्ति । अत्र परिहास-ज्ञानानन्तरं तद्-
दिदृक्षिता किञ्चित् कोप-व्यक्तिश् च जातास्ति - जाड्यं वचस् तव गदाग्रज [भ्प्
10.60.40] इत्य् आदिषु । जाड्यस्य प्राचुर्य-विवक्षया जाड्यम् एव वच इति
सामानाधिकरण्येनोक्तम् माधुर्यम् एव नु मनो-नयनामृतं नु
[कर्णामृत 68] इतिवत् ।
अथ तद्-अविश्लेष-दर्प-न्यक्-कार एव तत्-क्षोभे हेतुर् इत्य् अत्रापि श्री-शुक-
वाक्यम् -
एतावद् उक्त्वा भगवान् आत्मानं वल्लभाम् इव
मन्यमानां अविश्लेषात् तद्-दर्पो-घ्न उपारमत् ॥ [भ्प् 10.60.21] इति ।
अन्यस्य च तत्र हेतुत्वं स्वयम् एव निराकृतम्-
भ्रातुर् विरूप-करणं युधि निर्जितस्य
प्रोद्वाह-पर्वणि च तद्-वधम् अक्ष-गोष्ठ्याम् ।
दुःखं समुत्थम् असहो ऽस्मद्-वियोग-भीत्या
नैवाब्रवीः किम् अपि तेन वयं जितस् ते ॥ [भ्प् 10.60.56] इति ।
अत्र च प्रकरणे तस्याः प्रणयस्यापि तादृशत्वाभावात् मानायोग्यत्वम् अपि
दर्शितम् । तस्मात् साधूक्तं - यासां खलु प्रणयः इत्य् आदि ।
अथ मानानन्तरजः सम्भोगो, यथा --
इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः ।
जहुर् विरहजं तापं तदङ्गोपचिताशिषः ॥ [भ्प् 10.33.1] इत्य् आदि ।
स्पष्टम् ।
॥ 10.33 ॥ श्री-शुकः
[387]
अथ प्रेम-वैचित्त्यम् । तल्-लक्षणं च -
प्रियस्य सन्निकर्षेऽपि प्रेमोन्माद-भ्रमाद् भवेत् ।
या विश्लेष-धियार्तिस् तत् प्रेम-वैचित्त्यम् उच्यते ॥ [उन् 15.147]
तद् यथा-
कृष्णस्यैवं विहरतो गत्य्-आलापेक्षित-स्मितैः ।
नर्म-क्ष्वेलि-परिष्वङ्गैः स्त्रीणां किल हृता धियः ॥
ऊचुर् मुकुन्दैक-धियो गिर उन्मत्त-वज् जडम् ।
चिन्तयन्त्यो ऽरविन्दाक्षं तानि मे गदतः शृणु ॥
श्री-महिष्य ऊचुः--
कुररि विलपसि त्वं (पगे 148) वीत-निद्रा न शेषे
स्वपिति जगति रात्र्याम् ईश्वरो गुप्त-बोधः ।
वयम् इव सखि कच्चिद् गाठ-निर्विद्ध-चेता
नलिन-नयन-हासोदार-लीलेक्षितेन ॥ [भ्प् 10.90.13-15]
तथा-
नेत्रे निमीलयसि [भ्प् 10.90.16] इत्यादि, भो भोः सदा निष्टनसे उदन्वन् [भ्प्
10.90.17] इत्यादि, त्वं यक्ष्मणा [भ्प् 10.90.18] इत्यादि, किं न्व् आचरितम् [भ्प्
10.90.19] इत्यादि, मेघ श्रीमन् [भ्प् 10.90.20] इत्यादि, प्रिय-राव- [भ्प् 10.90.21]
न चलसि [भ्प् 10.90.22] इत्यादि, शुष्यद्-ध्रदाः [भ्प् 10.90.23] इत्यादि ।
हंस स्वागतम् आस्यतां पिब पयो ब्रूह्य् अङ्ग शौरेः कथां
दूतं त्वां नु विदाम कच्चिद् अजितः स्वस्त्य् आस्त उक्तं पुरा ।
किं वा नश् चल-सौहृदः स्मरति तं कस्माद् भजामो वयं
क्षौद्रालापय काम-दं श्रियम् ऋते सैवैक-निष्ठा स्त्रियाम् ॥ [भ्प् 10.90.24]
एवं विहरतः कृष्णस्य गत्य्-आदिभिः स्त्रीणां धियो हृताः । ततश् च ता
मुकुन्दैक-धियः समाहिता इव क्षणम् अगिरः सत्यः पुनर् अनुराग-
विशेषेणोन्मत्ता इव विहरन्तम् अपि तम् अरविन्दाक्षं परोक्षवच् चिन्तयन्त्यो
जडं विवेक-शून्यं यथा स्यात् तथा ऊचुः । तानि वचनानि मे मम गदतो
वाक्यतः शृण्व् इति ।
अथ विरह-स्पर्शीनि तान्य् एवोन्माद-वाक्यान्य् आहुः कुररीत्य् आदि । हे कुररि
जगति त्वम् एवैका रात्र्यां विलपसि अतएव न शेषे न निद्रासि । ईश्वरोऽस्मत्-
स्वामी तु गुप्त-बोधः क्वचिद् आच्छन्नः स्वपिति । तस्माद् अस्माकं तव च
विलापादि-साधर्म्याद् इदम् अनुमीयत इत्य् आहुः वयम् इवेति । एवम् अन्यत्रापि
योजनीयम् । तदैव दैवाद् आगतं हंसं दूतं कल्पयित्वाहुः हंसेति ।
नोऽस्मान् प्रति पुरा रहसि उक्तं किं वा स्मरति । स्मरतु माम् एवेत्य्
आशयेनाहुः तम् इति । यदि च तद्-आग्रहस् तदा हे क्षौद्र सौहृद्य-
चाञ्चल्येन क्षुद्रस्य तस्य दूत, तम् एव कामदं युवति-जन-क्षोभकम्
अत्रालापय आह्वय । किन्तु यासाम् आद्य वयं त्यक्ताः तां श्रियम् ऋते । तां
सोल्लुण्ठं स्तौति । स्त्रियां मध्ये सैव एकत्र तस्मिन् निष्ठा यस्यास् तादृशी ।
ततः कथं तस्यां नासज्येतेति व्यञ्जितम् । काक्वा स्वेषाम् अपि तन्-निष्ठत्वं
व्यज्य सोल्लुण्ठत्वं दर्शितम् ।
अथ तासां तद्-विधाशेष-विप्रलम्भानन्तरजं नित्यम् एव सर्वात्मक-
सम्भोगम् आह-
इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे ।
क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥ [भ्प् 10.90.25]
विष्णोः श्री-कृष्णस्य एव सम्बन्धिनीं गतिं नित्य-संयोगं लेभिरे । अत्र
हेतुः माधव्यः मधु-वंशोद्भवस्य श्री-कृष्णस्यैव नित्य-प्रेयस्यस्
ताः ।
॥ 10.90 ॥ श्री-शुकः
[389]
अथ प्रवासः । नाना-विधश् चैष तद्-अनन्तर-सङ्गश् च श्री-व्रज-देवी-
रेवाधिकृत्योदाहरणीयः । सङ्गत्य्-अर्थं तत्र प्रवास-लक्षणम्-
पूर्व-सङ्गतयोर् यूनोर् भवेद् देशान्तरादिभिः ।
व्यवधानं तु यत् प्राज्ञैः स प्रवास इतीर्यते ॥
तज्-जन्य-विप्रलम्भोऽयं प्रवासत्वेन कथ्यते । [उन् 15.152-153] इत्य् अर्थः ।
अत्र-
चिन्ता प्रजागरोद्वेगौ तानवं मलिनाङ्गता ।
प्रलापो व्याधिर् उन्मादो मोहो मृत्युर् दशा दश ॥ [उन् 15.167]
अयं च किञ्चित् दूर-गमन-मयः सुदूर-गमन-मयश् च । तत्र पूर्वोऽपि
द्विविधः । एक-लीला-गतः लीला-परम्परा (पगे 149) न्तराल-गतश् च । पूर्वो
यथा --
अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः ।
अतप्यंस् तम् अचक्षाणाः करिण्य इव यूथपम् ॥ [भ्प् 10.30.1] इत्य् आदि ।
[390]
तथा,
ततश् चान्तर्दधे कृष्णः सा वधूर् अन्वतप्यत । [भ्प् 10.30.39] इति स्पष्टम् ।
॥ 10.30 ॥ सः ॥ 389-390 ॥
[391]
अत्र प्रलापाख्या दशा च-हा नाथ रमण प्रेष्ठ [भ्प् 10.30.40] इत्य् आदिः ।
स्पष्टम् ।
॥ 10.30 ॥ श्री-राधा
[392]
तथा-
जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वद् अत्र हि ।
दयित दृश्यतां दिक्षु तावकास् त्वयि धृतासवास् त्वां विचिन्वते ॥ [भ्प् 10.31.1]
तथा--
शरद्-उदाशये साधु-जात- [भ्प् 10.31.2] इत्य् आदि । विष-जलाप्ययाद् [भ्प् 10.31.3]
इत्य् आदि । न खलु गोपिका-नन्दन [भ्प् 10.31.4] इत्य् आदि । मधुरया गिरा [भ्प्
10.31.8] इत्य् आदि । विरचिताभयं [भ्प् 10.31.5] इत्य् आदि । व्रज-जनार्तिहन् [भ्प्
10.31.3] इत्य् आदि ।
प्रणत-देहिनां [भ्प् 10.31.7] इत्य् आदि । तव कथामृतं [भ्प् 10.31.9] इत्य् आदि ।
प्रहसितं [भ्प् 10.31.10] इत्य् आदि । चलसि यद् व्रजाच् [भ्प् 10.31.11] इत्य् आदि । दिन-
परिक्षये [भ्प् 10.31.12] इत्य् आदि । प्रणत-कामदं [भ्प् 10.31.13] इत्य् आदि ।
सुरत-वर्धनं [भ्प् 10.31.14] इत्य् आदि । अटति यद् भवान् [भ्प् 10.31.15] इत्य्
आदि । पति-सुतान्वय- [भ्प् 10.31.16] इत्य् आदि । रहसि संविदं [भ्प् 10.31.17] इत्य्
आदि । व्रज-वनौकसां [भ्प् 10.31.18] इत्य् आदि ।
यत् ते सुजात-चरणाम्बु-रुहं स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीम् अटसि तद् व्यथते न किं स्वित्
कूर्पादिभिर् भ्रमति धीर् भवद्-आयुषां नः ॥ [भ्प् 10.31.19]
तत्र विष-जलाप्ययाद् इत्य् आदिकं सर्वस्यैव गोकुलस्य स्व-रक्षणीयता-
दृष्ट्याप्य् अस्मान् अधुना रक्षेत्य् अभिप्रायम् । वृषात्मजाद् वत्सात्
मयात्मजात् व्योमासुराद् इत्य् अर्थः । पुनश् च तत्-तद्-अलौकिक-कर्म
लक्ष्यीकृत्य न खलु गोपिका-नन्दनो भवान् इत्य् आदि-द्वये याचक-रीत्या
दैन्येन तत्र परमेश्वरत्त्वारोप इयं स्तुतिः । ततो विश्वस्यापि स्व-
रक्षणीयता-दृष्ट्याप्य् अस्मान् अधुना रक्षेति पूर्ववत् । तत्रापि सात्वतानां
वैष्णवानां श्रीमन्-नन्दादीनां कुलेऽवतीर्णत्वात् । तत्रापि बाल्येऽस्मत्-
सखित्वाप्तेर् वैशिष्ट्यम् एव युज्यते इत्य् अर्थः । वृष्णि-धुर्य इति तेषाम् अपि
यदु-वंशोत्पन्नत्वात् ।
तथा च स्कान्दे मथुरा-माहात्म्ये -
गोवर्धनश् च भगवान् यत्र गोवर्धनो धृतः ।
रक्षिता यादवाः सर्वे इन्द्र-वृष्टि-निवारणात् ॥ इति ।
तत्रैवान्यत्र अपि श्री-गोविन्द-कुण्ड-प्रस्तावे-
यत्राभिषिक्तो भगवान् मघोना यदु-वैरिणा इति ।
अथवा विष-जलाप्ययाद् इत्य् आदिना स्तुत्वा पुनः स-प्रणयेर्ष्यम् आहुः, न
खल्व् इत्य् अर्धेन । एवं दुरवस्थापन्नानाम् अस्माकम् उपेक्षया भवान्
खलु निश्चयेन गोपिकायाः सर्वेषां व्रज-वासिनाम् अस्माकं रक्षा-कारिण्याः
श्री-व्रजेश्वर्या नन्दनो नास्ति किन्तु कस्यापि सुखेन दुःखेन चास्पृष्टत्वाद्
अखिल-देहिनाम् अन्तरात्म-दृक् शुद्ध-जीव-द्रष्टा परमात्मास्ति । एवम् अपि
नूनं ब्राह्मणार्थि (पगे 150) -तत्वेनानासक्ततयैव सर्व-
रक्षावतीर्णत्वान् नास्मान् उपेक्षितुम् अर्हति इति पुनः स-दैन्यम् आहुः
विखनसेत्य् अर्धेन । पूर्ववत् तद्-अभिप्रायेणैव विरचिताभयम् इत्य् आदिकम्
अप्य् उक्तम् ।
प्रणत-देहिनाम् इति । श्री-निकेतनम् अपि प्रणत-देहि-प्रभृतीनां पाप-
कर्षणादि-रूपं । तत एव परम-करुणामयत्वेनावगतम् अस्माकं कुचेष्व्
अपि हृच्-छय-कर्तनाय कर्तुम् उचितम् इत्य् अर्थः । हृच्-छय-निदानं तद्-
अनुरूपं प्रतीकारान्तरं चाहुः मधुरयेति ।
नूनं यत् सौरभ्य-दिग्धतयैव तव गीर् मधुरा मनो मोहयति तद्
एवाधर-सीधु भवेद् अत्रौषधभित्य् अर्थः । अहो तवाधर-सीधु तादृश-
पुण्य-हीनाभिः कथं सुलभं स्यात् । यतः सा मधुरा गीर् अप्य् अस्तु दूरे ।
गुरु-गोष्ठी-नियम-बन्दनकत्वम् आपन्नाभिर् अस्माभिः
प्रसङ्गान्तरेणापि जन-परम्परा-प्रख्यायमानम् अपि तव चरितामृतम्
अपि दुर्लभम् इत्य् आह, तव कथामृतम् इति । तद् ये गृणन्ति तेऽपि अस्मभ्यं
भूरिदा जाताः । कुतः पुनर् युष्माकं मय्य् एतावान् अनुरागस् तत्राहुः
प्रहसितम् इत्य् आदि । कथं मम प्रहसितादीनाम् एतादृशत्वं तत्राहुः-हे
कुहकेति । तादृशी कापि कुहना या त्वयि विद्यते तां त्वम् एव वेत्सीत्य् अर्थः ।
एवम् अन्यान्य् अपि योजनीयानि । परम-प्रकर्षेणाहुः -- यत् ते सुजात इति ।
॥ 10.31 ॥ श्री-गोप्यः
[393]
एतद्-अनन्तरं सम्भोगोदाहरणं च दर्शितम् । तं विलोक्यागतं प्रेष्ठम्
[भ्प् 10.32.3] इत्य् आदिभिः । अत्र च क्रमेण विरह-सन्ताप-धुतिः । तत्र
प्रथमतो यथा -
सर्वास् ताः केशवालोकपरमोत्सवनिर्वृताः ।
जहुर् विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ [भ्प् 10.32.9]
द्वितीयो यथा -- तद्-दर्शनाह्लाद-विधूत-हृद्-रुजः [भ्प् 10.32.13] इत्य् आदि ।
तृतीयो यथा-
इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः ।
जहुर् विरहजं तापं तदङ्गोपचिताशिषः ॥ [भ्प् 10.33.1]
स्पष्टम् ।
॥ 10.33 ॥ श्री-शुकः
[394-397]
अथ द्वितीयं किञ्चिद् दूर-प्रवासम् आह --
गोप्यः कृष्णे वनं याते तम् अनुद्रुत-चेतसः ।
कृष्ण-लीलाः प्रगायन्त्यो निन्युर् दुःखेन वासरान् ॥ [भ्प् 10.35.1]
तत्र च तासां प्रलापाख्याम् अवस्थाम् आह- श्री-गोप्य ऊचुः
वाम-बाहु-कृत-वाम-कपोल-
वल्गित-भ्रूर् अधरार्पित-वेनुम् ।
कोमलाङ्गुलीभिर् आश्रित-मार्गं
गोप्य ईरयति यत्र मुकुन्दः ॥
व्योम-यान-वनिताः सह सिद्धैर्
विस्मितास् तद् उपधाय सलज्जाः ।
काम-मार्गन-समर्पित-चित्ताः
कश्मलं ययुर् अपस्मृत-निव्यः ॥ [भ्प् 10.35.2-3]
यथा-
हन्त चित्रम् अबलाः शृणुतेदम् [भ्प् 10.35.4] इत्य् आदि वृन्दशो व्रज-वृषा [भ्प्
10.35.5] इत्य्-आद्य्-अन्तम् । बर्हिण-स्तबक- [भ्प् 10.35.6] इत्य् आदि तर्हि भग्न-
गतयः [भ्प् 10.35.7] इत्य् आद्य्-अन्तम् । अनुचरैः [भ्प् 10.35.8] इत्य् आदि वन-लतास्
[भ्प् 10.35.9] इत्य् आद्य्-अन्तम् । दर्शनीय-तिलकः [भ्प् 10.35.10] इत्य् आदि सरसि सारस-
[भ्प् 10.35.11] इत्य् आद्य्-अन्तम् । सह-बलः [भ्प् 10.35.12] इत्य् आदि महद्-(पगे
151) अतिक्रमण- [भ्प् 10.35.13] इत्य् आदि विविध-गोप-चरणेषु [भ्प् 10.35.14]
इत्य् आदि सवनशस् [भ्प् 10.35.15] इत्य् आद्य्-अन्तम् । निज-पदाब्ज-दलैर् [भ्प्
10.35.16] इत्य् आदि व्रजति तेन वयं [भ्प् 10.35.17] इत्य्-आद्य्-अन्तम् । मणि-धरः
[भ्प् 10.35.18] इत्य् आदि क्वणित-वेणु-रव-[भ्प् 10.35.19] इत्य्-आद्य्-अन्तम् । कुन्द-
दाम- [भ्प् 10.35.20] इत्य् आदि मन्द-वायुः [भ्प् 10.35.21] इत्य्-आद्य्-अन्तं च तत्-
तद्-युगलं स्मर्तव्यम् ।
अत्र सह-सिद्धैर् इति तेषाम् अपि तादृश-वेणु-वाद्य-महिम्ना वैन्ता-
भावापत्तिः सूचिता । अनुचरैर् इति । अत्रादि-पुरुष इवाचल-भूतिर् इत्य् अनेनैव
बोध्यते । एवम् एव सर्वत्र तासां प्रेम-कृत-सर्वोत्तमता-स्फूर्त्या क्वचित्
तद्-ऐश्वर्य-वर्णनम् उत्प्रेक्सैव यत्-पत्य्-अपत्येत्य्-आदिवद् इति ।
वनलता इति । अत्र विष्णुं सर्वत्रैव स्फुरन्तं श्री-कृष्णम् इत्य् अर्थः । निज-
पदाब्जेति । अत्र व्रज-भू-शब्देन तत्-स्थानि तृणादीनि लक्ष्यन्ते । तेषां च
खुरतोदशमनं स्पर्श-माहात्म्येन नित्यम् अङ्कुर-शालित्व-करणात् ।
अतएवापरिमित-चतुष्पद-विगाहेऽपि तच्-चारस्य समावेशः सिध्यतीति ज्ञेयम् ।
एतद्-अनन्तरं दर्शानात्मक-सम्भोगो यथा--
वत्सलो व्रज-गवां यद् अग-ध्रो
वन्द्यमान-चरणः पथि वृद्धैः ।
कृत्स्न-गो-धनम् उपोह्य दिनान्ते
गीत-वेणुर् अनुगेडित-कीर्तिः ॥
उत्सवं श्रम-रुचापि दृशीनाम्
उन्नयन् खुर-रजश्-छुरित-स्रक् ।
दित्सयैति सुहृद्-आशिष एष
देवकी-जठर-भूर् उडु-राजः ॥ [भ्प् 10.35.22-23]
अत्र देवकी-जठर-भूर् इति सङ्केत-नाम-ग्रहणम् । सङ्केत-मूलं तु
प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः [भ्प् 10.8.14] इति ज्ञेयम् ।
अथवा, अनेनैवाप्रसिद्धोऽपि देवकी-शब्दोऽत्र श्री-यशोदायाम् एव ज्ञेयः ।
तत्र तस्या एव तन्-मातृत्वेन प्रसिद्धत्वात्-नाभेर् असाव् ऋषभ आस
सुदेवीसूनुः [भ्प् 2.7.10] इत्य् अत्र मेरु-देव्या एव सुदेवीति संज्ञावत् । द्वे
नाम्नी नन्द-भार्याया यशोदा देवकीति च इति पुराणान्तर-वचनं च
तथा ।
एवं मद-विघूर्णित-लोचन ईषत् [भ्प् 10.35.24] इति यदु-पतिर् द्विरद-राज-
विहारः [भ्प् 10.35.25] इति स्मर्तव्यम् । व्रज-गवाम् इति तत्र स्थिता बाल-
वृद्धा गावस् तेषाम् अप्य् उपलक्षणत्वेनोक्ताः । तथैतद्-अग्रे--
एवं व्रज-स्त्रियो राजन् कृष्ण-लीलानुगायतीः ।
रेमिरे ऽहःसु तच्-चित्तास् तन्-मनस्का महोदयाः ॥ [भ्प् 10.35.26]
एवम् अपराह्णेषु तदीयागमनानन्देन नित्यम् अहःस्व् अपि रेमिरे ।
॥ 10.35 ॥ श्री-शुकः ॥ 394-397 ॥
[398]
अथ दूर-प्रवासः । स च भावी भवन् भूतश् चेति त्रिविधः । तत्र भावी
यथा-
गोप्यस् तास् तद् उपश्रुत्य बभूवुर् व्यथिता भृशम्
राम-कृष्णौ पुरीं नेतुम् अक्रूरं व्रजम् आगतम् ॥ [भ्प् 10.39.13]
तासां विलापश् च--
अहो विधातस् तव न क्वचिद् दया
संयोज्य मैत्र्या प्रणयेन देहिनः ।
तांश् चाकृतार्थान् वियुनङ्क्ष्य् अपार्थकं
विक्रीडितं ते ऽर्भक-चेष्टितं यथा ॥ [भ्प् 10.39.19]
तथा --
यस् त्वं प्रदर्श्यासित-कुन्तलावृतं [भ्प् 10.39.20] इत्य् आदि । क्रूरस् त्वम् अक्रूर-
[भ्प् 10.39.21] इत्य् आदि । न नन्द-सूनुः क्षण-भङ्ग-सौहृदः [भ्प् 10.39.22]
इत्य् आदि ।
सुखं प्रभाता रजनीयम् [भ्प् 10.39.23] इत्य् आदि । तासां मुकुन्दः [भ्प्
10.39.24] इत्य् आदि । अद्य ध्रुवं तत्र दृशो भविष्यते [भ्प् 10.39.25] इत्य् आदि ।
(पगे 152) मैतद्-विधस्याकरुणस्य [भ्प् 10.39.26] इत्य् आदि । अनार्द्र-धीर् एष
[भ्प् 10.39.27] इत्य् आदि । निवारयामः [भ्प् 10.39.28] इत्य् आदि । यस्यानुराग- [भ्प्
10.39.29] इत्य् आदि । यो ऽह्नः क्षये व्रजम् अनन्त-सखः [भ्प् 10.39.30] इत्य्
आदिकं च स्मर्तव्यम् ।
भवन् च, यथा--
गोप्यश् च दयितं कृष्णम् अनुव्रज्यानुरञ्जिताः ।
प्रत्यादेशं भगवतः काङ्क्षन्त्यश् चावतस्थिरे ॥ [भ्प् 10.39.34] इत्य् आदि ।
ता निराशा निववृतुर् गोविन्द-विनिवर्तने ।
विशोका अहनी निन्युर् गायन्त्यः प्रिय-चेष्टितम् ॥ [भ्प् 10.39.37] इत्य् अन्तम् ।
विशोका विविध-शोक-वृत्तयः सत्यः । तत्-तद्-गाने तत्-तल्-लालसायाः साक्षाद्
इव स्फूर्तेर् वा विशोक-प्राया अहनी अहो-रात्रं निन्युर् यापयामासुः ।
॥ 10.39 ॥ श्री-शुकः
[401]
भूतो, यथा-
ता मन्-मनस्का मत्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः [भ्प् 10.46.4] इत्य्
आदिना दर्शितः । अत्र दूत-मुखेन परस्पर-सन्देश् च दृश्यते । दूताः
स्फुरित-सङ्ख्यांशा उद्ध्व-बलदेवादयः । तत्र तं प्रश्रयेणावनताः सु-
सत्-कृतं अ-व्रीड-हासेक्षण-सूनृतादिभिः [भ्प् 10.47.3] इत्य्-आदि-दिशा पूर्वं
रचिताकार-गुप्तीनाम् अपि तासां महार्त्या महा-सङ्कोच-परित्यागम् अप्य्
आह-
इति गोप्यो हि गोविन्दे गत-वाक्-काय-मानसाः ।
कृष्ण-दूते समायाते उद्धवे त्यक्त-लौकिकाः ॥ [भ्प् 10.47.9]
अपृच्छन्न् [भ्प् 10.47.3] इति प्राक्तन-क्रिययान्वयः ।
॥ 10.47 ॥ श्री-शुकः
[402]
अतएव-
गोप्यो हसन्त्यः पप्रच्छू राम-सन्दर्शनादृताः ।
कच्चिद् आस्ते सुखं कृष्णः पुर-स्त्री-जन-वल्लभः ॥ [भ्प् 10.65.9] इत्य् आदि ।
हसन्त्यः प्रेमेर्ष्यया कृष्णम् उपहसन्त्य इत्य् अर्थः ।
॥10.65 ॥ श्री-शुकः
[403]
यथैव श्रीमद्-उद्धव-सन्निधाव् उन्माद-वचनम् अपि दर्शितम् ।
काचिन् मधुकरं दृष्ट्वा ध्यायन्ती कृष्ण-सङ्गमम् ।
प्रिय-प्रस्थापितं दूतं कल्पयित्वेदम् अब्रवीत् ॥ [भ्प् 10.47.11]
काचिच् छ्री-राधा । तथैव आख्यातं वासना-भाष्ये । एतद्-विवरणं च श्री-
दशम-टिप्पन्यां दृश्यम् इति ।
[404]
तत्र उन्मादेनैव मानिनी-भङ्ग्याह अष्टभिः--मधुप कितव-बन्धो
[भ्प् 10.47.12] इत्य् आदि ।
[405]
माने कारणम् आह सकृद् अधर-सुधां [भ्प् 10.47.13] इत्य् आदि
[406]
अत्र किंवदन्तीम् आश्रित्य पद्मायाः प्रतिनायिकात्वेनोपन्यासः क्रियते । दूत-
प्रस्तुति-प्रत्याख्यानम् किम् इह [भ्प् 10.47.14] इति ।
[407]
विजयते सर्वं वशीकरोति इति विजयः श्री-कृष्णः स एव सखा त्वद्-बन्धुः ।
तस्य सखीनां सम्प्रति माथुरीणाम् एवाग्रतः तस्य विजयस्य तद्-वशीकार-
पर्यन्तस्य प्रसङ्गः । तथापि तद्-आसक्तौ तद्-दोष एव कारणम् इति स्व-
दोषं परिहरन्ती दैन्यम् आलम्ब्य तस्य निर्दयत्वं प्रतिपादयति दिवि भुवि
च [भ्प् 10.47.15] इत्य् आदि ।
[408]
अपि च । एवम् अपि अस्मद्-विध-कृपण-पक्ष-पाते सत्य् एव तत्र उत्तम-श्लोक-
शब्दो भवितुम् अर्हति सम्प्रति तु तस्य तद्-अभाव-दर्शनान् न सदयत्वं
तद्-अभावान्यतराम् उत्तमश्लोकत्वम् अपि इति भावः । (पगे 153) स्व-
कौमल्य-मुद्रया जनितं तच्-चाटुकारोद्यम् अतिशयं मत्वाह विसृज शिरसि
[भ्प् 10.47.16] इत्य् आदि ।
[409]
ततः प्रणयेर्षया तस्मिन् दोषम् आरोप्यापि स्वस्व्यास् तदीयासक्ति-
परित्यागासामार्थ्यं वर्णयन्ती तत्-तद्-दोषं परिहरति मृगयुर् [भ्प्
10.47.17] इत्य् आदि ।
[410]
यतस् तेऽप्य् असिता एवंविधास् तस्माद् असितस्य श्याम-जाति-मात्रस्य सख्यैः
प्रणय-बन्धैः । पुनः तत्-कथाया यद् दुस्त्यजत्वं तत् खलु तस्यापि
दोषत्वेनैव स्थापयति यद् अनुचरित [भ्प् 10.47.18] इत्य् आदि ।
[411]
कर्णस्यैव पीयूषं न तु मनस इत्य् आपात-मात्र-स्वाद्यत्वं बोधितम् ।
विधूत-द्वन्द्व-धर्मत्वाद् एव विनष्टा अचेतन-प्राया जाताः । इह
वृन्दावने व्हङ्गाः शुकादयोऽपि भिक्षोः सन्न्यासिनश् चर्यां
देहादिनैरपेक्ष्यं चरन्ति आचरन्तो दृश्यन्त इत्य् अर्थः । ततः सानुतापम्
आह वयम् ऋतम् [भ्प् 10.47.19] इति ।
[412]
तद् एवम् अष्टकेन मान-भङ्गीं व्यज्य स्वकाठिन्यातिशयेन दूतं
निवर्तमानम् आशङ्क्य कलहान्तरिता-भङ्ग्या द्वयेनाह प्रिय-सखा [भ्प्
10.47.20] इति ।
[413]
तत्रापि सकौटिल्यम् अर्धेनाह नयसीति । द्वन्द्वं मिथुनी-भावः ।
दुस्त्यज-द्वन्द्वत्वे हेतुः सततम् इति । अत्र तद्-वक्षसि स्थिता लक्ष्मी रेखैव
प्रेमेर्ष्यया साक्षात् तद्-रूपत्वेनोत्प्रेक्षिता । अन्ते स-दैन्यम् आह अपि बत
[भ्प् 10.47.21] इति ।
श्री-कृष्ण-सन्देशो यथोदाहृतः श्री-कृष्ण-सन्दर्भे भवतीनां वियोगो मे
[भ्प् 10.47.29] इत्य् आदिकः । अत्र प्रकाशान्तरेण सर्व-व्रज-सहितस्य तस्य
नित्य-वृन्दावन-विहार-रूपोऽर्थस् तत्रैव प्रतिपादितः । यस् तु व्यक्तो ज्ञान-
योग-प्रतिपादकः स च दुःखादौ शमयितव्ये लोक-रीत्या सम्भवतीत्य्
एके । तत्र ज्ञान-योगोपदेशेन तासां न शान्तिर् इति द्वितीय-सन्देशो यत् त्व् अहं
भवतीनां वै [भ्प् 10.47.34] इत्य् आदिकः । या मया क्रीडता रात्र्याम् [भ्प्
10.47.37] इत्य् अन्तः ।
अत्र यत् त्व् अहम् इत्य् आदौ अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया
गतान् [भ्प् 10.82.42] इत्य् आदि वक्ष्यमाणानुसारेण कार्यान्तरस्यापि भवत्-
प्रेम-सुख-वृद्धि-फलत्वम् एवेत्य् अभिप्रायः ।
ततस् ताः कृष्ण-सन्देशैर् व्यपेत-विरह-ज्वराः ।
उद्धवं पूजयां चक्रुर् ज्ञात्वात्मानम् अधोक्षजम् ॥ [भ्प् 10.47.53]
इत्य् अत्रापि व्यपेत-विरह-ज्वरत्वं तद्-आगमनादि-श्रवणेनापात-शान्ति-
रूपम् एव क्वचिद् गदाग्रजः सौम्य [भ्प् 10.47.40] इत्य्-आद्य्-उक्तेः । आत्मानं
तस्य तद्-दूततया तत्-प्रेर्यत्वेनान्तः-करणाधिष्ठातारम् अधोक्षजं श्री-
कृष्णम् एव मत्वा तद्-आत्मकत्वेनोद्धवं पूजयाञ्चक्रुर् इत्य् अर्थः । यथा
चोक्तम् -
तम् आगतं समागम्य कृष्णस्यानुचरं प्रियम् ।
नन्दः प्रीतः परिष्वज्य वासुदेव-धियार्चयत् ॥ [भ्प् 10.46.14] इति ।
॥ 10.47 ॥ श्री-शुकः ॥ 403-413 ॥
[414]
एवं श्री-बलदेव-द्वारक-सन्देशोऽप्य् अनुमेयः -
सङ्कर्षणस् ताः कृष्णस्य सन्देशैर् हृदयं-गमैः ।
सान्त्वयाम् आस भगवान् नानानुनय-कोविदः ॥ [भ्प् 10.65.16] इत्य् अनुसारेण ।
अथ तद्-अनन्त-रजः सन्दर्शनादि-मयः सम्भोगः कुरुक्षेत्र प्रसिद्धः ।
यथा-
गोप्यश् च कृष्णम् उपलभ्य चिराद् अभीष्टं (पगे 154)
यत्-प्रेक्षणे दृशिषु पक्ष्म-कृतं शपन्ति ।
दृग्भिर् हृदी-कृतम् अलं परिरभ्य सर्वास्
तद्-भावम् आपुर् अपि नित्य-युजां दुरापम् ॥ [भ्प् 10.82.39]
[415]
तद् एवं तासाम् अवस्थाम् उक्त्वा श्री-भगवतोऽपि तद्-विषयक-स्नेह-मयीम्
ईहाम् आह-
भगवांस् तास् तथा-भूता विविक्त उपसङ्गतः ।
आश्लिष्यानामयं पृष्ट्वा प्रहसन्न् इदम् अब्रवीत् ॥ [भ्प् 10.82.40]
[416]
अन्तः-स-क्षोभेणापि रुक्ष एव प्रहासोऽयं स्वापराधं क्षमयता
प्रपञ्चितः । तत्र स्व-व्यवहारोपपत्त्या सान्त्वयति --
अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया ।
गतांश् चिरायिताञ् छत्रु- पक्ष-क्षपण-चेतसः ॥ [भ्प् 10.82.41]
[417]
किं वा रोषेण स्मरणम् अपि न कुरुथेति भावः । तत्र स्व-दोष-निवारणं
स्वानाम् इति । स्वानां स्वेषाम् अस्मत्-पितुः श्री-व्रज-राजस्य बन्धु-वर्गाणां
यादवानाम् । उभयेषाम् अपि यादवत्वेन ज्ञान्तीनाम् इति वा । तत्रातिविलम्बे
कारणं शत्रु-पक्षेति । ततश् च भवतीनां निर्विघ्नः संयोगोऽप्य् अनेन
भविष्यतीति भावः । आत्मनो वामान्तर-सङ्गम् आशङ्क्य परमेश्वर-
पारतन्त्र्योपपादानेन सान्त्वयति-
अप्य् अवध्यायथास्मान् स्विद् अकृत-ज्ञाविशङ्कया ।
नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ [भ्प् 10.82.42] इत्य् आदि
द्वयम् ।
[418]
स्वस्य परमेश्वरत्व-प्रसिद्धिम् आशङ्क्य सङ्कुचन् तथापि विरह-जात-
प्रेमातिशयोऽयं युष्मद्-अभीष्टाव्याघातायैव जात इत्य् आह --
मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते ।
दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥ [भ्प् 10.82.44]
टीका च-मयि भक्ति-मात्रम् एव तावद् अमृतत्वाय कल्पते । यत् तु
भवतीनां मत्-स्नेह आसीत् तद्-दिष्ट्या अतिभद्रम् । कुतः मद्-आपनः मत्-
प्रापणः इत्य् एषा ।
[419]
तत्र स्व-प्राप्तौ विश्वासार्थं देशान्तर-स्थितस्यापि स्वस्य श्री-कृष्णाख्य-
नराकृति-पर-ब्रह्मणः सर्वाश्रयत्वम् अनुभावयति - अहं हि सर्व-
भूतानाम् [भ्प् 10.82.44] इत्य् आदि-द्वये ।
[420]
उक्तं च दामोदर-लीलायां न चान्तर् न बहिर् यस्य [भ्प् 10.9.13] इत्य् आदि ।
अत्र च पद्य-द्वये प्रकाशान्तरेण वृन्दावन एव सर्व-व्रज-सहित-तदीय-
नित्य-विहारः श्री-कृष्ण-सन्दर्भे दर्शितः । स एवात्रानुसन्धेयः । तत्र च
तासां तथैवानुभवोदेयो जात इत्य् आह अध्यात्म-शिक्षये [भ्प् 10.82.45] इति ।
आत्मानं स्वं श्री-कृष्णम् अधिकृत्य या शिक्षा तया । विरहोद्भुत-तद्-
अनुस्मरण-जीर्ण-देहास् तं श्री-कृष्णं तथैवान्वभवन्न् इति । एके त्व् आहुः
- अहं हीत्यादिकं लोक-रीत्या दुःख-निवारणार्थम् एव ब्रह्म-ज्ञानम्
उक्तम् । न तु तत्र तात्पर्यम् । यथा रुक्मि-वैरूप्य-कृतौ श्री-बलदेवेन
वहति न तु तत्र तात्पर्यं, तद्वत् । तद् एवम् एव तादृशाध्यात्म-शिक्षयापि
तास् तम् एवाध्यगान् न तु ब्रह्मेति ।
[421]
तथापि तासां साक्षात्-प्राप्त्य्-उत्कण्ठाम् आह - आहुश् च ते नलिन-नाभ
पदारविन्दम् [भ्प् 10.82.48] इत्य् आदि ।
तत्र हे नलिननाभ, नोऽस्माकं दुःखोद्रेकेण त्वच्-चिन्तनारम्भ-
जायमान-मूर्छानां ते तव पदारविन्दं मनस्य् अप्य् उदियात् । यत् खलु
यथा भवतोपदिस्टं तद्-अनुसारेणाक्षुभित-बोधैर् (पगे 155) योगेश्वरैर्
हृदि विचिन्त्यम् इत्य् आदि श्री-कृष्ण-सन्दर्भ-व्याख्या द्रष्टव्या (कृष्णस्
170) ॥
॥ 10.82 ॥ श्री-शुकः ॥ 414-421 ॥
[422]
तद् एवं सन्दर्शन-संस्पर्शन-संजल्पात्मक-सम्भोगोऽत्र दर्शितः ।
तस्मिन् मास-त्रय-संवासात्मके च वैशेष्ट्यान्तरम् अप्य् ऊह्यम् । अथ पुनस्
तद्-अनन्तर-जात-विप्रलम्भानन्तरम् अपि भावी योऽपुनर्-विच्छेदः
सम्भोगः स च तत्रैव सूचितोऽस्ति । यता तथानुगृह्य भगवान् गोपीनां स
गुरुर् गतिः [भ्प् 10.83.1] इति ।
आहुश् चेत्य् आदिना यथा तासां साक्षात्-तत्-प्राप्ति-पर्यन्तम् अभीष्टं
तथानुगृह्य गतिर् नित्यतया प्राप्तव्यः ।
॥ 10.83 ॥ श्री-शुकः
[423]
एवम् एव श्री-कृष्ण-सअन्दर्भे पाद्मोत्तर-खण्डाद्य्-अनुसारेण दर्शितम्
अस्ति । तत्र हि श्री-कृष्णस्य द्वारकातो वृन्दावने पुनर् आगमनम् । तदा
प्रापञ्चिक-लोक-प्रकटतया मास-द्वयं ताभिः क्रीडा । तद्-अनन्तरं च
तद्-अप्रकटतया ताभ्यो नित्य-संयोग-दानम् इति । एकादशेऽपि स्वयम्
एवोद्धवं प्रति तद् एव स्पष्टम् उक्तम् । तत्र रामेण सार्धं मथुरां
प्रणीत [भ्प् 11.12.10] इत्य्-आदि-द्वये वियोग-तीव्राधयस् ता मत्तोऽन्यं सुखाय
न ददृशुर् इति । तास् ताः क्षपा मया हीनाः कल्प-समा बभूवुः [भ्प्
11.12.11] इति चातीत-प्रयोगेण तदानीं विरहस्य नास्तित्वं बोधितम् ।
तद्-अनन्तरं स्व-प्राप्ति-सुखोल्लासश् च वर्णितः । ता नाविदन् मय्य् अनुषङ्ग-
बद्ध-धियः [भ्प् 11.12.12] इत्य्-आदि-द्वयेन । अनु महा-विरहस्य पश्चाद्
यः सङ्गस् तेन बद्ध-धियः सत्यः परमानन्दावेशेन तदानीं किम् अपि
नाविदन् । हर्ष-मोहं प्रापुर् इत्य् अर्थः ।
तत्र तज्-ज्ञानस्य कृष्णैकतानतायां दृष्टान्तः यथेति । अस्यार्थान्तरम् अपि
श्री-कृष्ण-सन्दर्भे कृतम् अस्ति मत्-कामा रमणं जारम् [भ्प् 11.12.13] इत्य्
आदौ तद्-अनन्तर-पद्ये तं च यादृशं प्रापुस् तथा विशिनष्टि । विवृतं च
तत्रैव सङ्क्षेपतश् च । मां श्री-कृष्णाख्यं परमं ब्रह्म प्रापुः । तं
च मन्-नित्य-प्रेयसी-लक्षणं स्व-स्वरूपम् अजानन्त्यो जार-रूपं पूर्वं
प्रापुः । तथापि मयि कामः रमणत्वेनाभिलाषो यासां तादृश्यः सत्यो
रमण-रूपं तु पश्चाद् इति ।
ततः परकीयाभासत्वं च तासां काल-कतिपयमयत्वेनैव व्याख्यातम् ।
एवम् एवाभिप्रेतम् अस्मद् उपजीव्य-श्रीमच्-चरणानाम् उज्ज्वल-नीलमणौ
तत्रोपक्रमे --
नेष्टा यद् अङ्गिनि रसे कविभिर् परोढा
तद् गोकुलाम्बुजदृशां कुलम् अन्तरेन ।
आशांसया रसविधेर् अवतारितानां
कंसारिणा रसिकमण्डलशेखरेण ॥ [उन् 5.3]
इत्य् अत्रावतार-समय एव तथा व्यवहार-निगमनात् । उपसंहारे च ललित-
माधवस्य [7.18] दग्धं हन्त दधानया वपुः इत्य् आदाव् औपपत्य-
भ्रम-हानान्तर-लीलायां सर्व-फलस्य समृद्धिमद्-आख्यस्य
सम्भोगस्य दर्शितत्वात् ।
तद् एवम् अस्य विप्रलम्भ-चतुष्टय-पुष्टस्य सम्भोग-चतुष्टयस्य
सन्दर्शनादि-त्रयात्मकस्यावान्तर-भेदा अन्येऽपि ज्ञेयाः । यथा लीला-
चौर्यं सङ्गानं रासः जल-क्रीडा वृन्दावन-विहार इत्य् आदयः । तत्र लीला-
चौर्यं यथा तासां वासांस्य् उपादाय नीपम् आरुह्य सत्वरः [भ्प् 10.22.9]
इत्य् आदि । स्पष्टम् ।
॥ 10.22 ॥ श्री-शुकः
[424]
सङ्गानम् काचित् समं मुकुन्देन [भ्प् 10.33.9] इत्य् आदौ । एवं
कदाचिद् अथ गोविन्दो रामश् चाद्भुत-विक्रमः ।
विजह्रतुर् वने रात्र्यां मध्य-गौ व्रज-योषिताम् ॥ (पगे 156)
उपगीयमानौ ललितं स्त्री-जनैर् बद्ध-सौहृदैः ।
स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजो-ऽम्बरौ ॥ [भ्प् 10.34.20-21] इत्य् आदि ।
प्रायो होरिकावसरोऽयम् । व्रज एव गानेन स-भ्रातृकस्यापि तस्य स्त्री-जनैर्
विहारात् । तथा भविष्योत्तर-विधानात् । तथैवाद्याप्य् आर्यावर्तीय-प्रजानाम्
आचारोऽपि दृश्यते । अत्र च निशा-मुखं मानयन्ताव् उदितोडुप-तारकम् [भ्प्
10.34.13] इति तन्-मोहात् सवशालिन्यां फाल्गुन-पौर्णमास्यां हेमन्त-शिशिर-
हिम-कुज्झटिकान्ते चन्द्राद्य्-उल्लासे तद्-उल्लासो वर्णितः । तस्मात् तदानीं
सख्योल्लास-धारिणा श्री-रामेणापि युतिः सङ्गतैव । वने रात्र्याम् इति पाठस्
तु क्वाचित्क एव । तत्र च व्रजान्तस्थम् एव वनं ज्ञेयम् ।
॥ 10.34 ॥ श्री-शुकः
[425-427]
रासः । तत्रारभत गोविन्दो रासक्रीडाम् अनुव्रतैः [भ्प् 10.33.2] इत्य् आदि ।
जल-क्रीडा-- सो ऽम्भस्य् अलं युवतिभिः परिषिच्यमानः [भ्प् 10.33.23] इत्य् आदि ।
वृन्दावन-विहारः-- ततश् च कृष्णोपवने जल-स्थल-प्रसून-गन्धानिल-
जुष्ट-दिक्-तटे [भ्प् 10.33.24] इत्य् आदि । स्पष्टम् ।
॥ 10.33 ॥ सः ॥ 425-427॥
[428]
अथ सम्प्रयोगो यथा-बाहु-प्रसार-परिरम्भ-करालकोरु-नीवी [भ्प्
10.29.46] इत्य् आदि । स्पष्टम् ।
॥ 10.29 ॥ सः
[429]
इयं च श्री-कृष्ण-चन्द्रस्योज्ज्वल-लीला रास-सम्बन्धिन्य् अप्य् अनन्तत्वेन
सम्मता-- एवं शशाङ्कांशु-विराजिता निशाः [भ्प् 10.33.25] इत्य् आदौ । अथ
सर्व-सौभाग्यवतीम् ऊर्ध्व-मणेः श्री-राधिकायाः सम्बन्धिनीं लीलां
वर्णयन्ति -
कस्याः पदानि चैतानि याताया नन्दसूनुना ।
अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा ॥
अनयाराधितो नूनं भगवान् हरिर् ईश्वरः ।
यन् नो विहाय गोविन्दः प्रीतोऽयम् अनयद् रहः ॥
धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः ।
यान् ब्रह्मेशो रमा देवी दधुर् मूर्ध्न्य् अघनुत्तये ॥
तस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् ।
यैकापहृत्य गोपीनां रहो भुङ्क्ते ऽच्युताधरम् ॥
न लक्ष्यन्ते पदान्य् अत्र तस्या नूनं तृणाङ्कुरैः ।
खिद्यत्-सुजाताङ्घ्रितलाम् उन्निन्ये प्रेयसीं प्रियः ॥
इमान्य् अधिकमग्नानि पदानि वहतो वधूम् ।
गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः ॥
1त्रावरोपिता कान्ता पुष्पहेतोर् महात्मना ।
अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः ॥
प्रपदाक्रमणे एते पश्यतासकले पदे ।
केशप्रसाधनं त्व् अत्र कामिन्याः कामिना कृतम् ।
तानि चूडतया कान्ताम् उपविष्टम् इह ध्रुवम् ॥ [भ्प् 10.30.27-34]
अत्र कस्या इति सर्वासां वाक्यम् । अनया इति सुहृदाम् । धन्या इति तट्स्थानाम् ।
तस्या इति प्रतिपक्षाणाम् । न लक्ष्यन्त इति ताः खेदयन्तीनां सखीनाम् ।
इमानीति तद्-असहमानानां प्रतिपक्षाणाम् । अत्रावरोपितेति सार्धं पुनः
सखीनाम् । केशेति पुनः प्रतिपक्षाणाम् अर्धम् । तानीति पुनः सखीनाम्
इति ज्ञेयम् । तन्-मिथुन-विषयक-तत्-तच्-छब्द-प्रयोगेण
सौहृदादिव्यञ्जनात् । या तु विलोक्यार्ताः समब्रुवन् [भ्प् 10.30.26] इति
सर्वासाम् एवार्तिर् उक्ता सापि स्वस्योत्कण्ठाविशेषेण सर्वत्र सङ्गच्छत एव ॥
॥ 10.30 ॥ श्री-व्रज-देव्यः
मूल पाठ: Satsamdarbha with Baladevavidyābhūṣaṇa's Ṭippaṇī · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0