Satsamdarbha · अध्याय 4
इति श्री-कलि-युग-पावन-स्व-भजन-विभाजन-प्रयोजनावतार-श्री-श्री-
भगवत्-कृष्ण-चैतन्य-देव-चरणानुचर-विश्व-वैष्णव-राज-सभाजन-
भाजन-श्री-रूप-सनातनानुशासन-भारती-गर्भे श्री-भागवत-सन्दर्भे
तत्त्व-सन्दर्भो नाम प्रथमः सन्दर्भः ॥
ब्द्: इति कलीति कलि-युग-पावनं यत् स्व-भजनं तस्य विभजनं विस्तरणं
प्रयोजनं यस्य तादृशोऽवतारः प्रादुर्भावो यस्य, तस्य श्री-भगवत्-
कृष्ण-चैतन्य-देवस्य चरणयोर् अनुचरौ, विश्वस्मिन् ये वैष्णव-राजास् तेषां
सभासु यत् स-भाजनं सत्-कारस् तस्य भाजने पात्रे च यौ श्री-रूप-
सनातनौ तयोर् अनुशासन-भारत्य उपदेश-वाक्यानि गर्भे मध्ये यस्य
तस्मिन् ॥
टिप्पणी तत्त्व-सन्दर्भे विद्या-भूषण-निर्मिता ।
श्री-जीव-पाठ-संपृक्ता सद्भिर् एषा विशोध्यताम् ॥
इति श्रीमद्-बलदेव-विद्या-भूषण-विरचिता तत्त्व-सन्दर्भ-टिप्पणी
समाप्ता ॥
[*एन्द्नोते #1] अल्तेर्नतिवे रेअदिन्ग्: वेद रामायणे पुण्ये भारते
भरतर्षभ । आदाव् चान्ते च मध्ये च हरिः सर्वत्र गीयते ॥
[*एन्द्नोते #2] आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः । और्वस्
तस्यां समभवद् ऊरुं भित्त्वा महा-यशाः ॥ (म्भ् 1.66.46)
षट्-सन्दर्भ-नामक-श्री-भागवत-सन्दर्भे द्वितीयः
भगवत्-सन्दर्भः
श्री-श्री-राधा-गोविन्दो जयतः ।
तौ सन्तोषयता सन्तौ श्रील-रूप-सनातनौ ।
दाक्षिणात्येन भट्टेन प्नुअर् एतद् विविच्यते ॥ओ॥
तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥ओ॥[*एन्द्नोते #1]
[1]
अथैवम् अद्वय-ज्ञान-लक्षणं तत् तत्त्वं सामान्यतो लक्षयित्वा पुनर्
उपासक-योग्यता-वैशिष्ट्येन प्रकटित-निज-सत्ता-विशेषं विशेषतो निरूपयति
वदन्तीत्य् अस्यैवोत्तरार्धेन
ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते । [भ्प् 1.2.11]
अथ श्रीमद्-भागवताख्य एव शास्त्रे क्वचिद् अनयत्रापि तद् एकं तत्त्वं
त्रिधा शब्द्यते । क्वचिद् ब्रह्मेति क्वचित् परमात्मेति क्वचिद् भगवान् इति च
। किन्त्व् अत्र श्रीमद्-व्यास-समाधि-लब्धाद् भेदाज् जीव इति च शब्द्यते इति
स्वयम् एव व्याख्यातो भवतीति प्रथमतस् ताव् एव प्रस्तूयते । मूले तु
क्रमाद् वैशिष्ट्य-द्योतनाय तथा विन्यासः । अयम् अर्थः - तद् एकम्
एवाखण्डानन्द-स्वरूपं तत्त्वं थुत्कृत-पारमेष्ठ्यादिकानन्द-
समुदयानां परमहंसानां साधन-वशात् तादात्म्यम् आपन्ने सत्याम्
अपि तदीय-स्वरूप-शक्ति-वैचित्र्यां तद्-ग्रहणासामर्थ्ये चेतसि यथा
सामान्यतो लक्षितं तथैव स्फुरद् वा तद्वद् एवाविविक्त-शक्ति-
शक्तिमत्ताभेदतया प्रतिपाद्यमानं वा ब्रह्मेति शब्द्यते ।
अथ तद् एकं तत्त्वं स्वरूप-भूतयैव शक्त्या कम् अपि विशेषं धर्तुं
परासाम् अपि शक्तीनां मूलाश्रय-रूपं तद्-अनुभावानन्द-सन्दोहान्तर्-
भावित-तादृश-ब्रह्मानन्दानां भागवत-परमहंसानां
तथानुभवैक-साधकतम-तदीय-स्वरूपानन्द-शक्ति-विशेषात्मक-
भक्ति-भावितेष्व् अन्तर्-बहिर् अपीन्द्रियेषु परिस्फुरद् वा तद्वद् एव विविक्त-
तादृश-शक्ति-शक्तिमत्ताभेदेन प्रतिपाद्यमानं वा भगवान् इति शब्द्यते
।
एवम् एवोक्तं श्री-जड-भरतेन -
ज्ञानं विशुद्धं परमार्थम् एकम्
अनन्तरं त्व् अबहिर् ब्रह्म सत्यम्
प्रत्यक् प्रशान्तं भगवच्-छब्द-संज्ञं
यद् वासुदेवं कवयो वदन्ति ॥ [भ्प् 5.12.11] इति ।
श्री-ध्रुवं प्रति श्री-मनुना च -
त्वं प्रत्यग्-आत्मनि तदा भगवत्य् अनन्त ।
आनन्द-मात्र उपपन्न-समस्त-शक्तौ ॥ [भ्प् 4.11.30] इति ।
एवं चानन्द-मात्रं विशेष्यं समस्ताः शक्तयो विशेषणानि विशिष्टो
भगवान् इत्य् आयातम् । तथा चैवं विशिष्टये प्राप्ते
पूर्णाविर्भावत्वेनाखण्ड-तत्त्व-रूपोऽसौ भगवान् । ब्रह्म तु स्फुटम्
अप्रकटित-वैशिष्ट्याकारत्वेन तस्यवासम्यग् आविर्भाव इत्य् आगतम् । इदं तु
पुरस्ताद् विस्तरेण विवेचनीयम् । भगवच् छब्दार्थः श्री-विष्णु-पुराणे
[6.5.66-69, 73-75, 79] प्रोक्तः ।
यत् तद् अव्यक्तम् अजरम् अचिन्त्यम् अजम् अक्षयम् ।
अनिर्देश्यम् अरूपं च पाणि-पादाद्य्-असंयुतम् ॥
विभुं सर्व-गतं नित्यं भूत-योनिम् अकारणम् ।
व्याप्य्-अव्याप्तं यतः सर्वं तद् वै पश्यन्ति सूरयः ॥
तद् ब्रह्म परमं धाम तद् ध्येयं मोक्ष-काङ्क्षिणाम् ।
श्रुति-वाक्योदितं सूक्ष्मं तद् विष्णोः परमं पदम् ॥
तद् एतद् भगवद्-वाच्यं स्वरूपं परमात्मनः ।
वाचको भगवच्-छब्दस् तस्याद्यस्याक्षरात्मनः ॥ इत्य्-आद्य् उक्त्वा ---
सम्भर्तेति तथा भर्ता भकारोऽर्थ-द्वयान्वितः ।
नेता गमयिता स्रष्टा गकारार्थस् तथा मुने ॥
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञान-वैराग्ययोश् चैव षण्णां भग इतीङ्गना ॥
वसन्ति तत्र भूतानि भूतात्मन्य् अखिलात्मनि ।
स च भूतेष्व् अशेषेषु वकारार्थस् ततोऽव्ययः ॥ इति चोक्त्वा --
ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः ।
भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ इति [विप् 6.5.79] पर्यन्तेन ।
पूर्ववद् अत्र विशेष्य-विशेषण-विशिष्टता विवेचनीया । विशेषणस्याप्य्
अहेयत्वं व्यक्तीभविष्यतीति । अरूपं पाणि-पादाद्य्-असंयुतम् इतीदं
ब्रह्माख्य-केवल-विशेष्याविर्भाव-निष्ठम् । विभुं सर्व-गतम् इत्य्
आदिकं तु विशिष्ट-निष्ठम् । अथवा अरूपम् इत्य् आदिकं प्राकृत-रूपादि-
निषेध-निष्ठम् । अतएव पाणि-पादाद्य-संयुतम् इति संयोग-सम्बन्ध एव
परिह्रियते न तु समवाय-सम्बन्ध इति ज्ञेयम् । विभुम् इति सर्व-वैभव-
युक्तम् इत्य् अर्थः । व्यापीति सर्व-व्यापकम् । अव्याप्तम् इति अन्येन व्याप्तुम्
अशक्यम् । तद् एतद् ब्रह्म-स्वरूपं भगवच्-छब्देन वाच्यम् । न तु
लक्ष्यम् । तद् एव निर्धार्यति भगवच्-छब्दोऽयं तस्य नदी-विशेषस्य
गङ्गा-शब्दवद् वाचक एव, न तु तट-शब्दवल्-लक्षकः । एवं सत्य-क्षर-
साम्यान् निर्ब्रूयाद् इति निरुक्त-मतम् आश्रित्य भगादि-शब्दानाम् अर्थम् आह
सम्भर्तेति. नेतास्व-भक्ति-फलस्य प्रेम्णः प्रापकः । गमयिता स्व-लोक-
प्रापकः । स्रष्टा स्व-भक्तेषु तत्-तद्-गुणस्योद्गमयिता । जगत्-
पोषकत्वादिकं तु तस्य परम्परयैव न तु साक्षाद् इति ज्ञेयम् ।
ऐश्वर्यं सर्व-वशीकारित्वम् । समग्रस्येति सर्वत्रान्वेति । वीर्यं मणि-
मन्त्रादेर् इव प्रभावः । यशो वाङ्-मनः-शरीराणां साद्गुण्य-ख्यातिः ।
श्रीः सर्व-प्रकारा सम्पत् । ज्ञानं सर्वज्ञत्वम् । वैराग्यं प्रपञ्च-वस्त्व्-
अनासक्तिः । इङ्गना संज्ञा । अक्षर-साम्य-पक्षे भगवान् इति वक्तव्ये
मतुपो व-लोपश् छान्दसः । सम्भर्तेय्-आदिषु सम्भर्तृत्वादिष्व् एव
तात्पर्यम् । यथा सुप्तिङ्-अन्तचयो वाक्यम् इत्य् अत्र पचति भवतीत्य् अस्य
वाक्यस्य पाको भवतीत्य् अर्थः क्रियते यथा वा सत्तायाम् अस्ति भवतीत्य् अत्र
धात्व्-अर्थ एव विवक्षितः । तद् एवम् एव भगवान् इत्य् अत्र मतुब्-अर्थो
योजयितुं शक्यते । प्रकारान्तरेण षड्-भगान् दर्शयति ज्ञान-शक्ती ज्ञानम्
अन्तः-करणस्य । शक्तिर् इन्द्रियाणाम् । ऐश्वर्य-वीर्ये व्याख्याते । तेजः कान्तिः
। अशेषतः सामग्र्येणेत्य् अर्थः । भगवच्-छब्द-वाच्यानीति । भगवतो
विशेषणान्य् एवैतानि न तूपलक्षआनीत्य् अर्थः । अत्र भगवान् इति नित्य-योगे
मतुप् ।
अथ तथाविध-भगवद्-रूप-पूर्णाविर्भावं तत् तत्त्वं पूर्ववज् जीवादि-
नियन्तृत्वेन स्फुरद् वा प्रतिपाद्यमानं वा परमात्मेति शब्द्यत इति ।
यद्यप्य् एतए ब्रह्मादि-शब्दाः प्रायो मिथोऽर्थेषु वर्तन्ते तथापि तत्र तत्र
सङ्केत-प्राधान्य-विवक्षयेदम् उक्तम् ॥ श्री-सुतः ॥
[2]
एवम् एव प्रश्नोत्त्तराभ्यां विवृणोति । राजोवाच -
नारायणाभिधानस्य ब्रह्मणः परमात्मनः ।
निष्ठाम् अर्हथ नो वक्तुं यूयं हि ब्रह्म-वित्तमाः ॥ [भ्प् 11.3.35]
श्री-पिप्पलायन उवाच -
स्थित्य्-उद्भव-प्रलय-हेतुर् अहेतुर् अस्य
यत् स्वप्न-जागर-सुषुप्तिषु यद् बहिश् च ।
देहेन्द्रियासुहृदयानि चरन्ति येन
सञ्जीवितानि तद् अवेहि परं नरेन्द्र ॥ [भ्प् 11.3.36]
अत्र प्रश्नस्यार्थः । नारायणाभिधानस्य भगवतः । ब्रह्मेति
परमात्मेत्य् आदि-प्रसिद्ध-तत्-समुदाय-तृतीयतया पाठात् । नारायणे
तुरीयाख्ये भगवच्-छब-शब्दिते इत्य् अत्र स्पष्टीभावित्वाच् च । निष्ठां
तत्त्वम् । प्रश्न-क्रमेणैवोत्तरम् आह स्थितीति । यत् स्थित्यादि-हेतुर् अहेतुश् च
भवति । यच् च जागरादिषु यद् बहिश् च भवति । येन च देहादीनि
सञ्जीवितानि सन्ति चरन्ति । तद् एकम् एव परं तत्त्वं प्रश्न-क्रमेण
नारायणादि-रूपं विद्धीति योजनीयम् । तथापि भ्रमत्व-स्पष्टीकरणाय
विपर्ययेन व्याख्यायते । तत्रैकस्यैव विशेषण-भेदेन तद्-अविशिष्टत्वेन
च प्रतिपादनात् तथैव तत् तद् उपासक-पुरुषानुभव-भेदाच्
चाविर्भावनाम्भोदेर् भेद इत्य् उत्तर-वाक्य-तात्पर्यम् ।
एतद् उक्तं भवति । स्वयम् अहेतुः स्वरूप-शक्त्यैक-विलासमयत्वेन
तत्रोदासीनम् अपि प्रकृतिजीव-प्रवर्तकावस्थ-परमात्मापर-पर्याय-
स्वांश-लक्षण-पुरुष-द्वारा यद् अस्य सर्ग-स्थित्य्-आदि-हेतुर् भवति तद्
भगवद्-रूपं विद्धि । परमात्मता चैवम् उपतिष्ठतीत्य् आह येन हेतु-
कर्त्रा आत्मांश-भूत-जीव-प्रवेशन-द्वारा सञ्जीवितानि सन्ति देहादीनि तद्-
उपलक्षणानि प्रधानादि-सर्वाण्य् एव तत्त्वानि येनैव प्रेरिततयैव चरन्ति
स्व-स्व-कार्ये प्रवर्तन्ते तत् परअमात्म-रूपं विद्धि ।
तस्मै नमो भगवते ब्रह्मणे परमात्मने [भ्प् 10.28.6] इत्य् अत्र वरुण-
कृत-श्री-कृष्ण-स्तुतौ टीका च - परमात्मने सर्व-जीव-नियन्त्रे इत्य् एषा ।
जीवस्यात्मत्वं तद्-अपेक्षया तस्य परमत्वम् इत्य् अतः परमात्म-शब्देन
तत्-सहयोगी स एव व्यज्यते इति । तत् तद् अविशिष्टत्वेन ब्रह्मत्व-मात्रं
चैवम् उपतिष्ठतीत्य् आह, स्वप्नेति । यद् एव तत् तत्त्वं स्वप्नादौ अन्वयेन
स्थितं यच् च तद्-बहिः शुद्धायां जीवाख्य-शक्तौ तथा स्थितं चकारात्
ततः परत्रापि व्यतिरेकेण स्थितं स्वयम् अविशिष्टं तद् ब्रह्म-रूपं
विद्धीति ॥ श्री-नारदः? ॥ श्री-नारदः
[3]
इदम् एव त्रयं सिद्धि-प्रसङ्गेऽप्य् आह त्रिभिः ।
विष्णौ त्र्यधीश्वरे चित्तं धारयेत् काल-विग्रहे ।
स ईशित्वम् अवाप्नोति क्षेत्रं क्षेत्रज्ञ-चोदनम् ॥
नारायणे तुरीयाख्ये भगवच्-छब्द-शब्दिते ।
मनो मय्य् आदधद् योगी मद्-धर्मावशिताम् इयात् ॥
निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।
परानन्दम् अवाप्नोति यत्र कामोऽवसीयते ॥ [भ्प् 11.15.15-17]
टीका च । त्र्य्-अधीश्वरे त्रिगुण-माया-नियन्तरि । अतएव काल-विग्रहे
आकलयिऋ-रूपे अन्तर्यामिणि । तुरीयाख्ये
विराट् हिरण्य-गर्भश् च कारणं चेत्य् उपाधयः ।
ईशस्य यन्त्रिभिर् हीनः तुरीयं तत् पदं विदुः ॥ इत्य् एवं लक्षणे ।
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञान-वैराग्ययोश् चैव षण्णां भग इतीङ्गना ॥ [विप् 6.5.74]
तद्वति भगवच्-छब्द-शब्दिते । इत्य् एषा ॥
श्री-भगवान्
[4]
अथ वदन्तीत्य् आद्यस्य पद्यस्य प्रत्यवस्थानं यावत् तृतीय-सन्दर्भम्
उद्भाव्यते । यत्र योग्यता-वैशिष्ट्येनाविर्भाव-वैशिष्ट्यं वक्तुं
ब्रह्माविर्भावे तावद् योग्यताम् आह -
तथापि भूमन् महिमा-गुणस्य ते
विबोध्हुम् अर्हत्य् अमलान्तरात्मभिः ।
अविक्रियात् स्वानुभवाद् अरूपतो
ह्य् अनन्य-बोध्यात्मयतया न चान्यथा ॥ [भ्प् 10.14.6]
यद्यपि ब्रह्मत्वे भगवत्त्वे च दुर्ज्ञेयत्वम् उक्तम्, तथापि हे भूमन्
स्वरूपेण गुणेन चानन्त ते तवागुणस्य अनाविष्कृत-स्वरूप-भूत-गुणस्य
यो महिमा महत्त्वं बृहत्त्वं ब्रह्मत्वम् इति यावत् । अथ कस्माद् उच्यते
ब्रह्म बृंहति बृंहयति चेति श्रुतेः । स तव महिमा अमलान्तरात्मभिः
शुद्धान्तःकरणैर् गुणैर् विबोद्धुम् अर्हति । तेषां बोधे प्रकाशितुम्
अर्हति समर्थो भवतीत्य् अर्थः ।
कस्मान् निमित्तात्? तत्राह स्वानुभवात् शुद्धत्वं पदार्थस्य बोधात् ।
नन्व् अनुभवः खल्व् अन्तःकरणस्य वृत्तिः, सा च स्थूल-सूक्ष्म-देह-
विकार-मय्य् एव सती कथं निर्विकारत्वम्-पदार्थः विषयं कुर्वीत ।
तत्राह अविक्रियात् त्यक्त-तत्-तद्-विकारात् ।
ननु विषयाकार एवानुभवो विषयम् उपाददीत शुद्धत्वम्-पदार्थस् तु
न कस्यापि विषयः स्यात् प्रत्यग्-रूपत्वात् । तत्राह अरूपतः रूप्यते भाव्यते
इति रूपो विषयः तदाकारता-रहितात् । देह-द्वयावेश-विषयाकारता-राहित्ये
सति स्वयं शुद्धत्वं-पदार्थः प्रकाशत इति भावः ।
ननु सूक्ष्म-चिद्-रूपत्वम्-पदार्थानुभवे कथं पूर्ण-चिदाकार-रूप-
मदीय-ब्रह्म-स्वरूपं स्फुरतु । तत्राह अनन्य-बोध्यात्मतया चिद्-
आकारता-साम्येन शुद्धत्वं-पदार्थैक्य-बोध्य-स्वरूपतया । यद्यपि
तादृग्-आत्मानुभवानन्तरं तद्-अनन्य-बोध्यताकृतौ साधक-शक्तिर् नास्ति
तथापि पूर्वं तद्-अर्थम् एव कृतया सर्वत्राप्य् उपजीव्यया साधन-भक्त्य्-
आराधितस्य श्री-भगवतः प्रभावाद् एव तद् अपि तत्रोदयत इति भावः ।
तद् उक्तम् वदन्तीत्य् आदि-पद्यानन्तरम् एव -
तच्-छ्रद्दधाना मुनयो
ज्ञान-वैराग्य-युक्तया ।
पश्यन्त्य् आत्मनि चात्मानं
भक्त्या श्रुत-गृहीतया ॥ [भ्प् 1.2.12] इति.
सत्यव्रतं प्रति श्री-मत्स्यदेवोपदेशे च -
मदीयं महिमानं च
परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे
सम्प्रश्नैर् विवृतं हृदि ॥ [भ्प् 8.24.38] इति.
ब्रह्मा श्री-भगवन्तम्
[5]
तादृशाविर्भावम् आह, सार्धेन -
शश्वत् प्रशान्तम् अभयं प्रतिबोध-मात्रं
शुद्धं समं सद्-असतः परमात्म-तत्त्वम् ।
शब्दो न यत्र पुरु-कारकवान् क्रियार्थो
माया परैत्य् अभिमुखे च विलज्जमाना ।
तद् वै पदं भगवतः परमस्य पुंसो
ब्रह्मेति यद् विदुर् अजस्र-सुखं विशोकम् ॥ [भ्प् 2.7.47]
अयम् अर्थः । सर्वतो बृहत्तमत्वाद् ब्रह्मेति यद् विदुस् तत् खलु परम् अस्य
पुंसो भगवतः पदम् एव । निर्विकल्पतया साक्षात्-कृतेः प्राथमिकत्वात्
ब्रह्मणश् च भगवत एव निर्विकल्प-सत्ता-रूपत्वात् । विचित्र-रूपादि-विकल्प-
विशेष-विशिष्टस्य भगवतस् तु साक्षात्-कृतेस् तद्-अनन्तरजत्वात् । तदीय-
स्वरूप-भूतं तद् ब्रह्म तत् साक्षात्कारास्पदं भवतीत्य् अर्थः ।
निर्विकल्प-ब्रह्मणस् तस्य स्वरूप-लक्षणम् आह प्रतिबोध-मात्रम् इति ।
अजस्र-सुखम् इति च । जडस्य दुःखस्य च प्रतियोगितया प्रतीयते यद् वस्तु
यच् च नित्यं तद् एक-रूपं तद्-रूपम् इत्य् अर्थः । यत् आत्म-तत्त्वं सर्वेषाम्
आत्मत्नां मूलम् । आत्मा हि स्व-प्रकाश-रूपतया निरुपाधि-परम-
प्रेमास्पदतया च तत्-तद्-रूपेण प्रतीयत इत्य् अर्थः ।
अथ तस्य सुख-रूपस्य अजस्रत्वे हेतुम् आह शाश्वत् प्रशान्तं नित्यम् एव
क्षोभ-रहितं तद्वद् अभयं भय-शून्यं विशोकं शोक-रहितं चेति । न
च सुख-रूपत्वे तस्य पुण्य-जन्यत्वं स्याद् इत्य् आह शब्दो न यत्रेति । यत्र
क्रियार्थो यज्ञाद्य्-अर्थः पुरु-कारकवान् शब्दो न प्रवर्तते इत्य् अर्थः ।
त्वं त्व् औपनिषदं पुरुषम् इत्य् आदि रीत्या केवलम् उपनिषद् एव प्रकाशिका
भवतीत्य् अर्थः । पुनः सुख-स्वरूपत्वे चेन्द्रिय-जन्यत्वं व्यावर्तयति
शुद्धम् इत्य् आदिना । तत्र शुद्धं दोष-रहितम् । समम् उच्चावचता-शून्यम्
। सदसतः परं कारण-कार्य-वर्गाद् उपरि-स्थितम् । किं बहुनेत्य् आह माया
च यस्याभिमुखे यदुन्मुखतया स्थिते जीवन्-मुक्त-गणे विलज्जमानैव
परैति पलायते ततो दूरं गच्छतीत्य् अर्थः ॥ श्री ब्रह्मा नारदम्
[6]
व्यञ्जिते भगवत्-तत्त्वे ब्रह्म च व्यज्यते स्वयम् ।
अतोऽत्र ब्रह्म-सन्दर्भोऽप्य् अवान्तरतया मतः ॥
अथ भगवद्-आविर्भावे योग्यताम् आह -
भक्ति-योगेन मनसि सम्यक् प्रणिहितेऽमले
अपश्यत् पुरुषं पूर्णं ॥ [भ्प् 1.7.4] इति । व्याख्यातम् एव
[7]
तद् इत्थं ब्रह्मणा चोक्तम् --
त्वं भक्ति-योग-परिभावित-हृत्-सरोज
आस्से श्रुतेक्षित-पथो ननु नाथ पुंसाम् ॥ इति ॥ [भ्प् 3.9.11] ॥ श्री-सुतः
[*एन्द्नोते #2]
[8]
तद्-आविर्भावम् आह सार्ध-दशभिः --
तस्मै स्व-लोकं भगवान् सभाजितः
सन्दर्शयाम् आस परं न यत्-परम् ।
व्यपेत-सङ्क्लेश-विमोह-साध्वसं
स्व-दृष्टवद्भिर् पुरुषैर् अभिष्टुतम्
प्रवर्तते यत्र रजस् तमस् तयोः
सत्त्वं च मिश्रं न च काल-विक्रमः ।
न यत्र माया किम् उतापरे हरेर्
अनुव्रता यत्र सुरासुरार्चिताः
श्यामावदाताः शत-पत्र-लोचनाः
पिशङ्ग-वस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्-बाहव उन्मिषन्-मणि-
प्रवेक-निष्काभरणाः सुवर्चसः ।
प्रवाल-वैदूर्य-मृणाल-वर्चसः
परिस्फुरत्-कुण्डल-मौलि-मालिनः
भ्राजिष्णुभिर् यः परितो विराजते
लसद्-विमानावलिभिर् महात्मनाम् ।
विद्योतमानः प्रमदोत्तमाद्युभिः
सविद्युद् अभ्रावलिभिर् यथा नभः
श्रीर् यत्र रूपिण्य् उरुगाय-पादयोः
करोति मानं बहुधा विभूतिभिः ।
प्रेङ्खं श्रिता या कुसुमाकरानुगैर्
विगीयमाना प्रिय-कर्म गायती
ददर्श तत्राखिल-सात्वतां पतिं
श्रियः पतिं यज्ञ-पतिं जगत्-पतिम् ।
सुनन्द-नन्द-प्रबलार्हणादिभिः
स्व-पार्षदाग्रैः परिसेवितं विभुम्
भृत्य-प्रसादाभिमुखं दृग्-आसवं
प्रसन्न-हासारुण-लोचनाननम् ।
किरींइनं कुण्डलिनं चतुर्-भुजं
पीतांशुकं वक्षसि लक्षितं श्रिया
अध्यर्हणीयासनम् आस्थितं परं
वृतं चतुः-षोडश-पञ्च-शक्तिभिः ।
युक्तं भगैः स्वैर् इतरत्र चाध्रुवैः
स्व एव धामन् रममाणम् ईश्वरम्
तद्-दर्शनाह्लाद-परिप्लुतान्तरो
हृष्यत्-तनुः प्रेम-भराश्रु-लोचनः ।
ननाम पादाम्बुजम् अस्य विश्व-सृग्
यत् पारमहंस्येन पथाधिगम्यते
तं प्रीयमाणं समुपस्थितं कविं
प्रजा-विसर्गे निज-शासनार्हणम् ।
बभाष ईषत्-स्मित-शोचिषा गिरा
प्रियः प्रियं प्रीत-मनाः करे स्पृशन् ॥18 [भ्प् 2.9.9-18] ॥
तस्मै भगवद्-आज्ञा-पुरस्कारेण श्री-नारायणाह्वय-पुरुष-नाभि-
पङ्कजे स्थित्यैव तत्-तोषणैस् तपोभिर् भजते ब्रह्मणे सभाजितस् तेन
भजनेन वशीकृतः सन् स्व-लोकं वैकुण्ठं भुवनोत्तमं भगवान्
सम्यग् दर्शयामास । यद् यतो विअकुण्ठात् परम् अन्यद् वैकुण्ठं परं
श्रेष्ठं न विद्यते परम-भगवद्-वैकुण्ठत्वात् । यद् वा, यद् यतो
वैकुण्ठात् परं ब्रह्माख्यं तत्त्वं परं भिन्नं न भवति । स्वरूप-
शक्ति-विशेषाविष्कारेण माययानावृतं तद् एव तद्-रूपम् इत्य् अर्थः । अग्रे त्व्
इदं व्यक्तीकरिष्यते । तादृशत्वे हेतुः व्यपेतेति स्व-दृष्टेतो च ।
अविद्यास्मिताराग-द्वेषाभिनिवेशाः पञ्च क्लेशाः विइमोहस् तैः वैचित्र्यं
साध्वसं भयं व्यपेतानि सङ्क्लेशादीनि यत्र तम् । स्वस्य दृष्टं दर्शनं
तद् विद्यते येषां तैर् आत्मविद्भिर् अपि अभितः सर्वांशेनैव स्तुतं श्लाघितम्
।
अथ ते मुनयो दृष्ट्वा नयनानन्द-भाजनम् ।
वैकुण्ठं तद्-अधिष्ठानं विकुण्ठं च स्वयं-प्रभम् ॥
भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।
प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ [भ्प् 3.16.27-8]
पुनस् तादृशत्वम् एव व्यनक्ति, प्रवर्तते इति । यत्र वैकुण्ठे रजस् तमश् च
न प्रवर्तते । तयोर् मिश्रं सहचरं जडं यत् सत्त्वं न तद् अपि । किन्तु
अन्यद् एव । तच् च या सुष्ठु स्थापयिष्यमाणा मायातः परा भगवत्-
स्वरूप-शक्तिः तस्याः वृत्तित्वेन चिद्-रूपं शुद्ध-सत्त्वाख्यं सत्त्वम् इति
तदीय-प्रकरण एव स्थापयिष्यते । तद् एव च यत्र प्रवर्तते इत्य् अर्थः ।
तथा च नारद-पञ्चरात्रे जितन्ते-स्तोत्रे -
लोकं वैकुण्ठ-नामानं
दिव्य-षड्-गुण-संयुतम् ।
अवैष्णवानाम् अप्राप्यं
गुण-त्रय-विवर्जितम् ॥
पाद्मोत्तर-खण्डे तु वैकुण्ढ-निरूपशो तस्य सत्त्वस्याप्राकृतत्वं
स्फुटम् एवं दर्शितम् । यतः प्रकृति-विभूति-वर्णनानन्तरम् -
एवं प्राकृत-रूपाया विभूते रूपम् उत्तमम् ।
त्रिपाद्-विभूति-रूपं तु शृणु भूधर-नन्दिनि ॥
प्रधान-परम-व्योम्नोर् अन्तरे विरजा नदी ।
वेदाङ्गस्वेदजनित-तोयैः प्रस्राविता शुभा ॥
तस्याः पारे पर-व्योम्नि त्रिपाद्-भूतं सनातनम् ।
अमृतं शाश्वतं नित्यम् अनन्तं परं पदम् ॥
शुद्ध-सत्त्व-मयं दिव्यम् अक्षरं ब्रह्मणः पदम् ॥ इत्यादि ॥
प्राकृत-गुणानां परस्पराव्यभिचारित्वं तूक्तं साङ्ख्य-कौमुद्यां -
अन्योन्य-मिथुन-वृत्तय इति । तट्-टीकायां च अन्योन्य-सहचरा अविनाभाव-
वर्तिन इति यावत् । भवति चात्रागमः -
अन्योन्य-मिथुनाः सर्वे
सर्वे सर्वत्र-गामिनः ।
रजसो मिथुनं सत्त्वम् ॥ इत्य् आद्य् उपक्रम्य
नैषाम् आदिश् च संयोगो
वियोगो चोपलभ्यते ॥ इतीति ॥
तस्माद् अत्र रजसोऽसद्-भावाद् असृज्यत्वं तमसोऽसद्-भावाद् अनाश्यत्वं
प्राकृत-सत्त्वाभावाच् च सच्चिदानन्द-रूपत्वं तस्य दर्शितम् । तत्र हेतुर्
न च काल-विक्रमः इति । काल-विक्रमेण हि प्रकृति-क्षोभात् सत्त्वादयः
पृथक् क्रियन्ते । तस्माद् यत्रासौ षड्-भाव-विकार-हेतुः काल-विक्रम एव
न प्रवर्तते तत्र तेषाम् अभावः सुतराम् एवेति भावः । किं च तेषां मूलत
एव कुठार इत्य् आह न यत्र मायेति । मायात्र जगत्-सृष्ट्य्-आदि-हेतुर्
भगवच्-छक्तिर् न तु कापट्य-मात्रम् । रज-आदि-निषेधेनैव तद्-व्युदासात्
। अथवा यत्र तयोः सम्बन्धि सत्त्वं प्राकृत-सत्त्वं यत् तद् अपि न
प्रवर्तते । मिश्रम् अपृथग्-भूत-गुण-त्रयं प्रधानं च । अग्रे माया-
प्रधानयोर् भेदो विवेचनीयः ।
कैमुत्येनोक्तम् एवार्थं द्रढयति । किम् उतापरे इति । तयोर् विमिश्रं किञ्चिद्
रजस्-तमो-मिश्रं सत्त्वं च नेति व्याख्या तु पिष्ट-पेषणम् एव । सामान्यतो
रजस्-तमो-निषेधेनैव तत्-प्रतिपत्तेः । वक्ष्यते च तस्य सत्त्वस्य प्राकृताद्
अन्य्तमत्वं द्वादशे श्री-नारायण-र्षिं प्रति मार्कण्डेयेन --
सत्त्वं रजस् तम इतीश तवात्म-बन्धो
मायामयाः स्थित्-लयोद्भव-हेतवोऽस्य ।
लीलाधृता यद् अपि सत्त्वमयी प्रशान्त्यै
नान्ये नॄणां व्यसन-मोह-भियश् च याभ्याम् ॥
तस्मात् तवेह भगवन्न् अथ तावकानां
शुक्लां तनुं स्व-दयितां कुशला भजन्ति ।
यत् सात्वताः पुरुष-रूपम् उशन्ति सत्त्वं
लोको यतोऽभयम् उतात्म-सुखं न चान्यद् ॥ [भ्प् 12.8.39-40] इति ॥
अनयोर् अर्थः । हे ईश यद् अपि सत्त्वं रजस् तम इति तवैव माया-कृता लीलाः
। कथम्भूताः - अस्य विश्वस्य स्थित्यादि-हेतवः तथापि या सत्त्वमयी सैव
प्रशान्त्यै प्रकृष्ट-सुखाय भवति । नान्ये रजस् तमो-मय्यौ । न केवलं
प्रशान्त्यभाव-मात्रम् अनयोः । किन्त्व् अनिष्टं चेत्य् आह व्यसनेति । हे
भगवन् तस्मात् तव शुक्लां सत्त्व-मय-लीलाधिष्ठात्रीं तनुं श्री-विष्णु-
रूपां कुशला निपुणा भजन्ति सेवन्ते न त्व् अन्यां ब्रह्म-रुद्र-रूपां ते
भजन्ति अनुसरन्ति । न तु दक्ष-भैरवादि-रूपाम् । कथम्भूतां स्वस्य
तवापि दयितां लोक-शान्ति-करत्वात् ।
ननु मम रूपम् अपि सत्त्वात्मकम् इति प्रसिद्धं । तर्हि कथं तस्यापि
मायामयत्वम् एव । नहि नहीत्य् आह सात्वताः श्री-भागवता यत् सत्त्वं
पुरुषस्य तव रूपं प्रकाशम् उशन्ति मन्यन्ते यतश् च सत्त्वात् लोको
वैकुण्ठाख्यः प्रकाशते तद् अभयम् आत्म-सुखं पर-ब्रह्मानन्द-
स्वरूपम् एवलक्षण-स्वरूप-शक्ति-वृत्ति-विशेष उच्यते ।
सत्त्वं विशुद्धं वसुदेव-शब्दितं
यद् ईयते तत्र पुमान् अपावृतः । [भ्प् 4.3.23]
इत्याद्य् उदाहरिष्यमाणानुसारात् । अगोचरत्वे हेतुः प्रकृति-गुणः । सत्त्वम् इत्य्
अशुद्ध-सत्त्व-लक्षण-प्रसिद्ध्य्-अनुसारेण तथाभूतश् चिच्-छक्ति-वृत्ति-
विशेषः सत्त्वम् इति सङ्गति-लाभाच् च । ततश् च तस्य स्वरूप-शक्ति-वृत्तित्वेन
स्वरूपात्मतैवेत्य् उक्तम् तद् अभयम् आत्म-सुखम् इति । अर्थान्तरे
भगवद्-विग्रहं प्रति रूपं यद् एतद् [भ्प् 2.8.2] इत्यादौ शुद्ध-सत्त्व-
स्वरूप-मात्रत्व-प्रतिज्ञाभङ्गः । अभयम् इत्य् आदौ प्राञ्जलता-हानिश् च
भवति । अन्यत् पदस्यैकस्यैव रजस् तमश् चेति द्विर्-आवृत्तौ प्रतिपत्ति-
गौरवं चोत्पद्यते । पूर्वम् अपि नान्ये इति द्विवचनेनैव परामृष्टे ।
तस्माद् अस्ति प्रसिद्धाद् अन्यत् स्वरूप-भूतं सत्त्वम् ।
यद् एवैकादशे यत् काय एष भुवन-त्रय-सन्निवेश [भ्प् 11.4.4] इत्यादौ
ज्ञानं स्वत इत्य् अत्र टीका-कृन्-मतं यस्य स्वरूप-भूतात् सत्त्वात् तनु-
भृतां ज्ञानम् इत्य् अनेन । तथा परो रजः सवितुर् जात-वेदा देवस्य भर्ग
[भ्प् 5.7.14] इत्य् आदौ श्री-भरत-जाप्ये तन्-मतं परो रजः रजसः प्रकृतेः
परं शुद्ध-सत्त्वात्मकम् इत्य् आदिना । अतएव प्राकृताः सत्त्वादयो गुणा
जीवस्यैव न त्व् ईशस्येति श्रूयते । अथैकादशे सत्त्वं रजस् तम इति गुणा
जीवस्य नैव मे [भ्प् 11.25.12] इति ।
श्री-भगवद्-उपनिषत्सु च -
ये चैव सात्त्विका भावा राजसास् तामसाश् च ये ।
मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥
त्रिभिर् गुण-मयैर् भावैर् एभिः सर्वम् इदं जगत् ।
मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् ॥
दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ इति [गीता 7.12-4]
यथा दशमे -
हरिर् हि निर्गुणः साक्षात्
पुरुषः प्रकृतेः परः ।
स सर्व-दृग् उपद्रष्टा
तं भजन् निर्गुणो भवेत् ॥ इति [भ्प् 10.88.5]
श्री-विष्णु-पुराणे च -
सत्त्वादयो न सन्तीशे
यत्र च प्राकृता गुणाः ।
स शुद्धः सर्व-शुद्धेभ्यः
पुमान् आद्यः प्रसीदतु ॥ इति [विप् 1.9.44]
अत्र प्राकृता इति विशिष्य अप्राकृतास् त्व् अन्ये गुणास् तस्मिन् सन्त्य् एवेति व्यञ्जितं
तत्रैव ।
ह्लादिनी सन्धिनी संवित्
त्वय्य् एका सर्व-संश्रये ।
ह्लाद-ताप-करी मिश्रा
त्वयि नो गुण-वर्जिते ॥ इति [विप् 1.12.69]
तथा च दशमे देवेन्द्रेणोक्तम् --
विशुद्ध-सत्त्वं तव धाम शान्तं
तपोमयं ध्वस्त-रजस्-तमस्कम् ।
मायामयोऽयं गुण-संप्रवाहो
न विद्यते तेऽग्रणानुबन्ध ॥ इति [भ्प् 10.27.4]
अयम् अर्थः । धाम स्वरूप-भूत-प्रकाश-शक्तिः । विशुद्धत्वम् आह
विशेषण-द्वयेन । ध्वस्त-रजस्-तमस्कं तपो-मयम् इति च । तपोऽत्र ज्ञानं
स तपोऽतप्यतेति श्रुतेः । तपोमयं प्रचुर-ज्ञान-स्वरूपम् । जाड्यांशेनापि
रहितम् इत्य् अर्थः । आत्मा ज्ञान-मयः शुद्ध इतिवत् । अतः प्राकृत-सत्त्वम्
अपि व्यावृत्तम् । अत एव मायामयोऽयं सत्त्वादि-गुण-प्रवाहस् ते तव न
विद्यते । यतोऽसाव् अज्ञानेनैवानुबन्ध इति ।
अतएव श्री-भगवन्तं प्रति ब्रह्मादीनां सयुक्तिकम् --
सत्त्वं विशुद्धं श्रयते भवान् स्थितौ
शरीरिणां श्रेय-उपायनं वपुः ।
वेद-क्रिया-योग-तपः-समाधिभिस्
तवार्हणं येन जनः समीहते ॥
सत्त्वं न चेद् धातर् इदं निजं भवेद्
विज्ञानम् अज्ञान-भिदापमार्जनम् ।
गुण-प्रकाशैर् अनुमीयते भवान्
प्रकाशते यस्य च येन वा गुणः ॥ [भ्प् 10.2.34-35]
अयम् अर्थः । सत्त्वं तेन प्रकाशमानत्वात् तद्-अभिन्नतया रूपितं वपुर्
भवान् श्रयते प्रकटयति । कथम्भूतं सत्त्वं विशुद्धम् । अन्यस्य
रजस्-तमोभ्याम् अमिश्रस्यापि प्राकृतत्वेन जाड्यांश-संवलितत्वान् न
विशेषेण शुद्धत्वम् । एतत् तु स्वरूप-शक्त्य्-आत्मत्वेन तद्-अंशस्याप्य्
अस्पर्शाद् अतीव शुद्धम् इत्य् अर्थः । किम् अर्थं श्रये । शरीरिणां स्थितौ निज-
चरणारविन्दे मनःस्थैर्याय सर्वत्र भक्ति-सुखाद् अनस्यैव त्वदीय-
मुख्य-प्रयोजनत्वाद् इति भावः । भक्ति-योग-विधानार्थम् इति [भ्प् 1.8.19]
श्री-कुन्ती-वाक्यात् ।
कथम्भूतं वपुः श्रेयसां सर्वेषां पुरुषार्थानाम् उपायनम् आश्रयम्
। नित्यानन्द-परमानन्द-रूपम् इत्य् अर्थः । अतो वपुषस् तव च भेद-
निर्देशोऽयम् औपचारिक एवेति भावः । अतएव येन वपुषा यद् वपुर्
आलम्बनेनैव जनस् तवार्हणं पूजां करोति । कैः साधनैः वेदादिभिस्
त्वद्-आलम्बकैर् इत्य् अर्थः । साधारणैस् त्व् अर्पितैर् एव त्वद्-अर्हण-
प्रायतासिद्धाव् अपि । वपुषोऽनपेक्षत्वात् । तादृश-वपुः-प्रकाश-हेतुत्वेन
स्वरूपात्मकत्वं स्पष्टयन्ति ।
हे धातश् चेद् यदि इदं सत्त्वं यत् तव निजं विज्ञानम् अनुभवं तदात्मिका
स्व-प्रकाशता-शक्तिर् इत्य् अर्थः । तन् न भवेत् । तर्हि तु अज्ञान-भिदा स्व-
प्रकाशस्य तवानुभव-प्रकार एव मार्जनं शुद्धिम् अवाप । सैव जगति
पर्यवसीयते न तु तवानुभव-लेशोऽपीत्य् अर्थः ।
ननु प्राकृत-सत्त्व-गुणेनैष भवतु किं निजेनेत्य् आह । प्राकृत-गुण-
प्रकाशैर् भवान् केवलम् अनुमीयते न तु साक्षात्क्रियत इत्य् अर्थः । अथवा
तव विज्ञान-रूपम् अज्ञान-भिदाया अपमार्जनं च यन् निजं सत्त्वं तद् यदि
न भवेन् नाविर्भवति तदैव प्राकृत-सत्त्वादि-गुण-प्रकाशैर् भवान्
अनुमीयते त्वन्-निज-सत्ताविर्भावेण तु साक्षात्-क्रियत एवेत्य् अर्थः । तद् एव
स्पष्टयितुं तत्रानुमाने द्वैविध्यम् आहुर् यस्य गुणः प्रकाशत इति ।
अस्वरूप-भूतस्यैव सत्त्वादि-गुणस्य त्वद्-अव्यभिचारि सम्बन्धित्व-मात्रेण
वा त्वद् एव प्रकाश्यमानता-मात्रेण वा त्वल्-लिङ्गत्वम् इत्य् अर्थः । यथा
अरुणोदयस्य सूर्योदय-सान्निध्य-लिङ्गत्वं यथा वा धूमस्याग्नि-
लिङ्गत्वम् इति तत उभयथापि तव साक्षात्कारे तस्य साधकतमत्वाभावो
युक्त इति भावः ।
तद् एवम् अप्राकृत-सत्त्वस्य तदीय-स्व-प्रकाशता-रूपत्वं येन
स्वप्रकाशस्य तव साक्षात्कारो भवतीति स्थापितम् । अत्र ये विशुद्ध-सत्त्वं
नाम प्राकृतम् एव रजस्-तमः-शून्यं मत्वा तत्-कार्यं भगवद्-
विग्रहादिकं मन्यन्ते ते तु न केनाप्य् अनुगृहीताः । रजः-
सम्बन्धाभावेन स्वतः प्रशान्त-स्वभावस्य सर्वत्रोदासीनताकृति-हेतोस्
तस्य क्षोभासम्भवात् विद्यामयत्वेन यथावस्थित-वस्तु-प्रकाशितामात्र-
धर्मत्वात्, तस्य कल्पनान्तरायोग्यत्वाच् च । तद् उक्तम् अपि अगोचरस्य
गोचरत्वे हेतुः प्रकृति-गुणः सत्त्वम् । गोचरस्य बहुरूपत्वे रजः ।
बहुरूपस्य तिरोहितत्वे रजः । तथा परस्परोदासीनत्वे सत्त्वम् । उपकारित्वे
रजः । अपकारित्वे तमः । गोचरत्वादीनि स्थित्-सृष्टि-संहाराः उदासीनत्वादीनि
चेति ।
अथ रजो-लेशे तत्र मन्तव्ये विशुद्ध-पदवैयर्थ्यम् इत्य् अलं तन्-मत-
रजो-घट-प्रघट्टनयेति । पाद्मोत्तर-खण्डे तु वैकुण्ठ-निरूपणे
तस्य सत्त्वस्याप्राकृतत्वं स्फुटम् एव दर्शितम् । यत उक्तं प्रकृति-विभूति-
वर्णनानन्तरम् ।
एवं प्राकृत-रूपाय विभूतेर् रूपम् उत्तमम् ।
त्रिपाद्-विभूति-रूपं तु शृणु भूधर-नन्दिनि ॥
प्रधान-परम-व्योम्नोर् अन्तरे विरजा नदी ।
वेदाङ्ग-स्वेद-जनित-तोयैः प्रस्राविता शुभा ॥
तस्याः पारे पर-व्योम्नि त्रिपाद्-भूतं सनातनम् ।
अमृतं शाश्वतं नित्यम् अनन्तं परं पदम् ॥
शुद्ध-सत्त्व-मयं दिव्यम् अक्षरं ब्रह्मणः पदम् ॥ इत्यादि ।
तद् एतत् समाप्तं प्रासङ्गिकं शुद्ध-सत्त्व-विवेचनम् । अथ प्रवर्तते
इत्यादि प्रकृतम् एव पद्यं व्याख्यायते ।
ननु गुणाद्य्-अभावान् निर्विशेष एवासौ लोक इत्य् आशङ्क्य तत्र विशेषस् तस्याः
शुद्ध-सत्त्वात्मिकायाः स्वरूपानतिरिक्त-शक्तेर् एव विलास-रूप इति द्योतयंस्
तम् एव विशेषं दर्शयति हरेर् इति । सुराः सत्त्व-प्रभवाः असुराः रजस्-
तमः-प्रभवाः तैर् अर्चिताः । तेभ्योऽर्हत्तमा इत्य् अर्थः । गुणातीतत्वाद् एवेति
भावः ।
तान् एव वर्णयति श्यामावदाता इति । श्यामाश् च अवदाता उज्ज्वलाश् च ते ।
पीतवस्त्राः सुपेशसोऽतिसुकुमाराः उन्मिषन्त इव प्रभावन्तो मणिप्रवेका
मण्य्-उत्तमा येषु तानि निष्काणि पदकान्य् आभरणानि येषां ते सुवर्चसस्
तेजस्विनः ।
प्रवालेति [2.9.11] । केऽपि तेभ्यः श्री-भगवत्-सारूप्यं लब्धवद्भ्योऽन्ये
प्रवालादि-सम-वर्णाः । पुनर् अपि लोकं वर्णयति भ्राजिष्णुभिर् इति । श्रीर्
यत्रेति श्रीः स्वरूप-शक्तिः रूपिणी तत्-प्रेयसी-रूपा मानं पूजां विभूतिभिः
रूपिणी तत् प्रेयसी-रूपा मानं पूजां विभूतिभिः स्व-सखी-रूपाभिः ।
प्रेङ्खमान्दोलनं श्रिता विलासेन । कुसुमाकारो वसन्तस् तद्-अनुगा
भ्रमरास् तैर् विविधं गीयमाना । स्वयं प्रियस्य हरेः कर्म गायन्ती
भवति । ददर्शेति तत्र लोक इति प्राक्तनानां यच्-छब्दानां विशेष्यं अखिल-
सात्वतां सर्वेषां सात्वतानां यादव-वीराणां पतिः
श्रियः पतिर् यज्ञ-पतिः प्रजापतिर्
धियां पतिर् लोक-पतिर् धरापतिः ।
पतिर् गतिश् चान्धक-वृष्णि-सात्वतां
प्रसीदतां मे भगवन् सतां पतिः ॥
इत्य् [भ्प् 2.4.20] एतद् वाक्य-संवादित्वात् । श्री-भागवत-मते श्री-कृष्णस्यैव
स्वयं-भगवत्त्वेन प्रतिपादयिष्यमानत्वात् । तच् चैतद् अनन्तरं ब्रह्मणे
चतुःश्लोकी-रूपं भागवतं श्री-भगवतोपदिष्टम् । तत्र च -
पुरा मया प्रोक्तम् अजाय नाभ्ये
पद्मे निषण्णाय ममादि-सर्गे ।
ज्ञानं परं मन्-महिमावभासं
यत् सूरयो भागवतं वदन्ति ॥
इति तृतीये [भ्प् 3.4.13] उद्धवं प्रति श्री-कृष्ण-वाक्यानुसारेण ॥
यो ब्रह्माणं विदधाति पूर्वं
यो वै वेदांश् च प्रहिणोति तस्मै ।
तं ह देवम् आत्म-बुद्धि-प्रकाशं
मुमुक्षुर् वै शरणम् अमुं व्रजेत् ॥ इति [ग्तु 1.22]
श्री-गोपाल-तापन्य्-अनुसारेण च तस्मै वोपदेष्टृत्व-श्रुतेः ॥
तदु होवाच ब्रह्मसवनं चरतो मे ध्यातः स्तुतः परार्धान्ते
सोऽबुध्यत गोपवेशो मे पुरुषः पुरस्तादाविर्बभूवेति श्रीगोपालतापन्य्-
अनुसारेणैव क्वचित् कल्पे श्री-गोपाल-रूपेण च सृष्ट्यादाव् इत्थम् एव
ब्रह्मणे दर्शित-निज-रूपतां तद्-धाम्नो महा-वैकुण्ठत्वेन श्री-कृष्ण-
सन्दर्भे साधयिष्यमाणत्वाच् च द्वारकायां प्राकट्यावसरे श्रुत-
सुनन्द-नन्दादि-साहचर्येण श्री-प्रबलादयोऽपि ज्ञेयाः । यथोक्तं प्रथमे
सुनन्द-नन्द-शीर्षण्या ये चान्ये सात्वत-र्षभा इति [भ्प् 1.14.32]।
भृत्य-प्रसादेति [2.9.15] । दृग् एवासव इव द्रष्टॄणां मदकरी यस्य तम् ।
श्रिया वक्षो-वाम-भागे स्वर्ण-रेखाकारया । अध्यर्हणीयेति चतस्रः
शक्तयो धर्माद्याः । पाद्मोत्तर-खण्डे योग-पीठे त एव कथिताः । न
बहिरङ्गा अधर्माद्या इति । तथा हि,
धर्म-ज्ञान तथैश्वर्य-
वैराग्यैः पाद-विग्रहैः ।
ऋग्-यजुः-सामाथर्वाण-
रूपैर् नित्यं वृतं क्रमाद् ॥ इति ।
समस्तान्तस् तथा शब्द-प्रयोगस् त्व् आर्षः । षोडश-शक्तयश् चण्डाद्याः ।
तथा च तत्रैव - चण्डादि-द्वार-पालैस् तु कुमुदाद्यैः सुरक्षिता इति ।
नगरीति पूर्वेणान्वयः । ते च -
चण्ड-प्रचण्डौ प्राग्-द्वारे याम्ये भद्र-सुभद्रकौ ।
वारुण्यां जय-विजयौ सौम्ये धातृ-विधातरौ ॥
कुमुदः कुमुदाक्षश् च पुण्डरीकोऽथ वामनः ।
शङ्के कर्णः सर्व-नेत्रः सुमुखः सुप्रतिष्ठितः ॥
एते दिक्पतयः प्रोक्ताः पुर्याम् अत्र सुशोभने ॥ इति ।
कुमुदादयस् तु द्वौ द्वाव् आग्नेयादि-दिक्-पतय इति शेषः । पञ्च-शक्तयः
कूर्माद्याः । तथा च तत्रैव -
कूर्मश् च नागराजश् च वनतेयस् त्रयीश्वरः ।
छन्दांसि सर्व-मन्त्राश् च पीठ-रूपत्वम् आस्थिता ॥ इति ॥
त्रयीश्वर इति वैनतेय-विशेषणम् । तस्य छन्दोमयत्वात् ।
यद्यप्य् उत्तर-खण्ड-वचनं तत् परम-व्योम-परं तथापि तत्-
सादृश्यागमादि-प्रसिद्धेश् च श्री-कृष्ण-योग-पीठम् अपि च तद्वज् ज्ञेयम्
। अत्र षोडश-शक्तयः साक्षात् श्री-कृष्ण एव श्री-कृष्ण-सन्दर्भे पुरस्ताद्
उदाहरिष्यमाण-प्रभास-खण्ड-वचनात् श्रुतालम्बिन्यादय एव वा ज्ञेया
इति । स्वैः स्वरूप-भूतैर् ऐश्वर्यादिभिर् युक्तम् । इतरत्र योगिषु अध्रुवैः
प्राप्तैर् इत्य् अर्थः । स्व-स्वरूप एव धामानि श्री-वैकुण्ठे रममाणं
अतएवेश्वरम् । कथम् अपि पराधीन-सिद्धत्वाभावात् ।
तद्-दर्शनेति [2.9.17] । यत् पदाम्बुजं पारमहंस्येन पथाधिगम्यत इति
सच्चिदानन्द-घनत्वं तस्य व्यनक्ति । त्वं प्रीयमाणम् इति तं ब्रह्माणं
भगवान् बभाषे । प्रजा-विसर्गे कार्ये निजस्य स्वांश-भूतस्य पुरुषस्य
शासनेऽर्हणं योग्यम् ।
नन्व् असौ पुरुष एव तम् अनुगृह्णातु श्री-भगवतस् तु परावस्थत्वात् तेन
प्राकृत-सृष्टि-कर्त्रा सम्बन्धोऽपि न सम्बन्ध इत्य् आशङ्क्य तस्य भक्त-
वात्सल्यातिशय एवायम् इत्य् आह, प्रियं तस्मिन् प्रेमवन्तम् ।
यतः सोऽपि प्रियः प्रेम-वशः । तत्रापि प्रीयमाणाम् इति प्रीतमना इति च
विशेषणं तदानीं प्रेमोल्लासातिशय-द्योतकम् । तं प्रति भगवच्-चिह्न-
दर्शनेन तस्यापि तत्र प्रीत्य्-अतिशयं व्यञ्जयति ईषत्-स्मित-रोचिषा गिरेति करे
स्पृशन्न् इति च । अस्य श्री-कृष्णोपासकत्वं श्री-गोपाल-तापनी-वाक्येन
दर्शितम् ।
तथा च ब्रह्म-संहितायां [5.22-5] -
तत्र ब्रह्माभवद् भूयश् चतुर्वेदी चतुर्मुखः ।
स जातो भगवच्-छक्त्या तत्-कालं किल चोदितः ॥
सिसृक्षायां मतिं चक्रे पूर्व-संस्कार-संस्कृताम् ।
ददर्श केवलं ध्वान्तं नान्यत् किम् अपि सर्वतः ॥
उवाच पुरतस् तस्मै तस्य दिव्या सरस्वती ।
कामः कृष्णाय गोविन्दाय गोपी-जन इत्य् अपि ॥
वल्लभाय प्रिया वह्नेर् अयं ते दास्यति प्रियम् ।
तप त्वं तप एतेन तव सिद्धिर् भविष्यति ॥
अथ तेपे स सुचिरं प्रीणन् गोविन्दम् अव्ययम् ॥ इत्य् आदि ॥
श्री-शुकः
[9]
अथ सा भगवत्ता च नारोपिता किन्तु स्वरूप-भूतैवेत्य् एतम् अर्थं पुनर्
विशेषतः स्थापयितुं प्रकरणान्तरम् आरभ्यते । तत्र वस्तुनस् तस्य
शक्तित्वम् आह ।
वेद्यं वास्तवम् अत्र वस्त्व् इत्य् अस्य विशेषणाभ्याम् एव
शिवदं ताप-त्रयोन्मूलनम् इति । [भ्प् 1.1.2]
शिवं परमानन्दः तद्-दानं स्वरूप-शक्त्या । ताप-त्रयं माया-शक्ति-
कार्यं तद्-उन्मूलनं च तयैवेत ॥ श्री-व्यासः
[10]
ते च माया-शक्ति-स्वरूप-शक्ती परस्पर-विरुद्धे तथा तयोर् वृत्तयश् च
स्व-स्व-गण एव परस्पर-विरुद्धा अपि बह्व्यः । तथापि तासाम् एकं
निधानं तद् एवेत्य् आह ।
यच्-छक्तयो वदतां वादिनां वै
विवाद-संवाद-भुवो भवन्ति ।
कुर्वन्ति चैषां मुहुर् आत्म-मोहं
तस्मै नमो æनन्त-गुणाय भूम्ने ॥ [भ्प् 6.4.26]
स्पष्टम् ॥ दक्सः श्री-पुरुषोत्तमम्
[11]
तथा -
यस्मिन् विरुद्ध-गतयो ह्य् अनिशं पतन्ति
विद्यादयो विविध-शक्तय आनुपूर्व्यात् ।
तद् ब्रह्म विश्व-भवम् एकम् अनन्तम् आद्यम्
आनन्द-मात्रम् अविकारम् अहं प्रपद्ये ॥ [भ्प् 4.9.16]
आनुपूर्व्या स्व-स्व-वर्गे उत्तम-मध्यम-कनिष्ठ-भावेन वर्तमाना
विविध-शक्तयः प्रायः परस्परं विरुद्ध-गतयोऽपि यस्मिन् यद् आश्रित्य
अनिशं पतन्ति स्व-स्व-व्यापारं कुर्वन्ति ॥ ध्रुवः श्री-पृश्निगर्भम्
[12]
सर्गादि यो æस्यानुरुणद्धि शक्तिभिर्
द्रव्य-क्रिया-कारक-चेतनात्मभिः ।
तस्मै समुन्नद्ध-निरुद्ध-शक्तये
नमः परस्मै पुरुषाय वेधसे ॥ [भ्प् 4.17.18]
अनुरुणद्धि करोति । श्री-मैत्रेयो विदुरम्
[13]
तासाम् अचिन्त्यत्वम् आह ।
आत्मेश्वरोऽतर्क्य-सहस्र-शक्तिर् इति ॥ [भ्प् 3.33.3]
स्पष्टम् ॥ उक्तं चाचिन्त्यत्वं श्रुतेस् तु शब्द-मूलत्वाद् इत्य् [व्स् 2.1.27] आदौ
। आत्मनि चैवं विचित्राश् च हीत्य् [?] आदौ च ॥ श्री-देवहूतिः कपिलदेवम्
[14]
शक्तेस् तु स्वाभाविक-रूपत्वम् आह -
सत्त्वं रजस् तम इति त्रिवृद् एकम् आदौ
सूत्रं महान् अहम् इति प्रवदन्ति जीवम् ।
ज्ञान-क्रियार्थ-फल-स्वरूपतयोरु-शक्तिर्
ब्रह्मैव भाति सद् असच् च तयोः परं यत् ॥ [भ्प् 11.3.38]
ब्रह्मैव उरू-शक्तिर् अनेकात्मक-शक्तिमद् भाति । एव-कारेण ब्रह्मण एव
सा शक्तिर् न तु कल्पितेति स्वाभाविक-रूपत्वं शक्तेर् बोधयति । तत्र हेतुः ।
यद् ब्रह्म यत् स्थूलं कार्यं पृथिव्यादि-रूपं असत् सूक्ष्मं कारणं
प्रकृत्यादि-रूपं तयोर् बहिरङ्ग-वैभवयोः परं स्वरूप-वैभवं श्री-
वैकुण्ठादि-रूपं तटस्थ-वैभवं शुद्ध-जीव-रूपं च । अन्यथा तत्-
तद्-भावासिद्धिः ।
किंरूपतया तत्-तद्-रूपम् । तत्राह ज्ञान-क्रियार्थ-फल-रूपतया महद्-
आदि-लक्षण-ज्ञान-शक्ति-रूपत्वेन, सूत्रादि-लक्षण-क्रिया-शक्ति-रूपत्वेन,
तन्-मात्रादि-लक्षणार्थ-रूपत्वेन, प्रकृति-लक्षण-तत्-तत्-सर्वैक्य-
रूपत्वेन सद्-असद्-रूपम् । फल-रूपत्वेन तयोः परम् । तत्र फलं
पुरुषार्थ-स्वरूपं स-वैभवं भगवद्-आख्यं चिद्-वस्तु तद्-
अनुमतत्वात् शुद्ध-जीवाख्यं चिद्-वस्तु च । एतेन ज्ञान-क्रियादि-रूपेणोरू-
शक्तित्वं व्यञ्जितम् । शक्तेः स्वाभाविक-रूपत्वं स-प्रमाणं स्पष्टयति ।
आदौ यद् एकं ब्रह्म तद् एव सत्त्वं रजस् तम इति त्रि-वृत् प्रधानं ततः
क्रिया-शक्त्या सूत्रं ज्ञान-शक्त्या महान् इति । ततोऽहम् अहङ्कार इति । तद् एव
च जीवं शुद्ध-स्वरूपं जीवात्मानं तद्-उपलक्षणकं वैकुण्ठादि-
वैभवं च प्रवदन्ति वेदाः । ते च - सदैव सौम्येदम् अग्र आसीद् इत्य्
आद्याः [छाउ 6.2.1] ।
आदाव् एकं ततस् तत् तद्-रूपम् इति शक्तेः स्वाभाविकत्वम् आयातम्
अन्यस्यासद्भावेनौपाधिकत्वायोगात् । स्वरूप-वैभवस्याङ्ग-प्रत्यङ्गवन्
नित्य-सिद्धत्वेऽपि, सूर्य-सत्तया तद्-रश्मि-परमाणु-वृन्दस्येव, तत्-सत्तया
लब्ध-सत्ताकत्वात् तद्-उपादानत्वं तदादिकत्वं च स्यात् । तस्य भासा सर्वम्
इदं विभातीति [कठ 2.2.15] श्रुतेः ।
शक्तेर् अचिन्त्यत्वं स्वाभाविकत्वं चोक्तं श्री-विष्णु-पुराणे -
निर्गुणस्याप्रमेयस्य
शुद्धस्याप्य् अमलात्मनः ।
कथं सर्गादि-कर्तादि-कर्तृत्वं
ब्रह्मणोऽभ्युपगम्यत ॥ [विप् 1.3.1]
इति मैत्रेय-प्रश्नानन्तरं श्री-पराशर उवाच ---
शक्तयः सर्व-भावानाम्
अचिन्त्य-ज्ञान-गोचराः ।
यतोऽतो ब्रह्मणस् तास् तु
सर्गाद्या भाव-शक्तयः ।
भवन्ति तपसां श्रेष्ठ
पावकस्य यतोष्णता ॥ [विप् 1.3.2]
अत्र श्रीधर-स्वामि-टीका च -
तद् एवं ब्रह्मणः सृष्ट्य्-आदि-कर्तृत्वम् उक्तम् । तत्र शङ्कते - निर्गुणस्येति
। सत्त्वादि-गुण-रहितस्य, अप्रमेयस्य देश-कालाद्य्-अपरिच्छिन्नस्य शुद्धस्य
अदेहस्य सहकारि-शून्यस्येति वा, अमलात्मनः पुण्य-पाप-संस्कार-
शून्यस्य, रागादि-शून्यस्येति वा । एवम्भूतस्य ब्रह्मणः कथं सर्गादि-
कर्तृत्वम् इष्यते, एतद्-विलक्षणस्यैव लोके घटादिषु कर्तृत्वादि-दर्शनाद्
इत्य् अर्थः । परिहरति शक्तय इति सार्धेन । लोके हि सर्वेषां भावानां मणि-
मन्त्रादीनां शक्तयः अचिन्त्य-ज्ञान-गोचराः । अचिन्त्यं तर्कासहं यज्-
ज्ञानं कार्यान्यथानुपपत्ति-प्रमाणकं तस्य गोचराः सन्ति ।
यद् वा - अचिन्त्या भिन्नाभिन्नत्वादि-विकल्पैश् चिन्तयितुम् अशक्याः केवलम्
अर्थापत्ति-ज्ञान-गोचराः सन्ति । यद् एवं अतो ब्रह्मणोऽपि तास् तथाविधाः
शक्तयः सर्गादि-हेतु-भूताः भाव-शक्तयः स्वभाव-सिद्धाः शक्तयः
सन्त्य् एव । पावकस्य दाहकत्वादि-शक्तिवत् । अतो गुणादिहीनस्याप्य् अचिन्त्य-
शक्तिमत्त्वाद् ब्रह्मणः सर्गादि-कर्तृत्वं घटत इत्य् अर्थः । श्रुतिश् च -
न तस्य कार्यं करणं च विद्यते
न तत्-समश् चाभ्यधिकश् च दृश्यते ।
परास्य शक्तिर् विविधैव श्रूयते
स्वाभाविकी ज्ञान-बल-क्रिया च ॥ [श्वेतु 6.8]
मायां तु प्रकृतिं विद्यान्
मायिनं तु महेश्वरम् ॥ [श्वेतु 4.10]
यद् वा एवं योजना - सर्वेषां भावानां पावकस्योष्णता-शक्तिवद्-अचिन्त्य-
ज्ञान-गोचराः शक्तयः सन्त्य् एव । ब्रह्मणः पुनस् ताः स्वभाव-भूताः
स्वरूपाद् अभिन्नाः शक्तयः । परास्य शक्तिर् विविधैव श्रूयते इति श्रुतेः ।
अतो मणि-मन्त्रादिभिर् अग्नौष्ण्यवन् न केनचिद् विहन्तुं शक्यन्ते । अत एव
तस्य निरङ्कुशम् ऐश्वर्यम् । तथा च श्रुतिः -
स वा अयम् अस्य सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिर् इत्य् आदिः [बौ
4.4.22] ।
यत एवं अतो ब्रह्मणो हेतोः सर्गाद्या भवन्ति नात्र काचिद् अनुपपत्तिः इत्य्
एषा ।
अत्र प्रश्नः सोऽयं ब्रह्म खलु निर्विशेषम् एवेति पक्षम् आश्रित्य, परिहारस्
तु सविशेषम् एवेति पक्षम् आश्रित्य कृत इति ज्ञेयम् । अत एव प्रश्ने
शुद्धस्येत्य् अपि व्याख्यातम् । शुद्धत्वं ह्य् अत्र केवलत्वं मतम्, तच् च
युक्तं, परिहारे ब्रह्मणि शक्तिस्थापनात् । पूर्व-पक्षिमते ब्रह्मणि शक्तिर्
अपि नास्तीति गम्यते । ततः प्रश्न-वाक्येऽप्य् एवम् अर्थान्तरं ज्ञेयम् -
निर्गुणस्य प्राकृताप्राकृत-गुण-रहितस्य, अतएव प्रमाणागोचरस्य तत
एवामलात्मनोऽपि शुद्धस्य, न तु स्फटिकादेर् इव परच्छाययान्यथा-
दृष्टस्य । तद् एवं निर्विशेषताम् अवलम्ब्य प्रश्ने सिद्धे । परिहारे तु
प्रथम-योजनायां निर्विशेष-पक्षम् अनादृत्य ब्रह्मणि कर्तृत्व-प्रतिपत्त्य्-
अर्थं शक्तयः साधिताः । द्वितीय-योजनायां तत्र च विशेष-प्रतिपत्त्य्-अर्थं
यथा जलादिषु कदाचिद् उष्णतादिकम् आगन्तुकं स्यात् तथा ब्रह्मणि न स्याद्
इति निर्धारितम् । न तत् समश् चाभ्यधिकश् च दृश्यते इति श्रुतेः ।
तथा मणिमन्त्रादिभिर् इति व्यतिरेक एव दृष्टान्त इत्य् अतो ब्रह्म-शक्तयस् तु
नान्येन पराभूता इत्य् एतच् च दर्शितम् । किं च, ब्रह्म-पदेन सर्वं खल्व्
इदं ब्रह्मेति प्रसिद्धिं व्यज्य सत्त्वादि-गुणमय-मायायास् तद्-अन्यत्वेऽपि,
निर्गुणस्येति प्राकृत-गुणैर् अस्पृष्टत्वम् अङ्गीकृत्य तेषां बहिरङ्गत्वं
स्वीकृतम् ।
तद् एतद् एव मायां च प्रकृतिं विद्याद् इत्य् एषा श्रुतिः स्वीचकार । मायां च
तद् अपाश्रयाम् इतिवन् महेश्वरत्वान् मायाया बहिरङ्गाया आश्रय इति तां
पराभूय स्थितम् इति च लभ्यते । तस्मात् पूर्ववद् अत्रापि शक्ति-मात्रस्य
स्वाभाविकत्वं माया-दोषास्पृष्टत्वं च साधितम् । अतएव श्रीगीतोपनिषत्सु
च -
ज्ञेयं यत् तत् प्रवक्ष्यामि यज् ज्ञात्वाऽमृतम् अश्नुते ।
अनादिमत् परं ब्रह्म न सत् तन् नासद् उच्यते ॥
सर्वतः पाणि-पादं तद् इत्य् आदि । [गीता 13.12-13]
अत्रेयं प्रक्रिया - एकम् एव तत् परम-तत्त्वं स्वाभाविकाचिन्त्य-शक्त्या
सर्वदैव स्वरूप-तद्-रूप-वैभव-जीव-प्रधान-रूपेण
चतुर्धावतिष्ठते । सूर्यान्तर्-मण्डलस्थ-तेज इव मण्डल-तद्-बहिर्गत-
रश्मि-तत्-प्रतिच्छवि-रूपेण । एवम् एव श्री-विष्णु-पुराणे ---
एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा ।
परस्य ब्रह्मणः शक्तिस् तथेदम् अखिलं जगद् ॥ इति ॥ [विप् 1.22.56]
यस्य भासा सर्वम् इदं विभातीति श्रुतेः । अत्र व्यापकत्वादिना तत्-तत्-
समावेशाद्य्-अनुपपत्तिश् च शक्तेर् अचिन्त्यत्वेनैव पराहता । दुर्घट-
घटत्वं ह्य् अचिन्त्यत्वम् । शक्तिश् च सा त्रिधा - अन्तरङ्गा बहिरङ्गा
तटस्था च । तत्रान्तरङ्गया स्वरूप-शक्त्याख्यया पूर्णेनैव स्वरूपेण
वैकुण्ठादि-स्वरूप-वैभव-रूपेण च तद् अवतिष्ठते । तटस्थया रश्मि-
स्थानीय-चिद्-एकात्म-शुद्ध-जीव-रूपेण, बहिरङ्गया मायाख्यया
प्रतिच्छवि-गत-वर्ण-शावल्य-स्थानीय-तदीय-बहिरङ्ग-वैभव-जडात्म-
प्रधान-रूपेण चेति चतुर्ध्वात्वम् । अतएव तदात्मकत्वेन जीवस्येव
तटस्थ-शक्तित्वं प्रधानस्य च मायान्तर्-भूतत्वम् अभिप्रेत्य शक्ति-
त्रयं श्री-विष्णु-पुराणे गणितम् -
विष्णु-शक्तिः परा प्रोक्ता क्षेत्र-ज्ञाख्या तथापरा ।
अविद्या-कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते ॥ [विप् 6.7.61]
तया तिरोहितत्वाच् च शक्तिः क्षेत्र-ज्ञ-संज्ञिता ।
सर्व-भूतेषु भूपाल तारतम्येन वर्तते ॥[विप् 6.7.63] इति ॥
अविद्या कर्म कार्यं यस्याः सा तत्-संज्ञा मायेत्य् अर्थः । यद्यपीयं
बहिरङ्गा तथाप्य् अस्यास् तटस्थ-शक्तिमयम् अपि जीवम् आवरितुं
सामर्थ्यम् अस्तीत्य् आह तयेति । तारतम्येन तत्-कृतावरणस्य ब्रह्मादि-
स्थावरान्तेषु देहेषु लघु-गुरु-भावेन वर्तते इत्य् अर्थः । तद् उक्तम् -
यथा सम्मोहितो जीव इति [भ्प् 1.7.5] । ययैवाचिन्त्य-मायया ज्ञेयम् ।
प्रधानस्य माया-व्यङ्ग्यत्वं चाग्रे दर्शयिष्यते । अत्रान्तरङ्गत्व-
तटस्थत्व-बहिरङ्गत्वादिनैव तेषाम् एकात्मकानां तत् तत् साम्यम्, न तु
सर्वात्मनेति तत् तत् स्थानीयत्वम् एवोक्तम् । न तु तत्-तद्-रूपत्वं ततस् तत्
तद् दोषा अपि नावकाशं लभन्ते इति ॥ श्री-पिप्पलायनो निमिम्
[15]
तद् एवं सर्वाभिर् मिलित्वा चिद्-अचिच्-छक्तिर् भगवान् । एवम् एव
परमेश्वरत्वेन स्तूयमानं ब्रह्माणं प्रति हिरण्यकशिपुनाप्य् उक्तम् -
चिद्-अचिच्-छक्ति-युक्तायेति [भ्प् 7.3.34] ।
चिद्-वस्तुनश् चिद्-वस्त्व्-अन्तराश्रयत्वं, रश्म्य्-आभासादि-ज्योतिषो ज्योतिर्-
मण्डलाश्रयत्वम् इव । तत्र तटस्थाख्या जीव-शक्तिर् यथावसरं
परमात्म-सन्दर्भे विवरणीया ।
अथ अन्तरङ्गाख्या-विवरणाय बहिरङ्गाप्य् उद्दिश्यते ये चापरा परा चेति
। श्री-विष्णु-पुराणे श्रूयते -
सर्व-भूतेषु सर्वात्मन् या शक्तिर् अपरा तव ।
गुणाश्रया नमस् तस्यै शाश्वतायै सुरेश्वर ॥
यातीत-गोचरा वाचां मनसां चाविशेषणा ।
ज्ञानि-ज्ञान-परिच्छेद्या वन्दे ताम् ईश्वरीं पराम् ॥ इति ॥ [विप् 1.19.76-7]
सैषा बहु-वृत्तिकैव ज्ञेया, परास्य शक्तिर् बहुधैव श्रूयते इति श्रुतेः
[16]
तत्र बहिरङ्गाम् आह -
ऋतेऽर्थं यत् प्रतीयेत
न प्रतीयेत चात्मनि ।
तद् विद्याद् आत्मनो मायां
यथाभासो यथा तमः ॥ [भ्प् 2.9.33]
अर्थं परमार्थ-भूतं मां विना यत् प्रतीयेत, मत्-प्रतीतौ तत्-प्रतीत्य्-
अभावात् । मत्तो बहिर् एव यस्य प्रतीतिर् इत्य् अर्थः । यच् चात्मनि न प्रतीयते,
यस्य च मद्-आश्रयत्वं विना स्वतः प्रतीतिर् नास्तीत्य् अर्थः । तथा लक्षणं
वस्तु आत्मनो मम परमेश्वरस्य मायां जीव-माया गुण-मायेति द्व्य्-
आत्मिकां मायाख्य-शक्तिं विद्यात् । अत्र शुद्ध-जीवस्यापि चिद्-
रूपत्वाविशेषेण तदीय-रश्मि-स्थानीयत्वेन च स्वान्तःपात एव विवक्षितः
। तत्रास्या द्व्य्-आत्मिकत्वेनाभिधानं दृष्टान्त-द्वैविध्येन लभ्यते । तत्र
जीव-मायाख्यस्य प्रथमांशस्य तादृशत्वं दृष्टान्तेन स्पष्टयन्न्
असम्भावनां निरस्यति यथाभास इति । आभासो ज्योतिर्-बिम्बस्य स्वीय-
प्रकाशाद् व्यवहित-प्रदेशे कथञ्चिद् उच्छलित-प्रतिच्छवि-विशेषः । स यथा
तस्माद् बहिर् एव प्रतीयते, न च तं विना तस्य प्रतीतिस् तथा सापीत्य् अर्थः
। अनेन प्रतिच्छवि-पर्यायाभास-धर्मत्वेन तस्याम् आभासाख्यत्वम् अपि
ध्वनितम् । अतस् तत्-कार्यस्याभासाख्यत्वं क्वचित् आभासश् च निरोधश् चेत्य्
आदौ [भ्प् 2.10.7] । अत्र स यथा क्वचिद् अत्यन्तोद्भटात्मा स्वचाक्चिक्य-
च्छटापतितनेत्राणां नेत्र-प्रकाशम् आवृणोति । तम् आवृत्य च
स्वेनात्यन्तोद्भट-तेजस्त्वेनैव द्रष्टृ-नेत्रं व्याकुलयन् स्वोपकण्ठे
वर्ण-शावल्यम् उद्गिरति । कदाचित् तद् एव पृथग्-भावेन नानाकारतया
परिणमयति । तथेयम् अपि जीव-ज्ञानम् आवृणोति । सत्त्वादि-गुण-साम्य-रूपां
गुण-मायाख्यां जडां प्रकृतिम् उद्गिरति । कदाचित् पृथग्-भूतान् सत्त्वादि-
गुणान् नानाकारतया परिणमयति चेति ज्ञेयम् । तद् उक्तम् - एक-देश-
स्थितस्याग्नेर् [विप् 1.22.56] इत्य् आदि ।
तथा चायुर्वेद-विदः -
जगद्-योनेर् अनिच्छस्य चिद्-आनन्दैक-रूपिणः ।
पुंसोऽस्ति प्रकृतिर् नित्या प्रतिच्छायेव भास्वतः ॥
अचेतनापि चैतन्य-योगेन परमात्मनः ।
अकरोद् विश्वम् अखिलम् अनित्यं नाटकाकृतिर् ॥ इति ॥
तद् एवं निमित्तांशो जीव-माया उपादानांशो गुण-मायेत्य् अग्रेऽपि
विवेचनीयम् । अथैवं सिद्धं गुण-मायाख्यं द्वितीयम् अप्य् अंशं
दृष्टान्तेन स्पष्टयति, यथा तम इति । तमः-शब्देनात्र पूर्वोक्तं तमः-
प्रायं वर्ण-शावल्यम् उच्यते । तद् यथा तन् मूल-ज्योतिष्य्-असद् अपि तद्-
आश्रयत्वं विना न सम्भवति तद्वद् इयम् अपीति । अथवा मायामात्र-
निरूपण एव पृथक् दृष्टान्त-द्वयम् । तत्राभास-दृष्टान्तो व्याख्यातः ।
तमो-दृष्टान्तश् च । यथान्धकारे ज्योतिषोऽन्यत्रैव प्रतीयते, ज्योतिर् विना च
न प्रतीयते ज्योतिरात्मना चक्षुषैव तत् प्रतीतेर् न पृष्ठादिनेति तथेयम्
अपीत्य् एवं ज्ञेयम् । ततश् चांश-द्वयं तु प्रवृत्ति-भेदेनैवोह्यं न तु
दृष्टान्त-भेदेन । प्राक्तन-दृष्टान्त-द्वेधाभिप्रायेण तु पूर्वस्या
आभास-पर्याय-च्छाया-शब्देन क्वचित् प्रयोगः उत्तरस्यास् तमः शब्देनैव
चेति । यथा ससर्ज छाययाविद्यां पञ्च-पर्वाणम् अग्रतः [भ्प् 3.20.18] इत्य्
अत्र । यथा च क्वाहं तमो महद् अहम् [भ्प् 10.14.11] इत्य् आदौ ।
पूर्वत्राविद्याविद्याख्य-निमित्त-शक्ति-वृत्तिकत्वाज् जीव्-विषयकत्वेन जीव-
मायात्वम् ।
तथा ससर्जेत्य् आदौ छाया-शक्तिं मायाम् अवलम्ब्य सृष्ट्यारम्भे ब्रह्मा
स्वयम् अविद्याम् आविर्भावितवान् इत्य् अर्थः ।
विद्याविद्ये मम तनू व्द्ध्य् उद्धव शरीरिणाम् ।
बन्ध-मोक्ष-करी आद्ये मायया मे विनिर्मित्ते ॥ [भ्प् 11.11.3] इत्य् उक्तत्वात् ।
अनयोर् आविर्भाव-भेदश् च श्रूयते । तत्र पूर्वस्याः पाद्मे श्री-कृष्ण-
सत्यभामा-संवादीय-कार्त्तिक-माहात्म्ये देव-गण-कृत-माया-स्तुतौ -
इति स्तुतवन्तस् ते देवास् तेजो-मण्डल-संस्थितम् ।
ददृशुर् गगने तत्र तेजो-व्याप्त-दिग्-अन्तरम् ॥
तन्-मध्याद् भारतीं सर्वे शुश्रुवुर् व्योम-चारिणीम् ।
अहम् एव त्रिधा भिन्ना तिष्ठामि त्रिविधैर् गुणैः ॥ इत्य् आदि ॥
उत्तरस्याः पाद्मोत्तर-खण्डे असङ्ख्यं प्रकृति-स्थानं निविड-ध्वान्तम्
अवययम् इति ॥ श्री-भगवान् ब्रह्माणम्
[17]
अथ स्वरूप-भूताख्याम् अन्तरङ्गां शक्तिं सर्वस्यापि प्रवृत्त्य्-
अन्यथानुपपत्त्या तावद् आह द्वाभ्याम् -
यन् न स्पृशन्ति न विदुर् मनो-बुद्धीन्द्रियासवः ।
अन्तर् बहिश् च विततं व्योमवत् तन् नतोऽस्म्य् अहम् ॥ [भ्प् 6.16.23]
देहेन्द्रिय-प्राण-मनो-धियोऽमी
यद्-अंश-बिद्धाः प्रचरन्ति कर्मसु ।
नैवान्यदा लोहम् इवाप्रतप्तं
स्थानेषु तद्-द्रष्ट्र्-उपदेशम् एति ॥ [भ्प् 6.16.24]
टीका च - यद् ब्रह्म व्योमवद् विततम् अपि असवः प्राणाः क्रियाशक्त्य न
स्पृशन्ति, मन-आदीनि च ज्ञान-शक्त्या न विदुः, तद् ब्रह्म नतोऽस्मि । तेषं
तज्-ज्ञाने हेतुम् आह । देहेन्द्रियादयोऽमी यद्-अंश-बिद्धा यच्-
चैतन्यांशेनाविष्टाः सन्तः कर्मसु स्वस्वविषयेषु प्रचरन्ति । यथा
अप्राप्तं लोहं न दहति । अतो यथा लोहम् अग्नि-शक्त्यैव दाहकं सत् अग्निं
न दहति, एवं ब्रह्म-गत-ज्ञान-क्रिया-शक्तिभ्यां प्रवर्तमाना देहादयस्
तन् न स्पृशन्ति न विदुश् चेति भावः । इत्य् एषा ।
अत्राद्वैत-शारीरकेऽपि साङ्ख्यम् आक्षिप्योक्तम्, यथा - अथ पुनः साक्षि-
निमित्तम् ईक्षितृत्वं प्रधानस्य कल्प्येत यथाग्नि-निमित्तम् अयः-पिण्डादेर्
दग्धृत्वं, तथा सति यन् निमित्तम् ईक्षिततृत्वं प्रधानस्य, तद् एव
सर्वज्ञं मुख्यं जगतः कारणम् इति [शङ्कर-भाष्य, 1.1.5] ।
श्रुतिश् चात्र -
तम् एव भान्तम् अनुभाति [कठौ 2.2.15]
को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात्, चक्षुषश्
चक्षुरूत श्रोत्रस्य श्रोत्रम् इत्य् आद्या । [तैत्तु 2.7]
अथ प्रकृतस्यावशिष्टता टीका -जीवस् तर्हि दष्टृत्वाज् जानातु, नेत्य् आह
स्थानेषु जाग्रद्-आदिषु द्रष्ट्र्-अपदेशं द्रष्टृ-संज्ञां तद् एवैति प्राप्नोति
। नान्यो जीवो नामास्ति नान्योऽतोऽस्ति द्रष्टेत्यादि श्रुतेः [बौ 3.17.23] । यद् वा
द्रष्ट्र्-अपदेशं द्रष्टृ-संज्ञं जीवम् अपि तदैवेति जानाति, न तु जीवस् तज्-
जानातीत्य् अर्थः इत्य् एषा ।
तद् उक्तम् -
त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रय इति । [भ्प् 2.10.9]
श्रुतौ च - जीवो नामातोऽन्यः स्वयं सिद्धो नास्ति परन्तु तदात्मक एवेत्य्
अर्थः । तथातोऽन्यो द्रष्टा नास्ति, सर्व-द्रष्टुस् तस्यापरो द्रष्टा नास्तीत्य्
अर्थः इति व्याख्येयम् ॥
श्री-नारदश् चित्रकेतुम्
[18]
किं च -
देहोऽसवोऽक्षा मनवो भूतमात्रा
नात्मनम् अन्यं च विदुः परं यत् ।
सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो
न वेद सर्वज्ञम् अनन्तम् ईडे ॥ [भ्प् 6.4.25]
देहश् चासवश् च प्राणा अक्षाणीन्द्रियाणि च, मनवोऽन्तःकरणानि, भूतानि
च, मात्राश् च तन्-मात्राणि, आत्मानं स्व-स्वरूपम्, अन्यं स्वस्वविषय-
वर्गं, तयोः परं देवता-वर्गं च न विदुः । पुमान् जीवस् तु सर्वम्
आत्मानं स्व-स्वरूपं, तद् अन्यं प्रमातारं, तयोः पदं देहाद्य्-अर्थ-
जातं तद्-अधिष्ठातृ-देवता-वर्गं च वेद, तथा देहादि-मूल-भूतान्
गुणांश् च सत्त्वादीन् वेद ।
तत्-तज्-ज्ञोऽप्य् असौ यं सर्वज्ञं देहादिजीवान्ताशेष-ज्ञातारं न वेद तम्
अनन्तं महद्-गुणत्वाद् यम् अनन्तम् आहुर् [भ्प् 1.18.19] इति । अतएव हि यत्र
हि द्वैतम् इव भवति तद् इतर इतरं पश्यतीत्य् आरभ्य [बौ 4.5.15]
जीवस्येतर-दृष्टत्वम् उक्त्वा, यत्र स्वस्य सर्वम् आत्मैवाभूत् तत् केन कः
पश्येद् इत्य् आदिना तस्य परमात्म-द्रष्टृत्वं निषिध्य परमात्मनस् तु तत्
तत् सर्व-द्रष्टृत्वं स्व-द्रष्टृत्वम् अप्य् अस्तीति, विज्ञातारम् अरे केन
विजानीयाद् इत्य् [बौ 2.4.14] अनेनाह ।
अयम् अर्थः । यत्र माया-वैभवे द्वैतम् इव भवति, तन् मूलकत्वात् तद्
अनन्यद् अपि मायाख्याचिन्त्य-शक्ति-हेतुकतया जड-मलिन-नश्वरत्वेन तद्-
विलक्षणतया समादितं ततः स्वतन्त्र-सत्ताकम् इव मुहुर् जायते, तत् तत्र
इतरो जीव इतरं पदार्थं पश्यति, तस्य करण-दृश्ययोर् मिथो योग्यत्वाद् इति
भावः । यत्र तु स्वरूप-वैभवे तस्य जीवस्य रश्मि-स्थानीयस्य मण्डल-
स्थानीयो य आत्मा परमात्मा, स एव स्वरूप-शक्त्या सर्वम् अभूत्,
अनादितएव भवन्न् आस्ते, न तु तत्-प्रवेशेन, तत् तत्र इतरः स जीवः
केनेतरेण करण-भूतेन कं पदार्थं पश्येत्, न केनापि कम् अपि पश्येद्
इत्य् अर्थः । न हि रश्मयः स्व-शक्त्या सूर्य-मण्डलान्तर्गत-वैभवं
प्रकाशयेयुर् न चार्चिषो वह्निं निर्दहेयुर् इति भावः । तद् एवं सति यस्य
खल्व् एवम् अनन्तं स्वरूप-वैभवं तं विज्ञातारं सर्वज्ञं
परमात्मानं केनेतरेण करणेन विजानीयात् न केनापीत्य् अर्थः । तद् एवं
ज्ञान-शक्तौ तत्र सिद्धायां क्रियेच्छा-शक्ती च लक्ष्येते ॥ दक्षः श्री-
पुरुषोत्तमम्
[19]
वशीकृत-मायत्वेनापि ताम् आह -
स त्वं हि नित्य-विजितात्म-गुणः स्व-धाम्ना
कालो वशी-कृत-विसृज्य-विसर्ग-शक्तिः । इति [भ्प् 7.9.22]
स्व-धाम्ना चिच्-छक्त्या । यतः कालो माया-प्रेरकः इति टीका च । आत्मा त्व्
अत्र जीवः, तस्य गुणाः सत्त्वादयः, सत्त्वं रजस् तम इति गुणा जीवस्य नैव
मे
इत्य् [भ्प् 11.25.12] उक्तत्वात् ॥ प्रह्लादः श्री-नरसिंहम्
[20]
तथा च -
करोति विश्व-स्थिति-संयमोदयं
यस्येप्सितं नेप्सितम् ईक्षितुर् गुणैः ।
माया यथायो भ्रमते तद्-आश्रयं
ग्राव्णो नमस् ते गुण-कर्म-साक्षिणे ॥ [भ्प् 5.18.38]
टीका च - यस्येक्षितुर् जीवार्थम् ईप्सितम् । अत्यन्तानिच्छायाम् ईक्षणायोगात्
। स्वार्थं तु नेप्सितम् । विश्व-स्थित्य्-आदि-स्व-गुणैर् माया करोति । तस्या
जडत्वेऽपीश्वर-सन्निधानात् प्रवृत्ति-दृष्टान्तेनाह, यथायो लोहं
ग्राव्णोऽयस्कान्तान् निमित्ताद् भ्रमति । तद्-आश्रयं तद्-अभिमुखं सत् ।
गुणानां कर्मणां च जीवादृष्टानां साक्षिणं तस्मै नमः इत्य् एषा ॥ भूः
श्री-वराह-देवम्
[21]
अथ माया-शक्ति-शावल्ये कैवल्यानुपपत्तेः कैवल्येऽप्य् अनुभवाभावे तद्-
आनन्दस्यार्थतानुपपत्तेश् चान्यथानुपपत्ति-प्रमाणतस् ताम् एवाह -
त्वम् आद्यः पुरुषः साक्षाद्
ईश्वरः प्रकृतेः परः ।
मायां व्युदस्य चिच्-छक्त्या
कैवल्ये स्थित आत्मनि ॥ [भ्प् 1.7.23]
त्वं साक्षात् स्वयम् एवाद्यः पुरुषो भगवान् । तथा य ईश्वरः अन्तर्याम्य्-
आख्यः पुरुषः सोऽपि त्वम् एव । तद् एवम् उभयस्मिन्न् अपि प्रकाशे प्रकृतेः
परस्तद्-असङ्गी ।
ननु कथं केवलानुभवानन्दस्यापि तद्-अनुभवित्वं यतो भगवत्वम्
अपि लक्ष्यते, कथं चेश्वरत्वात् प्रकृत्य्-अधिष्ठातृत्वेऽपि तद्-असङ्गित्वम् ।
तत्राह, मायां व्युदस्येति । अव्यभिचारिण्या स्वरूप-शक्त्या ताम् आभास-
शक्तिं दूरे विधाय तथैव स्वरूप-शक्त्या कैवल्ये ---
परावराणां परम आस्ते कैवल्य-संज्ञितः ।
केवलानुभवानन्द-सन्दोहो निरुपाधिकः ॥ [भ्प् 11.9.18]
इत्य् एकादशोक्त-रीत्या कैवल्याख्ये केवलानुभवानन्दे आत्मनि स्व-स्वरूपे
स्थितः अनुभूत-स्वरूप-सुख इत्य् अर्थः । तद् उक्तं षष्ठे देवैर् अपि --
स्वयम् उपलब्ध-निज-सुखानुभवो भवान् इति [भ्प् 6.9.33] ।
सन्दोह-शब्देन चैकादशे वैचित्री दर्शिता, सा च शक्ति-वैचित्र्याद् एव
भवतीति । अतएवम् अस्त्य् एव स्वरूप-शक्तिः । प्रकृतिर् नामात्र मायायास्
त्रैगुण्यम् । एवम् एव शक्ति-त्रय-विवृतिः स्वामिभिर् एव दर्शिता । तथा हि श्री-
देवहूति-वाक्ये --
परं प्रधानं पुरुषं महान्तं
कालं कविं त्रि-वृतं लोक-पालम् ।
आत्मानुभूत्यानुगत-प्रपञ्चं
स्वच्छन्द-शक्तिं कपिलं प्रपद्ये ॥ [भ्प् 3.24.33] इत्य् अत्र ।
परं परमेश्वरम् । तत्र हेतुः स्वच्छन्दाः शक्तयो यस्य । ता एवाह,
प्रधानं प्रकृति-रूपं, पुरुषं तद्-अधिष्ठातारं, महान्तं महत्-
तत्त्व-स्वरूपं, कालं तेषां क्षोभकं, त्रिवृत्म् अहङ्कार-भूतं,
लोकात्मकं तत्-पालात्मकं च । तद् एवं मायया प्रधानादि-रूपताम् उक्त्वा
चिच्-छक्त्या निष्प्रपञ्चताम् आह । आत्मानुभूत्या चिच्-छक्त्यानुगतः स्वस्मिन्
लीनः प्रपञ्चो यस्य तं, कविं सर्वज्ञं प्रधानाद्याविर्भाव-साक्षिणम्
इत्य् अर्थः इति ।
अत्र पुरुषस्यापि मायान्तःपातित्वं तद्-अधिष्ठातृतयोपचर्यत एव । वस्तुतस्
तस्य तु तस्याः परत्वम् । तथा श्री-कपिल-देव-वाक्ये --
अनादिर् आत्मा पुरुषो निर्गुणः प्रकृतेः परः ।
प्रत्यग्-धामा स्वयं-ज्योतिर् विश्वं येन समन्वितम् ॥ [भ्प् 3.26.3] इति
नाम-स्वरूपयोर् निरूपणेन महा-संहितायाम् अपि विविक्तं तत् त्रि-शक्ति -
श्रीर् भूर् दुर्गेति या भिन्ना जीव-माया महात्मनः ।
आत्म-माया तद्-इच्छा स्यात् गुण-माया जडात्मिका ॥ इति [?]
अस्यार्थः । श्रीर् अत्र जगत्-पालन-शक्तिः, भूस् तत्-सृष्टि-शक्तिः, दुर्गा तत्-
प्रलय-शक्तिः । तत्-तद्-रूपेन या भेदं प्राप्ता, सा जीव-विषया तच्-छक्तिर्
जीव-मायेत्य् उच्यते । पाद्मे श्री-कृष्ण-सत्यभामा-संवादे -
अहम् एव त्रिधा भिन्ना तिष्ठामि त्रिविधैर् गुणैर् इत्य् एतद्-वाक्यानन्तरं
ततः सर्वेऽपि ते देवाः श्रुत्वा तद्-वाक्य-चोदिताः ।
गौरीं लक्ष्मीं धरां चैव प्रणेमुर् भक्ति-तत्-पराः ॥ इति ॥
एकादशे च -
एषा माया भगवतः सृष्टि-स्थित्य्-अन्तकारिणी ।
त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुम् इच्छसि ॥ इति ॥ [भ्प् 11.3.16]
आत्म-माया स्वरूप-शक्तिः । मीयतेऽनयेति माया-शब्देन शक्ति-मात्रम् अपि
भण्यते -
तस्यां तमोवन् नैहारं खद्योतार्चिर् इवाहनि ।
महतीतरमायैश्यं निहन्त्य् आत्मनि युञ्जत ॥ इति [भ्प् 10.13.45]
ब्रह्म-वाक्यं तथैव सङ्गच्छते । शक्ति-मात्रस्य तारतम्यं हि तत्र
विवक्षितम् । स्वल्पा शक्तिः खल्व् अनृतस्य सत्यस्य वा व्यञ्जिका भवतु नाम
। पराभवाय कल्पत एवेति हि तत्र गम्यते । दृष्टान्ताभ्यां च तथैव
प्रकटितं तस्यां तमोवद् इत्यादिभ्याम् । तथा युद्धेष मायामय-
शस्त्रादिना बहवश् छिन्न-भिन्ना जाता इति पुराणादिषु श्रूयते ।
ततः सा च माया मिथ्याकल्पिका च भवतीति गम्यते । न हि मरु-मरीचिका-
जलेन केचिद् आर्द्रा भवन्तीति ।
स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः ।
अतो मायामयं विष्णुं प्रवदन्ति सनातनम् ॥ इति चतुर्वेद-शिखाद्या श्रुतिश्
च ।
ततश् च - आत्म-माया तद्-इच्छा स्यात् इत्य् अत्र ज्ञान-क्रिये अपि लक्ष्येते । माया
वयुनं ज्ञनम् इति निघण्टौ च पर्याय-शब्दाः ।
त्रिगुणात्मिकाथ ज्ञानं च विष्णु-शक्तिस् तथैव च ।
माया-शब्देन भण्यते शब्द-तत्त्वार्थ-वेदिभिः ॥ इति त्रिकाण्ड-शेषे ।
माया दम्भे कृपायां चेति विश्व-प्रकाशे । व्याख्यातं च टीका-कृद्भिर्
एकादशे कालो माया-मये जीवे इत्य् अत्र [भ्प् 11.24.27] माया-प्रवर्तके ज्ञान-
मये वा इति । तृतीयेऽपि आपुः परां मुदम् इत्य् आदौ [भ्प् 3.15.26] योग-माय-
शब्देन सनकादाव् अष्टाङ्ग-योग-प्रभावं व्याख्याय परमेश्वरे तु चिच्-
छक्ति-विलासो व्याख्यातः ।
ततस् त्रिभेदैवात्म-मायेति सिद्धम् । यथा वा - त्वम् आद्यः पुरुषः [भ्प्
1.7.23] इत्य् आदि-मूल-पदाम् एवम् अवतार्यम् । श्री-वैकुण्ठे मायं
निषेधन्न् अपि साक्षात् ताम् एवाह त्वम् आद्य इति । कैवल्ये मोक्षाख्ये श्री-
वैकुण्ठ-लक्षणे आत्मनि स्वांश एव स्थितः । किं कृत्वा ? तत्राति-
विराजमानया चिच्-छक्त्या मायां दूरे स्थिताम् अपि तिरस्कृत्यैव । मतं
चैतम्मायादिकं निषेधता श्री-शुकदेवेन ।
प्रवर्तते यत्र रजस् तमस् तयोः
सत्त्वं च मिश्रं न च काल-विक्रमः ।
न यत्र माया किम् उतापरे हरेर्
अनुव्रता यत्र सुरासुरार्चिताः ॥ [भ्प् 2.9.10] इति ।
मोक्सं परं पदं लिङ्गम् अमृतं विष्णु-मन्दिरम् । इति पाद्मोत्तर-खण्डे
विअकुण्ठ-पर्याय-शब्दाः ॥ अर्जुनः श्री-भगवन्तम्
[22]
अत ऊर्ध्वं गुणादीनां स्वरूपात्मता-निगमनात् स्वरूप-शक्तिर् एव पुनर्
अपि विव्रियते यावत् सन्दर्भ-समाप्तिः ।[*एन्द्नोते #3] तत्र गुणानां
स्वरूपात्मताम् आहुः ।
स यद् अजया त्व् अजाम् अनुशयीत गुणांश् च जुषन्
भजति सरूपतां तद् अनु मृत्युम् अपेत-भगः ।
त्वम् उत जहासि ताम् अहिर् इव त्वचम् आत्त-भगो
महसि महीयसेऽष्ट-गुणितेऽपरिमेय-भगः ॥[भ्प् 10.87.38]
टीका च - स तु जीवो यद् यस्मात् अजया मायया अजाम् अविद्याम् अनुशयीत
आलिङ्गेत् । ततश् च गुणांश् च देहेन्द्रियादीन् जुषन् सेवमानः आत्मतया
अध्यस्यन् । तद् अनु तद्-अनन्तरं सरूपतां तद्-धर्म-योगं च जुषन् अपेत-
भगः पिहितानन्दादि-गुणः सन् मृत्युं संसारं भजति प्राप्नोति । त्वम् उत
त्वं तु जहासि तां मायाम् ।
ननु सा मय्य् एवास्ति कथं त्यागस् तत्राह अहिर् इव त्वचम् इति । अयं भावः -
-यथा भुजङ्गः स्वगतम् अपि कञ्चुकं गुण-बुद्ध्या नाभिमन्यते तथा
त्वम् अजां मायां । न हि निरन्तराह्लाद-संवित्-कामधेनु-वृन्द-पतेर् अजया
कृत्यम् इति ताम् उपेक्षसे ।
कुत एतत् तद् आह । आत्म-भग-नित्य-प्राप्तैश्वर्यः । महसि परमैश्वर्ये
अष्ट-गुणिते अणिमाद्य्-अष्ट-विभूतिमति । महीयसे पूज्यसे विराजसे ।
कथम्भूतः ? अपरिमेय-भगः अपरिमेयैश्वर्यः । न त्व् अन्येषाम् इव
देश-काल-परिच्छिन्नं तवाष्ट-गुणितम् ऐश्वर्यम् । अपि तु परिपूर्ण-
स्वरूपानुबन्धित्वाद् अपरिमितम् इत्य् अर्थः । इत्य् एषा ।
तथा च तत्रैव पूर्वम् उक्तं - त्वम् असि यद् आत्मना समवरुद्ध-समस्त-
भग इति [भ्प् 10.87.14] । यद् वा अहिर् इव त्वचम् इत्य् अत्र त्वक्-शब्देन
परित्यक्ता जीर्ण-त्वग् एवोच्यते । स यथा तां जहातीति तत्-समीपम् अपि न
व्रजति, तथा त्वम् अपि माया-समीपं न यासीत्य् अर्थः ।
अन्यत्र च -
विशुद्ध-विज्ञान-घनं स्व-संस्थया
समाप्त-सर्वार्थम् अमोघ-वाञ्छितम् ॥ इति [भ्प् 10.37.22] ।
तथोद्धवं प्रति श्री-भगवद्-वाक्यं -
सिद्धयोऽष्टादश प्रोक्ता धारणा योग-पारगैः ।
तासाम् अष्टौ मत्-प्रधाना दशैव गुण-हेतवः ॥ [भ्प् 11.15.3] इति ।
अग्रे च - एता मे सिद्धयः सौम्य अष्टाव् औत्पत्तिका मताः । इति [भ्प् 11.15.5]
अतएव दैत्य-बालकान् प्रति श्री-प्रह्लाद-वाक्यम् --
केवलानुभवानन्द-स्वरूपः परमेश्वरः ।
माययान्तर्हितैश्वर्य ईयते गुण-सर्गया ॥[भ्प् 7.6.20]
टीका च - ननु स एव चेत् सर्वत्र तर्हि सर्वत्र सर्वज्ञताद्य् उपलभ्यते ।
तत्राह - गुणात्मकः सर्गो यस्यास् तया मायया अन्तर्हितम् ऐश्वर्यं येन
इत्य् एषा ।
अत्र भगवद् ऐश्वर्यस्य माययान्तर्हितत्वेन गुण-सर्गयेति मायाया
विशेषण-विन्यासेन च तद्-अतीतत्वं बोधयति स्वरूपवत् । अतः परमेश्वर
इति विशेषणम् अपि तत्-सहयोगेन पूर्वम् एव दत्तम् इति ज्ञेयम् । श्रुतयश् -
अजाम् एकां लोहित-शुक्ल-कृष्णां
वह्वीः प्रजाः सृजमानां सरूपाः ।
अजो ह्य् एको जुषमाणोऽनुशेते
जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥ [श्वेतु 4.5]
यद्-आत्मको भगवांस् तद्-आत्मिका व्यक्तिः । किम् आत्मको भगवान् ?
ज्ञानात्मक ऐश्वर्यात्मकः शक्त्य्-आत्मकश् च । दैवात्म-शक्तिं स्व-गुणैर्
निगूढाम् इत्य् आद्याः [श्वेतु 1.3] । अत्र स्व-गुणैर् इति यातीतगोचरा वाचाम् इत्य्
उक्तैः स्वीय-स्वभावैर् इत्य् अर्थः ॥ श्रुतयः श्री-भगवन्तम्
[23]
मां भजन्ति गुणाः सर्वे
निर्गुणं निरपेक्षकम् ।
सुहृदं प्रियम् आत्मानं
साम्यासङ्गादयोऽगुणाः ॥ [भ्प् 11.13.40]
टीका च - कथम्भूताः ? अगुणाः, गुण-परिणाम-रूपा न भवन्ति किन्तु
नित्या इत्य् अर्थः । इत्य् एषा ।
तथा च नारद-पञ्चरात्रे जितं ते स्तोत्रे -
नमः सर्व-गुणातीत-षड्-गुणायादि-वेधसे । इति ।
यद् उक्तं ब्रह्म-तर्के -
गुणैः स्व-रूप-भूतैस् तु गुण्य् असौ हरिर् ईश्वरः ।
न विष्णोर् न च मुक्तानां क्वापि भिन्नो गुणो मतः ॥
कालिका-पुराणे देवी-कृत-विष्णु-स्तवे -
यस्य ब्रह्मादयो देवा मुनयश् च तप-धनाः ।
न विवृण्वन्ति रूपाणि वर्णनीयः कथं स मे ॥
स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभो ।
नैव जानन्ति यद् रूपं सेन्द्रा अपि सुरासुराः ॥ इति ॥
श्री-हंस-देवः सनकादीन्
[24]
अन्यत्र श्री-हंस-वाक्य-स्थितादि-ग्रहण-क्रोडी-कृतान् तान् बहून् एव सत्यं
शौचम् इत्य् आदिभिर् गणयित्वाह -
एते चान्ये च भगवन्
नित्या यत्र महा-गुणाः ।
प्रार्थ्या महत्त्वम् इच्छद्भिर्
न वियन्ति स्म कर्हिचित् ॥ [भ्प् 1.16.26]
टीका च - एते एकोनचत्वारिंशत् । अन्ये च ब्रह्मण्यत्व-शरण्यत्वादयो
महान्तो गुणा यस्मिन् नित्याः सहजा न वियन्ति न क्षीयन्ते स्म । इत्य् एषा ।
अत्र श्री-विष्णु-पुराणम् -
कला-मुहूर्तादि-मयश् च कालो
न यद्-विभूतेः परिणाम-हेतुः ॥ इति [विप् 4.1.84] ।
श्री-पृथिवी श्री-धर्मम् ॥24।
[25]
अत एव आह -
नमस् तुभ्यं भगवते
ब्रह्मणे परमात्मने ।
न यत्र श्रूयते माया
लोक-सृष्टि-विकल्पना ॥ [भ्प् 10.28.6]
यत्र भगवद्-आदित्वेन त्रिधैव स्फुरति स्वरूपे माया न श्रूयते । तस्य
तथा तथा स्फूर्तिर् मायया न भवतीत्य् अर्थः । तत्र हेतुः - लोक-सृष्टाव्
एव विकल्पितुं सृष्टि-स्थिति-संहारैर् विविधम् ईशितुं शीलं यस्याः सा । अतएव
भूगोल-प्रश्ने हेतुत्वेन राज्ञाप्य् उक्तम् --
भगवतो गुणमये स्थूल-रूप आवेशितं मनो ह्य् अगुणेऽपि सूक्ष्मतम
आत्म-ज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षमम् आवेशितुम् इति
[भ्प् 5.16.3] ।
वरुणः श्री-भगवन्तम्
[26]
तथा -
तस्मै नमो भगवते वासुदेवाय धीमहि ।
यन्-मायया दुर्जयया मां वदन्ति जगद्-गुरुम् ॥
विलज्जमानया यस्य स्थातुम् ईक्षा-पथेऽमुया ।
विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः ॥ [भ्प् 2.5.12-13]
तम-आदिमयत्वेन स्वस्य सदोषत्वात्, सच्चिदानन्द-घनत्वेन यस्य
निर्दोषस्य नेत्र-गोचरे विलज्जमानया अमुषा मायया विमोहिता अस्मद्-आदयो
दुर्धियः ॥ श्री-ब्रह्मा श्री-नारदम्
[27]
तद् एवम् ऐश्वर्यादि-षट्कस्य स्वरूप-भूतत्वम् उक्त्वा, श्री-विग्रहस्य
पूर्ण-स्वरूप-भूतत्वं वक्तुं प्रकरणम् आरभ्यते । तत्र तस्य तादृशत्व-
सचिवं नित्यत्वं तावत् पूर्व-दर्शित-तादृश-वैकुण्ठाधिष्ठातृत्वेन
सिद्धम् एव । प्रपञ्चावतीर्णत्वेऽप्य् आह त्रिभिः -
नष्टे लोके द्वि-परार्धावसाने
महा-भूतेष्व् आदि-भूतं गतेषु ।
व्यक्तेऽव्यक्तं काल-वेगेन याते
भवान् एकः शिष्यतेऽशेष-संज्ञः ॥ [भ्प् 10.3.25]
अतः शेष-संज्ञः । तत्र युक्तिः -
योऽयं कालस् तस्य तेऽव्यक्त-बन्धो
चेष्टाम् आहुश् चेष्टते येन विश्वम् ।
निमेषादिर् वत्सरान्तो महीयांस्
तं त्वेशानं क्षेम-धाम प्रपद्ये ॥ [भ्प् 10.3.26]
हे अव्यक्त-बन्धो सान्निध्य-मात्रेण प्रकृति-प्रवर्तक चेष्टा
निमेषोन्मेष-रूपाम् । श्रुतिश् च - सर्वे निमेषा जज्ञिरे विद्युतः
पुरुषादधीति [महा-नारायणौ 1.8] । सर्वे निमेषादयः कालावयवाः
विशेषेण द्योतते विद्युत् । पुरुषः परमात्मेति श्रुति-पदार्थः । सर्वत्र
सृष्टि-संहारयोर् निमित्तं काल एव, तस्य तु तद्-अङ्ग-चेष्टा-रूपत्वात् तौ
तत्र न सम्भवत एवेति भावः । तत्र हेत्व्-अन्तरं क्षेम-धामेति । त्वा
त्वाम् ।
अत्र स्वाभीष्टात् तस्माद् आविर्भावाद् एव कंस-भयं कैमुत्येन वारितवती
। तथैव स्पष्टं पुनर् आह --
मर्त्यो मृत्यु-व्याल-भीतः पलायन्
लोकान् सर्वान् निर्भयं नाध्यगच्छत् ।
त्वत्-पदाब्जं प्राप्य यदृच्छयाद्य
स्वस्थः शेते मृत्युर् अस्माद् अपैति ॥ [भ्प् 10.3.27]
लोकान् प्राप्य निर्भयं भयाभावम् । त्वत्-पादाब्जं तु प्राप्येत्य्
उभयत्राप्य् अन्वयः । अत्र त्वत्-पादाब्जम् इति श्री-विग्रहम् एव तथापि
विस्पष्टं साधितवती । अतएवामृत-वपुर् इति सहस्र-नाम-स्तोत्रे । मृतं
मरणं तद्-रहितं वपुर् अस्येत्य् अमृत-वपुर् इति शङ्कर-भाष्येऽपि । आद्येति
जन्माभावोऽपि दर्शितः, सजन्मनि सर्वत्र सादित्वअस्यैव सिद्धेः । तद् उक्तम्
- प्रादुरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः । इति । [भ्प् 10.3.8]
श्रुतिश् चात्र - स ब्रह्मणा सृजति स रुद्रेण विलापयति सोऽनुत्पत्तिर् अलय एव
हरिः परः परमानन्द इति महोपनिषदि[*एन्द्नोते #4] ॥
श्रीदेवकी-देवी श्री-भगवन्तम्
[28]
तथा उत्पत्ति-स्थिति-लयेत्य्-आदि-पद्ये - यद् रूपं ध्रुवम् अकृतम् इति । [भ्प्
5.25.9]
यस्य श्री-सङ्कर्षणस्य रूपं ध्रुवम् अनन्तं अकृतं चानादि । अतएव
वर्षाधिपोपासना-वर्णने भवेनापि तद्-रूपम् अधिकृत्योक्तम् --
न यस्य माया-गुण-चित्त-वृत्तिभिर्
निरीक्षतो ह्य् अण्व् अपि दृष्टिर् अज्यते । इति [भ्प् 5.17.19]
यत् तु तत्र तद् एव रूपम् अधिकृत्य श्री-शुकेन - या वै कला भगवतस्
तामसीति [भ्प् 5.25.1] । तथा भवानीनाथैर् इति गद्ये [भ्प् 5.17.16] तामसीं
मूर्तिम् इत्य् उक्तम्, तन् निजांश-शिव-द्वारा तमो-गुणोपकारकत्वेन ज्ञेयम्
। उत्पत्ति-स्थिति-लयेत्य्-आदि-पद्यानन्तरं श्री-शुकेनैव श्री-नारद-वाक्यम्
अनुक्तम् -- मूर्तिं न पुरु-कृपया बभार सत्त्वं संशुद्धं सदसद् इदं
विभाति यत्र । [भ्प् 5.25.10] । तस्मान् नित्यम् एव सर्वं भगवद्-रूपम् ।
तथा च पाद्मोत्तर-खण्डे तत्-स्तुतिः - अनादि-निधनानन्त-वपुषे विश्व-
रूपिणे । इति ।
यद् अत्र स्कान्दादौ क्वचिद् भ्रामकम् अस्ति तत् तु तत् तत् पुराणानां तामस-
कल्प-कथामयत्वात् तत्-तत्-कल्पेषु च भगवता स्व-महिमावरणाद्
युक्तम् एव तद् इति । श्री-भागवतेनापि - एवं वदन्ति राजर्षे [भ्प् 10.77.30]
इत्य् आदिना तादृशं मतं न मतम् । तद् इदं तु श्री-कृष्ण-सन्दर्भे विशिष्य
स्थापयिष्यामः । स्व-मतं तु - सत्यं शौचं दया क्षान्तिर् इत्य् आदिना [भ्प्
1.16.27] श्री-पृथिवी-वाक्येन कान्ति-मह-ओजो-बलानाम् अपि स्वाभाविकत्वम्
अव्यभिचारित्वं दर्शयता दर्शितम् । नष्टे लोक[*एन्द्नोते #5] इत्य् आदिना
[भ्प् 10.3.25] श्री-देवकी-वाक्येन च । तस्मात् साधूक्तं यद् रूपं ध्रुवम्
अकृतम् इति ॥ श्री-शुकः
[29]
विभुत्वम् आह -
न चान्तर् न बहिर् यस्य न पूर्वं नापि चापरम् ।
पूर्वापरं बहिश् चान्तर् जगतो यो जगच् च यः ॥
तं मत्वात्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम् ।
गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ [भ्प् 10.9.13-14]
टीका च - बन्धनं हि बहिः-परीतेन दाम्ना अन्तरावृतस्य भवति । तथा
पूर्वापर-विभागवतो वस्तुनः पूर्वतो दाम धृत्वा परतः परिवेष्टनेन
भवति । न त्व् एतद् अस्तीत्य् आह न चान्तर् इति । किं च व्यापकेन व्याप्यस्य
बन्धो भवति । तच् चात्र विपरीतम् इत्य् आह पूर्वापरम् इति । किं च तद्-
व्यतिरिक्तस्य चाभावान् न बन्ध इत्य् आह - जगच् च यः इति । तं मर्त्य-
लिङ्गम् अधोक्षजम् आत्मजं मत्वा बबन्धेति । इत्य् एषा ॥
जगच् च य इत्य् अत्र यस्य कारणस्य व्यतिरेकेण कार्यस्य जगतो व्यतिरेकः
स्याद् इति । तद् अनन्यस्य जगतस् तच्-छक्त्येव शक्तेस् तद्-अंशांश-रूपया रज्ज्वा
कथं बन्धः स्यात् । न हि वह्निम् अर्चिषो दहेयुर् इति भावः ।
तं मर्त्य-लिङ्गम् इत्य् आदौ । टीका-कृताम् अयम् अभिप्रायः । ननु सर्व-
व्यापकं कथं बबन्ध, न हि ब्रह्माण्ड-गोलकादिकम् अपि कश्चिद्
बध्नाति । तत्राह मर्त्य-लिङ्गं मनुष्य-विग्रहम् । तर्हि कथं
व्यापकत्वम् ? तत्राह, अधोक्षजम् अधः कृतम् इन्द्रियजं ज्ञानं येन तं
सर्वेन्द्रिय-ज्ञानागोचरं प्रत्यक्षादि-प्रमाणैर् अचिन्त्य-स्वरूपम् इत्य् अर्थः
। तस्मात् तद्-आकारत्वेऽपि तस्मिन् विभुत्वम् अस्त्य् एवेति भावः । अधोक्षजत्वाद्
एवाव्यक्तत्वम् अपि व्याख्यातम् इति तन् नोद्धृतम् ।
ननु मनुष्य-विग्रहत्वेऽप्य् अपरित्यक्त-विभुत्वं कथं मातुर् नास्फुरत्
? तत्राह - आत्मजं मत्वेति । वत्सलाद्य्-अभिध-प्रेम-रस-विशेषस्य
स्वभावोऽयम् । यद् असौ स्वानन्द-पूरेण तस्य तादृशत्वं प्रत्य् अनुभव-
पद्धतिम् आवृणोतीत्य् अर्थः । इत्थं चातद्-वीर्य-कोविदत्वं तस्या
माहात्म्यम् एव तं रज्जुभिर् बद्धम् अपि कर्तुस् तस्य प्रेम-
रसस्यानुभाव-रूपत्वात् । तद् उक्तम् -- नेमं विरिञ्चो न भव इत्य् आदि [भ्प्
10.9.20] । प्राकृतं यथा इत्य् अनेन अधोक्षजम् इत्य् अनेन च, वस्तुनो
व्यापकत्वं मायया तु मर्त्य-लिङ्गत्वम् इत्य् अपि परिहृतम् ।
यद् धि तर्क-गोचरो भवति, तत्रैव कदाचिद् असम्भव-रीति-दर्शनेन
साभ्युपगम्यते, यत् तु स्वत एव तद्-अतीतं, तत्र तत्-स्वीकृतिर् अतीव-
मूर्खता । यथा बाडव-नाम्नो वह्नेर् जल-निधि-मध्य एव
देदीप्यमानतायाम् ऐन्द्रजालिकत्ता-स्वीकरणम् । श्रुतिश् च - अर्वाग् देवा अस्य
विसर्जनेनाथ को वेद यत आबभूवेत्य् आद्या ।
किं च यद् गतं बन्धनं तस्य श्री-विग्रहस्यैव व्यापकत्वं विवक्षितं
यत्तदोः [?] सामानाधिकरण्यात् तस्यास् तत्राकोविदत्वोपपादनत्वाच् च । तत्र
विग्रहत्वं परिच्छिन्नायाम् एव सम्भवति । कर-चरणाद्य्-आकार-सन्निवेशात्
। तस्माद् अस्यैव तस्मिन् परिच्छिन्नत्वं विभुत्वं च युगपद् एव । मूल-
सिद्धान्त एव परस्पर-विरोधि-शक्ति-शत-निधानत्वं तस्य दर्शितम् ।
दृश्यतेऽपि लोके त्रिदोषघ्न-महौषधीनां तादृशत्वम् ।
तथैव विभुत्वम् उक्तं ब्रह्म-संहितायां -
पन्थास् तु कोटि-शत-वत्सर-संप्रगम्यो
वायोर् अथापि मनसो मुनि-पुङ्गवानाम् ।
सोऽप्य् अस्ति यत्-प्रपद-सीम्न्य् अविचिन्त्य-तत्त्वे
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति [ब्रह्मस् 5.40] ॥
श्रुतिश् च मध्व-भाष्य-प्रमाणिता - अस्थूलोऽनणुर् अमध्यमो
मध्यमोऽव्यापको व्यापको हरिर् आदिर् अनादिर् अविश्वो विश्वः सगुणो निर्गुण
इति ।
तथैव नृसिंह-तापनी च - तुरीयम् अतुरीयम् आत्मानम् अनात्मानम् उग्रम्
अनुग्रम् वीरम् अवीरं महान्तम् अमहान्तं विष्णुम् अविष्णुं ज्वलन्तम्
अज्वलन्तं सर्वतो-मुखम् असर्वतो-मुखम् इत्य् [न्तु 2.3] आदिका ।
ब्रह्म-पुराणे -
अस्थूलोऽनुरूपोऽसाव् अविश्वो विश्व एव च ।
विरुद्ध-धर्म-रूपेऽसाव् ऐश्वर्यात् पुरुषोत्तम ॥ इति ॥
तथैव दृष्टं श्री-विष्णु-धर्मे -
परमाण्व्-अन्त-पर्यन्त-
सहस्रांशाणु-मूर्तये ।
जठरान्तायुतांशान्त-
स्थित-ब्रह्माण्ड-धारिणे ॥ इति ॥
अतः श्री-गीतोपनिषदश् च -
मया ततम् इदं सर्वं
जगद् अव्यक्त-मूर्तिना ।
मत्-स्थानि सर्व-भूतानि
न चाहं तेष्व् अवस्थितः ॥
न च मत्-स्थानि भूतानि
पश्य मे योगम् ऐश्वरम् ।
भूत-भृन् न च भूत-स्थो
ममात्मा भूत-भावनः ॥ इति । [गीता 9.4-5]
अव्यक्त-मूर्तिनेति तादृश-रूपत्वाद् बुद्धि-वैभवागोचर-स्वभाव-
विग्रहेणेत्य् अर्थः ॥ श्री-शुकः
[30]
तद् एवं परिच्छिन्नस्यैव तद्-आकारस्य विभुत्वं पुनर्-विद्वद्-
अनुभ्वएनोक्त-न्यायेन दर्शयितुम् प्रकरणम् आरभ्यते । तत्रैकादश-
पद्यान्य् आह -
क्वाहं तमो-महद्-अहं-ख-चराग्नि-वार्-भू-
संवेष्टिताण्ड-घट-सप्त-वितस्ति-कायः ।
क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या-
वाताध्व-रोम-विवरस्य च ते महित्वम् ॥ [भ्प् 10.14.11]
स्पष्टम् ॥
[31]
उत्क्षेपणं गर्भ-गतस्य पादयोः
किं कल्पते मातुर् अधोक्षजागमे ।
किम् आस्तिनास्ति-व्यपदेश-भूषितं
तवास्ति कुक्षेः कियद् अप्य् अनन्तः ॥ [भ्प् 10.14.12]
अतः सर्वस्य तव कुक्षि-गतत्वेन ममापि तथात्वान् मातृवद् अपराधः
सोढव्य इति भावः ।
[32]
किं च विशेषतस् तु त्वत्तो यज् जन्म प्रसिद्धम् इत्य् आह -
जगत्-त्रयान्तोदधि-सम्प्लवोदे
नारायणस्योदर-नाभि-नालात् ।
विनिर्गतोऽजस् त्व् इति वाङ् न वै मृषा
किन्त्व् ईश्वर त्वन् न विनिर्गतोऽस्मि ॥ [भ्प् 10.14.13]
तथापि त्वत् त्वत्तः किं तु नोत्पन्नोऽस्मि ह अपि तु त्वत्त एवोत्पन्नोऽस्मीत्य्
अर्थः ।
[33]
ननु यद्य् अहं प्रलयोदधि-शायी नारायणः स्यां, तर्हि मत्तस् त्वम्
उत्पन्नोऽसीत्य् अपि घटते । तत् त्व् अन्यथैवेत्य् आशङ्क्याह -
नारायणस् त्वं न हि सर्व-देहिनाम्
आत्मास्य् अधीशाखिल-लोक-साक्षी ।
नारायणोऽङ्गं नर-भू-जलायनात्
तच् चापि सत्यं न तवैव माया ॥ [भ्प् 10.14.14]
हे अधीश ईशस्य सर्वान्तर्यामिणो नारायणस्याप्य् उपरि वर्तमान, हे
भगवन्न् इत्य् अर्थः । हि निश्चितं स नारायणस् त्वं, नासि, किन्तु नारायणोऽसौ
तविवाङ्गम् अंशः । यद्यप्य् एवम् अथापि मम तद्-अङ्गोत्पन्नत्वाद् अङ्गिनस्
त्वत्त एवोत्पत्तिर् इति भावः । कथम् असौ नारायण उच्यते । कथं वा मम
तस्माद् वैलक्षण्यम् ? तत्रह -
योऽसौ देहिनाम् आत्मा अन्तर्यामि-पुरुषः । अतएव नारस्य जीव-समूहस्य
अयम् आश्रयो यत्रेति तस्य नारायणत्वं, साक्साद् भगवतस् तव तु तद्
अन्तर्यामितायाम् अप्य् औदासीन्यम् इति भावः । किं च, अखिल-लोक-साक्षी,
यस्मात् अखिलं लोकं साक्षात् पश्यति, तस्मात् । नारम् अयते जानातीति
नारायणोऽसौ, त्वं पुनस् तेनांशेनैव तद्-द्रष्टा, न तु साक्षाद् इति तस्माद्
विलक्षण इत्य् अर्थः । तर्हि स नारायणस् त्वं न भवसीति ममाप्य् अन्यथा
नारायणत्वम् अस्तीति भवताभिप्रेतं, तत् कथम् ? इत्य् अस्योत्तरं तेनैव
सम्बोधनेन व्यञ्जयति, अधीशेति । ईशः प्रवर्तकः ।
ततश् च नारस्य अयनं प्रवृत्तिर् यस्मात् स नारायणः । ततोऽप्य्
अधिकैश्वर्याद् अधीशस् त्वम् अपि नारायणः । यथा मण्डलेश्वरोऽपि नृपतिस्
तेषाम् अधिपोऽपि नृपतिर् इति । श्री-कृष्णस्यैव साक्षात् स्वयं भगवत्त्वेन
तस्माद् अपि परत्वम् । कृष्ण-सन्दर्भे प्रबन्धेन दर्शयिष्यते ।
ननु, नराज् जातानि तत्त्वानि नाराणीति विदुर् बुधाः । तस्य तान्य् अयनं पूर्वं
तेन नारायणः स्मृतः इति । तथा,
आपो नारा इति प्रोक्ता आपो वै नर-सूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥
इति तस्यापि नारायणत्व-मन्मथाप्रसिद्धम् इत्य् आशङ्क्याह - नर-भू-
जलायनात् तच् चापीति । नराद् उद्भूतयेऽर्थास् तथा नराज् जातं यज् जलं, तद्-
अयनात् यच् च तच् चापि नारायणत्वं भवति तर्हि कथं प्रसिद्धि-
परित्यागेनान्यथा निर्वक्षीत्य् अत आह सत्यं नेति । तत् प्रलयोदधि-जलाद्य्-
आश्रयत्वं सत्यं न, किन्तु तथा ज्ञानं तवैव मायेत्य् अर्थः । मायात्र
प्रतारण-शक्तिः, माया दम्भे कृपायां चेति विश्व-प्रकाशात् । दुर्वितर्क-
स्वरूप-शक्त्यैव परिच्छिन्नापरिच्छिन्नायास् त्वन्-मूर्तेर् जलादिभिर्
अपरिच्छेदाद् इति भावः ।
श्लोक-चतुष्टयेऽस्मिन् यस्य नारायणस्यान्ततं मद्-आदिकं सर्वम् एव जगत्,
सोऽपि तवान्तर्भूत इति तात्पर्यम् । नारायणस्य तादृशत्वे मन्त्र-वर्णः -
यच् च किञ्चिज् जगत् सर्वं दृश्यते श्रूयतेऽपि वा ।
अन्तर् बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः ॥ इति ॥
[34]
तन्-मूर्तेर् जलादिभिर् अपरिच्छेदे स्वानुभवं प्रमाणयति ---
तच् चेज् जल-स्थं तव सज्-जगद्-वपुः
किं मे न दृष्टं भगवंस् तदैव ।
किं वा सुदृष्टं हृदि मे तदैव
किं नो सपद्य् एव पुनर् व्यदर्शि ॥ [भ्प् 10.14.15]
जगद्-आश्रय-भूतं नारायणाभिधं तव तद्-वपुः जलस्थम् एवेत्य् एवं
यदि सत् सत्यं स्यात् तर्हि तदैव कमल-नाल-मार्गेणान्तः प्रविश्य
संवत्सर-शतं विचिन्वतापि मया हे भगवन्न् अचिन्त्यैश्वर्य तत् किम् इति न
दृष्टम् ।
यदि च तद्-वपुर् माया-मात्रं, माया स्याच् छाम्बरी-बुद्ध्योर् इति
त्रिकाण्ड-शेष-रीत्या मिथ्याभिव्यञ्जक-कला-विशेष-दर्शित-मात्रं स्यात् तर्हि
किं वा रूढ-समाधि-योग-विरूढ-बोधेन मया हृदि तदैव सुष्ठु
सच्चिदानन्द-घनत्वेन दृष्टं, समाध्य्-अनन्तरं किं वा पुनः सपद्य्
एव नो व्यदर्शि न दृष्टम् । अतस् त्वन्-मूर्तेर् मायामयत्वं देश-विशेष-
कृत-परिच्छेदश् च सत्यो न भवतीत्य् अर्थः । एतद्-व्याख्यान-निदानं
तृतीय-स्कन्धेतिहासो द्रष्टव्यः ।
[35]
अत्र तच् चापि सत्यम् इत्य् अत्र, तच् चापि अङ्गं सत्यम् एव, न तु विराड्
अवन्मायेति तच् चेज् जलस्थम् इत्य् अत्र च, तज्-जलस्थं सद्-रूपं तव वपुर् यदि
जगत् स्यात्, प्रपञ्चान्तःपाति स्यात् इति व्याकुर्वन्ति । तस्माद् एवं
नारायणाङ्गकस्य भग्वद्-विग्रहस्य विश्वोऽपि प्रपञ्चोऽन्तर्भूत इति स्वयं
भगवता दर्शितम् । श्रीमत्या जनन्यैवानुभूतम् इत्य् आह --
अत्रैव मायाधमनावतारे
ह्य् अस्य प्रपञ्चस्य बहिः-स्फुटस्य ।
कृत्स्नस्य चान्तर् जठरे जनन्या
मायात्वम् एव प्रकटीकृतं ते ॥ [भ्प् 10.14.16]
अत्रैव तावत् श्री-कृष्णाख्ये मायोपशमनेऽवतारे प्रादुर्भावे, बहिश्
चान्तर्-जठरे च स्फुटस्य दृष्टस्य कृत्स्नस्य जगतः सम्बन्धे पूर्वोक्तं
यन् मायात्वम्, पर्पञ्चकृतत्वत्परिच्छेद्यत्वस्य मिथ्यात्वम् । तज्-जनन्या
जनन्यै ते त्वया प्रकटीकृतं दर्शितम् । तस्माद् भवान् जगद्-अन्तःस्थ एव,
जगत् तु भव-बहिर्-भूतम् इत्य् एवं माया-धर्मः । वस्तुतस् तु दुर्वितर्क-
स्वरूप-शक्त्या मध्यमत्वेऽपि व्यापकोऽसीति भावः ।
[36]
माया-धर्मेनेति यद् भवता कृपया दृष्ट-प्रमाणेऽपि श्री-विग्रहे सर्वोऽपि
प्रपञ्चोऽन्तर्भूत इति दर्शितं तत् सत्यम् एवेति द्योतनार्थं भगवत्य् अप्य्
अन्यथा प्रतीति-निरसनार्थं च पूर्वम् एवार्थम् उपपादयति --
यस्य कुक्षाव् इदं सर्वं
सात्मं भाति यथा तथा ।
तत् त्वय्य् अपीह तत् सर्वं
किम् इदं मायया विना ॥ [भ्प् 10.14.17]
यस्य तव कुक्षौ सर्वम् इदं सात्मं त्वत्-सहितं यथा भाति, तत् सर्वम् इह
बहिर् अपि तथैव त्वयि भाति इत्य् अन्वयः ।
अयम् अर्थः - स्वस्य व्रजेऽन्तर्भूतता-दर्शनेनैव समं व्रजस्य स्वस्मिन्न्
अन्तर्भूततां दर्शयन् तच् चान्तर् बहिर् दर्शनं किं स्वप्न एतद् उत
देवमाया इत्य् आदौ [भ्प् 10.8.40] श्री-जनन्या एव विचारे स्वाप्निकत्व-
मायोलत्व-बिम्ब-प्रतिबिम्बत्वानामयोग्यत्वाद् एकम् एवेत्य् अभिज्ञापयन्, किं
स्वप्न इत्य् आदाव् एव यः कश्चन औत्पत्तिक आत्मयोग इत्य् [भ्प् 10.8.40] अनेन
चरम-पक्षावसितया दुर्वितर्क-स्वरूप-शक्त्यैव मध्यम-परिमाण-
विशेष एव सर्व-व्यापकोऽस्मीति स्वयम् एव भवान् जननीं प्रति युगपद्
उभयात्मकं निज-धर्म-विशेषं दर्शितवान् । अतएव द्वितीये गृह्णीत यद्
यद् उपबन्धम् अमुष्य माता इत्य् आदौ [भ्प् 2.7.30] प्रतिबोधितासीद् इत्य्
उक्तम् । तस्मात् तव कुक्षौ सर्वम् इदं यथा भाति, इह बहिर् अपि तथा, तद्-
अन्तर्भूतोऽपि तद्-व्यापकोऽसीति प्रकारेणैव तव मायया स्व-
याथार्थ्यावरण-शक्त्या विना किं सम्भवति ? नैव सम्भवतीत्य् अर्थः
।
[37]
मयाप्य् एवम् एवानुभूतम् इत्य् आह --
अद्यैव त्वद् ऋतेऽस्य किं मम न ते मायात्वम् आदर्शितम्
एकोऽसि प्रथमं ततो व्रज-सुहृद्-वत्साः समस्ता अपि ।
तावन्तोऽसि चतुर्भुजास् तद् अखिलैः साकं मयोपासितास्
तावन्त्य् एव जगन्त्य् अभूस् तद् अमितं ब्रह्माद्वयं शिष्यते ॥ [भ्प् 10.14.18]
अद्यैव ते त्वया किम् अस्य विश्वस्य त्वद्-ऋते त्वत्तो बहिर् मायात्वं माययैव
स्फुरणं भवतीति मम मां प्रति न दर्शितम् ? अपि तु दर्शितम् एव । एतन्
नराकार-रूपात् त्वत्तो भैर् एवेदं जगद् इति यन् मुग्धानां भाति । तन्-
माययिवेत्य् अर्थः । कथम् एतद् आकार-रूपस्य मम तादृशत्वम् ? तत्राह,
एकोऽसि इति । व्रज-सुहृदादि-रूपं यद् यस्माद् आविर्भूतं तत् तद् अखिलम्
अधुना तिरोधान-समये येन पुनर् अनेन श्री-विग्रह-रूपेणावशिष्यते । तद्
द्वयं ब्रह्मैवेत्य् अर्थः । अशेष-प्रापञ्चिक-वस्तूनां प्रादुर्भाव-स्थिति-
तिरोभाव-दर्शनेन तल्-लक्षणाक्रान्तत्वाद् इति भावः । ततश् चास्य ब्रह्मत्वे
सिद्धे व्यापकत्वम् अपि सिध्यतीति तात्पर्यम् ।
[38]
ननु, सृष्ट्य्-आदौ ब्रह्म-विष्णु-महेश्वरा भिन्ना एव कारण-भूतास् तथा
स्थितौ केचिद् अन्येऽवताराश् च, तत् कथं ममैवं सर्व-कारणत्वम् उच्यते
। तत्राह --
अजानतां त्वत्-पदवीम् अनात्मन्य्
आत्मात्मना भासि वितत्य मायाम् ।
सृष्टाव् इवाहं जगतो विधान इव
त्वम् एषोऽन्त इव त्रिनेत्रः ॥ [भ्प् 10.14.19]
त्वम् इत्य् अस्य भासीत्य् अनेनान्वयः । कर्तृ-क्रिययोर् अन्वयस्यैव
प्राथमिकत्वात् । कर्त्रा चात्र त्वम् इत्य् एव मधम-पुरुषेण युज्यते ।
तस्माद् अत्र नैव शब्दः सम्बध्यते किन्त्व् एष इत्य् अत्रैव । ततश् च श्री-
विग्रहोऽमुः वाच्यः । स्वयं भगवत्त्वेनास्य गुणावतारत्वाभावात् । अद्यैव
त्वद्-ऋतेऽस्येत्य् अनेनाव्य्ववहित-वचनेन विरुद्धत्वाच् च ।
तस्माद् अयम् अर्थः - त्वत्-पदवीं तव तथाभूतं स्वरूपम् अजानताम्
अजानतः प्रति । आत्मा तत् तद् अंशिस्वरूपस् त्वम् एव । आत्मना तत्-तद्-अंशेन,
मायां सृष्ट्य्-आदि-निमित्त-शक्तिम् । अनात्मनि जड-रूपे महद्-आद्य्-उपादाने
प्रधाने । वितत्य प्रवर्त्य्, तत्-तत्-कार्य-भेदेन भिन्न इव भासीत्य् अर्थः
। अन्ते त्रि-नेत्र इवेति । वस्तुतस् त्वम् एव तत्-तद्-रूपेण वर्तसे, मूढास् तु
त्वत्तस् तान् पृथक् पश्यन्तीति भावः । यतो द्वितीये ब्रह्म-वाक्यम् -
सृजामि तन्-नियुक्तोऽहं हरो हरति तद्-वशः ।
विश्वं पुरुष-रूपेण परिपाति त्रि-शक्ति-धृक् ॥ इति [भ्प् 2.6.30]
[39]
अतो भगवत्-स्वरूपैकत्वेन न ब्रह्मादिवद् विष्णुर् इवेति निर्दिष्टम् । एवं
यथा गुणावतारास् तथान्येऽप्य् अवतारा इत्य् आह --
सुरेष्व् ऋषिष्व् ईश तथैव नृष्व् अपि
तिर्यक्षु यादःस्व् अपि तेऽजनस्य ।
जन्मायतां दुर्मद-निग्रहाय
विधातः यद् अनुग्रहाय च ॥ [भ्प् 10.14.20]
अजनस्य जन्मेत्य् अनेन प्रादुर्भाव-मात्रं जन्मेति बोधयति । ननु
ब्रह्मन् किम् अत्र विचारितं भवता, यद् एकस्या एव मम मूर्तेर् व्यापकत्वे
सत्य-न्यासां दर्शन-स्थानं न सम्भवतीति । तथा जड-वस्तूनां
घटादीनाम् एव प्राकट्य-प्रकारो लोके दृष्टः । कथं तद् इतर-
स्वभावानां चिद्-वस्तूनां मम श्री-मूर्त्यादीनाम् इति । यथा यावत्यो
विभूतयो मम भवता दृष्टास् तावतीभिर् एव भवान् विस्मितो, नापराः
सन्तीति सम्भावयन्न् इव तत्-परिमितताम् अधिगतवान् अस्तीति । तथा ये
ममांशाः पूर्वं बालवत्सादि-रूपास् त एव चतुर्भुजा अभवन्न् इति कस्यापि
रूपस्य कदाचिद् उद्भवः कस्यापि कदाचिद् इति ।
[40]
किं च, सत्य-ज्ञानानन्तानन्दैकरस-मूर्तित्वात् युगपद् एव सर्वम् अपि तत्-
तद्-रूपं वर्तत एव, किन्तु यूयं सर्वदा सर्वं न पश्यथेति तत्र च
यौगपद्यं कथम् इति तत्राह --
को वेत्ति भूमन् भगवन् परात्मन्
योगेश्वरोतीर् भवतस् त्रिलोक्याम् ।
क्व वा कथं वा कति वा कदेति
विस्तारयन् क्रीडसि योग-मायाम् ॥ [भ्प् 10.14.21]
क्व वा कथं वा कति वा कदा वा योग-मायां दुस्तर्कां चिच्-छक्तिं
विस्तारयन् तथा तथा प्रवर्तयन् क्रीडसीति भवत ऊतीर् लीलास् त्रिलोक्यां को
वेत्ति? न कोऽपीत्य् अर्थः । यस्यामतं तस्य मतं मतं यस्य न वेद स इति
[केनौ 2.3] भावः । अत्र दुर्ज्ञेयता-पुरस्कृतेनैव सम्बोधन-चतुष्टयेन
चतुर्षु युक्तिम् आह । हे भूमन् क्रोडीकृतानन्त-मूर्त्यात्मक-श्री-मूर्ते ।
अयं भावः - एकम् अपि मुख्यं भगवद्-रूपं युगपद् अनन्त-
रूपात्मकं भवति । तथैवाक्रूरेण स्तुतं बहु-मूर्त्य्-एक-मूर्तिकम् इति
[भ्प् 10.40.7] । तथा श्रुतिः - एकं सन्तं बहुधा दृश्यमानम् इति ।
ततो यदा यादृशं येषाम् उपासनाफलोदय-भूमिकावस्थानं, तदा
तथैव ते पश्यन्ति । तथा च - प्रज्ञान्तर-पृथक्त्ववद् दृष्टिश् च तद् उक्तिम्
इत्य् अत्र ब्रह्म-सूत्रे [व्स् 3.3.50] मध्व-भाष्यम् - उपासनाभेदाद् दर्शन-
भेद इति दृष्टान्तश् च । यथैकम् एव पट्टवस्त्र-विशेष-पिच्छावयव-
विशेषादि-द्रव्यं नाना-वर्णमय-प्रधानैक-वर्णम् अपि कुतश्चित् स्थान-
विशेषाद् दत्त-चक्षुषो जनस्य केनापि वर्ण-विशेषेण प्रतिभातीति ।
अत्राखण्ड-पट्ट-वस्त्र-विशेषादि-स्थानीयं निज-प्रधान-भासान्तर्-
भावित-तत्-तद्-रूपान्तरं श्री-कृष्ण-रूपं, तत्-तद्-वर्ण-च्छवि-स्थानीयानि
रूपान्तराणीति ज्ञेयम् । यथा श्री-नारद-पञ्चरात्रे -
मणिर् यथा विभागेन नील-पीतादिभिर् युतः ।
रूप-भेदम् अवाप्नोति ध्यान-भेदात् तथा विभुः ॥ इति
मणिर् अत्र वैदुर्यं नील-पीतादयस् तद्-गुणाः । तद् एवं क्वेत्य् अय युक्तिर्
उक्ता । एवम् एव श्री-वामनावतारम् उपलक्ष्य श्री-शुक-वाक्यम् -
यत् तद् वपुर् भाति विभूषणायुधैर्
अव्यक्त-चिद्-व्यक्तम्म् अधारयद् धरिः ।
बभूव तेनैव स वामनो बटुः
संपश्यतोर् दिव्य-गतिर् यथा नटः ॥ [भ्प् 8.18.12]
अर्थश् चायम् - यद् वपुः शरीरं न केनापि व्यज्यते या चित् पूर्णानन्दस् तत्-
स्वरूपम् एव यद् विभूषणायुधैर् भाति । तद् वपुस् तदा प्रपञ्चेऽपि
व्यक्तं यथा स्यात् तथा अधारयत् स्थापितवान् । पुनश् च तेनैव वपुषा
वामनो बटुर् बभूव हरिः । एव-कारेण परिणाम-वेषान्तर-योगादिकं
निषिद्धम् । कदा ? पित्रोः सम्पश्यतोः । तेनैव वपुषा तद्-भावे हेतुः ।
दिव्याः परम् अचिन्त्याः यद् गतं भवच् च भविष्यच् च इत्य् आदि श्रुतेः ।
स्वस्मिन्न् एव नित्य-स्थितान् नाना-संस्थानां प्रकाशना-प्रकाशन-रूपा
गतयश् चेष्टा यस्य सः ।
तत्रालक्सित-स्वधर्म-मात्रोल्लासांशे दृष्टान्त-लेशः, यथा नट इति । नटोऽपि
कश्चिद् आश्चर्यतमः दिव्या परम-विस्मापिका गतिर् हस्तक-रूपा चेष्टा यस्य
तथाभूतः सन् । तेनैव रूपेण वैषम्यादिकम् अनुरीकृत्यापि नानाकारतां
यथा दर्शयति । स्वर्ग्यो नटो वा दिव्य-गतिः । ततश् च तत्-तद्-अनुकरणं
तस्यात्यन्त-तद्-आकारम् एव भवति । अत्र परमेश्वरं विना अन्यस्य
सर्वांशे तादृशत्वाभावात् न च दृष्टान्ते खण्डत्व-दोषः प्रपञ्चनीयः
। यथा भक्षित-कीट-परिणाम-लाला-जात-तन्तु-साधनोऽप्य् ऊर्ण-नाभः
परमेश्वरस्य जगत्-सृष्टाव् अनन्य-साधकत्वे दृष्टान्तः श्रूयते, यथोर्ण-
नाभिर् हृदयाद् इत्य् आदि [भ्प् 11.9.21] तद्वत् ।
तद् एवं श्री-ब्रह्मणापि सर्व-रूप-सद्-भावाभिर्पायेणैवोक्तम् -
त्वं भक्ति-योग-परिभावित-हृत्-सरोज
आस्से श्रुतेक्षित-पथो ननु नाथ पुंसाम् ।
यद् यद्-धिया त उरुगाय विभावयन्ति
तत् तद् वपुः प्रणयसे सद्-अनुग्रहाय ॥ इति [भ्प् 3.9.11]
प्रणयसे प्रकर्षेण नयसि प्रकटयसि । श्रुतेक्सित-पथ इत्य् अनेन
कल्पनाया निरस्तत्वात् । सर्व-रूपत्वेऽपि भक्तानभिरुचित-रूपत्वेऽपवादः
श्री-कर्दम-वाक्येन -
तान्य् एव तेऽभिरूपाणि रूपाणि भगवंस् तव ।
यानि यानि च रोचन्ते स्व-जनानाम् अरूपिणः ॥ [भ्प् 3.24.30]
यानि यानि च त्वदीय-स्वभक्तेभ्यो रोचन्ते तानि नान्येव तव रूपाणि ते तव
अभिरूपाणि योग्यानि, नान्यानीत्य् अर्थः । अन्यानि च, यादृशं रन्तिदेवाय
कुत्सित-रूपं प्रपञ्चितं तादृशानि ज्ञेयानि । तादृशस्य च मायिकत्वेअम् एव
हि तत्रोक्तम् -
तस्य त्रिभुवनाधीशाः फलदाः फलम् इच्छताम् ।
आत्मानं दर्शयाञ्चक्रुर् माया विष्णु-विनिर्मिता ॥ इति [भ्प् 9.21.15]
टीका च - त्रिभुवनाधीशाः ब्रह्मादयः मायास् तदीय-धैर्य-
परीक्षार्थं प्रथमं मायया वृषलादि-रूपेण प्रतीताः सन्त इत्य् अर्थः
। इत्य् एषा ।
अनभिरूपत्वे हेतुः । अरूपिण इति । प्राकृत-रूप-रहितस्येति । टीका च -
अप्राकृतत्वेन कुत्सितत्वासम्भवाद् इति भावः ।
अथ प्रकृत-पक्षस्य कथं वेत्य् आदित्रय-युक्तयेऽवशिष्टं सम्बोधन-
त्रयं व्याख्यायते । हे भगवन्न् अचिन्त्य-शक्ते! अचिन्त्यस्य भगवन्-मूर्त्य्-
आद्याविर्भावस्यान्यथा-नुपपत्तेर् अचिन्त्या स्वरूप-शक्तिर् एव कारणम् इति
भावः । इयं कथं वेत्य् अस्य युक्तिः । तथा हे परमात्मन्! परेषां
प्रत्येकम् अप्य् अनन्त-शक्तीनां पुरुषाद्य्-अवताराणाम् आत्मन्न् अवतारिन् ।
त्वयि तु तासां सुतराम् अनन्तत्वात् । तद्-आविर्भाव-विभूतयः कति वा वाङ्-
मनसोऽगोचरत्वम् आपयेरन्न् इति भावः । इयं कति वेत्य् अस्य युक्तिः । तथा
हे योगेश्वर! एकस्मिन्न् अपि रूपे नाना-रूप-योजना-लक्षणाया योग-
नाम्न्याः स्वरूप-शक्तेस् तया वा ईशन-शील । अयं भावः - यथा तव
प्रधानं रूपं अन्तर्भूतानन्त-रूपं तथा तवांश-रूपं च । ततश् च
यदा तव यत्रांशे तत्-तद्-उपासना-फलस्य यस्य रूपस्य प्रकाशनेच्छा
तदैव तत्र तद्-रूपं प्रकाशसे इति । इयं कदेत्य् अस्य युक्तिः ।
[41]
तस्मात् तत् तत् सर्वम् अपि तस्मिन् श्री-कृष्ण-रूपेऽन्तर्भूतम् इत्य् एवम् अत्रापि
तात्पर्यम् उपसंहरति ।
तस्माद् इदं जगद् अशेषम् असत्-स्वरूपं
स्वप्नाभम् अस्त-धिषणं पुरु-दुःख-दुःखम् ।
त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते
मायात उद्यद् अपि यत् सद् इवावभाति ॥ [भ्प् 10.14.22]
यस्माद् एवं प्रपञ्चाप्रपञ्च-वस्तूनां सर्वेषाम् अपि तत्त्व-विग्रहोऽसि
तस्माद् एव नित्य-सुख-बोधन-लक्सणा या तनुस् तत्-स्वरूपेऽनन्ते त्वय्य् एव
शेषम् इदं जगद् अवभातीत्य् अन्वयः । कथम्भूतं सत् उद्यद् अपि यत्
मुहुर् उभव-तिरोभवच् च । यद्य् अस्मिन् मुहुर् जायते लीयते च तत् तस्मिन्न्
एवावभाति भुवि तद्-विकारे इवेति भावः । तर्हि किं मम विकारित्वं नेत्य्
आह । मायातो मायया त्वदीयाचिन्त्य-शक्ति-विशेषेण विकारादितस्यैव श्रुतेस्
तु शब्द-मूलत्वाद् इत्य् [व्स्. 2.1.17] आदौ परिणाम-स्वीकारात् । मुहुर् उद्भव-
तिरोभवत्वाद् एव स्वप्नाभं तत्-तुल्यं न त्व् अज्ञान-मात्र-कल्पितत्वाद् अपि
वैधर्म्याच् च न स्वप्नादिवद् इति [व्स्. 2.2.29] न्यायेन तथा अविद्या-वृत्तिक-
माया-कार्यत्वाच् च अस्त-धिषणं जीव-परमात्म-ज्ञान-लोप-कर्तृ ।
उभयस्माद् अपि हेतोः पुरु-दुःख-दुःखं तदीय-सुखाभासस्यापि
वस्तुनो दुःख-रूपत्वाद् विना त्वत्-सत्तया असत्-स्वरूपं शश-विषाण-तुल्यं
तद् एवं भूतम् अपि सद् इवानश्वरम् इवाभाति मुग्धानाम् इति शेषः ।
उपलक्षणं चैतद् व्यवहार-ज्ञानमय-महद्-आद्यात्मकत्वात्
ज्ञानोद्बोधकम् इव स्वर्गाद्यात्मकत्वात् मुखम् इव च । तद् एवम् अन्यस्य
तत्-परिच्छेद्यत्वात् स्वरूप-शक्त्यैव परिच्छिन्नम् अपरिच्छिन्नं च तवेदं
वपुर् इति प्रकरणार्थः ॥ 10।14॥ ब्रह्मा श्री-भगवन्तम्
[42]
तद् इत्थं मध्यमाकार एव सर्वाधारत्वाद् विभुत्वं साधितम् ।
सर्वगतत्वाद् अपि साध्यते -
चित्रं बतैतद् एकेन
वपुषा युगपत् पृथक् ।
गृहेषु द्व्य्-अष्ट-साहस्रं
स्त्रिय एक उदावहत् ॥ [भ्प् 10.69.2]
एतद् बत अहो चित्रं किं तत् । एक एव श्री-कृष्णो द्व्यष्ट-साहस्रं स्त्रीर् यद्
उदावहत् परिणीतवान् । ननु किम् अत्राश्चर्यं तत्राह । गृहेष्व् इति तत्-
सङ्ख्येषु सर्वेष्व् इति शेषः । भवतु ततोऽपि किं तत्राह । पृथक् पृथग् एव
स्थित्वा पाणि-ग्रहणादि-विवाह-विधिं कृतवान् । ननु क्रमश उद्वाहे
नासम्भवम् एतत् तत्राह युगपद् इति । ननु योगेश्वरोऽपि युगपन् नाना-
वपूंषि विधाय तद् विधातुं शक्नोति किम् अत्र योगेश्वराराध्य-चरणानां
युष्माकम् अपि चित्रं तत्राह । एकेन वपुषा इति । तर्हि कथम् अनेक-बाह्व्-
आदिकेन व्यापकेनैकेन वपुषा तत् कृतवान् । मैवम् ।
आसां मुहूर्त एकस्मिन्
नानागारेषु योषिताम् ।
सविधं जगृहे पाणिन्
अनुरूपः स्वमायया ॥ [भ्प् 3.3.8]
इति श्रीमद्-उद्धव-वाक्यादौ तत् तद् अनुरूपता-प्रसिद्धेः । इत्य् अभिप्रेत्य
पूर्वकेणैक-पदोपन्यासेन परिहरति पृथग् इति । एकेन नराकारेण वपुषा
पृथक्-पृथक्त्वेन दृश्यमानस् तथा विहितवान् । तस्माद् एकम् एव नर-
वपुर् यतो युगपत् सर्वदेशं सर्व-क्रियां च व्याप्नोति तस्मान् महद्-
आश्चर्यम् इति वाक्यार्थः ।
इत्थम् एव पञ्चमे लोकाधिष्ठातुः श्री-भगवद्-विग्रहस्य तेषाम् इत्य् आदि
गद्योपदिष्टस्य तादृशत्वं व्याख्यातं श्री-स्वामि-चरणैः । महा-विभूतेः
पारमैश्वर्यस्य पतित्वाद् एकयैव मूर्त्या समन्ताद् आस्त इति ।
अथो मुहूर्त एकस्मिन्
नानागारेषु ताः स्त्रियः ।
यथोपयेमे भगवान्
तावद्-रूप-धरो æव्ययः ॥ इत्य् [भ्प् 10.59.42]
अत्राप्य् अतस् तावद्-रूपत्वं नाम युगपत् तावत्-प्रदेश-प्रकाशत्वम् एवेति
व्याख्येयम् । न तु नारायणादिवद् भिन्नाकारत्वम् । यथोक्तम् -
अनेकत्र प्रकटता-
रूपस्यैकस्य यैकदा ।
सर्वथा तत् स्वरूपैव
स प्रकाश इतीर्यते ॥ इति [ल्भाग् 1.1.21][*एन्द्नोते #6]
एष एवान्यत्राकारस्य प्रकाशस्य च भेदो ज्ञेयः ॥ श्रीनारदः
[43]
तथैवाह ।
इत्य् आचरन्तं सद्-धर्मान्
पावनान् गृह-मेधिनाम् ।
तम् एव सर्व-गृहेषु
सन्तम् एकं ददर्श ह ॥ [भ्प् 10.69.25]
सर्व-गृहेषु तमे एव न तु तस्यांशान् । एकम् एव सन्तं न तु काय-व्यूहेन
बहु-रूपम् । एकं सन्तं बहुधा दृश्यमानम् इति श्रुतेः । न चान्तर् न
बहिर् यस्येत्य् आदिना [भ्प् 10.9.11] विभुत्व-सिद्धेश् च ह स्फुटम् एव ददर्श
भगवद्-दत्त-शक्त्या साक्षाद् एवानुभूतवान्, न तु केवलम् अनुमितवान्
नारद इति शेषः ।
[44]
अतएव -
कृष्णस्यानन्त-वीर्यस्य
योग-माया-महोदयम् ।
मुहुर् दृष्ट्वा ऋषिर् अभूद्
विस्मितो जात-कौतुकः ॥ [भ्प् 10.69.25]
तत्र च योगमाया दुर्घट-घटनी चिच्-छक्तिः । तृतीये [भ्प् 3.16.37]
सनकादीनां वैकुण्ठ-गमने योगमाया-शब्देन परमेश्वरे तु
प्रयुज्यमानेन चिच्-छक्तिर् उच्यते इति स्वामिभिर् अपि व्याख्यातम् अस्ति । जात-
कौतुको मुनिर् मुहुर् दृष्ट्वा विस्मितोऽभूत् । काय-व्यूहस् तावत् तादृशेष्व् अपि
बहुष्व् एव सम्भवति । तं विनापि मध्यमाकारेऽपि तस्मिन् सर्व-
व्यापकत्व अपूर्वम् इति तस्यापि विस्मयं हेतुर् नान्यथेति स्पष्टम् एव
यथोक्तं ज्ञेयम् । अनेन सर्वतः पाणि-पादं तद् इति तादृश्यां श्री-मूर्त्याम्
एव व्याख्यातं भवति । अतएव न स्थानतोऽपि परस्योभय-लिङ्गं सर्वत्र
हि [व्स्. 3.2.11] इति सूत्रं तत्त्व-वादिभिर् एवं योजितम् । स्थानापेक्षयापि
परमात्मनो न भिन्नं रूपं हि यस्मात् तद्-रूपत्वं सर्वत्रैव । सर्व-
भूतेष्व् एवम् एव ब्रह्म इत्य् आचक्षत इति श्रुतेः ।
एक एव परो विष्णुः सर्वत्रापि न संशयः ।
ऐश्वर्याद् रूपम् एकं च सूर्यवद् बधुधेयते ॥ इति मात्स्यात् ।
प्रतिदृशम् इव नैकधार्कम् एकं
समधिगतोऽस्मि विधूत-भेद-मोहः ॥ इति [भ्प् 1.9.42] भागवताच् चेति ।
एवं न भेदाद् इति चेन् न प्रत्येकम् अतद्-वचनाद् इत्य् [व्स्. 3.2.12] एतस्य अपि
चैवम् एकम् इत्य् [व्स्. 3.2.13] एतस्य च सूत्रस्य व्याख्यानं तद्-भाष्ये दृश्यम्
॥ श्री-शुकः॥43-44॥
[45]
तम् इमम् अहम् अजं शरीर-भाजां
हृदि हृदि धिष्ठितम् आत्म-कल्पितानाम् ।
प्रतिदृशम् इव नैकधार्कम् एकं
समधि-गतो ऽस्मि विधूत-भेद-मोहः ॥ [भ्प् 1.9.42]
तम् इमम् अग्रत एवोपविष्टं श्री-कृष्णं व्यष्ट्य्-अन्तर्यामि-रूपेण
निजांशेन शरीर-भाजां हृदि हृदि धिष्ठितम् ।
केचित् स्व-देहान्तर्-हृदयावकाशे
प्रादेश-मात्रं पुरुषं वसन्तम् ॥ [भ्प् 2.2.8] इत्य्-उक्त-दिशा तत्-तद्-रूपेण
भिन्न-मूर्ति-बद्ध-सन्तम् अपि एकम् अभिन्न-मूर्तिम् एव समधि-गतोऽस्मि
। अयं परमानन्द-विग्रह एव व्यापकः । स्वान्तर्-भूतेन निजाकार-
विशेषणान्तर्यामितया तत्र तत्र स्फुरतीति विज्ञानवान् अस्मि । यतोऽहं
विधूत-भेद-मोहः । अस्यैव कृपया दुरीकृतो भेद-मोहः । भगवद्-
विग्रहस्य व्यापकत्वासम्भावना-जनित-तन्-नानात्व-विज्ञान-लक्षणो मोहो
यस्य तथाभूतोऽहम् । तेषु व्यापकत्वे हेतुर् आत्म-कल्पितानाम् आत्मन्य् एव
परमाश्रये प्रादुष्कृतानाम् अवलोकनं प्रति यथैक एवार्को वृक्ष-
कुड्याद्य्-उपरि-गतत्वेन तत्रापि कुत्रचिद् अव्यवधानं सम्पूर्णत्वेन
सव्यवधानस् त्व् असम्पूर्णत्वेनानेकधा दृश्यते तथेत्य् अर्थः ।
दृष्टान्तोऽयम् एकस्यैव तत्र तत्रोदय इत्य् एतन् मात्रांशे । वस्तुतस् तु श्री-
भगवद्-विग्रहोऽचिन्त्य-शक्त्या तथा भासते । सूर्यस् तु दूरस्य
विस्तीर्णात्मनास्वभावेनेति विशेषः । अथवा तं पूर्व-वर्णित-स्वरूपम्
इमम् अग्रत एवोपविष्टं शरीर-भाजां हृदि हृदि सन्तम् अपि
समधिगतोऽस्मि । यद्यप्य् अन्तर्यामिरूपम् एतस्माद् रूपाद् अन्याकारं
तथाप्य् एतद् रूपम् एवाधुना तत्र तत्र पश्यामि । सर्वतो महा-
प्रभावस्यैतस्य रूपस्यादेश-भेदेऽप्य् अभेद-बोधनाय ज्ञेयः । न तु
पूर्णापूर्णत्व-विवक्षायै । अमीलित-दृग्-व्यधारयद् इति कृष्ण एवं
भगवति मनो-वाक्-काय-वृत्तिभिर् इत्य् उपक्रमोप-संहारादिभिर् अत्र श्री-
विग्रह एव प्रस्तूयते । ततो नेदं पद्यं ब्रह्म-परं व्याख्येयम् । तद्
एवं परिच्छिन्नत्वापरिच्छिन्न-त्वयोर् युगपत्-स्थितेर् अचरं चरम् एव चेत्य्
एतद् अप्य् अत्र सुसङ्गच्छते । अतो विभुत्वेऽपि लीलया याथाथ्यं सिद्ध्यति ॥
भीष्मः श्री-भगवन्तम्
[46]
एवं तस्य नित्यत्व-विभुत्वे साधिते । तथैव व्याख्यातं श्री-स्वामिभिर्
अष्टमस्य षष्ठे । अनाविराविरासेयं नाभूताभूद् इति ब्रुवन् ।
ब्रह्माभिप्रैति नित्यत्व-विभुत्वे भगवत्-तनोर् इति । तथा हि श्लोक-द्वयं
तट्-टीका च --
अजात-जन्म-स्थिति-संयमाया-
गुणाय निर्वाण-सुखार्णवाय ।
अणोर् अणिम्ने ऽपरिगण्य-धाम्ने
महानुभावाय नमो नमस् ते ॥
रूपं तवैतत् पुरुषर्षभेज्यं
श्रेयो ऽर्थिभिर् वैदिक-तान्त्रिकेण ।
योगेन धातः सह नस् त्रि-लोकान्
पश्याम्य् अमुष्मिन्न् उ ह विश्व-मूर्तौ ॥ [भ्प् 8.6.8-9] इतीदम् ।
श्री-मूर्तेर् अयं आविर्भाव एव नत्वस्मद्_अदि-वज् जन्मादि तदास्तीत्य् आह -
न जाता जन्मादयो यस्य । कुतः ? अगुणाय अतो निर्वाण-सुखस्यार्णवाय
अपीअर-मोक्ष-सुख-रूपायेत्य् अर्थः । तथापि अणोर् अणिम्न अतिसूक्ष्माय
दुर्ज्ञातत्वात् । वस्तुतस् तु अपरिगण्यम् इयत्तातीतं धाम मूर्तिर् यस्य तस्मै
। न चैतद् असम्भावितम् । यतो महान् अचिन्त्योऽनुभावो यस्य । तन्-मूर्तेः
सनातनत्वम् अपरिमेयत्वं चोपपादयत्ति रूपम् इति ।
हे पुरुषर्षभ! हे धातः ! एतत् तव रूपं वैदेकेन तान्त्रिकेण च
उपायेन श्रेयोभिः सदा इज्यं पूज्यं अतो नेदम् अपूर्वं जातम् इति भावः ।
ननु यूयं देवाः पूज्यत्वेन प्रसिद्धाः सत्यं सर्वेऽप्य् अत्रैवान्तर्भूता इत्य्
आह । उ अहो ह स्फुटम् अमुष्मिंस् त्वयि नोऽस्मांस् त्रिलोकांश् च सह पश्यामि
। तत्र हेतुः । विश्वं मूर्तौ यस्य अतस् तवैतद् रूपं परिच्छिन्नम् अपि न
भवतीत्य् अर्थः । इत्य् एषा ।
अत्र निर्वाण-सुखार्णवायेति अर्णवत्व-रूपकेण निर्वाण-सुख-मात्रत्वं
निरस्य ततोऽप्य् अधिक-सहासुखत्वम् दर्शितम् । तद् उक्तं श्री-ध्रुवेन --
या निर्वृतिस् तनु-भृतां तव पाद-पद्म-
ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् ।
सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्
किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ इति [भ्प् 4.9.10]
तथा अणोर् अणिम्ने इति प्रोच्य अपरिमेय-धाम्न इत्य् उक्तेर् अचिन्त्य-शक्तित्व-
रूपेण महानुभावत्वेन सर्व-परिणामाधारत्वं तव दर्शितम् इति ज्ञेयम्
॥
[47]
अथ स्थूल-सूक्ष्मातिरिक्तताम् आह द्वाभ्याम् ।
स वै न देवासुर-मर्त्य-तिर्यङ्
न स्त्री न षण्ढो न पुमान् न जन्तुः
नायं गुणः कर्म न सन् न चासन्
निषेध-शेषो जयताद् अशेषः ॥ [भ्प् 8.6.24]
एवं गजेन्द्रम् उपवर्णित-निर्विशेषं
ब्रह्मादयो विविध-लिङ्ग-भिदाभिमानाः
नैते यदोपससृपुर् निखिलात्मकत्वात्
तत्राखिलामर-मयो हरिर् आविरासीत् ॥ [भ्प् 8.6.30]
यस्य ब्रह्मादयो देवा[*एन्द्नोते #7] इत्य् आदि प्राक्तन-पद्य-द्वयेन
यस्मात् सर्व-कारण-कारणत्वं व्यञ्जितं तस्माद् देवादीनां मध्ये कोऽपि
न भवति । वैलक्षण्यं सात्त्विकत्व-भौतिकत्वादि-हीनतैव स्त्रीत्व-
पुरुषत्व-हीनता च प्राकृत-तत्-तद्-धर्म-राहित्यम् । अतएव न षण्ड इत्य्
उक्तम् । तस्मान् न कोऽपि जन्तुः । कारण-भूतः सत्त्वादिर् गुणः पुण्य-पाप-
लक्षणं कर्म च नेत्य् आह । नायं गुणः कर्मेति । तयोर् अपि प्रवर्तकत्वाद्
इति भावः । किं बहुना, यद् अत्र सत् स्थूलम् असत् सूक्ष्मं तद् एकम् अपि न
भ्वति स्व-प्रकाश-रूपत्वाद् इति भावः । किन्तु सर्वस्य निषेधेऽवधित्वेन
शिष्यत इति शेषः । मायया तत्-तद्-अशेषात्मकश् च । जयतात् मद्-
विमोक्षणायाविर्भवत्व् इति ।
टीका च - एवम् उपवर्णितं निर्विशेषं देवादि-रूपं विना परं तत्त्वं येन
तं गजेन्द्रम् । विविध-लिङ्ग-भिदाभिमानाः । विविधा चासौ लिङ्ग-भिदा
देवादि-रूप-भेदश् च तस्याभिमानो येषाम् अतएव ते ब्रह्मादयो यदा
नोपजग्मुस् तत्र तदा निखिलात्मकत्वात् निखिलानां तेषां परमात्म-सुख-
रूपत्वात् तद्-विलक्षणो मायया अशेषात्मकत्वाद् अखिलामरमयो हरिर्
आविरासीद् इति ।
एवम् आविर्भावं प्रार्थयमाने श्री-गजेन्द्रे यद् रूपेणाविर्भूतं तत् खलु
तादृशम् एव भवितुम् अर्हतीति साधूक्तं स्थूल-सूक्ष्म-वस्त्व्-अतिरिक्तस् तव
श्री-विग्रह इति । अन्यथा त्व् अपाणि-पाद-रूपत्वेनैव तच् चेतस्याविर्भूय तद्
विदध्यात् । तद् उक्तं स्वेच्छामयस्येति । श्लोक-द्वयम् इदं
श्लोकान्तरव्यवहितम् अप्य् अर्थेनाव्यवहितत्वाद् युगलतयोपदध्रे ॥
प्रथमं गजेन्द्रः श्री-हरिम्, द्वितीयं श्री-शुकः
[48]
अथ प्रत्यग्-रूपतत्वम् अप्य् आह -
स त्वं कथं मम विभोऽक्ष-पथः
परात्मा योगेश्वरैः श्रुति-दृशामल-हृदि-भाव्यः ।
साक्षाद् अधोक्षज उरु-व्यवसनान्ध-बुद्धेः
स्यान् मेऽनुदृश्य इह यस्य भवापवर्गः ॥ [भ्प् 10.64.18]
टीका च - हे विभो स त्वं ममाक्ष-पथः लोचन-गोचरः एतच् चित्रम् इत्य्
अर्थः । किम् अत्राश्चर्यं तद् आह पर आत्मा अतएव योगेश्वरैर् अपि श्रुति-दृशा
अमल-हृदि विभाव्यश् चिन्त्यः । यतोऽधोक्षजः अक्षजम् ऐन्द्रियकं ज्ञानं
तद् अधः अर्वाग् एव यस्य सः । यस्य हि भवापवर्गो भवेत् तस्य भवान्
अनुदृश्यः स्यात् उरु-व्यसनेन कृकलास-भव-दुःखेन अन्ध-बुद्धेस् तु
मम एतच् चित्रम् इत्य् अर्थः । इत्य् एषा ।
दर्शन-कारणं तूक्तं नारायणाध्यात्मे -
नित्याव्यक्तोऽपि भगवान् ईक्ष्यते निज-शक्तितः ।
ताम् ऋते परमात्मानं कः पश्येतामृतं प्रभुम् ॥ इति ।
तादृश-शक्तेर् अप्य् उल्लासे तत्-कृपैव कारणम् । तद् उक्तं श्रुतौ --
न चक्षुषा पश्यति रूपम् अस्य
यम् एवैष वृणुते तेन लभ्यस्
तस्यैष आत्मा विवृणुते तनुं स्वाम् ॥ [कठौ 1.2.23]
न सन्दृशे तिष्ठति रूपम् अस्य । इत्य् आदिकं च कुत्रचित् । एवम् एव मोक्ष-
धर्मे नारायणीये नारदं प्रति श्री-श्वेतद्वीप-पतिनोक्तम् -
एतत् त्वया न विज्ञेयं रूपवान् इति दृश्यते ।
इच्छन् मुहूर्तान् नश्येयम् ईशोऽहं जगतो गुरुः ॥
माया ह्य् एषा मया सृष्टा यन् मां पश्यसि नारद ।
सर्वभूतगुणैर् युक्तं नैवं त्वं ज्ञातुम् अर्हसि ॥ [म्भ् 12.306.42-43]
यथाऽन्यो रूपवान् इति हेतोर् दृश्यते तथायम् अपीत्य् एतत् त्वया न ज्ञेयम् ।
ततश् च स्वय रूपित्वेऽप्य् अदृश्यत्वम् उक्त्वा निज-रूपस्याप्राकृतत्वम् एव
दर्शितम् । तद्-दर्शने च परम-कृपा-मय्य् अकुण्ढा ममेच्छैव कारणम्
इत्य् आह । इ
इच्छन्न् इति । नश्येयम् अदृश्यताम् आपद्येयम् । तत्र स्वातन्त्र्यं जगद्-
विलक्षणत्वं च हेतुम् आह - ईश इत्य् आदि । तथापि मां सर्व-भूत-गणैर्
युक्तं यत् पश्यसि तद् युक्तत्वेन यत् प्रत्येषि एषा माया मयैव सृष्टा
मम माययैव तथा भानम् इत्य् अर्थः । तस्मिन् नैवम् इत्य् आदि । मयात्र
प्रतारण-शक्तिः । तथा हि तत्रैव श्री-भाष्य-वचनम् ।
प्रीतस् ततोऽस्य भगवान् देव-देवः सनातनः ।
साक्षात् तं दर्शयामास दृश्यो नान्येन केनचिद् ॥ इति । [म्भ् 12.323.11]
तम् उपरिचरं वसुं प्रति स्वात्मानम् इति शेषः । तद्-अग्रे च वस्व्-आदि-
वाक्यम् ।
न शक्यः स त्वया द्रष्टुम् अस्माभिर् वा बृहस्पते ।
यस्य प्रसादं कुरुते स वै तं द्रष्टुम् अर्हति ॥ इति । [म्भ् 12.323.18]
तद् एवं श्रुताव् अप्य् अदृश्यत्वादयो धर्माः श्री-विग्रहस्यैवोक्ताः ।
श्रुत्यन्तरं च न चक्षुषा पश्यति रूपम् अस्य । इति ॥
नृपः श्री-भगवन्तम्
[49]
अतएव प्राकृतानि रूपादीनि निषिध्य अन्यानि सम्प्रतिपाद्यन्ते ।
न विद्यते यस्य च जन्म कर्म वा
न नाम-रूपे गुण-दोष एव वा
तथापि लोकाप्यय-सम्भवाय यः
स्व-मायया तान्य् अनुकालम् ऋच्छति ॥ [भ्प् 8.3.8]
अयम् अर्थः । अवस्थान्तर-प्राप्तिर् विकारः । तत्र प्रथम-विकारो जन्मेति
। अपूर्णस्य निज-पूर्त्य्-अर्था चेष्टा कर्मेति । मनोग्राह्यस्य वस्तुनो
व्यवहारार्थं केनापि सङ्केतितः शब्दो नामेति । चक्षुषा ग्राह्यो गुणो
रूपम् इति । सत्त्वादि-प्राकृत-गुण-निदानो द्रव्यस्योत्कर्ष-हेतुर्-धर्म-
विशेषो गुण इति प्रकृतिजे लोके दृश्यते । यस्य च सर्वदा स्वरूपस्थत्वात्
पूर्णत्वात् मनसोऽप्य् अगोचरत्वात् स्वप्रकाशत्वात् प्रकृत्य्-अतीत्वात् तानि न
विद्यन्ते ।
तथापि यस् तानि ऋच्छति प्राप्नोति तस्मै नम इत्य् [भ्प् 8.3.9] उत्तर-
श्लोकेनान्वयः । अतएव श्रुत्यापि - निष्कलं निष्क्रियं शान्तम् इत्य् आदौ [श्वेतु
6.19], अशब्दम् अस्पर्शम् अरूपम् अव्ययम् इत्य् आदौ [कठौ 1.3.15] च तन्
निषिध्यापि सर्व-कर्मा सर्व-कामः सर्व-गन्धः सर्व-रस इत्य् [छाउ
3.14.4] आदौ विधीयते । गुण-दोष इति अपरमार्थत्वाद् गुण एव दोष इत्य्
अर्थः । ततो रूढ-दोषस् तु सर्वथा न सम्भवत्य् एवेति वक्ष्यते । तथा च
कौर्मे -
ऐश्वर्य-योगाद् भगवान् विरुद्धार्थोऽभिधीयते ।
तथापि दोषाः परमे नैवाहार्यः कथञ्चन ।
गुणा विरुद्धा अपि तु समाहार्याश् च सर्वतः ॥ इति ।
अयम् आत्मापहत-पाप्मा । इत्य् आद्याः [छाउ 8.7.1] श्रुतयश् च ।
एतं संयद् वाम इत्य् आवक्षते एतं सर्वाणि वामानि नयति एष उ एव
भामणीः एष सर्वेषु वेदेषु भातीत्य् [छा 4.15.2] आद्या च । अतएव सर्व-
गन्ध इत्य् आदौ गन्धादि-शब्देन सौगन्ध्यादिकम् एवोच्यते । यदा तु
ऋच्छतिनान्वयस् तु गुणस्य दोषत्वेन रूपकम् अविवक्षितं श्रुति-विरुद्धत्वात्
परमार्थत्वेन प्रतिपादयिष्यमाणत्वाच् च ।
नन्व् एकत्र तेषां जन्मादीनां भावाभावयोर् विरोध इत्य् आशङ्क्य तद्-
विरोधे हेतुम् आह स्व-मायया इति । अन्यथानुपपत्ति-प्रमिता दुस्तर्क्या
स्वरूप-शक्तिर् एव तत्र हेतुः । अतएव स्वरूप-भूतत्वेन तेभ्यः
प्राकृतेभ्यो विलक्षणत्वात् तान्य् अपि न विद्यन्त इति च वक्तुं शक्यत इति
भावः । यथा शाङ्कर-शारीररके समाकर्षाद् इत्य् [व्स्. 1.4.15] अत्र नाम-
रूप-व्याकृत-वस्तु-विषयः स्वच्छन्दः प्रायेण प्रसिद्ध इति तद्-
व्यकरणाभावापेक्षया प्राग्-उत्पत्तेः सद् एव ब्रह्म-श्रुताव् असद् इत्य् उच्यते
इत्य् उक्तम् तथैव ज्ञेयम् ।
अतएव श्री-विष्णु-पुराणे - गुणांश् च दोषांश् च मुने व्यतीत इत्य् [विप् 6.5.83]
उक्त्वा पुनर् आह समस्त-कल्याण-गुणात्मको हीति [विप् 6.5.84] । तथा
ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः ।
भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ इति [विप् 6.5.79]
पाद्मोत्तर-खण्डे च -
योऽसौ निर्गुण इत्य् उक्तः शास्त्रेषु जगद्-ईश्वरः ।
प्राकृतैर् हेय-संयुक्तैर् गुणैर् हीनत्वम् उच्यते ॥ इति ।
न च स्व-माययेत्य् अन्यथार्थं मन्तव्यम् ।
विशुद्ध-विज्ञान-घनं स्व-संस्थया
समाप्त-सर्वार्थ-मयी वाञ्छितम् ।
स्व-तेजसा नित्य-निवृत्त-माया-
गुण-प्रवाहं भगवन्तम् ईमहि ॥ इति [?][*एन्द्नोते #8] श्री-नारद-
वाक्यात् ।
स्व-सुख-निभृतेद्यादि[*एन्द्नोते #9] । वक्तृ-हृदय-विरोधाच् च । ततः
सर्वथा चिच्-छक्त्या इत्य् अर्थः । अतः स्वामिभिर् अपि योग-माया-शब्देन चिच्-
छक्तिर् व्याख्याता ।
ननु प्राप्नोति कदाचित्कत्वम् अप्य् अवगम्यते, तत्राह - अनुकालं नित्यम् एव
प्राप्नोति, कदाचिद् अपि न त्यजतीत्य् अर्थः । स्वरूप-शक्ति-प्रकाशित्वस्य च
मिथो हेतुमत्ता ज्ञेया ।
ननु कथं जन्म-कर्मणोर् नित्यत्वम् ? ते हि क्रिये । क्रियात्वं च प्रति-
निजांशम् अप्य् आरम्भ-परिसमाप्तिभ्याम् एव सिध्यतीति ते विना स्व-स्वरूप-
हान्य्-आपत्तिः । नैष दोषः । श्री-भगवति सदिवाकारानन्त्यात्
प्रकाशानन्त्यात् जन्म-कर्म-लक्षण-लीलानन्त्याद् अनन्त-प्रपञ्चानन्त-
वैकुण्ठ-गत-तत्-तल्-लीला-स्थान-तत्-तल्-लीला-परिकराणां व्यक्ति-प्रकाशयोर्
आनन्त्याच् च । यत एवं सत्योर् अपि तत्-तद्-आकार-प्रकाश-गतयोस् तद्-आरम्भ-
समाप्त्योर् एकत्रिकत्र ते जन्म-कर्मणोर् अंशा यावत् समाप्यन्ते न
समाप्यन्ते वा तावद् एवान्यत्राप्य् आरब्धा भवतीत्य् एवं श्री-भगवति
विच्छेदाभावान् नित्ये एव तत्र ते जन्म-कर्मणी वर्तेते । तत्र ते क्वचित्
किञ्चिद् विलक्षणत्वेनारभ्येते ते क्वचिद् ऐकरूप्येण चेति ज्ञेयम् । विशेषण-
भेदाद् विशेषणैक्याच् च । एक एवाकारः प्रकाश-भेदेन पृथक् क्रियास्पदं
भवतीति । चित्रं बतैतद् एकेन वपुषा इत्य् आदौ प्रतिपादितम् ।
ततः क्रिया-भेदात् तत्-तत्-क्रियात्मकेषु प्रकाश-भेदेष्व् अभिमान-भेदश्
च गम्यते । तथा सति एकत्रैकत्र लीला-क्रम-जनित-रसोद्बोधश् च जायते
।
ननु कथं ते एव जन्म-कर्मणी वर्तेते इत्य् उक्तं पृथग्-आरब्धत्वाद् अन्ये
एव ते । उच्यते । काल-भेदेनोदितानाम् अपि समान-रूपाणां क्रियाणाम्
एकत्वम् । यथा शङ्कर-शारीरके । द्विर्-गो-शब्दोभयम् उच्चरितो न तु द्वौ
गो-शब्दाव् इति । तथैव द्विः पाकः कृतोऽनेन न तु द्विधा पाकः कृतोऽनेनेति
प्रतीत्या भविष्यति । ततो जन्म-कर्मणोर् अपि नित्यता युक्तैव ।
अतएवागमादाव् अपि भूत-पूर्व-लीलोपासन-विधानं युक्तम् । तथा चोक्तम्
मध्व-भाष्ये - परमात्म-सम्बन्धित्वेन नित्यत्वात् त्रिविक्रमत्वादिष्व् अप्य्
उपसंहार्यत्वं युज्यते इति । अनुमतं चैतत् श्रुत्या यद् गतं भवच् च
भविष्यच् चेत्य् अनयैव । उपसंहार्यत्वम् उपासनायाम् उपादेयत्वम् इत्य्
अर्थः । तत्र तस्य जन्मनः प्राकृतात् तस्माद् विलक्षणत्वं प्राकृत-
जन्मानुकरणेनाविर्भाव-मात्रत्वं क्वचित् तद्-अननुकरणेन वा ।
अजायमाना बहुधा विजायत इति श्रुतेः ।
तद् यथा --
देवक्यां देव-रूपिण्यां विष्णुः सर्व-गुहाशयः ।
आविरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः ॥ इति [भ्प् 10.3.8]
तथा च -
सत्यं विधातुं निज-भृत्य-भाषितं
व्याप्तित्वं च भूतेष्व् अखिलेषु चात्मनः ।
अदृश्यतात्य्-अद्भूत-रूपम् उद्वहन्
स्तम्भे सभायां न मृगं न मानुषम् ॥ इति [भ्प् 7.8.17]
कार्दमं वीर्यम् आपन्न इत्य् अत्र [भ्प् 3.24.6] श्री-कपिल-देवावतार-
प्रसङ्गे कर्दमस्य भक्ति-सामर्थ्य-वशीभूत इत्य् एव व्याख्येयम् ।
वीर्य-शब्द-न्यासस् तु प्रसिद्धं पुत्रत्वम् अपि श्लिष्टं भवतीत्य् एवम्
अर्थः । तथा कर्मणो वैलक्षण्यं स्वरूपानन्द-विलास-मात्रत्वम् । तद्
यथा लोकवत् तु लीला-कैवल्यम् इति [व्स् 2.1.33] । व्याख्यातं च तत्त्व-वादिभिः
। यथा लोके मत्तस्य सुखोद्रेकाद् एव नृत्यादि-लीला न तु प्रयोजनापेक्षया
एवम् एवेश्वरस्य । नारायण-संहितायां च -
सृष्ट्यादिकं हरिर् नैव प्रयोजनम् अपेक्ष्य तु ।
कुरुते केवलानन्दाद् यथा मत्तस्य नर्तनम् ॥
पूर्णानन्दस्य तस्येह प्रयोजन-मतिः कुतः ।
मुक्ता अव्याप्त-कामाः स्युः किम् उतास्य् अखिलात्मनः ॥ इति ।
न चोन्मत्त-दृष्टान्तेनासर्वज्ञत्व प्रसञ्जयितव्यम् । स्वरूपानन्दोद्रेकेण
स्व-प्रयोजनम् अननुसन्धायैव लीलायते इत्य् एतद् अंशेनैव स्वीकारात् ।
उच्छ्वास-प्रश्वास-दृष्टान्तेऽपि सुष्प्त्य्-आदौ तद्-दोषापातात् । तस्मात्
स्वरूपानन्द-स्वाभाविक्येन तल्-लीला । श्रुतिश् च - देवस्यैव स्वभावोऽयम्
आप्त-कामस्य का स्पृहा । इति ।
अत्र प्राकृत-सृष्ट्य्-आदि-गतस्य साक्षाद्-भगवच्-चेष्टात्मकस्य वीक्षणादि-
कर्मणो वस्तुतस् तु तथा-विधत्वे वैकुण्ठादि-गतस्य कैमुत्यम्
एवापतितम् । यथोक्तं नाग-पत्नीभिः अव्याकृत-विहाराय इति [भ्प् 10.16.47]
। अतएव श्री-शुकादीनाम् अपि तल्-लीला-श्रवणे रागतः प्रवृत्तिर् युज्यते ।
अतश् च --
एवं च जन्मानि कर्माणि ह्य् अकर्तुर् अजनस्य च ।
वर्णयन्ति स्म कवयो वेद-गुह्यानि हृत्-पतेः ॥ इति [भ्प् 1.3.35]
अत्र जन्म-गुह्याध्याय-पद्येऽप्य् एवम् एव व्याख्येयम् । यत्रेमे सद्-असद्-
रूपे [भ्प् 1.3.33-4] इत्य् आदिभ्याम् अव्यवहित-पद्याभ्यां यथा स्वरूप-
सम्यग्-ज्ञानेनैव कृतस्याविद्याकृतात्माध्यास-सद्-असद्-रूप-निषेधस्य
हेतोर् ब्रह्म-दर्शनं भवति । यथा च - मायोपरताव् एव स्वरूप-
सम्पत्तिर् भवति इत्य् उक्तम् । एवम् एव कवय आत्मारामा हृत्-पतेः
परमात्मनो जन्मानि कर्माणि च वर्णयन्ति । तत्-तत्-प्रतिषेधे तद्-उपरतौ
चैव सत्यां तज्-जन्म-कर्मानुभव-सम्पत्ती भवत इत्य् अर्थः । सम्पत्तिर्
अत्र साक्षाद् दर्शनम् । तस्मात् स्वरूपानन्दातिशयित-भगवद्-आनन्द-
विलास-रूपाण्य् एव तानीति भावः । अतएव प्राकृत-वैलक्षण्याद् अकर्तुर्
अजनस्य इत्य् उक्तम् । अतएव वेद-गुह्यान्य् अपि तानीति । यथा अक्रूर-स्तुतौ
त्वयोदितः [भ्प् 10.48.23-24] इत्य् आदि द्वयं टीकायाम् एवेत्थम् उत्थापितम् ।
ननु तर्हि ममावतारास् तच्-चरितानि च शुक्ति-रजत-वद् अविद्या-कल्पितान्य् एव
किम् ? नहि नहि इयं तु तव लीलेत्य् आह द्वयेन त्वयोदित इतीति ।
तथैव च भगवत्-स्वरूप-साम्येनोक्तं वैष्णवे -
नाम-कर्म-स्वरूपाणि न परिच्छेद-गोचरे ।
यस्याखिल-प्रमाणानं स विष्णुर् गर्भगस् तव ॥ इति । [विप् 5.2.19]
रूप-कर्मेति वा पाठान्तरम्[*एन्द्नोते #10] । इत्थम् एवाभिप्रेतं श्री-
गीतोपनिषद्भिः -
जन्म-कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । इति । [गीता 4.9]
तथा नाम्नो वैलक्षण्यं वाङ्-मनसागोचर-गुणावलम्बित्वेन स्वतः-
सिद्धत्वम् । तद् यथा वासुदेवाध्यात्मे - अप्रसिद्धेस् तद्-गुणानाम्
अनामासौ प्रकीर्तितः इति । ब्राह्मे - अनामा सोऽप्रसिद्धत्वाद् अरूपो भूत-
वर्जनात् इति ।
न यत्र नाथ विद्यन्ते नाम-जात्यादि-कल्पनाः ।
तद् ब्रह्म परमं नित्यम् अविकारि भवान् अज ॥
न कल्पनामृतेऽर्थस्य सर्वस्याधिगमो यथः ।
ततः कृष्णाच्युतानन्त-विष्णु-नामभिर् ईड्यसे ॥ इति ॥ [विप् 5.18.53-54]
एतद्-वैष्णव-वचनानन्तरम् अपि न विरुद्धम् । तथा हि । अत्रापाततः
प्रतीतार्थतायां कल्पना-शब्दो व्यर्थः स्यात् । नाम-जात्य्-आदयो न विद्यन्ते
। इत्य् अनेनैव विवक्षितार्थ-सिद्धेः । स्वयम् एव ब्रह्माजादि-शब्दानां
परमार्थ-प्रतिपादक-नामतया स्वीकृतश् च । अजाम् एकां लोहित-शुक्ल-
कृष्णाम् [श्वेतु 4.5] इत्य् आदिष्व् अजायमानत्व-लक्षण-जातिश् च दृश्यत एव ।
तथा नामादि-कल्पना न विद्यन्ते इत्य् उक्ता स्वयं कृष्णादि-नाम-कल्पनोक्तिर्
विरुद्धा स्यात् कल्पनया वा कथम् ईडयता स्यात् कल्पनाया अनियतत्वाच् च
कथं कृष्णादिनाम् अनियत्यम् उच्यते । तस्मान् नाम-कर्म-स्वरूपाणीत्य्
अनुसाराच् चायम् अर्थः । यथा यत्र नाम-जात्य्-आदीनां नामनि कृष्णादीनि
जातयो देवत्व-मनुष्यत्व-क्षत्रियत्वादि-लीलाः तदादीनां कल्पना न
विद्यन्ते ।
किन्तु स्व-संस्थया समाप्त-सर्वार्थम् इत्य् उक्त-दिशा स्वरूप-सिद्ध-नित्य-
शक्ति-विलास-रूपाण्य् एव तानीत्य् अर्थः । ततश् च यतो यस्मात् सर्वस्यापि
दृष्टस्य वस्तुनः कल्पनां नामादि-रचनामृते अधिगमो व्यवहारिक-
बोधो न भवति । ततस् तस्माद् एव हेतोः कल्पना-मयं नाम तन्-नामिनं
चार्थ सर्वम् अवज्ञाय निखिल-प्रमाण-परिच्छेदागोचरत्वेन वेदात्मतया
स्वतः-सिद्धैः कृष्णादि-नामोपलक्षणैः प्रसिद्धैर् एव नामभिः स्वतः-
सिद्धस् त्वम् एवेड्यसे मुनिभिर् वेदैश् च श्लाघ्यसे । न तु कल्पनामयैर्
अन्यैस् त्वम् अपि श्लाघ्यसे तादृश-महिमभिस् तैर् एव तव महिमा
व्यक्तीभवतीति । यद् वा । तैर् एवेड्यसे व्यक्त-माहात्मीक्रियस इति ।
अत्र यैः शास्त्रेऽतिप्रसिद्धैः श्री-भगवान् एव झटिति प्रतीतो भवति । येषां
च साङ्केत्यादाव् अपि तादृश-प्रभावः श्रूयते । तेषां स्वतः सिद्धत्वम्
अन्येषां कल्पनामयत्वं ज्ञेयम् । अथवा हे नाथ। यत्र नाम-जात्यादीनां
कल्पना न विद्यन्ते तत् कवल-विशेष-रूपं परमं ब्रह्म भवान् ।
तत्-तत्-कल्पनाया अविषयत्वे हेतुः । विशेषेण करोति लीलायत इति विकारि तथा
न भवतीत्य् अविकारि इति । तद्-रूपेण न जायते न प्रकटीभवतीति हे अजेति ।
ततः किम् अवलम्ब्य तत्र नाम-जात्य्-आदि-कल्पनाः क्रियन्ताम् इति भावः । तत्-
तत्-कल्पनां विना च सर्वस्याप्य् अर्थस्य वस्तु-मात्रस्याधिगम-मात्रं न
भवेत् । किम् उत तादृश-ब्रह्म-स्वरूपस्य भवतः । कल्पनामय-नाम-
जात्य्-आदयस् तु न कस्यापि स्वरूप-धर्मा भवन्ति यत एवं ततः
साङ्केत्यादिना भावितैर् अपि भवद्वत्-सर्व-पुरुषार्थ-प्रदैस् तत्-तद्-
विशेष-प्रतिपादकैः कृष्णादि-नामभिर् एव त्वम् ईड्यसे नित्य-सिद्ध-श्रुति-
पुराणादिभिः श्लाघ्यसे न तु निर्विशेषता-प्रतिपादकैर् नितरां
कल्पनामयैर् इत्य् अर्थः ।
किन्तु कृष्णादीनां चतुर्णां नाम्नां उपलक्सणत्वम् एव ज्ञेयम् ।
नारायणादि-नाम्नाम् अपि साङ्केत्यादौ तथा प्रभाव-श्रवणात् । वर्ण एव
तु शब्द इति भगवान् उपवर्ष इत्य् अनेन तस्य च नित्यत्वाद् इत्य् अनेन च
न्यायेन वर्णतयैव नित्यत्वम् अस्य वेद-सार-वर्णात्मक-नाम्नः सिध्यति
। तथैव गोपाल-तापनी-श्रुतौ नाम-मयाष्टदशाक्षर-प्रसङ्गे ब्रह्म-
वाक्यम् - तेष्व् अक्षरेषु भविष्यज्-जगद्-रूपं प्रकाशयन्न् [ग्तु 1.26] इति
। अत्रावतार-काल-जात-शब्दादिमय-जगत्-कारणत्वेन तद्-वैलक्षण्यात्
स्वतः-सिद्धत्वं तथा भगवत्-स्वरूपाभिन्नत्वं च तद्-वैलक्षण्यं
नाम्नः । तद् यथा श्रुतौ -
ओं आस्य जानन्तो नाम चिद् विविक्तन् महस् ते विष्णो सुमतिं भजामहे । ओं तत्
सद् इत्य् आदि ।
अयम् अर्थः । हे विष्णो! ते तव नाम चित् चित्-स्वरूपम् अतएव महः स्व-
प्रकाश-रूपम् । तस्माद् अस्य नाम्नः आ ईषद् अपि जानन्तः न तु सम्यग्
उच्चार-माहात्म्यादि-पुरस्कारेण । तथापि विवक्तन् ब्रुवाणाः केवलं तद्-
अक्षराभ्यास-मात्रं कुर्वाणाः सुमतिं तद्-विषयां विद्यां भजामहे
प्राप्नुमः । यतस् तद् एव प्रणव-व्यञ्जितं वस्तु सत् स्वतः-सिद्धम् इति ।
अतएव भय-द्वेषादौ श्री-मूर्तेः स्फूर्तेर् इव साङ्केत्यादाव् अप्य् अस्य
मुक्तिदत्वं श्रूयते । तथा चोक्तं पाद्मे -
अप्य् अन्य-चित्तः क्रुद्धो वा यः सदा कीर्तयेद् धरिम् ।
सोऽपि बन्ध-क्सयान् मुक्तिं लभेच् चेदि-पतिर् यथा ॥ इति ।
तथा श्री-भगवत इव तस्य नाम्नः सकृद् अपि साक्षात्कारः संसार-
ध्वंसको भवति । यथा स्कान्दे -
सकृद् उच्चारितं येन हरिर् इत्य् अक्षर-द्वयम् ।
बद्धः परिकरस् तेन मोक्षाय गमनं प्रति ॥
इति श्रुतौ च प्रणवम् उद्दिश्य । ओम् इत्य् एतत् ब्रह्मणो नेदिष्टं नाम
यस्माद् उच्चार्यमाण एव संसार-भयात् तारयति तस्माद् उच्यते तार इत्य् आदि
बहुतरम् । न चास्यार्थ-वादत्वं चिन्त्यम् ।
तथार्थवादो हरिनाम्नि कल्पनम् इति पद्म-पुराणानुसारेणापराधापातात्
। यस्य तु गृहीत-नाम्नोऽपि पुनः संसारस् तस्य नानुव्रजति यो मोहाद्
व्रजन्तं परमेश्वरम् । ज्ञानाग्नि-दग्ध-कर्मापि स भवेद् ब्रह्म-
राक्षस इति श्री-विष्णु-भक्ति-चन्द्रोदयादि-प्रमाणित-पुराण-वचनवन्
महद् अपराध-तद्-अर्थ-वाद-कल्पनादिकं प्रतिबन्धकं ज्ञेयम् ।
अतएवानन्द-रूपत्वम् अस्य महद्-धृदय-साक्षिकं प्रतिबन्धकं ज्ञेयम्
।
अतएवानन्द-रूपत्वम् अस्य म्हद्-धृदय-साक्षिकं यथा श्री-विग्रहस्य ।
तद् उक्तं श्री-शौनकेन -
तद् अश्म-सारं हृदयं बतेदं
यद् गृह्यमाणैर् हरि-नाम-धेयैः ।
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्र-रुहेषु हर्षः ॥ [भ्प् 2.3.24]
अतएव प्रभास-पुराणे कण्ठोक्त्या कथितैर् हेतुभिः सकल-वेद-फलत्वेन
च भगवत्-स्वरूपत्वम् एव प्रतिपादितम् ।
मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां
सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् ।
सकृद् अपि परिगीतं श्रद्धया हेलया वा
भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम ॥ इति ॥
तस्माद् भगवत्-स्वरूपम् एव नाम । स्पष्टं चोक्तं श्री-नारद-
पञ्चरात्रेऽष्टादशाक्षरम् उद्दिश्य -
व्यक्तं हि भगवान् एव साक्षान्-नारायणः स्वयम् ।
अष्टाक्षर-स्वरूपेन मुखेषु परिवर्तते ॥ इति ।
माण्डुक्योपनिषत्सु च प्रणवम् उद्दिश्य - ओं इत्य् एतद् अक्षरम् इदं सर्वं
[माण्डु 1] । ओंकार एवेदं सर्वम् [छाउ 2.23.3] ।
प्रणवो ह्य् अपरं ब्रह्म प्रणवश् च परं स्मृतम् ।
अपूर्वोऽनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः ॥
सर्वस्य प्रणवो ह्य् आदिर् मध्यम् अन्तस् तथैव च ।
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तद्-अनन्तरम् ॥
प्रणवं हीश्वरं विद्यात् सर्वस्य हृदये स्थितम् ।
सर्व-व्यापिनम् ओङ्कारं मत्वा धीरो न शोचति ॥
अमात्रोऽनन्त-मात्रश् च द्वैतस्योपशमः शिवः ।
ओङ्कारो विदितो येन स मुनिर् नेतरो जनः ॥ इति [माण्डूक्य-कारिका 26-29]
न तु परमेश्वरस्यैव तत्-तद्-योग्यतास्मभवाद् वर्ण-मात्रस्य तथोक्तिः
स्तुति-रूपैवेति मन्तव्यम् । अवतारान्तरवत् परमेश्वरस्यैव वर्ण-
रूपेणावतारोऽयम् इति अस्मिन्न् अर्थे तेनैव श्रुति-बलेनाङ्गीकृते तद्-अभेदेन
तत्-सम्भवात् । तस्मान् नाम-नामिनोर् अभेद एव । तद् उक्तं पाद्मे -
नाम चिन्तामणिः कृष्णश् चैतन्य-रस-विग्रहः ।
पूर्णः शुद्धो नित्य-मुक्तो ऽभिन्नत्वान् नाम-नामिनोः ॥ इति ॥
अस्यार्थः - नामैव चिन्तामणिः सर्वार्थ-दातृत्वात् । न केवलं तादृशम् एव
अपि तु चैतन्यादि-लक्षणो यः कृष्णः स एव साक्षात् । तत्र हेतुर् अभिन्नत्वाद्
इतीति । ननु, तथाविधं नामादिकं कथं पुरुषेन्द्रिय-जन्यं भवति । न,
वेद-मात्रस्य भगवतिव पुरुषेन्द्रियादिष्व् आविर्भावनात् । यथोक्तम्
एकादशे स्वयं श्री-भगवता - शब्द-ब्रह्म सुदुर्बोधम् इत्य् [भ्प् 11.21.36]
आरभ्य,
मयोपबृंहितं भूम्ना ब्रह्मणानन्त-शक्तिना ।
भूतेषु घोष-रूपेण विशेष-पूर्णेव लक्ष्यते ॥ [भ्प् 11.21.37] इति ॥
द्वादशस्य षष्ठे वेदव्यसन-प्रसङ्गे क्षीणायुषः इत्य् आदौ [भ्प् 12.6.47]
। टीका च - तर्हि पुरुष-बुद्धि-प्रभवत्वान् नादरणीयं स्याद् इत्य्
आशङ्क्याह हृदि-स्थाच्युत-चोदिता इति ।
कस्मै येन विभासितोऽयम् इत्य् आदौ [भ्प् 12.13.19] तद्-रूपेणेत्य् आदिवत् । एतत्
सर्वम् अभिप्रेत्य गर्भ-स्तुताव् उक्तम् -
न नाम-रूपे गुण-जन्म-कर्मभिर्
निरूपितव्ये तव तस्य साक्षिणः ।
मनो-वचोभ्याम् अनुमेय-वर्त्मनो
देव क्रियायां प्रतियन्त्य् अथापि हि ॥ [भ्प् 10.2.36] इति ॥
तथा-रूपस्यापि वैलक्षण्यं स्व-प्रकाशता-लक्षण-स्वरूप-
शक्त्यैवाविर्भावित्वम् । तच् च पूर्व-दर्शितम् । अतएव द्वितीये,
आत्म-तत्त्व-विशुद्ध्य्-अर्थं यद् आह भगवान् ऋतम् ।
ब्रह्मणे दर्शयन् रूपम् अव्यलीक-व्रताद् ऋतः ॥ इत्य् [भ्प् 2.9.4] अत्र ।
टीका च - यच् चोक्तम् अष्टमाध्यये परमेश्वरस्यापि देह-
सम्बन्धाविशेषात् कथं तद्-भक्त्या मोक्षः स्याद् इति । आसीद् यद् उदरात्
पद्मम् इत्य् आदिना [भ्प् 2.8.8] तत्राह आत्म-तत्त्व-विशुद्ध्य्-अर्थम् इति ।
आत्मनो जीवस्य तत्त्व-विशुद्ध्य्-अर्थं तत्त्व-ज्ञानार्थं तद् भवेद् एव । किं
तद् यत् तप्-आदिना स्व-भजनं भगवान् ब्रह्मण आह । किं कुर्वन्, ऋतं
सत्यं चिद्-घनं रूपं दर्शयन् । दर्शने हेतुर् अव्यलीकेन तपसादृतः
सेवितः सन् । अयं भावः । जीवस्याविद्यया मिथाभूत-देह-सम्बन्धः ।
ईश्वरस्य तु योगमायया चिद्-घन-विग्रहाविर्भाव इति महान् विशेषः । अतस्
तद् भजने म्क्सोपपत्तिर् इति । इत्य् एषा ॥
अतएव, स त्वं त्रिलोक-स्थितये [भ्प् 10.3.17-18][*एन्द्नोते #11] इत्य् आदि-द्वये
श्रीमद्-आनक-दुन्दुभिनापि समाहितम् । अत्र ह्य् अयम् अर्थः - स
प्रपञ्चस्य सृष्टि-स्थिति-प्रलय-कर्ता त्वं त्रिलोक-स्थितये यदा तस्य स्थितम्
इच्छसि । तदा स्व-मायया स्वाश्रितया माया-शक्त्या कृत्वा आत्मनः शुक्लं
वर्णं स्वेन सृष्टां धर्म-परां विप्रादि-जातिं बिभर्षि पालयसि । अत्र
सत्त्वमय्य् एव स्वमाया ज्ञेया निष्कृष्टत्वाद् उपयुक्तत्वाच् च ।
अथ यदा सर्गम् इच्छसि तदा रजसा रजोमय्या स्वमायया कृत्वा उपबृंहितं
रक्तम् कामिनं विप्रादि-वर्णं बिभर्षि । यदा च जनात्ययम् इच्छसि तदा
तमो-मय्या कृत्वा कृष्णं मलिनं पाप-रतं तं बिभर्षि ।
अथवा यदा स्थितिम् इच्छसि तदात्मनः श्री-विष्णु-रूपस्य शुक्लं शुद्धं
गुण-सङ्कर-रहितम् इत्य् अर्थः । शिव-ब्रह्म-वत् तस्य तत्-सङ्गाभावात् ।
तथैव सिद्धान्तितं श्री-शुकदेवेन - शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो
गुण-संवृतः [भ्प् 10.88.3] इत्य् आदौ, हरिर् हि निर्गुणः साक्षात् पुरुषः
प्रकृतेः परः [भ्प् 10.88.5] इत्य् आदि । अतएव --
चन्द्रिका-विशद-स्मेरैः
सारुणापाङ्ग-वीक्षितैः ।
स्वकार्थानाम् इव रजः-
सत्त्वाभ्यां स्रष्ंऋ-पालकाः ॥ [भ्प् 10.13.50] इति ।
अत्र सात्त्विकत्व-राज-सत्त्वे उत्प्रेक्षिते एव, न तु वस्तुतया निरूपिते । वर्णं
रूपं, न तु कान्ति-मात्रम् । गुण-मयत्व-स्वीकारेऽपि तत् तद् गुण-
व्यञ्जकाकारस्याप्य् अपेक्ष्यत्वात् न तु श्वेतं वर्णम् इति व्याख्येयं । श्री-
विष्णु-रूपस्य पालनार्थं गुणावतारस्य परमात्म-सन्दर्भे क्षीरोद-
शायित्वेन स्थापयिष्यमाणस्य तत्र श्यामत्वेनाति-प्रसिद्धेः । जनात्यय-
हेतो रुद्रस्य श्वेतताति-प्रसिद्ध्या तद्-वैपरीत्य-पातात् ।
तथैव हि गोभिलोक्त-सन्ध्योपासनायाम् - अतोऽत्र ब्रह्मणो न शोणवर्णत्वे
तात्पर्यम् । न च तत्-तद्-गुणानां तत्-तद्-वर्ण-नियमः । परमतामसानां
बकादीनां श्यामत्व-श्रवणात् । स्व-मायया भक्तेषु कृपया बिभर्षि जगति
धारयसि प्रकटयसीत्य् अर्थः । रक्तं रजोमयत्वेन सिसृक्सादि-राग-
बहुलम् । कृष्णं तमोमयत्वेन स्वरूप-प्रकाश-रहितम् इत्य् अर्थः ।
पार्थिवाद् दारुणो धूमस्
तस्माद् अग्निस् त्रयीमयः ।
तमसस् तु रजस् तस्मात्
सत्त्वं यद् ब्रह्म-दर्शनम् ॥ [भ्प् 1.2.24] इत्य् उक्तेः ।
ननु, कथम् अन्यार्थेन वाक्येन लोक-भ्रामकं वर्णयसि, यतः सम्प्रति
जनात्ययआर्थं कृष्णोऽयं वर्णो मया तमसा गृहीत इत्य् अर्थोऽप्य् आयाति तद्
एतद् आशङ्क्य परिहरन्न् आह त्वम् अस्य इति [भ्प् 10.3.21][*एन्द्नोते #12]
। निर्व्यूह्यमाना इतस् ततश् चाल्यमानाः । अयं भावः - आस्तां तावद् ब्रह्म-
घनत्व-शुद्ध-सत्त्व-मयत्व-बोधकं प्रमाणान्तरं, गुणानुरूप-
रूपाङ्गीकारेऽपि यथा प्रलयस्य दुःख-मात्र-हेतुत्वात् सुषुप्ति-रूपत्वाच् च
तत्र तद्-अर्थावसरो भवति तथास्य तु कालस्य त्व-कृत-रक्षया जगत्-सुख-
हेतुत्वात् तमोमयासुर-विनाश-योग्यत्वात् तेषाम् असुराणाम् अपि हनन-
व्याजेन सर्व-गुणातीत-मोक्षात्मक-प्रसाद-लाभात् तद्-अर्थावसरो न
भवति, सैन्धव-मानवेतिवत् । तथैवोक्तम् -
जय-काले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान् ।
तमसो यक्ष-रक्षांसि तत्-कालानुगुणोऽभजत् ॥ इति [भ्प् 7.1.8]
तस्मान् न तमः-कृतोऽयं वर्ण इति रजः-सत्त्वाभ्यां रक्त-शुक्लाव् एव
भवत इति पूर्व-पक्षि-मतम् । ततश् च पारिशेष्य-प्रमाणेन स्वरूप-शक्ति-
व्यञ्जितत्वम् एवात्रापि पर्यवस्यति इति भावः । तथैव तम् एवार्थं श्री-
देवकी-देव्य् अपि सम्भ्रमेण प्राग् एव विवृतवती - रूपं यत् तत् प्राहुर्à
अव्यक्तम् आद्याम् इति [भ्प् 10.3.24] ।
अथ प्रकृतम् अनुसरामः । तथा गुणस्य वैलक्षण्यम् आत्मारामाणाम् अप्य्
आकर्षण-लिङ्ग-गम्याद् भूतरूपत्वम् । तद् यथा श्री-सूतोक्तौ -
आत्मारामाश् च मुनय [भ्प् 1.7.10] इत्य् आदौ । हरेर् गुणाक्षिप्त-मतिर् [भ्प्
1.7.11] इत्य् आदि च । अतएवोक्तं विष्णुधर्मोत्तरे -
गुणाः सर्वेऽपि युज्यन्ते ह्य् ऐश्वर्यात् पुरुषोत्तमे ।
दोषाः कथञ्चिन् नैवात्र युज्यन्ते परमो हि सः ॥
गुण-दोषौ माययैव केचिद् आहुर् अपण्डिताः ।
न तत्र माया मायी वा तदीयौ तौ कुतो ह्य् अतः ॥
तस्मान् न मायया सर्वं सर्वम् ऐश्वर्य-सम्भवम् ।
अमायो हीश्वरो यस्मात् तस्मात् तं परमं विदुः ॥ इति ॥
अथ न विद्यते इत्य् अस्य प्रकृत-श्लोकस्य व्याख्यातावशेषः । तद् एवं
स्वरूप-शक्ति-विलास-रूपत्वेन तेषां प्राकृताद् वैलक्षण्यं साधितम् । तत्र
आशङ्कते ।
ननु भवन्तु स्वस्वरूप-भूतान्य् एव तानि तथापि स्वरुपस्यैव पूर्णत्वात्
तत्-तत्-प्राप्तौ किं प्रयोजनं तत्राह लोकाप्यय-सम्भवाय । लोको भक्त-
जनः तस्याप्ययः संसार-ध्वंसस् तत्-पूर्वकः सम्भवो भक्ति-सुख-
प्राप्तिः । भू प्राप्तौ तद् अर्थम् एतद् अप्य् उपलक्षणं नित्य-पार्षदानाम्
अपि भक्ति-सुखोत्कर्षार्थम् । तद् उक्तं श्रीमद्-अर्जुनेन प्रथमे -
तथायं चावतारस् ते भुवो भार-जिहीर्षया ।
स्वानां चानन्य-भावानाम् अनुध्यानाय चासकृत् ॥ इति [भ्प् 1.7.25] ।
अस्यार्थः -- यथान्ये पुरुषादयोऽवतारास् तथायं चावतारः साक्षाद्-
भगवतः श्री-कृष्णाख्यस्य तवैव प्राकट्यं, परम-भक्ताया भुवो
भार-जिहीर्षया जातोऽपि । अन्येषां स्वानां भक्तानाम् असकृच् च मुहुर् अप्य्
अनुध्यानाय निज-भजन-सौख्याय भवति ।
ननु तर्हि भक्त-सौख्यम् एव प्रयोजनं जातम् इति पूर्णानन्दस्य तस्येह
प्रयोजन-मतिः कुत इत्य् एतत् कथम् उपपद्येत । तत्राह - अनन्यभावानाम्
इति । अन्यथा सर्व-ज्ञ-शिरोमणेर् निर्दोषस्य तस्य तन्-मात्रापेक्षकानां
तेषाम् उपेक्षायाम् अकारुण्य-दोषः प्रयुज्येत इति भावः । आत्मारामेऽपि
कारुण्य-गुणावकाशो गुणा विरुद्धा अपि तु समाखार्याश् च सर्वत इति
स्मरणात् विचित्र-गुण-निधाने श्री-भगवत्य् एव सम्भवति । ततोऽन्यत्र तु
सञ्चरित-तद्-गुणांशे तदीय एव यः प्रतिपदम् एव साश्चर्यं श्रुत्य्-आदिभिर्
उच्चैर् गीयते । यश् चाविरिञ्चिम् आपामर-जनम् आकर्षन्न् एव वर्तते । तद्
उक्तं स्वयम् एव -
भजतोऽपि न वै केचिद् भजन्त्य् अभजतः कुतः ।
आत्मारामा ह्य् आप्त-कामा अकृत-ज्ञा गुरुद्रुहः ॥
नाहं तु सख्यो भजतोऽपि जन्तून्
भजाम्य् अमीषाम् अनुवृत्ति-वृत्तये ॥ इत्य् आदि [भ्प् 10.32.19-20] ।
तस्मात् परम-समर्थस्य तस्य कृपा-लक्षणं भक्त-जन-सुख-
प्रयोजनकत्वं नाम कोऽपि स्वरूपानन्द-विलास-भूत-परमाश्चर्य-
स्वभाव-विशेष इति मूल-पद्येऽप्य् अनुकालम् ऋच्छतीत्य् अनेनैव [भ्प् 8.3.8]
दर्शितम् । अतः प्रयोजनान्तर-मतित्वं तु तस्मिन् नास्त्य् एव । तत्-
प्रयोजनत्वं च तस्य परम-समर्थस्यानन्द-विलास एवेति दिक् । यथोक्तम् -
कृपालोर् असमर्थस्य दुःखायैव कृपालुता ।
समर्थस्य तु तस्यैव सुखायैव कृपालुता ॥ इति ॥
गजेन्द्रः श्री-हरिम्
[50]
तस्माद् अपाणि-पाद-श्रुतेर् अपि यद् अनन्त-स्वप्रकाशानन्द-विग्रह एव
भगवति तात्पर्यं नान्यत्रेति प्रतिपादयन्ति ।
त्वम् अकरणः स्वराड् अखिल-कारक-शक्ति-धरस्
तव बलिम् उद्वहन्ति समदन्त्यजयानिमिषाः ।
वर्ष-भुजोऽखिल-क्सितिपतेर् इव विश्व-सृजो विदधति
यत्र ये त्व् अधिकृता भवतश् चकिताः ॥ [भ्प् 10.87.28]
अयम् अर्थः । अत्र करणं नाम वास्यादिवत् कर्तृ-शक्ति-प्रेरिततया
कार्यकरं कर्तुर् भिन्नतमं केवल-करणत्वापन्नम् एव वस्त्व् अङ्गीकृतं,
न तु स्वरूपत्वापन्नम् अपि यत् तद् अपि । यथा दहनादौ तच्-छक्त्यादिकम्
। गौणार्थत्वात् स्वराट्-पद-निरुक्तौ स्वेनेति तृतीयान्त-पदस्य स्वरूप-
शक्ताव् एव पर्यवसानाच् च । ततो जीवस्य चिद्-रूपत्वात् पाण्यादीनां स्वतो
जडत्वात् तद्-अधीन-शक्तीनां तेषां भिन्नतमानां करणत्वं
मुख्यार्थम् एव । ततोऽसौ तद्-आसक्तत्वात् सकरणः त्वं तु तद्-अन्तर्यामी
तद्-अनासक्तत्वात् तद्-अनपेक्षो यतः स्वराट् स्वरूप-शक्त्यैव राजसे इति ।
तथा प्रलय-कालावसाने ।
स्त्रिय उरुगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो
वयम् अपि ते समाः समदृशोऽङ्घ्रि-सरोज-सुधाः ॥ [भ्प् 10.87.23]
इति विद्वद्-गण-गुरुभिर् अस्माभिर् अपि निजालम्बनत्वेन वर्ण्यमान-परम-
दिव्य-करण-गण-विचित्रोऽप्य् असौ अकरण एव । कुतः स्वराट् स्वेन स्वरूप-
शक्ति-विशेष-सिद्ध-प्रादुर्भाव-विशेषेषेण स्वरूपेणैव तत्-तत्-करणतया
राजसे । तेषां स्वरूप-भूतत्वेन मुख्य-करणत्वायोगाद् इति भावः ।
अन्यथौपाधिक-वस्तु-द्वारा तवापि प्रकाशे कथं नाम स्वराट्त्वं
सिध्येद् इति च ।
आनन्द-मात्रम् अजरं पुराणम् एकं सन्तं बहुधा दृश्यमानं नेह
नानास्ति किञ्चन इत्य् आदि श्रुतेः [बौ 4.4.19] । आनन्द-मात्र-कर-पाद-
मुखोदरादिर् इत्य् आदि स्मृतेश् [नार्पञ्च्] च ।
ननु, मयि तथाभूत-स्वरूप-शक्तीनाम् अस्तितायां किं प्रमाणम् । तत्राहुर्
अखिल-कारक-शक्ति-धर इति । अखिलेभ्यः प्राणिभ्यः कारकाणि करणानि
चकुषुर्-आदि-गोलकानि तेषु शक्तीश् चेन्द्रियाणि धरसि ददासीति तथा । सर्वेषु
तेषु तत्-तद्-धारणात् । तास् तु त्वयि स्वतः-सिद्धा अव्ययाः पूर्णा एव सन्तीति
भावः । तथा च श्रुतिः - प्राणस्य प्राणम् उत चक्षुषश् चक्षुर् इति आद्या
[केनौ 1.2] । स्वाभाविकी ज्ञान-बल-क्रिया च इत्य् आद्या च [श्वेतु 6.8] ।
तद् उक्तम् एकादशे -
यस्येन्द्रियस् तनु-भृताम् उभयेन्द्रियाणि
ज्ञानं स्वतः श्वसनतो बलभोज ईहा ॥ इति [भ्प् 11.4.4]
अतएव विकरणत्वान् नेति चेत् तद् उक्तम् इत्य् [व्स् 2.1.32] अत्र सूत्रकारोऽपि तद्
उक्तम् इत्य् अनेन श्रुतेस् तु शब्द-मूलत्वाद् इत्य् [व्स्. 2.1.27] उक्त-रीत्यैव श्रुत्य्-
एक-गम्यं तर्कातीतं तस्य विकरणत्वं सकरणत्वं च साधितवान् । श्रुतिश्
च - न तस्य कार्यं करणं च विद्यते इत्य् [श्वेतु 6.8] आद्या ।
अथवा, अखिल-कारक-शक्ति-धरोऽपि त्वम् असाव् अकरण एवेत्य् अन्वयः । कुतः
? स्वराड् इत्य् आदि । अतः सर्वतो विलक्षण-महिमत्वाद् अनिमिषा देवा
इन्द्रादयस् तत्-पूज्या विश्व-सृजो ब्रह्मादयोऽपि तव तुभ्यं बलिम् उपहारं
तद् उच्चैः शिरोभिर् वहन्ति । अजया तेषाम् अधिकारिण्या माययापि सहिताः ।
सापि आभास-शक्ति-रूपा स्वरूपानन्द-शक्ति-मयाय तुभ्यम् आत्म-सम्पद्-
उद्भावार्थं बलिम् हरतीत्य् अर्थः । समदन्ति च मौष्यैर् दत्तं हव्य-
कव्य्-आदि-लक्षणं बलिं भक्षयन्ति च । अत्र दृष्टान्तः वर्ष-भुज इति ।
वर्षं खण्ड-मण्डलम् ।
कथं बलिम् उद्वहन्ति ? तद् आहुः विदधतीति । त्व-आज्ञा-पालनम् एव बलि-
हरणम् इत्य् अर्थः । भीषास्माद् वातः पवते भीसोदेति सूर्यः भीषास्माद्
अग्निश् चेन्द्रश् च मृत्युर् धावति पञ्चमः इति [कठ 2.3.3] श्रुतेः ।
अथवा, ननु मम पाण्य्-आदि-करणानां स्वरूप-भूतत्वे युक्ति कथयत्य् अत
आहुः अनिमिषाः करणाधिष्ठातृ-देवास् तव बलिम् उद्वनतीति । आज्ञान-
देवत्वाद् विश्व-सृजः विश्वेषां सृष्टि-हेतवः । अन्ये तत्-तद्-अधिष्ठातृ-
देवताश्रयाद् एव करणैर् विषयं प्रकाशयितुं शक्नुवन्ति । त्वं पुनस्
तेषाम् अप्य् आश्रय इति त्वत्-करणानां स्वप्रकाशतापत्तेः स्वरूप-भूतत्वम्
एवेति ।
अथाप्य् आस्तां महा-शक्तिर् मायैवाश्रय इत्य् अत आहुः अजयेति । ननु जीवा अपि
निजेन्द्रियाधिष्ठातातॄणाम् आश्रया भवन्ति । तत्राहुः विदधतीति । विषय-
भोग-द्वारेएष्व् इन्द्रियेषु भवता विश्व-पतिना दत्ताधिकाराणां देवानाम्
एवाधिकार्याः कतिपय-ग्राम-भौमिका इव जीवा इति न तेषाम् आश्रयाः ।
किन्तु भवान् एव तेषाम् अधिकारकत्वाद् आश्रय इति भावः ॥
10।87॥ श्रुतयः श्री-भगवन्तम्
[51]
तस्माद् विलक्षण-पाणि-पादादित्वेनैवापाणि-पादादित्वम् । यथाह -
त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर्
मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् ।
जीवच्-छवं भजति कान्तम् अति-विमूढा
या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥ [भ्प् 10.60.45]
अथ श्री-भगवति केशादीनां श्रूयमाणानाम् आनन्द-स्वरूपत्वम् अन्येषां
त्व् अभाव एवेति वैलक्षण्यं स्पष्टम् एव । अतएव हि हिरण्यकशिपुं प्रति
तन्-मारक-जन-निषेध-लक्षण-ब्रह्म-वर-दानम् अपि सङ्गच्छते ।
व्यसुभिर् वासुमद्भिर् वा सुरासुर-महोरगैर् इति [भ्प् 7.3.37] । न चैतत्
करणस्य निषेध-परं, किन्तु कर्तुर् एव । कर्तृ-प्रकरणात् अप्राणिभिः
प्राणिभिर् वेत्य् उक्तेस् तस्यैव प्राप्तत्वात् । हन्तुर् जीवद्[*एन्द्नोते #13]-
देह-साम्येऽपि सप्राण-भागान् निष्क्रान्तस्य कर्तनीय[*एन्द्नोते #14]-
नखाग्र-भागस्य त्यक्त-प्राणत्वाच् च ।
तस्माद् अस्माकम् अप्राणो ह्य् अमनाः शुभ्र इति । अस्य महतो भूतस्य
निःश्वसितम् एतद् इति [बौ 2.4.10] च श्रुतिर् नासङ्गतेति । अतएव वाराहे -
न यस्य प्राकृता मूर्तिर् मेदोमज्जास्थि-सम्भवा ।
न योगित्वादीश्वरत्वात् सत्य-रूपोऽच्युतो विभुर् ॥ इति ॥
तच् चाप्राकृत-मूर्तित्वं तस्य महायोगित्वाद् इच्छा-कृतम् इति न, किन्त्व्
ईश्वरत्वान् नित्यम् एवेत्य् अर्थः । तथा च प्रयोगः । ईश्वरः स-विग्रहः
ज्ञानेच्छा-प्रयत्नवत् कर्तृत्वात् कुलालादिवत् । स च विग्रहो नित्यः ईश्वर-
करर्णत्वात् तज्-ज्ञानादिवद् इति । अतएव विलक्षणत्वम् अपि । जीवच्छवम् इति
चैतन्ययोगेन जीवन्तम् स्वतस् तु शवम् । ततः श्री-भगवद्-विग्रहस् तु चिद्
एक-रसत्वात् सदा जीवन्न् एवेति वैलक्षण्यं युक्तं नित्यानन्द-चिद्-रूपत्वाद्
भजनीयत्वं च युक्तम् इति भावः ॥
॥ 10.60 ॥ श्री-रुक्मिणी श्री-भगवन्तम्
[52]
नाम-रूपित्व-विधिनिषेध-श्रुतिभिर् विवदमानानां विवादावसरे तद् एव
ह्य् अपपादयति ।
अस्तीति नास्तीति च वस्तु-निष्ठयोर्
एक-स्थयोर् भिन्न-विरुद्ध-धर्मणोः
अवेक्षितं किञ्चन योग-साङ्ख्ययोः
समं परं ह्य् अनुकूलं बृहत् तत् ॥ [भ्प् 6.4.32]
अस्तीति योगः स्थूलोपासना-शास्त्रं, तत्र हि यद्-भगवतो नाम-रूपित्वं
श्रूयते तद्-दृष्ट-कल्पना-लाघवात् घट-पटादि-लक्षणाखिल-नाम-
धेयत्वं पाताल-पादादिकत्वं चेति विधीयते । नास्तीति साङ्ख्यं ज्ञान-
शास्त्रं तत्र हि निषेध-श्रुतिभिस् तस्य नाम-रूपित्वं यन् निषिध्यते तत्
प्रापञ्चिक-नाम-रूपित्वस्य कल्पितत्वात् सर्वथैव नास्तीति निश्चीयते । तद्
उक्तम् उभय-मतस्यैव प्राक् । स सर्व-नामा स च विश्व-रूपः इत्य् आदिना
यद् यन् निरुक्तं वचसा निरूपितम् इत्य् आदिना च [भ्प् 6.4.28-29] ।
अस्तीति नास्तीति च वस्तुनि निष्ठा ययोः । तम् एव विवादं स्फुटयति, भिन्नौ
अस्तीति नास्तीत्य् एवम्भूतौ विरुद्धौ धर्मौ ययोस् तयोः ।
नन्व् आस्ताम् अनयोर् भिन्न-विषयत्वं नेत्याह एकस्थयोः समान-विषयोः ।
तद् एवं विवादे सति यत् किञ्चित् समं समञ्जसत्वेनैव अवेक्षितं प्रतीतं
वस्तु तद् द्वयोर् अपि बृहन् महद् अनुकूलं भवति । किं तत् समञ्जसं ? यत्
परं नाम-रूपाद् अत्यन्त-तद्-अभावाच् च विलक्षणं किम् अपि नाम-रूप-
लक्षणम् एव वस्त्व् इत्य् अर्थः ।
एतद् उक्तं भवति । एकस्मिन्न् एव वस्तुनि नाम-रूपित्व-विधि-निषेधाभ्यां
परस्परं श्रुतयः पराहतार्थाः स्युः । अत्र तु परत्वेनोभयत्रापि
प्राक्तन-युक्त्या समञ्जसम् अप्राकृत-नाम-रूपित्वम् एव विधि-निषेध-
श्रुति-तात्पर्येनोपस्थाप्यत इति तत्-तन्-मतं विवाद-मात्रम् ।
इत्थम् एवात्र श्री-ध्रुवेण निर्विवादत्वम् उक्तम् --
तिर्यङ्-नग-द्विज-सरीसृप-देव-दैत्य-
मर्त्यादिभिः परिचितं सद्-असद्-विशेषम्
रूपं स्थविष्ठम् अज ते महद्-आद्य्-अनेकं
नातः परं परम वेद्मि न यत्र वादः ॥ इति [भ्प् 4.9.13] ।
अत्र रूप-शब्दस्यैवोभयत्र विशेष्यत्वेन । भूप रूपम् अरूपं च परं
चापरम् एव च इति [विप् 6.7.47] वैष्णव-वाक्यानुसारेण च । अतः परं
चतुर्भुजादित्व-लक्षणं रूपं वपुर् इत्य् अर्थः । तच् चाग्रे दर्शयिष्यते ।
[52]
तन् न वेद्मि एतत् पर्यन्तं कालं नाज्ञासिषम् इत्य् अर्थः । तद् एव व्यनक्ति ।
यो ऽनुग्रहार्थं भजतां पाद-मूलम्
अनाम-रूपो भगवान् अनन्तः ।
नामानि रूपाणि च जन्म-कर्मभिर्
भेजे स मह्यं परमः प्रसीदतु ॥ [भ्प् 6.4.33]
यो नाम-रूप-रहित एव नामानि रूपाणि च भेजे प्रकटितवान् । जन्म-
कर्मभिः सह तानि च प्रकटितवान् इत्य् अर्थः । व्यतिरेके दोषम् आह अनन्त
इति । यदि तस्मिन् नाम-रूपित्वादिकं नास्ति तर्हि तच्-छक्तिमत्त्वं प्रति
सान्तत्वम् एव प्रसज्येतेति । तद् उक्तं प्रचेतोभिः -- न ह्य् अन्तस् त्वद्-
विभूतीनां सो ऽनन्त इति गीयसे इति [भ्प् 4.30.31] । तत्-तत्-प्रकाशने हेतुः ।
भगवान् भगात्मक-शक्तिमान् । तस्याः शक्तेर् मायात्वम् निषेधति
परमः । पराख्य-शक्ति-रूपा मा लक्ष्मीर् यस्मिन् । अन्यथा परमत्व-
व्याघातः स्याद् इति भावः ।
तस्मान् न मायया सर्वं सर्वम् ऐश्वर्य-सम्भवम् ।
अमायो हीश्वरो यस्मात् तस्मात् तं परमं विदुः ॥ इत्य् उक्तेः ।
ननु, सर्व-नाम-विश्व-रूपत्वे तद्-राहित्ये च सन्त्य् एव तत्-तद्-उपासकाः
प्रमाणम् । अत्र तु के स्युर् इत्य् आशङ्क्याह - पाद-मूलं भजताम्
अनुग्रहार्थम् इति । योग-साङ्ख्ययोस् तत् तत्त्वं न सम्यक् प्रकाशते, किन्तु
भक्ताव् एव । भक्तिर् एवैनं दर्शयति इत्य् आदि श्रुतेः । तस्माद् युक्तं तयोर्
विवाद-मात्रत्वम् इति भावः । अतएव वक्ष्यतेऽनन्तरम् एव --
इति संस्तुवतस् तस्य स तस्मिन्न् अघ-मर्षणे ।
प्रादुरासीत् कुरु-श्रेष्ठ भगवान् भक्त-वत्सलः ॥
कृत-पादः सुपर्णांस इत्य् आदेः [भ्प् 6.4.35-6]
पाद-मूलं भजताम् इत्य् अनेन तान् प्रति रूप-प्राकट्यात् पूर्वम् अपि रूपम्
अस्त्य् एवेति व्यञ्जितम् । चरणं पवित्रं विततं पुराणम् इत्य् आदि श्रुतेः । भेज
इत्य् अतीत-निर्देशः प्रामाण्य-दार्ढ्यायानादित्वं बोधयति । अनन्त-पदस्य
च नामानि रूपाणि चानन्तान्य् एवेति भावः । अत्र प्राकृत-नाम-रूप-रहितोऽपि
इति टीका च ॥
॥ 6.4 ॥ दक्षः श्री-पुरुषोत्तमम्
[53]
तद् एवं नित्यत्वाद् विभुत्वात् सर्वाश्रयत्वात् स्थूल-स्”क्ष्माप्राकृत-वस्त्व्-
अतिरिक्तत्वात् प्रत्य-रूपत्वात् स्व-प्रकाशत्वात् सर्व-श्रुति-समन्वय-सिद्धत्वात्
तद्-रूपं परम-तत्त्व-रूपम् एवेति सिद्धम् । तथैव हि परम्-
वैदुष्येणानुभूतं स्पष्टम् एवाह त्रिभिः -
रूपं यद् एतद् अवबोध-रसोदयेन
शश्वन्-निवृत्त-तमसः सद्-अनुग्रहाय ।
आदौ गृहीतम् अवतार-शतैक-बीजं
यन्-नाभि-पद्म-भवनाद् अहम् आविरासम् ॥
नातः परं परम यद् भवतः स्वरूपम्
आनन्द-मात्रम् अविकल्पम् अविद्ध-वर्चः ।
पश्यामि विश्व-सृजम् एकम् अविश्वम् आत्मन्
भूतेन्द्रियात्मक-मदस् त उपाश्रितो ऽस्मि ॥
तद् वा इदं भुवन-मङ्गल मङ्गलाय
ध्याने स्म नो दर्शितं त उपासकानाम् ।
तस्मै नमो भगवते ऽनुविधेम तुभ्यं
यो ऽनादृतो नरक-भाग्भिर् असत्-प्रसङ्गैः ॥[भ्प् 3.9.2-4]
टीका च - ननु त्वम् अपि सम्यक् न जानासि यत् त्वया दृष्टं रूपम् एतद् अपि
गुणात्मकम् एव निर्गुणं ब्रह्मैव तु सत्यं तत्राह रूपम् इति द्वाभ्याम्
। अवबोध-रसोदयेन शश्वन् निभृतम् तमो यस्मात् तस्य तव यद् एतद्
रूपं त्वयैव स्वातन्त्र्येण सताम् उपासकानाम् अनुग्रहाय गृहीतम्
आविष्कृतम् । अवतार-शतस्य शुद्ध-सत्त्वात्मकस्य यद् एकं बीजं मूलम्,
तत्-प्रकाशनार्थं गुणावतार-बीजत्वं दर्शयति यन् माभातीति । हे परम
अबिद्ध-वर्चः अनावृत-प्रकाशम् अविकल्पं निर्भेदम् अतएवानन्द-मात्रम्
। एवम्भूतं यद् भवतः स्वरूपं तत् अतो रूपात् परं भिन्नं न पश्यामि
किन्तु इदम् एव तत् । अतः कारणात् ते तव अद इदं रूपम् आश्रितोऽस्मि ।
योग्यत्वाद् अपीत्य् आह एकम् उपास्येषु मुख्यं यद् विश्व-सृजम् । अतएव
अविश्वं विश्वस्माद् अन्यत् । किं च, भ्”तेन्द्रियात्मकं भूतानाम् इन्द्रियाणां
चात्मानं कारणम् इत्य् अर्थः ।
नन्व् एवम् अपि सोपाधिकम् एतद् अर्वाचीनम् एवेत्य् आशङ्क्याह तद् एवेदं हे
भुवन-मङ्गल यतस् ते त्वया अस्माकम् उपासकानां मङ्गलाय ध्याने
दर्शितम् । न ह्य् अव्यक्त-वर्त्माभिनिवेशित-चित्तानाम् अस्माकं सोपाधिकं
दर्शनं युक्तम् इति भावः । अतस् तुभ्यं नमोऽनुविधेम अनुवृत्त्या
करवाम । तर्हि किम् इति केचिन् मां नाद्रियन्ते, तत्राह योऽनादृत इति । असत्-
प्रसङ्गैर् निरीश्वर-कुतर्क-निष्ठैः । इत्य् एषा ॥
अत्र कल्पितम् अप्य् अर्थान्तरं यस्य विद्वद्-गुण-गुरुत्वान् न सम्भवत्य्
एवेति व्यञ्जितम् । न ह्य् अव्यक्त-वर्त्मेति । उक्तं चैतत् स्तुतितः प्राक् अव्यक्त-
वर्त्माभिनिवेशितात्मा [भ्प् 3.8.33] इति । मां नाद्रियन्ते इति विग्रहरूपं माम्
इत्य् एवार्थः । विग्रह्यैव पर-ब्रह्मत्वेन स्थापितत्वात् । अतएव ये विग्रहम्
एतादृशतया न मन्यन्ते ते विद्वद् अनुभव-विरुद्ध-मतयो नेश्वरम् अपि
मन्यन्त इत्य् अत आह निरीश्वर इति । यत एव --
ये तु त्वदीय-चरणाम्बुज-कोष-गन्धं
जिघ्रन्ति कर्ण-विवरैः श्रुति-वात-नीतम् ।
भक्त्या गृहीत-चरणः परया च तेषां
नापैषि नाथ हृदयाम्बु-रुहात् स्व-पुंसाम् ॥ [भ्प् 3.9.5]
इत्य् अनन्तर-पद्ये तु-शब्देन योऽनादृत इत्य्-आद्य्-उक्तेभ्यो बहिर्मुख-
जनेभ्यो विलक्षणत्वेन निर्दिष्टानां तादृश-श्री-भगवद्-रूप-निष्ठानाम्
एव श्रुति-वात-नीतम् इति शब्देन प्रमाणेन भक्त्या गृहीत-चरण इत्य्
अनुभवेन च प्राशस्त्यम् उक्तम् ॥ 3.9 ॥ ब्रह्मा श्री-नारायणम्
[54]
आवेशावतारतया प्रतीतस्य श्री-ऋषभदेवस्यापि विग्रह एवं योज्यते, यथा -
इदं शरीरं मम दुर्विभाव्यं
सत्त्वं हि मे हृदयं यत्र धर्मः ।
पृष्ठे कृतो मे यद् अधर्म आराद्
अतो हि माम् ऋषभं प्राहुर् आर्याः ॥ [भ्प् 5.5.19]
इदं मनुष्याकार-शरीरं हि निश्चितं दुर्विभाव्यं दुर्वितर्क्यं यत् तत्त्वं
तद् एव । यत्रैव धर्मो भागवत-लक्षणस् तत्रैव मे हृदयं मनः । यद्
यस्मात् तद्-विपरीतादि-लक्षणोऽधर्मो मया पृष्ठे कृतः । ततः पराङ्-
मुखोऽहम् इत्य् अर्थः । अतएव वक्तुर् अस्य ऋषभदेवस्य च सर्वान्तिम-लीलापि
व्याजेनान्तर्धानम् एव प्राकृत-लोक-प्रतीत्य्-अनुसारेणैव तु तथा वर्णितम्
। आत्मारामता-रीति-दर्शनार्थम् । तद् उक्तम् -- योगिनां साम्पराय-विधिम्
अनुशिक्षयन् इति [भ्प् 5.6.6] । अतः स्वकलेवरं जिहासुर् इत्य् अत्र कएवर-
शब्दस्य प्रपञ्च एवार्थः । उपासना-शास्त्रे तस्य तथा प्रसिद्धेः ।
तथा -- अथ समीर-वेग-विधूत-वेणु-विकर्षण-जातोग्र-दावानलस् तद्
वनम् आलेलिहानः सह तेन ददाह इत्य् [भ्प् 5.6.8] अस्य वास्तवार्थे तु तेन
सहेति कर्तृ-साहाय्ये तृतीया । गौण-मुख्य-न्यायेन कर्तर्य् एव प्राथमिक-
प्रवृत्तेः । ततश् च दावानलस् तद्-वन-वर्तितर्वादि-जीवानां स्थूलं देहं
ददाह, ऋषभदेवस् तु सूक्ष्मं देहम् इति तस्य सर्व्=मोक्सदत्वम्
अनुसन्धेयम् ।
स यैः स्पृष्टो ऽभिदृष्टो वा संविष्टो ऽनुगतो ऽपि वा ।
कोसलास् ते ययुः स्थानं यत्र गच्छन्ति योगिनः ॥ [भ्प् 9.11.22] इतिवत् ।
ततोऽनल-साधर्म्यं वर्णयित्वा तद्वद् अन्तर्धानम् एव तस्येति च व्यञ्जितम्
। अतएव ऋषभ-देवाविर्भावस् तृतीयोऽध्याय इत्य् एवोक्तं न तु तज्-जन्मेति ॥
5।5॥ श्री-ऋषभदेवः स्व-पुत्रान्
[55]
तद् एवं ऋषभस्यापि विग्रहे तादृशता चेत् किम् उत स्वयं भगवत इत्य् आह -
मुनि-गण-नृप-वर्य-सङ्कुले ऽन्तः-
सदसि युधिष्ठिर-राजसूय एषाम् ।
अर्हणम् उपपेद ईक्षणीयो
मम दृशि-गोचर एष आविर् आत्मा ॥ [भ्प् 1.9.41]
टीका च - एष जगताम् आत्मा मम दृशि-गोचरो दृष्टि-पथः सन्न् आविः
प्रकटो वर्तते । अहो भाग्यम् इति भावः इत्य् एषा ॥ 1।9॥ श्री-भीष्मः श्री-
भगवन्तम्
[56]
तथैव च -- रूपं यत् तद् इत्य् आदौ स त्वं साक्षाद् विष्णुर् अध्यात्म-दीपः
[भ्प् 10.3.24] इति ।[*एन्द्नोते #15]
यत् तत् किम् अपि रूपं वस्तु प्राहुर् वेदाः । किं तद् वस्तु, तद् आह अव्यक्तम्
इत्य् आदि । एवम्भूतं किम् अपि कार्य-कल्पं वस्तु यत् स एव साक्षाद् ऐषि-
गोचरस् त्वं विष्णुर् इति । तथा च पाद्मे निर्माण-खण्डे श्री-भगवन्तं
प्रति श्री-वेद-व्यास-वाक्यम् ---
त्वाम् अहं द्रष्टुम् इच्छामि चक्षुर्भ्यां मधुसूदन ।
यत् तत् सत्यं परं ब्रह्म जगद्-योनिं जगत्-पतिम् ।
वदन्ति वेद-शिरसश् चाक्षुषं नाथ मेऽस्तु तद् ॥ इति ।
तत्र हेतुः अध्यात्म-दीपः देहि तत्-कारण-कार्य-सङ्घ-
प्रकाशकत्वेनावभासन इत्य् अर्थः । एवम्भूतस्य न तव भय-शङ्केति
भावः । इत्य् एष प्रकरणानुरूपः श्री-स्वामि-दर्शित-भावार्थोऽपि श्री-
विग्रह-पर एव । अन्यत्र भय-सम्भावनानुत्पत्तेः ॥
10.3 श्री-देवकी श्रीभगवन्तम्
[57]
अतस् तद्-अंशानाम् अपि तादृशत्वम् आह -
सत्य-ज्ञानानन्तानन्द-
मात्रैक-रस-मूर्तयः ।
अस्पृष्ट-भूरि-माहात्म्या
अपि ह्य् उपनिषद्-दृशाम् ॥ [भ्प् 10.13.54]
टीका च - सर्वेषां मूर्तिमत्त्वेऽप्य् अविशेषम् आह सत्य-ज्ञानेति । सत्याश् च
ज्ञान-रूपाश् च अनन्ताश् च आनन्द-रूपाश् च । तत्रापि तद्-एक-मात्रा विजातीय-
सम्भेद-रहिताः । तत्रापि च एक-रसाः सदैकरूपा मूर्तयो येषां ते । यद्
वा सत्य-ज्ञानादि-मात्रैक-रसं यद् ब्रह्म तद् एव मूर्तिर् येषाम् इति । अतएव
उपनिषत् आत्म-ज्ञानं सैव दृक् चक्षुर् येषां तेषाम् अपि हि निश्चितम् ।
अस्पृष्ट-भूर्-माहात्म्याः न स्पृष्टं स्पर्श-योग्यं भूरि-माहात्म्यं
येषां ते तथा-भूताः सर्वे व्यदृश्यन्तेति । इत्य् एषा ।
अत्र मात्र-पदं तद्-वर्णादीनां स्वरूपान्तरङ्ग-धर्मत्वं बोधयति ।
न ह्य् अत्रापरस्मिन्न् अर्थे मूर्ति-शब्दः केवलात्म-पर इति स्वामिनः श्री-
शुक-देवस्य वा मतम्, लक्षणायाः कष्ट-कल्पनामयत्वात् । अस्पृष्टेत्य् अत्र
अस्पृष्टेति भूरि-माहात्म्येति अपीति उपनिषद्-दृग् इति पद-चतुष्टयस्यैव
व्यस्तस्य समस्तस्य च स्वारस्य-भङ्ग-प्रसङ्गात् उक्त-प्रकारानुरोधात्
तेऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् इत्य् अद्य्-उदाहरिष्यमाणानुसारात्
[भ्प् 3.15.38] स्व-सुखेत्य् आदि [भ्प् 12.12.68] श्री-शुक-हृदय-विरोधाच् च ।
अतएव विशुद्ध-विज्ञान-घनं [भ्प् 10.37.20] विशुद्ध-ज्ञान-मूर्तये [भ्प्
10.27.21] त्वय्य् एव नित्य-सुख-बोध-तनाव् [भ्प् 10.14.22] इत्य् आदि वाक्यानि च
न लाक्षणिकतया कदर्थनीयानि ।
तथैव आनन्द-मूर्तिम् उपगुह्य दृशात्म-लब्धम् इत्य् आदौ [भ्प् 10.41.25]
दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्तम्
आनन्द-मूर्तिम् अजहाद् अतिदीर्घतापम् । इत्य् आदौ [भ्प् 10.48.6] च
दर्शनालिङ्गनाब्याम् अन्यार्थत्वं व्यवच्छिद्यते । उक्तं च महावाराहे --
सर्वे नित्याः शाश्वताश् च देहास् तस्य परात्मनः ।
हेयोपादेय-रहिता नैव प्रकृतिजाः क्वचित् ॥
परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः ।
देह-देहि-भिदा चात्र नेश्वरे विद्यते क्वचित् ॥ इति ॥
10.13 ॥ श्री-शुकः
[58]
इत्थम् एवाभिप्रेत्याह --
कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।
जगद्-धिताय सोऽप्य् अत्र देहीवाभाति मायया ॥ [भ्प् 10.14.55]
एनं नौमीड्य तेऽभ्र-वपुषे इत्य् [भ्प् 10.14.1] आदि-वर्णित-रूपम् अवेहि मत्-
प्रसाद-लब्ध-विद्वत्तयैवानुभवो न तु तर्कादीनां विचारयेत्य् अर्थः ।
एवम्भूतोऽपि मायया कृपया जगद्-धिताय सर्वस्यापि स्वात्मानं प्रति
चित्ताकर्षणाय देहीव जीव इवाभाति क्रीडति । इव-शब्देन श्री-कृष्णस् तु
जीववत् पृथग्-देहं प्रविष्टवान् इति गम्यते । अतएव श्री-विग्रहस्य परम-
पुरुषार्थ-लक्षणत्वम् उक्तं श्री-ध्रुवेण -
सत्याशिषो हि भगवंस् तव पाद-पद्मम्
आशीस् तथानुभजतः पुरुषार्थ-मूर्तेः [भ्प् 4.9.17] इत्य् अत्र ।
टीका च - हे भगवन् पुरुषार्थः परमानन्दः स एव मूर्तिर् यस्य तस्य्
अतव पाद-पद्मम् आशिषो राज्यादेः सकाशात् सत्या । आशीः परमार्थ-फलं
हि निश्चितं कस्य तेन प्रकारेण त्वम् एव पुरुषार्थ इत्य् एवं निष्कामतया
अनुभ्जतः । इत्य् एषा ॥
10.14 ॥ श्री-शुकः
[59]
अतः शब्द-प्रतिपाद्यं यद् ब्रह्म तच् छ्री-विग्रह एवेत्य् उपसंहार-योग्यं
वाक्यम् आह -
तावत् प्रसन्नो भगवान्
पुष्कराक्षः कृते युगे ।
दर्शयाम् आस तं क्षत्तः
शाब्दं ब्रह्म दधद् वपुः ॥ [भ्प् 3.21.7]
तद् वपुर् दधत् प्रकाशयन्न् असौ शुक्लाख्यो भगवान् कृते युगे वर्तते ।
तद् एव शब्द-प्रतिपाद्यं ब्रह्म परम-तत्त्वं तं कर्दमं प्रति
दर्शयामासेत्य् अर्थः ॥
॥ 3.21 ॥ श्री-मैत्रेयः
[60]
तद् एवं सिद्धे भगवतस् तादृशे वैलक्षण्ये दृश्यत्वात् घटवद् इत्य् आद्य-
सद्-अनुमानं न सम्भवति कालात्ययोपदिष्टत्वात् । तद् एतद् अभिप्रेत्य
तस्मिन् सत्यता-पुरस्कृतं षड्-भाव-विकाराद्य-भावं स्थापयन् पूर्ण-
स्वरूपत्वम् अभुपगच्छति ।
एकस् त्वम् आत्मा पुरुषः पुराणः
सत्यः स्वयं ज्योतिर् अनन्त आद्यः ।
नित्योऽक्षरोऽजस्र-सुखो निरञ्जनः
पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः ॥ [भ्प् 10.14.20]
नौमीड्य ते [भ्प् 10.14.1] इत्य् आदिना स्तुत्यत्वेन प्रतिज्ञा-रूपोऽयम् अभ्र-
वपुर्-आदि-लक्षणत्वम् एक एव सर्वेषाम् आत्मा परमाश्रयः । तद् उक्तम् -
एकोऽसि प्रथमम् इति [भ्प् 10.14.18] इति च । कृष्णम् एनम् अवेहि त्वम् आत्मानम्
अखिलात्मनाम् इति च [भ्प् 10.14.55] । यतस् त्वम् आत्मा तत एव सत्यः ।
परमाश्रयस्य सत्यताम् अबलम्ब्यैवान्येषां सत्यत्वात् त्वय्य् एव सत्यत्वस्य
मुख्या विश्रान्तिर् इति भावः । तद् उक्तम् - सत्य-व्रतं सत्य-परम् इत्य् आदि
[भ्प् 10.2.26] ।
सत्ये प्रतिष्ठितः कृष्णः सत्यम् अत्र प्रतिष्ठितम् ।
सत्यात् सत्यं च गोविन्दस् तस्मात् सत्यो हि नामतः ॥ इत्य् उद्यम-पर्वणि [म्भ्
5.68.12] च ।
न च त्वयि जन्मादयो विकाराः सन्तीत्य् आह आद्यः कारणम् । एकोऽसि
प्रथमम् इत्य् आदौ [भ्प् 10.14.18] तादृशत्व-दृष्टेः । अतो न जन्म, किन्तु
प्रत्यक्षत्वं हरेर् जन्म न विकारः कथञ्चन इति पाद्म-रीतिकम् एव ।
अतएव स्कान्दे --
अविज्ञाय परं देहम् आनन्दात्मानम् अव्ययम् ।
आरोपयन्ति जनिमत् पञ्च-भूतात्मकं जडम् ॥ इति ॥
आद्यत्वे हेतुः । पुरुषः पुरुषाकार एव सन् पुराणः पुरापि नवः कार्यात्
पूर्वम् अपि वर्तमान इत्य् अर्थः । श्रुतिश् च -- आत्मैवेदम् अग्र आसीत् पुरुष-
विध [ऐतु 1.1.1] इति । अतएव जन्मान्तरास्तित्व-लक्षणं विकारं वारयति
नित्यः सनातन-मूर्तिः । तथा पूर्ववन् मध्यमाकारत्वेऽपि पूर्ण इति
वृद्धिम् । अजस्र-सुखो नित्यम् एव सुख-रूप इति परिणामम् । सुखस्य
पुंस्त्वं छान्दसं विज्ञानम् आनन्दं ब्रह्म [बौ 3.9.28] इत्य् अत्रानन्दस्य
नपुंसकत्ववत् ।
तथा अक्षर इत्य् अपक्षयम् । अमृत इति विनाशम् । पूर्णत्वे हेतुः । अनन्त
अद्वय इति देश-काल-परिच्छेद-रहितः । वस्तु-परिच्छेद-रहितोऽपि । अन्यस्य
तच्-छक्तित्वात् तं विनानवस्थानात् । अत्रामृतत्वोपपादनाय चतुर्विध-
क्रिया-फलत्वं च वारयति । तत्रोत्पत्तिर् आद्य इत्य् अनेनैव निराकृता । शिष्ट-
त्रयं स्वयंज्योतिर् निरञ्जन उपाधितो मुक्त इति पद-त्रयेण । तत्र च
प्राप्तिः क्रियया ज्ञानेन वा भवेत् । क्रियया प्राप्तिर् आत्म-पदेनैव निराकृता,
सर्व-प्रत्यग्-रूपत्वात् । तथा ज्ञानतः प्राप्तिं वारयति । स्वयंज्योतिर् इति । तद्
उक्तं ब्रह्माणं प्रति श्री-भगवता मनीषितानुभावोऽयं मम
लोकावलोकनम् इति [भ्प् 2.9.22] ।
टीका च - एतच् च मत्-कृपयैव त्वया प्राप्तम् इत्य् आह । मनीषितम् इच्छा,
तुभ्यं दातव्यम् इति या ममेच्छा तस्या अनुभावोऽयम् । कोऽसौ? तम् आह -
मम लोकस्यावलोकनं यत् । इत्य् एषा । तद् उक्तम् - नित्याव्यक्तोऽपि भगवान्
ईक्ष्यते निज-शक्तितः । इति ।[*एन्द्नोते #16]
ननु, श्री-भगवतोद्धवं प्रति वासुदेवो भगवताम् इत्य् आदिकं [भ्प्
11.16.29] विभूति-मध्ये गणयित्वा सर्वान्ते मनोविकारा एवैते [भ्प् 11.16.41]
इत्य् उक्तम् । सत्यम् । तद्-गणनं प्राचुर्य-विवक्षया क्षत्रिणो गच्छन्तीतिवत्
। तत्रैव हि -
पृथिवी वायुर् आकाश आपो ज्योतिर् अहं महान् ।
विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् ॥ इत्य् अत्र [भ्प् 11.16.37]
पर-शब्देन ब्रह्मापि तन्-मध्ये गणितम् अस्ति । तद् एवं प्राप्तिर् निषिद्धा
। अथ विकृतिर् अपि तुषापाकरणेनावधातेन व्रीहीणाम् इवोपाध्यपाकरेणेन
भवेत् । तच् चासङ्गत्वान् न सम्भवेद् इत्य् आह मुक्त उपाधित इति । तद् उक्तम्
-विशुद्ध-ज्ञान-मूर्तये [भ्प् 10.27.21] विशुद्ध-विज्ञान-घनं [भ्प्
10.37.20] इत्य् आदौ च । तस्मान् मम निशित-शरैर् विभिद्यमान-त्वचि
इत्यादिकं तु [भ्प् 1.9.34] मायिक-लीला-वर्णनम् एव ।
एवं वदन्ति राजर्षे ऋषयः केचनान्विताः ।
यत् स्व-वाचो विरुध्येत न नूनं ते समरन्त्य् अनु ॥ इत्य् आदि [भ्प् 10.77.30]
न्यायेन वास्तवत्व-विरोधात् । तथा हि स्कान्दे -
असङ्गश् चाव्ययोऽभेद्योऽनिग्राह्योऽशोष्य एव च ।
विद्धोऽसृग्-आचितो बद्ध इति विष्णुः प्रदृश्यते ॥
असुरान् मोहयन् देवः क्रीडत्य् एष सुरेष्व् अपि ।
मनुष्यान् मध्यया दृष्ट्या न मुक्तेषु कदाचन ॥ इति ॥
श्री-भीष्मस्य युद्ध-समये दैत्याविष्टत्वात् तथा भानं युक्तम् एवेति
। किन्त्व् अधुना दुःस्वप्न-दुःखस्येव तस्य निवेदनं कृतम् इति ज्ञेयम् ।
संस्कारोऽपि किम् अतिशयाधानेन मलापाकारेण वा । तत्रातिशयाधानं
पूर्णत्वेनैव निराकृतम् । मलापकरणं वारयति निरञ्जनः निर्मलः
विशुद्ध-ज्ञान-मूर्तिर् इत्य् अर्थः ॥
10.14 ॥ श्री-ब्रह्मा
[61]
तद् एवं पूर्वं तद्-ऐश्वर्यादीनां स्वरूप-भूतत्वं साधितं तच् च तेषां
स्वरूपान्तरङ्ग-धर्मत्वाद् युक्तम् । यथा ज्योतिर् अन्तरङ्ग-धर्मानां
तदीय-शुक्लादि-गुणानां ज्योतिर्-भूतत्वम् एव, न तम आदिरूपत्वं तद्वत् ।
अथ श्री-विग्रहस्य पूर्ण-स्वरूप-लक्षणत्वं तद्वत् । अथ श्री-विग्रहस्य
पूर्ण-स्वरूप-लक्षणत्वं साधितं, तच् च युक्तम्, सर्व-शक्ति-युक्त-परम-
वस्त्व्-एक-रूपत्वात् तस्य । तत्र यो निजान्तरङ्ग-नित्य-धर्मः श्री-
विग्रहतागमस् तत् तत् संस्थान-लक्षणस् तद् विशिष्टं परमानन्द-
लक्षणं वस्त्व् एव श्री-विग्रहः । स एव चान्तरङ्ग-धर्मान्तराणां,
ऐश्वर्यादीनाम् अपि नित्याश्रयत्वात् स्वयं भगवान्, यथा शुद्ध-खण्ड-
लड्डुकम् । यतो यथा लड्डुकतागमक-संस्थान-विशिष्ट-खण्डम् एव
लड्डुकं तद् एव खण्ड-स्वाभाविक-सौगन्ध्यादिमच् चेति लोकैः प्रतीयते
प्रयुज्यते च तथा रूपं यद् एतत् [भ्प् 3.9.2] इत्य् आदिषु परं तत्त्वम् एव श्री-
विग्रहः स एव च भगवान् इति विद्वद्भिः प्रतीयते प्रयुज्यते चैवेति ।
तद् एवं श्री-विग्रहस्य पूर्ण-स्वरूपत्वं साधयित्वा, तो-पोषणार्थं
प्रकरणान्तरम् आरभ्यते । यावत् पार्षद-निरूपणम् । तत्र परिच्छदानां
तत्-स्वरूप-भूतत्वे तद्-अङ्ग-सहिततयैवाविर्भाव-दर्शन-रूपं लिङ्गम्
आह द्वयेन --
तम् अद्भुतं बालकम् अम्बुजेक्षणं
चतुर्-भुजं शङ्ख-गदाद्य्-उदायुधम् । इत्य् आदि ॥ [भ्प् 10.3.9]
स्पष्टम् ॥ 10.3 । श्री-शुकः
[62]
एवम् अभिप्रायेणैवेदम् आह -
यथैकात्म्यानुभावानां
विकल्प-रहितः स्वयम् ।
भूषणायुध-लिङ्गाख्या
धत्ते शक्तीः स्व-मायया ॥
तेनैव सत्य-मानेन
सर्व-ज्ञो भगवान् हरिः ।
पातु सर्वैः स्वरूपैर् नः
सदा सर्वत्र सर्व-गः ॥ [भ्प् 6.8.32-33]
ऐकास्म्यानुभावानां केवल-परम-स्वरूप-दृष्टि-पराणां विकल्प-रहितः
परमानन्दैक-रस-परम-स्वरूपतया स्फुरन्न् अपि, यथा येन
प्रकारेण, स्वेषु स्व-स्वामितया भजत्स्य् या मया कृपा तया हेतुना । स्वयं
विचित्र-शक्ति-मयेन स्वरूपेणैव कारण-भूतेन भूषणाद्य्-आख्याः शक्तीः
शक्ति-मयाविर्भावात् धत्ते गोचरयति । तेनैव विद्वद्-अनुभव-लक्षणेन
सत्य-प्रमाणेन । तेनैव विद्वद्-अनुभव-लक्षणेन सत्य-प्रमाणेन तद्
यदि सत्यं स्यात् तदेत्य् अर्थः । तैर् एव भूषणादि-लक्षणैः सर्वः स्वरूपैर्
विचित्र-स्वरूपाविर्भावैर् नः पातु । अतएव श्री-विष्णु-धर्मे बलि-कृत-चक्र-
स्तवे
यस्य रूपम् अनिर्देश्यम् अपि योगिभिर् उत्तमैर् इत्य् आदि ।
तद्-अनन्तरं च -
भ्रमतस् तस्य चक्रस्य नाभि-मध्ये मही-पते ।
त्रैलोक्यम् अखिलं दैत्यो दृष्टवान् भूर् भुवादिकम् ॥ इति ॥
तद् एवम् एव नवमे श्रीमद्-अम्बरीषेणापि चक्रम् इदं स्तुतम् अस्ति । लिङ्गानि
गरुडाकार-ध्वजादीनि । अनेन यत् क्वचिद् आकस्मिकत्वम् इव श्रूयते । तद् अपि
श्री-भगवद्-आविर्भाववज्-ज्ञेयम् । अत्र तृतीये चैत्यस्य तत्त्वम् अमलं
मणिम् अस्य कण्ठे इत्य् [भ्प् 3.28.28] अपि सहायम् । अतो द्वादशेऽपि कौस्तुभ-
व्यपदेशेन स्वात्म-ज्योतिर् विभर्त्य् अजः इत्य् [भ्प् 12.11.10] आदिकं विराड्
गतत्वेनोपासनार्थम् अभेद-दृष्ट्या दर्शितम् एव यथा-सम्भवं साक्षाच्
छ्रीविग्रहत्वेनाप्य् अनुसन्धेयम् । तथा हि विष्णु-पुराणे --
आत्मानम् अस्य जगतो निर्लेपम् अगुणामलम् ।
बिभर्ति कौस्तुभ-मणि-स्वरूपं भगवान् हरिर् ॥ इति [विप् 1.22.68] ॥
॥ 6.8 ॥ विश्व-रूपो महेन्द्रम्
[63]
अथ श्री-वैकुण्ठ-लोकस्यापि तादृशत्वं तस्मै स्व-लोकं भगवान्
सभाजितः इत्य् अत्र [भ्प् 2.9.9][*एन्द्नोते #17] साधितम् एव । पुनर् अपि
दुर्धियां प्रतीत्य्-अर्थं साध्यते । यतः स कर्मादिभिर् न प्राप्यते
प्रपञ्चितातीतत्वेन श्रूयते, तं लब्धवताम् अस्खलन-गुण-सात्म्येन
स्तूयते नैर्गुण्यावस्थायाम् एव लभ्यते । लौकिक-भगवन्निके तस्यापि तद्-
आवेशात् । नैर्गुण्यम् अतिदिश्यत इत्य् अतः स तु तद्-रूपतया सुतराम् एव
गम्यते । साक्षाद् एव प्रकृतेः परतनः श्रूयते नित्यतयोद्घोष्यते मोक्ष-
सुखम् अपि तिरस्कुर्वन्त्या भक्त्यैव लभ्यते सच्चिदानन्द-
घनत्वेनाभिधीयत इति ।
तत्र कर्मादिभिर् अप्राप्यत्वम् । यथा -
देवानाम् एक आसीत् स्वर्-भूतानां च भुवः पदम् ।
मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात् परम् ॥
अधोऽसुराणां नागानां भूमेर् एकोऽसृजत प्रभुः ।
त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम् ॥
योगस्य तपसश् चैव न्यासस्य गतयोऽमलाः ।
महर्-जनस्-तपः-सत्यं भक्ति-योगस्य मद्-गतिः ॥ [भ्प् 11.24.12-14]
सिद्धानां योगादिभिः त्रितयात् परं महर्-लोकादि । भूमेर् अधश् चातलादि
। त्रिलोक्यां पातालादिक-भूर्-भुवः-स्वश् चेति । कर्मणां गार्हस्थ्य-
धर्माणां तपो वानप्रस्थेन ब्रह्मचर्यं च । तत्र
ब्रह्मचर्येणोपकुर्वाण-नैष्ठिक-भेदेन क्रमान् महर्-जनश् च
वानस्थेन तपः न्यासेन सत्यं योग-तारतम्येन तु सर्वम् इति ज्ञेयम् ।
मद्-गतिः श्री-वैकुण्ठ-लोकः भक्ति-योग-प्राप्यत्वेन वक्ष्यमाणः यन्
न व्रजन्ति [भ्प् 3.15.23] इत्य् आदि-वाक्य-साहाय्यात् लोक-प्रकरणाच् च । उक्तं
च तृतीये देवान् प्रति ब्रह्मणैव तत्[*एन्द्नोते #18] सङ्कुलं हरि-पदान्
अतिमात्र-दृष्टैर् इत्य् आदि [भ्प् 3.15.20] । टीका च - तावन् मात्रेण दृष्टैः
भक्तानां विमानैः न तु कर्मादि-प्राप्यैः । इत्य् एषा ।
एवम् एव श्रुतिश् च परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणो निर्वेदम् आयान्
नास्त्यकृतः कृतेन[*एन्द्नोते #19] [मुण्डु 1.2.12] इति । अत्राप्य् अकृत इत्य् अस्य
विशेष्यं... लोक इत्य् एव, तत्-प्रसक्तेः । ईश्वरः सर्व-भूतानाम् इत्य् आदौ
[गीता 18.61] -
तम् एव शरणं गच्छ सर्व-भावेन भारत ।
तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ इति [गीता 18.62] श्री-
भगवद्-उपनिषत्सु ।
॥ 11.14 ॥ श्री-भगवान्
[64]
प्रपञ्चातीतत्वम् --
स्व-धर्म-निष्ठः शत-जन्मभिः पुमान्
विरिञ्चताम् एति ततः परं हि माम् ।
अव्याकृतं भागवतो ऽथ वैष्णवं
पदं यथाहं विबुधाः कलात्यये ॥ [भ्प् 4.14.39]
ततो,पि पुण्यातिशयेन माम् एति भागवतस् तु अथ देहान्ते अव्याकृतं, नाम-
रूपे व्याकरवाणीति श्रुति-प्रसिद्ध-व्याकरणाविषयं प्रपञ्चातीतं
वैष्णवं पदं वैकुण्ठम् एति । यथाहं रुद्रो भूत्वाधिकारिकतया
वर्तमानः विबुधा देवाश् चाधिकारिकाः कलात्यये अधिकारान्ते लिङ्ग-
भङ्गे सत्य् एष्यन्तीति यावद् अधिकारम् अवस्थितिर् आधिकारिकाणाम् इति न्यायेन
॥
॥ 4.24 ॥ श्री-रुद्रः प्रचेतसम्
[65]
ततोऽस्खलनम् ।
अथो विभूतिं मम मायाविनस् ताम्
ऐश्वर्यम् अष्टाङ्गम् अनुप्रवृत्तम् ।
श्रियं भागवतीं वास्पृहयन्ति भद्रां
परस्य मे ते ऽश्नुवते तु लोके ॥
न कर्हिचिन् मत्-पराः शान्त-रूपे
नङ्क्ष्यन्ति नो मे ऽनिमिषो लेढि हेतिः ।
येषाम् अहं प्रिय आत्मा सुतश् च
सखा गुरुः सुहृदो दैवम् इष्टम् ॥ [भ्प् 3.25.36-37]
अथोऽविद्या-निवृत्त्य्-अनन्तरं मम मायया भक्त-विषयक-कृपयाचितां तद्-
अर्थं प्रकटितां विभूतिं भोग-सम्पत्तिम् । तथा भागवतीं श्रियं
साक्षाद्-भगवत्-सम्बन्धिनीं सार्ष्टि-संज्ञां सम्पत्तिम् अपि अस्पृहयन्ति,
भक्ति-सुख-मात्राभिलाषेण यद्य् अपि तेभ्यो न स्पृहयन्तीत्य् अर्थः । तथापि
तु मे मम लोके वैकुण्ठाख्ये अश्नुवते प्राप्नुवन्त्य् एवेति स्व-वात्सल-
विशेषो दर्शितः । यथा सुदाम-मालाकार-वरे,
सोऽपि वव्रेऽचलां भक्तिं तस्मिन्न् एवाखिलात्मनि ।
तद्-भक्तेषु च सौहार्दं भूतेषु च दयां पराम् ।
इति तस्मै वरान् दत्त्वा श्रियश् चान्वय-वर्धिनीम् ॥ इति [भ्प् 10.41.52]
अतस् तेषां तत्रानासक्तिश् च द्योतिता । अविद्यानन्तरम् इति मम कृपयाचिताम्
इति च तेषाम् अनर्थ-रूपत्वं खण्डितम् । किं वा माययाचितां ब्रह्म-
लोकादि-गतां सम्पत्तिम् अपीति तेषां सर्व-वशीकारित्वम् एव दर्शितं, न तु
तद्-भोगः । तस्यातितुच्छत्वेन तेष्व् अनर्हत्वात् । श्रुतिश् चात्र तद् यथेह
कर्म-जितो लोकः क्षीयते एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते [छाउ
8.1.6] इत्य् अनन्तरं अथ य इहात्मानमनुविद्य व्रजन्त्य् एतांश् च सत्य-
कामांस् तेषां सर्वेषु लोकेषु कामचारो भवति इति ।
नन्व् एवं तर्हि लोकत्वाविशेषात् स्वर्गादिवत् भोक्तृ-भोग्यानां कदाचिद्
विनाशः स्यात् । तत्राह - शान्त-रूपे शान्तम् अविकृतं रूपं यस्य तस्मिन्
वैकुण्ठे मत्-परास् तद्-वासिनो लोकाः कदाचिद् अपि न नङ्क्ष्यन्ति भोग्य-
हीना न भवन्ति । अनिमिषो मे हेतिः मदीयं काल-चक्रं नो लेढि, तान् न
ग्रसते । न स पुनर् आवर्तते इति श्रुतेः [छाउ 8.15.1] ।
आब्रह्म-भुवनाल् लोकाः
पुनर् आवर्तिनो ऽर्जुन ।
माम् उपेत्य तु कौन्तेय
पुनर् जन्म न विद्यते ॥ [गीता 8.16] इति श्री-गीतोपनिषद्भ्यः ।
सहस्र-नाम-भाष्येऽप्य् उक्तम् - परम् उत्कृष्टम् अयनं स्थानं पुनर्
आवृत्ति-शङ्का-रहितम् इति परायणः । पुंलिङ्ग-पक्षे बहु-व्रीहिर् इति । न
केवलम् एतावत् तेषां माहात्म्यम् इत्य् आह येषाम् इति । येषां मां विना न
कश्चिद् अपरः प्रेम-भाजनम् अस्तीत्य् अर्थः । यद् वा - गोलोकादिकम्
अपेक्ष्यैवम् उक्तम् । तत्र हि तथाभावा एवं श्री-गोपा नित्या विद्यन्ते ।
अथवा तं लोकं कीदृग्-भावा अविद्यानन्तरं प्राप्नुवन्तीति । तत्राह येषाम्
इति । ये केचित् पाद्मोत्तर-खण्डे दर्शित-मुनि-गण-सवासनाः आत्मा
ब्रह्मैवायं साक्षाद् इति मां भावयन्ति, एवम् अन्ये च ये ये, त एव
प्रापुन्वन्तीत्य् अर्थः । सुहृद इति बहुत्वं सौदृदस्य नाना-भेदापेक्षया
। एवं चतुर्थे श्री-नारद-वाक्ये -
शान्ताः सम-दृशः शुद्धाः सर्व-भूतानुरञ्जनाः ।
यान्त्य् अञ्जसाच्युत-पदम् अच्युत-प्रिय-बान्धवाः ॥ इति [भ्प् 4.12.37] ॥
॥ 3.25 ॥ श्री-कपिलः
[66]
प्रपञ्चातीतत्वं ततोऽस्खलनं च युगपद् आह -
आतपत्रं तु वैकुण्ठं द्विजा धामाकुतोभयम् । इति [भ्प् 12.11.19]
प्रपञ्च-रूपस्यैवेति प्रकरणात् । द्विजा इति सम्बोधनम् ॥
॥ 12.11 ॥ श्री-सुतः
[67]
सत्त्वे प्रलीनाः स्वर् यान्ति नराः लोकं रजोलयाः ।
तमोलयास् तु निरयं यान्ति माम् एव निर्गुणाः ॥ [भ्प् 11.25.22]
लोक-प्रसक्तेर् मल्लोकम् इति वक्तव्ये तत्-प्राप्तिर् नाम मत्-प्राप्तिर् एवेति
स्वाभेदम् अभिप्रेत्याह माम् एवेति ॥ 11.25 ॥
श्री-भगवान्
[68]
सुतरां नैर्गुण्याश्रयत्वम् ।
वनं तु सात्त्विको वासो ग्रामो राजस उच्यते ।
तामसं द्यूत-सदनं मन्-निकेतं तु निर्गुणम् ॥ [भ्प् 11.25.25]
तद्-आवेशेनैवास्यापि निर्गुणत्व-व्यपदेश इति भावः ॥
॥ 11.25 ॥ स एव
[69]
प्रकृतेः परत्वम् -
ततो वैकुण्ठम् अगमद् भास्वरं तमसः परम् ।
यत्र नारायणः साक्षान् न्यासिनां परमा गतिः ॥
शान्तानां न्यस्त-दण्डानां यतो नावर्तते गतः ॥ [भ्प् 10.88.25-26]
अगमत् जगाम शिव इति शेषः ॥
॥ 10.88 ॥ श्री-शुकः
[70]
नित्यत्वम् --
ग्रीवायां जनलोको ऽस्य
तपोलोकः स्तन-द्वयात्
मूर्धभिः सत्यलोकस् तु
ब्रह्मलोकः सनातनः [भ्प् 2.5.39]
टीका च - ब्रह्म-लोकः वैकुण्ठाख्यः सनातनो नित्यः । न तु
सृजाप्रपञ्चान्तर्वर्ति इत्य् एष । ब्रह्म-भूतो लोको ब्रह्म-लोकः ॥
॥ 2.5 ॥ श्री-ब्रह्मा श्री-नारदम्
[71]
मोक्ष-सुख-तिरस्कारि-भक्त्य्-एक-लभ्यत्वम् -
यन् न व्रजन्त्य् अघ-भिदो रचनानुवादाच्
छृण्वन्ति येऽन्य-विषयाः कुकथा मति-घ्नीः ।
यास् तु श्रुता हत-भगैर् नृभिर् आत्त-सारास्
तांस् तान् क्षिपन्त्य् अशरणेषु तमःसु हन्त ॥ [भ्प् 3.15.23]
यच् च व्रजन्त्य् अनिमिषाम् ऋषभानुवृत्त्या
दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः ।
भर्तुर् मिथः सुयशसः कथनानुराग-
वैक्लव्य-बाष्प-कलया पुलकी-कृताङ्गाः ॥ [भ्प् 3.15.25]
यद् वैकुण्ठं यच् च नोऽस्माकम् उपरि-स्थितं नः स्पृहणीय-शीला इति वा
दूरे यमो येषां ते सिद्धत्वेन दूरीकृत-यम-नियमाः सन्तो वा व्रजन्तीति
। भर्तुर् मिथः सुयशसः इत्य् अनेन तथाविधाया भक्तेर् मोक्ष-सुख-
तिरस्कारित्व-प्रसिद्धिः सूचिता । नात्यन्तिकं विगणयन्त्य् अपीत्य् आदौ येऽङ्ग
त्वद्-अङ्घ्रि-शरणा भवतः कथायां कीर्तन्य-तीर्थ-यशसः कुशला
रसज्ञा [भ्प् 3.15.48] इति सनकाद्य्-उक्तेः ।
॥ 3.15 ॥ श्री-ब्रह्मा देवान्
[72]
सच्-चिद्-आनन्द-रूपत्वम् ।
एवम् एतान् मयादिष्टा
ननु तिष्ठन्ति मे पथः ।
क्षेमं विन्दन्ति मत्-स्थानं
तद् ब्रह्म परमं विदुः ॥ [भ्प् 11.20.37]
मे पथः ज्ञान-कर्म-भक्ति-लक्षणान् मत्-प्राप्त्य्-उपायान्, ज्ञान-
कर्मणोर् अपि भक्तेषु भक्तेः प्रथमतः क्वचित् कदाचित् किञ्चित् साहाय्य-
कारित्वात् । क्षेमं मद्-भक्ति-मङ्गल-मयं यत् स्थानं परमं ब्रह्मेति
विदुर् जानन्ति इत्थम् एवोदाहरिष्यते च इति सञ्चिन्त्य भगवान् महा-कारुणिको
विभुः ।
दर्शयामास लोकं स्वं गोपानां तमसः परम् ।
सत्यं ज्ञानम् अनन्तं यद् ब्रह्म-ज्योतिः सनातनम् ।
यद् धि पश्यन्ति मुनयो गुणापायो समाहिता ॥ [भ्प् 10.28.14-15] इति ।
उभयत्रापि चकाराद्य्-अध्याहारादिना त्व् अर्थान्तरं कष्ठं भवति । तैर्
एव च तमसः प्रकृतेः परम् इति वैकुण्ठस्यापि विशेषणत्वेन व्याख्यातम्
इति ॥
॥ 11.20 ॥ श्री-भगवान्
[73]
तथैव --
न यत्र कालो ऽनिमिषां परः प्रभुः
कुतो नु देवा जगतां य ईशिरे ।
न यत्र सत्त्वं न रजस् तमश् च
न वै विकारो न महान् प्रधानम् ॥
परं पदं वैष्णवम् आमनन्ति तद्
यन् नेति नेतीत्य् अतद् उत्सिसृक्षवः ।
विसृज्य दौरात्म्यम् अनन्य-सौहृदा
हृदोपगुह्यार्ह-पदं पदे पदे ॥ [भ्प् 2.2.17-18]
अतत् चिद्-व्यतिरिक्तं, नेति नेतीत्य् एवम् उत्स्रष्टुम् इच्छवो दौरात्म्यं
भगवद्-आत्मनोर् अभेद-दृष्टिं विसृज्य, अर्हस्य श्री-भगवतः, पदं
चरणारविन्दं, पदे पदे प्रतिक्षणं हृदा उपगुह्य आश्लिष्य, नान्यस्मिन्
सौहृदं येषां तथाभूताः सन्तो यद् आमनन्ति जानन्ति, तद् वैष्णवं पदं
श्री-वैकुण्ठम् इति ब्रह्म-स्वरूपम् एव तद् इति तात्पर्यम् । अनेन प्रेम-
लक्षण-साधन-लिङ्गेन निराकार-रूपम् अर्थान्तरं निरस्तम् । अत्र
निराकार-परायणस्यापि मुक्ता-फल-टीका-कृतो दैवाभिव्यञ्जिता गीर् यथा -
तत् परं पदं वैष्णवम् आमनन्ति । अधिकृताधिष्ठित-राजाधिष्ठितत्ववत्
। ब्रह्मादि-पदानाम् अपि । विष्णुनाधिष्ठितत्वात् परम् इत्य् उक्तम् ।
विष्णुनैवाधिष्ठितम् इत्य् अर्थ इति । अतएव श्रुताव् अपि तस्य स्व-महिमैक-
प्रतिष्ठितत्वं स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि इति [छाउ
7.24.1]। अतएवोक्तं क इत्था वेद यत्र स इति ॥
॥ 2.2 ॥ श्री-शुकः
[74]
क इत्थेत्यादि-श्रुतेर् अर्थत्वेनापि स्पष्टम् आह -
स्वं लोकं न विदुस् ते वै
यत्र देवो जनार्दनः ।
आहुर् धूम्र-धियो वेदं
सकर्मकम् अतद्-विदः ॥ [भ्प् 4.29.48]
ये धूम्र-धियो वेदं सकर्मकं कर्म-मात्र-प्रतिपादकम् आहुस् ते
जनार्दनस्य स्वं स्वरूपं लोकं न विदुः किन्तु स्वर्गादिकम् एव विदुः ।
यत्र लोके ॥ 4.29 ॥ श्री-नारदः प्राचीन-बर्हिषम्
[75]
एवं च --
ओं नमस् ते ऽस्तु भगवन् इत्य् आदि गद्ये परमहंस-परिव्राजकैः
परमेणात्म-योग-समाधिना परिभावित-परिस्फुट-पारमहंस्य-
धर्मेणोद्घाटित-तमः-कपाट-द्वारे चित्ते ऽपावृत आत्म-लोके स्वयम्
उपलब्ध-निज-सुखानुभवो भवान् ॥ [भ्प् 6.9.33]
तमः प्रकृतिर् अज्ञानं वा । आत्मलोके स्व-स्वरूपे लोके । एष आत्म-लोक एष
ब्रह्म-लोक इति । दिव्ये ब्रह्म-पुरे ह्य् एष परमात्मा प्रतिष्ठित इत्य्-आदि-
श्रुतौ[*एन्द्नोते #20] ॥ यत् तत् सूक्ष्मं परमं वेदितव्यं नित्यं पदं
वैभवम् आमनन्ति ।
एतल् लोका न विदुर् लोक-सारं विदन्ति तत् कवयो योग-निष्ठा इति पिप्पलाद-
शाखायाम् । परेण नाकं निहितं गुहायां बिभ्राजते यद् यतयो विशन्ति इति
परस्याम् ।
तद् वा एतत् परं धाम मन्त्र-राजाध्यापकस्य यत्र न दुःखादि न सूर्यो
भाति यत्र न मृत्युः प्रविशति यत्र न दोषस् तद् आनन्दं शाश्वतं शान्तं
सदा-शिवं ब्रह्मादि-वन्दितं योगि-ध्येयं यत्र गत्वा न निवर्तन्ते
योगिनः[*एन्द्नोते #21] तद् एतद् ऋचाभ्युक्तं तद् विष्णोः परमं पदं
सदा पश्यन्ति सूरयः दिवीव चक्षुर् आततम् । तद्-विप्रासो विपन्यवो
जागृवांसः समिन्धते । विष्णोर् यत् परमं पदम् इति श्री-नृसिंह-तापन्याम्
[5.10] । न त्व् इयम् अपि ब्रह्म-पुरत्वे नैव व्याख्येया, वन्दितत्वेन यत्र
गत्वेत्य् अनेन च तद्-अनङ्गीकरोत् ।
यतः श्री-विष्णु-पुराणे च श्री-विष्णु-लोकम् उद्दिश्य ऋग् इयम् अनुस्मृता, यथा
ऊर्ध्वोत्तरम् ऋषिभ्यस् तु ध्रुवो यत्र व्यवस्थितः ॥
निर्धूत-दोष-पङ्कानां यतीनां संयतात्मनाम् ।
स्थानं तत् परमं विप्र पुण्य-पाप-परिक्षये ॥
अपुण्य-पुण्योपरमे क्षीणाशोषाप्ति-हेतवः ।
यत्र गत्वा न शोचन्ति तद् विष्णोः परमं पदम् ॥
धर्मं ध्रुवाद्यास् तिष्ठन्ति यत्र ते लोक-साक्षिणः ।
तत्-सार्ष्ट्योत्पन्न-योगेद्धस् तद्-विष्णोः परमं पदम् ॥
यत्रैतद् ओतं प्रोतं च यद् भूतं सचराचरम् ।
भाव्यं च विश्वं मैत्रेय तद्-विष्णोः परमं पदम् ॥ [विप् 2.8.98-102]
तापनी-श्रुतौ[*एन्द्नोते #22] च यत्र न वायुर् वाती इत्य् आदिकं प्राकृत
तत्-तन्-मात्र-निषेधात्मकं तत्रापि तत्-तच्-छ्रवणात् । यत् तु मातुः
सपत्न्या वाग्-वाणैर् हृदि बिद्धस् तु तान् स्मरन् । नैच्छन् मुक्ति-पतेर्
मुक्तिं पश्चात् तापम् उपेयिवान् इति [भ्प् 4.9.29] । तथा --
अहो बत ममानात्म्यं
मन्द-भाग्यस्य पश्यत ।
भव-च्छिदः पाद-मूलं
गत्वा याचे यद् अन्तवत् ॥ इति [भ्प् 4.9.31] श्री-ध्रुवस्यापूर्णंमन्यता श्रूयते
तद्-उच्चपद-कामनयैव तत् प्रार्थितवता तेन लब्ध-मनोरथातीत-
वरेणापि स्व-सङ्कल्पम् एव तिरस्कर्तुम् उक्तम् इति घटते । तत्र ह्य् एवोक्तं
श्री-विदुरेण -- सुदुर्लभं यत् परमं पदं हरेर् [भ्प् 4.9.28] इति । स्वयं
श्री-ध्रुव-प्रियेण --
ततो गन्तासि मत्-स्थानं
सर्व-लोक-नमस्कृतम् ।
उपरिष्टाद् ऋषिभ्यस् त्वं
यतो नावर्तते गतः ॥ इति [भ्प् 4.9.25]
श्री-पार्षदाभ्याम् अपि -- आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं
पदम् इति [भ्प् 4.12.26] । श्री-सुतेन च - ध्रुवस्य वैकुण्ठ-
पदाधिरोहणम् इति [भ्प् 4.10.1] । पञ्चमे ज्योतिश्-चक्र-वर्णने च - विष्णोर् यत्
परमं पदं प्रदक्षिणं प्रक्रामन्ति इति [भ्प् 5.22.17] । यद् विष्णोः
परमं पदम् अभिवदन्तीति च [भ्प् 5.23.1] । प्रपञ्चान्तर्गतत्वेऽपि तद्
धर्मम् उक्तत्वं विकारावर्ति च तथा हि स्थितिम् आह इति न्यायेन । अतोऽस्मिन्
लोके प्रापञ्चिकस्य बहिर्-अंशस्यैव प्रलयो ज्ञेयः । तस्य तु तदानीम्
अन्तर्धानम् एव । एतद् आलम्ब्यैव हिरण्यकशिपुनोक्तम् - किम् अन्यैः काल-
निर्धूतैः कल्पान्ते वैष्णवादिभिर् इति [भ्प् 7.3.11] । अतोऽद्यापि ये तथा वदन्ति
तेऽपि तत्-तुल्या इति भावः ।
अथ श्री-महावैकुण्ठस्य तादृशत्वं तु सुतराम् एव । यथा नाना-श्रुति-
पथोत्थापनेन पाद्मोत्तर-खण्डेऽपि[*एन्द्नोते #23] प्रकृत्य्-अन्तर्गत-
विभूति-वर्णनान्तरं तादृशत्वम् अभिव्यञ्जितं श्री-शिवेन --
एवं प्राकृत-रूपाया विभूते रूपम् उत्तमम् ।
त्रिपाद्-विभूति-रूपं तु शृणु भूधर-नन्दिनि ॥
प्रधान-परम-व्योम्नोर् अन्तरे विरजा नदी ।
वेदाङ्गस्वेद-जनित-तोयैः प्रस्राविता शुभा ॥
तस्याः पारे पर-व्योम त्रिपाद्-भुतं सनातनम् ।
अमृतं शाश्वतं नित्यम् अनन्तं परमं पदम् ॥
शुद्ध-सत्त्व-मयं दिव्यम् अक्षरं ब्रह्मणः पदम् ।
अनेक-कोटि-सूर्याग्नि-तुल्य-वर्चसम् अव्ययम् ॥
सर्व-वेदमयं शुभ्रं सर्व-प्रलय-वर्जितम् ।
हिरण्मयं मोक्षपदं ब्रह्मानन्द-सुखाह्वयम् ॥
समानाधिक्य-रहितम् आद्य्-अन्त-रहितं शुभम् ॥
तेजसात्य्-अद्भुतं रम्यं नित्यम् आनन्द-सागरम् ।
एवम् आदि-गुणोपेतं तद् विष्णोः परमं पदम् ॥
न तद् भासयते सूर्यो न शशाङ्को न पावकः ।
यद् गत्वा न निवर्तन्ते तद् धाम परमं हरेः ॥
तद् विष्णोः परमं धाम शाश्वतं नित्यम् अच्युतम् ।
न हि वर्णयितुं शक्यं कल्प-कोटि-शतैर् अपि ॥ (पद्मप् 6.227.57-
65)[*एन्द्नोते #24]
हरेः पदं वर्णयितुं न शक्यं
मया च धात्रा च मुनीन्द्र-वर्यैः ।
यस्मिन् पदे अच्युत ईश्वरो यः
सो अङ्ग वेद यदि वा न वेद ॥
यद् अक्षरं वेद-गुह्यं यस्मिन् देवा अधि विश्वे निषेदुः ।
यस् तं न वेद किम् ऋचा करिष्यति य उ तद् विदुस् त इमे समासते ॥
तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
अक्षरं शाश्वतं नित्यं दिवीव चक्षुर् आततम् ॥
आ प्रवेष्टुम् अशक्यं तद् ब्रह्म-रुद्रादि-दैवतैः ।
ज्ञानेन शास्त्र-मार्गेण वीक्ष्यते योगि-पुङ्गवैः ॥
अहं ब्रह्मा च देवाश् च न जानन्ति महर्षयः ।
सर्वोपनिषदाम् अर्थं दृष्ट्वा वक्ष्यामि सुव्रते ॥
विष्णोः पदे परमे तु मध्य उत्सः शुभाह्वयः ।
यत्र गावो भूरि-शृङ्गा आसते स्व-सुखं प्रजाः ॥
अत्राहि तत् परं धाम गीयमानस्य शार्ङ्गिणः ।
तद् भाति परमं धाम गोभिर् गेयैः शुभाह्वयैः ॥
आदित्य-वर्णं तमसः परस्तात् ज्योतिर् उत्तमम् ।
आधारो ब्रह्मणो लोकः शुद्धः स ह सनातनः ॥
सामान्यावियुते दूरे अन्तेऽस्मिन् शाश्वते पदे ।
तस्थजुर् जागरुकेऽस्मिन् युवानौ श्री-सनातनौ ॥
यतः स्वसारा युवती भूलीले विष्णु-वल्लभे ।
अत्र पूर्वे ये च साध्या विश्व-देवाः सनातनाः ॥
ते ह नाकं महिमानः सचन्तः शुभ-दर्शनाः ।
तत्-पदं ज्ञानिनो विप्रा जातृवांसः समिन्धते ॥
तद् विष्णोः परमं पदं मोक्ष इत्य् अभिधीयते ।
तस्मिन् बन्ध-विनिर्मुक्ताः प्राप्यन्ते स्व-मुखं पदम् ॥
यं प्राप्य न निवर्तन्ते तस्मान् मोक्स उदाहृतः ।
मोक्षः परं पदं लिङ्गम् अमृतं विष्णु-मन्दिरम् ॥
अक्षरं परमं धाम वैकुण्ठं शाश्वतं परम् ।
नित्यं च परम-व्योम सर्वोत्कृष्टं सनातनम् ॥
पर्याय-वाचकन्य् अस्य परं धाम्नोऽच्युतस्य हि ।
तस्य त्रिपाद्-विभूतेस् तु रूपं वक्ष्यामि विस्तरात् ॥ इत्य् आदि ॥
एतद् रीइतिक-श्रुतयो वैदिकेषु प्रायः प्रसिद्धा इति नोदह्रियन्ते । श्री-नारद-
पञ्चरात्रे च श्री-ब्रह्म-नारद-संवादे जितं ते स्तोत्रे च -
लोकं वैकुण्ठ-नामानं दिव्य-षड्-गुण-संयुतम् ।
अवैष्णवानाम् अप्राप्यं गुण-त्रय-विवर्जितम् ॥
नित्य-सिद्धेः समाकीर्णं तन्-मयैः पाञ्च-कालिकैः ।
सभा-प्रासाद-जक्तं वनैश् चोपवनैः शुभम् ॥
वापी-कूप-तडागैश् च वृक्ष-षण्डैः सुमण्डितम् ।
अप्राकृतं सुरैर् वन्द्यम् अयुतार्क-सम-प्रभम् ॥ इति ॥
ब्रह्माण्ड-पुराणे -
तम् अनन्त-गुणावासं महत्-तेजो दुरासदम् ।
अप्रत्यक्षं निरुपमं परानन्दम् अतीन्द्रियम् ॥ इति ॥
इतिहास-समुच्चये मुद्गलोपख्याने --
ब्रह्मणः सदनाद् ऊर्ध्वं तद् विष्णोः परमं पदम् ।
शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद् विदुः ॥
निर्ममा निरहङ्कारा निर्द्वन्द्वा ये जितेन्द्रियाः ।
ध्यान-योग-पराश् चैव तत्र गच्छन्ति साधवः ॥
येऽर्चयन्ति हरिं विष्णुं कृष्णं जिष्णुं सनातनम् ।
नारायणम् अजं देवं विष्वक्सेनं चतुर्भुजम् ॥
ध्यायन्ति पुरुषं दिव्यम् अच्युतं च स्मरन्ति ये ।
लभन्ते तेऽच्युत-स्थानं श्रुतिर् एषा सनातनी ॥ इति ॥
स्कान्दे श्री-सनत्-कुमार-मार्कण्डेय-संवादे -
यो विष्णु-भक्तो विप्रेन्द्र शुद्ध-चक्रादि-चिह्नितः ।
स याति विष्णु-लोकं वै दाह-प्रलय-वर्जितम् ॥ इति ।
अत्र पद-धामादि-शब्देन स्थान-वाचकेन स्वरूपं त्व् अरूढेन यदि
कश्चित् कथञ्चित् स्वरूपम् एव वाचयति । तर्ह्य् अन्यत्र तत्-प्रसङ्गे
तेऽभिगच्छन्ति मत्-स्थानं यद् ब्रह्म परमं विदुर् इत्य् आदौ साक्षाद् एव
स्थान-शब्द-निगदेन तन् निरसनीयम् । यदि तत्रापि चकाराद्य्-अध्याहारादि-
दैन्येन पूर्व-दर्शितेतिहास-समुच्चयस्य परं ब्रह्मेति यद् विदुर् इति
विशेषण-विरुद्धं वाक्य-भेदम् एवाङ्गीकरोति तर्हि स्वमते तत्र तत्रोक्त-
लोक-शब्दः सहायीकर्तव्यः ।
ततश् च पद-धाम-स्थान-लोक-रूपाणां तेषां शब्दानां एकत्र वस्तुनि
प्रयोगात् परस्परम् अन्यार्थं दूरीकुर्वन्तस् ते कं वा न बोधयन्ति स्वम्
अर्थं, यथा भगवान् हरिर् विष्णुर् अयम् इति ।
अथ हन्त तत्रापि चेत्, स्वरूप-मात्र-वाचकतां भिक्षते तर्हि स्फुटम् एव
पाद्म-वैष्णवादि-वचनैः विपक्षो ह्रेपणीयः । कर्माद्य्-अप्राप्यत्वादि-
प्रतिपादक-वाक्यानि तु विशेषतो वेत्र-पाणि-रूपाणि सन्त्य् एवेति वक्तव्यम् ।
तस्मात् ओं नमस् ते [भ्प् 6.9.33] इत्य् आदि-पद्यम् अपि साध्व् एव व्याख्यातम् ॥
॥ 6.9 ॥ देवाः श्री-हरिम्
[76]
तद् एत्च् छ्री-वैकुण्ठ-स्वरूपं निरूपितम् । तच् च यथा श्री-भगवान् एव
क्वचित् पूर्णत्वेन क्वचिद् अंशत्वेन च वर्तते तथैवेति । बहवस् तस्यापि
भेदाः पाद्मोत्तर-खण्डादौ द्रष्टव्याः । येषु श्री-मत्स्य-देवादीनाम्
अपि पदानि वक्ष्यन्ते । तद् एव सूचयति -
एवं हिरण्याक्षम् असह्य-विक्रमं
स सादयित्वा हरिर् आदि-सूकरः ।
जगाम लोकं स्वम् अखण्डितोत्सवं
समीडितः पुष्कर-विष्टरादिभिः ॥ [भ्प् 3.19.28]
सादयित्वा हत्वा । पवित्रारोप-प्रसङ्गे चैवम् आह बोधायनः -
एवं यः कुरुते विद्वान् वर्षे वर्षे न संशयः ।
स याति परमं स्थानं यत्र देवो नृकेशरी ॥ इति ।
वायु-पुराणे तु शिव-पुरम् अपि तद्वत् श्रूयते, यथा -
अन्तौघस्य समन्तात् तु सन्निविष्टो घनोदधिः ।
समन्ताद् येन तोयेन धार्यमानः स तिष्ठति ॥
बाह्यतो घन-तोयस्य तिर्यग् ऊर्ध्वं च मण्डलम् ।
धारयमाणं समन्तात् तु तिष्ठते घन-तेजसा ॥
अयोगुडनिभो वह्निः समन्तात् मण्डलाकृतिः ।
समन्ताद् घन-वातेन धार्यमाणः स तिष्ठति ॥
भूतादिश् च तथाकाशं भूतादिं च तथा महान् ।
महान् व्याप्तो ह्य् अनन्तेन अव्यक्तेन तु धार्यते ॥
अनन्तम् अपरिव्यक्तम् अनादि-निधनं च तत् ।
तम एव निरालोकम् अमर्यादम् अदेशिकम् ॥
तमसोऽन्ते च विख्यातम् आकाशान्ते च भास्वरम् ।
यर्यान्तायाम् अतस् तस्य शिवस्यायतनं महत् ।
त्रिदशानाम् अगम्यं तु स्थानं दिव्यम् इति श्रुतिर् ॥ इति ॥
॥ 3.19 ॥ श्री-मैत्रेयः
[77]
एवं च यथा श्री-भगवद्-वपुर्-आविर्भवति लोके तथैव क्वचित् कस्यचित् तत्
पदस्याविर्भावः श्रूयते -
पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुर-सत्तमैः ।
तयोः स्व-कलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥
वैकुण्ठः कल्पितो येन लोको लोक-नमस्कृतः ।
रमया प्रार्थ्यमानेन देव्या तत्-प्रिय-काम्यया ॥ [भ्प् 5.8.45]
यथा भगवत आविर्भाव-मात्रं जन्मेति भण्यते । तथैव
वैकुण्ठस्यापि कल्पनम् आविर्भावनम् एव न तु प्राकृतवत् कृत्रिमत्वम्
। उभयत्रापि नित्यत्वाद् इत्य् अभिप्रायेण तत्-साम्येनाह, जज्ञ इति । श्री-
विकुण्ठासुतस्यैवेदं वैकुण्ठम् । मूल-वैकुण्ठं तु सृष्टेः प्राक् श्री-
ब्रह्मणा दृष्टम् इति द्वितीये प्रसिद्धम् एव ।
स तन्-निकेतं परिमृश्य शून्यम् अपश्यमानः कुपितो ननाद इत्य् [भ्प्
8.19.11] उक्तम् । तत्-स्थानं तु स्वर्गादि-गतम् एव ज्ञेयम् ॥
॥ 8.5 ॥ श्री-शुकः
[78]
देहेन्द्रियासु-हीनानां
वैकुण्ठ-पुर-वासिनाम् । [भ्प् 7.1.34]
जन्म-हेतु-भूतैः प्राकृतैर् देहेन्द्रियासुभिर् हीनानां शुद्ध-सत्त्व-मय-
देहानाम् इत्य् अर्थः ॥
॥ 7.1 ॥ युधिष्ठिरः श्री-नारदम्
[79]
तथा -
आत्म-तुल्यैः षोडशभिर्
विना श्रीवत्स-कौस्तुभौ ।
पर्युपासितम् उन्निद्र-
शरद्-अम्बुरुहेक्षणम् ॥ [भ्प् 6.9.29]
षोडशभिः श्री-सुनन्दादिभिः ॥ 6.9 ॥ श्री-शुकः ॥
[80]
अतएव कालातीतास् ते परम-भक्तानाम् अपि परम्-पुरुषार्थ-सामीप्याश् चेत्य्
आह । तस्माद् अमूस् तनु-भृताम् अहम् आशिषो ज्ञ आयुः श्रियं विभवम्
ऐन्द्रियम् आविरिञ्च्यात् ।
नेच्छामि ते विलुलितान् उरुविक्रमेण
कालात्मनोपनय मां निज-भृत्य-पार्श्वम् ॥ [भ्प् 7.9.24]
स्पष्टम् ॥ 7.9 ॥ प्रह्लादः श्री-नृसिंहम्
[81]
तथा च पाद्मोत्तर-खण्डे -
त्रिपाद्-विभूतेर् लोकास् तु असङ्ख्याः परिकीर्तिताः ।
शुद्ध-सत्त्व-मयाः सर्वे ब्रह्मानन्द-सुखाह्वयाः ॥
सर्वे नित्या निर्विकारा हेय-राग-विवर्जिताः ।
सर्वे हिरण्मयाः शुद्धाः कोटि-सूर्य-सम-प्रभाः ॥
सर्वे वेदमया दिव्याः काम-क्रोधादि-वर्जिताः ।
नारायण-पदाम्भोज-भक्त्य्-एक-रस-सेविनः ॥
निरन्तरं साम-गान-परिपूर्ण-सुखं श्रिताः ।
सर्वे पञ्चोपनिषद-स्वरूपया वेद-वर्चसः ॥ इत्य् आदि ॥
अत्र त्रिपाद्-विभुति-शब्देन प्रपञ्चातीत-लोकोऽभिधीयते पाद-विभूति-
शब्देन तु प्रपञ्च इति । यथोक्तं तत्रैव -
त्रिपाद्-व्याप्तिः परं धाम्नि पादोऽस्येहाभवत् पुनः ।
त्रिपाद्-विभूतेर् नित्यं स्यात् अनित्यं पादम् ऐश्वरम् ॥
नित्यं तद्-रूपम् ईशस्य परं धाम्नि स्थितं शुभम् ।
अच्युतं शाश्वतं दिव्यं सदा यौवनम् आश्रितम् ॥
नित्यं सम्भोगम् ईश्वर्या श्रिया भूम्या च संवृत्तम् ॥ इति ॥
अतएव तद्-अनुसारेण द्वितीय-स्कन्धोऽप्य् एवं योजनीयः । तत्र --
सो ऽमृतस्याभयस्येशो
मर्त्यम् अन्नं यद् अत्यगात् ।
महिमैष ततो ब्रह्मन्
पुरुषस्य दुरत्ययः ॥ [भ्प् 2.6.17]
अमृतादि-द्वयं तत्-तृतीयत्वेअ वक्ष्यमाणस्य क्षेमस्याप्य् उपलक्षणम् ।
श्रुतौ च - उतामृतत्वस्येशान इत्य् अत्रामृतत्वं तद् युगलोपलक्षम् । अत्र
धर्मि-प्रधान-निर्देशः, श्रुतौ तु तत्र धर्म-मात्र-निर्देशस्यापि
तत्रैव तात्पर्यम् । तत्रामृतं -स्व-दृष्टवद्भिर् पुरुषैर् अभिष्टुतम् इति ।
परं न यत्-परम् [भ्प् 2.9.9] इत्य् आद्य् उक्तानुसारेण परमानन्दः ।
अतएव अमृत विष्णु-मन्दिरम् इति तत्-पर्यायः । अभयं -- न च काल-विक्रम
[भ्प् 2.9.10] इत्य् आदि भय-मात्राभावः । अतएव द्विजा धामाकुतोभयम्
[भ्प् 12.11.19] इत्य् उक्तम् । क्षेमं न यत्र माया [भ्प् 2.9.10] इत्य् आद्य्
उक्तानुसारेण भगवद्-बहिर्मुखताकर-गुण-सम्बन्धाभावाद्
भगवद्-भजन-मङ्गलाश्रयत्वं ज्ञेयम् । तथा च नारदीये -
सर्व-मङ्गल-मूर्धन्या पूर्णानन्द-मयी सदा ।
द्विजेन्द्र तव मय्य् अस्तु भक्तिर् अव्यभिचारिणी ॥ इति ॥
अतेव क्षेमं विन्दन्ति मत्-स्थानम् [भ्प् 11.20.37] इत्य् उक्तम् ।
तत्र तत्-तच्-छब्देन लक्षणामय-कष्ट-कल्पनया जन-लोकादि-वाच्यतां
निषेधन् हेतुं न्यस्यति मर्त्यं ब्रह्मणोऽपि भयं मत्तो द्विपरार्ध-
परायुष [भ्प् 11.10.30] इत्य् आदि न्यायेन मरण-धर्मकम् । अन्नं कर्मादि-
फलं त्रिलोक्यादिकं यस्माद् अत्यगात् अतिक्रम्यैव तत्र विराजत इति । एषः -
अमृताद्यैश्वर्य-रूपः । दुरत्ययः - ब्रह्मचर्यादिभिः केनचिन् मनसाप्य्
अवरोद्धुम् अशक्यः ।
[82]
तद् एवम् अमर्त्यम् ऐश्वर्यं त्रिपात्, मर्त्यम् एकपात् इति तस्य चतुष्पाद्-
ऐश्वर्यं पुनर् विवृणोति ॥
पादेषु सर्व-भूतानि
पुंसः स्थिति-पदो विदुः ।
अमृतं क्षेमम् अभयं
त्रि-मूर्ध्नो ऽधायि मूर्धसु ॥ [भ्प् 2.6.18]
तिष्ठन्त्य् अत्र सर्व-भूतानीति स्थितयो मर्ताद्यैश्वर्याणि तानि पादा
इवाधिष्ठान-भूतानि यस्य तस्य स्थित्-पदः पादेषु चतुर्ष्व् एव ऐश्वर्य-
भागेषु सर्व-भूतानि पार्षद-पर्यन्तानि । पादान् दर्शयति । त्रयाणां
सात्त्विकादि-पदर्थानां मूर्धैव मूर्धा प्रवृत्तिः तस्य त्रयाणां
मूर्धसु तद् उपरि विराजमानेषु श्री-वैकुण्ठ-लोकेषु अमृतं क्षेमम्
अभयं चाधायि नित्यं धृतम् एव तिष्ठतीत्य् अर्थः ।
ततः पूर्वस्य मर्त्यान्न-मात्रात्मकत्वाद् एकपात्त्वम्, उत्तरस्यामृतादि-
त्रयात्मकत्वात् त्रिपात्त्वम् इति भावः । तद् अनेन पादोऽस्य विश्वा भूतानि
त्रिपादस्यामृतं दिवि इत्य् अस्यार्थो दर्शितः । अस्य पादस् तथास्यैव दिशि
वैकुण्ठे यद् अमृताद्य्-आत्मकं त्रिपात् तच् च विश्वा भूतानीत्य् अर्थः ।
अत्राधिष्ठानाधिष्ठेययोर् ऐक्योक्तिः ।
[83]
अथ चतुष्पात्त्वे च त्रिलोकी-व्यवस्थावत् पक्षान्तरं दर्शयति ।
पादास् त्रयो बहिश् चासन्न्
अप्रजानां य आश्रमाः ।
अन्तस् त्रि-लोक्यास् त्व् अपरो
गृह-मेधो ऽबृहद्-व्रतः ॥ [भ्प् 2.6.19]
च-शब्दः उक्त-समुच्चयार्थः । प्रपञ्चाद् बहिः पादास् त्रय आसन्न् एव
प्रपञ्चात्मकस्य चतुर्थ-पादस्यैव विभाग-विपक्षायां तु त्रिलोक्या बहिश्
चान्ये पादास् त्रय आसन्न् इत्य् एवं मन्त्रोऽपि हि तथैव पुनः शब्दः । ते के?
अप्रजानां ब्रह्मचारि-वनस्थ-यतीनाम् आश्रमाः प्राप्या ये लोकाः ।
[84]
अतएव धर्म-त्रय-प्राप्यत्वात् चतुर्णाम् अपि त्रिपात्त्वम् । अपरस् तु चतुर्थः
पादस् त्रिलोक्या अन्तर् इति गृहमेधस् तत्-प्राप्यः अतएवोभयथापि पुरुषश्
चतुष्पाद् इत्य् आह ।
सृती विचक्रमे विश्वम्
साशनानशने उभे ।
यद् अविद्या च विद्या च
पुरुषस् तूभयाश्रयः ॥ [भ्प् 2.6.20]
विष्वङ् सर्व-व्यापी । पुरुषः पुरुषोत्तमः । एते सृती ते प्रपञ्चाप्रपञ्च-
लक्षणे जीवस्य गती । विचक्रमे - आक्रम्य स्थितः । कथम्भूते ?
साशनानशने कर्मादि-फल-भोग-तद्-अतिक्रम-युक्ते । तस्यैव एतद्-
आक्रमणे हेतुः । यत् ययोः सृत्योः अविद्या मायैकत्र विद्या चिच्-छक्तिर्
अन्यत्राश्रय इत्य् अर्थः । पुरुषोत्तमस् तु तयोर् द्वयोर् अप्य् आश्रयः ।
वक्ष्यते च - यस्माद् दण्डं विराड् जज्ञे [भ्प् 2.6.21] इत्य् आदिना । तस्मात्
सर्वैश्वर्येणैकदेशैश्वर्येण च चतुष्पात्त्वम् इति भावः ॥
॥ 2.6 ॥ श्री-ब्रह्मा श्री-नारदम्
[85]
एवं शान्तरङ्ग-वैभवस्य भगवतः स्वरूप-भूतयैव शक्त्या
प्रकाशमानत्वात् स्वरूप-भूतत्वम् । सा च शक्ति-विशिष्टस्यैव स्वरूपत्वात्
स्वरूपान्तःपातेऽपि भेद-लक्षणां वृत्तिं भजन्ती तत्र प्रकाश-विशेषं
वैचित्री-वृन्दं च प्रकटयति । तत्र तत्र तादृशत्वे भ्रमोपासनासिद्ध-
गुरव एवास्माकं प्रमाणम् । तद् एतद् आह चतुर्दशभिः --
एवं तदैव भगवान् अरविन्द-नाभः
स्वानां विबुध्य सद्-अतिक्रमम् आर्य-हृद्यः ।
तस्मिन् ययौ परमहंस-महा-मुनीनाम्
अन्वेषणीय-चरणौ चलयन् सह-श्रीः ॥ [भ्प् 3.15.37]
तं त्व् आगतं प्रतिहृतौपयिकं स्व-पुम्भिस्
ते ञ्चक्षताक्ष-विषयं स्व-समाधि-भाग्यम् ।
हंस-श्रियोर् व्यजनयोः शिव-वायु-लोलच्-
छुभ्रातपत्र-शशि-केसर-शीकराम्बुम् ॥ [भ्प् 3.15.38]
कृत्स्न-प्रसाद-सुमुखं स्पृहणीय-धाम
स्नेहावलोक-कलया हृदि संस्पृशन्तम् ।
श्यामे पृथाव् उरसि शोभितया श्रिया स्वश्-
चूडामणिं सुभगयन्तम् इवात्म-धिष्ण्यम् ॥ [भ्प् 3.15.39]
पीतांशुके पृथु-नितम्बिनि विस्फुरन्त्या
काञ्च्यालिभिर् विरुतया वन-मालया च ।
वल्गु-प्रकोष्ठ-वलयं विनता-सुतांसे
विन्यस्त-हस्तम् इतरेण धुनानम् अब्जम् ॥ [भ्प् 3.15.40]
विद्युत्-क्षिपन्-मकर-कुण्डल-मण्डनार्ह-
गण्ड-स्थलोन्नस-मुखं मणिमत्-किरीटम् ।
दोर्-दण्ड-षण्ड-विवरे हरता परार्ध्य-
हारेण कन्धर-गतेन च कौस्तुभेन ॥ [भ्प् 3.15.41]
अत्रोपसृष्टम् इति चोत्स्मितम् इन्दिरायाः
स्वानां धिया विरचितं बहु-सौष्ठवाढ्यम् ।
मह्यं भवस्य भवतां च भजन्तम् अङ्गं
नेमुर् निरीक्ष्य न वितृप्त-दृशो मुदा कैः ॥ [भ्प् 3.15.42]
तस्यारविन्द-नयनस्य पदारविन्द-
किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः ।
अन्तर्-गतः स्व-विवरेण चकार तेषां
सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः ॥ [भ्प् 3.15.43]
ते वा अमुष्य वदनासित-पद्म-कोशम्
उद्वीक्ष्य सुन्दरतराधर-कुन्द-हासम् ।
लब्धाशिषः पुनर् अवेक्ष्य तदीयम् अङ्घ्रि-
द्वन्द्वं नखारुण-मणि-श्रयणं निदध्युः ॥ [भ्प् 3.15.44]
पुंसां गतिं मृगयताम् इह योग-मार्गैर्
ध्यानास्पदं बहु-मतं नयनाभिरामम् ।
पौंसं वपुर् दर्शयानम् अनन्य-सिद्धैर्
औत्पत्तिकैः समगृणन् युतम् अष्ट-भोगैः ॥ [भ्प् 3.15.45]
श्री-कुमारा ऊचुः
यो ऽन्तर्हितो हृदि गतो ऽपि दुरात्मनां त्वं
सो ऽद्यैव नो नयन-मूलम् अनन्त राद्धः ।
यर्ह्य् एव कर्ण-विवरेण गुहां गतो नः
पित्रानुवर्णित-रहा भवद्-उद्भवेन ॥ [भ्प् 3.15.46]
तं त्वां विदाम भगवन् परम् आत्म-तत्त्वं
सत्त्वेन सम्प्रति रतिं रचयन्तम् एषाम् ।
यत् ते ऽनुताप-विदितैर् दृढ-भक्ति-योगैर्
उद्ग्रन्थयो हृदि विदुर् मुनयो विरागाः ॥ [भ्प् 3.15.47]
नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं
किम्व् अन्यद् अर्पित-भयं भ्रुव उन्नयैस् ते ।
ये ऽङ्ग त्वद्-अङ्घ्रि-शरणा भवतः कथायाः
कीर्तन्य-तीर्थ-यशसः कुशला रस-ज्ञाः ॥ [भ्प् 3.15.48]
कामं भवः स्व-वृजिनैर् निरयेषु नः स्ताच्
चेतो ऽलिवद् यदि नु ते पदयो रमेत ।
वाचश् च नस् तुलसिवद् यदि ते ऽङ्घ्रि-शोभाः
पूर्येत ते गुण-गणैर् यदि कर्ण-रन्ध्रः ॥ [भ्प् 3.15.49]
प्रादुश्चकर्थ यद् इदं पुरुहूत रूपं
तेनेश निर्वृतिम् अवापुर् अलं दृशो नः ।
तस्मा इदं भगवते नम इद् विधेम
यो ऽनात्मनां दुरुदयो भगवान् प्रतीतः ॥ [भ्प् 3.15.50]
अथ क्रमेण व्याख्यायते । एवं तदैवेति । टीका च -
एवं स्वानां महत्सु अतिक्रमम् अपतराधं तत्-क्षणम् एव विबुध्य,
तस्मिन् यत्र ते सनकादयस् ताभ्यां जय-विजयाभ्यां रुद्धाः । तं देशं
ययौ । आर्याणां हृद्यः मनोज्ञः । चरणौ चलयन्न् इति । अयं भावः - मच्-
चरण-दर्शन्-प्रतिघातजं क्रोधं तौ दर्शयन् शमयिष्यामीति त्वरा-
व्याजेन पद्भ्याम् एव ययौ । श्री-साहित्यं च निष्कामान् अपि विभूतिभिः
पूरयित्वा क्षमापयितुम् इति । इत्य् एषा ।
अत्र तेषाम् आत्मारामाणाम् अप्य् आनन्द-दानार्थं चरण-दर्शनेन तस्य
सच्चिदानन्द-घनत्वं । श्री-साहित्येन तच्-छक्ति-विलासस्यापि
स्वरूपानितरत्वं विवक्षितम् । स्वानाम् इति बहु-वचनं द्वयोर् अप्य्
अपराधः सर्वेष्व् एव परिवारेष्व् आपततीत्य् अपेक्षया तयोर् बहुमानाद् वा
। स्व-शब्देन मुनीनां न तादृशं तद्-आत्मीयत्वम् इति विवक्षितम् ।
तत्र तैर् दृष्टं देवम् अनुवर्णयति पञ्चभिः । तं त्व् आगतम् इति । ते
सनकादयः स्व-समधिना भाग्यं भजनीयं फलं यद् ब्रह्म तद्
एवाक्ष-विषयं । यद् वा स्व-समाधेः स्वय्स हृदि ब्रह्माकारेण पर-तत्त्व-
स्फूर्तेर् भाग्यं फल-रूपं । यतोऽक्ष-विषयं तदीय-स्व-प्रकाशकता-
शक्ति-संस्कृत-निखिल-धीन्द्रिय-स्फुरितत्वेन सम्प्रति विस्पष्टम्
एवानुभूय-मानम् । अनेन पूर्ववत् तस्य शब्द-स्पर्श-रूप-रस-
गन्धाख्यानां सर्वेषाम् एव धर्माणां सच्-चिद्-आनन्द-घनात्मत्वं
साधितम् । तथा नित्यम् एव तथाविध-सततोदित्वर-माधुरी-
वैचित्र्यानुभव-पूर्वकं परम-प्रेमानन्द-सन्दोहेन सेवमानैस्
तस्यात्मीयैः पुरुषैर् आनीत सेवोपविक [?] -नाना-वस्तुभिः सेव्यमानं
भगवन्तं कथञ्चित् क्वचित् कदाचिद् एव तदानीं केनापि समाधिज-
भाग्योदयेन केवलम् अपश्यन्न् इति तेषां परम-विदुषां
स्पृहास्पदावस्थेषु श्री-वैकुण्ठ-पुरुषेषु कस्या अपि भगवद्-आनन्द-
शक्तेर् विलास-मयत्वं दर्शितम् ।
अथ तेषां भगवद्-रतेर् उद्दीपनत्वेन चित्त-क्षोभकत्वात् तत्-
परिच्छदादीनाम् अपि तादृशत्वम् आह हंसेति सार्धैस् त्रिभिः । केशरा
मुक्ता-मय-प्रलम्बाः । कृत्स्न-प्रसादेति । कृत्स्नस्य द्वार-पाल-मुनि-
वृन्दस्य प्रसादे सुमुखम् इति स्पृहणीयानां गुणानां धाम स्थानम् इति
। तत्-तद्-गुणानां तादृशत्वं दर्शितम् । स्नेहावलोकेति विलासस्य । स्वः सुख-
भोग-स्थानानि नित्यानन्तानन्द-रूपित्वात् । तेषां चूडामणिम् आत्म-धिष्ण्यं
स्व-स्वरूपं स्थानं श्री-वैकुण्ठं । तादृशत्वेऽप्य् उरसि शोभितया श्रिया
कृत्वा सुभगयन्तम् इव तत्र भूषण-विशेषं निदधानम् इव । इवेति
वाक्यालङ्कारे । अनेन श्रीवैकुण्ठस्य ।
उक्तं च तद्-विश्व-गुर्व् इत्यादौ आपुः परां मुदम् इत्य् आदि [भ्प् 3.16.26] ।
वक्ष्यते च --
अथ ते मुनयो दृष्ट्वा
नयनानन्द-भाजनम् ।
वैकुण्ठं तद्-अधिष्ठानं
विकुण्ठं च स्वयं-प्रभम् ॥ [भ्प् 3.16.27]
भगवन्तं परिक्रम्य
प्रणिपत्यानुमान्य च ।
प्रतिजग्मुः प्रमुदिताः
शंसन्तो वैष्णवीं श्रियम् ॥ [भ्प् 3.16.28]
पीतांशुके इति । काञ्च्या वनमालया चेत्य् अत्रेत्थ्मभूत-लक्षणे तृतीया ।
विद्युद् इति । हरता मनोहरेण ।
तद् एवं परिच्छदादीनाम् अपि तादृशत्वं वर्णयित्वा पुनस् तस्यैवाति-मनो-
हरत्वम् आह अवोपसृष्टम् इति[*एन्द्नोते #25] । इन्दिराया उत्स्मितं गर्वः
अव भगवति उपसृष्टं । अस्य कान्तस्य नित्येन लाभेन नित्यम् एवाधिकम्
आविर्भावितम् इति तदीयानां धिया वितर्कितम् । अत्र हेतुः - बहु-
सौष्ठवाढ्यम् अनन्त-स्वरूप-गुण-सम्पद्भिर् युक्तम् ।
नन्व् एवम्भूतस्य लक्ष्म्या अपि रहस्यमहानिधिरूपस्य परम-वस्तुनः
कथं प्रकाशः स्मभवतीत्य् अत आह मह्यम् इति । मदादीनां भक्तानां
कृते अङ्गं भजन्तं मूर्तिं प्रकटयन्तम् अस्मद्-विषयकम् अङ्गीकारं
भजन्तम् इत्य् अर्थः ।
उल्लङ्घित-त्रिविध-सीम-समातिशायि-
सम्भावनं तव परिव्रढिम-स्वभावम्
माया-बलेन भवतापि निगुह्यमानं
पश्यन्ति केचिद् अनिशं त्वद्-अनन्य-भावाः ॥ [स्तोत्र-रत्न, 13] इतिवत् ।
भक्तिर् एवैनं नयति भक्तिर् एवैनं दर्शयतीत्य् आदि श्रुतेः । तथाभूतं
तम् अचक्षतेति । निरीक्ष्य च मुदा कैः शिरोभिर् नेमुः । न विशेषेण तृप्ता
दृशो नेत्राणि येषां ते ।
तस्येति [3.15.43]। टीका च - स्वरूपानन्दाद् अपि तेषां भजनानन्दाधिक्यम्
इत्य् आह । तस्य पदारविन्द-किञ्जल्कैः केशरैर् मिश्रा या तुलसी तस्या
मकरन्देन युक्तो यो वायुः, स्व-विवरेण नासा-च्छिद्रेण, अक्षर-जुषां
ब्रह्मानन्द-सेविनाम् अपि, संक्षोभं चित्तेऽतिहर्षं तनौ रोमाञ्चम् । इत्य्
एषा ॥
अत्र पदयोर् अरविन्द-किञ्जल्क-मिश्रा या तुलसीति व्याख्येयम् । अरविन्द-
तुलस्यौ च तदानीं वन-माला-स्थिते एव ज्ञेये । अस्तु तावद्-भगवद्-आत्म-
भूतानां तेषाम् अङ्गोपाङ्गानां तेषु क्षोभ-कारित्वं तत्-समन्धि-
समन्धिनो वायोर् अपीति भावः ।
हर्ष-कारितं सम्भ्रमम् आह द्वाभ्याम् । ते वा [3.15.44] इति । ते वै किल,
वदनम् एव असित-पद्म-कोषः ईषद्-विकसितं नीलाम्बुजं तं उत् ऊर्ध्वं
वीक्ष्य लब्ध-मनोरथाः सन्तः, नया एवारुण-मणयः तेषां श्रयणम्
आश्रय-भूतं अङ्घ्रि-द्वन्द्वं पुनर् अवेक्ष्य अधो-दृष्ट्या वीक्ष्य पुनः
पुनर् एवं वीक्ष्य युगपत् सर्वाङ्ग-लावण्य-ग्रहणाशक्तेः पश्चान्
निदधुश् चिन्तयामासुः, युगपद् एव कथम् इदम् इदं सर्वं पश्येमेत्य्-
उत्कण्ठाभिः स्थायिभाव-पोषकं चिन्ताख्यं भावम् आपुर् इत्य् अर्थः ।
पुंसाम् इति । बहु-मतं ब्रह्मणोऽपि धन-प्रकाशत्वाद् अत्यादरास्पदम् ।
पौंस्नं [?] वपुर् दर्शयानम् इति । पुरुषस्य गर्भोद-शायिनो गुणावतार-
रूपं श्री-विष्ण्व्-आख्यं यद् वपुस् तद् अभिन्नतया स्वं वपुर् दर्शयन्तं,
न तु ब्रह्मादिवद् अन्यथात्वेनेत्य् अर्थः । अनन्येन स्वेनैव सिद्धै`स्वरूप-
भूतैर् इत्य् अर्थः । अतएवोत्पत्तिकैः तद्वद् एवानादि-सिद्धैर् इत्य् अर्थः ।
अणिमाद्य्-अष्टैश्वर्य-युतं विशिष्टं न तूपलक्षितम् । अनेन त्तेषां स्तुत्य्-
आस्पद-विशेषणत्वेन ऐश्वर्योपलक्षित-समस्त-भगानां तादृशत्वं
व्यञ्जितम् । समगृणन् सम्यग् अस्तुवन्न् इति ।
अथ श्री-भगवतस् तादृश-भाव-व्यञ्जिनीं निजाम् उक्तिं तेषाम् एव स्व-
हार्दाभिव्यक्ति-करेण स्तुति-वाक्येन प्रमाणयति, श्री-कुमारा ऊचुर् इति ।
स्तुतिम् आह य इति पञ्चभिः । अत्राक्षर-जुषाम् अपि [भ्प् 3.15.43] इत्य् अनुसृत्य
व्याख्यायते । नित्यं ब्रम-रूपेण प्रकाशसे न तच् चित्रम् । इदानीं तु
विशुद्ध-सत्त्व-लक्सणेन स्वरूप-शक्ति-वृत्ति-विशेषेण प्रकाशितया घन-
प्रकाश-पर-तत्त्वैक-रूपया मूर्त्या प्रत्यक्षोऽसि, अहो भाग्यम् अस्माकम्
इत्य् आहुः ।
हे अनन्त यस् त्वं हृद्-गतोऽपि दुरात्मनाम् अन्तर्हितो न स्फुरसि, स
नोऽस्माकम् अन्तर्हितो न भवसि, नयन-मूलं त्वयैव राद्धः प्राप्तोऽसि ।
तथा च - अपि संराधने प्रत्यक्षानुमानाभ्यां इत्य् अस्य विषय-वाक्यम्
पराञ्चि यानि व्यतृणत् स्वयम्भूस् तस्मात् पराङ् पश्यसि नान्तरात्मन् ।
कश्चिद् धीरः प्रत्यग्-आत्मानम् ऐक्षद् आवृत्त-चक्षुर् अमृतत्वम् इच्छन्न् इति
। अन्तर्धानाभावे हेतुः भवद्-उद्भवेन ब्रह्मणा तेनास्मत्-पित्रा यर्हि
यदैवानुवर्णित-रहा उद्दिष्ट-ब्रह्माख्य-रहस्यः, तदैव नः कर्म-
मार्गेण तद्-रूपतया गुहाः बुद्धिं गतोऽस्मीति ।
ननु, पित्रोपदिष्टं भवताम् अदृश्यम् आत्म-तत्त्वाख्यं रहः, अहं त्व् अन्य
एव स्यां दृश्यत्वात् । नैवम् । अस्मत् प्रत्य् अभिज्ञया भेद-निरासाद् इत्य् आहुः
तं त्वाम् इति । हे भगवन् परं केवलम् आत्म-तत्त्वं ब्रह्म-स्वरूपं त्वां
विदाम विद्मः प्रत्यभिजानीमः । केन प्रत्यभिजानीथ? सम्प्रति अधुना
सत्त्वेन, अस्मास्व् एतद्-रूपाविर्भावेन । एतावन्तं कालं न ज्ञातवन्तो वयं,
अधुना तु साक्षाद्-अनुभवेन निश्चितवन्तः स्म इत्य् अर्थः । त्वं शुद्ध-
चित्त-वृत्तौ ब्रह्मवत् नेत्रेऽप्य् अस्माकं स्फुरसि, न तु दृश्यत्वेनेति भावः
। न केवलं प्रत्यभिज्ञा-मात्रम् इत्य् आहुः । एषाम् अस्माकं रतिं रचयन्तम्
अन्यथा रतिर् अपि त्वय्य् अस्माकं नोद्भवेद् इति भावः ।
निरहं-मानादित्वेनान्येषाम् अप्य् आत्मारामाणाम् अन्यतो रत्य्-अभावम् एव
द्योतयन्तस् तद्-आत्म-तत्त्वम् आहुः तत्रैव साधन-वशिष्ट्यात् किम् अपि
वैशिष्ट्यं चाहुः । यत् त्वद्-रूपत्वेनाविर्भवद्-आत्म-तत्त्वं तेऽनुतापः
कृपा, तेनैव विदितैर् दृढ-भक्ति-योगैर् विदुः । यद् वा अनुतापो दैन्यं तेन
विदितैस् ते तव दृढ-भक्ति-योगैः । कीदृशाः ? उद्ग्रन्थयो निरहं-मानाः
। अतएव विरागाः । तद् एवं पित्रानुवर्णित-रहा इत्य् अत्र रहः-शब्दश् चतुः-
श्लोकी-रीत्या प्रेम-भक्तेर् एव वाचक इति व्यञ्जितम् ।
अथ पूर्वम् अभेद-मतयोऽपि सम्प्रति स्वरूपानन्द-शक्ति-विलासैर् विचित्रित-
मतयो भूयोऽपि भेदात्मिकां भक्तिम् एव प्रार्थयितुं भक्तानां
सुखातिशयम् आहुः, नात्यन्तिकम् इति । आत्यन्तिकं मोक्ष-लक्षणं प्रसादम्
अपि, किम् उतान्यद् इन्द्रादि-पदम् ।
इदानीं स्वापराधं द्योतयन्तो भक्तिं प्रार्थयन्ते कामम् इति । हे
भगवन्म्, अतः पूर्वम् अस्माकं वृजिनं नाभवत् । इदानीं तु सर्वाण्य् अपि
जातानि यतस् त्वद्-भक्तौ शप्तौ । अतस् तैर् वृजिनैर् निरयेषु कामं
नोऽस्माकं भवो जन्म स्यात् । अनेन तद्-अधिगम उत्तर-पूर्वार्धयोर्
अश्लेष-विनाशौ तद्-व्यपदेशाद् इति न्यायेनासम्भव-तद्-भावानां ब्रह्म-
ज्ञानिनाम् अपि स्वेषां बहु-नरक-कारि-वृजिनापात-क्षमापणेन तयोर्
इत्थम्भूत-गुणो हरिर् इतिवत् सर्वाद्भुत-महत्तमत्वं सूचितम् । अहो निरया
अपि भवेयुर् एव, न तावतापि पर्याप्तं, तेभ्यश् च नास्माकम् अपि भयम्
। अत्र तु मूलं दुष्फलं भगवत्-पराङ्-मुखी-भाव एव, स त्व् अस्माकं
माभूद् इति सकाकु प्रार्थयन्ते । नु वितर्के । यदि तु नश् चेतस् ते पदयो
रमेत, तत्राप्य् अलिरद् एव केवल-तन्-माधुर्यास्वादापेक्षया, न तु
ब्रह्मात्मानुभवापेक्षया, एवं वाचश् चेत्य् आदि । अत्र भतापराधस्य
भगवता क्षमा तद्-इच्छा-मात्र-कृत-तत्-क्रोध-जननात् तेषाम्
अपराधाभासत्वेनेति ज्ञेयम् ।
श्लोक-द्वयेऽस्मिन् कैवल्यान् नरकोऽपि त्वद्-भक्ति-मात्रं कामयमानानाम्
अस्माकं तद्-अविरोधत्वात् श्रेयान् इति स्वारस्य-लब्धं, तथापीत्थं
कृतार्थत्वम् अस्माकम् अतिचित्रम् इत्य् आहुः प्रादुर् इति । अनात्मनाम् आत्मनस्
तव एकान्त-भक्ति-रहितानाम् अप्रकटोऽपि इत् इत्थं यः प्रतीतोऽसि, तस्मै
तुभ्यं नम इदं विधेमेति । तत्रैतद् उक्तं भवति । एते ब्रह्म-विद्या-
सिद्धानां परावर-गुरूणाम् अपि गुरवः । अतएव परमहंस-महा-
मुनीनाम् इत्य् उक्तम् ।
तं त्वाम् अहं ज्ञान-घनं स्वभाव-
प्रध्वस्त-माया-गुण-भेद-मोहैः ।
सनन्दनाद्यैर् हृदि संविभाव्यम्[*एन्द्नोते #26] [भ्प् 9.8.23]
इति श्रीमद्-अंशुमद्-वाक्यादौ इहात्म-तत्त्वं सम्यग् जगाद मुनयो यद्
अचक्षतात्मन्न् इति [भ्प् 2.7.5] ब्रह्म-वाक्यादौ, तस्मै मृदित-कषायाय
तमसः पारं दर्शयति भगवान् सनत्-कुमार इत्य् आदि श्रुतौ च तथा
प्रसिद्धम् । आसन् नानुभवस्यैव तु सिद्धस्याणिमादिभिर् विघ्नोऽपि
सम्भाव्यः । न तु सिद्धानुभवस्य, तं सप्रपञ्चम् अधिरूढ-समाधि-
योगः स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुर् इति [भ्प् 3.28.38] श्री-
कपिल-देव-वाक्यात् ।
अतेव तेषां प्रध्वस्त-माया-गुण-भेद-मोहानां क्रोधादिकम् अपि
दुर्घट-घटना-कारिण्या श्री-भगवद्-इच्छयैव जातम् इति तैर् अपि
व्याख्यातम् । तद् एवं तेषां सतत-ब्रह्मानन्द-मग्नत्वं सिद्धम् । तद्
उक्तम् - अक्षर-जुषाम् अपीति [भ्प् 3.15.43], योऽन्तर्हित [भ्प् 3.15.46] इत्य् आदि च
। श्रूयते चान्यत्र ब्रह्म-जुषाम् अविक्षिप्त-चित्तत्वम् । यथा सप्तमे श्री-
नारद-वाक्यम् -
कामादिभिर् अनाबिद्धं प्रशान्ताखिल-वृत्तिर् यत् ।
चित्तं ब्रह्म-सुख-स्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ॥ इति [भ्प् 7.15.35]
तथापि तेषां भगवद्-आनन्दाकृष्ट-चित्तत्वम् उच्यते । एवम् अन्येषाम् अप्य्
आत्मारामाणां तादृशत्वं श्रूयते । स्व-सुख-निभृत-चेतास् तद्-व्युदस् तान्य्
अभावोऽप्य् अजित-रुचिर-लीलाकृष्ट-सारः [भ्प् 12.12.68] इत्य् आदिषु ।
अथ लोक-सङ्ग्रहार्थैर् वेषा तेषां भक्ति-प्रक्रिया प्राचीन-संस्कार-वशा
वा ? नैवम् । उभयत्रापि वासो यथा परिकृतं मदिरा-मदान्ध [भ्प्
3.28.37] इतिवत् तत्रावेशासम्भवात् । दृश्यते त्व् अन्यत्रानावेशः मानसा मे
सुता युष्मत्-पूर्वजाः सनकादयः । चेरुर् विहायसा लोकान् लोकेषु विगत-
स्पृहा [भ्प् 3.15.12] इत्य् अभिधानात् । भगवति त्व् आवेशः परमहंस-
महामुनीनाम् अन्वेषणीय-चरणौ [भ्प् 3.15.37] इत्य् अत्र
यादृच्छिकताविरोध्य्-अन्वेषणीयत्वाभिधानात् । पञ्चमे तु, असङ्ग-निशित-
ज्ञानानल-विधूताशेष-मलानां भवत्-स्वभाव-नामात्मरामाणां
मुनीनाम् अनवरत-परिगुणित-गुण-गण [भ्प् 5.3.11] इत्य् अत्र गद्ये तद्-एक-
निष्ठत्वम् अप्य् उक्तम् । अजित-रुचिर-लीलाकृष्ट-सार इत्य् [भ्प् 12.12.69] अत्रैव
च । अत्रापि तेनेश निवृत्तिम् अवापुर् अलं दृशो न [भ्प् 3.15.50] इत्य् आदौ
सुखदत्वम् अपि साक्षाद् एवोक्तम् । अत्र पूर्वोक्त-हेतोश् च स्तुतौ
प्रतुतोपालम्भ-प्रसङ्गाच् च स्नेहावलोक-कलया हृदि संस्पृशन्तम् इति [भ्प्
3.15.39] साक्षाद् उक्तेश् च दृशाम् एव सुखं जातम् इत्य् अनासक्तिर् एव व्यञ्जितेत्य्
अपि न व्याख्येयम् ।
तस्माद् आत्मारामाणां रमणास्पदत्वाद् ब्रह्माख्यम् आत्म-वस्त्व् एव श्री-
भगवान् । तत्रापि चकार तेषां संक्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोर्
इति [भ्प् 3.15.43] श्रवणात् ततोऽपि घन-प्रकाशः । तत् तद् विचित्र-श्री-भगवद्-
अङ्गोपाङ्गाद्य्-अभिनिवेश-दर्शनानन्द-वैचित्री चोपलभ्यते, सा
चान्यथानुपपत्त्या स्वरूप-शक्ति-विलास-रूपैवेति ।
ननु, भवतु तेषाम् आनन्दाधिक्यात् तस्मिन्निर्विशेष-स्वरूपानन्दस्यैव
घन-प्रकाशता, उपाधि-वैशिष्ट्यात् । यतः, विशुद्ध-सत्त्वांश-भावितायां
चित्त-वृत्तौ यद् ब्रह्म स्फुरति । तद् एव घनीभूताखण्ड-विशुद्ध-सत्त्व-
मये भगवति स्फुरत्-तद्-अध्यस्ततया तदैक्यम् आपन्नायां तस्यां
विशेषत एव स्फुरति । अतएव श्री-विग्रहादि-पर-ब्रह्मणोर् अभेद-वाक्यम्
अपि तद् अत्यन्त-तादात्म्यापेक्षयैव । अतएव तत्र तत्रोपाधाव् एक एव
निर्भेद-परमानन्दः समुपलभ्यते, न तु विशेषाकार-गन्धोऽपि, तत् तद्
उपाधेर् अपेक्षणं तु प्रतिपद-तद्-आनन्द-समाधि-कौतुक-निबन्धनं
तस्मात् कथम् अनेन प्रमाणेन तत्-तद्-उपाधीनाम् अपि पर-तत्त्वाकारत्वं
साध्यते इति । उच्यते - भवन्-मते तावत् शुद्ध-चित्त-वृत्तौ पर-ब्रह्म
स्फुरति सम्यग् एव स्फुरति । भेदांश-लेश-परित्यागेनैव ब्रह्म-
विद्यात्वाङ्गीकारात् । असम्यग्-ज्ञानस्य तत्त्वानङ्गीकारात् तेन
कैवल्यासम्भवाच् च । अतो न श्री-विग्रहादाव् अधिकाविर्भावाङ्गीकारो
युज्यते ।
किं च, शुद्ध-सत्त्व-मया विग्रहादि-लक्षणोपाधय इति वदतस् तव
कोऽभिप्रायः ? किं तत् परिणामास् ते तत्-प्रचुरा वा ? नाद्यः, रजोऽसद्-
भावेन परिणामासम्भव इति ह्य् उक्तम् । न चान्त्यः, येषु विग्रहादिषु तत्-
प्राचुर्यं ते मिश्र-सत्त्वस्य कार्य-भूता इत्य् अर्थापत्तौ सत्त्वं विशुद्धं
श्रयते भवान् स्थितौ [भ्प् 10.2.34] इत्य् आदि-वचन-जाते विशुद्ध-पद-
वैयर्थ्यम् इति चोक्तम् एव । अस्तु वा विमिश्रत्वं तथापि तादृशे ब्रह्म-
स्फुरण-योग्यतैव न सम्भवेत् किं पुनर् विशेषणेत्य् उद्देश्य-विस्मृतिश् च
स्यात् । अथाखण्ड-विशुद्ध-सत्त्वाश्रयत्वेन तेऽपि तद्-रूपतयैवोच्यन्ते ।
ततश् च तेष्व् अनुभूताखण्ड-शुद्ध-सत्त्वे तस्मिन् ब्रह्मानुभवन्तीति चेत्,
तत् अयुक्तं कल्पना-गौरवात्, तेऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम्
इति [भ्प् 3.15.38] साक्षाद् एव गोचरी-कृतत्वेन उक्ततया परम्परा-दृष्टत्व-
प्रतिघाताच् च । तस्य शुद्ध-सत्त्वस्य प्राकृतत्वं तु निषिद्धम् एव । तस्मान्
न ते प्राकृत-सत्त्व-परिणामा न वा तत्-प्रचुराः, किन्तु स्व-प्रकाशत्ता-
लक्षण-शुद्ध-सत्त्व-प्रकाशिता इति प्राक्तनम् एवोक्तं व्यक्तम् । अतएव
तेषाम् उपाधित्व-निराकृतेस् तत्-तद्-अनुभवानन्द-वैचित्री च सम्पद्यते ।
तथैव तम् एवम् एवम्भूतम् अचक्षतेति तत्-तद्-विषय-सौन्दर्य-वर्णनन्ं
प्रस्तुतोपकारित्वात् सार्थकं स्यात् । अखण्ड-शुद्ध-सत्त्व-मय-
मात्रेणैवाभिप्रेत-सिद्धेः । अतएव निरीक्ष्य च न वितृप्त-दृश [भ्प् 3.15.42]
इति दृक्-सम्बन्धि -त्वद्-रूप-कृतैवातृप्तिर् उक्ता ।
तथैव च शब्देनैवाक्षर-जयित्वं पदारविन्द-परिमलात्मक-वायु-
लक्षणस्यतद्-विशेषस्यदर्शितम् । अन्यथोभयत्रापि ब्रह्मानन्दस्यैव
निर्विशेषतयोपलभ्यमानत्वे विद्याजुषाम् अपीत्युपाधि-प्रधानम् एवोच्यते
। उपाधि-युगलस्यैव मिथः स्पर्धित्व-प्राप्तेः । अनेनाक्षरानुभव-
मुख-जयित्व-कथनेन वैशिष्ठादीनं पुत्र-शोकादिकम् इव तद्-
आवेशाभास एवायम् इत्य् अपि निरस्तम् । अत एवम् एवोक्तं श्री-स्वामिभिरपि
स्वरूपानन्दाद् अपि तेषां भजनानन्दाधिक्यम् आहेति । तस्माद् अस्ति
वैचित्र्यम् । इति । अतएव तैर् अपि विचित्रतयैव प्रार्थितं चेतोऽलिवद् यदि नु ते
पदयो रमेत [भ्प् 3.15.49] इत्य् आदौ । अक्क चेन् मधु विन्देत किम् अर्थं
पर्वतं व्रजेत् इति न्यायेन तद्-उपाध्य्-अन्तरान्वेषण-वैयर्थ्यात् तेषाम्
अतद्-अन्वेषण-कौतुकाभावाच् च ।
किं च, न तेषाम् अभेदात्मकोऽनुभवो वा दृश्यते, प्रत्युत नेमुर् निरीक्ष्य
न वितृप्त-दृशो मुदा कैः [भ्प् 3.15.42], कामं भवः स्व-वृजिनैर् निरयेषु
नः स्ताद् इत्य् आदौ [भ्प् 3.15.49], तत्-प्रतियोगि-नमस्काराद्य्-उपलक्षित-
भेदात्मक-भक्ति-सुखम् एव दृश्यते । तस्मान् मायिकोपाधि-निहीनत्वाद्-
धेयांशतया प्रतिभातत्वाच् च न तज्-जातीयं सुखम् अन्य-जातीयं कर्तुं
शक्नोतीति सन्त्य् एवान्यथानुपपत्ति-सिद्धायाःस्वरूप-शक्तेर् एव विलासाः ।
अपि च - अस्तु तावज् जीवन्-मुक्त-दशायां तन्-मते विद्योपाधि-
प्रतिफलितस्यैव सतो ब्रह्मणः सकाशात् श्री-भगवतो घन-प्रकाशतो
सर्वोपाधि-विनिर्मुक्त-मुक्ति-दशायाम् अपि साक्षात् तादृशतास्त्य् एवेति
सुव्यक्तं नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादम् [भ्प् 3.15.48] इत्य् आदौ
तस्मान् नोपाधितारम्य-चिन्ता । भवतः कथाया [भ्प् 3.15.48] इत्य् अनेन
निरुपाधि-ब्रह्म-भूताद् उपरि च वैचित्री स्फुटम् एवासौ स्वीकृता । तस्मात्
सान्तरङ्ग-वैभवस्य भगवतः सुखैक-रूपत्वं, तद्-रूपत्वेऽपि
ब्रह्मतोऽपि घन-प्रकाशत्वं, स्वरूप-शकित्-विलास-वैचित्री चेति विद्वद्-
अनुभव-प्रमाणेन निर्णीतम् । तत्र, मुक्ता अपि लीलया विग्रहं कृत्वा
भजन्त इति । यं सर्वे देवा आमनन्ति मुमुक्षवो ब्रह्म-वादिनश् चेत्य् अत्र
श्रुताव् अद्वैत-वाद-गुरवोऽपि । कृष्णो मुक्तैर् इज्यते वीत-मोहैर् इति भारते
।
ब्रह्म-भूतः प्रसन्नात्मा
न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु
मद्-भक्तिं लभते पराम् ॥ इति [गीता 18.54] श्री-भगवद्-गीतोपनिषत्सु ।
मुक्तानाम् अपि भक्तिर् हि नित्यानन्द-स्वरूपिणीति भारत-तात्पर्ये प्रमाणिता
श्रुतिश् च । तथा आप्रायणात् तत्रापि हि दृष्टम् इत्य् अत्र च मध्व-भाष्य-
प्रमाणिता सौपर्ण-श्रुतिः । सर्वदैनम् उपासीत यावन् मुक्तिम् उक्ता ह्य्
एनम् उपासत इति । अतेव श्री-प्रह्लाद-बलि-प्रभृति-महाभागवत-
सम्बन्धम् अभिप्रेत्य श्री-विष्णु-पुराणे[*एन्द्नोते #27]ऽप्य् उक्तं पाताले
तस्य न प्रीतिर् विमुक्तस्यापि जायते इति ।
॥ 3.15 ॥ श्री-ब्रह्मा देवान्
[86]
अतएव शेष-पुरुषार्थ-स्वरूप एवासाव् इति स्फुटम् एवाहुर् गद्येन --
अथानयापि न भवत इज्ययोरु-भार-भरया समुचितम् अर्थम्
इहोपलभामहे । आत्मन एवानुसवनम् अञ्जसाव्यतिरेकेण
बोभूयमानाशेष-पुरुषार्थ-स्वरूपस्य ॥ [भ्प् 5.3.7-8]
टीका च - आत्मनः स्वत एवानुसरणं सर्वदा अञ्जसा साक्षाद् वोभूयमाना
अतिशयेन भवन्तो ये अशेषाः पुरुषार्थास् ते स्वरूपं यस्य परमानन्दस्य
इत्य् एषा । श्रुतिश् च -सर्व-कामः सर्व-गन्धः सर्व-रसः इत्य् आदौ ॥
॥ 5.3 ॥ ऋत्विग्-आदयः श्री-यज्ञ-पुरुषम्
[87]
तद् एवं ब्रह्मणोऽपि यत् श्री-भगवति प्रकाश-सम्यक्त्वं तत् पूर्वम् एव
विद्वद्-अनुभव-वचन-प्रचयेन सिद्धम् अपि विशेषतो विचार्यते । तत्रैकम्
एव तत्त्वं द्विधा शब्द्यत इति न वस्तुनो भेद उपपद्यते । आविर्भावस्यापि
भेद-दर्शनात् न च संज्ञा-मात्रस्य, किन्तुस्व-स्व-दर्शन-योग्यता-भेदेन
द्विविधोऽधिकारी द्विधा दृष्टं तद् उपास्त इति । तत्राप्य् एकस्य दर्शनस्य
वास्तवत्वम् अन्यस्य भ्रमजत्वम् इति न मन्तव्यम् उभयोर् अपि
याथार्थ्येन दर्शितत्वात् । न चैकस्य वस्तुनः शक्त्या
विक्रिअय्माणांशकत्वाद् अंशतो भेदः । विकृतत्व-निएधात् तयोः । तस्माद्
दृष्टेर् असम्यक्-सम्यक्त्व [?] सत्य् अपि सम्यक्त्वे तद्-अननुसन्धानाद् वा
एकस्मिन्न् अधिकारिण्य् एक-देशेन स्फुरद् एकभेदः परस्मिन्न् अखण्डतया
द्वितीयो भेदः । एवं सति यत्र विशेषं विनैव वस्तुनः स्फूर्तिः, सा दृष्टिर्
असम्पूर्णा, यथा ब्रह्माकारेण, यत्र स्वरूप-भूत-नाना-वैचित्री-
विशेषवद्-आकारेण, सा सम्पूर्णा, यथा श्री-भगवद्-आकारेणेति लभ्यते । त
एतद् अभिप्रेत्य प्रथमं दृष्टि-तारतम्येन तद्-अभिव्यक्ति-तारतम्यं तन्-
महा-पुराणाविर्भाव-कारणाभ्यां प्रतिपाद्यते षड्भिः ।
श्री-नारद उवाच -
जिज्ञासितम् अधीतं च
ब्रह्म यत् तत् सनातनम् ।
तथापि शोचस्य् आत्मानम्
अकृतार्थ इव प्रभो ॥ [भ्प् 1.5.4]
श्री-व्यास उवाच --
अस्त्य् एव मे सर्वम् इदं त्वयोक्तं
तथापि नात्मा परितुष्यते मे ।
तन्-मूलम् अव्यक्तम् अगाध-बोधं
पृच्छामहे त्वात्म-भवात्म-भूतम् ॥ [भ्प् 1.5.5]
स वै भवान् वेद समस्त-गुह्यम्
उपासितो यत् पुरुषः पुराणः ।
परावरेशो मनसैव विश्वं
सृजत्य् अवत्य् अत्ति गुणैर् असङ्गः ॥ [भ्प् 1.5.6]
श्री-नारद उवाच --
भवतानुदित-प्रायं
यशो भगवतो ऽमलम् ।
येनैवासौ न तुष्येत
मन्ये तद् दर्शनं खिलम् ॥ [भ्प् 1.5.8]
नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं
न शोभते ज्ञानम् अलं निरञ्जनम् ।
कुतः पुनः शश्वद् अभद्रम् ईश्वरे
न चार्पितं कर्म यद् अप्य् अकारणम् ॥ [भ्प् 1.5.12]
ओं नमो भगवते तुभ्यं
वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय
नमः सङ्कर्षणाय च ॥ [भ्प् 1.5.37]
इति मूर्त्य्-अभिधानेन
मन्त्र-मूर्तिम् अमूर्तिकम् ।
यजते यज्ञ-पुरुषं
स सम्यग् दर्शनः पुमान् ॥ [भ्प् 1.5.38]
श्लोका अमी बहुभिः संमिश्रा अप्य् अविस्तरत्वाय झटित्य् अर्थ-प्रत्ययस्य च
संक्षिप्यैव समुद्धताः । क्रमेणार्था यथा जिज्ञासितम् इति । टीका च - यत्
सनातनं नित्यं परं ब्रह्म, तच् च त्वया जिज्ञासितं विचारितम्, अधीतम्
अधिगतं प्राप्तं चेत्य् अर्थः । तथापि शोचसि तत् किम् अर्थम् इति शेषः । इत्य्
एषा ।
त्वम् इति त्वम् अर्क इव त्रिलोकीं पर्यटन् तथा वैष्णव-योग-बलांशेन च
प्राण-वायुर् इव सर्व-प्राणिनाम् अन्तश्चरः सन् आत्मनां सर्वेषाम् एव
साक्षी बहिर् अन्तर् वृत्तिज्ञः । अतः परे ब्रह्मणि धर्मतो योगेन निष्टातस्य
। तद् उक्तं याज्ञवल्क्येन
इज्याचार-दयाहिंसा-
दान-स्वाध्याय-कर्मणाम् ।
अयं परमो लाभो यद्
योगेनात्म-दर्शनम् ॥ इति ।
अवरे च ब्रह्मणि वेदाख्ये व्रतैः स्वाध्याय-नियमैर् निष्णातस्यापि मे
अलम अत्यर्थं यन् न्यूनं तत् स्वयम् एव विचक्ष्व वितर्कय । भवतेति ।
भगवद्-यशो-वर्णनोपलक्षणं भजनं विना येनैव रुक्ष-ब्रह्म-
ज्ञानेन असौ भगवान् तु तुष्येत, तद् एव दर्शनं ज्ञानं खिलं न्यूनं
मन्ये तद् एव स्पष्टयति । नैष्कर्म्यम् इति ।
टीका च - निष्कर्म ब्रह्मवेद् एकाकारत्वान् निष्कर्मता-रूपं नैष्कर्म्यम्
अज्यतेऽनेनेत्य् अञ्जनम् उपाधिः तन् निवर्तकं निरञ्जनम् । एवम्भूतम् अपि
ज्ञानम् अच्युते भावो भक्तिस् तद्-वर्जितं चेत् अलम् अत्यर्थं न शोभते
सम्यग्-अपरोक्षत्वाय न कल्पत इत्य् अर्थः । तदा शाश्वत् साधन-काले फल-
काले च अभद्रं दुःख-स्वरूपं यत् काम्यं कर्म, यद् अप्य् अकारणम्
अकाम्यं तच् चेति चकारस्यान्वयः । तद् अपि कर्म ईश्वरे नार्पितं चेत् कुतः
पुनः शोभते ? बहिर्मुखत्वेन सत्त्व-शोधकत्वाभावात् । इत्य् एषा ।
यद् वा निरञ्जनम् इति निरूपाधिकम् अपीत्य् अर्थः । परमादरणीयत्वाद् एव
द्वादशान्ते श्री-सूतेनापि पुनः कृतम् इदं पद्यम् ।
तस्माद् उक्तिर् एव सम्यग्-दर्शन-हेतुर् इत्य् उपसंहरति द्वाभ्याम् नम इति
। मन्त्र-मूर्तिं मन्त्रोक्त-मूर्तिं, मन्त्रोऽपि मूर्तिर् यस्येति वा । अमूर्तिकं
मन्त्रोक्त-व्यतिरिक्त-मूर्ति-शून्यं, प्राकृत-मूर्ति-रहितं वा, मूर्ति-
स्वरूपयोर् एकत्वात् प्राकृतवन् न विद्यते पृथक्त्वेन मूर्तिर् यस्य
तथाभूतं वा । स पुमान् सम्यग्-दर्शनः साक्षाच्-छ्री-भगवतः साक्षात्-
कर्तृत्वाद् इति भावः ॥
॥ 1.5 ॥ श्री-सुतः
[88]
तद् एवं दृष्टितारतम्यद्वारा तद्-अभिव्यक्ततारतम्येन श्री-भगवत
उत्कर्ष उक्तः । अथ लिङ्गान्तरैर् अपि दर्श्यते । तत्रात्मराम-जनाकर्ष-
लिङ्गेन गुणोत्कर्ष-विशेषेण तस्यैव पूर्णताम् आह ।
आत्मारामाश् च मुनयो
निर्ग्रन्था अप्य् उरुक्रमे ।
कुर्वन्त्य् अहैतुकीं भक्तिम्
इत्थम्-भूत-गुणो हरिः ॥ [भ्प् 1.7.10]
टीका च - निर्ग्रन्था ग्रन्थेभ्यो निर्गताः । तद् उक्तं गीतासु -
यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ [गीता 2.52] इति ।
यद् वा ग्रन्थिर् एव ग्रन्थः निर्वृत्त-हृदय-ग्रन्थय इत्य् अर्थः । ननु
मुक्तानां किं भक्त्येत्यादि-सर्वाक्षेप-परिहारार्थम् आह इत्थम्भूत-
गुणः । इत्य् एषा ॥
॥ 1.7 ॥ श्री-सूतः
[89]
आरोहभूमिकाक्रमेणापि तस्यैवाधिक्यम् आह --
मनो ब्रह्मणि युञ्जानो
यत् तत् सद् असतः परम् ।
गुणावभासे विगुण
एक-भक्त्यानुभाविते ॥ [भ्प् 3.24.42]
निरहङ्कृतिर् निर्ममश् च
निर्द्वन्द्वः सम-दृक् स्व-दृक् ।
प्रत्यक्-प्रशान्त-धीर् धीरः
प्रशान्तोर्मिर् इवोदधिः ॥ [भ्प् 3.24.43]
वासुदेवे भगवति
सर्व-ज्ञे प्रत्यग्-आत्मनि ।
परेण भक्ति-भावेन
लब्धात्मा मुक्त-बन्धनः ॥ [भ्प् 3.24.44]
आत्मानं सर्व-भूतेषु
भगवन्तम् अवस्थितम् ।
अपश्यत् सर्व-भूतानि
भगवत्य् अपि चात्मनि ॥ [भ्प् 3.24.45]
इच्छा-द्वेष-विहीनेन
सर्वत्र सम-चेतसा ।
भगवद्-भक्ति-युक्तेन
प्राप्ता भागवती गतिः ॥ [भ्प् 3.24.46]
एक-भक्त्या अव्यभिचारिण्या साधन-लक्षणया भक्त्या, अनुभाविते
निरन्तरम् अपरोक्षीकृते, तां विना कस्यचिद् अप्य् अर्थस्यासिद्धेः ।
निरहङ्कृतित्वाद् एव निर्ममः । तद्-द्वयाभावाद् एव मन-आदीनाम् अप्य्
अभावः सिध्यति । समदृक् भेदाग्राहकः । स्वदृक् स्वस्वरूपाभेदेन
ब्रह्मैव पश्यन् । प्रत्यक् अन्तर्मुखी प्रशान्ता विक्षेप-रहिता धीर् ज्ञानं
यस्य सः ।
तद् एवं ब्रह्म-ज्ञान-मिश्र-भक्ति-साधन-वशेन ब्रह्मानुभवे जातेऽपि
भक्ति-संस्कार-बलेन लब्ध-प्रेमादेस् तद्-ऊर्ध्वम् अपि श्री-भगवद्-
अनुभवम् आह । वासुदेव इति । प्रत्यग्-आत्मनि सर्वेषाम् आश्रय-भूते परेण
प्रेम-लक्षणेन भक्ति-भावेन तत्-सत्तयैव लब्धा आत्मानस् तदीयात्मका
अहङ्कारादयो येनेति । ब्रह्म-ज्ञानेन प्राकृताहङ्कारादि-लयानन्तरम्
आविर्भूतान् प्रेमानन्दात्मक-शुद्ध-सत्त्व-मयान् लब्धवान् इत्य् अर्थः ।
ननु त एव प्रत्यावर्तन्तां किं वा पूर्ववद् अमी अपि बन्ध-हेतवो
भवन्तु । नेत्य् आह, मुक्त-बन्धनः । अनावृत्तिः शब्दाद् इति न्यायात् भक्त्य्-
अतिशयेन लब्धात्मत्वम् एव प्रतिपादयति, आत्मानम् इति । आत्मात्र
परमात्मा, सर्वथा तस्य भगवान् एवास्फुरद् इति वाक्यार्थः । ततः
साक्षाद् एव तत्-प्राप्तिम् आह, इच्छा-द्वेषेति । तद् एवं तेन भागवती गतिः
प्राप्ता । हेयत्वाद् अन्यत्रेच्छा-द्वेष-विहीनेन तस्माद् एव हेतोः सर्वत्र
सम-चेतसा । तद् उक्तम् --
नारायण-पराः सर्वे
न कुतश्चन बिभ्यति ।
स्वर्गापवर्ग-नरकेष्व्
अपि तुल्यार्थ-दर्शिनः ॥ [भ्प् 6.17.28]
यद् वा, मया लक्ष्म्या सह वर्तते इति सम इति सहस्र-नाम-भाष्यात्
भगवच्-चेतसेति प्राप्तो भागवतीं गतिम् इति पाठे, स कर्दम एव तां
गतिं प्राप्तः । अत्र भगवद्-भक्ति-योगेनेत्य् एव विशेष्यम् इति । एवम् एवोक्तं
श्री-भगवद्-गीतोपनिषत्सु --
बुद्ध्या विशुद्धया युक्तो
धृत्यात्मानं नियम्य च ।
शब्दादीन् विषयांस् त्यक्त्वा
रागद्वेषौ व्युदस्य च ॥ [गीता 18.51]
विविक्तसेवी लघ्वाशी
यत-वाक्-काय-मानसः ।
ध्यान-योग-परो नित्यं
वैराग्यं समुपाश्रितः ॥ [गीता 18.52]
अहंकारं बलं दर्पं
कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो
ब्रह्म-भूयाय कल्पते ॥ [गीता 18.53]
ब्रह्म-भूतः प्रसन्नात्मा
न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु
मद्-भक्तिं लभते पराम् ॥ [गीता 18.54]
भक्त्या माम् अभिजानाति
यावान् यश् चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा
विशते तद्-अनन्तरम् ॥ [गीता 18.55] इति ।
अत्र विंशतिर् मिलनार्थः, यथा दुर्योधनं परित्यज्य युधिष्ठिरं
प्रविष्टवान् अयं राजेति । श्री-दशमेऽपि श्री-गोपैर् ब्रह्म-सम्पत्त्य्-
अनन्तरम् एव वैकुण्ठो दृष्ट इति श्री-स्वामिभिर् एव च व्याख्यातम् ॥
॥ 3.24 ॥ श्री-मैत्रेयः
[90]
तथा
तस्माज् ज्ञानेन सहितं
ज्ञात्वा स्वात्मानम् उद्धव ।
ज्ञान-विज्ञान-सम्पन्नो
भज मां भक्ति-भावितः ॥ [भ्प् 11.13.5]
स्वात्मानं जीव-स्वरूपम् । ज्ञानं विज्ञानं च बाह्यम् । किं बहुना अत्र
श्री-चतुःसन-शुकादय एवोदाहरणम् इति ॥
॥ 11.13 ॥ श्री-भगवान्
[91]
श्री-भगवता शब्द-ब्रह्म-मय-कम्बु-स्पृष्ट-कपोलः तत्-प्रकाशित-
यथार्थ-निगदो ध्रुवो बालकोऽपि तथा विवृतवान् इत्य् एवम् आनन्द-
चमत्कार-विशेष-श्रवणाद् अपि तस्यैव पूर्णत्वम् आह ।
या निर्वृतिस् तनु-भृतां तव पाद-पद्म-
ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात्
सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्
किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ [भ्प् 4.9.10]
स्व-महिमनि असाधारण-माहात्म्येऽपि माभूत् न भवतीत्य् अर्थः ।
अन्तकासिः कालः ॥
॥ 4.9 ॥ ध्रुवः श्री-ध्रुवप्रियम्
[92]
परम-सिद्धि-रूपाद् ब्रह्मणि लयाद् अपि तद्-भजनस्य गरीयस्त्वेन तस्यैव
गरीयस्त्वम् उपदिशति ।
अनिमित्ता भागवति
भक्तिः सिद्धेर् गरीयसी ॥ [भ्प् 3.25.3]
सिद्धेर् मुक्तेर् अपि टीका च । सिद्धेर् ज्ञानात् मुक्तेर् वेति श्री-भगवन्-नाम-
कौमुदी ।
॥ 3.25 ॥ श्री-कपिल-देवः
[93]
तद् एवं श्री-भगवान् एवाखण्डं तत्त्वं साधक-विशेषाणां तादृश-
योग्यत्वाभावात् सामान्याकारोदयत्वेन तद् असम्यक् स्फूर्तिर् एव ब्रह्मेति
साक्षाद् एव वक्ति द्वाभ्याम् -
ज्ञान-योगश् च मन्-निष्ठो
नैर्गुण्यो भक्ति-लक्षणः ।
द्वयोर् अप्य् एक एवार्थो
भगवच्-छब्द-लक्षणः ॥ [भ्प् 3.32.32]
यथेन्द्रियैः पृथग्-द्वारैर्
अर्थो बहु-गुणाश्रयः ।
एको नानेयते तद्वद्
भगवान् शास्त्र-वर्त्मभिः ॥ [भ्प् 3.32.33]
टीका च - अनेन च ज्ञान-योगेन भगवान् एव प्राप्यः यथा भक्ति-
योगेनेत्य् आह । नैर्गुण्यो ज्ञान-योगश् च मन्-निष्ठो भक्ति-लक्षणश् च यो
योगः तयोर् द्वयोर् अप्य् एक एवार्थः प्रयोजनम् । कोऽसौ ? भगवच्-छब्दो
लक्षणं ज्ञापको यस्य । तद् उक्तं गीतासु - ते प्राप्नुवन्ति माम् एव सर्व-
भूत-हिते रताः [गीता 12.4] इति ।
ननु ज्ञान-योगस्य लाभः फलं शास्त्रेणावगम्यते । भक्ति-योगस्य तु
भजनीयेश्वर-प्राप्तिः । कुतस् तयोर् एकार्थत्वम् इत्य् आशङ्क्य
दृष्टान्तेनोपपादयति । यथा बहूनां रूप-रसादीनां गुणानाम् आश्रयः
क्षीरादिर् एक एवार्थो मार्ग-भेद-प्रवृत्तैर् इन्द्रिअय्र् नाना प्रतीयते ।
चक्षुषा शुक्ल इति रसनेन मधुर् ऐति स्पर्शेन शीत इत्य् आदि तथा भगवान्
एक एव तत्-तद्-रूपेणआवगम्यते । इत्य् एषा ।
अत्र भगवान् एवाङ्गित्वेन निगदितः । अतः सर्वांश-प्रत्यायकत्वाद् भक्ति-
योगश् च मनः-स्थानीयो ज्ञेयः ॥
॥ 3.32 ॥ श्री-कपिल-देवः
[94]
अतएव तद्-अंशत्वेनैव ब्रह्म श्रूयते ।
अहं वै सर्व-भूतानि
भूतात्मा भूत-भावनः ।
शब्द-ब्रह्म परं ब्रह्म
ममोभे शाश्वती तनू ॥ [भ्प् 6.16.51]
टीका च - सर्व-भूतान्य् अहम् एव । भूतानाम् आत्मा भोक्ताप्य् अहम् एव ।
भोक्तृ-भोग्यात्मकं विश्वं मद्-व्यतिरिक्तं नास्तीत्य् अर्थः । यतोऽहं भूत-
भावनः भूतानां प्रकाशकः कारणं च । ननु शब्द-ब्रह्म प्रकाशक्ं
पर-ब्रह्म कारणं प्रकाशकं च सत्यं ते उभे ममैव रूपे इत्य् आह,
शब्द-ब्रह्मेति । शाश्वती शाश्वत्यौ । इत्य् एषा ॥
अत्र शब्द-ब्रह्मणः साहचर्यात् पर-ब्रह्मणोऽप्य् अंशत्वम् एवायाति ।
॥ 6.16 ॥ श्री-सङ्कर्षणश् चित्र-केतुम्
[95]
अतो भगवतोऽसम्यक्-प्रकाशत्वाद् विभूति-निर्विशेषम् एव तद् इत्य् अप्य् आह --
मदीयं महिमानं च
परब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे
सम्प्रश्नैर् विवृतं हृदि ॥ [भ्प् 8.24.38]
॥ 8.24 ॥ श्री-मत्स्य-देवः सत्यव्रतम्
[96]
तथा च विभूति-प्रसङ्ग एव -
पृथिवी वायुर् आकाश
आपो ज्योतिर् अहं महान् ।
विकारः पुरुषोऽव्यक्तं
रजः सत्त्वं तमः परम् ॥ [भ्प् 11.16.37]
टीका च - परं ब्रह्म च इत्य् एषा ॥
अतएव श्री-वैष्णव-साम्प्रदायिकैः श्रीमद्भिर् बालमन्दराचार्य-
महानुभव-चरणैर् अप्य् उक्तम् -
यद् अण्ड-मण्डान्तर-गोचरं च
यद् दशोत्तराण्य् अवरणानि यानि च ।
गुणाः प्रधानं पुरुषः परं पदं
परात्परं ब्रह्म ते विभूतयः ॥ इति ॥
॥ 11.16 ॥ श्री-भगवान्
[97]
अतो ब्रह्म-रूपे प्रकाशे तद् वैशिष्ट्यानुपलम्भनात् तत्-प्रभावत्व-
लक्षणम् अपि तस्य व्यपदिश्यते । रूपं यत् तत् प्राहुर् अव्यक्तम् आद्यं
ब्रह्म-ज्योतिर् [भ्प् 10.3.24][*एन्द्नोते #28] इत्यादि ।
ब्रह्मैव ज्योतिः प्रभा यस्य तथाभूतं रूपं श्री-विग्रहम् । तथा चोक्तं
ब्रह्म-संहितायां -
यस्य प्रभा प्रभवतो जग-अण्ड-कोटि-
कोटिष्व् अशेष-वसुधादि-विभूति-भिन्नम् ।
तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्रह्मस् 5.40] इति ॥
॥ 10.3 ॥ श्री-देवकी श्री-भगवन्तम्
[98]
अतो ब्रह्मणः परत्वेन श्री-भगवन्तं कण्ठौक्त्यैवाह ।
यः परं रहसः साक्षात्
त्रिगुणाज् जीव-संज्ञितात् ।
भगवन्तं वासुदेवं
प्रपन्नः स प्रियो हि मे ॥ [भ्प् 4.24.28]
रहो ब्रह्म तस्माद् अपि परं ततः सुतरां त्रिगुणात् प्रधानाज् जीव-
संज्ञितात् जीवात्मनः परं भगवन्तं यः साक्षात् श्रवणादिनैव न तु
कर्मार्पणादिना प्रपन्न इत्य् अन्वयः । तथा च विष्णु-धर्मे नरक-
द्वादशी-व्रते श्री-विष्णु-स्तवः -
आकाशादिषु शब्दादौ श्रोत्रादौ महद्-आदिषु ।
प्रकृतौ पुरुषे चैव ब्रह्मण्य् अपि च स प्रभुः ॥
येनैक एव सर्वात्मा वासुदेवो व्यवस्थितः ।
तेन सत्येन मे पापं नरकार्ति-प्रदं क्षयम् ॥
प्रयातु सुकृतस्यास्तु ममानुदिवसं जय ॥ इति ॥
अत्र प्रकरणानुरूपेण सर्वात्म-शब्देन चान्यथा समाधानं पराहतम्
। तथा च तत्रोचरं क्षत्र-बन्धूपाख्याने -
यन्-मयं परमं ब्रह्म तद्-अव्यक्तं च यन्-मयम् ।
यन्-मयं व्यक्तम् अप्य् एतद् भविष्यामि हि तन्-मयः ॥ इति ॥
तत्रैव मासर्क्ष-पूजा-प्रसङ्गे ततः परत्वं स्फुटम् एवोक्तं --
यथाच्युतस् त्वं परतः परस्मात्
स ब्रह्म-भूतात् परमः परात्मन् ।
तथाच्युत त्वं वाञ्छितं तन्
ममापदं चापहराप्रमेय ॥ इति ॥
श्री-विष्णु-पुराणे च - स ब्रह्म-पारः पर-पार-भूत इति । अक्षरात् ततः
परतः पर इति श्रुतेः ॥
॥ 4.24 ॥ श्री-रुद्रः प्रचेतसम्
[99]
तद् एवम् एवाभिप्रायेण स वा एष पुरुषोऽन्न-रस-मय इत्य् आदाव् [तैत्तु 2.1]
अन्तरङ्गान्तरङ्गैकैकात्म-कथनान्ते इदं पुच्छं प्रतिष्ठा पृथिवी
पुच्छं प्रतिष्ठा महः पुच्छं प्रतिष्ठा ब्रह्म पुच्छं प्रतिष्ठेति
[तैत्तु 2.1] श्रुत्य्-उक्तायाः पञ्चम्या अपि प्रतिष्ठाया उपरि ।
श्री-गीतोपनिषदो यथा --ब्रह्मणो हि प्रतिष्ठाहम् [गीता 14.27] इत्य् अत्र
ब्रह्म-शब्द-सन्निहित-प्रतिष्ठा-शब्देन सा श्रुतिः स्मर्यते । ततश् चैवम्
एव व्याख्येयम् । हि-शब्दः,
मां च यो ऽव्यभिचारेण
भक्ति-योगेन सेवते ।
स गुणान् समतीत्यैतान्
ब्रह्म-भूयाय कल्पते ॥ [गीता 14.26]
इत्य् अस्य निरन्तर-प्राचीन-वचनस्य हेतुतया विवक्षया । अतो गुणातीत-
ब्रह्मणः प्रकृतार्थत्वात् प्राचीनार्थ-हेतु-वचनेऽस्मिन्न् उपचारेण तच्-
छब्दस्य ब्रह्म-शक्ति-रूपं हिरण्यगर्भ-रूपं वा अर्थान्तरम् अयुक्तं
किन्त्व् एवम् एव युक्तं यथा ।
ननु त्वद्-भक्त्या कथं निर्गुण-ब्रह्म-धर्म-प्राप्तिः । सा तु तद्-
एकानुभवेन तत्राह ब्रह्मणो हीति । हि यस्मात् ब्रह्म-पुच्छं प्रतिष्ठेति
परम-प्रतिष्ठत्वेन श्रुतौ यत् प्रसिद्धं तच् च तस्याम् एव श्रुतौ
आनन्द-मयाङ्गत्वेन दर्शितं तस्य पुच्छत्व-रूपित-ब्रह्मणः । आनन्द-
मयोऽभ्यासाद् इति सूत्रकार-सम्मत-पर-ब्रह्म-भाव आनन्दमयाख्यः
प्रचुर-प्रकाशो रविर् इतिवत् प्रचुरश् चानन्द-रूपः श्री-भगवान् अहं
प्रतिष्ठा ते ।
यद्यपि ब्रह्मणो मम च न भिन्न-वस्तुत्वं तथापि श्री-भगवद्-
रूपेणैवोद् इव मयि प्रतिष्ठात्वस्य परा काष्ठेत्य् अर्थः । स्वरूप-शक्ति-
प्रकाशेनैव स्वरूप-प्रकाशस्याप्य् आधिक्यार्हत्वात् । निर्विशेष-ब्रह्म-
प्रकाशस्याप्य् उपरि श्री-भगवत्-प्रकाश-श्रवणात् । अत एकस्यापि वस्तुनस्
तथा तथा प्रकाश-भेदो रजनी-खण्डिनो ज्योतिषो मार्तण्ड-मण्डल-गत-
गभस्ति-भेदवद् उत्प्रेक्ष्यः ।
अतो ब्रह्म-प्रकाशस्यापि मद्-अधीनत्वात् कैवल्य-कामनया कृतेन मद्-
भजनेन ब्रह्मणि नीयमानो ब्रह्म-धर्मम् अपि प्राप्नोतीत्य् अर्थः । अत्र
श्री-विष्णु-पुराणम् अपि सम्प्रवदते - शुभाश्रयः स चित्तस्य सवर्गस्य
तथात्मनः इति [विप् 6.7.76] । व्याख्यातं च तत्रापि स्वामिभिः ।
सवर्गस्यात्मनः पर-ब्रह्मणोऽप्य् आश्रयः प्रतिष्ठा ।
तद् उक्तं भगवता ब्रह्मणो हि प्रतिष्ठाहम् इति । अत्र च तैर् व्याख्यातम्
। ब्रह्मणोऽहं प्रतिष्ठा घनीभूतं ब्रह्मैवाहम् । यथा घनीभूत-
प्रकाश एव सूर्य-मण्डलं तद्वद् इत्य् अर्थः । इति ।
अत्र च्वि-प्रत्ययस् तु तत्-तद्-उपासक-हृदि तत्-प्रकाशस्याभूतत्वं ब्रह्मण
उपचर्यते इतीत्थम् एव । अत्रैव प्रतिष्ठा प्रतिमेति टीका मत्सर-कल्पिता ।
न हि तत्-कृता असम्बन्धत्वात् । न हि निराकारस्य ब्रह्मणः प्रतिमा
सम्भवति । न च तत्-प्रकाशस्य प्रतिमा सूर्यः । न चामृतस्याव्ययस्येत्य्
आद्य्-अनन्तर-पाद-त्रयोक्तानां मोक्षादीनां प्रतिमात्वं घटते । न वा
श्रुति-शैली-विष्णु-पुराणयोः संवादितास्ति । तस्मान् न आदरणीया यदि
वादरणीया तदा तच्-छब्देनाप्य् आश्रय एव वाचनीयः । प्रतिलक्षीकृत्य
नातिपरिमितं भवति यत्रेति तद् एतत् सर्वम् अभिप्रेत्याहुः ।
दृतय इव श्वसन्त्य् असु-भृतो यदि तेऽनुविधा
महद्-अहम्-आदयोऽण्डम् असृजन् यद् अनुग्रहतः ।
पुरुष-विधोऽन्वयोऽत्र चरमोऽन्नमयादिषु
यः सद्-असतः परं त्वम् अथ यद् एष्व् अवशेष-मृतम् ॥ [भ्प् 10.87.17]
असुभृतो जीवा दृतय इव श्वसद्-आभासा अपि यदि ते तवानुविधा भक्ता
भवन्ति तदा श्वसन्ति प्राणन्ति । तेषु तद्-भक्तानाम् एव जीवानां जीवनं
मन्यामहे इति भावः । कथं यस्य तव अनुग्रहतः समष्टि-व्यष्टि-
रूपम् अखण्डं देहं महद्-अहम्-आदयोऽसृजन् अतः स्वयम् एव तथाविधात्
त्वत्तः पराङ्-मुखानाम् अन्येषां दृति-तुल्यत्वं युक्तम् एवेति भावः ।
अनुग्रहम् एव दर्शयन्ति अत्र महद्-अहम्-आदिषु अन्वयः प्रविष्टस् त्वम्
इति ।
कथं मद्-आदेश-मात्रेण तेषां तथा सामर्थ्यं स्यात् । तत्राहुः यद्
यस्मात् सत आनन्द-मयाख्य-ब्रह्मणोऽवयवस्य प्रियादेर् असतस् तद्-
अन्यस्माद् अन्नम्यादेश् च यत् परं पुच्छ-भूतं सर्व-प्रतिष्ठा ब्रह्म
तत् खलु त्वं तत्रापि एषु प्रतिष्ठा-वाक्येषु अवशेषं वाक्य-शेषत्वेन
स्थितं ब्रह्मणो हि प्रतिष्ठाहम् इत्य् आदाव् अन्यत्र प्रसिद्धम् । आत्म-तत्त्व-
विशुद्ध्य्-अर्थ्यं यद् आह भगवान् ऋतम् इत्य् आदौ ऋतत्वेनापि प्रसिद्धं श्री-
भगवद्-रूपम् एव त्वम् अतोऽन्नमयादिषु पुरुष-विधः पुरुषाकारो यश्
चरमः प्रिय-मोद-प्रमोदानन्द-ब्रह्मणाम् अवयवी आनन्द-मयः स
त्वम् इति ।
तस्मान् मूल-परमानन्द-रूपत्वात् तवैव प्रवेशेन तेषां तथा
सामर्थ्यं युक्तम् एवेति भावः । को ह्य् एवान्यात् कः प्राण्याद् यद् एष आकाश
आनन्दो न स्याद् इति [तैत्तु 2.7.1] श्रुतेः । प्रकरण्ऽस्मिन्न् एतद् उक्तं भवति
। यद्यप्य् एकस्-स्वरूपेऽपि वस्तुनि स्वगत-नाना-विशेषो विद्यते तथापि तादृश-
शक्ति-युक्ताया एव दृष्टेस् तत् तत् सर्व-विशेष-ग्रहणे निमित्तता दृश्यते न त्व्
अन्यस्याः । यथा मांस-मयी दृष्टिः सूर्य-मण्डलं प्रकाश-मात्रत्वेन
गृह्णाति, दिव्या तु प्रकाश-मात्र-स्वरूपत्वेऽपि तद्-अन्तर्गत-दिव्य-सभादिकं
गृह्णाति । एवम् अत्र भक्तेर् एव सम्यक्त्वेन तयैव सम्यक् तत्त्वं दृश्यते
। तच् च ब्रह्मेति तस्य असम्यग्-रूप्तवम् । तत्र च सामान्यत्वेनैव ग्रहणे
कारणस्य ज्ञानस्य तद्-अन्तरीणावान्तर-भेद-पर्यालोचनेष्व् असामार्थ्याद्
बहिर् एवावस्थितेन तेन भागवत-परमहंस-वृन्दानुभवासिद्ध-नाना-
प्रकाश-विचित्रेऽपि स्व-प्रकाशः । लक्षण-पर-तत्त्वे प्रकाश-सामान्य-
मात्रं यद् गृह्यते तत् तस्य प्रमा-रूपत्वेनैवोत्प्रेक्ष्यते । ततश् चात्मत्वम्
अंशत्वं विभूतित्वं च व्यपदिश्यते तस्य । तस्माद् अखण्ड-तत्त्व-रूपो
भगवान् सामान्य-कार-स्फूर्ति-लक्षणत्वेन स्व-प्रभाकारस्य
ब्रह्मणोऽप्य् आश्रय इति युक्तम् एव ।
अतएव यस्य पृथिवी शरीरं यस्य आत्मा शरीरं यस्याव्यक्तं शरीरं
यस्याक्षरं शरीरम् एष सर्व-भूतान्तरात्मा अपहत-पाप्मा दिव्यो देव
एको नारायण इत्य् एतच् छ्रुत्य्-अन्तरं चाक्षर-शब्दोक्तस्य ब्रह्मणोऽप्य्
आत्मत्वेन नारायणं बोधयति ।
उक्तात्मादि-शब्द-पारिशेष्य-प्रमाणेन चकार तेषां सङ्क्षोभम् अक्षर-
जुषाम् अपीति प्रयोग-दृष्ट्या चात्र ह्य् अक्षर-शब्देन ब्रह्मैव वाच्यम् ।
तथा श्री-भगवता साङ्ख्य-कथने । कालो माया-मये जीवे [भ्प् 11.24.27]
इत्य् आदौ महा-प्रलये सर्वावशिष्टत्वेन ब्रह्मोपदिश्य तदापि तस्य
द्रष्टृत्वं स्वस्मिन्न् उक्तम् ।
एष साङ्ख्य-विधिः प्रोक्तः
संशय-ग्रन्थि-भेदनः ।
प्रतिलोमानुलोमाभ्यां
परावर-दृशा मया ॥ [भ्प् 11.24.29]
इत्य् अत्र परावर-दृशेत्य् अनेन सोऽयं चात्र विवेकः । साङ्ख्यं ख्यानं तच्-
छास्त्रं खलु स्वरूप-भूत-तद्-विशेषम् अनुसन्धाय यत् तत् स्वरूप-
मात्रं तदानीम् अवशिष्टं वदति तद् एव च ब्रह्माख्यं तद् एव च
प्रपञ्चावच्छिन्न-चरम-प्रदेशे प्रपञ्च-लयाद् वैकुण्ठ इव स्वरूप-
भूत-विशेष-प्रकाशाद् अवैशिष्यमानत्वेन वक्तुं युज्यते ।
तच् च स्व-विशेष्य-मात्रं स्वरूप-शक्ति-विशिष्टेन वैकुण्ठ-स्थेन श्री-
भगवता पृथग् इव तत्रानुभूयत इति । तद् एवं निर्विशेषत्वेन स्पर्श-रूप-
रहितस्यापि तस्य भगवत्-प्रभा-रूपत्वम् अनुत्प्रेक्ष्य तद्-अभिन्नत्वेन
ब्रह्मत्वं व्यपदिष्टम् । ततः स्वरूपादि-माधुरी-धारितया सविशेषस्य
साक्षाद् भगवद्-अङ्ग-ज्योतिषः सुतराम् एव तत् सिध्यति । यथोक्तं श्री-
हरिवंशे महा-काल-पुराख्याने श्रीमद्-अर्जुनं प्रति स्वयं भगवता ।
ब्रह्म-तेजो-मयं दिव्यं महद् यद् दृष्टवान् असि ।
अहं स भरत-श्रेष्ठ मत्-तेजस् तत् सनातनम् ॥
प्रकृतिः सा मम परा व्यक्ताव्यक्ता सनातनी ।
तां प्रविश्य भवन्तीह मुक्ता योग-विद्-उत्तमाः ॥
सा साङ्ख्यानां गतिः पार्थ योगिनां च तपस्विनाम् ।
तत् परं[*एन्द्नोते #29] परमं ब्रह्म सर्वं विभजते जगत् ॥
माम् एव[*एन्द्नोते #30] तद् घनं तेजो ज्ञातुम् अर्हसि भारत ॥ इति ॥ [ह्व्
2.114.9-12]
प्रकृतिर् इति तत्-प्रभात्वेन स्वरूप-शक्तित्वम् अपि तस्य निर्दिष्टम् । एवं
पूर्वोदाहृत-कौस्तुभ-भविष्यक-विष्णु-पुराण-वाक्यम् अप्य् एतद्
उपोद्वलकत्वेन द्रष्टव्यम् । तस्माद् दृतय इवेत्य् अपि साध्व् एव व्याख्यातम्
।
॥ 10.87 ॥ श्रुतयः श्री-भगवन्तम्
[100]
ततश् च यस्मिन् परम-बृहति सामान्याकार-सत्तायास् त-अङ्ग-ज्योतिषोऽपि
बृहत्वेन ब्रह्मत्वं तस्मिन्न् एव मुख्या तच्-छब्द-प्रवृत्तिः । तथा च
ब्राह्मे -
अनन्तो भगवान् ब्रह्म आनन्देत्यादिभिः पदैः ।
प्रोच्यते विष्णुर् एवैकः परेषाम् उपचारतः ॥ इति ।
यथा पाद्मे -
पृथग् वक्तुं गुणास् तस्य न शक्यन्तेऽमितत्वतः ।
यतोऽतो ब्रह्म-शब्देन सर्वेषां ग्रहणं भवेत् ॥
एतस्माद् ब्रह्म-शब्दोऽसौ विष्णोर् एव विशेषणम् ।
अमितो हि गुणो यस्मान् नान्येषां तम् ऋते विभुम् ॥ इति ।
अत्र निर्गोलितोऽयं महा-प्रकरणार्थः । यद् अद्वयं ज्ञानं तद् एव तत्त्वम्
इति तत्त्वविदो दो [?] वदन्ति । तच् च वैशिष्ट्यं विनैवोपलभ्यमानं ब्रह्मेति
शब्द्यते वैशिष्ट्येन सह तु श्री-भगवान् इति । स च भगवान् पूर्वादित-
लक्षण-श्री-मूर्त्यात्यात्मक एव न तु अमूर्तः ।
अथ, भूप मूर्तम् अमूर्तं च परं चापरम् एव च इति [विप् 6.7.47] विष्णु-
पुराण-पद्ये[*एन्द्नोते #31] तस्य चतुर्विधत्वम् अङ्गीकुर्वद्भिर् यद्य्
अमूर्तत्वम् अपि पृथग् अङ्गीकर्तव्यं तदा ब्रह्मत्ववत् तद्-उपासक-दृष्टि-
योगयतानुरूपम् एवास्तु । तथा हि यस्य समीचीना भक्तिर् अस्ति तस्य पर-
मूर्त्या श्यामसुन्दर-चतुर्भुजादि-रूपतया प्रादुर्भवति ।
यस्यार्वाचीनोपासना-रूपा तस्यापर-मूर्त्या पाताल-पादादि-कल्पना-मय्य्
एव । यस्य च रुक्षं ज्ञानं तस्य परेण ब्रह्म-लक्षण-मूर्तत्वेन । यस्य
ज्ञान-प्रचुरा भक्तिस् तस्य त्व् अपरेणेश्वर-लक्सण-मूर्तत्वेनेति ।
अत्रापरत्वं परम-मूर्त्याविर्भावाननतर-सोपानत्वेन न ब्रह्मवद्
अतीव मूर्तत्वानपेक्ष्यम् इत्य् एवम् । न त्व् अश्रेष्ठत्व-विवक्षयेति ज्ञेयम्
। पर-मूर्तापेक्षया परत्वं वा । तत्रैव तद् विश्व-रूपं वैरूप्यम् अन्यद्
धरेर् महद् इति विश्वाधिष्ठानत्वेन नित्यत्व-विभूत्वे । मूर्तं भगवतो
रूपं सर्वापाश्रय-निःस्पृहम् इति [विप् 6.7.78] निरुपाधित्वम् । चिन्तयेद्
ब्रह्म-
भूतं तम् इति [विप् 6.7.83] परतः लक्षणत्वम् ।
त्रिभाव-भावनातीत [विप् 6.7.76] इति तत्र प्रसिद्ध-कर्म-मय-ज्ञान-
कर्म-समुच्चय-मय-केवल-ज्ञान-मय-भावना-त्रयातीतत्वेन पर-
तत्त्व-लक्षणत्वेऽपि भक्त्यैकाविर्भावितया सम्यक् प्रकाशत्वं मूर्तस्यैव
व्यञ्जितम् । अतएव शुभाश्रयः स चित्तस्य
सर्वगस्याचलात्मनः[*एन्द्नोते #32] [विप् 6.7.76] इत्य् उक्तम् ।
ततश् च तस्याः श्री-मूर्तेर् अपि सकाशात् तद्-अन्ते प्रत्याहारोक्तिः केवला
भेदोपासकं प्रति वय्वस्थापिता भवतीत्य् अप्य् अनुसन्धेयम् । अत्र तद्-
विश्व-रूप-वैरूप्यम् इत्य् [विप् 6.7.70] एतत् पद्यं मूर्त-परम् एव ज्ञेयम् ।
समस्त-शक्ति-रूपाणि
यत् करोति नरेश्वरः ।
देव-तिर्यङ्-मनुष्याख्या
चेष्टावन्ति स्वलीलया ॥[*एन्द्नोते #33] [विप् 6.7.71] इत्य् अनन्तर-वाक्य-बलात्
प्रथमस्य तृतीये - यस्याम्भसि शयानस्य योग-निद्रां वितन्वतः [भ्प्
1.3.2] इत्य्-अद्य्-उक्त-लक्सणस्य मूर्तस्यैव तत्-तद्-अवतारित्वं दर्शितम्, एतन्
नानावताराणां निधानं बीजम् अव्ययम् इति [भ्प् 1.3.5] । तद्-विश्व-रूप-
वैरूप्यम् इति [विप् 6.7.70] पठद्भिः श्री-रामानुज-चरणैर् अपि मूर्त-
परत्वेनैव व्याख्यातम् । विश्व-रूपाद् वैरूप्यं वैलक्सण्यं यत्र तद्-
विश्व-लक्षणं मूर्तं स्वरूपम् इति ।
तद् एवं तस्य वस्तुनः श्री-मूर्त्य्-आत्मकत्व एव सिद्धे यत् सर्वतः पाणि-
पादादि-लक्षणा मूर्तिः श्रूयते सापि पूर्वोक्ति-लक्षणायाः श्री-मूर्तेर् न
पृथग् इति विभुत्व-प्रकरणान्ते व्यञ्जितम् एव । यत् तु
बृहच्-छरीरोऽभिविमान-रूपो
युवा कुमारत्वम् उपेयिवान् हरिः ।
रेमे श्रियाऽसौ जगतां जनन्या
स्व-ज्योत्स्नया चन्द्र इवामृतांशुः ॥ इति पाद्मोत्तर-खण्ड-वचनम् ।
अत्र पर-ब्रह्म-स्वरूप-शरीरः सर्वतो-भावेन विगत-परिमाणोऽपि नित्यं
कैशोराकारम् एव प्राप्तः सन् श्रिया सह रेमे इत्य् अर्थः । उपेयिवान् इत्य् उक्ताव्
अपि नित्यत्वम् अपहत-पाप्मेतिवत् । तत्रैव तदीय-तच्-छ्री-मूर्त्य्-
अधिष्ठातृक-त्रिपाद्-विभूतेर् अपि प्रघट्टकेन वाक्य-समूहकेन परम-
नित्यता-प्रतिपादनात् । तथा चोक्तं तत्रैव -
अच्युतं शाश्वतं दिव्यं
सदा यौवनम् आश्रितम् ।
नित्यं सम्भोगम् ईश्वर्या
श्रिया भूम्या च संवृतम् ॥ इति ॥
तस्मात् श्री-भगवान् यथोक्त-लक्षण एव । स एव वदन्तीत्य् अस्य
मुख्यार्थ-भूतं मूलं तत्त्वम् इति पर्यवसानम् । तद् उक्तं मोक्ष-
धर्मे श्री-नारायणोपाख्याने -
तत्त्वं जिज्ञासमानानां
हेतुभिः सर्वतो-मुखैः ।
तत्त्वम् एको महा-योगी
हरिर् नारायणः प्रभुः ॥ इति [म्भ् 12.335.83] ।
नारायणोपनिषदि च - नारायणः परं ब्रह्म तत्त्वं नारायणः परम् इति
[म्नु 13.4] । अत्र श्री-रामानुजोदाहृताः श्रुतयश् च - यस्य पृथिवी शरीरम्
इत्य् आरभ्य एष सर्व-भूतान्तरात्मा दिव्यो देव एको नारायण इत्य् आद्या
बह्व्यः । इह श्री-भगवद्-अंश-भूतानां पुरुषादीनां परम-तत्त्व-
विग्रहता-साधनं वाक्य-जातम् अपि तस्यांशिनस् तद्-रूप-विग्रहत्वं
कैमुत्येनाभिव्यनक्तीति पूर्वत्र चोत्तरत्र ग्रन्थे तथोदाहरणानि ।
विष्णु-पुराणे तु साक्षात् श्री-भगवन्तम् अधिकृत्य तथोदाहरणम् -
द्वे रूपे ब्रह्मणस् तस्य
मूर्तं चामूर्तम् एव च ।
क्षराक्षर-स्वरूपे ते
सर्व-भूतेष्व् अवस्थिते ।
अक्षरं तत् परं ब्रह्म
क्षरं सर्वम् इदं जगत् ॥ [विप् 1.22.55]
इत्य् उक्त्वा जगन्-मध्ये ब्रह्म-विष्ण्व्-ईश-रूपाणि च पठित्वा पुनर् उक्तम् -
तद् एतद् अक्षरं नित्यं
जगन्-मुनि-वराखिलम् ।
आविर्भाव-तिरोभाव-
जन्म-नाश-विकल्पनात् ॥ इति [विप् 1.22.60]
तद् एतद् अक्षराख्यं पर-ब्रह्म नित्यम् अखिलं जगत् तु
आविर्भावादिभेदवद् इत्य् अर्थः । तत्राविर्भाव-तिरोभावादिकत्वेनैव
पूर्वेषां ब्रह्मादीनां तद्-अन्तःपात-व्यपदेशो न वस्तुत इत्य् अर्थः ।
अथ सदा स्व-धाम्नि विराजमानत्वेन क्षर-रूपतो मूर्तत्वादिना
चाक्षरतोऽपि विलक्षणं तृतीयं रूपं भगवतः परमं स्वरूपम् इति पुनर्
उच्यते ।
सर्व-शक्ति-मयो विष्णुः
स्वरूपं ब्रह्मणोऽपरम् ।
मूर्तं तद् योगिभिः पूर्वं
योगारम्भेषु चिन्त्यते ॥[विप् 1.22.61]
स परः सर्व-शक्तीनां
ब्रह्मणः समनन्तरम् ।
मूर्तं ब्रह्म महा-भाग
सर्व-ब्रह्म-मयो हरिः ॥ [विप् 1.22.63]
तत्र सर्वम् इदं प्रोतम्
ओतं चैवाखिलं जगत् ॥ [विप् 1.22.64] इति ।
ब्रह्म-साक्षात्-कारात् पूर्वं योगिभिश् चिन्त्यते । तथा ब्रह्मणः
समनन्तरम् उपासनानुक्रमेण यथाग्रेऽक्षराद् अनन्तरं तद् उक्तम्,
यथा - ब्रह्म-भूतः प्रसन्नात्मेत्य् [गीता 18.55] आद्यानुसारेण
ब्रह्म[व]साक्षात्कारानन्तराविर्भावी च स इत्य् अर्थः । यतः सर्वासां
शक्तीनां स्वरूप-भूतादीनां परमाश्रयः । अतएव सर्व-ब्रह्म-
मयोऽखण्ड-ब्रह्म-स्वरूपश् च । अक्षराख्यस्य पूर्वस्य शक्ति-हीनत्वेन
खण्डत्वात् । यद् वा अतएव सर्व-वेद-वेद्य इत्य् अर्थः । तत एव च तत्र
सर्वम् इत्य् आदीति । एवं -
यस्मात् क्षरम् अतीतो ऽहम्
अक्षराद् अपि चोत्तमः ।
अतो ऽस्मि लोके वेदे च
प्रथितः पुरुषोत्तमः ॥ इत्य् आदि [गीता 15.18] श्री-गीतोपनिषद् अपि योज्या ।
अत्र यद्यपि कूटस्थोऽक्षर उच्यते इत्य् [गीता 15.16] अक्षर-शब्देन शुद्ध-
जीव एव प्रस्तूयते तथापि पर-ब्रह्म एव च लक्षणम् । अक्षरं परमं
ब्रह्म [गीता 8.3] इति तच् च तत्र पूर्वोक्तम् इति । अनयोश् चिन्मात्र-
वस्तुत्वेनैकार्थत्वाद् इति तद् एतद् अभिप्रेत्य मल्लानाम् अशनिर् नॄणां
नरवर इत्य् आदौ मूर्तस्यैव स्वयं भगवत एव लक्षणत्वं [तल्-
लक्ष्यत्वं] साक्षाद् एवाह तत्त्वं परं योगिनाम् [भ्प् 10.43.17] इति ।
योगिनां चतुःसनादीनाम् इति ॥
॥ 10.43 ॥ श्री-शुकः
[101]
अतएव श्रीमद्-भागवतस्य निगम-कल्प-तरु-परम-फल-भूतस्य
श्रैष्ठ्ये सत्य् अपि तथाभूतस्यापि भगवद्-आख्य-परम-तत्त्वस्योत्कर्ष-
विद्या-रूपत्वाद् एव परम-श्रैष्ठ्यम् आह --
धर्मः प्रोज्झित-कैतवो ऽत्र परमो निर्मत्सराणां सतां
वेद्यं वास्तवम् अत्र वस्तु शिवदं ताप-त्रयोन्मूलनम् ।
श्रीमद्-भागवते महा-मुनि-कृते किं वा परैर् ईश्वरः
सद्यो हृद्य् अवरुध्यते ऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् ॥ [भ्प् 1.1.2]
अत्र यस् तावद् धर्मो निरूप्यते स खलु स वै पुंसां परो धर्मो यतो
भक्तिर् अधोक्षजे इत्य् [भ्प् 1.2.6] आदिकया
अतः पुम्भिर् द्विज-श्रेष्ठा
वर्णाश्रम-विभागशः ।
स्वानुष्ठितस्य धर्मस्य
संसिद्धिर् हरि-तोषणम् ॥ [भ्प् 1.2.13]
इत्य् अन्तया रीत्या भगवत्-सन्तोषणैक-तात्पर्येण शुद्ध-भक्त्य्-
उत्पादकतया निरूपणात् परम एव । यतः सोऽपि तद्-एक-तात्पर्यत्वात्
प्रकर्षेण उज्झितं कैतवं फलाभिसन्धि-लक्सणं कपटं यस्मिन्
तथाभूतः । प्र-शब्देन सालोक्यादि-सर्व-प्रकार-मोक्षाभिसन्धिर् अपि
निरस्तः । यत एवासौ तद्-एक-तात्पर्यत्वेन निर्मत्सराणां फल-
कामुकस्यैव परोत्कर्षासहनं मत्सरः तद्-रहितानाम् एव तद्-
उपलक्षणत्वेन पश्व्-आलम्भने, दयालूनाम् एव च सतां स्व-धर्म-
पराणां विधीयते इति एवम् ईदृश-स्पष्टम् अनुक्तवतः कर्म-शास्त्राद्
उपासना-शास्त्राच् चास्य तत्-तत्-प्रतिपादकांशे श्रैष्ठ्यम् उक्तम् ।
उभयत्रैव धर्मोत्पत्तेः । तद् एवं सति साक्षात् कीर्तनादि-रूपस्य वार्ता ति
दूरत एव आस्ताम् इति भावः ।
अथ ज्ञान-काण्ड-शाखेभ्योऽप्य् अस्य पूर्ववत् श्रैष्ठ्यम् आह वेद्यम् इति ।
भगवद्-भक्ति-निरपेक्ष-प्रायेषु तेषु प्रतिपादितम् अपि श्रेयः-सृतिं
भक्तिम् उदस्य [भ्प् 10.14.4] इत्य्-आदि-न्यायेन वेद्यं निश्चेयं भवतीत्य्
अत्रैव वेद्यम् इत्य् अर्थः ।
ताप-त्रयम् उन्मूलयति तन्-मूल-भूताविद्या-पर्यन्तं खण्डयतीति तथा
शिवं परमानन्दं ददात्य् अनुभावयतीति तथा । अन्यत्र मुक्ताव्
अनुभवामनने ह्य् अपुरुषार्थत्वापातः स्यात् इति तन्-मननाद् अत्र तु
वैशिष्ट्यम् इति । न चास्य तत्-तद्-दुर्लभ-वस्तु-साधनत्वे तादृश-निरूपण-
सौष्ठवम् एव कारणम् ।
अपि तु स्वरूपम् अपीत्य् आह श्रीमद्-भागवत इति । श्रीमद्-भागवतत्वं
भगवत्-प्रतिपादकत्वं श्रीमत्त्वं श्री-भगवन्-नामादेर् इव तादृश-
स्वभाविक-शक्तिमत्त्वम् । नित्य-योगे मतुप् । अतएव समस्ततयैव निर्दिश्य
नीलोत्पलादिवत्त्वन्-नामत्वम् एव बोधितम् । अन्यथा त्व् अविमृष्ट-
विधेयांश-दोषः स्यात् ।
अत उक्तं श्री-गारुडे - ग्रन्थोऽष्टादश-साहस्रः श्रीमद्-भागवताभिधः
। इति टीकाकृद्भिर् अपि श्री-भागवताभिधः सुर-तरुर् इति ।
अतः क्वचित् केवल-भागवताख्यत्वं तु सत्य-भामा भामा इतिवत् । तादृश-
प्रभावत्वे कारणं परम-श्रेष्ठ-कर्तृत्वम् अप्य् आह । महामुनिः श्री-
भगवान् तस्यैव परम-विचार-पारङ्गत-महा-प्रभाव-गण-
शिरोमणित्वाच् च । स मुनिर् भूत्वा समचिन्तयद् इति श्रुतेः । तेन प्रथमं
चतुः-श्लोकी-रूपेण सङ्क्षेपतः प्रकाशिते कस्मै येन विभाषितोऽयम् इत्य्
[भ्प् 12.13.19][*एन्द्नोते #34] आद्य्-अनुसारेन सम्पूर्ण एव प्रकाशिते ।
तद् एवं श्रैष्ठ्य-जातम् अन्यत्रापि प्रायः सम्भवतु नाम सर्व-ज्ञान-
शास्त्र-परम-ज्ञेय-पुरुषार्थ-शिरोमणि-श्री-भगवत्-साक्षात्कारस् तत्रैव
सुलभ इति वदन् सर्वोर्ध-प्रभावम् आह किं वेति । परैः शास्त्रैस् तद्-उक्त-
साधनैर् वा ईश्वरो भगवान् हृदि किं वा सद्य एवावरुध्यते स्थिरीक्रियते
। वा-शब्दः कटाक्षे । किन्तु विलम्बेन कथञ्चिद् एव । अत्र तु शुश्रूषुभिः
श्रोतुम् इच्छद्भिर् एव तत्-क्षणाद् अवरुध्यते ।
ननु इदमे एव तर्हि सर्वे किम् इति न शृण्वन्ति तत्राह कृतिभिर् इति सुकृतिभिर्
इत्य् अर्थः । श्रवणेच्छा तु तादृश-सुकृतिं विना नोत्पद्यत इति भावः । अथवा
अपरैर् मोक्ष-पर्यन्त-कामना-रहितेश्वराराधन-लक्षण-धर्म-
ब्रह्म-साक्षात्कारादिभिर् उक्तैर् अनुक्तैर् वा साध्यैस् तैर् अत्र किं वा कियद्
वा माहात्म्यम् उपपन्नम् इत्य् अर्थः । यतो य ईश्वरः कृतिभिः कथञ्चित् तत्-
तत्-साधनानुक्रम-लब्धया भक्त्या कृतार्थैः सद्यस् तद्-एक-क्षणम् एव
व्याप्य हृदि स्थिरीक्रैयते स एवात्र श्रोतुम् इच्छद्भिर् एव तत्-क्षणम्
आरभ्य सर्वदैवेति । तस्माद् अत्र काण्ड-त्रय-रहस्यस्य प्रव्यक्त-
प्रैत्पादनादेर् विशेषत ईश्वराकर्षि-विद्या-रूपत्वाच् च इदम् एव सर्व-
शास्त्रेभ्यः श्रेष्ठम् । अतएवात्र इति पदस्य त्रिर्-उक्तिः कृता । सा हि
निर्धारणार्थेति । अतो नित्यम् एतद् एव सर्वैर् एव श्रोतव्यम् इति भावः ॥
॥ 1.1 ॥ वेद-व्यासं श्री-शुकम्
[102]
तद् एवं श्री-शुक-हृदयम् अपि सङ्गमितं स्यात् । अतश् चतुःश्लोकी-प्रसङ्गेऽपि
श्री-भगवान् एवार्थः । स हि स्व-ज्ञानाद्य्-उपदेशेन स्वम् एवोपदिदेश ।
तत्र परम-भागवताय ब्रह्मणे श्रीमद्-भागवताख्यं निजं शास्त्रम्
उपदेष्टुं तत्-प्रतिपाद्यतमं वस्तु-चतुष्टयं प्रतिजानीते ।
ज्ञानं परम-गुह्यं मे
यद् विज्ञान-समन्वितम् ।
सरहस्यं तद्-अङ्गं च
गृहाण गदितं मया ॥ [भ्प् 2.9.30]
मे मम भगवतो ज्ञानं शब्द-द्वारा याथार्थ्य-निर्धारणं मया
गदितं सत् गृहाण इत्य् अन्यो न जानातीति भावः । यतः परम-गुह्यं ह्य्
अज्ञानाद् अपि रहस्यतमं मुक्तानाम् अपि सिद्धानाम् [भ्प् 6.14.5] इत्य् आदेः
। तच् च विज्ञानेन तद्-अनुभावेनापि युक्तं गृहाण । न चैतावद् एव । किं च
सरहस्यं तत्रापि रहस्यं यत् किम् अप्य् अस्ति तेनापि सहितम् । तच् च प्रेम-
भक्ति-रूपम् इत्य् अग्रे व्यञ्जयिष्यते । तथा तद्-अङ्गं च गृहाण । तच् च सति
त्व् अपराधाख्य-विघ्ने न झटिति ।विज्ञान-रहस्ये प्रकटयेत् । तस्मात् तस्य
ज्ञानस्य सहायं च गृहाणेत्य् अर्थः । तच् च श्रवणादि-भक्ति-रूपम् इत्य् अग्रे
व्यञ्जयिष्यते । यद् वा स-रहस्यम् इति तद्-अङ्गस्यैव विशेषणं ज्ञेयम् ।
हृदेर् इव मिथः संवर्धकयोर् एकत्रावस्थानात् ॥
[103]
अत्र साध्ययोर् विज्ञान-रहस्ययोर् आविर्भावार्थम् आशिषं ददाति -
यावान् अहं यथा-भावो
यद्-रूप-गुण-कर्मकः
तथैव तत्त्व-विज्ञानम्
अस्तु ते मद्-अनुग्रहात् [भ्प् 2.9.31]
यावान् स्वरूपतो यत्-परिमाणकोऽहम् । यथा भावः सत्ता यस्येति । यल्-
लक्षणोऽहम् इत्य् अर्थः । यानि स्वरूपान्तरङ्गानि रूपाणि श्यामत्व-चतुर्-
भुजत्वादीनि गुणा भक्त-वात्सल्याद्याः कर्माणि तत्-तल्-लीला यस्य स यद्-
रूप-गुण-कर्मकोऽहम् । तथैव तेन तेन सर्व-प्रकारेणैव तत्त्व-
विज्ञानं याथार्थ्यानुभवो मद्-अनुग्रहात् ते तवास्तु भवताद् इति । एतेन
चतुःश्लोक्य्-अर्थस्य निर्विशेषत्वं स्वयम् एव परास्तम् । वक्ष्यते च
चतुःश्लोकीम् एवोद्दिशता श्री-भगवता स्वयम् उद्धवं प्रति । पुरा
मयेत्यादौ ज्ञानं परं मन्-महिमावभासम् इति [भ्प् 3.4.13] । तत्र
विज्ञान-पदेन रूपादीनाम् अपि स्वरूप-भूतत्वं व्यक्तम् । अत्र्र विज्ञानाशीः
स्पष्टा । रहस्याशीश् च परमानन्दात्मक-तत्-तद्-
याथार्थ्यानुभवेनावश्यं प्रेमोदयात् ॥
[104]
तद् एव उपदेश्य-चतुष्टयं चतुःश्लोक्या निरूपयन् प्रथमं ज्ञान-
विज्ञानार्थं स्व-लक्षणं प्रतिपादयति द्वाभ्याम् । तत्र ज्ञानार्थम् आह -
अहम् एवासम् एवाग्रे
नान्यद् यत् सद्-असत् परम् ।
पश्चाद् अहं यद् एतच् च
यो ऽवशिष्येत सो ऽस्म्य् अहम् ॥ [भ्प् 2.9.32]
अत्राहं-शब्देन तद् वक्ता मूर्त एवोच्यते न तु निर्विशेषं ब्रह्म तद्-
अविषयत्वात् । आत्म-ज्ञान-तात्पर्यके तु तत्त्वम् असीतिवत् त्वम् एवात्येव वतुर्म्
उपयुक्तवात् । ततश् चायम् अर्थः - सम्प्रति भवन्तं प्रति प्रादुर्भवन्न्
असौ परम-मनोहर-श्री-विग्रहोऽहम् एवाग्रे महा-परलय-कालेऽप्य् आसम्
एव । वासुदेवो वा इदम् अग्र आसीन् न ब्रह्मा न च शङ्करः । एको नारायण
आसीन् न ब्रह्मा नेशान इत्य् आदि श्रुतिभ्यः । भगवान् एक आसेदम् अग्र
आत्मात्मनां विभुर् इत्य् [भ्प् 3.5.23] आदि तृतीयात् । अतो वैकुण्ठ-तात्-पार्षद्-
आदीनाम् अपि तद्-उपाङ्गत्वाद् अहं-पदेनैव ग्रहणं राजासौ प्रयातीतिवत्
। ततस् तेषां च तद्वद् एव स्थितिर् बोध्यते । तथा च राज-प्रश्नः - स चात्र
स चापि यत्र पुरुषो
विश्व-स्थित्य्-उद्भवाप्ययः ।
मुक्तात्म-मायां मायेशः
शेते सर्व-गुहाशयः ॥ [भ्प् 2.8.10] इति ।
श्री-विदुर-प्रश्नश् च -
तत्त्वानां भगवंस् तेषां
कतिधा प्रति-सङ्क्रमः ।
तत्रेमं क उपासीरन्
क उ स्विद् अनुशेरत ॥ इति [भ्प् 3.7.37] ।
काशीखण्डेऽप्य् उक्तं श्री-ध्रुव-चरिते -
न च्यवन्ते हि मद्-भक्ता
महत्यां प्रलयापदि ।
अतोऽच्युतोऽखिले लोके
स एकः सर्वगोऽव्ययः ॥ इति ।
अहम् एवेत्य् एव-कारेणकर्त्-अन्तरस्यारूपत्वादिकस्य च व्यावृत्तिः । आसम् एवेति
तत्रासम्भावनाया निवृत्तिः । तद् उक्तं यद्-रूप-गुण-कर्मक [भ्प् 2.9.32]
इति । अतएव । यद् वा आसम् एवेति ब्रह्मादि-बहिर्जन-ज्ञान-गोचर-सृष्ट्य्-आदि-
लक्षण-क्रियान्तरस्यैव व्यावृत्तिः । न तु स्वान्तरङ्ग-लीलाया अपि ।
यथाधुनासौ राजा कार्यं न किञ्चित् करोतीत्य् उक्ते राज्य-सम्बन्धि-कार्यम्
एव निषिध्यते न तु शयन-भोजनादिकम् अपीति तद्वत् । यद् वा अस गति-
दीप्त्य्-आदानेष्व् इत्य् अस्मात् आसं साम्प्रतं भवता दृश्यमानैर् विशेषैर् एभिर्
अग्रेऽप्रि विराजमान एवातिष्ठम् इति निराकारत्वादिकस्यैव विशेषतो व्यावृत्तिः
।
तद् उक्तम् अनेन श्लोकेन साकार-निराकार-विष्णु-लक्षण-कारिण्याम् मुक्ता-
फल-टीकायाम् अपि । नापि साकारेष्व् अव्याप्तिः । तेषाम् आकारातिरोहितत्वाद् इति
। ऐतरेयक-श्रुतिश् [?] च आत्मैवेदम् अग्र आसीत् पुरुष-विध [बौ 4.1.1] इति
। एतेन प्रकृतीक्षणतोऽपि प्राग्-भावात् पुरुषाद् अप्य् उत्तमत्वेन भगवज्-
ज्ञानम् एव कथितम् ।
ननु क्वचिन् निर्विशेषम् एव ब्रह्म आसीद् इति श्रूयते तत्राह - नान्यद् यत् सद्-
असत्-परम् इति । सत् कार्यम् असत् कारणं तयोः परं यत् ब्रह्म तन् न
मत्तोऽन्यत् । क्वचिद् अधिकारिणि शास्त्रे वा स्वरूप-भूत-विशेष-व्युत्पत्त्य्-
असमर्थे सोऽयम् अहम् एव निर्विशेषतया प्रतिभातीत्य् अर्थः । यदा तदानीं
प्रपञ्चे विशेषाभावान् निर्विशेष-चिन्-मात्राकारेण विकुण्ठे तु स-विशेष-
भगवद्-रूपेणेति शास्त्र-द्वय-व्यवस्था । एतेन च ब्रह्मणो हि
प्रतिष्ठाहम् इत्य् अत्रोक्तं भगवज्-ज्ञानम् एव प्रतिपादितम् । अतएवास्य
परम-गुह्यत्वम् उक्तम् ।
ननु सृष्टेर् अनन्तरं नोपलभ्यसे । तत्राह पश्चात् सृष्टेर् अनन्तरम् अप्य्
अहम् एवास्म्य् एव वैकुण्ठेषु भगवद्-आद्याकारेण प्रपञ्चेष्व् अन्तर्याम्य्-
आकारेणेति शेषः । एतेन सृष्टि-स्थिति-प्रलय-हेतुर् अस्येत्य् आदि प्रतिपादितं
भगवज्-ज्ञानम् एवोपदिष्टम् ।
ननु सर्वत्र घट-पटाकारा ये दृश्यन्ते ते तु तद्-रूपाणि न भवन्तीति
तवापूर्णत्व-प्रसक्तिः स्याद् इत्य् आशङ्क्याह । यद् एतद् विश्वं तद् अप्य् अहम्
एव मद्-अनन्यत्वान् मद्-आत्मकम् एवेत्य् अर्थः । अनेन सोऽयं तेऽभिहितस् तात
भगवान् विश्व-भावनः । समासेन हरेर् नान्यद् अन्यस्मात् सद्-असच् च यद्
इत्य् आद्य् उक्तं भगवज्-ज्ञानम् एवोपदिष्टम् । तथा प्रलये योऽवशिष्यते
सोऽहम् एवास्म्य् एव । एतेन भवान् एकः शिष्यते शेष-संज्ञ इत्य् उक्तं
भगवज्-ज्ञानम् एवोपदिष्टम् । तथा पूर्वं स्वानुग्रह-प्रकाश्यत्वेन
प्रतिज्ञातं यावत् त्वं सर्व-काल-देशापरिक्च्छेद्यत्व-ज्ञापनायोपदिष्टम्
। एवं नान्यद् यत् सद्-असत्-परम् इत्य् अनेन ब्रह्मणो हि प्रतिष्ठाहम् इति
ज्ञापनया यथा-भावत्वम् । सर्वाकारावयव-भगवद्-आकार-निर्देशेन
विलक्षणानन्त-रूपत्व-ज्ञापनया यद्-रूपत्वम् । सर्वाश्रयाति-निर्देशेन
विलक्षणानन्त-गुणत्व-ज्ञापनया यद्-गुणत्वम् । सृष्टि-स्थिति-
प्रलयोपलक्षित-विविध-क्रियाश्रयत्व-कथनेन लौकिकानन्त-कर्मत्व-
ज्ञापनया यत्-कर्मत्वं च ।
[105]
अथ तादृश-रूपादि-विशिष्टस्यात्मनो व्यतिरेक-मुखेन विज्ञानार्थं माया-
लक्सणम् आह ऋते ऽर्थम् [भ्प् 2.9.33] इत्य् आदि ।
पूर्वं व्याख्यातम् एव[*एन्द्नोते #35] । सङ्क्षेपश् चायम् अर्थः ।
परम-पुरुषार्थ-भूतं माम् ऋते मद्-दर्शनाद् अन्यत्रैव यत् प्रतीयते
यच् चात्मनि न प्रतीयेत मां विना स्वतः प्रतीतिर् अपि यस्य नास्तीत्य् अर्थः तद्
वस्तु आत्मनो मम परमेश्वरस्य मायां विद्यात् । अत्र दृष्टान्तः ।
यथाऽऽभासः प्रतिबिम्ब-रश्मिः । यथा च तमस् तिमिरम् इति । तत्राभासस्य
तादृशत्वं स्पष्टम् एव । तमसोऽपि ज्योतिर् दर्शनाद् अन्यत्रैव प्रतीतेर् ज्योतिर्
आत्मकं चक्षुर् विना चाप्रतीतिर् इति । विद्याद् इति प्रथम-पुरुष-
निर्देशस्यायं भावः । अन्यान् प्रत्य् एव खल्व् अयम् उपदेशः । त्वं तु मद्-
दत्त-शक्त्या साक्षाद् एवानुभवन्न् असीति । एवं मायिक-दृष्टिम् अतीत्यैव
रूपादि-विशिष्टं माम् अनुभवेद् इति । व्यतिरेक-मुखेनानुभावनस्यायं
भावः । शब्देन निर्धारितस्यापि सत्-स्वरूपादेर्
मायाकार्यावेशेनैवानुभवो न भवति । अतस् तद्-अर्थं माया-त्यजनम् एव
कर्तव्यम् इति । एतेन तद्-अविनाभावात् प्रेमाप्य् अनुभावित इति गम्यते ।
[106]
अथ तस्यैव प्रेम्नो रहस्यत्वं बोधयति --
यथा महान्ति भूतानि
भूतेषूच्चावचेष्व् अनु
प्रविष्टान्य् अप्रविष्टानि
तथा तेषु न तेष्व् अहम् [भ्प् 2.9.34]
यथा महाभूतानि भूतेष्व् अप्रविष्टानि बहिः-स्थितान्य् अपि अनुप्रविष्टान्य्
अन्तः-स्थितानि भान्ति । तथा लोकातीत-वैकुण्ठ-स्थितत्वेनाप्रविष्टोऽप्य् अहं
तेषु तत्-तद्-गुण-विख्यातेषु न तेषु प्रणत-जनेषु प्रविष्टो हृदि स्थितोऽहं
भामि । अत्र महाभूतानाम् अंश-भेदेन प्रवेशाप्रवेशौ तस्य तु
प्रकाश-भेदेनेति भेदेऽपि प्रवेशाप्रवेश-मात्र-साम्येन दृष्टान्तः । तद्
एवं तेषां तादृग्-आत्म-वशकारिणी प्रेम-भक्तिर् नाम रहस्यम् इति सूचितम्
।
तथा च ब्रह्म-संहितायाम् --
आनन्द-चिन्मय-रस-प्रतिभाविताभिस्
ताभिर् य एव निज-रूपतया कलाभिः ।
गोलोक एव निवसत्य् अखिलात्म-भूतो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्रह्मस् 5.29]
प्रेमाञ्जन-च्छुरित-भक्ति-विलोचनेन
सन्तः सदैव हृदयेषु विलोकयन्ति ।
यं श्यामसुन्दरम् अचिन्त्य-गुण-स्वरूपं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ [ब्रह्मस् 5.30]
अचिन्त्य-गुण-स्वरूपम् अपि प्रेमाख्यं यद् अञ्जनं तेन च्छुरितवत् उच्चैः
प्रकाशमानं भक्ति-रूपं विलोचनं तेन इत्य् अर्थः ।
ये भजन्ति तु मां भक्त्या
मयि ते तेषु चाप्य् अहम् । इति [गीता 9.29] गीतोपनिषदश् च ।
यद् वा तेषु यथा तानि बहिः-स्थितानि चान्तः-स्थितानि च भान्ति तद्वत्
भक्तेषु अहम् अन्तर्मनोवृत्तिषु बहिर्-इन्द्रिय-वृत्तिषु च स्फुरामीति च ।
भक्तेषु सर्वथाऽनन्य-वृत्तिताहेतुर् नाम किम् अपि स्व-प्रकाशं
प्रेमाख्यम् आनन्दात्मकं वस्तु मम रहस्यम् इति व्यञ्जितम् । तथैव
श्री-ब्रह्मणोक्तम् --
न भारती मे ऽङ्ग मृषोपलक्ष्यते
न वै क्वचिन् मे मनसो मृषा गतिः ।
न मे हृषीकाणि पतन्त्य् असत्-पथे
यन् मे हृदौत्कण्ठ्यवता धृतो हरिः ॥ [भ्प् 2.6.34] इति ।
यद्यपि व्याख्यान्तरानुसारेणायम् अर्थोऽपलपनीयः स्यात् तथाप्य् अस्मिन्न्
एवार्थे तात्पर्यं प्रतिज्ञा-चतुष्टय-साधनायोपक्रान्तत्वात् तद्-अनुक्त्रम-
गतत्वाच् च । किं तस्मिन्न् अर्थे न तेषु इति छिन्न-पदम् अपि व्यर्थं स्याद्
दृष्टान्तस्यैव क्रियाभ्याम् अन्वयोपपत्तेः । अपि च रहस्यं नाम ह्य् एतद्
एव यत् परम-दुर्लभं वस्तु दुष्टोदासीन-जन-दृष्टि-निवारणार्थं
साधारण-वस्त्व्-अन्तरेणाच्छाद्यते । यथा चिन्तामणिः सम्पुटादिना । अतएव
परोक्ष-वादा ऋषयः परोक्षं च मम प्रियम् इति [भ्प् 11.21.35] श्री-
भगवद्-वाक्यं च । तद् एवं परोक्षं क्रियते यद् अदेयं विरल-प्रचारं
महद्-वस्तु भवति । अस्यैवादेयत्वं विरल-विचारत्वं महत्त्वं च । मुक्तिं
ददाति कर्हिचित् स्म न भक्ति-योगम् इत्य् [भ्प् 5.6.18] आदिषु बहुत्र व्यक्तम्
।
इदं भागवतं नाम
यन् मे भगवतोदितम् ।
सङ्ग्रहो ऽयं विभूतीनां
त्वम् एतद् विपुली कुरु ॥ [भ्प् 2.7.51]
यथा हरौ भगवति
नृणां भक्तिर् भविष्यति ।
सर्वात्मन्य् अखिलाधारे
इति सङ्कल्प्य वर्णय ॥ [भ्प् 2.7.52]
तस्मात् साधु व्याख्यातं स्वामि-चरणैर् अपि रहस्यं भक्तिर् इति ॥
[107]
अथ कथं तथाभूतं रहस्यम् उदयेतेत्य् अपेक्षायां क्रम-प्राप्तं तद्-
अङ्ग-भूतं तदीय-साधनम् उपदिशति ।
एतावद् एव जिज्ञास्यं
तत्त्व-जिज्ञासुनात्मनः ।
अन्वय-व्यतिरेकाभ्यां
यत् स्यात् सर्वत्र सर्वदा ॥ [भ्प् 2.9.35]
आत्मनो मम भगवतस् तत्त्व-जिज्ञासुना प्रेम-रूपं रहस्यम्
अनुभवितुम् इच्छुना एतावद् एव जिज्ञास्यं श्री-गुरु-चरणेभ्यः शिक्षणीयम्
। किं तत् ? सद् एकम् एव अन्वय-व्यतिरेकाभ्यां विधि-निषेधाभ्यां सदा
सर्वत्र स्याद् उपपद्यते । यथा -
न ह्य् अतोऽन्यः शिवः पन्था
विशतः संसृताव् इह ।
वासुदेवे भगवति
भक्ति-योगो यथा भवेत् ॥ [भ्प् 2.2.33]
इति व्यतिरेकेणोपक्रम्य तद्-उपसंहारे -
तस्मात् सर्वात्मना राजन्
हरिः सर्वत्र सर्वदा ।
श्रोतव्यः कीर्तितव्यश् च
स्मर्तव्यो भगवान् नॄणाम् ॥ [भ्प् 2.2.36]
इत्य् अन्वयेन सर्वदेत्य् उक्तम् ।
तस्मात् स्व-ज्ञान-विज्ञान-रहस्य-तद्-अङ्गानाम् उपदेशेन चतुःश्लोक्याम् अपि
स्वयं श्री-भगवच्-छब्देन ददर्श तत्राखिल-सात्वतां पतिम् [भ्प् 2.9.15]
इत्य् अत्र तापनी-श्रुत्य्-अनुकूलितं श्री-कृष्ण-लिङ्गत्वेन च अस्य वक्तुः श्री-
भगवत्त्वम् एव स्फुटम् । न जातु तद्-अंश-भूत-नारायणाख्य-
गर्भोदशायि पुरुषत्वम् ।
अतएवास्य महापुराणस्यापि श्री-भागवतम् इत्य् एव व्याख्या । तथैवोक्तम् -
- कस्मै केन विभाषितोऽयम् अतुलो ज्ञान-प्रदीपः पुरा इत्य् आदौ तच्
छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहि इत्य् [भ्प् 12.13.19]
अत्र पर-शब्देन भगच्-वक्तृत्वम् । आद्योऽवतारः पुरुषः परस्येति द्वितीये
भेदाभिधानात् । अत इदं भगवता पूर्वं ब्रह्मणे नाभि-पङ्कजे ।
स्थिताय भव-भीताय कारुण्यात् सम्प्रकाशितम् इत्य् अत्रापि भगवच्-छब्द-
प्रयोगः । श्री-नारायण-नाभि-पङ्कजे स्थितं ब्रह्माणं प्रति स्वयं श्री-
भगवता तत्रैव व्यापि-महा-वैकुण्ठं प्रकाश्येदं पुराणं प्रकाशितम्
इत्य् अर्थः । अनुगतं चैतत् द्वितीय-स्कन्धेतिहासस्येति ।
॥ 2.9 ॥ श्री-भगवान् ब्रह्माणम् ॥ 102-107 ॥
[108]
तद् एतत् सर्व-शास्त्राणां समन्वयस् तस्मिन्न् एव भगवति । तथा च सर्वैश्
च वेदैः परमो हि देवो जिज्ञास्यो नान्यो वेदैः प्रसिध्येत् । तस्माद् एनं
सर्व-वेदान् अधीत्य विचार्य च ज्ञातुम् इच्छेन् मुमुक्षुर् इति चतुर्वेद-
शिखायाम् । यं सर्व-देवा आनमन्ति मुमुक्षवो ब्रह्मवादिनश् चेति श्री-
नृसिंह-तापन्याम् [न्तु 2.4.10] ।
न वेदविन् मनुते तं बृहन्तं सर्वानुभूतम् आत्मानं साम्पराये । त्वं
त्व् औपनिषदं पुरुषं पृच्छामीत्य् [बौ 3.9.27] आदिर् अन्यत्र । वेदैश् च
सर्वैर् अहम् एव वेद्यो वेदान्त-कृद् वेद-विद् एव चाहम् इति [गीता 15.15] श्री-
गीतोपनिषत्सु । सिद्धान्ते पुनर् एक एव भगवान् विष्णुः समस्तागम-
व्यापारेषु विवेचन-व्यतिकरं नीतेषु निश्चीयत इति पाद्मे । सर्व-
नामाभिधेयश् च सर्व-वेदेडितश् च स इति स्कान्दे । नताः स्म सर्व-जगतां
वचसां प्रतिष्ठा यत्र शाश्वती इति [विप् 1.14.23] वैष्णवे ।
सर्व-वेदान् सेतिहासान्
स-पुराणान् स-युक्तिकान् ।
स-पञ्चरात्रान् विज्ञाय
विष्णुर् ज्ञेयो न चान्यथा ॥ इति ब्रह्म-तर्के ।
तद् एवं सर्व-वेद-समन्वयं स्वस्मिन् श्री-भगवत्य् एव स्वयम् आह -
मां विधत्ते ऽभिधत्ते मां
विकल्प्यापोह्यते ह्य् अहम् । [भ्प् 11.21.42]
॥ 11.21 ॥ श्री-भगवान्
[109]
तद् एवं भगवत एव सर्व-वेदार्थत्वं दर्शितम् । तत्र राज्ञः प्रश्नः ।
श्री-विष्णु-रात उवाच -
ब्रह्मन् ब्रह्मण्य् अनिर्देश्ये
निर्गुणे गुण-वृत्तयः ।
कथं चरन्ति श्रुतयः
साक्षात् सद्-असतः परे ॥ [भ्प् 10.87.1]
अस्यार्थः । श्रुतयस् तावच् छब्द-मात्रस्य साधारण्याद् गुणेषु सत्त्वादिषु
वृत्तिर् यासां तादृशो दृश्यन्ते । ब्रह्म तु निर्गुणं सत्त्वादि-गुणातीतं तस्माद्
एवानिर्देश्यम् । तत्-तद्-गुण-कार्य-भूत-जाति-गुण-क्रियाख्याननां
गुणान्तराणाम् अभावास्पदत्वात् तादृश-द्रव्यस्याप्य् अप्रसिद्धत्वाद्
अनिर्देश्यं सत्त्वादि कार्यं भूताभ्यां सद्-असद्भ्यां कार्य-कारणाभ्यां
परम् इति तेन तेनासम्बन्धं चेत्य् अर्थः । तथा च सति यथा डित्थ-वाचि
कस्मिंश्चिद् अद्वितीये द्रव्ये तच्-छब्दस्य मुख्या वृत्तिः प्रवर्तते । यथा च
सिंहो देवदत्त इत्य् अत्र गौण्या वृत्त्या शौर्य-गुण-युक्ते देवदत्ते सिंह-
शब्दः प्रवर्तते । यथा च गङ्गायां घोष इत्य् अत्र-लक्षणया वृत्त्या
गङ्गा-शब्दस् तस्मिन्न् इत्य् असम्बन्धे तटे प्रवर्तते । तथा तत्-तद्-
भावास्पदे ब्रह्मणि तया तया वृत्त्या श्रुतयः कथं प्रवर्तेरन् ।
श्रुतीनां च शास्त्र-योनित्वाद् इति [व्स् 1.1.3] न्यायेन तत्-प्रतिपादकतायाम्
अनन्यानां तत्र प्रवृत्तिर् अवश्यं वक्तव्या । तस्मात् तस्मिंस् ताः साक्षाद्-
रूपतया मुख्यया वृत्त्या केन प्रकारेण चरन्ति । तं प्रकारं विशेषः
कृपयापि स्वयम् उपदिशेति । अन्यथा पदार्थत्वायोगाद् अपदार्थस्य च
वाच्यार्थत्वायोगान् न श्रुति-गोचरत्वं ब्रह्मणः स्याद् इति स्थिते कुतस्तरां
तद् उपरि चर-स्फूर्तेर् भगवतस् तद्-गोचरत्वं तत् कथम् एवं
स्वभक्तयोर् इत्य् आदौ स्वतां स्वतः प्रमाण-भूतानां वेदानां मार्गं
भगवत्-परत्वम् आदिश्येत्य् उक्तम् इति ।
[110]
अत्र श्री-शुकदेवेन दत्तम् उत्तरम् आह -
ऋषिर् उवाच -
बुद्धीन्द्रिय-मनः-प्राणान्
जनानाम् असृजत् प्रभुः ।
मात्रार्थं च भवार्थं च
आत्मनेऽकल्पनाय च ॥ [भ्प् 10.87.2]
बुद्ध्यादीन् उपाधीन् जनानाम् अनुशायिनां जीवानां मात्राद्य्-अर्थं
प्रभुः परमेश्वरोऽसृजत न तु जनाः स्वाविद्ययासृजन्न् इति विवर्त-वादः
परिहृतः । मीयन्त इति माया विषयाः तद्-अर्थम् । भवार्थं भवः जन्म-
लक्षणं कर्म तत्-प्रभृति-कर्म-करणार्थम् इत्य् अर्थः । आत्मने
लोकान्तर-गामिने आत्मनस् तत्-तल्-लोक-भोगायेत्य् अर्थः । अकल्पनाय
कल्पना-निवृत्तये मुक्तये इत्य् अर्थः । अर्थ-धर्म-काम-मोक्षार्थम् इति
क्रमेण पद-चतुष्टयस्यार्थः । मोक्षोऽप्य् अत्र चिन्-मात्रतयावस्थिति-रूपः
। यथावर्ण-विधानम् अपवर्गश् च भवति, योऽसौ भगवतीत्य् आदिना
अनन्य-निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थि-रन्धन-
द्वारेणेत्य् [भ्प् 5.19.20] अन्तेन पञ्चमोक्त-गद्येन तथा निरुक्तत्वात् साध्य-
भक्ति-प्रादुर्भाव-लक्षणं चेति द्विविधो ज्ञेयः । उभयत्रापि कल्पना-
रूपाविद्याया निवृत्तेः । एतद् उक्तं भवति । यस्मात् स्वयम् ईश्वरस् तत्-तद्-
अर्थं तत्-तत्-साधकत्वेन दृश्यमानानां बुद्ध्यादीन् सृष्टवान् तस्मात् तत्-
तत्-सम्पादन-शक्ति-निधान-योग्यतया तेषु कृतवान् इति लभ्यते । तत्र
त्रिवर्ग-सम्पादिकाः शक्तयः कल्पनात्मिका माया-वृत्त्य्-अविद्या-शक्तेर् अंशाः
बहिर्मुख-कर्मात्मकत्वात् स्वरूपान्यथा-भाव-संसारित्व-हेतुत्वाच् च ।
एवं च यावज्-जीवानां भगवद्-बहिर्मुखता तावत् केवलं
कल्पनात्मिकानाम् अविद्या-शक्तीनां प्रकाशात् तत्-प्रधाना बुद्ध्य्-आदयः
स-गुणा एवेति निर्गुणं साक्सान् न कुर्वत इत्य् एवं सत्यम् एव । यदा तु तद्-
अन्तर्मुखता तदा तेषु चिच्-छक्तेः प्रादुर्भावात् तं साक्षात् कुर्वत एव इति
स्थितम् । बुद्ध्यादिमयत्वाद् वचसोऽपि तथा व्यवहारः सिध्यति । तद्
अत्रैवाभेदेन सिद्धान्तितम् अन्ते ।
तद् एतद् वर्णितं राजन्
यो नः प्रश्नः कृतस् त्वया ।
यथा ब्रह्मण्य-निर्देश्ये
नरिगुण्येऽपि मनश् चरेत् ॥ इत्य् अत्र मन इति ।
तत्र बुद्ध्य्-आदौ चिच्-छक्तिस् तदीयाप्राकृत-परमानन्द-स्वरूप-तादृश-
गुणादौ स्वयं प्रकाशमयी वचसि च तत्तन्-निर्देश-मयीति ज्ञेया ।
अतोऽप्राकृत-तादृश-स्वरूपाद्यालम्बनेन श्रुतयश् चरन्तीति सिद्धान्त-
सिद्धये । तद् एवं पौरुषस्यापि वचसो भगवच्-चरित्रं सिद्धम् ।
यथोक्तम् -यस्मिन् प्रति श्लोकम् अबद्धवत्य् [भ्प् 1.5.11] अपीति । तथा च सति
तथाविध-वच-आदीनाम् एकाश्रयस्य साक्षाद्-भगवन्-
निश्वासाविर्भाविनोऽपौरुषेयस्य तच्-चारित्वं किम् उत । तस्मात् साक्षात् चरन्त्य्
एव श्रुतयः । वक्ष्यते च - क्वचिद् अजयात्मना च चरतोऽनुचरेन्
निगम[*एन्द्नोते #36] इति । तथा च प्रणवम् उद्दिश्योक्तं द्वादशे --
स्वधाम्नो ब्रह्मणः साक्षाद्
वाचकः परमात्मनः ।
स-सर्व-मन्त्रोपनिषद्
वेद-बीजं सनातनम् ॥ [भ्प् 12.6.41] इति ।
श्रुतौ च - ओम् इत्य् एतद् ब्रह्मणो नेदिष्ठं नामेति नेदिष्ठं लक्षणादि-
व्यवधानं विनेत्य् अर्थः । अतएव केन च प्रकटिण साक्षाच् चरन्ति स
कथ्यताम् इत्य् एवं राजाभिप्रायः । अत्र शब्दो निर्देश्यत्वे दोषस् त्व् अग्रे
द्युपतय इत्य् [भ्प् 10.87.41] अत्र परिहार्यः ।
अथ श्रुतिष्व् अपि याः काश्चित् त्रिवर्ग-परत्वेन बहिर्मुखाः प्रतीयन्ते तासाम्
अप्य् अन्तर्मुखतायाम् एव पर्यवसानम् । तथा हि परमेश्वरस्य सतत-
परमार्थ-बहिर्मुखता-पराहत-जीव-निकाय-विषय-कृपा-विलास-
पर्यवसायि-निःश्वास-रूपाः श्रुतयः प्रथमतः स्व-विषयकं विश्वासं
जनयितुम् अदृष्टवस्त्वनभिज्ञानसततदृष्टम् ऐहिकम् एवार्थम्
ईहमानांस् तान् प्रति तत्-सम्पादकं पुत्रेष्ट्यादिकं विदधति । ततश् च तेन
जात-विश्वासानैहिकस्यात्यन्तम् अस्थिरत्वे प्रदर्श्य दिव्यानन्द-चमत्कार-
विचित्रस्य पारलौकिक-स्वर्गादि-लक्षण-तत्-तत्-कामस्य जनकेऽग्निष्टोमादौ
प्रवर्तयन्ति । ततस् तेषां निरन्तर-तद्-अभ्यासाद् धर्म एव रुचिं जनयन्ति
।
अथ लब्ध-धर्म-रुचीनां शुद्धान्तः-करणानां तद्-अर्तह-विचार-
पराणां जगद् अप्य् अनित्यम् इति ज्ञानवतां संसार-भय-दीनानां
निर्वाणानन्दाभिलाषं सम्पादयन्ति । निर्वाणानन्दश् च पर-
तत्त्वाविर्भाव-रूप एवेति ।
तद् उक्तम् श्री-सूतेन --
धर्मस्य ह्य् आपवर्ग्यस्य
नार्थो ऽर्थायोपकल्पते ।
नार्थस्य धर्मैकान्तस्य
कामो लाभाय हि स्मृतः ॥ [भ्प् 1.2.9]
कामस्य नेन्द्रिय-प्रीतिर्
लाभो जीवेत यावता ।
जीवस्य तत्त्व-जिज्ञासा
नार्थो यश् चेह कर्मभिः ॥ [भ्प् 1.2.10] इति ।
ततश् च यथा बुद्ध्यादयोऽन्तर्मुखता-तारतम्येन चिच्-छक्त्याविर्भावात्
परे तत्त्वे तारतम्येन चरन्ति, तथा श्रुति-लक्षणं वचनम् अपि चिच्-छक्ति-
प्रकाशानुक्रमेण त्रैगुण्य-विषयत्वम् अतिक्रम्य केवल-नैर्गुण्य-
विषयम् एव सत् तस्मिन् निर्गुणे तत्त्वे सम्यग् एव चरितुं शक्नोति । अगुण-
वृत्तित्वेन योग्यत्वात् । तद् उक्तं द्वादशे प्रणवम् उपलक्ष्य -
ततोऽभूत् त्रिवृद् ओङ्कारो
योऽव्यक्त-प्रभवः स्वराट् ।
यत् तल् लिङ्गं भगवतो
ब्रह्मणः परमात्मनः ॥ [भ्प् 12.6.39] इति ॥
तत्र तत् तत्त्वं द्विधा स्फुरति भगवद्-रूपेण ब्रह्म-रूपेण चेति । चिच्-
छक्तिर् अपि द्विधा तदीय-स्वयं-प्रकाशादि-मय-भक्ति-रूपेण तन्-मय-
ज्ञान-रूपेण च । ततो भक्ति-मय-श्रुतयो भगवति चरन्ति ज्ञान-मय-
श्रुतयो ब्रह्मणीति सामान्यतः सिद्धान्तितम् ।
[111]
अथ तत्र विशेषं वक्तुं तदीय एवेतिहास उपक्षिप्यते ।
श्री-सनन्दन उवाच -
स्व-सृष्टम् इदम् आपीय
शयानं सह शक्तिभिः ।
तद् अन्ते बोधयाञ्चक्रुस्
तल्-लिङ्गैः श्रुतयः परम् ॥ [भ्प् 10.87.12]
स्वयं निर्मितम् इदं विश्वं लय-समये आपीय संहृत्य शक्तिभिः सह
शयानं प्रकृतिं पुरुषं तद्-अंशांशश् चात्म-सात्कृत्य तत्-कार्यं प्रति
निमीलिताक्षं परं भगवन्तं तद्-अन्ते प्रलय-कालावसान-प्राये तल्-लिङ्गैस्
तत्-प्रतिपादकैर् वाक्यैः श्रुतयः प्रबोधयाञ्चक्रुः प्रातः प्रबोधनः
स्तुति-भङ्ग्या तुष्टुवुर् इत्य् अर्थः । अस्य भगवत्त्वम् एव गम्यते न तु
पुरुष
त्वं भगवान् एक आसेदम्
अग्र आत्मात्मतां विभुः ।
आत्मेच्छानुगतावात्मो
नानाम् अत्य् उपलक्षणः ॥ [भ्प् 3.5.23]
इति तृतीय-स्कन्ध-प्रकरणे तदानीं पुरुषस्य तद्-अन्तर्भाव-श्रवणात् ।
[112]
पूर्व-पद्यार्थे दृष्टान्तः ।
यथा शयानं सम्राजं
वन्दिनस् तत्-पराक्रमैः ।
प्रत्यूषेऽभ्येत्य सुश्लोकैर्
बधियन्त्य् अनुजीविनः ॥ [भ्प् 10.87.13]
तस्य सम्राजः पराक्रमो य एतैर् न तु निर्विशेषत्व-व्यञ्जकैः शोभनैः
श्लोकैः । यथा शयानं सम्राजम् इत्य् अस्यायम् अभिप्रायः । यथा रात्रौ
सम्राट् महिषिभिः क्रीडन्न् अपि बहिःकार्यं परित्यज्यान्तर्गृहादौ
स्थितत्वात् तज्-जनैः शयान एवोच्यते । वन्दिभिश् च तत्-प्रभावमय-श्लोक-
कृत-प्रबोधन-भङ्ग्या स्तूयते तथायं भगवान् तदानीं जगत्-
कार्याकृत-दृष्टिर् निगूढं निज-धाम्नि निज-परिकरैः क्रीडन्न् अपीति ।
अनुजीविन इत्य् अनेन ते यथा तन्-मर्मज्ञास् तथा न अपीति सूचितम् ।
[113]
तत्र प्रथमतो ज्ञानादि-गुण-सेवितेन सम्यग्-दर्शन-कारणेन भक्ति-
योगेनानुभूयमानं भगवद्-आकारम् अखण्डम् एव तत्त्वं स्व-
प्रतिपाद्यत्वेन दर्शयन्त्यो ब्रह्म-स्वरूपम् अपि तथात्वेन
क्रोडीकुर्वन्त्यः श्रुतयः ऊचुः ।
जय जय जह्य् अजाम् अजित दोष-गृभीत-गुणां
त्वम् असि यद् आत्मना समवरुद्ध-समस्त-भगः ।
अग-जगद्-ओकसाम् अखिल-शक्त्य्-अवबोधक ते
क्वचिद् अजयात्मना च चरतो ऽनुचरेन् निगमः ॥ [भ्प् 10.87.14]
बोह् अजित जय जय निजोत्कर्षम् आविष्कुरु । आदरे वीप्सा । अत्राजितेति
सम्बोधनेनेदं लभ्यते । नाम-व्याहरणं विष्णोर् यतस् तद्-विषया मतिर्
इति [भ्प् 6.2.10] न्यायेन नाम्ना भगवान् असौ साक्षाद् अभिमुखीक्रियत इति
लिङ्गाद् एव तच्-छ्री-विग्रहवत् तद् अपि तत्-स्वरूप-भूतम् एव भवति । तद्
विजानीये तद्-अभिमुखी-करणार्हत्वात् । अतएव भय-द्वेषादौ श्री-मूर्तेः
स्फूर्तेर् इव साङ्गेत्य्-आदाव् अप्य् अस्य प्रभावः श्रूयते । विशेषतश् चात्र श्रुति-
विद्वद्0अनुभआव् अपि पूर्वम् एव प्रमाणीकृतौ । तस्मात् यत् त्वं श्री-
विग्रह-रूपेण चक्षुर् आदाव् उदयते तद् एव नाम-रूपेण वाग्-आदाव् इति
स्थितम् । तस्मान् नाम-नामिनोः स्वरूपाभेदेन तत्-साक्षात्-कारे तत्-साक्षात्-
कार एवेत्य् अतः किं वक्तव्यम् अन्यत्रान्यवद् भगवति श्रुतयोऽपि जात्यादि-
कृत-संज्ञा-संज्ञि-सङ्केतादि-रीत्या रूढ्यादि-वृत्तिभिश् चरन्तीति । यासां श्रुत्य्-
अभिधानां वल्लीनां साक्षात् तथाभूतानि नामान्य् एव फलानीति ।
उत्कर्षम् आविष्कुर्व् इत्य् अनेन इत्थं सर्वोत्कृष्टता-गुण-योगेन मुख्ययैव
वृत्त्या श्रुतयस् तस्मिंश् चरन्तीति दर्शितम् । श्रुतयश् च न ते महि त्वाम् अन्व्
अश्नुवन्ति [?], न तत् समश् चाभ्यधिकश् च दृश्यते [श्वेतु 6.8] इत्य् आद्याः ।
अत्र श्रुतयो जय जयेति स्व-भक्त्याविष्कारात् भक्तिम् एव तत्-प्रकाशे हेतुं
गमयन्ति । केन व्यापारेणोत्कर्षम् आविष्कर-वाणीत्य् आशङ्क्य माया-
निरसन-द्वारा स्व-भक्ति-दानेनेत्य् आहुः ।
अजां मायां जहि । ननु माया नाम विद्याविद्या-वृत्तिका शक्तिः । तर्हि तद्-
धनने विद्याया अपि हतिः स्याद् इत्य् अत्र आह दोष-गृभीत-गुणां जीवानाम्
आत्म-विस्मृति-हेताव् अविद्या-लक्षणे दोषे एव गृभीतो गृहीतस् तत्-स्मृति-हेतोर्
विद्या-लक्षणो गुणो यया ताम् । स्वयम् एव स्वावेशेनाविद्या-लक्षणं दोषम्
उत्पाद्य क्वचिद् एव कदाचिद् एव कथञ्चिद् एव कञ्चिद् एव जीवं त्यजतीति तस्यास्
त्यागात्मक-विद्याख्य-गुणेऽपि दोष एव । तस्मात् तां निर्मूलां विधाय
जीवेभ्यो निज-चरणारविन्द-विषयां भक्तिम् एव दिशेति तात्पर्यम् ।
अतो माया-घातक-योग्य-शक्तित्वेन तद्-अतीतत्वं व्यपदिश्य सच्-चिद्-आनन्द-
घनत्वं भगवतो व्यञ्जयन्त्योऽतन्-निरसन-मुखेन तात्पर्य-वृत्त्या
श्रुतयश् चरन्तीति व्यञ्जितम् । श्रुतयश् च - मायां तु प्रकृतिं विद्यान्
मयिनं तु महेश्वरम् [श्वेत् 4.10][*एन्द्नोते #37] इति ।
अजाम् एकाम् इति । सर्वस्याधिपतिः सर्वस्येशानः [बौ 4.4.22] स वा एष नेति
नेतीत्य्[*एन्द्नोते #38] आद्याः ।
ननु माया-नाशं सम्प्रार्थ्य मम तद्-उपाधिकम् ऐश्वर्यादिकम् अपि
नाशयितुम् इच्छथेत्य् अत्र समाधत्ते त्वम् इति । यद् यस्मात् त्वम् आत्मना
स्वरूपेणैव समवरुद्ध-समस्त-भग-प्राप्त-त्रिपाद्-विभूत्य्-आख्य-
सर्वैश्वर्यादिर् असि । तस्मात् तव तुच्छया तद्-उपाधिकैश्वर्यादिभिर् वा किम्
इत्य् अर्थः ।
तथा च स यद् अजया त्व् अजाम् इत्य् अत्र पद्ये टीका - नहि निरन्तराह्लादि-संवित्-
काम-धेनु-वृन्द-पतेर् अजया कृत्यम् इति । तथा न ह्य् अन्येषाम् इव देश-
कालादि-परिच्छिन्नं तवाष्ट-गुणितम् ऐश्वर्यम् अपि तु परिपूर्ण-
स्वरूपानुबन्धित्वाद् अपरिमितम् इत्य् अर्थः । इत्य् एषा ।
अत्रात्म-शब्देन स्वरूप-मात्र-वाचकेन तथा भग-शब्देन स्वरूप-
भूत-गुण-वाचकेनेदं ध्वन्यते । स्वरूपादि-शब्दा ईश्वरादि-शब्दाश् च
स्वरूप-मात्रावलम्बनया स्वरूप-भूत-गुणावलम्बनयापि रूढ्या
निर्देष्टुं शक्नुवन्तीति । श्रुतयश् च - यद्-आत्मको भगवान् तद्-आत्मिका
व्यक्तिः इत्य् [?] आद्याः परास्य शक्तिर् विविधैव श्र्”यते इत्य् [श्वेतु 6.8] आदिकाश्
च ।
सा च स्वरूप-शक्तिः सर्वैर् एवावगम्यत इत्य् आहुः अगानि स्थावराणि जगन्ति
जङ्गमानि ओकांसि शरीराणि येषां तेषां सर्वेषाम् एव जीवानां या अखिलाः
शक्तयस् तासाम् अवधकेति सम्बोधनम् । तेषु विचित्र-शक्ति-लहरी-रत्नाकर
इत्य् अनुमीयत इत्य् अर्थः ।
यद् वा । ननु माया-हननेन तद्-उपाधेर् जीवस्य तु शक्ति-हानिः स्यात्
तत्राहुः अगेति । अथ पूर्ववद् एव । ततः स्वरूप-शक्त्यैव प्रत्युत तेषां
सुखैक-प्रदा पूर्णा शक्तिर् भविष्यतीति भावः । अत्रेत्थं तटस्थ-
लक्षणेन श्रुतयश् चरन्तीत्य् उक्तम् । श्रुतयश् च को ह्य् एवान्याद् [तैत्ति 2.7]
इत्य् आदिकाः प्राणस्य प्राणम् इत्य् आदिकाः । तम् एव भान्तम् [कठौ 2.2.15]
इत्य् आदिकाः । देहान्ते देवस् तारकं ब्रह्म व्याचष्टे [न्तु
1.7][*एन्द्नोते #39] इति । यस्य देवे परा भक्तिर् [श्वेतु 6.23] इत्य् आद्याश् च
।
ननु विशेषतो भवत्यः कथं जानन्ति यद् अजया मम कृत्यं नास्ति तथा
सच्-चिद्-आनन्द-घन एव स्वरूप-शक्त्या समवरुद्ध-समस्त-भग इति
तत्राहुः क्वचिद् इति । क्वचित् कदाचित् सृष्ट्यादि-समये पुरुष-रूपेण अजया
मायया चरतः क्रीडतः नित्यं च स्वरूप-शक्त्याविष्कृत-स्वरूप-भूत-
भगेन सत्य-ज्ञानानन्दैक-रसेनात्मना चरतस् तवास्मल्-लक्षणो निगमः
शब्द-रूपेण देवता-रूपेण च अनुचरेत् सेवते । तस्माद् वयं सत् सर्वं
जानीम इत्य् अर्थः । कर्मणि षष्ठी ।
एतद् उक्तं भवति । अत्र द्विविधो वेदस् त्रैगुण्य-विषयो निस्त्रैगुण्य-विषयश्
च । तत्र त्रैगुण्य-विषयस् त्रिविधः । प्रथम-प्रकारस् तावत् तद्-
अवलम्बन-ताटस्थ्येन तल्-लक्षकः । यथा यतो वा इमानि भूतानीत्य् आदिः
। द्वितीय-प्रकारश् च त्रिगुणमय-तद्-ईशितव्यादि-वर्णनादि-द्वारा तन्-
महिमादि-दर्शकः । यथा इन्द्रो यतोऽवसितस्य राजेत्य् आदिः । तृतीय-प्रकारश्
च त्रैगुण्य-निरासेन परम-वस्तूद्देशकः । सोऽप्य् अयं द्विविधः । निषेध-
द्वारा सामानाधिकरण्य-द्वारा च । तत्र पूर्व-द्वारा अस्थूलम् अनणु नेति
नेतीत्य् [बौ 3.7.8] आदिः । उत्तर-द्वारा सर्वं खल्व् इदं ब्रह्म तत्त्वम् असीत्य्
आदिः । पूर्व-वाक्ये । तज्-जातत्वाद् इति हेतोः सर्वस्यैव ब्रह्मत्वं निर्दिश्य
तत्राविष्कृतः सद् इदम् इति प्रतीति-परमाश्रयो योऽंशः स एव शुद्धं
ब्रह्मेत्य् उद्दिश्यते । उत्तर-वाक्ये त्वं-पदार्थस्य तद्वच् चिद्-आकार-तच्-
छक्ति-रूपत्वेन तत्-पदार्थैक्यं यद् उपपाद्यते तेनापि तत्-पदार्थो
ब्रह्मैवोद्दिश्यते । तत्-पदार्थ-ज्ञानं विना त्वं-पदार्थ-ज्ञान-मात्रम्
अकिञ्चित्-करम् इति तत्-पदोपन्यासः । त्रैगुण्यातिक्रमस् तूभयत्रापि । अत्र
त्रैगुण्य-निरासेन तद्-उद्देशेन यत्र तदीय-धर्माः स्पष्टम् एव गम्यते
तत्र भगवत्-परत्वं यत्र त्व् अस्पष्टं तत्र ब्रह्म-परत्वम् इत्य्
अवगन्तव्यम् । व्याख्यातस् त्रैगुण्य-विषयः । तद् एतद् अजया चरतोऽनुचरे
व्याख्यातम् ।
अथ निस्त्रैगुण्योऽपि द्विविधः । ब्रह्म-परो भगवत्-परश् च । यथा
आनन्दो ब्रह्मेत्यादि ।
न तस्य कार्यं करणं च विद्यते
न तत्-समश् चाभ्यधिकश् च दृश्यते ।
परास्य शक्तिर् विविधैव श्रूयते
स्वाभाविकी ज्ञान-बल-क्रिया च ॥ [श्वेतु 6.8] इत्यादिश् च ।
तद् एतद् आत्मना चरतोऽनुचरे इति व्याख्यातम् । अतः श्रुतेस् तच् चारित्वं
सिद्धम् । साक्षाच् चारित्वं च निस्त्रैगुण्यानां स्वत एव अन्येषां तु तद्-एक-
वाक्यतया ज्ञेयम् । माया-निरसनार्थम् एव तत्-तद्-गुणानुवादः क्रियते
पश्चाद् अखण्डम् एव तां निरस्य साक्षाद्-भगवत्-स्वरूप-गुणादिकं
निर्दिश्यते इति तद् एक-वाक्यता-द्योतनया स एष एव सिद्धान्तोऽस्मिन्न्
उपक्रम-वाक्ये समुद्दिष्टः । तथोपसंहारे च श्रुतयस् त्वयि हि फलन्त्य्
अतन्-निरसनेन भवन्-निधना [भ्प् 10.87.41] इति । श्रुतयश् च मध्व-
भाष्य-प्रमाणिताः न चक्षुर् न श्रोत्रं न तर्को न स्मृतिर् वेदो ह्य् एवैनं
वेदयति इत्य् आद्या । औपनिषदः पुरुष इत्य् [बौ 3.9.26] आद्याश् च ।
[114]
अथ विशेषतो ब्रह्मण्य् अपि यथा चरन्ति ब्रह्मणि चरन्तीनाम् अपि यथा
भगवत्य् एव पर्यवसानं तथैवोद्दिशन्ति ।
बृहद्-उपलब्धम् एतद् अवयन्त्य् अवशेषतया
यत उदयास्तमयौ विकृते दिवाविकृतात् ।
अत ऋषयो दधुस् त्वयि मनो-वचनाचरितं
कथम् अयथा भवन्ति भुवि दत्त-पदानि नॄणाम् ॥ [भ्प् 10.87.15]
एतत् सर्वं बृहद्-ब्रह्मैवोपलब्धम् अवगतम् । तत् कथं विकृते विश्वस्मात्
सकाशाद् अवशिष्यमाणत्वेन सर्वं घटादि-द्रव्यं मृद् एवोपलब्धा दृष्टा
तथा बृहद् अपीत्य् अर्थः । तत्र हेतुः । यतो बृहतः सकाशाद् विकृतेर् उदयास्
तमयौ अवयन्ति मन्यन्ते श्रुतयः यतो वा इमानीत्य् आद्याः । तस्मान् मृत-
साम्यं तस्य युज्यत इति भावः । तर्हि कथं तद्-विकारि त्वम् अपि नेत्य् आहुः
। अविकृतात् । श्रुतेस् तु शब्द-मूलत्वाद् इति न्यायेनाचिन्त्य-शक्त्या तथाप्य्
अविकृतम् एव यत् तस्माद् इत्य् अर्थः । यद्यप्य् अत्रापि स-शक्तिकम् एव बृहद्
उपपद्यते तथाप्य् आविष्कृत-भगवत्त्वेनानुपादानात् ब्रह्मैवोपपादितं
भवति । सर्वथा शक्ति-परित्यागे तद्-उपपादानात् सामर्थ्यात् तुच्छत्वापाताच्
च । तस्माद् अत्र ब्रह्मैवोदाहृतम् । अतएव मृन्-मात्र-दृष्टान्तेन
कर्तृत्वादिकम् अपि तत्र नोपस्थापितम् । तद् एतद् ब्रह्म-प्रतिपादनम् अपि
श्री-भगवत्य् एव पर्यवस्यतीत्य् आहुः । अत इति । अतो ब्रह्म-प्रतिपादनाद् अपि
ऋषयो वेदास् त्वयि श्री-भगवत्य् एव मनस आचरितं तात्पर्यं
वचनस्याचरितम् अभिधानं च दधुर् धृतवन्तः । द्वयोर् एक-वस्तुत्वाद्
भगादीनाम् आविष्कारानाविष्कार-दर्शन-मात्रेण भेद-कल्पनाच् च
तत्रार्थान्त्र-न्यासः । नॄणां भू-चराणां सम्यग्-दर्शिनाम् असम्यग्
दर्शिनां वा भुवि दत्तानि निक्षिप्तानि पदानि कथम् अयथा भवन्ति भुवं
न प्राप्नुवन्ति अपि तु तत्रैव पर्यवस्यन्ति । तस्माद् यथा कथम् अपि
प्रतिपादयन्तु फलितं तु त्वय्य् एव भवतीति भावः । तद् उक्तं -
ज्ञान-योगश् च मन्-निष्ठो
नैर्गुण्यो भक्ति-लक्षणः ।
द्वयोर् अप्य् एक एवार्थो
भगवच्-छब्द-लक्षणः ॥ इति । [भ्प् 3.32.32]
अत्र श्रुतयश् मध्व-भाष्य-प्रमाणिताः - हन्त तम् एव पुरुषं सर्वाणि
नामान्य् अभिवदन्ति यथा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रम्
अभिनिविशन्ति एवम् एवैतानि नामानि सर्वाणि पुरुषम् अभिविशन्तीति ।
[115]
तद् एवं भगवत्त्वेन ब्रह्मत्वेन न त्वम् एव तात्पर्याभिधानाभ्यां
सर्व-निगम-गोचर इत्य् उक्तम् । तच् च यथार्थम् एव न तु काल्पनिकम् इत्य्
आहुः ।
इति तव सूरयस् त्र्य्-अधिपतेऽखिल-लोक-मल-
क्षपण-कथामृताम् अवगाह्य तपांसि जहुः ।
किम् उत पुनः स्व-धाम-विधुताशय-काल-गुणाः
परम भजन्ति ये पदम् अजस्र-सुखानुभवम् ॥ [भ्प् 10.87.16]
भोस् त्र्यधिपते त्रयाणां ब्रह्मादीनां पतिस् तत्-तद्-अवतारी नारायणाख्यः
पुरुषस् तस्याप्य् उपरिचर-स्वरूपत्वाद् अधिपतिर् भगवान् । ततो हे
सर्वेश्वरेश्वर यस्मात् त्वय्य् एव वेदानां तात्पर्यम् अभिधानं च
पर्यवसितम् इति अतो हेतोर् एव सूरयो विवेकिनः परम्परात्वत्-
प्रतिपादनमयं वेद-भागम् अपि परित्यज्य केवलं तवाखिल-लोकम्
अलक्षपण-कथामृताब्धिं सकल-वृजिन-निरसन-हेतुकीर्ति-सुधा-सिन्धुम्
अवगाह्य श्रद्धया निषेव्य तपः-प्राधान्येन तापकत्वेन वा तपांसि
कर्माणि तानि जहुस् त्यक्तवन्तः । तेषां साधकानाम् अपि यदि तत्रैवं तदा
किम् उत वक्तव्यं स्वधाम-विधुताशय-काल-गुणाः शुद्धात्म-स्वरूप-
स्फुरणेन निर्जितम् अन्तःकरणं जरादि-हेतुः काल-प्रभावः सत्त्वादयो
गुणाश् च यैस् ते ये पुनः तवाजस्र-सुखानुभव-स्वरूपं पदं
ब्रह्माख्यं तत्त्वं भजन्ति ते तम् अवगाह्य तानि जहुर् इति । किं तर्हि
ब्रह्म-मात्रानुभ्व-निष्ठाम् अपि जहुर् इत्य् अर्थः । एतद् उक्तं भवति । अत्र
तावत् त्रिविधा जना मुग्धा विवेकिनः कृतार्थाश् च इति ।
तत्र सर्वान् एवाधिकृत्य वेदानाम् अकल्पनामयत्वेनैव भगवन्-
निर्देशकता दृश्यते । तथा हि यदि तथात्वेनैव सा न दृश्येत तदा वस्तुतस्
तत्-सम्बन्धाभावाद् अखिल-लोकम् अलक्ष-पणत्वेन पद-पदार्थ-ज्ञान-
हीनानां मुग्धानाम् अपि यत् पाप-हारित्वं वेदान्तर्-वर्तिन्या भगवत्-
कथायाः प्रसिद्धं तन् न स्यात् । अस्पृष्टानल-लोह-दाहकतावत् । किं च
तस्याः कल्पनामयत्वे सति विवेकिनस् तु न तत्र प्रवेर्तेरन् बन्ध्यायाः
सुप्रजस्त्व-गुण-श्रवणवत् । प्रवर्तन्तां वा तद्-आवेशेन स्व-धर्मं पुनर्
न त्यजेयुः । राजयशसो गङ्गात्व-श्रवणेन तीर्थान्तर-सेवनवत् । अपि च
तथा सति ये पुनर् आत्मारामत्वेन परम-कृतार्थास् ते तद्-अनादरेण तत्-
कथां नैवावगाहेरन् । अमृत-सरसीम् अवगाढा आरोपित-तद्-अधिक-गुणक-
नदीवत् । श्रूयते च तस्यास् तत्-तद्-गुणकत्वम् । यथा वैष्णवे - हन्ति
कलुषं श्रोत्रं स यातो हरिर् [विप् ?.?.?] इत्य् आदौ । अत्रैव त्वद्-अगवमी न
वेत्तीत्य् आदौ । प्रथमे हरेर् गुणाक्षिप्त-मतिर् इत्य् [भ्प् 1.7.11] आदौ । तस्माद्
गुणानां गुणादि-प्रतिपादक-वेदानां च भगवतो सम्बन्धः स्वाभाविक
एव सर्वथेति सिद्धम् । अत्र श्रुतयः - ओम् आस्य जानन्त इत्य् आद्याः । यथा
पुष्कर-पलाशम् आपो न श्लिष्यन्ति एवम् एवंविदं पापं कर्म न श्लिष्यति
। न कर्मणा लिप्यते पापकेन तत्-सुकृत-दुष्कृते विधुनुते । एवं वाव न
तपति किम् अहं साधु करवं किम् अहं नाकरवम् इत्य् आद्या मुक्ता ह्य् एनम्
उपासत इत्य् आद्याश् च । एवम् अन्येऽपि श्लोका उपासनादि-वाक्यानां भगवत्-
परतादर्शका यथायथं योजयितव्या इत्य् अभिप्रेत्य नोद्धियन्ते ।
ननु तर्हि भवन्-मते शब्द-निर्देश्यत्वे प्राकृतत्वम् एव तत्रापतति । किं
च श्रुतिभिर् अपि यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । अवचनेनैव
प्रोवाच । यद्-वाचानभ्युदितं येन वाग् अभ्युद्यते यत् श्रोत्रं न शृणोति
येन श्रोत्रम् इदं श्रुतम् इत्य् आदौ शब्द-निर्देश्यत्वम् एव तस्य निषिध्यत
इत्य् आशङ्कायाम् उच्यते । यथा साक्षान् निर्देश्यत्वे दोषस् तथा लक्ष्यत्वेऽपि
कथं न स्यात् । उभयत्रापि शब्द-वृत्ति-विषयत्वेनाविशेषात् । किं च न तस्य
प्राकृतवत् साक्षान् निर्देश्यत्वं किन्त्व् अनिर्देश्यत्वेनैव तथा निर्देश्यत्वम्
इति सिद्धान्त्यते ।
[116]
तथैव तासां महावाक्योपसंहारः -
द्युपतयः एव ते न ययुर् अन्तम् अनन्ततया
त्वम् अपि यद्-अन्तरान्त-निचया ननु सावरणाः ।
ख एव रजांसि वान्ति वयसा सह यच् छ्रुतयस्
त्वयि हि फलन्त्य् अतन्-निरसनेन भवन्-निधनाः ॥ [भ्प् 10.87.41]
अत्र स्वरूप-गुणयोर् द्वयोर् अपि द्विधैवानिर्देश्यत्वम् । आनन्त्येन इदम्
इत्तं तद् इति निर्देशासम्भवेन च । तत्र प्रथमम् आनन्त्यम् आहुः । हे
भगवन् ते तव अन्तम् एतावत् त्वं द्युपतयः स्वर्गादि-लोक-पतयो
ब्रह्मादयोऽपि न ययुर् न विदुः । तत् कुतः । अनन्ततया । यद् अन्तव तत् किम्
अपि न भवसीति । आसतां ते यस्मात् त्वम् ऐ आत्मनोऽन्तं न यासि । कुतस् तर्हि
सर्वज्ञता सर्व-शक्तिता वा तत्राप्य् आहुः । अनन्ततयेति अन्ताभावेनैव । नहि
शश-विषाणाज्ञानं सार्वज्ञ्यं तद्-अप्राप्तिर् वा शक्ति-वैभवं विहन्ति ।
श्रुतिश् च - योऽस्याध्यक्षः परमे व्योमन् । सोऽङ्ग वेद यदि वा न वेदेति
[ऋग्वेद 10.130.18] ।
अनन्तत्वम् एवाहुः यद् अन्तर् इति यस्य तवान्तरा मध्ये । ननु अहो सावरणा
उत्तरोत्तर-दश-गुण-सप्तावरण-युक्ता अण्ड-निचया वान्ति परिभ्रमन्ति
वयसा काल-चक्रेण खे रजांसि इव सह एकदैव न तु पर्यायेण । अनेन
ब्रह्माण्डानाम् अनन्तानां तत्र भ्रमणात् स्वरूप-गतम् आनन्त्यं तेषां
विचित्र-गुणानाम् आश्रयत्वात् गुण-गतं च ज्ञेयम् । श्रुतयश् च - यद् ऊर्ध्वं
गार्गि दिवः यद् अर्वाक् पृथिव्या यद् अन्तरं द्याव् आपृथिवी इमे यद् भूतं
भवच् च भविष्यच् चेत्य् [बौ 3.7.3] आद्याः । विष्णोर् नु कं वीर्याणि प्रवोचं
यं पार्थिवानि विममे रजांसि इत्य् आद्याश् च ।
हि यस्माद् एवम् अतः श्रुतयश् त्वयि पर्यवस्यन्ति । अतः श्रुताव् अपि
प्राजापत्यानन्दतः शत-गुणानन्दत्वम् अभिधाय पुनर् यतो वाच इत्य्
आदिना अनन्तत्वेन वाग्-अतीत-सङ्ख्यानन्दत्वं ब्रह्मण उक्तम् । यद् उक्तम्
न तद् ईदृग् इति ज्ञेयं
न वाच्यं न च तर्क्यते ।
पश्यन्तोऽपि न जानन्ति
मेरो रूपं विपश्चितः ॥ इति ॥
अतोऽत्रानिर्देश्यत्वेनैव निर्देश्यत्वम् । यत् तु सत्यं ज्ञानम् इत्य् आदौ
स्वरूपस्य साक्षाद् एव निर्देशः । स्वाभाविकी ज्ञान-बल-क्रिया चेत्य् आदौ
गुणस्य च श्रूयते तत्र च तथैव इत्य् आहुः । अतन्-निरसनेन भवन्-निधना
इति । अतत् प्राकृतं यद् वस्तु तन् निरस्यैव भवत्-पर्यवसानात् । अयम् अर्थः
। बुद्धिर् ज्ञानम् असंमोहम् इत्य् आदिना ह्रीर् धीर् भीर् एतत् सर्वं मन
एवेत्यादिना च यत् प्राकृतं ज्ञानादिकम् अभिधीयते तत् सर्वं ब्रह्म न
भवति इति नेति नेतीत्यादिना न तस्य कार्यं करणं च विद्यते इत्य् आदिना च
निषिध्यते ।
अथ च सत्य-ज्ञानादि-वाक्येन स्वाभाविकी ज्ञान-बल-क्रिया चेत्य् आदि वाक्येन
च तद् अभिधीयते । न तस्मात् प्राकृताद् अन्यद् एव तज्-ज्ञानादि इति तेषां
ज्ञानादि-शब्दानाम् अतन्-निरसनेनैव त्वै पर्यवसानम् इति । ततश् च
बुद्ध्य्-अगोचर-वस्तुत्वाद् अनिर्देश्यत्वं तथापि तद्-रूपं किञ्चिद् अस्ति इति
उद्दिश्यमानत्वाद् अनिर्देश्यत्वं च ।
तथा परोक्ष-ज्ञाने च दशमस् त्वम् असीतिवद् वाक्य-मात्रेणैव तस्य
स्वप्रकाश-रूपस्यापि वस्तुनो विशुद्ध-चित्ते सुप्रकाश-दर्शनात् श्रुति-
शब्दस्य स्वप्रकाशता-शक्तिमयत्वम् एवावसीयते । शब्द-ब्रह्म परं
ब्रह्म ममोभे शाश्वती तनू इति [भ्प् 6.16.51][*एन्द्नोते #40] । वेदस्य
चेश्वरात्मत्वात् [भ्प् 11.3.44] इति । वेदो नारायणः साक्षात् स्वयम्भूर् इति
शुश्रुम इति [भ्प् 6.1.40] । किं वा परैर् ईश्वरः सद्यो हृद्य् अवरुध्यतेऽत्र
कृतिभिः शुश्रूषुभिस् तत् क्षणाद् इति [भ्प् 1.1.2] । अतएवौपनिषदः पुरुषः
इत्य् अत्रोपनिषन्-मात्र-गम्यत्वं श्रुतिर् बोधयति । चाक्सुषं रूपम् इतिवत् ।
ततश् च श्रुतिमय्या स्वप्रकाशताशक्त्या प्राकृत-तत्-तद्-वस्तु-जातं तम इव
निरस्य स्वयं प्रकाशते । तस्मान् न तत्रापि निर्देश्यत्वम् । नहि स्वेन
प्रकाशेन रविः प्रकाश्यो भवति यथा तेन घट इति वक्तुं युज्यते
स्वाभिन्नत्वात् । यदि च शक्ति-शक्तिमतोर् भेद-पक्षः स्वीक्रियते तदा
निर्देश्यत्वम् अपीत्य् अत्रानिर्देश्यत्वेनैव निर्देश्यत्वं सिद्धम् । अतएवोक्तं
गारुडे -
अप्रसिद्धेर् अवाच्यं तद्
वाच्यं सर्वागमोक्तितः ।
अतर्क्यं तर्क्यम् अज्ञेयं
ज्ञेयम् एवं परं स्मृतम् ॥ इति ।
श्रुतौ च - अन्यद् एव तद्वद् इताद् अथो [इत्य् आदयो?] अविदिताद् अधीति । इदम्
अभिप्रेत्योक्तं श्री-पराशरेणापि ।
यस्मिन् ब्रह्मणि सर्व-शक्ति-निलये मानानि नो मानिनां
निष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिर् ॥ इति । [विप् 6.8.59]
नन्व् आविष्कृत-शक्तेर् भगवद्-आख्यस्य ब्रह्मणः स्व-प्रकाशता-शक्ति-
स्वरूपत्वं वेदस्य स्मभवति । ततश् चानाविष्कृत-शक्तेर् ब्रह्मणः
प्रकाशस् तस्मात् कथम् इति । उच्यते - अस्मन्-मते तस्यापि प्रकाशो भगवच्-
छक्त्यैव । तद् उक्तम् -
मदीयं महिमानं च
पर-ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे
सम्प्रश्नैर् विवृतं हृदि ॥ इति । [भ्प् 8.24.38][*एन्द्नोते #41]
न चैते न पर-प्रकाश्यत्वम् आपतति । ब्रह्म-भगवतोर् अभिन्न-वस्तुत्वात्
। अत्र लौकिक-शब्देनापि यः कश्चित् तद्-उपदेशः स तु तद्-अनुगतेस् तया
श्रुत्यैवानुगृहीततया सम्भवतीत्य् उक्तम् । अतस् तद्-अनुशीलनावसरे तद्-
भक्त्य्-अनुभाव-रूपस्य तच्-छब्दस्य तु सुतरां तत्-स्वरूप-शक्ति-विलास-
मयत्वात् न तत्र निषेधः । किं तर्हि मनो-विलासमयस्यैवेति सर्वम्
अनवद्यम् । अतएव सुपर्ण-श्रुतौ - प्रकृतिश् च प्राकृतं च यन् न जिघ्रन्ति
जिघ्रन्ति, यन् न पश्यन्ति पश्यन्ति, यन् न शृण्वन्ति शृण्वन्ति, यन् जानन्ति
जानन्ति च इति ।
॥ 10.87 ॥ श्रुतयः श्री-भगवन्तम् ॥ 109-116 ॥
[117]
अथैकम् एव स्वरूपं शक्तित्वेन शक्तिमत्त्वेन च विराजतीति । यस्य शक्तेः
स्वरूप-भूतत्वं निरूपितं तच्-छक्ति-मत्ता-प्राधान्येन विराजमानं
भगवत्-संज्ञाम् आप्नोति तच् च व्याख्यातम् । तद् एव च शक्तित्व-
प्राधान्येन विराजमानं लक्ष्मी-संज्ञाम् आप्नोतीति दर्शयितुं तस्याः स्व-
वृत्ति-भेदेनानन्तायाः कियन्तो भेदा दर्श्यन्ते । यथा -
श्रिया पुष्ट्या गिरा कान्त्या
कीर्त्या तुष्ट्येलयोर् जया ।
विद्ययाविद्यया शक्त्या
मायया च निषेवितम् ॥ [भ्प् 10.39.55]
शक्तिर् महा-लक्ष्मी-रूपा स्वरूप-भूता । शक्ति-शब्दस्य प्रथम-प्रवृत्त्य्-
आश्रय-रूपा भगवद्-अन्तरङ्ग-महा-शक्तिः । माया च बहिरङ्गा शक्तिः
। श्र्य्-आदयस् तु तयोर् एव वृत्ति-रूपया चेति सर्वत्र ज्ञेयम् । तत्र पूर्वस्याः
भेदः । श्रीर् भागवती सम्पत् । न त्व् इयं महा-लक्ष्मी-रूपा तस्या मूल-
शक्तित्वात् । तद् अग्रे विवरणीयम् । उत्तरस्याः भेदः । श्रीर् जागती सम्पत् ।
इमाम् एवाधिकृत्य न श्रीर् विरक्तम् अपि मां विजहातीत्यादि-वाक्यम् । यत
उक्तं चतुर्थ-शेषे श्री-नारदेन ।
श्रियम् अनुचरतीं तद्-अर्थिनश् च
द्विपद-पतीन् विबुधांश् च यः स्व-पूर्णः ।
न भजति निज-भृत्य-वर्ग-तन्त्रः
कथम् अमुम् उद्विसृजेत् पुमान् रसज्ञः ॥ [भ्प् 4.31.22] इति ।
तत्र तद्-अर्थि-द्विपद-पत्यादि-सह-भाव उपजीव्यः । तथा दुर्वाससः शाप-
नष्टायास् त्रैलोक्य-लक्ष्म्या आविर्भावं साक्षाद्-भगवत्-प्रेयसी-रूपा
स्वयं क्षीरोदाद् आविर्भूय दृष्ट्या कृतवतीति श्रूयते । एवम् अपरापि । तत्र
इला भूस् तद् उपलक्षणत्वेन लीला अपि । तत्र च पूर्वस्या भेदो विद्या
तत्त्वावबोध-कारणं संविद्-आख्यायास् तद्-वृत्तेर् वृत्ति-विशेषः । उत्तरस्या
भेदस् तस्या एव विद्यायाः प्रकाश-द्वारम् । अविद्या-लक्षणो भेदः
पूर्वस्या भगवति विभुत्वादि-विमृति-हेतुर् मातृ-भावादिमय-प्रेमानन्द-
वृत्ति-विशेषः । अतएव गोपी-जन-विद्या-कला-प्रेरक इति तापन्यां श्रुतौ ।
यथावसरम् एतद् अपि विवरणीयम् ।
उत्तरस्याः स भेदः संसारिणं स्व-स्वरूप-विस्मृत्यादि-हेतुर् आवरणात्मक-
वृत्ति-विशेषः च-कारात् पूर्वस्याः । सन्धिनी संवित् ह्लादिनी भक्त्य्-आधार-
शक्ति-मूर्ति-विमला-जया-योगा प्रह्वीशानानुग्रहादयश् च ज्ञेयाः । अत्र
सन्धिन्य् एव सत्या जयैवोत्कर्षिणी योगैव योगमाया संविद् एव ज्ञानाज्ञान-
शक्तिः शुद्ध-सत्त्वं चेति ज्ञेयम् । प्रह्वी विचित्रानन्त-सामर्थ्य-हेतुः ।
ईशाना सर्वाधिकारिता-शक्ति-हेतुर् इति भेदः । एवम् उत्तरस्याश् च
यथायथम् अन्या ज्ञेयाः । तद् एवम् अप्य् अत्र माया-वृत्तयो न विव्रियन्ते ।
बहिरङ्ग-सेवित्वात् । मूले तु सेवांशभतपुरुषस्य विदूर-
वर्तितयिअवाश्रित्यत्वात् । तथा च दशमस्य सप्त-त्रिंशे नारदेन भगवान्
श्री-कृष्ण एवास्तावि -
विशुद्ध-विज्ञान-घनं स्व-संस्थया
समाप्त-सर्वार्थम् अमोघ-वाञ्छितम् ।
स्व-तेजसा नित्य-निवृत्त-माया-
गुण-प्रवाहं भगवन्तम् ईमहि ॥
त्वाम् ईश्वरं स्वाश्रयम् आत्म-मायया
विनिर्मिताशेष-विशेष-कल्पनम् ।
क्रीडार्थम् अद्यात्त-मनुष्य-विग्रहं
नतोऽस्मि धुर्यं यदु-वृष्णि-सात्वताम् ॥ इति । [भ्प् 10.37.23-24]
अनयोर् अर्थः । विशुद्धं यद् विज्ञानं परम-तत्त्वं तद् एव घनः श्री-
विग्रहो यस्य । स्व-संस्थया स्वरूप-कारेण स्वरूप-शक्त्यैव वा सम्यग्
आप्ता इवाप्ता नित्य-सिद्धाः पूर्णा वा सर्वे अर्था ऐश्वर्यादयो यत्र । अतएव
न विद्यते अतितुच्छत्वात् मोघे वृथाभूते जगत्-कार्ये वाञ्छितं वाञ्छा
यस्य । क्वचिद् अवाञ्छितस्यापि सम्बन्धो दृश्यते इत्य् आशङ्क्याह । स्वतेजसा
स्वरूप-शक्ति-प्रभावेण नित्यम् एव निवृत्तो दूरीभूतया शक्त्या युक्तम् ।
गुणमय्या विरहितम् इति । तं भगवन्तं शरणं व्रजेम ।
तथा त्वां श्री-कृष्णाख्यं भगवन्तम् एव स्वांशेनेश्वरम् अन्तर्यामि-
पुरुषम् अपि सन्तं नतोऽस्मि । कथ्मभूतम् ईश्वरं स्वरूप-शक्त्या
स्वाश्रयम् अपि आत्म-मायया आत्मात्र जीवात्मा तद्-विषयया मायया ।
विनिर्मित्ता अशेष-विशेषाकारा कल्पना येन । यद् वा आत्ममायया स्वरूप-
शक्त्या स्वाग्रम् विनिर्मिता अशेष-विशेषा यया तथाभूता कल्पना माया-
शक्तिर् यस्य कीदृशं त्वाम् । सम्प्रति त्व-आविर्भाव-समये तस्यापीश्वरस्य
त्वयि भगवत्य् एव प्रवेशात् । युगपद्-विचित्र-तत्-तच्-छक्ति-प्रकाशेन या
क्रीडा तद्-अर्थम् अभ्यात्तः अभि भक्ताभिमुख्येन आत्तः आनीतः प्रकटितो
मनुष्याकारो नराकृतिः परं ब्रह्मेति स्मरणात् तद्-रूपो भगवद्-आख्यो
विग्रहो येन । तम् एव पुनर् विशिनष्टि । यदु-वृष्टि-सात्वतां धुर्यम् । तेषां
नित्य-परिकराणां प्रेम-भारवहम् इति । अथवा मूल-पद्ये शक्त्येति
सर्वत्रैव विशेष्य-पदम् । श्रीर् मूल-रूपा । पुष्ट्यादयस् तद्-अंशाः । विद्या
ज्ञानम् । आ समीचीना विद्या भक्तिः । राज-विद्या राज-गुह्यम् इत्य् आद्य् उक्तेः
। माया बहिरङ्गा । तद्-वृत्तयः श्र्य्-आदयस् तु पृथक् ज्ञेयाः । शिष्टं समम्
।
ततश् चात्र शुद्ध-भगवत्-प्रकरणे स्वरूप-शक्ति-वृत्तिष्व् एव गणनायां
पर्यवसितासु विवेचनीयम् इदम् । प्रथमं तावद् एकस्यैव तत्त्वस्य
सच्चिदानन्दत्वाच् छक्तिर् अप्य् एका त्रिधा भिद्यते । तद् उक्तं विष्णु-पुराणे
श्री-ध्रुवेण[*एन्द्नोते #42] --
ह्लादिनी सन्धिनी संवित्
त्वय्य् एका सर्व-संस्थितौ ।
ह्लाद-ताप-करी मिश्रा
त्वयि नो गुण-वर्जिते ॥ इति [विप् 1.12.68]
व्याख्यातं च स्वामिभिः । ह्लादिनी आह्लाद-करी सन्धिनी सन्तता संविद्
विद्या-शक्तिः । एका मुख्या अव्यभिचारिणी स्वरूप-भूतेति यावत् । सा सर्व-
संस्थितौ सर्वस्य सम्यक् स्थितिर् यस्मात् तस्मिन् सर्वाधिष्ठान-भूते त्वय्य्
एव न तु जीवेषु च सा गुणमयी त्रिविधा सा त्वयि नास्ति । ताम् एवाह ह्लाद-
ताप-करी मिश्रा इति । ह्लाद-करी मनः-प्रसादोत्था सात्त्विकी । तापकरी
विषय-वियोगादिषु ताप-करी तामसी । तद्-उभय-मिश्रा विषय-जन्या राजसी
। तत्र हेतुः सत्त्वादि-गुण-वर्जिते । तद् उक्तं सर्वज्ञ-सूक्तौ -
ह्लादिन्या संविद्-आश्लिष्टः
सच्-चिद्-आनन्द ईश्वरः ।
स्वाविद्या-संवृतो जीवः
सङ्क्लेश-निकराकरः ॥ इति [भावार्थ-दीपिका 1.7.6]
अत्र क्रमाद् उत्कर्षेण सन्धिनी-संविद्-ध्लादिन्या ज्ञेयाः । तत्र च सति
घटानां घटत्वम् इव सर्वेषां सतां वस्तूनां प्रतीतेर् निमित्तम् इति क्वचित्
सत्ता-स्वरूपत्वेन आम्नातोऽप्य् असौ भगवान् सद् एव सोम्येदम् अग्र आसीद् इत्य्
अत्र सद्-रूपत्वेन व्यापदिश्यमाना मया सत्तां दधाति धारयति च सा
सर्व-देश-काल-द्रव्यादि-प्राप्तिकरी सन्धिनी । तथा संविद्-रूपोऽपि यया
संवेत्ति संवेदयति च सा संवित् । तथा ह्लाद-रूपोऽपि यया संविद् उत्कट-
रूपया तं ह्लादं संवेत्ति संवेदयति च सा ह्लादिनीति विवेचनीयम् ।
तद् एवं तस्या मूल-शक्तेस् त्र्य्-आत्मकत्वेन सिद्धे येन स्व-प्रकाशता-
लक्षणेन तद्-वृत्ति-विशेषेण स्वरूपं स्वयं स्वरूप-शक्तिर् वा विशिष्टम्
आविर्भवति तद् विशुद्ध-सत्त्वम् । तच् चान्य-निरपेक्षयस् तत्-प्रकाश इति
ज्ञापन-ज्ञान-वृत्तिकत्वात् संविद् एव । अस्य मायया स्पर्शाभावात्
विशुद्धत्वम् ।[*एन्द्नोते #43]
उक्तं च तस्य सत्त्वस्य प्राकृताद् अन्यतरत्वं द्वादशे श्री-नारायणर्षिं
प्रति मार्कण्डेयेन ।
सत्त्वं रजस् तम इतीश तवात्मबन्धो
मायामयाः स्थिति-लयोद्भव-हेतवोऽस्य ।
लीलाधृता यद् अपि सत्त्व-मयी प्रशान्त्यै
नान्ये नॄणां व्यसन-मोह-भियश् च याभ्याम् ॥ [भ्प् 12.8.39]
तस्मात् तवेह भगवन्न् अथ तावकानां
शुक्लां तनुं स्व-दयितां कुशला भजन्ति ।
यत् सात्वताः पुरुष-रूपम् उशन्ति सत्त्वं
लोको यतोऽभयम् उतात्म-सुखं न चान्यद् ॥ [भ्प् 12.8.40] [*एन्द्नोते #44]
अनयोर् अर्थः । हे ईश यद् अपि सत्त्वं रजस् तम इति तवैव माया-कृता लीलाः
। कथम्भूताः - अस्य विश्वस्य स्थित्यादि-हेतवः तथापि या सत्त्वमयी सैव
प्रशान्त्यै प्रकृष्ट-सुखाय भवति । नान्ये रजस् तमो-मय्यौ । न केवलं
प्रशान्त्यभाव-मात्रम् अनयोः । भजने[*एन्द्नोते #45] किन्त्व् अनिष्टं
चेत्य् आह व्यसनेति । हे भगवन् तस्मात् तव शुक्लां सत्त्व-मय-
लीलाधिष्ठात्रीं तनुं श्री-विष्णु-रूपां ते कुशला निपुणा भजन्ति सेवन्ते ।
न त्व् अन्यां ब्रह्म-रुद्र-रूपान् ।
तथा तावकानां जीवानां मध्ये शुक्लां सत्त्वैक-निष्ठांअ तनुं
भगवद्-भक्त-लक्षण-स्वायम्भुव-मन्वादि-रूपांअ[*एन्द्नोते #46]
ये भजन्ति अनुसरन्ति । न तु दक्ष-भैरवादि-रूपाम् । कथम्भूतां स्वस्य
तवापि दयितां लोक-शान्ति-करत्वात् ।
ननु मम स्वरूपम् अपि सत्त्वात्मकम् इति प्रसिद्धं । तर्हि कथं तस्यापि
मायामयत्वम् एव । नहि नहीत्य् आह सात्वताः श्री-भागवता यत् सत्त्वं
पुरुषस्य तव रूपं प्रकाशम् उशन्ति मन्यन्ते । यतश् च सत्त्वात् लोको
वैकुण्ठाख्यः प्रकाशते । तद् अभयम् आत्म-सुखं पर-ब्रह्मानन्द-
स्वरूपम् एवब् न त्व् अन्यत् प्रकृतिजं सत्त्वं तद् इति । अत्र सत्त्व-शब्देन स्व-
प्रकाशताब्-लक्षण-स्वरूप-शक्ति-वृत्ति-विशेष उच्यते ।
सत्त्वं विशुद्धं वसुदेव-शब्दितं
यद् ईयते तत्र पुमान् अपावृतः । [भ्प् 4.3.21]
इति श्री-शिव-वाक्यानुसारात्च् । अगोचरस्य गोचरत्वे हेतुः प्रकृति-गुणः ।
सत्त्वम् इत्य् अशुद्ध-सत्त्व-लक्षण-प्रसिद्ध्य्-अनुसारेण तथाभूतश् चिच्-
छक्ति-विशेषः सत्त्वम् इति सङ्गति-लाभाच् च । ततश् च तस्य स्वरूप-शक्ति-
वृत्तित्वेन स्वरूपात्मतैवेत्य् उक्तम् । तद् अभयम् आत्म-सुखम् इति द्शक्ति-
प्राधान्य-विवक्षयोक्तं लोको यत इतिद् । अर्थान्तरे भगवद्-विग्रहं प्रति
रूपं यद् एतद् [भ्प् 2.8.2] इत्यादौ शुद्ध-स्वरूप-मात्रत्व-प्रतिज्ञा-
भङ्गः । अभयम् इत्य् आदौ प्राञ्जलता-हानिश् च भवति । अन्यत्
पदस्यैकस्यैव रजस् तमश् चेति द्विर्-आवृत्तौ प्रतिपत्ति-गौरव उत्पद्यते ।
पूर्वम् अपि नान्य इति द्वि-वचनेनैव हे परामृष्टे । तस्माद् अस्ति प्रसिद्धाद्
अन्यत् स्वरूप-भूतं सत्त्वम् ।
यद् एवैकादशे यत् काय एष भुवन-त्रय-सन्निवेश [भ्प् 11.4.4] इत्यादौ
ज्ञानं स्वत इत्य् अत्र टीका-कृन्-मतं यस्य स्वरूप-भूतात् सत्त्वात् तनु-
भृतां ज्ञानम् इत्य् अनेन यथा ब्रह्मणः स्तवान्ते एतत् सुहृद्भिश् चरितम् इत्य्
अत्र व्यक्तेतरं व्यक्ताज् जड-प्रपञ्चाद् इतरत् शुद्ध-सत्त्वात्मकम् इत्य् आदिना
।
तथा परो रजः सवितुर् जात-वेदा देवस्य भर्ग [भ्प् 5.7.14] इत्य् आदौ श्री-
भरत-जाप्ये तन्-मतम् । परो रजः रजसः प्रकृतेः परं शुद्ध-
सत्त्वात्मकम् इत्य् आदिना । अतएव प्राकृताः सत्त्वादयो गुणा जीवस्यैव न त्व्
ईशस्येति श्रूयते । यथैकादशे सत्त्वं रजस् तम इति गुणा जिवस्य नैव मे
। [11.25.12] इति । श्री-भगवद्-उपनिषत्सु च -
ये चैव सात्त्विका भावा
राजसास् तामसाश् च ये ।
मत्त एवेति तान् विद्धि
न त्व् अहं तेषु ते मयि ॥
त्रिभिर् गुणमयैर् भावैर्
एभिः सर्वम् इदं जगत् ।
मोहितं नाभिजानाति
माम् एभ्यः परम् अव्ययम् ॥
दैवी ह्य् एषा गुणमयी
मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते
मायाम् एतां तरन्ति ते ॥ [गीता 7.12-14]
यथा दशमे -
हरिर् हि निर्गुणः साक्षात्
पुरुषः प्रकृतेः परः ।
स सर्व-दृग् उपद्रष्टा तं
भजन् निर्गुणो भवेत् ॥ [भ्प् 10.88.4]
श्री-विष्णु-पुराणे -
सत्त्वादयो न सन्तीशे
यत्र च प्राकृता गुणाः ।
स शुद्धः सर्व-शुद्धेभ्यः
पुमान् आद्यः प्रसीदतु ॥ इति । [विप् 1.9.44]
तथा च दशमे देवेन्द्रेणोक्तम् --
विशुद्ध-सत्त्वं तव धाम शान्तं
तपोमयं ध्वस्त-रजस्-तमस्कम् ।
मायामयोऽयं गुण-संप्रवाहो
न विद्यते तेऽग्रणानुबन्धः ॥ इति [भ्प् 10.27.4]
अयम् अर्थः । धाम स्वरूप-भूत-प्रकाश-शक्तिः । विशुद्धत्वम् आह
विशेषण-द्वयेन । ध्वस्त-रजस्-तमस्कं तपो-मयम् इति च । तपोऽत्र ज्ञानं
स तपोऽतप्यत इति श्रुतेः । तपोमयं प्रचुर-ज्ञान-स्वरूपम् जाड्यांशेनापि
रहितम् इत्य् अर्थः । आत्मा ज्ञान-मयः शुद्ध इतिवत् ।
धृतः[*एन्द्नोते #47] प्राकृत-सत्त्वम् अपि व्यावृत्तम् । अत एव
मायामयोऽयं सत्त्वादि-गुण-प्रवाहस् ते तव न विद्यते । यतोऽसाव्
अज्ञानेनैवानुबन्ध इति ।
अतएव श्री-भगवन्तं प्रति ब्रह्मादीनां सयुक्तिकं वाक्यम् ।
सत्त्वं विशुद्धं श्रयते भवान् स्थितौ
शरीरिणां श्रेय-उपायनं वपुः ।
वेद-क्रिया-योग-तपः-समाधिभिस्
तवार्हणं येन जनः समीहते ॥ [भ्प् 10.2.34]
सत्त्वं न चेद् धातर् इदं निजं भवेद्
विज्ञानम् अज्ञान-भिदापमार्जनम् ।
गुण-प्रकाशैर् अनुमीयते भवान्
प्रकाशते यस्य च येन वा गुणः ॥ [भ्प् 10.2.35]
अयम् अर्थः । सत्त्वं तेन प्रकाशमानत्वात् तद्-अभिन्नतया रूपितं वपुर्
भवान् श्रयते प्रकटयति । कथम्भूतं सत्त्वं विशुद्धम् । अन्यस्य
रजस्-तमोभ्याम् अमिश्रस्यापि[*एन्द्नोते #48] प्राकृतत्वेन जाड्यांश-
संवलितत्वान् न विशेषेण शुद्धत्वम् । एतत् तु स्वरूप-शक्त्य्-आत्म[क]त्वेन
तद्-अंशस्याप्य् अस्पर्शाद् अतीव शुद्ध[त्व]म् इत्य् अर्थः ।
किम् अर्थं श्रयते । शरीरिणां स्थितौ निज-चरणारविन्दे मनःस्थैर्याय
सर्वत्र [भक्तेषु] भक्ति-सुख-दानस्यैव त्वदीय-मुख्य-प्रयोजनत्वाद्
इति भावः । भक्ति-योग-विधानार्थम् इति [भ्प् 1.8.19] श्री-कुन्ती-वाक्यात् ।
कथम्भूतं वपुः श्रेयसां सर्वेषां पुरुषार्थानाम् उपायनम् आश्रयम्
। नित्यानन्त-परमानन्द-रूपम् इत्य् अर्थः । अतो वपुषस् तव च भेद-
निर्देशोऽयम्[*एन्द्नोते #49] औपचारिक एवेति भावः । अतएव येन वपुषा
यद् वपुर् आलम्बनेनैव जनस् तवार्हणं पूजां करोति । कैः साधनैः
वेदादिभिस् त्वद्-आलम्बनकैर् इत्य् अर्थः । साधारणैस् त्व् अर्पितैर् एव त्वद्-
अर्हण-प्रायता-सिद्धाव् अपि । वपुषोऽनपेक्षत्वात् । तादृशए-
वपुषोऽनपेक्ष्यत्वात् तादृशए[*एन्द्नोते #50]-वपुः-प्रकाश-हेतुत्वेन
स्वरूपात्मकत्वं स्पष्टयन्ति ।
हे धातश् चेद् यदि इदं सत्त्वं यत् तव निजं विज्ञानम् अनुभवं[ः]
तदात्मिका स्व-प्रकाशता-शक्तिर् इत्य् अर्थः । तन् न भवेत् । तर्हि त्व् अज्ञान-
भिदा स्व-प्रकाशस्य तवानुभवf-प्रकार एव मार्जनं शुद्धिम् अवाप ।
सैव जगति पर्यवसीयते न तु तवानुभवf[*एन्द्नोते #51]-लेशोऽपीत्य्
अर्थः ।
ननु प्राकृत-सत्त्व-गुणेनैव ग्ममानुभवोग्[*एन्द्नोते #52] भवतु
किं निज-ह्ग्रहण्ह्[*एन्द्नोते #53]एन तत्राह । प्राकृत-गुण-प्रकाशैर्
भवान् केवलम् अनुमीयते न तु साक्षात्क्रियत इत्य् अर्थः । अथवा तव
विज्ञान-रूपम् अज्ञान-भिदाया अपमर्जनं च यन् निजं सत्त्वं तद् यदि न
भवेन् नाविर्भवति तदैव प्राकृत-सत्त्वादि-गुण-प्रकाशैर् भवान्
अनुमीयते । त्[व्]अन्-निज-सत्ताविर्भावेण तु साक्षात्-क्रियत एवेत्य् अर्थः । तद्
एव स्पष्टयितुं तत्रानुमाने द्वैविध्यम् आहुर् यस्य गुणः प्रकाशत इयेन
वा गुणः प्रकाशतै[*एन्द्नोते #54] इति । अस्वरूप-भूतस्यैव [प्राकृत-
]सत्त्वादि-गुणस्य त्वद्-अव्यभिचारि-सम्बन्धित्व-मात्रेण वा त्वद्-एक-
प्रकाश्यमानता-मात्रेण वा त्वल्-लिङ्गत्वम् इत्य् अर्थः । यथा अरुणोदयस्य
सूर्योदय-सान्निध्य-लिङ्गत्वं यथा वा धूमस्याग्नि-लिङ्गत्वम् इति । तत
उभयथापि तव साक्षात्कारे तस्य साधकतमत्वाभावो युक्त इति भावः ।
तद् एवम् अप्राकृत-सत्त्वस्य तदीय-स्व-प्रकाशता-रूपत्वं येन
स्वप्रकाशस्य तव साक्षात्कारो भवतीति स्थापितम् । अत्र ये विशुद्ध-सत्त्वं
नाम प्राकृतम् एव रजस्-तमः-शून्यं मत्वा तत्-कार्यं भगवद्-
विग्रहादिकं मन्यन्ते ते तु न केनाप्य् अनुगृहीताः । रजः-
सम्बन्धाभावेन स्वतः प्रशान्त-स्वभावस्य सर्वत्रोदासीनताकृति-हेतोस्
तस्य क्षोभासम्भवात् विद्यामयत्वेन यथावस्थित-वस्तु-प्रकाशितामात्र-
धर्मत्वात्, तस्य कल्पनान्तरायोग्यत्वाच् च । तद् उक्तम् अप्य् अगोचरस्य
गोचरत्वे हेतुः प्रकृति-गुणः सत्त्वम् । गोचरस्य बहु-रूपत्वे रजः ।
बहुरूपस्य तिरोहितत्वे रजः[*एन्द्नोते #55] । तथा परस्परोदासीनत्वे
सत्त्वम् । उपकारित्वे रजः । अपकारित्वे तमः । गोचरत्वादीनि स्थित्-सृष्टि-
संहाराः उदासीनत्वादीनि चेति ।
अथ रजो-लेशे तत्र मन्तव्ये विशुद्ध-पदवैयर्थ्यम् इत्य् अलं तन्-मत-
रजो-ज्लेशे तत्र मन्तव्ये विशुद्ध-पद-वैयर्थ्यम् इत्य् अलं तन्-
मतज्[*एन्द्नोते #56]-रजो-
घट-प्रघट्टनयेति ।[*एन्द्नोते #57]
क्तत्र चेदम् एव विशुद्ध-सत्त्वं सन्धिन्य्-अंश-प्रधानं चेद् आधार-
शक्तिः । संविद्-अंश-प्रधानम् आत्म-विद्या । ह्लादिनी-सारांश-प्रधानं
गुह्य-विद्या । युगपत् शक्ति-त्रय-प्रधानं मूर्तिः । अत्राधार-शक्त्या
भगवद्-धाम प्रकाशते । तद् उक्तं - यत् सात्वताः पुरुष-रूपम् उशन्ति
सत्त्वं लोको यत [भ्प् 12.8.40][*एन्द्नोते #58] इति ।
तथा ज्ञान-तत्-प्रवरक-लक्षण-वृत्ति-द्वयकयात्म-विद्यया तद्-वृत्ति-
रूपम् उपासकाश्रयं ज्ञानं प्रकाशते । एवं भक्ति-तत्-प्रवर्तक-लक्षण-
वृत्ति-द्वयकया गुह्य-विद्यया तद्-वृत्ति-रूपा प्रीत्यात्मिका भक्तिः प्रकाशते
।
एते एव विष्णु-पुराणे लक्ष्मी-स्तवे स्पष्टीकृते -
यज्ञ-विद्या महा-विद्या
गुह्य-विद्या च शोभते ।
आत्म-विद्या च देवि त्वं
विमुक्ति-फल-दायिनी ॥ [विप् 1.9.118] इति ।
यज्ञ-विद्या कर्म । महा-विद्या अष्टाङ्ग-योगः । गुह्य-विद्या भक्तिः ।
आत्म-विद्या ज्ञानम् । तत्-तत्-सर्वाश्रयत्वात् त्वम् एव तत्-तद्-रूपा विविधानां
मुक्तीनाम् अन्येषां च विविधानां फलानां दात्री भवसीत्य् अर्थः
।क्[*एन्द्नोते #59]
अथ मूर्त्या परतत्त्वात्मकः श्री-विग्रह प्रकाशते । इयम् एव
वसुदेवाख्या । तद् उक्तं चतुर्थस्य तृतीये महादेवेन -
सत्त्वं विशुद्धं वसुदेव-शब्दितं
यद् ईयते तत्र पुमान् अपावृतः ।
सत्त्वे च तस्मिन् भगवान् वासुदेवो
ह्य् अधोक्षजो मे मनसा विधीयते ॥ इति । [भ्प् 4.3.23] ।
अस्यार्थः । विशुद्धं स्व-रूप-शक्ति-वृत्तित्वाज् जाड्यांशेनापि रहितम् इति
विशेषेण शुद्धं तद् एव वसुदेव-शब्देनोक्तम् । कुतस् तस्य सत्त्वता
वसुदेवता वा तत्राह- यद् यस्मात् तत्र तस्मिन् पुमान् वासुदेव ईयते
प्रकाशते । आद्ये तावद् अगोचर-गोचरता-हेतुत्वेन लोक-प्रसिद्ध-सत्त्व-
साम्यात् सत्त्वता व्यक्ता । द्वितीये त्व् अयं अर्थः । वसुदेवे भवति प्रतीयत
इति वासुदेवः परमेश्वरः प्रसिद्धः । स च विशुद्ध-सत्त्वं प्रतीयते ।
अतः प्रत्ययार्थेन प्रसिद्धेन प्रकृत्य्-अर्थो निर्धार्यते । ततश् च वासयति
देवम् इति व्युत्पत्त्या व वसत्य् अस्मिन्न् इति वा वसुः । तथा दीव्यति द्योतत इति
देवः । स चासौ स चेति वासुदेवः । धर्म इष्टं धनं नॄणां इति स्वयं
भगवद् उक्ते वसुभिर् भगवद्-धर्म-लक्षणैः पुण्यैः प्रकाशत इति वा
वसुदेवः । तस्माद् वसुदेव-शब्दितं विशुद्ध-सत्त्वम् ।
इत्थं स्वयं प्रकाश-ज्योतिर्-एक-विग्रह-भगवज्-ज्ञान-हेतुत्वेन
कैवल्यं सात्त्विकं ज्ञानं
रजो वैकल्पिकं तु यत् ।
प्राकृतं तामसं ज्ञानं
मन्-निष्ठम् निर्गुणं स्मृतम् ॥ इत्य् आदौ [भ्प् 11.25.24]
बहुत्र गुणातीतावस्थायाम् एव भगवज्-ज्ञान-श्रवणेन न च सिद्धम् अत्र
विशुद्ध-पदावगतं स्वरूप-शक्ति-वृत्ति-भूत-स्वप्रकाशता-लक्षणत्वं
तस्य व्यक्तम् । ततश् च सत्त्वे प्रतीयत इत्य् अत्र करण एवाधिकरण-
विवक्षया ॥ स्वरूप-शक्ति-वृत्तित्वम् एव विशदयति । अपावृत आवरण-शून्यः
सन् प्रकाशते । प्राकृतं सत्त्वं चेत् तर्हि तत्र प्रतिफलनम् एवावसीयते ।
ततश् च दर्पणे मुखस्येव तद्-अन्तर्गततया तस्य तत्रावृतत्वेनैव
प्रकाशः स्याद् इति भावः । फलितार्थम् आह एवम्भूते सत्त्वे तस्मिन् नित्यम्
एव प्रकाशमानो भगवान् मे मया मनसा विशेषेण विधीयते चिन्त्यत इत्य्
अर्थः । तत् सत्त्वं तादात्म्यापन्नमे एवअन्यथा नैव मनसा चिन्तयितुं
शक्यते इति पर्यवसितम् ।
ननु केवलेन मनसैव चिन्त्यतां किं तेन सत्त्वेन तत्राह । हि यस्माद्
अधोक्षजः अधःकृतम् अतिक्रान्तम् अक्षजम् इन्द्रिय-ज्ञानं येन सः ।
नमसेति पाठे हि शब्द-स्थानेऽप्य् अनु-शब्दः पठ्यते । ततश् च विशुद्ध-
सत्त्वाख्यया स्वप्रकाशता-शक्त्यैव प्रकाशमानोऽसौ नमस्कारादिना
केवलम् अनुविधीयते सेव्यते । न तु केनापि प्रकाश्यत इत्य् अर्थः । तद् एव
सोऽदृश्यत्वेनैव स्फुरन्न् असौ अदृश्येनैव नमस्कारादिना अस्माभिः सेव्यत
इति तत्-प्रकरण-सङ्गतिश् च गम्यते ।
तथा यतो भगवद्-विग्रह-प्रकाशक-विशुद्ध-सत्त्वस्य मूर्तित्वं
वसुदेवत्वं च तत एव तत्-प्रादुर्भाव-विशेषे धर्म-पत्न्या मूर्तित्वं
प्रसिद्धम् ।
श्रीमद्-आनकदुन्दुभौ च वसुदेवत्वम् इति विवेचनीयम् । अत्र श्रद्धा-
पुष्ट्य्-आदि-लक्षण-प्रादुर्भूतं भगवच्-छक्त्यंश-रूपस्य भगिनीतया
पाठ-साहचर्येण मूर्तेस् तस्यास् तच्-छक्त्य्-अंश-प्रादुर्भावत्वम्
उपलभ्यते । तुर्ये धर्म-कला-सर्गे नर-नारायणाव् ऋषी इत्य् [भ्प् 1.3.9] अत्र
कला-शब्देन च शक्तिर् एवाभिधीयते । ततः शक्ति-लक्षणायां तस्यां च नर-
नारायणाख्य-भगवत्-प्रकाश-फल-दर्शनात् वसुदेवाख्य-शुद्ध-
सत्त्व-रूपत्वम् एवावसीयते ।
तद् एवम् एव तस्या मूर्तिर् इत्य् आख्याऽप्य् उक्ता । मूर्तिः सर्व-गुणोत्पत्तिर् नर-
नारायणाव् ऋषी इति [भ्प् 4.1.52] । सर्व-गुणस्य भगवतः उत्पत्तिः प्रकाशो
यस्याः सा ताव् असूतेति पूर्वेणान्वयः । भगवद्-आख्यायाः सच्-चिद्-आनन्द-
मूर्तेः प्रकाश-हेतुत्वात् मूर्तिर् इत्य् अर्थः तथैव तत्-प्रकाश-फलत्व-
दर्शनेन च नास्य् ऐक्येन च श्रीमद्-आनकदुन्दुभेर् अपि शुद्ध-सत्त्वादि-
भावत्वं ज्ञेयम् । तच् चोक्तं नवमे -
वसुदेवं हरेः स्थानं
वदन्त्य् आनकदुन्दुभिम् । इति । [भ्प् 9.24.30]
अन्यथा हरेः स्थानम् इति विशेषणस्य अकिञ्चित्-करत्वं स्याद् इति । तद् एवं
ह्लादिन्य्-आद्य्-एकतमांश-विशेष-प्रधानेन विशुद्ध-सत्त्वेन यथायथं
श्री-प्रभृतीनाम् अपि प्रादुर्भावो विवेक्तव्यः । तत्र च तासां भगवति
सम्पद्-रूपत्वं तद्-अनुग्राह्ये सम्पत्-सम्पादक-रूपत्वं सम्पद्-
अंशजत्वं चेत्य्-आदि-त्रिजगत्वं ज्ञेयम् । तत्र तासां केवल-शक्ति-
मात्रत्वेनामूर्तानां भगवद्-विग्रहाद्यैकाम्येन स्थितस् तद्-अधिष्ठात्री-
रूपत्वेन मूर्तीनां तु तद्-आवरणतयेति द्विरूपत्वम् अपि ज्ञेयम् इति दिक् ॥
॥ 10.39 ॥ श्री-शुकः
[118]
लथैवं भूतानन्त-वृत्तिका या स्वरूप-शक्तिः सा त्व् इह भगवद्-
धामांश-वर्तिनी मूर्तिमती लक्ष्मीर् एवेत्य् आह -
अनपायिनी भगवती श्रीः
साक्षाद् आत्मनो हरेः ॥ इति ॥ [भ्प् 12.11.20]
टीका च - अनपायिनी हरेः शक्तिः तत्र हेतुः साक्षाद् आत्मनः स्व-स्वरूपस्य
चिद्-रूपत्वात् तस्यास् तद्-अभेदाद् इत्य् अर्थः । इत्य् एषा ।
अत्र साक्षाच्-छब्देन विलज्जमानया यस्य स्थातुम् ईक्षा-पथेऽमुया इत्य् [भ्प्
2.5.13] आद्य् उक्ता माया नेति ध्वनितम् । तत्रानपायित्वं यथा ।
श्री-हायशीर्ष-पञ्चरात्रे -
परमात्मा हरि देवस्
तच्-छक्तिः श्रीर् इहोदिता ।
श्रीर् देवी प्रकृतिः प्रोक्ता
केशवः पुरुषः स्मृतः ।
न विष्णुना विना देवी
न हरिः पद्मजां विना ॥ इति ।
श्री-विष्णु-पुराणे --
नित्यैव सा जगन्-माता
विष्णोः श्रीर् अनपायिनी ।
यथा सर्व-गतो विष्णुस्
तथैवेयं द्विजोत्तम ॥ इति । [विप् 1.8.17]क्[*एन्द्नोते #60]
तत्रान्यत्र -
एवं यथा जगत्-स्वामी
देव-देवो जनार्दनः ।
अवतारं करोत्य् एषा
तथा श्रीस् तत्-सहायिनी ॥ [विप् 1.9.142] इति ।
चिद्रूपत्वम् अपि स्कान्दे -
अपरं त्व् अक्षरं या
सा प्रकृतिर् जड-रूपिका ।
श्रीः परा प्रकृतिः प्रोक्ता
चेतना विष्णु-संश्रया ॥
ताम् अक्षरं परं प्राहुः
परतः परम् अक्षरम् ।
हरिर् एवाखिल-गुण
अक्षर-त्रयम् ईरितम् ॥ इति ।
अत एव श्री-विष्णु-पुराणे एव -
कला-काष्ठा-निमेषादि[*एन्द्नोते #61]-
काल-सूत्रस्य गोचरे ।
यस्य शक्तिर् न शुद्धस्य
प्रसीदतु स मे हरिः ॥
प्रोच्यते परमेशो यो
यः शुद्धोऽप्य् उपचारतः ।
प्रसीदतु स नो विष्णुर्
आत्मा यः सर्व-देहिनाम् ॥ इति [विप् 1.9.45-46]
अत्र स्वामिभिर् एव व्याख्यातं च । कला-काष्ठा-निमेषादि-काल एव सूत्रवत्
सूत्रं जगच्-चेष्टा नियामकत्वात् तस्य गोचरे विषये यस्य शक्तिर् लक्ष्मीर् न
वर्तते । स्वरूपाभिन्नत्वान् नित्यैव सा कालाधीना न भवतीत्य् अर्थः ॥
अतएव तस्याः स्वरूपाभेदाच् छुद्धस्येत्य् उक्तम् ॥
ननु यदि लक्ष्मीस् तत्-स्वरूपाभिन्ना कथं तर्हि लक्ष्म्याः पतिर् इत्य् उच्यते
तत्राह प्रोच्यते इति परा चासौ मा च लक्ष्मीस् तस्या ईशो यः शुद्धः
केवलोऽपि उपचारतो भेद-विवशया प्रोच्यते । द्वितीयो यच्-छब्दः प्रसिद्धाव्
इति एवम् एवाभिप्रेत्य प्रार्थितं श्री-ब्रह्मणा तृतीये ।
एष प्रपन्न वरदे रमयात्म-शक्त्या
यद् यत् करिष्यति गृहीत-गुणावतारः ।
तस्मिन् स्व-विक्रमम् इदं सृजतोऽपि चेतो
युञ्जीत कर्म शमलं च यथा विजह्याम् ॥ इति [भ्प् 3.9.23] ।
अतो यत् तु -
साक्षाच् छ्रीः प्रेषिता देवैर्
दृष्ट्वा तं महद् अद्भुतम् ।
अदृष्टाश्रुत-पूर्वत्वात्
सा नोपेयाय शङ्किता ॥ इति [भ्प् 7.9.2] श्री-नृसिंह-प्रादुर्भूताव् उक्तम् ।
॥ 12.11 ॥ श्री-सूतः
[119]
तद् एवं सच्चिदानन्दैक-रूपः स्वरूप-भूताचिन्त्य-विचित्रानन्त-शक्ति-युक्तो
धर्मत्व एव धर्मित्वं निर्भेदत्व एव नाना भेदवत्त्वम् अपरुपित्व एव
रूपित्वं, व्यापकत्व एव मध्यमत्वं, सत्यम् एवेत्य् आदि-परस्पर-
विरुद्धानन्त-गुण-निधिः । स्थूल-सूक्ष्म-विलक्षण-स्व-प्रकाशाखण्ड-
स्व-स्वरूप-भूत-श्री-विग्रहस् तथाभूत-भगवद्-आख्या-मुख्यैक-
विग्रह-व्यञ्जित-तादृशानन्त-विग्रहस् तादृश-स्वानुरूप-स्वरूप-
शक्त्याविर्भाव-लक्षण-लक्ष्मी-रञ्जित-वामावशः स्व-प्रभा-विशेषाकार-
परिच्छेद-परिकर-निज-धामसु विराजमानाकारः स्वरूप-शक्ति-विलास-
लक्षणाद्भुत-गुण-लीलादि-चमत्कारितात्मारामादि-गुणो जिज-सामान्य-
प्रकाशाकार-ब्रह्म-तत्त्वो निजाश्रयैक-जीवन-जीवाख्य-तटस्थ-शक्तिर्
अनन्त-प्रपञ्च-व्यञ्जित-स्वाभास-शक्ति-गुणो भगवान् इति विद्वद्-
उपलब्धार्थ-शब्दैर् व्यञ्जितम् । तत्र तत्-स्वभावं वस्त्व्-अन्तरम्
अपश्यताम् अविदुषाम् असम्भावना न युक्तेति विविदिषून् श्रद्दापयितुं
प्रक्रियते तत्रैकेन तस्याविदुषां ज्ञान-गोचरत्वं, किन्तु वेदैक-वेद्यत्वम्
एवेत्य् आहुः -
क इह नु वेद बतावर-जन्मालयोऽग्रसरं
यत उदगाद् ऋषिर् यम् अनु देव-गणो उभये ।
तर्हि न सन्न् अचासद् उभयं न च काल-जवः
किम् अपि न तत्र शास्त्रम् अवकृष्य शयीत यदा ॥ [भ्प् 10.87.24]
बत अहो भगवन् इह जगति अग्रसरं पूर्व-सिद्धं त्वां अवर-जन्मालयः
अर्वाचीनोत्पत्ति-नाशवान् कोऽपि पुमान् वेद जानाति । ईश्वरस्य पूर्व-सिद्धाव्
अन्यस्य चार्वाचीनत्वे कारणं वदन्त्यो ज्ञान-कारणाभावम् आहुः । यत
उदगाद् इति यतस् त्वत्त एव ऋषिर् ब्रह्मा उत्पन्नः । अतोऽर्वाचीनाः सर्वे । यदा
तु भवान् शास्त्रं स्व-विज्ञापकं वेदम् अवकृष्य वैकुण्ठ एवाकृष्य
शयीत जगत्-कार्यं प्रति दृष्टिं निमीलयति तर्हि तदा अनुशायिनं जीवानां
ज्ञान-साधनं नास्ति । यतस् तदा न सत् स्थूलम् आकाशादि न चासत् सूक्ष्मं
महद्-आदि न चोभयं सदसद्भ्याम् आरब्धं शरीरम् । न च काल-जवः
तन्-निमित्तीभूतं काल-वैषम्यं एवं सति तत्र तदा किम् अपि इन्दिर्य-
प्राणाद्य् अपि न । अयम् अर्थः । यदा सृष्टि-गतत्वात् देहाद्य्-उपाधि-
कृतान्तरत्वात् । काल-कर्म-वशेन मलिन-सत्त्वात् तेषाम् तद्-अवधारणे
सामर्थ्यं नास्ति । यदा तु प्रलये समये न बह्व्-अन्तरम् अपि तदापि तेषां
वेदानर्धान-महा-तमोमय-सुषुप्तिभ्यां साधनाभावान् न
तवानुभव-सामर्थय्म् इति ।
तथा श्रुतयः -
न तं विदाथ य इमा जजानान्यद् युष्माकम् अन्तरं बभूव [?] ।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह [तैत्तु 2.4.1] ।
को अद्धा वेद क इह प्रावोचत् । कुत आयाता कुत इयं विसृष्टिः [?]
अर्वाग्-देवा अस्य विसर्जनेनाथ को वेद यत आवभूव [?] ।
अनेजद् एकं मनसो जवीयो
नेदं देवा आप्नुवन् पूर्वम् अर्शद् ।
तद्-धावतोऽन्यान् अत्येति तिष्ठत्
तस्मिन्न् अपो मातरिश्वा दधाति ॥ [ईशोपनिषद्, 4]
न चक्षुर् न श्रोत्रं न तर्को न स्मृतिर् वेदो ह्य् एवैनं वेदयति इत्य् आद्याः
।
॥10.87॥ श्रुतयः श्री-भगवन्तम्
मूल पाठ: Satsamdarbha with Baladevavidyābhūṣaṇa's Ṭippaṇī · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0