शतसाहस्रिका प्रज्ञापारमिता · भाग 81100
उत्तरस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,
उत्तरपूर्वस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णिअचीवरच्छत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,
पूर्वदक्षिणस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,
दक्षिणपश्चिमायां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्रणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,
पश्चिमोत्तरस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पुजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् ( श्स्प्_इइ-4_93 ) द्रक्ष्यति,
अधस्ताद् दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धै माल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,
उपरिष्टाद् दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिऋ बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,
[क्. 194ब्2, न्. 382ब्8, त्. 306अ9, प्. 252ब्8, छ्. 695अ25]
स खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा इमान् एव रूपान् भद्रका स्वप्नान् द्रक्ष्यति, स सुखम् एव शय्यां कल्पयिष्यति सुखं च प्रतिविभोत्स्यते स्रोतप्रक्षिप्तश् चास्य कायो भ्हविष्यति, लघुसंज्ञा च काये संज्ञास्यते न गुरुसंज्ञा न चास्य बलवत्याहारगृद्धिर् भविष्यति न चीवरगृद्धिर् भविष्यति न ग्लानप्रत्ययभैषज्यपरिष्कारगृधिर् भविष्यति, मृद्धी चास्याहारसंज्ञा भविष्यति मृद्धीचीवरसंज्ञा भविष्यति मृद्धीग्लानप्रत्ययभैषज्यपरिष्कारं संज्ञा भविष्यति.
तद् यथापि नाम कौशिक योगाचारस्य भिक्षोः समाधव्युत्थितस्य मनसिकारपरिष्यन्दि तेन चित्तेन बलवत्याहारगृद्धिर् भविष्यति मृदुका चास्याहारसंज्ञा भविष्यति.
एवम् एव कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा न बकवत्याहारगृद्धिर् भविष्यति. तत् कस्य हेतोः? तथा हि तस्या मानुष्याः काये स्रोत उपसंहरिष्यति.
ये पूर्वस्यां दिशि बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्ध्हर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
ये च दक्षिणस्यां दिशि बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
ये पश्चिमायां दिशि बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
ये च उत्तरस्यां दिशि बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
ये उत्तरपूर्वस्यां दिशि बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
पूर्वदक्षिणस्यां दिशि ये बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
दक्षिणपश्चिमायां दिशि ये बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
पश्चिमोत्तरस्यां दिशि ये बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
अधस्ताद् दिशि ये बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति,
उपरिष्टाद् दिशि ये बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति.
इमाम् अपि कौशिक दृष्टधार्मिकान् गुणान् परिगृहीतुकामेन कुलपुत्रेण वा कुलदुहित्रा वा इयम् एव प्रज्ञापारमिताप्रयत्वतः स्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्याः. सर्वाकारज्ञताचित्तेन चाविरहितेन भवितव्याः.
अथ चेत् स कौशिक कुलपुत्रेण वा कुलदुहित्रा वा इमां प्रज्ञापारमितां नोद्गृहीयान् न धारयेन् न वाचयेन् न पर्यवाप्नुयान् न योनिशश् च मनसिकुर्यात् तेन कुलपुत्रेण वा कुलदुहित्रा वा इमां प्रज्ञापारमितां लिखितां पुस्तकगतां कृत्वा सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् च्छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
एवं स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुजनहिताय प्रतिपन्नो भविष्यति बहुजनसुखाय प्रतिपन्नो भविष्यति, यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा पुण्यं प्रसविष्यति न त्वे वयः समताद् ( श्स्प्_इइ-4_95 ) दशसु दिक्षु लोकधातुषु तथागतान् अर्हतः सम्यक्षंबुद्धान् सश्रावकसंघान् यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् चीवरपिण्डपात्रशयनाशनग्लानप्रत्ययभैषज्यपरिष्कारैः परिनिर्वृतान् तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्तरत्नमयान् स्तूपाकार्यत्, तांश् च यावज् जीवं सत्कुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैश् पताकाभिर् विविधैश् च वाद्यैः.
शतसाहस्र्याः प्रज्ञापारमिताय एकविंशतितमः परिवर्तः
[क्. 194ब्21, न्. 383ब्8, त्. 3ओ7अ3, प्. 254ब्3, छ्. 695च्6]
अथ भगवाञ् छक्रं देवानाम् इन्द्रम् आमन्त्रयत: सचेत् त्वं कौशिकेमं जाम्बूद्वीपं पूर्णं चूडिकावबद्धं तथागतशरीराणां लभेथा यच् चेयं प्रज्ञापारमितां पुस्तकं लिखित्वोपनाम्येत, किं त्वं तत उद्गृहीयाः?
शक्र आह: सचेन् मे भगवन्न् अयं जाम्बूद्वीपः पूर्णचूडिकावबद्धस् तथागतशरीराणां दीपेत यच् चेयं प्रज्ञापारमिता पुस्तकं लिखित्वोपनाम्येत इमाम् एवाहं भगवन् प्रज्ञापारमितां गृह्णीयाम्. तत् कस्य हेतोः? न मे भगवन् तत्र तथागतशरीरेष्व् अगौरवं नाप्रत्ययं नाबहुमानता नाप्य् अहं भगवंस् तथागतशरीराणि, न सत्कर्तुकामो न गुरुकर्तुकामो न मानयितुकामो न पूजयितुकामः, अपि तु खलु पुनर् भगवन् प्रज्ञापारमिता निर्यातानि तानि शरीराणि तेन तेन तथागतशरीराणि सत्क्रियन्ते गुरुक्रियन्ते मान्यन्ते पूजयन्ते प्रज्ञापारमिता परिभावितानि शरीराणि तेन तानि तथागतशरीराणि पूजा लभन्ते, यदाहं भगवन् तथागतशरीराणि सत्कुर्यां गुरुकुर्यां मानयेयं पूजयेयं दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैस् तत् प्रज्ञापारमिता परिभावितानीति कृत्वा यच् च तथागतशरीराणि सदेवमानुषासुरेन लोकेन सत्क्रीयन्ते गुरुक्रियन्ते मान्यन्ते पूज्यन्ते तत् प्रज्ञापारमिता परिभावितानीति कृत्वा.
अथ खल्व् आयुष्माञ् छारद्वतीपुत्रः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: इयं कौशिक प्रज्ञापारमिता अग्राह्या अरूपिणी अनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणा. तत् कथं त्वम् अग्राह्या प्रज्ञापारमिताम् अरूपिणीम् अनिदर्शनाम् अप्रतिघा एकलक्षणा यद् उतालक्षणा ग्रहीतव्यां मंयसे. तत् कस्य हेतोः? न हि प्रज्ञापारमिता ग्रहाय नोत्सर्गाय प्रत्युपस्थिता न हानये न वृद्धये नाचयाय नोत्क्षेपाय न संक्लेशाय न व्यवदानाय न बुद्धधर्माणां दात्री न पृथग्जनधर्माणां छोरयित्री न बोधिसत्त्वधर्माणां दात्रि न प्रत्येकबुद्धधर्माणां दात्री न श्रावकधर्मणां दात्री न शैक्षाशैक्षाधर्माणां दात्री न पृथग्जनधर्माणां छोरयित्री नासंस्कृतधातोर् दात्री न संस्कृतधातोश् छोरयित्री न दानपारमिताया दात्री न शीलपारमिताया दात्री न क्षान्तिपारमिताया दात्री न वीर्यपारमिताया दात्री न ध्यानपारमिताया दात्रि न प्रज्ञापारमिताया दात्री.
नाध्यात्मशून्यताया दात्री, न बहिर्धाशून्यताया दात्री, नाध्यात्मबहिर्धाशून्यताया ( श्स्प्_इइ-4_97 ) दात्री, न शून्यताशून्यताया दात्री, न महाशून्यताया दात्री, न परमार्थशून्यताया दात्री, न संस्कृतशून्यताया दात्री, नासंस्कृतशून्यताया दात्री, नात्यन्तशून्यताया दात्री, नानवराग्रशून्यताया दात्री, नानवकारशून्यताया दात्री, न प्रकृतिशून्यताया दात्री, न सर्वधर्मशून्यताया दात्री, न स्वलक्षणशून्यताया दात्री, नानुपलम्भशून्यताया दात्री, नाभावशून्यताया दात्री, न स्वभावशून्यताया दात्री, नाभावस्वभावशून्यताया दात्री.
न स्मृत्युपस्थानानां दात्री, न सम्यक्प्रहाणानां दात्री, न ऋद्धिपादानां दात्री, नेन्द्रियाणां दात्री, न बलानां दात्री, न बोध्यङ्गानां दात्री, नार्याष्टाङ्गस्य मार्गस्य दात्री, नार्यसत्यानां दात्री, न ध्यानानां दात्री, नाप्रमाणानां दात्री, नारूप्यसमापत्तीनां दात्री, न विमोक्षाणां दात्री, नानुपूर्वविहारसमापत्तीनां दात्री, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां दात्री, नाभिज्ञानां दात्री, न समाधीनां दात्री, न धारणीमुखानां दात्री, न तथागतबलानां दात्री, न वैशारद्यानां दात्री, न प्रतिसंविदां दात्री, न महाकरुणाया दात्री, नावेणिकबुद्धधर्माणां दात्री, न स्रोतआपत्तिफलस्य दात्री, न सकृदागामिफलस्य दात्री, नानागामिफलस्य दात्री, नार्हत्त्वस्य दात्री, न प्रत्येकबोधेर् दात्री, न मार्गाकारज्ञताया दात्री, न सर्वाकारज्ञताया दात्री,
शक्र आह: एवम् एतद् भदन्त शारद्वतीपुत्रैवम् एतद् यो भदन्त शारद्वतीपुत्रैवं जानाति, न प्रज्ञापारमिता बुद्धधर्माणां दात्रि न पृथग्जनधर्मणां छोरयित्री न बोधिसत्त्वधर्माणां दात्री न प्रत्येकबुद्धधर्माणां दात्री न श्रावकधर्माणां दात्री न शैक्षाशैक्षधर्माणां दात्री न पृथग्जनधर्माणांश् छोरयित्री नासंस्कृतधातोर् दात्रि न संस्कृतधातोर् छोरयित्री.
न दानपारमिताया दात्री न शीलपारमिताया दात्री न क्षान्तिपारमिताया दात्री न वीर्यपारमिताया दात्री न ध्यानपारमिताया दात्री न प्रज्ञापारमिताया दात्री.
नाध्यात्मशून्यताया दात्री, न बहिर्धाशून्यताया दात्री, अध्यात्मबहिर्धाशून्यतया दात्री, न शून्यताशून्यताया दात्री, न महाशून्यताया दात्री. न परमार्थशून्यताया दात्रि, न संस्कृतशून्यताया दात्रि, नासंस्कृतशून्यताया दात्री, नात्यन्तशून्यताया दात्री, नानवराग्रशून्यताया दात्री, नानवकारशून्यताया, दात्री, न प्रकृतिशून्यताया दात्री, न सर्वधर्मशून्यताया दात्री, न स्वलक्षणशून्यताया दात्री, नानुपलम्भशून्यताया दात्री, नाभावशून्यताया दात्री, न स्वभावशून्यताया दात्री, ( श्स्प्_इइ-4_98 ) नाभावस्वभावशून्यताया दात्री.
न स्मृत्युपस्थानानां दात्रि, सम्यक्प्रहाणानां दात्री, न ऋद्धिपादानां दात्री, नेन्द्रियाणां दात्री, न बलानां दात्री, न बोध्यङ्गानां दात्री, नार्याष्टाङ्गस्य मार्गस्य दात्रि, नार्यसत्यानां दात्री, न ध्यानानां दात्री, नाप्रमाणानां दात्री, नारूप्यसमापत्तीनां दात्री, न विमोक्षाणां दात्री, नानुपूर्वविहारसमापत्तीनां दात्री, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां दात्री, नाभिज्ञानां दात्री, न समाधीनां दात्रि, न धारणीमुखानां दात्री, न तथागतबलानां दात्री, न वैशारद्यानां दात्री, न प्रतिसंविदां दात्रि, न महाकरुणाया दात्रि, नावेणिकबुद्धधर्माणां दात्री, न स्रोतआपत्तिफलस्य दात्री, न सकृदागामिफलस्य दात्रि, नानागामिफलस्य दात्री, नार्हत्त्वस्य दात्री, न प्रत्येकबोधेर् दात्रि, न मार्गाकारज्ञताया दात्री, न सर्वाकारज्ञताया दात्री. स प्रज्ञापारमितायां चरतीः स प्रज्ञापारमितां भावयति.
न प्रज्ञापारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि प्रज्ञापारमिता, न ध्यानपारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि ध्ह्यानपारमिता, न वीर्यपारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि वीर्यपारमिता, न क्षान्तिपारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि क्षान्तिपारमिता, न शीलपारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि शीलपारमिता, न दानपारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि दानपारमिता.
अथ भगवाञ् छक्रो देवानाम् इन्द्राय साधुकारम् अदात्: साधु साधु कौशिकैवम् एतद् यथा निर्दिशसि,
न हि प्रज्ञापारमिता द्वयतो ऽनुगन्तव्या. तत् कस्य हेतोः? अद्वया हि प्रज्ञापारमिता, न हि ध्यानपारमिता द्वयतो ऽनुगन्तव्या, तत् कस्य हेतोः? अद्वया हि ध्यानपारमिता, न हि प्रज्ञापारमिता द्वयतो ऽनुगन्तव्या. तत् कस्य हेतोः? अद्वया हि प्रज्ञापारमिता, न हि ध्यानपारमिता द्वयतोऽनुगन्तव्या, तत् कस्य हेतोः? अद्वया हि ध्यानपारमिता, न हि वीर्यपारमिता द्वयतो ऽनुगन्तव्या. तत् कस्य हेतोः? अद्वया हि वीर्यपारमिता, न हि क्षान्तिपारमिता द्वयतो ऽनुगन्तव्या, तत् कस्य हेतोः? अद्वया हि क्षान्तिपारमिता, न हि शीलपारमिता द्वयतो ऽनुगन्तव्या. तत् कस्य हेतोः? अद्वया हि शीलपारमिता, न हि दानपारमिता द्वयतो ऽनुगन्तव्या, तत् कस्य हेतोः? अद्वया हि दानपारमिता.
धर्मधातोः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मधातोः स कौशिक द्वयम् इच्छेद् ( श्स्प्_इइ-4_99 ) यो ध्यानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च ध्यानपारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मधातोः स कौशिक द्वयम् इच्छेद् यो वीर्यपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च वीर्यपारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मधातोः स कौशिक द्वयम् इच्छेद् यः क्षान्तिपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च क्षान्तिपारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मधातोः स कौशिक द्वयम् इच्छेद् यः शीलपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च शीलपारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मधातोः स कौशिक द्वयम् इच्छेद् यो दानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
तथतायाः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारं, तथतायाः स कौशिक द्वयम् इच्छेद् यो ध्यानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च ध्यानपारमिता चाद्वयम् एतद् अद्वैधीकारं, तथतायाः स कौशिक द्वयम् इच्छेद् यो वीर्यपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च वीर्यपारमिता चाद्वयम् एतद् अद्वैधीकारं, तथतायाः स कौशिक द्वयम् इच्छेद् यः क्षान्तिपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च क्षान्तिपारमिता चाद्वयम् एतद् अद्वैधीकारं, तथतायाः स कौशिक द्वयम् इच्छेद् यः शीलपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च शीलपारमिता चाद्वयम् एतद् अद्वैधीकारं, तथतायाः स कौशिक द्वयम् इच्छेद् यो दानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
भूतकोटेः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारं, भूतकोटेः स कौशिक द्वयम् इच्छेद् यो ध्यानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च ध्यानपारमिता चाद्वयम् एतद् अद्वैधीकारं, भूतकोटेः स कौशिक द्वयम् इच्छेद् यो वीर्यपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च वीर्यपारमिता चाद्वयम् एतद् अद्वैधीकारं, भूतकोटेः स कौशिक द्वयम् इच्छेद् यः क्षान्तिपारमिताया ( श्स्प्_इइ-4_100 ) द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च क्षान्तिपारमिता चाद्वयम् एतद् अद्वैधीकारं, भूतकोटेः स कौशिक द्वयम् इच्छेद् यः शीलपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च शीलपारमिता चाद्वयम् एतद् अद्वैधीकारं, भूतकोटेः स कौशिक द्वयम् इच्छेद् यो दानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यधातुश् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्, अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यो ध्यानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यधातुश् च ध्यानपारमिता चाद्वयम् एतद् अद्वैधीकारं, अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यो वीर्यपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यध्हातुश् च वीर्यपारमिता चाद्वयम् एतद् अद्वैधीकारं, अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यः क्षान्तिपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यधातुश् च क्षान्तिपारमिता चाद्वयम् एतद् अद्वैधीकारं, अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यः शीलपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यधातुश् च शीलपारमित चाद्वयम् एतद् अद्वैधीकारं, अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यो दानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यधातुश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्.
[क्. 196अ8, न्. 386अ4, त्. 3ओ9अ7, प्. 259ब्3, छ्. 697च्10]
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: नमस्करणीयेयं भगवन् प्रज्ञापारमिता सदेवमानुषासुरेण लोकेण यत्र शिक्षित्वा बोधिसत्त्वा महासत्त्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्ध्यते, अभिसंभोत्स्यन्ते च, यदाहं भगवन् सुधर्मायां देवसभायां तस्मिन्न् एवेन्द्रासने निषण्णो भवामि यन् मे स्वकम् आसनं तत्र देवपुत्रा ममोपस्थानायागच्छन्ति, ते मां पूजयन्ति यदा तत्र न गच्छामि तत्रासनेन निषण्णो भवामि तदा ते देवपुत्रास् तां सभाम् आगत्य तद् आसनं नमस्कृत्य प्रदक्षिणीकृत्य पुनर् एव प्रक्रामति. इह शक्रो देवानाम् इन्द्रो निषद्य देवेभ्यस् त्रयस्त्रिंशेभ्यो धर्मं देशयति. एवम् एतद् भगवन् यत्रेयं प्रज्ञापारमिता लिखित्वा धारयिष्यते स्वाध्यायिष्यते, परेभ्यश् च विस्तरेण संप्रकाशयिष्यते, तत्र ये ते दशदिग्लोकधातुषु देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ( श्स्प्_इइ-4_101 ) ते तां प्रज्ञापारमितां वन्दित्वा नमस्कृत्य प्रक्रमिष्यन्ति, इतो निर्याता हि तथागता अर्हन्तः सम्यक्संबुद्धा इतो निर्याताश् च सर्वश्रावकप्रत्येकबुद्धा इतो निर्यातं च सत्त्वानां सर्वसुखोपधानं यद् अपि तथागतशरीराणि पूजा लभन्ते तद् अपि प्रज्ञापारमिता परिभावितत्वात् पूजां प्रतिलभन्ते. तत् कस्य हेतोः? प्रज्ञापारमिता भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचारिकां चरतः सर्वज्ञज्ञानस्याश्रयभूता प्रत्ययभूता कारणभूता आहारिका तस्मात् तर्हि भगवन्न् अनयोर् द्वयोः प्रत्यङ्गयोर् इमाम् एवाहं भगवन् प्रज्ञापारमितां गृह्णीयां यदाहं भगवन्न् इमां प्रज्ञापारमिताम् उद्गृहीष्याम्य् उद्गृह्य स्वाध्यायं करोमि धर्मान्तर्गतेन मानसेन निमित्तं अप्य् अहं भगवन् तस्मिन् समये न समनुपश्यामि भयस्य वा स्तम्भितत्वस्य वा. तत् कस्य हेतोः?
अनिमित्ता हि भगवन् प्रज्ञापारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् प्रज्ञापारमिता, अनिमित्ता हि भगवन् ध्यानपारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् ध्यानपारमिता, अनिमित्ता हि भगवन् वीर्यपारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् वीर्यपारमिता, अनिमित्ता हि भगवन् क्षान्तिपारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् क्षान्तिपारमिता, अनिमित्ता हि भगवन् शीलपारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् शीलपारमिता, अनिमित्ता हि भगवन् दानपारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् दानपारमिता.
अनिमित्ता हि भगवन्न् अध्यात्मशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अध्यात्मशून्यता, अनिमित्ता हि भगवन् बहिर्धाशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् बहिर्धाशून्यता, अनिमित्ता हि भगवन्न् अध्यात्मबहिर्धाशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अध्यात्मबहिर्धाशून्यता, अनिमित्ता हि भगवञ् छून्यताशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवञ् छून्यताशून्यता, अनिमित्ता हि भगवन् महाशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् महाशून्यता, अनिमित्ता हि भगवन् परमार्थशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् परमार्थशून्यता, अनिमित्ता हि भगवन् संस्कृतशून्यता अलिङ्ग अनभिलाप्या अप्रव्याहारा हि भगवन् संस्कृतशूङ्यता, अनिमित्ता हि भगवन्न् असंस्कृतशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहार हि भगवन्न् असंस्कृतशून्यता, अनिमित्ता हि भगवन्न् अत्यन्तशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अत्यन्तशून्यता, अनिमित्ता हि भगवन्न् अनवराग्रशून्यता अलिङ्गा ( श्स्प्_इइ-4_102 ) अनभिलाप्या अप्रव्याहारा हि भगवन्न् अनवराग्रशून्यता, अनिमित्ता हि भगवन्न् अनवकारशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अनवकारशून्यता, अनिमित्ता हि भगवन् प्रकृतिशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् प्रकृतिशून्यता, अनिमित्ता हि भगवन् सर्वधर्मशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् सर्वधर्मशून्यता, अनिमित्ता हि भगवन् स्वलक्षणशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् स्वलक्षणशून्यता, अनिमित्ता हि भगवन्न् अनुपलम्भशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अनुपलम्भशून्यता, अनिमित्ता हि भगवन्न् अभावशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अभावशून्यता, अनिमित्त हि भगवन् स्वभावसून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् स्वभावशून्यता, अनिमित्त हि भगवन्न् अभावस्वभावशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अभावस्वभावशून्यता.
अनिमित्तानि हि भगवन् स्मृत्युपस्थानान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवन् स्मृत्युपस्थानानि, अनिमित्तानि हि भगवन् सम्यक्प्रहाणान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्यहाराणि हि भगवन् सम्यक्प्रहाणानि, अनिमित्ता हि भगवन्न् ऋद्धिपदा अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् ऋद्धिपादः, अनिमित्तानि हि भगवन्न् इन्द्रियाण्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहारणि हि भगवन्न् इन्द्रियाणि, अनिमित्तानि हि भगवन् बलान्य् अलिङ्गान्य् अनभिलप्यान्य् अप्रव्याहाराणि हि भगवन्न् इन्द्रियाणि, अनिमित्तानि हि भगवन् बोध्यङ्गान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहारणि हि भगवन् बोध्यङ्गानि, अनिमित्तः हि भगवन्न् आर्याष्टाङ्गो मार्गो ऽलिङ्गो ऽनभिलाप्यो ऽप्रव्याहारो हि भगवन्न् आर्याष्टाङ्गो मार्गः, अनिमित्तानि हि भगवन्न् आर्यसत्यान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवन्न् आर्यसत्यानि, अनिमित्तानि हि भगवन् ध्यानान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्यहाराणि हि भगवन्न् ध्यानानि, अनिमित्तानि हि भगवन्न् अप्रमाणान्य् अनभिलाप्यान्य् अप्रव्याहाऋआणि हि भगवन्न् अप्रमाणानि, अनिमित्ता हि भगवन्न् आरूप्यसमापत्तयो ऽलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् आरूप्यसमापत्तयः, अनिमित्ता हि भगवन् विमोक्षा अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् विमोक्षाः, अनिमित्ता हि भगवन्न् अनुपूर्वविहरसमापत्तयो ऽलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अनुपूर्वविहरसमापत्तयः, अनिमित्तानि हि भगवञ् छून्यतानिमित्ताप्रणिहितविमोक्षसमुखान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवञ् छून्यतनिमित्ताप्रणिहितविमोक्षमुखानि, अनिमित्ता हि ( श्स्प्_इइ-4_103 ) भगवन्न् अभिज्ञा अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अभिज्ञाः, अनिमित्ता हि भगवन् समाधयो ऽलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् समाधयः, अनिमित्तानि हि भगवन् धारणीमुखन्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवन् धारणीमुखानि, अनिमित्तानि हि भगवंस् तथागतबलान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवंस् तथागतबलानि, अनिमित्तानि हि भगवन् वैशारद्यान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवन् वैशारद्यानि, अनिमित्ता हि भगवन् प्रतिसंविदो ऽलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् प्रतिसंविदः, अनिमित्ता हि भगवन् महाकरुणालिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् महाकरुणा, अनिमित्ता हि भगवन्न् आवेणिकबुद्धधर्मा अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् आवेणिकबुद्धधर्माः, अनिमित्ता हि भगवन् सर्वज्ञता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् सर्वज्ञता, अनिमित्ता हि भगवन् मार्गाकारज्ञता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् मार्गाकारज्ञता, अनिमित्ता हि भगवन् सर्वाकारज्ञता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् सर्वाकारज्ञता.
[क्. 196ब्21, न्. 388अ1, त्. 310ब्5. प्. 263अ1, छ्. 698ब्24]
सचेद् भगवन् प्रज्ञापारमिता निमित्तम् अभविष्यन् नानिमित्तं नैव तस्य तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्मान् निमित्तान् अलिङ्गान् अभिलाप्यान् अप्रव्याहारान् विदित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सत्त्वानाम् अनिमित्तम् अलिङ्गम् अनभिलाप्यम् अप्रव्याहारं धर्मं देशयिष्यति, यस्मात् तर्हि भगवन् प्रज्ञापारमिता अनिमित्ता अलिङ्गा अनभिलाप्या अप्रव्याहारा तमात् तथागतः, सर्वधर्मान् अलिङ्गान् अनभिलाप्यान् अप्रव्याहारान् विदित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् अनिमित्तम् अलिङ्गम् अनभिलाप्यम् अप्रव्याहारं धर्मं देशयिष्यति. तस्मात् तर्हि भगवन्न् इयं प्रज्ञापारमिता सदेवमनुषासुरेण लोकेन सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. लिखित्वा च सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
यो हि कश्चिद् भगवन्न् इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, तां च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् ( श्स्प्_इइ-4_104 ) विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
तस्य नरकगतिः प्रतिकाङ्क्षितव्या न तिर्यग्योनिर् न यमलोकगतिः प्रतिकाङ्क्षितव्या, न श्रावकभूमिर् न प्रत्येकबुद्धभूमिः प्रतिकाङ्क्षितव्या, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. अविरहितश् च भविष्यति तथागतदर्शनेन सत्त्वपरिपाचकेन च बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यति, तांश् च तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कुर्वन् गुरुकुर्वन् मानयेत् पूजयेत्, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैह्.
पुनर् भगवन् सचेद् अयं त्रिसाहस्रो लोकधातुश् चूडिकावबद्धः स्यात् तथागतशरीरैः पूर्णो यच् चेयं प्रज्ञापारमिता लिखित्वोपनाम्यते. अनयोर् अहं भगवन् द्वयोर् भागयोर् इमाम् एव प्रज्ञापारमितां गृह्णीयाम्. तत् कस्य हेतोः? अतो निर्याता हि भगवन्स् तथागतास् तानि च तथागतशरीराणि तेन तानि तथागतशरीराणि सत्क्रियन्ते गुरुक्रियन्ते मान्यन्ते पूज्यन्ते यानि कुलपुत्राश् च कुलदुहितरश् च सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा न दुर्गतिं विनिपातं गच्छन्ति. दिव्यमानुषीः संपत्तीर् अनुभूय यथा प्रणिधानं परिनिर्वाति. यदि वा श्रावकयानेन यदि वा प्रत्येकबुद्धयानेन यदि वा सम्यक्संबुद्धयानेन, अपि तु खलु पुनर् भगवन् यच् च तथागतदर्शनं यच् च प्रज्ञापारमिताया दर्शनं तुल्यम् एतत्. तत् कस्य हेतोः? तथा हि भगवन् प्रज्ञापारमिता च तथागतश् चाद्वयम् एतद् अद्वैधीकारम्.
पुनर् अपरं भगवन् यच् च तथागतो ऽर्हन् सम्यक्संबुद्धस् त्रिषु प्रातिहार्येषु स्थित्वा धर्मदेशयेत् सूत्रं गेयं व्याकरणं गाथोदाननिदानेत्युक्तकजातकवैपुल्याद्भुतधर्मावदानोपदेशात्, यच् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृह्य पर्यवाप्य परस्मै देशयेत् तुल्यम् एतत्. तत् कस्य हेतोः? इतो निर्याता हि भगवन् तथागता अर्हन्तः सम्यक्संबुद्धा इति निर्यातानि त्रीणि प्रातिहार्याणि. इतो निर्यातं सूत्रं गेयं व्याकरणं गाथोदाननिदानेत्युक्तकजातकवैपुल्यद्भुतधर्मावदानोपदेशाः.
पुनर् अपरं भगवन् यच् च पूर्वस्यां दिशि गङ्गानदीवलुकोपमां तथागतान् अर्हन्तः सम्यक्संबुद्धः, दक्सिणस्यां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, पश्चिमायां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, उत्तरस्यां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, उत्तरपूर्वस्यां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, पूर्वदक्षिणस्यां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, दक्षिणपश्चिमायां ( श्स्प्_इइ-4_105 ) दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, पश्चिमोत्तरस्यां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, अधस्ताद् दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, उपरिष्टाद् दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, त्रिषु प्रातिहार्येषु स्थित्वा धर्मं देशयति, सूत्रं गेयं व्याकरणं गाथोदाननिदानेत्युक्तकजातकवैपुल्याद्भुतधर्मावदानोपदेशान् यच् च कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् उद्गृह्य पर्यवाप्य परस्मै देशयेत् तुल्यम् एतत्. तत् कस्य हेतोः? इतो निर्याता हि ते दशसु दिक्षु तथागता अर्हन्तः सम्यक्संबुद्धा इतो निर्याता तानि त्रिणि प्रातिहार्याणि इतो निर्यातं सूत्रं गेयं व्याकरणं गाथोदानं निदानेत्युक्तकजातकवैपुल्याद्भुतधर्मावदानोपदेशाः.
पुनर् अपरं भगवन् यच् च ते दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धाः सत्क्रियेरन् गुरुक्रियेरन् मानयेरन् पूजयेरन् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. यश् च प्रज्ञापारमिता पुस्तकं लिखित्वा सत्क्रियेत गुरुक्रियेत मान्येत पूज्येत पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैस् तुल्यम् एतत्. तत् कस्य हेतोः? इतो निर्याता हि तथागता अर्हन्तः सम्यक्संबुद्धाः.
पुनर् अपरं भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति परेभ्यश् च विस्तरेण संप्रकाशयिष्यति तस्य नरकगतिः प्रतिकाङ्क्षितव्या न तिर्यग्योनिर् न यमलोकगतिः प्रतिकाङ्क्षितव्या न श्रावकभूमिर् न प्रत्येकबुद्धभूमिः प्रतिकाङ्क्षितव्या. तत् कस्य हेतोः? तथा हि स कुलपुत्रो वा कुलदुहिता वा स्थितो ऽवैवर्त्यभूमौ वेदितव्यः. तत् कस्य हेतोः? तथा हि स इमां प्रज्ञापारमितां लिखित्वोद्गृह्णाति धारयति वाचयति पर्यवाप्नोति योनिशश् च मनसिकरोति तां च लिखित्वा सत्करोति गुरुकरोति मानयति पूजयति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैस् तथा हि भगवन् सर्वभयप्रशमनि सर्वरोगनिर्घातनीयं प्रज्ञापारमिता.
पुनर् अपरं भगवन् यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति तां च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैस् तस्य न कुतश्चिद् भयं प्रतिकाङ्क्षितव्या, तद् यथापि नाम ( श्स्प्_इइ-4_106 ) भगवन् धनिकभयभीतः पुरुषो राजानं सेवेत राजानम् उपतिष्ठेत स राजानं सेवमानो राजानम् उपतिष्ठमानो यत एवास्य भयं भवति त एवैवं सेवन्ते न च स तेभ्यो बिभेति. तत् कस्य हेतोः? एवम् एतद् भगवन् भवति यो राजनिःश्रितो भवति बलवतिनिश्रितो भवति.
एवम् एव भगवन् प्रज्ञापारमिता परिभावितानि तथागतशरीराणि पूजां लभते. यद् अपि भगवन् सर्वाकारज्ञताज्ञानं तद् अपि प्रज्ञापारमितापरिभावितं द्रष्टव्यम्, तस्माद् अहं भगवन्न् अनयोर् द्वयोः प्रत्यङ्गयोर् इमाम् एव प्रज्ञापारमितां गृह्णीयात्. तत् कस्य हेतोः? इतो निर्यातानि हि भगवन् तथागतशरीराण्य् अतो निर्यातानि द्वात्रिंशन् महापुरुषलक्षणान्य् अतो निर्यातानि तथागतस्य दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्माः, अतो निर्याता महामैत्री महाकरुणा अतो निर्याता भगवन् पञ्चपारमिता पारमितानामधेयं लभते, यावद् अतो निर्याता तथागतस्य सर्वाकारज्ञता यत्र भगवन् ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु यत्र च त्रिसाहस्रमहासाहस्रे लोकधाताव् इयं प्रज्ञापारमितोद्ग्रहीष्यति धारयिष्यते वाचयिष्यते पर्यवाप्स्यते तां च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यते पूजयिष्यते, तेन तत्र मनुष्यो वा अमनुष्यो वावतारप्रेक्ष्य् अवतारगवेष्य् अवतारं लप्स्यते. सर्वे च ते अनुपूर्वेण परिनिर्वानधर्माणो भविष्यन्ति, त्रयाणां यानानां मन्यत् अमान्यत् अनेन यानेन. एवं महार्थिका भगवन्न् इयं प्रज्ञापारमिता, अत्र हि नाम भगवंस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वानां बुद्धसत्येन प्रत्युपस्थिता बुद्धोत्पादो भगवंस् तत्र लोकधातौ प्रतिकाङ्क्षितव्या, यत्र लोकधाताव् इयं प्रज्ञापारमिता प्रचरिष्यते, तद् यथापि नाम भगवन्न् अनर्घो ऽयं महामणिरत्नं भवेत्, तच् च महामणिरत्नम् एभिर् एवंरूपैर् गुणैः समन्वागतं भवेत्,
यत्र यत्र तन् महामणिरत्नं स्थाप्येत्, तत्र तत्रामनुष्या अवतारं न लभेरन्, यत्रामनुष्यगृहीता स्त्रि वा पुरुषो वा भवेत्, तत्र तन् महामणिरत्नं प्रवेशेत्, ततः सो ऽमनुष्यस् तस्य महामणिरत्नस्य तेजो सहमानः क्षिप्रम् एवाप्रक्रामन् नावतिष्ठेत पित्तेन वा दह्यमानस्य तन् महामणिरत्नं शरीरे स्थाप्येत तद् अपि पित्तम् अतिगृह्णीयात् पाताभिभूते वा शरीरे तन् महामणिरत्नं स्थाप्येत् तद् अपि वा तं अतिगृह्णीयात्.
श्लेष्मणारोपस्तब्धे शरीरे तन् महामणिरत्नं स्थाप्येत तद् अपि श्लेष्माणम् उपशामयेत् सांनिपातिको वा व्याधिर् भवेत्, तच् च महामणिरत्नं शरीरे स्थाप्येत तद् अपि सांनिपातिकं व्याधिम् उपशमेन् नासौ ( श्स्प्_इइ-4_107 ) विवर्धेत तद् रात्रौ चावभासं कुर्याद् उष्मकाले च वर्तमाने यत्र प्रदेशे तन् महामणिरत्नं स्थाप्येत तत् तं प्रदेशं शीतलं कुर्यात् शीतकाले च वर्तमाने यत्र प्रदेशे तन् महामणिरत्नं स्थाप्य न तत् प्रदेशम् उष्मं कुर्यात्, यत्र च पृथिवीप्रदेशे तन् महामणिरत्नं स् स्थाप्येत तत् पृथ्वीप्रदेशे नात्युष्मं नातिशीतमृदुसंपन्नं कुर्यात् यत्र पृथिवीप्रदेशे तन् महामणिरत्नं स्थाप्येत न तत्र पृथिवीप्रदेशे आशिविषप्रदेशे उपचरेत्.
तद् अन्ये ऽपि च वृश्चिकादयः सरीसृपाः प्राणिनो न तत्रोपचरेत्. या काचिद् भगवन् स्त्री वा पुरुषो वा आशीविषेण दष्ठो भवेत्, तस्य तन् महामणिरत्नं दर्शेत् तस्य सहदर्शनेन तद् विषं विगच्छेत्.
एभिर् भगवन्न् एवंरूपैर् गुणैः समन्वागतं तन् महामणिरत्नं भवेत्, यासाम् अपि भगवन् स्त्रीणां वा पुरुषाणां वा अर्बुदं वा तिमिरं वा अजकं वा अक्षिरोगो वा स्रोतरोगो वा घ्राणरोगो वा जिह्वारोगो वा कण्ठरोगो वा कायरोगो वा भवेत् तेषां तन् माहमणिरत्नं काये स्थाप्येत्, तेषां तद् अर्बुदं वा वा तिमिरं वा अजकं वा अक्षिरोगो वा स्रोत्ररोगो वा घ्राणरोगो वा जिह्वारोगो वा कण्ठरोगो वा कायरोगो वा उपशाम्येत्.
एभिर् भगवन्न् एवंरूपैर् गुणैः समन्वागतं तन् महामणिरत्नं भवेत्, यत्रापि भगवन्न् उदके तन् महामणिरत्नं प्रक्षिपेत्, तद् एव तद् उदकम् अष्टाङ्गोपेतम् एकवर्णं भवेत्.
सचेत् भगवन् नीलकेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, सचेत् पीतकेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, सचेत् लोहितकेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, सचेद् अवदानकेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, सचेत् माञ्जिष्ठावर्णेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, सचेत् स्फटिकवर्णेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, एभिश् च नानाप्रकारैश् चीवरैस् तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत तत् स्वभावम् एव तद् उदकं भवेत्, यद् अपि भगवंस् तत्रोदके कालुष्यन्ते तन् महामणिरत्नं प्रसादयेत्, एभिर् भगवन्न् एवंरूपैर् गुणैः समन्वागतं ( श्स्प्_इइ-4_108 ) तन् महामणिरत्नं भवेत्, अन्यैश् च एवम् एव भगवन्न् इयं प्रज्ञापारमिता दिव्यमणिरत्नप्रख्या सर्वगुणाकरभूता सर्वपापमोचनी.
[क्. 198अ11, न्. 391अ1, त्. 313अ1, प्. 267ब्1, छ्. 700ब्8]
अथ खल्व् आयुष्मान् आनन्दः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तत् किं मन्यसे? कौशिक दिव्यम् एतन् मणिरत्नम् उताहो स्विज् जांबुद्वीपकनां मनुष्याणां मणिरत्नम् अस्ति.
शक्र आह: दिव्यम् एतद् भदन्त मणिरत्नम्.
अपि तु खलु पुनर् भदन्तानन्द यानि जांबूद्वीपकानां मानुष्याणां महामणिरत्नान्य् अस्ति तानि परीत्तानि गुरूणि च, यानि दिव्यानि तानि महान्ति लघूनि च तैर् अङ्गैस् तावत् सुपरिपूर्णानि जांबूद्वीपकानां मनुष्याणां मणिरत्नानि यथा दिव्यानि तानि पुनर् जांबूद्वीपकानि रत्नानि तेषां दिव्यानां मणिरत्नानां संख्यां वा कलां वा गणनां वा उपमां वा उपनिशां वा नोपयान्ति.
पुनर् अपि शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: तत् खलु पुनर् भगवन् महामणिरत्नं यस्मिन् करण्डके प्रक्षिप्तं भवेत् यदा क्षिप्तं भवेत् यदा क्षिपतं च ततः करण्डकात् स्पृहणीयम् एव तत् करण्डकं भवेत् तैर् मणिरत्नगुणैः परो ऽपि तत्र करण्डके स्पृहोम् उत्पादयेत्, एवम् एव भगवन् यत्रेयं प्रज्ञापारमिता प्रचरिष्यति, तत्र तेषां कुलपुत्राणां वा कुलदुहितॄणां वा कायिकाश् चेतसिका वा दुःखोपद्रवा मनुष्यकृता वा अमनुष्यकृता वा न भविष्यति, महामणिरत्नम् इति भगवन् प्रज्ञापारमिताम् एतद् अधिवचनं सर्वाकारज्ञताज्ञानस्यैतद् अधिवचनम्.
कियन्तो भगवञ् छक्यं प्रज्ञापारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि प्रज्ञापारमिताया गुणाः प्रज्ञापारमितायाश् च तानि तथागतशरीराणि भजनं, कियन्तो भगवञ् छक्यं ध्यानपारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि ध्यानपारमिताया गुणा ध्यानपारमितायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं वीर्यपारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि वीर्यपारमिताया गुणा वीर्यपारमितायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं क्षान्तिपारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि क्षान्तिपारमिताया गुणाः क्षान्तिपारमितायाश् च तानि तथागतशरीराणि भजनं, कियन्तो भगवञ् छक्यं शीलपारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि शीलपारमिताया ( श्स्प्_इइ-4_109 ) गुणाः शीलपारमितायाश् च तानि तथागतशरीराणि भजनं, कियन्तो भगवञ् छक्यं दानपारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि दानपारमिताया गुणा दानपारमितायाश् च तानि तथागतशरीराणि भाजनम्.
कियन्तो भगवञ् छक्यम् अध्यात्मशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अध्यात्मशून्यताया गुणा अध्यात्मशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं बहिर्धाशून्यताया गुणाः परिकीर्तयितुं अप्रमेया हि बहिर्धाशून्यताया गुणा बहिर्धाशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अध्यात्मबहिर्धाशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अध्यात्मबहिर्धाशून्यताया गुणा अध्यात्मबहिर्धाशून्यतयाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं शून्यताशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि शून्यताशून्यताया गुणाः शून्यताशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं महाशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि महाशून्यताया गुणा महाशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं परमार्थशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि परमार्थशून्यताया गुणाः परमार्थशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं संस्कृतशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि संस्कृतशून्यताया गुणाः संस्कृतशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् असंस्कृतशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् असंस्कृतशून्यताया गुणा असंस्कृतशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अत्यन्तशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अत्यन्तशून्यताया गुणा अत्यन्तशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अनवराग्रशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अनवराग्रशून्यताया गुणा अनवराग्रशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ्छक्यम् अनवकारशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अनवकारशून्यताया गुणा अनवकारशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं प्रकृतिशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि प्रकृतिशून्यताया गुणाः प्रकृतिशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं सर्वधर्मशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि सर्वधर्मशून्यताया गुणाः सर्वधर्मशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं ( श्स्प्_इइ-4_110 ) स्वलक्षणशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि स्वलक्षणशून्यताया गुणाः स्वलक्षणशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अनुपलम्भशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अनुपलम्भशून्यताया गुणा अनुपलम्भशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अभावशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अभावशून्यताया गुणा अभावशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं स्वभावशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि स्वभावशून्यताया गुणाः स्वभावशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अभावस्वभावशून्यतया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अभावस्वभावशून्यताया गुणा अभावस्वभावशून्यतयाश् च तानि तथागतशरीराणि भाजनम्.
कियन्तो भगवञ् छक्यं चतुर्णां स्मृत्युपस्थानानां गुणाः परिकीर्तयितुम् अप्रमेया हि स्मृत्युपस्थानानां गुणाः स्मृत्युपस्थानानां च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं चतुर्णां सम्यक्प्रहाणानां गुणाः परिकीर्तयितुम् अप्रमेया हि सम्यक्प्रहाणानां गुणा सम्यक्प्रहाणानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णाम् ऋद्धिपादानां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् ऋद्धिपादानां गुणा ऋद्धिपादानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं पञ्चानाम् इन्द्रियानां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् इन्द्रियानां गुणा इन्द्रियानां च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं पञ्चानं बलानां गुणाः परिकीर्तयितुम् अप्रमेया हि बलानां गुणा बलानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं सप्तानां बोध्यङ्गानां गुणाः परिकीर्तयितुम् अप्रमेया हि बोध्यङ्गानां गुणा बोध्यङ्गानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् आर्याष्टाङ्गमार्गस्य गुणाः परिकीर्तयितुम् अप्रमेया ह्य् आर्याष्ताङ्गस्य मार्गस्य गुणा आर्याष्टाङ्गस्य मार्गस्य च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णम् आर्यसत्यानां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् आर्यसत्यानां गुणा अर्यसत्यानां च तानि तथागतशरीरणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णां ध्यानानां गुणाः परिकीर्तयितुम् अप्रमेया हि ध्यानानां गुणा ध्यानानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णाम् अप्रमाणानां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अप्रमाणानां गुणा अप्रमाणानां च तानि ( श्स्प्_इइ-4_111 ) तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतसृणाम् आरूप्यसमापत्तीनां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् आरूप्यसमापत्तीनां गुणा आरूप्यसमापत्तीनां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अष्टानां विमोक्षाणां गुणाः परिकीर्तयितुम् अप्रमेया हि विमोक्षाणां गुणा विमोक्षाणां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं नवानुपूर्वविहारसमापत्तीनां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अनुपूर्वविहारसमापत्तीनां गुणा अनुपूर्वविहारसमापत्तिनां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां गुणाः परिकीर्तयितुम् अप्रमेय हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां गुणाः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अभिज्ञानां गुणाः परिकीर्तयितुम् अप्रमेयाह्य् अभिज्ञानां गुणा अभिज्ञानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं समाधीनां गुणाः परिकीर्तयितुम् अप्रमेया हि समाधीनां गुणाः समाधीनां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं धारणीमुखानां गुणाः परिकीर्तयितुम् अप्रमेया हि धारणीमुखानां गुणा धारणीमुखानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं दशानां तथागतबलानां गुणाः परिकीर्तयितुम् अप्रमेया हि तथागतबलानां गुणाः तथागतबलानां च इ तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णां वैशारद्यानां गुणाः परिकीर्तयितुम् अप्रमेया हि वैशारद्यानां गुणा वैशारद्यानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णां प्रतिसंविदां गुणाः परिकीर्तयितुम् अप्रमेया हि प्रतिसंविदां गुणाः प्रतिसंविदं च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं महामैत्र्या गुणाः परिकीर्तयितुम् अप्रमेया हि महामैत्र्या गुणाः महामैत्र्याश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं महाकरुणाया गुणाः परिकीर्तयितुम् अप्रमेया हि महाकरुणाया गुणा महाकरुणायाश् च तानि तथागतशरीराणि ब्बाजनं, कियन्तो भगवञ् छक्यम् अष्टादशावेणिकबुद्धधर्माणां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अष्टादशावेणिकबुद्धधर्माणां गुणा आवेणिकबुद्धधर्मां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं सर्वज्ञताया गुणाः परिकीर्तयितुम् अप्रमेया हि सर्वज्ञताया गुणा सर्वज्ञतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं मार्गाकारज्ञताया गुणाः परिकीर्तयितुम् अप्रमेया हि मार्गाकारज्ञताया ( श्स्प्_इइ-4_112 ) गुणा मार्गाकारज्ञतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं सर्वाकारज्ञताया गुणाः परिकीर्तयितुम् अप्रमेया हि सर्वाकारज्ञताया गुणाः सर्वाकारज्ञतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं तथताया गुणाः परिकीर्तयितुम् अप्रमेया हि तथताया गुणास् तथतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अवितथताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अवितथताया गुणा अवितथतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अनन्यतथताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अनन्यतथताया गुणा अनन्यतथतायाश् च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं धर्मताया गुणाः परिकीर्तयितुम् अप्रमेया हि धर्मताया गुणा धर्मतायश् च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं धर्मधातोर् गुणाः परिकीर्तयितुम् अप्रमेया हि धर्मधातोर् गुणा धर्मधातोश् च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं धर्मस्थितिताया गुणाः परिकीर्तयितुम् अप्रमेया हि धर्मस्थितिताया गुणा धर्मस्थितितायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं धर्मनियामताया गुणाः परिकीर्तयितुम् अप्रमेया हि धर्मनियामताया गुणाः धर्मनियामतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं भूतकोटेर् गुणाः परिकीर्तयितुम् अप्रमेया हि भूतकोटेर् गुणा भूतकोटेश् च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यम् अचिन्त्यधातोर् गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अचिन्त्यधातोर् गुणा अचिन्त्यधातोश् च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं सर्ववासनानुसंधिक्लेशप्रहाणस्य गुणाः परिकीर्तयितुम् अप्रमेया हि सर्ववासनानुसंधिक्लेशप्रहाणस्य गुणाः सर्ववसनानुसंधिक्लेशप्रहाणस्य च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं सदोपेक्षाविहारिताया गुणाः परिकीर्तयितुम् अप्रमेया हि सदोपेक्षाविहारिताया गुणाः सदोपेक्षाविहारितयाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् असंप्रमोसधर्मताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् असंप्रमोषधर्मताया गुणा असंप्रमोषधर्मतायश् च तानि तथागतशरीराणि भाजनम्.
तेन तानि तथागतशरीराणि पूजां लभन्ते, रत्नपारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, असंक्लेशाव्यवदानपारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, अनुत्पादानिरोधपारमिताया ( श्स्प्_इइ-4_113 ) भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, अनायूहानियूहपारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, अनुत्क्षेपाप्रक्षेपपारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, अनागत्यगत्यस्थितिपारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, धर्मतापारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तया च धर्मतापारमितया परिभावितानि तानि तथागतशरीराणि तेन परिनिर्वृतस्यापि तस्य तथागतस्य तानि तथागतशरीराणि पूजां लभन्ते.
[क्. 199ब्7, न्. 392अ8, त्. 315ब्1, प्. 272अ8, छ्. 703ब्6]
पुनर् अपरं भगवन् तिष्ठन्तु त्रिसाहस्रमहासाःस्रो लोकधातुस् तथागतशरीराणां पूर्णचूडिकावबद्धाः, सचेत् भगवन् दशसु दिक्षुः गङ्गानदीवालुकोपमा लोकधातवस् तथागतशरीराणां पूर्णचूडिकावबद्धा भवेयुर् यच् च प्रज्ञापारमितापुस्तकं लिखित्वोपनाम्येतः, अनयोर् अहं भगवन् द्वयोः प्रत्यङ्गयोर् इमाम् एव प्रज्ञापारमितां गृहीयाम्. तत् कस्य हेतोः? अतो निर्यातानि हि भगवन् तथागतस्यार्हतः सम्यक्संबुद्धस्य तानि तथागतशरीराणि पूज्यंते प्रज्ञापारमिता परिभावितनि भगवंस् तानि तथागतशरीराणि पूजां लभन्ते.
यः पुनर् भगवन् कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् स तस्य कुशलमूलस्य पर्यन्तम् अधिगम्य देवमनुष्यसंपत्तीर् अनुभूय क्षत्रियमहाशालकुलेषु ब्राह्मणमहाशालकुलेषु गृहपतिमहाशालकुलेषु चातुर्महाराजकायिकेषु देवेषु त्रायस्त्रिंशेषु देवेषु यामेषु देवेषु तुषितेषु देवेषु निर्माणरतिषु देवेषु परनिर्मितवशवर्तिषु देवेषु सुखम् अनुभूय तेनैव कुशलमूलेन दुःखस्यान्तं करिष्यति, एतावत् तथागतशरीरपूजायाः फलम् इमां पुनः प्रज्ञापारमिताम् उद्गृहन् धारयन् वाचयन् पर्यवाप्नुवन् योनिशश् च मनसिकुर्वन् समाधिपारमितां च परिपूरयिष्यन्ति, वीर्यपारमितां च परिपूरयिष्यन्ति, क्षान्तिपारमितां च परिपूरयिष्यन्ति, शीलपारमितां च परिपूरयिष्यन्ति, दानपारमितां च परिपूरयिष्यन्ति.
अध्यात्मशून्यतां परिपूरयिष्यति, बहिर्धाशून्यतां परिपूरयिष्यति, अध्यात्मबहिर्धाशून्यतां परिपूरयिष्यति, शून्यताशून्यतां परिपूरयिष्यति, महाशून्यतां परिपूरयिष्यति, परमार्थशून्यतां परिपूरयिष्यति, संस्कृतशून्यतां परिपूरयिष्यति, असंस्कृतशून्यतां परिपूरयिष्यति, ( श्स्प्_इइ-4_114 ) अत्यन्तशून्यतां परिपूरयिष्यति, अनवराग्रशून्यतां परिपूरयिष्यति, अनवकारशून्यतां परिपूरयिष्यति, प्रकृतिशून्यतां परिपूरयिष्यति, सर्वधर्मशून्यतां परिपूरयिष्यति, स्वलक्षणशून्यतां परिपूरयिष्यति, अनुपलम्भशून्यतां परिपूरयिष्यति, अभावशून्यतां परिपूरयिष्यति, स्वभावशून्यतां परिपूरयिष्यति, अभावस्वभावशून्यतां परिपूरयिष्यति.
चत्वारि स्मृत्युपस्थानानि परिपूरयिष्यति, चत्वारि सम्यक्प्रहाणानि परिपूरयिष्यति, चतुर ऋद्धिपादान् परिपूरयिष्यति, पञ्चेन्द्रियाणि परिपूरयिष्यति, पञ्च बलानि परिपूरयिष्यति, सप्त बोध्यङ्गानि परिपूरयिष्यति, आर्याष्टाङ्गमार्गं परिपूरयिष्यति. चत्वार्य् आर्यसत्यानि परिपूरयिष्यति, चत्वारि ध्यानानि परिपूरयिष्यति, चत्वार्य् अप्रमाणानि परिपूरयिष्यति, चतस्र आरूप्यसमापत्तिः परिपूरयिष्यति, अष्टौ विमोक्षान् परिपूरयिष्यति, नवानुपूर्वविहारसमापत्तीः परिपूरयिष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिपूरयिष्यति, पञ्चाभिज्ञाः परिपूरयिष्यति, समाधीन् परिपूरयिष्यति, धारणीमुखानि परिपूरयिष्यति, दश तथागतबलानि परिपूरयिष्यति, चत्वारि वैशारद्यानि परिपूरयिष्यति, चतस्रः प्रतिसंविदः परिपूरयिष्यति, महामैत्रीं परिपूरयिष्यति, महाकरुणां परिपूरयिष्यति, अष्टादशावेणिकबुद्धधर्मान् परिपूरयिष्यति.
श्रावकभूमिं च प्रत्येकबुद्धभूमिं चातिक्रम्य बोधिसत्त्वनियामम् अवक्रमिष्यति, बोधिसत्त्वनियामम् अवक्रम्य बोधिसत्त्वाभिज्ञाः प्रतिलप्स्यते, बोधिसत्त्वाभिज्ञा प्रतिलभ्य बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यति, स संचिन्त्यात्मभावं परिगृहीष्यति, यैर् आत्मभावः सत्त्वपरिपाको भविष्यति, यदि वा चक्रवर्ताश्रयं यदि वा क्षत्रियमहाशालकुलेषु यदि वा ब्राह्मणमहाशालकुलेषु यदि वा गृहपतिमहाशालकुलेषु यदि वा शक्ररूपेण यदि वा ब्राह्मणरूपेण यदि वा वैश्रमणरूपेण स तैर् आत्मभावैः सत्त्वान् परिपाचयिष्यति, तस्मात् तर्हि भगवन् न मम तथागतशरीरेष्व् अगौरवं नाप्य् अप्रत्यया नाप्य् अपूजयितुकामता नाप्य् अग्रहीतुकामता.
अपि तु खलु पुनर् भगवन् कुलपुत्रेण वा कुलदुहित्रा वा इमां प्रज्ञापारमितां सत्कुर्वता गुरुकुर्वता मानयता पूजयत सर्वबुद्धधर्माणां हेतुर् उपचितो भवति सर्वसंपत्तयश् च परिगृहीता भवन्ति, तथागतशरीराणि सत्कृता भवन्ति गुरुकृतानि भवन्ति यानि तानि भवन्ति पूजितानि भवन्ति.
पुनर् अपरं भगवन् ये दशसु दिक्षु तथागता अर्हन्तः सम्यक्संबुद्धा ( श्स्प्_इइ-4_115 ) अप्रमेयासंख्येयेषु लोकधातुषु तिष्ठन्ति ध्रियते यापयन्ति धर्मं देशयन्ति तान् ध्हर्मकायेन च ज्ञानकायेन च द्रष्टुकामेन पूजयितुकामेन इयं प्रज्ञापारमितोद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या पूजयितव्या परेभ्यश् च विस्तरेण संप्रकाशयितव्या योनिशश् च मनसिकर्तव्या, स कुलपुत्रो वा कुलदुहिता वा दशसु दिक्ष्व् अप्रमेयासख्येयेषु लोकधातुषु तां तथागतान् अर्हतः सम्यक्संबुद्धां द्रक्ष्यति. एवं खलु तेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां च तां बुद्धान् अनुस्मृतिभावयितव्या धर्मतया.
पुनर् अपरं भगवंस् तां तथागतान् अर्हतः सम्यक्संबुद्धान् संद्रष्टुकामेन, कुलपुत्रेण वा कुलदुहित्रा वा इयं प्रज्ञापारमितोद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या पूजयितव्या परेभ्यश् च विस्तरेण संप्रकाशयितव्या योनिशश् च मनसिकर्तव्या, धर्मताया द्वे इमे भगवन् धर्मता.
कतमे द्वे संस्कृता च धर्माणां धर्मता असंस्कृता च धर्माणां धर्मता असंस्कृता च धर्माणां धर्मता?
तत्र भगवन् कतमा संस्कृतानां धर्मता? यद् अध्यात्मशून्यतायं ज्ञानं यद् बहिर्धाशून्यतायां ज्ञानं यद् अध्यात्मबहिर्धाशून्यतयां ज्ञानं यद् शून्यताशून्यतायां ज्ञानं यद् महाशून्यतायां ज्ञानं यद् परमार्थशून्यतायां ज्ञानं यद् संस्कृतशून्यतायां ज्ञानं यद् असंस्कृतशून्यतायां ज्ञानं यद् अत्यन्तशून्यतायां ज्ञानं यद् अनवराग्रशून्यतायां ज्ञानं यद् अनवकारशून्यतायां ज्ञानं यद् प्रकृतिशून्यतायां ज्ञानं यद् सर्वधर्मशून्यतयां ज्ञानं यद् स्वलक्षणशून्यतायां ज्ञानं यद् अनुपलम्भशून्यतायां ज्ञानं यद् अभावशून्यतायां ज्ञानं यद् स्वभावशून्यतायां ज्ञानं यद् अभावस्वभावशून्यतायां ज्ञानम्.
यच् चतुर्षु स्मृत्युपस्थानानेषु ज्ञानं, यच् चतुर्षु सम्यक्प्रहाणानेषु ज्ञानं, यच् चतुर्ष्व् ऋद्धिपादेषु ज्ञानं, यत् पञ्चस्व् इन्द्रियेषु ज्ञानं, यत् पञ्चसु बलेषु ज्ञानं, यत् सप्तसु बोध्यङ्गेषु ज्ञानं, यद् आर्याष्टाङ्गे मर्गे ज्ञानं, यच् चतुर्ष्व् आर्यसत्येषु ज्ञानं, यच् चतुर्षु ध्यानेषु ज्ञानं, यच् चतुर्ष्व् अप्रमाणेषु ज्ञानं, यच् चतसृष्व् आरूप्यसमापत्तिषु ज्ञानं, यद् अष्टासु विमोक्षेषु ज्ञानं, यन् नवानुपूर्वविहारसमापत्तिषु ज्ञानं, यञ् छून्यतानिमित्ताप्रणिहितेषु विमोक्षमुखेषु ज्ञानं, यत् पञ्चस्व् अभिज्ञासु ज्ञानं, यत् सर्वसमाधिषु ज्ञानं, यत् सर्वधारणीमुखेषु ज्ञानं, यद् दशसु तथागतबलेषु ज्ञानं, यच् ( श्स्प्_इइ-4_116 ) चतुर्षु वैशारद्येषु ज्ञानं, यच् चतसृषु प्रतिसंवित्सु ज्ञानं, यन् महामैत्र्यां ज्ञानं, यन् महाकरुणायां ज्ञानं, यद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु ज्ञानं, यत् कुशलेषु धर्मेषु ज्ञानं, यद् अकुशलेषु धर्मेषु ज्ञानं, यत् साश्रवेषु धर्मेषु ज्ञानं, यद् अनाश्रवेषु धर्मेषु ज्ञानं, यल् लौकिकेषु धर्मेषु ज्ञानं, यल् लोकोत्तरेषु धर्मेषु ज्ञानं, इयम् उच्यते संस्कृतानां धर्माणां धर्मता.
तत्र कतमा असंस्कृतानां धर्माणां धर्मता? यस्या नोत्पादो न निरोधो न स्थानं न स्थितो नान्यथात्वं न संक्लेशो न व्यवदानं न हानिर् न वृद्धिर् या सर्वधर्माणां स्वभावता,
कतमा च सर्वधर्माणां स्वभावता? अभावस्वभावा हि सर्वधर्मा इयम् उच्यते, असंस्कृतानां धर्माणां धर्मता.
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमितां आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः, ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागतार्हन्तः सम्यक्संबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, ये ऽपि ते एतर्हि दशदिग् लोकधातुष्व् अप्रमेयेष्व् असंख्येयेषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्ह्रियन्ते यापयन्ति धर्मं देशयन्ति, ते ऽपीमाम् एव प्रज्ञापारमितायाम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते, ये ऽपि ते ऽभूवन्न् अतीतानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां श्रावकाः, ये ऽपि ते भविष्यन्त्य् अनागतानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां श्रावकाः, ये ऽप्य् एतर्हि प्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां श्रावकाः, ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्य स्रोतआपत्तिफलं प्राप्ताः प्राप्स्यन्ति प्राप्नुवन्ति च, सकृदागामिफलं प्राप्ताः प्राप्स्यन्ति प्राप्नुवन्ति च, अनागामिफलं प्राप्ताः प्राप्स्यन्ति प्राप्नुवन्ति च, अर्हत्त्वं प्राप्ताः प्राप्स्यन्ति प्राप्नुवन्ति च, ये ऽपि ते ऽभूवन्न् अतिते ऽध्वनि प्रत्येकबुद्धाः, ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि प्रत्येकबुद्धा, ये ऽपि ते एतर्हि अप्रमेयासंख्येयेषु लोकधातुषु प्रत्येकबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति तैर् अपीमाम् एव प्रज्ञापारमिताम् आगम्य प्रत्येकबोधिः प्राप्ताः प्राप्स्यते प्राप्यते च. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमिताया सर्वाणि त्रीणि यानानि विस्तरेणोपदिष्टानि, तानि पुनर् अनिमित्तयोगेनानुपलम्भयोगेनानुत्पादयोगेनानिरोधयोगेनाससंक्लेशयोगेनाव्यवदानयोगेनानभिसंस्कारयोगेनानायूहयोगेनानिर्युहयोगेनानुक्षेपयोगेनाप्रक्षेपयोगेनानुग्रहयोगेनानुत्सर्गयोगेन ( श्स्प्_इइ-4_117 ) तत् पुनर् लोकव्यवहारेण न परमार्थेन. तत् कस्य हेतोः? न हि प्रज्ञापारमिता आरमिता न पारमिता न हि प्रज्ञापारमिता अपारो न पारः, न स्थलं न निम्नं न समं न विषमं न निमित्तं नानिमित्तं न लौकिकी न लोकोत्तरा न संस्कृता नासंस्कृता न कुशला नाकुशला नातीता नानागता न प्रत्युत्पन्ना, न हि कौशिक प्रज्ञापारमिता बुद्धधर्मानां दात्री, न हि कौशिक प्रज्ञापारमिता स्रोतआपत्तिधर्माणां दात्री, न हि कौशिक प्रज्ञापारमिता सकृदागामिधर्माणां दात्री, न हि कौशिक प्रज्ञापारमिता अनागामिधर्माणां दात्री, न हि कौशिक प्रज्ञापारमिता अर्हद्धर्माणां दात्री न हि कौशिक प्रज्ञापारमिता प्रत्येकबुद्धधर्माणां दात्री, न हि कौशिक प्रज्ञापारमिता पृथग्जनधर्माणां दात्री.
[क्. 200ब्10, न्. 395अ1, त्. 317अ9, प्. 276अ7, छ्. 706अ10]
शक्र आह: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता, अत्र भगवन् बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः सर्वसत्त्वानां चित्तचरितानि प्रजानन्ति न सत्त्वम् उपलभते न सत्त्वप्रज्ञप्तिम् उपलभते नात्मनम् उपलभते न सत्त्वम् उपलभते न जीवम् उपलभते न जन्तुम् उपलभते न पोषम् उपलभते न पुरुषम् उपलभते न पुद्गलम् उपलभते न मनुजम् उपलभते न मानवम् उपलभते न कारकम् उपलभते न वेदकम् उपलभते न जानकम् उपलभते न पश्यकम् उपलभते.
न रूपम् उपलभते, न वेदनाम् उपलभते, न संज्ञाम् उपलभते, न संस्काराम् उपलभते, न विज्ञानम् उपलभते.
न चक्षुर् उपलभते, न श्रोत्रम् उपलभते, न घ्राणम् उपलभते, न जिह्वाम् उपलभते, न कायम् उपलभते, न मनसम् उपलभते.
न रूपम् उपलभते, न शब्दम् उपलभते, न गन्धम् उपलभते, न रसम् उपलभते, न स्पर्शम् उपलभते, न धर्मान् उपलभते.
न चक्षुर्विज्ञानम् उपलभते, न श्रोत्रविज्ञानम् उपलभते, न घ्राणविज्ञानम् उपलभते, न जिह्वाविज्ञानम् उपलभते, न कायविज्ञानम् उपलभते, न मनोविज्ञानम् उपलभते.
न चक्षुःसंस्पर्शम् उपलभते, न श्रोत्रसंस्पर्शम् उपलभते, न घ्राणसंस्पर्शम् उपलभते, न जिह्वासंस्पर्शम् उपलभते, न कायसंस्पर्शम् उपलभते, न मनःसंस्पर्शम् उपलभते.
न चक्षुःसंस्पर्शप्रत्ययवेदनाम् उपलभते, न श्रोत्रसंस्पर्शप्रत्ययवेदनाम् उपलभते, न घ्राणसंस्पर्शप्रत्ययवेदनाम् उपलभते, ( श्स्प्_इइ-4_118 ) न जिह्वासंस्पर्शप्रत्ययवेदनाम् उपलभते, न कायसंस्पर्शप्रत्ययवेदनाम् उपलभते, न मनःसंस्पर्शप्रत्ययवेदनाम् उपलभते.
न पृथिवीधातुम् उपलभते, नाब्धातुम् उपलभते, न तेजोधातुम् उपलभते, न वायुधातुम् उपलभते, नाकाशधातुम् उपलभते, न विज्ञानधातुम् उपलभते.
नाविद्याम् उपलभते, न संस्काराम् उपलभते, न विज्ञानम् उपलभते, न नामरूपम् उपलभते, न षडायतनम् उपलभते, न स्पर्शम् उपलभते, न वेदनाम् उपलभते, न तृष्णाम् उपलभते, नोपादानम् उपलभते, न भवम् उपलभते, न जातिम् उपलभते, न जरामरणम् उपलभते.
न दानपारमिताम् उपलभते, न शीलपारमिताम् उपलभते, न क्षान्तिपारमिताम् उपलभते, न वीर्यपारमिताम् उपलभते, न ध्यानपारमिताम् उपलभते, न प्रज्ञापारमिताम् उपलभते.
नाध्यात्मशून्यताम् उपलभते, न बहिर्धाशून्यताम् उपलभते, नाध्यात्मबहिर्धाशून्यताम् उपलभते, न शून्यताशून्यताम् उपलभते, न महाशून्यताम् उपलभते, न परमार्थशून्यताम् उपलभते, न संस्कृतशून्यताम् उपलभते, नासंस्कृतशून्यताम् उपलभते, नात्यन्तशून्यताम् उपलभते, नानवराग्रशून्यताम् उपलभते, नानवकारशून्यताम् उपलभते, न प्रकृतिशून्यताम् उपलभते, न सर्वधर्मशून्यताम् उपलभते, न स्वलक्षणशून्यताम् उपलभते, नानुपलम्भशून्यताम् उपलभते, नाभावशून्यताम् उपलभते, न स्वभावशून्यताम् उपलभते, नाभावस्वभावशून्यताम् उपलभते.
न स्मृत्युपस्थानान्य् उपलभन्ते, न सम्यक्प्रहाणान्य् उपलभन्ते, न र्द्धिपादान् उपलभन्ते, नेन्द्रियान्य् उपलभन्ते, न बलान्य् उपलभन्ते, न बोध्यङ्गान्य् उपलभन्ते, नार्याष्टाङ्गो मार्गम् उपलभन्ते, नार्यसत्यान्य् उपलभन्ते, न ध्यानान्य् उपलभन्ते, नाप्रमाणान्य् उपलभन्ते, नारूप्यसमापत्तीर् उपलभन्ते, नाष्टौ विमोक्षाम् उपलभन्ते, न नवानुपूर्वविहारसमापत्तीर् उपलभन्ते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् उपलभन्ते, नाभिज्ञा उपलभन्ते, न समाधीन् उपलभन्ते, न धारणीमुखान्य् उपलभन्ते, न दशतथागतबलान्य् उपलभन्ते, न वैशारद्यान्य् उपलभन्ते, न प्रतिसंविद उपलभन्ते, न महामैत्रीम् उपलभन्ते, न महाकरुणाम् उपलभन्ते, नावेणिकबुद्धधर्मान् उपलभन्ते, न स्रोतआपत्तिफलम् उपलभन्ते, न सकृदागामिफलम् ( श्स्प्_इइ-4_119 ) उपलभन्ते, नानागामिफलम् उपलभन्ते, नार्हत्त्वम् उपलभन्ते, न प्रत्येकबोधिम् उपलभन्ते, न मार्गाकारज्ञताम् उपलभन्ते, न सर्वाकारज्ञताम् उपलभन्ते, न बोधिसत्त्वम् उपलभन्ते, न बुद्धम् उपलभन्ते, न बुद्धधर्मान् उपलभन्ते.
न हि प्रज्ञापारमितोपलम्भयोगेन प्रत्युपस्थिता. तत् कस्य हेतोः? तथा हि तस्याः स्वभावो न संविद्यते येनोपलभेत् यद् वोपपलभेत् यत्र वोपलभेत्.
[क्. 201अ8, न्. 396अ2, त्. 318अ3, प्. 278अ6, छ्. 706च्7]
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, यथा हि तद् दीर्घरात्रौ बोधिसत्त्वो महासत्त्वो ऽनुपलम्भयोगेन प्रज्ञापारमितायां चरतः स बोधिम् अपि नोपलभ्हते प्राग् एव बुद्धं प्राग् एव बुद्धधर्मान्.
शक्र आह: पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति न तदन्यासु पारमितासु.
भगवान् आह: सर्वासु कौशिक षड्पारमितासु बोधिसत्त्वो महासत्त्वश् चरति तच् चानुपलम्भयोगेन. स दानम् अपि नोपलभते दायकम् अपि नोपलभते प्रतिग्राहकम् अपि नोपलभते, शीलम् अपि नोपलभते शीलवन्तम् अपि नोपलभते दौःशीलम् अपि नोपलभते, क्षान्तिम् अपि नोपलभते क्षमीनम् अपि नोपलभते व्यापादम् अपि नोपलभते, वीर्यम् अपि नोपलभते वीर्यवन्तम् अपि नोपलभते कौशीद्यम् अपि नोपलभते, ध्यानम् अपि नोपलभते ध्यायिनम् अपि नोपलभते विक्षेपम् अपि नोपलभते, प्रज्ञाम् अपि नोपलभते प्रज्ञावन्तम् अपि नोपलभते दौष्प्रज्ञम् अपि नोपलभते.
अपि तु खलु पुनः कौशिक प्रज्ञापारमिता पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य दानं ददतो दानपारमितापरिपूरये, प्रज्ञापारमितैव पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य शीलं रक्षतः शीलपारमितापरिपूरये, प्रज्ञापारमितैव पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य क्षान्त्या संपादाय क्षान्तिपारमितापरिपूरये, प्रज्ञापारमितैव पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य वीर्यम् आलम्भमानस्य वीर्यपारमितापरिपूरये, प्रज्ञापारमितैव पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य ध्यानानि समापद्यमानस्य ध्यानपारमितापरिपूरये, प्रज्ञापारमितैव पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य धर्मान् विविक्ततः प्रज्ञापारमितापरिपूरये सर्वधर्मानुपलम्भयोगेन.
रूपस्यानुपलम्भयोगेन, वेदनाया अनुपलम्भयोगेन, संज्ञाया ( श्स्प्_इइ-4_120 ) अनुपलम्भयोगेन, संस्काराणाम् अनुपलम्भयोगेन, विज्ञानस्यानुपलम्भयोगेन.
चक्षुषो ऽनुपलम्भयोगेन, श्रोत्रस्यानुपलम्भयोगेन, घ्राणस्यानुपलम्भयोगेन, जिह्वाया अनुपलम्भयोगेन, कायस्यानुपलम्भयोगेन, मनसो ऽनुपलम्भयोगेन.
रूपस्यानुपलम्भयोगेन, शब्दस्यानुपलम्भयोगेन, गन्धस्यानुपलम्भयोगेन, रसस्यानुपलम्भयोगेन, स्पर्शस्यानुपलम्भयोगेन, धर्माणाम् अनुपलम्भयोगेन.
चक्षुर्विज्ञानस्यानुपलम्भयोगेन, श्रोत्रविज्ञानस्यानुपलम्भयोगेन, घ्राणविज्ञानस्यानुपलम्भयोगेन, जिह्वाविज्ञानस्यानुपलम्भयोगेन, कायविज्ञानस्यानुपलम्भयोगेन, मनोविज्ञानस्यानुपलम्भयोगेन.
चक्षुःसंस्पर्शस्यानुपलम्भयोगेन, श्रोत्रसंस्पर्शस्यानुपलम्भयोगेन, घ्राणसंस्पर्शस्यानुपलम्भयोगेन, जिह्वासंस्पर्शस्यानुपलम्भयोगेन, कायसंस्पर्शस्यानुपलम्भयोगेन, मनःसंस्पर्शस्यानुपलम्भयोगेन.
चक्षुःसंस्पर्शजावेदनाया अनुपलम्भयोगेन, श्रोत्रसंस्पर्शजावेदनाया अनुपलम्भयोगेन, घ्राणसंस्पर्शजावेदनाया अनुपलम्भयोगेन, जिह्वासंस्पर्शजावेदनाया अनुपलम्भयोगेन, कायसंस्पर्शजावेदनाया अनुपलम्भयोगेन, मनःसंस्पर्शजावेदनाया अनुपलम्भयोगेन.
पृथिवीधातोर् अनुपलम्भयोगेन, अब्धातोर् अनुपलम्भयोगेन, तेजोधातोर् अनुपलम्भयोगेन, वायुधातोर् अनुपलम्भयोगेन, आकाशधातोर् अनुपलम्भयोगेन, विज्ञानधातोर् अनुपलम्भयोगेन.
अविद्याया अनुपलम्भयोगेन, संस्काराणाम् अनुपलम्भयोगेन, विज्ञानस्यानुपलम्भयोगेन, नामरूपस्यानुपलम्भयोगेन, षडायतनस्यानुपलम्भयोगेन, स्पर्शस्यानुपलम्भयोगेन, वेदनाया अनुपलम्भयोगेन, तृष्णाया अनुपलम्भयोगेन, उपादानस्यानुपलम्भयोगेन, भवस्यानुपलम्भयोगेन, जातेर् अनुपलम्भयोगेन, जरामरणस्यानुपलम्भयोगेन.
दानपारमिताया अनुपलम्भयोगेन, शीलपारमिताया अनुपलम्भयोगेन, क्षान्तिपारमिताया अनुपलम्भयोगेन, वीर्यपारमिताया अनुपलम्भयोगेन, ध्यानपारमिताया अनुपलम्भयोगेन, प्रज्ञापारमिताया अनुपलम्भयोगेन.
अध्यात्मशून्यताया अनुपलम्भयोगेन, बहिर्धाशून्यताया अनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यताया अनुपलम्भयोगेन, शून्यताशून्यताया अनुपलम्भयोगेन, महाशून्यताया अनुपलम्भयोगेन, परमार्थशून्यताया अनुपलम्भयोगेन, संस्कृतशून्यताया अनुपलम्भयोगेन, असंस्कृतशून्यताया अनुपलम्भयोगेन, अत्यन्तशून्यताया अनुपलम्भयोगेन, अनवराग्रशून्यताया अनुपलम्भयोगेन, अनवकारशून्यताया अनुपलम्भयोगेन, प्रकृतिशून्यताया अनुपलम्भयोगेन, सर्वधर्मशून्यताया अनुपलम्भयोगेन, स्वलक्षणशून्यताया अनुपलम्भयोगेन, अनुपलम्भशून्यताया अनुपलम्भयोगेन, अभावशून्यताया अनुपलम्भयोगेन, स्वभावशून्यताया अनुपलम्भयोगेन, अभावस्वभावशून्यताया अनुपलम्भयोगेन.
चतुर्णां स्मृत्युपस्थानानाम् अनुपलम्भयोगेन, चतुर्णां सम्यक्प्रहाणानाम् अनुपलम्भयोगेन, चतुर्णाम् ऋद्धिपादानाम् अनुपलम्भयोगेन, पञ्चानाम् इन्द्रियाणाम् अनुपलम्भयोगेन, पञ्चानां बलानाम् अनुपलम्भयोगेन, सप्तानं बोध्यङ्गानाम् अनुपलम्भयोगेन, आर्याष्टाङ्गस्य मार्गस्यानुपलम्भयोगेन, चतुर्णाम् आर्यसत्यानाम् अनुपलम्भयोगेन, चतुर्णां ध्यानानाम् अनुपलम्भयोगेन, चतुर्णाम् अप्रमाणानाम् अनुपलम्भयोगेन, चतसृणाम् आरूप्यसमापत्तीनाम् अनुपलम्भयोगेन, अष्टानां विमोक्षाणाम् अनुपलम्भयोगेन, नवानाम् अनुपूर्वविहारसमापत्तीनाम् अनुपलम्भयोगेन. शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुपलम्भयोगेन, पञ्चानाम् अभिज्ञानाम् अनुपलम्भयोगेन, सर्वसमाधीनाम् अनुपलम्भयोगेन, सर्वधारणीमुखानाम् अनुपलम्भयोगेन, दशानां तथागतबलानाम् अनुपलम्भयोगेन, चतुर्णां वैशारद्यानाम् अनुपलम्भयोगेन, चतसृणां प्रतिसंविदाम् अनुपलम्भयोगेन, महामैत्र्या अनुपलम्भयोगेन, महाकरुणायाम् अनुपलम्भयोगेन, अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् अनुपलम्भयोगेन, स्रोतआपत्तिफलस्यानुपलम्भयोगेन, सकृदागामिफलस्यानुपलम्भयोगेन, अनागामिफलस्यानुपलम्भयोगेन, अर्हत्त्वस्यानुपलम्भयोगेन, प्रत्येकबोधेर् अनुपलम्भयोगेन, मार्गाकारज्ञताया अनुपलम्भयोगेन, सर्वाकारज्ञताताया अनुपलम्भयोगेन.
तद् यथापि नाम कौशिक जाम्बूद्वीपकानां वृक्षाणां नानापत्राणां नानापुष्पाणां नानाफलानां नानासंख्यानां नानारोहपरिणाहानां तेषां छायाया विशेषो वा नानाकरणं वा नोपलभ्यते, अन्यत्र च्छाया च्छायेत्य् एवं संख्यां गच्छन्ति. एवम् एव कौशिक पञ्चानां ( श्स्प्_इइ-4_122 ) पारमितानां प्रज्ञापारमिता परिगृहीतानां सर्वज्ञज्ञानपरिणामितानां च विशेषो नानाक्रणं वोपलभ्यते.
शक्र आह: महागुणसमन्वागता भगवन् प्रज्ञापारमिता, सर्वगुणपरिपूरिका, अप्रमेयगुणसमन्वागता भगवन् प्रज्ञापारमिता अप्रमाणगुणसमन्वागता अपर्यन्तगुणसमन्वगता भगवन् प्रज्ञापारमिता अपर्यवसानगुणसमन्वागतया तया हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा धारयेत् ताश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् उत्तरे च यथोपदिष्टां प्रज्ञापारमितां योनिशो मनसिकुर्याद् यो ऽपि कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकगतां कृत्वा परस्मै दद्यात् कतरस् तयोर् बहुतरं पुण्यं प्रसवेत्?
भगवान् आह: तेन हि कौशिक त्वाम् एवात्र परिपक्ष्यामि, यथा ते क्षमते तथा व्याकुरु. तत् किं मन्यसे? कौशिक यः कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वद्यैः, यश् च कुलपुत्रो वा कुलदुहिता वा सर्षपफलमात्रं तथागतशरीरं परस्मै दद्यात् संविभागं कुर्यात् सो ऽपि कुलपुत्रो वा कुलदुहिता वा, तत् सर्षपफलमात्रं तथागतशरीरं गृहीत्वा सत्कुयाद् गुरुक्रुयात् मानयेत् पूजयेत् पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः, कतरस् तयोर् बहुतरं पुण्यं प्रसवेत्.
शक्र आह: यथाहं भगवन् भगवता भाषितस्वार्थम् आजानामि, यो यं कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् धवजैः पताकाभिर् विविधैश् च वाद्यैः, यो ऽपि परस्मै सर्षपफलमात्रं तथागतशरीरं दद्याद् अयं ततो बहुतरं पुण्यं प्रसवेत्, इमम् एव भगवन्न् अर्थवशं संपश्यत्, तथागतेनार्हता सम्यक्संबुद्धेन वज्रोपमं समाधिः समापद्यः वज्रोपमम् आत्मभावं भित्त्वा तथागतशरीराण्य् अधिष्ठितानि महाकरुणां संजनय्य सत्त्वकाये तथागतधातुवैनयिकानां सत्त्वानाम्. तत् कस्य हेतोः? ये हि केचिद् भगवन् तथगतस्यान्तसः सर्षपफलमात्रं धातुं पूजयिष्यन्ति विविधाभिः पूजाभिः सर्वे ते तस्य कुशलमूलस्य पर्यन्तम् ( श्स्प्_इइ-4_123 ) अधिगम्य दुःखस्यान्तं करिष्यन्ति.
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकगतां कृत्वा सत्कुर्याद् गुरुक्रुयाद् मानयेत् पूजयेत् पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् चेमां प्रज्ञापारमितां परस्मै लिखित्वा दद्याद् धर्मप्रीत्या अयं स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
[क्. 202अ11, न्. 398ब्2, त्. 319ब्11, प्. 281ब्6, छ्. 709अ18]
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां यथोपदिष्टा परेभ्यो गत्वा आचक्षीत् देशयेत् संप्रकाशयेत् विचरेत् विभजेत् उत्तानीकुर्याद् अयं स कुलपुत्रो वा कुलदुहिता वा तेषां पूर्वकानां कुलपुत्राणां कुलदुहितॄणाञ् चान्तिकाद् बहुतरं पुण्यं प्रसवेत्, शास्तैव संप्रतिकाङ्क्षितव्यान्यतरान्यतरीया गुरुस्थानीया विज्ञाः सब्रह्मचारी. तत् कस्य हेतोः? एष एवात्र कौशिक शास्ता यद् उत प्रज्ञापारमिता न ह्य् अन्यः शास्तान्या प्रज्ञापारमिता प्रज्ञापारमितैव शास्ता शास्तैः प्रज्ञापारमिता. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षमाणैर् अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुध्यते ऽभिसंभोत्स्यते च, ये ऽपि ते विज्ञाः सब्रह्मचारिणस् ते ऽपि नान्ये अन्यत्रावैवर्तिकबोधिसत्त्वेभ्यो यत्र प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते ऽभिसंभोत्स्यते च. अत्र हि कौशिक प्रज्ञापारमितायां श्रावकयानिका अपि शिक्षित्वा स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिका अपि शिक्षित्वा प्रत्येकबोधिन् अभिसंबुद्धा अभिसंवुद्ध्यते अभिसंभोत्स्यते च, बोधिसत्त्वा अपि महासत्त्वाः शिक्षित्वा बोधिसत्त्वनियमम् अवक्रान्ता अवक्रामन्ति अवक्रामिष्यन्ति च, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्धान्ते अभिसंभोत्स्यन्ते च.
तस्मात् तर्हि कौशिक कुलपुत्रैर् वा कुलदुहितृभिर् वा तथागतान् अर्हतः सयक्षंबुद्धानां मुखं सत्कर्तुकामैर् गुरुकर्तुकामैर् मानयितुकामैः पूजयितुकामैः पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्याः पुष्पैर् ( श्स्प्_इइ-4_124 ) माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् इमं चार्थवशं संपश्यतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्यैतद् अभूत्, कतमद् अहं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्राय विहरेयं सो ऽहं कौशिक सदेवके लोके समारके सब्रह्मके सश्रवणब्राह्मणिकायां प्रजायां सदेवमानुषासुरायाम् आत्मनः सदृशं चाधिकं वा न समनुपश्यामि, तस्य ममैतद् अभूद्, य न्व् एव मया धर्माभिसंबुद्धः शान्तः प्रणीतस् तम् एव धर्मं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्राय विहरेयं कतमश् चासौ कौशिक धर्मा यद् उत सैव प्रज्ञापारमिता अहम् एव तावत् कौशिकेमां प्रज्ञापारमितां सत्करोमि गुरुकरोमि मानयामि पूजयामि सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्राय विहरामि, किम् अङ्ग पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामेनेयं प्रज्ञापारमिता न सत्कर्तव्या न गुरुकर्तव्या न मानयितव्या न पूजयितव्या पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः, श्रावकयानिकैर् वा कौशिक कुलपुत्रैर् वा कुलदुहितृभिर् वा प्रत्येकबुधयानिकैर् अपि कुलपुत्रैर् वा कुलदुहितृभिर् वा इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् धवजैः पताकाभिर् विविधैश् च वाद्यैः. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि बोधिसत्त्वा महासत्त्वा बोधिसत्त्वनिर्याताश् च तथागता अर्हन्तः सम्यक्संबुद्धस् तथागतनिर्याताः श्रावकप्रत्येकबुद्धास् तस्मात् तर्हि कौशिक बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहितृभिर् वा श्रावकयानिकैश् च प्रत्येकबुद्धयनिकैश् च कुलपुत्रैः कुलदुहितृभिर् वा इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् धवजैः पताकाभिर् विविधैश् च वाद्यैः. यत्र शिक्षित्वा कुलपुत्रा कुलदुहितरश् चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्ध्यन्ते ऽभिसंभोत्स्यन्ते च श्रावकयानिकाश् चार्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च प्रत्येकबुद्धयानीकाश् च प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च.
शतसाहस्र्याः प्रज्ञापारमितया द्वाविंशतितमः परिवर्तः
[क्. 2ओ2ब्11, न्. 399ब्3, त्. 32ओब्6, प्. 283ब्4, छ्. 709च्23]
अथ भगवाञ् छक्रं देवानाम् इन्द्रम् आमन्त्रयेत: सचेत् कौशिक जाम्बूद्वीपकान् सत्त्वान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानां बहुपुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुपुण्यं प्रसवेत् यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात् पठनाय वा लिखनाय वा वाचनाय वा. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र शिक्षित्वा कुलपुत्रा कुलदुहितरश् च सम्यक्त्वन्यामम् अवक्रान्ताश् चावक्रमन्ति च अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, अनगामिफलं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, अनुत्तरा सम्यक्संबोधिं संप्रस्थिता सम्यक्त्वन्यामम् अवक्रान्ताश् चावक्रमन्ति चावक्रमिष्यन्ति च, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते.
कतमे च ते कौशिक सास्रवा धर्मा विस्तरेणोपदिष्टाः? यद् उत चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यानि.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यत्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महाकरुणा अष्टादशावेणिकबुद्धधर्मः,
इमे ते कौशिक अनास्रवा धर्मा ये प्रज्ञापारमितया निर्दिष्टा यत्र शिक्षित्वा कुलपुत्राः कुलदुहितरश् चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाश् चाभिसंबुध्यन्ते चाभिसंभोत्स्यन्ते च, एवं कौशिकैकं सत्त्वं स्रोतआपत्तिफले प्रतिष्ठाप्य कुलपुत्रो वा कुलदुहिता वा ( श्स्प्_इइ-4_126 ) बहुतरं पुण्यं प्रसवेत्, न त्व् एव जाम्बूद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. तत् कस्य हेतोः? दशसु कौशिक कुशलेषु कर्मपथेषु प्रतिष्ठापितः सत्त्वा अपरिमुक्ता एवं नरकतिर्यग्योनेर् यमलोकान् स्रोतआपत्तिफले कौशिक सत्त्वः प्रतिष्ठापितः परिमुक्तो नरकतिर्यग्योनेर् यमलोकान्, कः पुनर् वादः सकृदागामिफले अनागामिफले ऽर्हत्त्वे प्रतिष्ठापयेत्, यश् च पुनः कौशिक सर्वजाम्बूद्वीपकान् सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयेत् सकृदागामिफले प्रतिष्ठापयेद् अनागामिफले प्रतिष्ठापयेद् अर्हत्त्वे प्रतिष्ठापयेत्, यश् चैकं सत्त्वं प्रत्येकबोधौ प्रतिष्ठापयेद् अयम् एव बहुतरं पुण्यं प्रसवेत्, यो वा कश्चित् कुलपुत्रो वा कुलदुहिता वा सर्वजाम्बूद्वीपकान् प्रत्येकबोधौ प्रतिष्ठापयेद् यश् च कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा एकम् अपि सत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेद् अयम् एव बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? बुद्धनेत्र्याः सो व्यवच्छेदाय प्रतिपन्नो भवति, य एकसत्त्वम् अप्य् अनुत्तरायै सम्यक्संबोधये प्रतिष्ठापयति. तत् कस्य हेतोः? बोधिसत्त्वनिर्जाता हि कौशिक स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धा बोधिसत्त्वनिर्याता हि कौशिक तथागता अर्हन्तः सम्यक्संबुद्धास् तद् अनेन कौशिक पर्यायेणैवं वेदितव्यम्. बोधिसत्त्वो ऽपि पूजयितव्यो मानयितव्यः सत्कर्तव्यो गुरुकर्तव्यः पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः, स देवकेन लोकेन समारकेन सश्रवणब्राह्मणिकायाः प्रज्ञायाः, यो हि कश्चित् कौशिक कुलपुत्रो वा कुलधिता वा जाम्बूद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लिखनाय वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्व सम्यक्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतअपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्रप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति ( श्स्प्_इइ-4_127 ) प्राप्स्यन्ति च, बोधिसत्त्वा महासत्त्वा बोधिसत्त्वनियामम् अवक्रान्ता अवक्रमन्त्य् अवक्रमिष्यन्ति च, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमित ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् अर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखनि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखनि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मा महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा उपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते,
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते. अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा ( श्स्प्_इइ-4_128 ) देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धः प्रज्ञायन्ते.
[क्. 203ब्15, न्. 402अ5, त्. 322ब्1, प्. 287ब्1, छ्. 711ब्1]
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वाः यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता ( श्स्प्_इइ-4_129 ) वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा इएखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् चशिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्तो अवक्रमन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च.
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां ( श्स्प्_इइ-4_130 ) विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते,
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः ( श्स्प्_इइ-4_131 ) प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 204ब्1, न्. 403ब्5, त्. 323ब्3, प्. 289ब्4, छ्. 715च्3]
तिष्ठन्तु कौशिक त्रिसाहस्रमहासाहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो या कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च.
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमित प्रज्ञापारमिता.
अध्यत्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, ( श्स्प्_इइ-4_132 ) अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताब्बा देवाः प्रज्ञायन्ते, अप्रमाणभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. पेयालं
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता ( श्स्प्_इइ-4_133 ) प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 1 - -, न्. 405अ6, त्. 324ब्4, प्. 291ब्7, छ्. 717अ8]
तिष्ठन्तु कौशिक सहस्रचूडिका लोकधातुः यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो स्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र ( श्स्प्_इइ-4_134 ) कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च,
कतमे च ते कौशिकानास्रव धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहरसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सन्तधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्रि महाकरुणा महामुदिता महोपेक्षा, अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात्. पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः ( श्स्प्_इइ-4_135 ) प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्साः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, ( श्स्प्_इइ-4_136 ) अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. - - , न्. 406ब्7, त्. 325ब्6, प्. 294अ1, छ्. 718ब्13]
तिष्ठन्तु कौशिक द्विसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च,
स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च,
कतमे ते कौशिकानस्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वर्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि पञ्चाभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि ( श्स्प्_इइ-4_137 ) दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता ( श्स्प्_इइ-4_138 ) प्राज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थनानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञत प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. - -, न्. 408अ9, त्. 326ब्10, प्. 296अ1, छ्. 720अ5]
यावन्तः कौशिक दशषु दिक्षु एकैकस्यां दिशे गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वान्स् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्येत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहुता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता ( श्स्प्_इइ-4_139 ) अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे च ते कौशिकानास्रवा धर्माःतद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता. अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि पञ्चाभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशलकुलानि प्रज्ञायन्ते, गृहपतिमहाशलकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना ( श्स्प्_इइ-4_140 ) देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, दशतथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसम्विदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञयते, स्रोतआपन्नः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धः प्रज्ञायन्ते.
[क्. - -, न्. 410अ1, त्. 328अ1, प्. 298अ3, छ्. 722च्19]
पुनर् अपरं कौशिक ये केचिज् जाम्बूद्वीपका मनुष्यास् तान् कश्चिद् एव कुलपुत्रो वा कुलधिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमापत्तिषु प्रतिष्ठापयेत् ( श्स्प्_इइ-4_141 ) पञ्चस्व् अभिज्ञासु प्रतिष्ट्छापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वा महासत्त्वा बोधिसत्त्वनियामम् अवक्रान्ता अवक्रमन्त्य् अवक्रमिष्यन्ति च, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मा महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा नोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि ( श्स्प्_इइ-4_142 ) प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते,
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देयाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, ( श्स्प्_इइ-4_143 ) तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. - -, न्. 411ब्1, त्. 329अ3, प्. 300अ5, छ्. 724ब्5]
तिष्ठन्तु कौशिक जांबूद्वीपकाः सत्त्वाः यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठापयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्तो अवक्रमन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, ( श्स्प्_इइ-4_144 ) सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते,
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता ( श्स्प्_इइ-4_145 ) प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. - -, न्. 413अ3, त्. 330अ7, प्. 302अ7, छ्. 725च्15]
तिष्ठन्तु कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः यावन्तः कौशिक साहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो या कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठापयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र ( श्स्प्_इइ-4_146 ) प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा, यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता अवक्रमन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रंइष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वद्धारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्द्बधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायपि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते. गृहपतिमहाशालकुलानि प्रज्ञायन्ते,
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यमा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः ( श्स्प्_इइ-4_147 ) प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते, आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, विमोक्षाः प्रज्ञायन्ते, अनुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, ( श्स्प्_इइ-4_148 ) अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. - -, न्. 414ब्4, त्. 331अ10, प्. 304ब्3, छ्. 730अ22]
तिष्ठन्तु कौशिक साहस्रे लोकधातौ सत्त्वाः यावन्तः कौशिक द्विसाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलद्तिहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ःव् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठपयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं लिखित्वा परेभ्यो दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टाः, यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यनपारमिता प्रज्ञापारमिता.
अध्यत्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थनानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपदः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः ( श्स्प्_इइ-4_149 ) शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्म विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्, तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता ( श्स्प्_इइ-4_150 ) प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थाननि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते,
स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धः प्रज्ञायन्ते.
[क्. 205अ6, न्. 416अ6, त्. 332अ12, प्. 306ब्6, छ्. 731ब्28]
तिष्ठन्तु कौशिक द्विसाहस्रे लोकधातौ सत्त्वा यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठापयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टाः, यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च. सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, ( श्स्प्_इइ-4_151 ) अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभवशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षाः, अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यम्. यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां लिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभ देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, ( श्स्प्_इइ-4_152 ) अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शूयतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनगामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 205ब्11, न्. 417ब्7, त्. 333ब्2, प्. 309अ1, छ्. 734ब्30]
यावन्तः कौशिक पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठापयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं लिखितां कृत्वा परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभवशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पऋयायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता ( श्स्प्_इइ-4_154 ) वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलाङि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ( श्स्प्_इइ-4_155 ) ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, अरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते. अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 206अ18, न्. 419अ7, त्. 334ब्4, प्. 311अ4, छ्. * *]
यावन्तः कौशिक दक्षिणस्यां दिशि गङ्गनदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च,
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अर्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः?
तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिक देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभ देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता ( श्स्प्_इइ-4_157 ) प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 207अ3, न्. 420ब्9, त्. 335ब्6, प्. 313अ4, छ्. * *]
यावन्तः कौशिक पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं ( श्स्प्_इइ-4_158 ) पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयनिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमित.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भाशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः शर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि. अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिक देवाः प्रज्ञायन्ते, त्रयस्त्रिंश देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका ( श्स्प्_इइ-4_159 ) देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, ( श्स्प्_इइ-4_160 ) प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 207ब्10, न्. 422अ9, त्. 336ब्9, प्. 315अ5, छ्. * *]
यावन्तः कौशिक उत्तरस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
अह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलंप्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्रप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि ( श्स्प्_इइ-4_161 ) षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्रि महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शन देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यत्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता ( श्स्प्_इइ-4_162 ) प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शूङ्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 208अ15, न्. 423ब्9, त्. 337ब्10. प्. 317ब्1, छ्. * *]
यावन्तः कौशिक उत्तरपूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्रप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः ( श्स्प्_इइ-4_163 ) प्राप्नुवन्ति प्राप्स्यन्ति ःअ, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे ते कौशिकानास्रव धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्रि महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः ( श्स्प्_इइ-4_164 ) प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 208ब्19, न्. 425ब्1, त्. 338ब्13, प्. 319ब्5, छ्. * *]
यावन्तः कौशिक पूर्वदक्षिणस्यां दिशि गङ्गनदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ( श्स्प्_इइ-4_165 ) ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते. कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा ( श्स्प्_इइ-4_166 ) उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रयस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः ( श्स्प्_इइ-4_167 ) प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 209ब्4, न्. 427अ1, त्. 340अ2, प्. 321ब्7, छ्. * *]
यावन्तः कौशिक दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठपयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्रः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, ( श्स्प्_इइ-4_168 ) सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यताणिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टा. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायपि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, याम देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिमितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकशनन्त्ययतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञयतन देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमित प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता ( श्स्प्_इइ-4_169 ) प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि wप्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 210अ7, न्. 428ब्2, त्. 341अ5, प्. 324अ1, छ्. * *]
यावन्तः कौशिक पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः ( श्स्प्_इइ-4_170 ) कुलदुहितरस् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धा अऊन्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुकानि सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, ( श्स्प्_इइ-4_171 ) आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, ( श्स्प्_इइ-4_172 ) बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 210ब्11, न्. 430अ1, त्. 342अ6, प्. 326अ3, छ्. * *]
यावन्तः कौशिकाधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमपत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टदशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा ( श्स्प्_इइ-4_173 ) महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंसा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः ( श्स्प्_इइ-4_174 ) प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयह् प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 211अ15, न्. 431ब्3, त्. 343अ7, प्. 32स6, छ्. * *]
यावन्तः कौशिक उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता,
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना ( श्स्प्_इइ-4_176 ) देवाः प्रज्ञायन्ते.
दानपारन्ञ्ता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते. बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 211ब्19, न्. 433अ5, त्. 344अ10, प्. [32] 1.2, छ्. 736अ8]
पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, योनिशश् च मनसिकरिष्यति, अयम् एव बहुतरं पुण्यं प्रसविष्यति.
न त्व् एव जाम्बूद्वीपकान् मनुष्यान् दशकुशलेषु कर्मपथेषु प्रतिष्ठाप्य चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु ( श्स्प्_इइ-4_177 ) पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, न त्व् एव चातुर्द्वीपके लोकधातौ सर्वसत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठाप्य चतुर्षु ध्यानेषु चतुर्ःव् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, न त्व् एव साहस्रे लोकधातौ सर्वसत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, न त्व् एव द्विसाहस्रे महासाहस्रे लोकधातौ सर्वसत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, न त्व् एव त्रिसाहस्रे महासाहस्रे लोकधातौ सर्वसत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, तत्रायं योनिशो मनस्कारः.
यन् न द्वयचरितया बुद्ध्या नाद्वयचरितया प्रज्ञापारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्व्यचरितया ध्यानपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया वीर्यपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति आधारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्व्यचरितया क्षान्तिपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति आधारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया शीलपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति आधारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्व्यचरितया दानपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति.
न द्वयचरितया बुद्ध्या नाद्वयचरितया अध्यात्मशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया बहिर्धाशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अध्यात्मबहिर्धाशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया शून्यताशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया महाशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया परमार्थशून्यतां ( श्स्प्_इइ-4_178 ) योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया संस्कृतशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया असंस्कृतशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अत्यन्तसुन्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अनवराग्रशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अनवकारशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया प्रकृतिशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया सर्वधर्मशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया स्वलक्षणशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अनुपलम्भशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अभावशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया स्वभावशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अभावस्वभावशून्यतां योनिशो मनसिकरिष्यति.
न द्वयचरितया बुद्ध्या नाद्वयचरितया स्मृत्युपस्थाननि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया सम्यक्प्रहाणानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया ऋद्धिपादां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया इन्द्रियाणि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया बलानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया बोध्यङ्गानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया आर्याष्ताङ्गं मार्गं योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया आर्यसत्यानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया ध्यानानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अप्रमाणानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया आरूप्यसमापत्तीर् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अष्टौ विमोक्षान् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया नवानुपूर्वविहारसमापत्तीर् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अभिज्ञां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया समाधीन् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया धारणीमुखानि ( श्स्प्_इइ-4_179 ) योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया तथागतबलानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया वैशारद्यानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया प्रतिसंविदो योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया महाकरुणां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया आवेणिकबुद्धधर्मान् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया सर्वज्ञतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया मार्गाकारज्ञतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया सर्वाकारज्ञतां योनिशो मनसिकरिष्यति.
पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा अनेन पर्यायेण प्रज्ञापारमितां परेभ्यो विस्तरेणाख्यास्यति देशयिष्यति प्रकाशयिष्यति प्रभावयिष्यति विवरिष्यति विभजिष्यत्य् उत्तरीकरिष्यति, संप्रकाशयिष्यत्य् अर्थं चास्य उपदेक्ष्यति, तत्रायं कौशिक प्रज्ञापारमिताया अर्थः, न प्रज्ञापारमिताद्वयेण द्रष्टव्या न द्वयेन न निमित्ततो नायुहतो नानिर्यूहतः, नोत्क्षेपतो न प्रक्षेपतः, न संक्रेशतो न व्यवदानतो नोत्पादतो न निरोधतः, न ग्रहतो नाग्रहतो नोद्ग्रहतो नोत्सर्गतो न स्थानतो नास्थानतो न भूततो नाभूततः, न योगतो नायोगतो न श्लेष्मतो नाश्लेष्मतो न प्रत्ययतो नाप्रत्ययतो न धर्मतो नाधर्मतः, न तथागततो नातथागततो न भूतकोटीतो नाभूतकोटीतः. अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
य इमां प्रज्ञापारमितां परेभ्यो विस्तरेणाख्यास्यति देशयिष्यति प्रकाशयिष्यति विचरिष्यति भजिष्यति, उत्त्तानीकरिष्यति संप्रकाशयिष्यति, एयं चास्य उपदेक्ष्यति, न त्व् एव य आत्मनैकोपगृहीयात् पर्यवाप्नुयाद् आधारयेद् धारयेद् वाचयेद् योनिशश् च मनसिकुर्यात्.
[क्. 212ब्10, न्. 434अ1, त्. 345ब्5, प्. 4ब्8, छ्, 737अ5]
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा स्वयं प्रज्ञापारमिताम् उद्गृहीष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति तां च परस्मै विस्तरेणाख्यास्यति देशयिष्यति प्रकाशयिष्यति प्रज्ञापयिष्यति स्थापयिष्यति विचरिष्यति भजिष्यति, उत्त्तनीकरिष्यति संप्रकाशयिष्यति. अर्थं चास्य उपदेक्ष्यत्य् अयम् एव स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति.
शक्र आह: एवं खलु भगवन् कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितोपदिष्टव्या, सार्था सव्यञ्जना.
भगवान् आह: एवं ख्लु कौशिक कुलपुत्रो वा कुलदुहिता वा परेभ्यः प्रज्ञापारमितोपदेष्टव्या सार्था सव्यञ्जना. एवम् उपदिशन् पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा अप्रमेयासंख्येयापरिमामानेन पुण्यस्कन्धेन समन्वागतो भविष्यति.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा पूर्वस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थं सव्यञ्जनम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दक्षिणायां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा पश्चिमायां दिश्य् अप्रमेयासख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्ययेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य ( श्स्प्_इइ-4_181 ) हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा उत्तरस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा उत्तरपूर्वस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जिवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षिद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तनीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा पूर्वदक्षिणस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं ( श्स्प्_इइ-4_182 ) प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दक्षिणपश्चिमायां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा पश्चिमोत्तरस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्म्पारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुन्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोतेयन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अधस्ताद् दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्ययेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं प्ंयं प्रसवेत्. तत् कस्य हेतोह्? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः ( श्स्प्_इइ-4_183 ) सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा उपरिष्टाद् दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च.
[क्. 213ब्4, न्. 436ब्5, त्. 347अ8, प्. 9अ1, छ्. 737ब्2]
पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा अप्रमेयासंख्येयान् कल्पान् दानपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् शीलपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् क्षान्तिपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् वीर्यपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् ध्यानपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् प्रज्ञापारमितायां चरन्न् उपलम्भयोगेन,
यश् चेमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परस्मै विस्तरेणाचक्षीद् देशयेत् प्रकाशयेत् प्रज्ञापयेत् प्रस्थापयेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत् तच् चानुपलम्भयोगेन, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्, तत्रायम् उपलम्भ इह कौशिक बोधिसत्त्वस्योपलम्भयोगेन,
दानं दतत एवं भवत्य् अहं दानं ददामि इदं दानं ददाम्य् अस्मै दानं ददामि तस्यैवं दानं ददतो दानम् एव स्थास्यति न दानपारमिता उपलम्भयोगेन, शीलं रक्षत एवं भवत्य् अहं शीलं रक्षामीदं शीलं रक्षामि तस्यैवं शीलं रक्षतः शीलम् एव स्थास्यति न शीलपारमिता उपलभयोगेन, क्षान्तिं भावयत एवं भवत्य् अहं क्षान्तिभावयामीमां क्षान्तिं भावयामि, तस्यैवं क्षान्तिं भावयतः क्षान्तिर् एव स्थास्यति न क्षान्तिपारमिताम् उपलम्भयोगेन, वीर्यम् आरभमानस्यैवं भवत्य् अहं वीर्यम् आरभे अस्यार्थाय वीर्यम् आरभे तस्यैवं वीर्यम् आरभमानस्य वीर्यम् एव स्थास्यति न वीर्यपारमिता ( श्स्प्_इइ-4_184 ) उपलम्भयोगेन, ध्यानानि समापद्यमानस्यैवं भवत्य् अहं ध्यानानि समापद्य इमानि ध्यानानि समापद्येतस्यैवं ध्यानानि समापद्यमानस्य ध्यानान्य् एव स्थास्यति न ध्यानपारमिता उपलम्भयोगेन, प्रज्ञां भावयत एवं भवत्य् अहं प्रज्ञां भावयामीमां भावयामि तस्यैवं प्रज्ञां भावयतः प्रज्ञैव स्थास्यति न प्रज्ञापारमिता उपलम्भयोगेन.
एवं खलु कौशिकोपलम्भचरितस्य कुलपुत्रस्य वा कुलदुहितुर् वा न दानपारमिता परिपूर्यते न शीलपारमिता परिपूर्यते न क्षान्तिपारमिता परिपूर्यते न वीर्यपारमिता परिपूर्यते न ध्यानपारमिता परिपूर्यते न प्रज्ञापारमिता परिपूर्यते.
शक्र आह: कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता परिपूर्यते?
भगवान् आह: इह कौशिक बोधिसत्त्वो महासत्त्वो दानं ददत् न दायकम् उपलभते न दानं प्रतिग्राहकम् उपलभते, न शीलं रक्षन् न शीलं न शीलसमादानम् उपलभते, न क्षान्तिं भावयन् न क्षान्तिं रक्षन्ति भावनाम् उपलभते, न वीर्यम् आरभमाणे न वीर्यारंभम् उपलभते, न ध्यानानि न ध्यानभावनाम् उपलभते, न प्रज्ञां न प्रज्म्भावनाम् उपलभते, एवं चरतः कौशिक बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता परिपूर्यते शीलपारमिता परिपूर्यते क्षान्तिपारमिता परिपूर्यते वीर्यपारमिता परिपूर्यते ध्यानपारमिता परिपूर्यते प्रज्ञापारमिता परिपूर्यते.
एवं खलु कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा अबुध्यमानस्य प्रज्ञापारमिता सार्था सव्यञ्जनाम् उपदेष्टव्या, एवम् अबुध्यमानस्य ध्यानपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या, एवम् अबुध्यमानस्य वीर्यपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या, एवम् अबुध्यमानस्य क्षान्तिपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या, एवम् अबुध्यमानस्य शीलपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या, एवम् अबुध्यमानस्य ( श्स्प्_इइ-4_185 ) दानपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या. तत् कस्य हेतोः? भविष्यन्ति कौशिकानागते ऽध्वनि कुलपुत्राः कुलदुहितरश् च ये बोधिसत्त्वयानिकेभ्यः प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यति, तत्र च कुलपुत्राः कुलदुहितरश् चानुत्तरा यैः सम्यक्संबोधिर् ये संप्रस्थिता भविष्यति, ते तां प्रतिवर्णिकां श्रुत्वा मार्गां प्रणक्षन्ति तेषाम् इयं प्रज्ञापारमिता सार्था सव्यञ्जना विस्तरेणोपदिष्टव्या.
[क्. 214अ1, न्. 437ब्2, त्. 348अ1, प्. 10ब्8, छ्. 738ब्13]
शक्र आह: कतमा भगवन् प्रज्ञापारमिता प्रतिवर्णिका?
भगवान् आह: इह कौशिक कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमिताम् उपदेक्ष्याम इति, ते प्रतिवर्णिका उपदेक्ष्यति.
शक्र आह: कथं भगवंस् ते कुलपुत्राः कुलदुहितरो या प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति?
भगवान् आह: इह कौशिक कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमिताम् उपदिशन्तः, प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति, तत्र या प्रज्ञापारमितायाः प्रतिवर्णिका, यद् उत रूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति, रूपं दुःखम् इत्य् उपदेक्ष्यन्ति, रूपम् अनात्मेत्य् उपदेक्ष्यन्ति, रूपम् अशुभम् इत्य् उपदेक्ष्यन्ति.
एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते रूपम् अनित्यम् इति गवेषिष्यन्ते, रूपं दुःखम् इति गवेषिष्यन्ते, रूपम् अनात्मेति गवेषिष्यन्ते, रूपम् अशुभम् इति गवेषिष्यन्ते, ते रूपम् अनित्यम् इति गवेषमाणाः, रूपं दुःखम् इति गवेषमाणाः, रूपम् अनात्मेति गवेषमाणाः, रूपम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
वेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, वेदनां दुःखेत्य् उपदेक्ष्यन्ति, वेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, वेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते वेदनाम् अनित्येति गवेषिष्यन्ते, वेदनां दुःखेति गवेषिष्यन्ते, वेदनाम् अनात्मेति गवेषिष्यन्ते, वेदनाम् अशुभेति गवेषिष्यन्ते, ते वेदनाम् अनित्येति गवेषमाणाः, वेदनां दुःखेति गवेषमाणाः, वेदनाम् अनात्मेति गवेषमाणाः वेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
संज्ञाम् अनित्येत्य् उपदेक्ष्यन्ति, संज्ञां दुःखेत्य् उपदेक्ष्यन्ति, संज्ञाम् अनात्मेत्य् उपदेक्ष्यन्ति, संज्ञाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ( श्स्प्_इइ-4_186 ) ते संज्ञाम् अनित्येति गवेषिष्यन्ते, संज्ञां दुःखेति गवेषिष्यन्ते, संज्ञाम् अनात्मेति गवेषिष्यन्ते, संज्ञाम् अशुभेति गवेषिष्यन्ते, ते संज्ञाम् अनित्येति गवेषमाणाः. संज्ञां दुःखेति गवेषमाणाः, संज्ञाम् अनात्मेति गवेषमाणाः संज्ञाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
संस्कारान् अनित्या इत्य् उपदेक्ष्यन्ति, संस्कार दुःखा इत्य् उपदेक्ष्यन्ति, संस्काराम् अनात्मान इत्य् उपदेक्ष्यन्ति, संस्कारान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति, य एवं चरति स प्रज्ञापारमितायां चरतीति. येषां चोपदेक्ष्यन्ति, ते संस्कारान् अनित्या इति गवेषिष्यन्ते, संस्कारान् दुःखा इति गवेषिष्यन्ते, संस्कारान् अनात्मान ति गवेषिष्यन्ते, संस्कारान् अशुभा इति गवेषिष्यन्ते, ते संस्कारान् अनित्या इति गवेषमाणाः, संस्कारान् दुःखा इति गवेषमाणाः, संस्कारान् अनात्मान इति गवेषमाणाः संस्कारान् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
विज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, विज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, विज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, विज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते विज्ञानम् अनित्यम् इति गवेषिष्यन्ते, विज्ञानं दुःखम् इति गवेषिष्यन्ते, विज्ञानम् अनात्मेति गवेषिष्यन्ते, विज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते विज्ञानम् अनित्यम् इति गवेषमाणाः, विज्ञानं दुःखम् इति गवेषमाणाः, विज्ञानम् अनात्मेति गवेषमाणाः, विज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
चक्षुर् अनित्यम् इत्य् उपदेक्ष्यन्ति, चक्षुर् दुःखम् इत्य् उपदेक्ष्यन्ति, चक्षुर् अनात्मेत्य् उपदेक्ष्यन्ति, चक्षुर् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते चक्षुर् अनित्यम् इति गवेषीष्यन्ते, चक्षुर् दुःखम् इति गवेषिष्यन्ते, चक्षुर् अनात्मेति गवेषिष्यन्ते, चक्षुर् अशुभम् इति गवेषिष्यन्ते, ते चक्षुर् अनित्यम् इति गवेषमाणाः, चक्षुर् दुःखम् इति गवेषमाणाः, चक्षुर् अनात्मेति गवेषमाणाः, चक्षुर् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
श्रोत्रम् अनित्यम् इत्य् उपदेक्ष्यन्ति, श्रोत्रं दुःखम् इत्य् उपदेक्ष्यन्ति, श्रोत्रम् अनात्मेत्य् उपदेक्ष्यन्ति, श्रोत्रम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते श्रोत्रम् अनित्यम् इति गवेषिष्यन्ते, श्रोत्रं दुःखम् इति गवेषिष्यन्ते, श्रोत्रम् अनात्मेति गवेषिष्यन्ते. श्रोत्रम् अशुभम् इति ( श्स्प्_इइ-4_187 ) गवेषिष्यन्ते, ते श्रोत्रम् अनित्यम् इति गवेषमाणाः, श्रोत्रं दुःखम् इति गवेषमाणाः, श्रोत्रम् अनात्मेति गवेषमाणाः, श्रोत्रम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
घ्राणम् अनित्यम् इत्य् उपदेक्ष्यन्ति, घ्राणं दुःखम् इत्य् उपदेक्ष्यन्ति, घ्राणम् अनात्मेत्य् उपदेक्ष्यन्ति, घ्राणम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते घ्राणम् अनित्यम् इति गवेषिष्यन्ते, घ्राणं दुःखम् इति गवेषिष्यन्ते, घ्राणम् अनात्मेति गवेषिष्यन्ते, घ्राणम् अशुभम् इति गवेषिष्यन्ते, ते घ्राणम् अनित्यम् इति गवेषमाणाः, घ्राणं दुःखम् इति गवेषमाणाः, घ्राणम् अनात्मेति गवेषमाणाः, घ्राणम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
जिह्वाम् अनित्येत्य् उपदेक्ष्यन्ति, जिह्वां दुःखेत्य् उपदेक्ष्यन्ति, जिह्वाम् अनात्मेत्य् उपदेक्ष्यन्ति, जिह्वाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जिह्वाम् अनित्येति गवेषिष्यन्ते जिह्वां दुःखेति गवेषिष्यन्ते, जिह्वाम् अनात्मेति गवेषिष्यन्ते, जिह्वाम् अशुभेति गवेषिष्यन्ते, ते जिह्वाम् अनित्येति गवेषमाणाः, जिह्वां दुःखेति गवेषमाणाः, जिह्वाम् अनात्मेति गवेषमाणाः, जिह्वाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
कायम् अनित्य इत्य् उपदेक्ष्यन्ति, कायं दुःख इत्य् उपदेक्ष्यन्ति, कायम् अनात्मेत्य् उपदेक्ष्यन्ति, कायम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते कायम् अनित्य इति गवेषिष्यन्ते, कायं दुःख इति गवेषिष्यन्ते, कायम् अनात्मेति गवेषिष्यन्ते, कायम् अशुभ इति गवेषिष्यन्ते, ते कायम् अनित्य इति गवेषमाणाः, कायं दुःख इति गवेषमाणाः, कायम् अनात्मेति गवेषमाणाः, कायम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
मनो ऽनित्यम् इत्य् उपदेक्ष्यन्ति, मनो दुःखम् इत्य् उपदेक्ष्यन्ति, मनो ऽनात्मेत्य् उपदेक्ष्यन्ति, मनो ऽशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते मनो ऽनित्यम् इति गवेषिष्यन्ते, मनो दुःखम् इति गवेषिष्यन्ते, मनो ऽनात्मेति गवेषिष्यन्ते, मनो ऽशुभम् इति गवेषिष्यन्ते, ते मनो ऽनित्यम् इति गवेषमाणाः, मनो दुःखम् इति गवेषमाणाः, मनो ऽनात्मेति गवेषमाणाः, मनो ऽशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
रूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति, रूपं दुःखम् इत्य् उपदेक्ष्यन्ति, रूपम् अनात्मेत्य् उपदेक्ष्यन्ति, रूपम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च ( श्स्प्_इइ-4_188 ) वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते रूपम् अनित्यम् इति गवेषिष्यन्ते, रूपं दुःखम् इति गवेषिष्यन्ते, रूपम् अनात्मेति गवेषिष्यन्ते, रूपम् अशुभम् इति गवेषिष्यन्ते, ते रूपम् अनित्यम् इति गवेषमाणाः, रूपं दुःखम् इति गवेषमाणाः, रूपम् अनात्मेति गवेषमाणाः, रूपम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
शब्दम् अनित्य इत्य् उपदेक्ष्यन्ति, शब्दं दुःख इत्य् उपदेक्ष्यन्ति, शब्दम् अनात्मेत्य् उपदेक्ष्यन्ति, शब्दम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति येषां चोपदेक्ष्यन्ति, ते शब्दम् अनित्य इति गवेषिष्यन्ते, शब्दं दुःख इति गवेषिष्यन्ते, शब्दम् अनात्मेति गवेषिष्यन्ते, शब्दम् अशुभ इति गवेषिष्यन्ते, ते शब्दम् अनित्य इति गवेषमाणाः, शब्दं दुःख इति गवेषमाणाः, शब्दम् अनात्मेति गवेषमाणाः, शब्दम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
गन्धम् अनित्य इत्य् उपदेक्ष्यन्ति, गन्धं दुःख इत्य् उपदेक्ष्यन्ति, गन्धम् अनात्मेत्य् उपदेक्ष्यन्ति, गन्धम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते गन्धम् अनित्य इति गवेषिष्यन्ते, गन्धं दुःख इति गवेषिष्यन्ते, गन्धम् अनात्मेति गवेषिष्यन्ते, गन्धम् अशुभ इति गवेषिष्यन्ते, ते गन्धम् अनित्य इति गवेषमाणाः, गन्धं दुःख इति गवेषमाणाः, गन्धम् अनात्मेति गवेषमाणाः, गन्धम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
रसम् अनित्य इत्य् उपदेक्ष्यन्ति, रसं दुःख इत्य् उपदेक्ष्यन्ति, रसम् अनात्मेत्य् उपदेक्ष्यन्ति, रसम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते रसम् अनित्य इति गवेषिष्यन्ते, रसं दुःख इति गवेषिष्यन्ते, रसम् अनात्मेति गवेषिष्यन्ते, रसम् अशुभ इति गवेषिष्यन्ते, ते रसम् अनित्य इति गवेषमाणाः, रसं दुःख इति गवेषमाणाः, रसम् अनात्मेति गवेषमाणाः, रसम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
स्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, स्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, स्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, स्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति येषां चोपदेक्ष्यन्ति, ते स्पर्शम् अनित्य इति गवेषिष्यन्ते, स्पर्शं दुःख इति गवेषिष्यन्ते, स्पर्शम् अनात्मेति गवेषिष्यन्ते, स्पर्शम् अशुभ इति ( श्स्प्_इइ-4_189 ) गवेषिष्यन्ते, ते स्पर्शम् अनित्य इति गवेषमाणाः, स्पर्शं दुःख इति गवेषमाणाः, स्पर्शम् अनात्मेति गवेषमाणाः, स्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
धर्मान् अनित्या इत्य् उपदेक्ष्यन्ति, धर्मान् दुःखा इत्य् उपदेक्ष्यन्ति, धर्मान् अनात्मान इत्य् उपदेक्ष्यन्ति, धर्मान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते धर्मान् अनित्या इति गवेषिष्यन्ते, धर्मान् दुःखा इति गवेषिष्यन्ते, धर्मान् अनात्मान इति गवेषिष्यन्ते, धर्मान् अशुभा इति गवेषिष्यन्ते, ते धर्मान् अनित्या इति गवेषमाणाः, धर्मान् दुःखा इति गवेषमाणाः, धर्मान् अनात्मान इति गवेषमाणाः, धर्मान् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
चक्षुर्विज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, चक्षुर्विज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, चक्षुर्विज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, चक्षुर्विज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते चक्षुर्विज्ञानम् अनित्यम् इति गवेषिष्यन्ते, चक्षुर्विज्ञानं दुःखम् इति गवेषिष्यन्ते, चक्षुर्विज्ञानम् अनात्मेति गवेषिष्यन्ते, चक्षुर्विज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते चक्षुर्विज्ञानम् अनित्यम् इति गवेषमाणाः, चक्षुर्विज्ञानं दुःखम् इति गवेषमाणाः, चक्षुर्विज्ञानम् अनात्मेति गवेषमाणाः, चक्षुर्विज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
श्रोत्रविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, श्रोत्रविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, श्रोत्रविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, श्रोत्रविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते श्रोत्रविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, श्रोत्रविज्ञानं दुःखम् इति गवेषिष्यन्ते, श्रोत्रविज्ञानम् अनात्मेति गवेषिष्यन्ते, श्रोत्रविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते श्रोत्रविज्ञानम् अनित्यम् इति गवेषमाणाः, श्रोत्रविज्ञानं दुःखम् इति गवेषमाणाः, श्रोत्रविज्ञानम् अनात्मेति गवेषमाणाः, श्रोत्रविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
घ्राणविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, घ्राणविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, घ्राणविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, घ्राणविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते घ्राणविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, घ्राणविज्ञानं दुःखम् इति गवेषिष्यन्ते, घ्राणविज्ञानम् ( श्स्प्_इइ-4_190 ) अनात्मेति गवेषिष्यन्ते, घ्राणविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते घ्राणविज्ञानम् अनित्यम् इति गवेषमाणाः, घ्राणविज्ञानं दुःखम् इति गवेषमाणाः, घ्राणविज्ञानम् अनात्मेति गवेषमाणाः, घ्राणविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
जिह्वाविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, जिह्वाविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, जिह्वाविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, जिह्वाविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जिह्वाविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, जिह्वाविज्ञानं दुःखम् इति गवेषिष्यन्ते, जिह्वाविज्ञानम् अनात्मेति गवेषिष्यन्ते, जिह्वाविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते जिह्वाविज्ञानम् अनित्यम् इति गवेषमाणाः, जिह्वाविज्ञानं दुःखम् इति गवेषमाणाः, जिह्वाविज्ञानम् अनात्मेति गवेषमाणाः, जिह्वाविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
कयविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, कयविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, कायविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, कायविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते कायविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, कायविज्ञानं दुःखम् इति गवेषिष्यन्ते, कायविज्ञानम् अनात्मेति गवेषिष्यन्ते, कायविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते कायविज्ञानम् अनित्यम् इति गवेषमाणाः, कायविज्ञानं दुःखम् इति गवेषमाणाः, कायविज्ञानम् अनात्मेति गवेषमाणाः, कायविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकयां चरिष्यन्ति,
मनोविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, मनोविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, मनोविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, मनोविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति. ते मनोविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, मनोविज्ञानं दुःखम् इति गवेषिष्यन्ते, मनोविज्ञानम् अनात्मेति गवेषिष्यन्ते, मनोविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते मनोविज्ञानम् अनित्यम् इति गवेषमाणाः, मनोविज्ञानं दुःखम् इति गवेषमाणाः, मनोविज्ञानम् अनात्मेति गवेषमाणाः, मनोविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
चक्षुःसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स ( श्स्प्_इइ-4_191 ) प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते चक्षुःसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, चक्षुःसंस्पर्शं दुःख इति गवेषिष्यन्ते, चक्षुःसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, चक्षुःसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते चक्षुःसंस्पर्शम् अनित्य इति गवेषमाणाः, चक्षुःसंस्पर्शं दुःख इति गवेषमाणाः, चक्षुःसंस्पर्शम् अनात्मेति गवेषमाणाः, चक्षुःसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
श्रोत्रसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते श्रोत्रसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, श्रोत्रसंस्पर्शं दुःख इति गवेषिष्यन्ते, श्रोत्रसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, श्रोत्रसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते श्रोत्रसंस्पर्शम् अनित्य इति गवेषमाणाः, श्रोत्रसंस्पर्शं दुःख इति गवेषमाणाः, श्रोत्रसंस्पर्शम् अनात्मेति गवेषमाणाः, श्रोत्रसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
घ्राणसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते घ्राणसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, घ्राणसंस्पर्शं दुःख इति गवेषिष्यन्ते, घ्राणसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, घ्राणसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते घ्राणसंस्पर्शम् अनित्य इति गवेषमाणाः, घ्राणसंस्पर्शं दुःख इति गवेषमाणाः, घ्राणसंस्पर्शम् अनात्मेति गवेषमाणाः, घ्राणसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
जिह्वासंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जिह्वसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, जिह्वासंस्पर्शं दुःख इति गवेषिष्यन्ते, जिह्वासंस्पर्शम् अनात्मेति गवेषिष्यन्ते, जिह्वासंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते जिह्वासंस्पर्शम् अनित्य इति गवेषमाणाः, जिह्वासंस्पर्शं दुःख इति गवेषमाणाः, जिह्वासंस्पर्शम् अनात्मेति गवेषमाणाः, जिह्वासंस्पर्शम् अशुभ ( श्स्प्_इइ-4_192 ) इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
कायसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, कायसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, कायसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, कायसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते कायसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, कायसंस्पर्शं दुःख इति गवेषिष्यन्ते, कायसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, कायसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते कायसंस्पर्शम् अनित्य इति गवेषमाणाः, कायसंस्पर्शं दुःख इति गवेषमाणाः, कायसंस्पर्शम् अनात्मेति गवेषमाणाः, कायसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
मनःसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते मनःसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, मनःसंस्पर्शं दुःख इति गवेषिष्यन्ते, मनःसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, मनःसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते मनःसंस्पर्शम् अनित्य इति गवेषमाणाः, मनःसंस्पर्शं दुःख इति गवेषमाणाः, मनःसंस्पर्शम् अनात्मेति गवेषमाणाः, मनःसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
चक्षुःसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते चक्षुःसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, चक्षुःसंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, चक्षुःसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, चक्षुःसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते चक्षुःसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, चक्षुःसंस्पर्शजावेदनां दुःखेति गवेषमाणाः, चक्षुःसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, चक्षुःसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकयां चरिष्यन्ति,
श्रोत्रसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च ( श्स्प्_इइ-4_193 ) वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते श्रोत्रसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, श्रोत्रसंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, श्रोत्रसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, श्रोत्रसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते श्रोत्रसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, श्रोत्रसंस्पर्शजावेदनां दुःखेति गवेषमाणाः, श्रोत्रसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, श्रोत्रसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
घ्राणसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते घ्राणसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, घ्राणसंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, घ्राणसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, घ्राणसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते घ्राणसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, घ्राणसंस्पर्शजावेदनां दुःखेति गवेषमाणाः, घ्राणसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, घ्राणसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
जिह्वासंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जिह्वासंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, जिह्वासंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, जिह्वासंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, जिह्वासंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते जिह्वासंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, ज्म्वासंस्पर्शजावेदनां दुःखेति गवेषमाणाः, जिह्वासंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, जिह्वासंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
कायसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, कायसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, कायसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, कायसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते कायसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, कायसंस्पर्शजावेदनां ( श्स्प्_इइ-4_194 ) दुःखेति गवेषिष्यन्ते, कायसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, कायसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते कायसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, कायसंस्पर्शजावेदनां दुःखेति गवेषमाणाः, कायसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, कायसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
मनःसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते मनःसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, मनःसंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, मनःसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, मनःसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते मनःसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, मनःसंस्पर्शजावेदनं दुःखेति गवेषमाणाः, मनःसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, मनःसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
[क्. 216अ17, न्. 443ब्4, त्. 352अ3, प्. 19ब्7, छ्. 741ब्2 ].
पृथिवीधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, पृथिवीधातुं दुःख इत्य् उपदेक्ष्यन्ति, पृथिवीधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, पृथिवीधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते पृथिवीधतुम् अनित्य इति गवेषिष्यन्ते, पृथिवीधातुं दुःख इति गवेषिष्यन्ते, पृथिवीधातुम् अनात्मेति गवेषिष्यन्ते, पृथिवीधातुम् अशुभ इति गवेषिष्यन्ते, ते पृथिवीधातुम् अनित्य इति गवेषमाणाः, पृथिवीधातुं दुःख इति गवेषमाणाः, पृथिवीधातुम् अनात्मेति गवेषमाणाः, पृथिवीधातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अब्धातुम् अनित्य इत्य् उपदेक्ष्यन्ति, अब्धातुं दुःख इत्य् उपदेक्ष्यन्ति, अब्धातुम् अनात्मेत्य् उपदेक्ष्यन्ति, अब्धातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अब्धातुम् अनित्य इति गवेषिष्यन्ते, अब्धतुं दुःख इति गवेषिष्यन्ते, अब्धातुम् अनात्मेति गवेषिष्यन्ते, अब्धातुम् अशुभ इति गवेषिष्यन्ते, ते अब्धातुम् अनित्य इति गवेषमाणाः, अब्धातुं दुःख इति गवेषमाणाः, अब्धातुम् अनात्मेति गवेषमाणाः, अब्धातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
तेजोधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, तेजोधातुं दुःख इत्य् उपदेक्ष्यन्ति, तेजोधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, तेजोधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते तेजोधातुम् अनित्य इति गवेषिष्यन्ते, तेजोधातुं दुःख इति गवेषिष्यन्ते, तेजोधातुम् अनात्मेति गवेषिष्यन्ते, तेजोधातुम् अशुभ इति गवेषिष्यन्ते, ते तेजोधातुम् अनित्य इति गवेषमाणाः, तेजोधातुं दुःख इति गवेषमाणाः, तेजोधातुम् अनात्मेति गवेषमाणाः, तेजोधातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
वायुधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, वायुधातुं दुःख इत्य् उपदेक्ष्यन्ति, वायुधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, वायुधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते वायुधातुम् अनित्य इति गवेषिष्यन्ते, वायुधातुं दुःख इति गवेषिष्यन्ते, वायुधातुम् अनात्मेति गवेषिष्यन्ते, वायुधातुम् अशुभ इति गवेषिष्यन्ते, ते वायुधातुम् अनित्य इति गवेषमाणाः, वायुधातुं दुःख इति गवेषमाणाः, वायुधातुम् अनात्मेति गवेषमाणाः, वायुधातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
आकाशधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, आकाशधातुं दुःख इत्य् उपदेक्ष्यन्ति, आकाशधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, आकाशधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते आकाशधातुम् अनित्य इति गवेषिष्यन्ते, आकाशधातुं दुःख इति गवेषिष्यन्ते, आकाशधातुम् अनात्मेति गवेषिष्यन्ते, आकाशधातुम् अशुभ इति गवेषिष्यन्ते, ते आकाशधातुम् अनित्य इति गवेषमाणाः, आकाशधातुं दुःख इति गवेषमाणाः, आकाशधातुम् अनात्मेति गवेषमाणाः, आकाशधातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
विज्ञानधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, विज्ञानधतुं दुःख इत्य् उपदेक्ष्यन्ति, विज्ञानधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, विज्ञानधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते विज्ञानधातुम् अनित्य इति गवेषिष्यन्ते, विज्ञानधातुं दुःख इति गवेषिष्यन्ते, विज्ञानधातुम् अनात्मेति गवेषिष्यन्ते, विज्ञानधातुम् अशुभ इति गवेषिष्यन्ते, ते विज्ञानधातुम् अनित्य इति गवेषमाणाः, विज्ञानधातुं दुःख इति गवेषमाणाः, विज्ञानधातुम् अनात्मेति गवेषमाणाः, विज्ञानधातुम् अशुभ इति गवेषमाणाः प्रमपारमिताप्रतिवर्णिकायां ( श्स्प्_इइ-4_196 ) चरिष्यन्ति.
अविद्याम् अनित्येत्य् उपदेक्ष्यन्ति, अविद्यां दुःखेत्य् उपदेक्ष्यन्ति, अविद्याम् अनात्मेत्य् उपदेक्ष्यन्ति, अविद्याम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते ऽविद्याम् अनित्येति गवेषिष्यन्ते, अविद्यां दुःखेति गवेषिष्यन्ते, अविद्याम् अनात्मेति गवेषिष्यन्ते, अविद्याम् अशुभेति गवेषिष्यन्ते, ते ऽविद्याम् अनित्येति गवेषमाणाः, अविद्यां दुःखेति गवेषमाणाः, अविद्याम् अनात्मेति गवेषमाणाः अविद्याम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
संस्कारान् अनित्या इत्य् उपदेक्ष्यन्ति, संस्करान् दुःखा इत्य् उपदेक्ष्यन्ति, संस्कारान् अनात्मान इत्य् उपदेक्ष्यन्ति, संस्कारान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति, य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते संस्कारान् अनित्य इति गवेषिष्यन्ते, संस्कारान् दुःखा इति गवेषिष्यन्ते, संस्कारान् अनात्मान ति गवेषिष्यन्ते, संस्कारान् असुभा इति गवेषिष्यन्ते, ते संस्कारान् अनित्य इति गवेषमाणाः, संस्कारान् दुःखा इति गवेषमाणाः, संस्कारान् अनात्मान इति गवेषमाणाः संस्कारान् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
विज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, विज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, विज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, विज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते विज्ञानम् अनित्यम् इति गवेषिष्यन्ते, विज्ञानं दुःखम् इति गवेषिष्यन्ते, विज्ञानम् अनात्मेति गवेषिष्यन्ते, विज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते विज्ञानम् अनित्यम् इति गवेषमाणाः, विज्ञानं दुःखम् इति गवेषमाणाः, विज्ञानम् अनात्मेति गवेषमाणाः, विज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
नामरूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति, नामरूपं दुःखम् इत्य् उपदेक्ष्यन्ति, नामरूपम् अनात्मेत्य् उपदेक्ष्यन्ति, नामरूपम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते नामरूपम् अनित्यम् इति गवेषिष्यन्ते, नामरूपं दुःखम् इति गवेषिष्यन्ते, नामरूपम् अनात्मेति गवेषिष्यन्ते, नामरूपम् अशुभम् इति गवेषिष्यन्ते, ते नामरूपम् अनित्यम् इति गवेषमाणाः, नामरूपं दुःखम् इति गवेषमाणाः, नामरूपम् अनात्मेति गवेषमाणाः, नामरूपम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
षडायतनम् अनित्यम् इत्य् उपदेक्ष्यन्ति, षडायतनं दुःखम् इत्य् उपदेक्ष्यन्ति, षडायतनम् अनात्मेत्य् उपदेक्ष्यन्ति, षडायतनम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते षडायतनम् अनित्यम् इति गवेषिष्यन्ते, षडायतनं दुःखम् इति गवेषिष्यन्ते, षडायतनम् अनात्मेति गवेषिष्यन्ते, षडायतनम् अशुभम् इति गवेषिष्यन्ते, ते षडायतनम् अनित्यम् इति गवेषमाणाः, षडायतनं दुःखम् इति गवेषमाणाः, षडायतनम् अनात्मेति गवेषमाणाः, षडायतनम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
स्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, स्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, स्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, स्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते स्पर्शम् अनित्य इति गवेषिष्यन्ते, स्पर्शं दुःख इति गवेषिष्यन्ते, स्पर्शम् अनात्मेति गवेषिष्यन्ते, स्पर्शम् अशुभ इति गवेषिष्यन्ते, ते स्पर्शम् अनित्य इति गवेषमाणाः, स्पर्शं दुःख इति गवेषमाणाः, स्पर्शम् अनात्मेति गवेषमाणाः, स्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
वेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, वेदनां दुःखेत्य् उपदेक्ष्यन्ति, वेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, वेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते वेदनाम् अनित्येति गवेषिष्यन्ते, वेदनां दुःखेति गवेषिष्यन्ते, वेदनाम् अनात्मेति गवेषिष्यन्ते, वेदनाम् अशुभेति गवेषिष्यन्ते, ते वेदनाम् अनित्येति गवेषमाणाः, वेदनां दुःखेति गवेषमाणाः, वेदनाम् अनात्मेति गवेषमाणाः वेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
तृष्णाम् अनित्येत्य् उपदेक्ष्यन्ति, तृष्णां दुःखेत्य् उपदेक्ष्यन्ति, तृष्णाम् अनात्मेत्य् उपदेक्ष्यन्ति, तृस्णाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते तृष्णाम् अनित्येति गवेषिष्यन्ते, तृष्णां दुःखेति गवेषिष्यन्ते, तृष्णाम् अनात्मेति गवेषिष्यन्ते, तृष्णाम् अशुभेति गवेषिष्यन्ते, ते तृष्णाम् अनित्येति गवेषमाणाः, तृष्णां दुःखेति गवेषमाणाः, तृष्णाम् अनात्मेति गवेषमाणाः तृष्णाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
उपादानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, उपादानं दुःखम् इत्य् उपदेक्ष्यन्ति, उपादानम् अनात्मेत्य् उपदेक्ष्यन्ति, उपादानम् अशुभम् इत्य् ( श्स्प्_इइ-4_198 ) उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते उपादानम् अनित्यम् इति गवेषिष्यन्ते, उपादानं दुःखम् इति गवेषिष्यन्ते, उपादानम् अनात्मेति गवेषिष्यन्ते, उपादानम् अशुभम् इति गवेषिष्यन्ते, ते उपादानम् अनित्यम् इति गवेषमाणाः, उपादानं दुःखम् इति गवेषमाणाः, उपादानम् अनात्मेति गवेषमाणाः, उपादानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
भवम् अनित्य इत्य् उपदेक्ष्यन्ति, भवं दुःख इत्य् उपदेक्ष्यन्ति, भवम् अनात्मेत्य् उपदेक्ष्यन्ति, भवम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति येषां चोपदेक्ष्यन्ति, ते भवम् अनित्य इति गवेषिष्यन्ते, भवं दुःख इति गवेषिष्यन्ते, भवम् अनात्मेति गवेषिष्यन्ते, भवम् अशुभ इति गवेषिष्यन्ते, ते भवम् अनित्य इति गवेषमाणाः, भवं दुःख इति गवेषमाणाः, भवम् अनात्मेति गवेषमाणाः, भवम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
जातिम् अनित्येत्य् उपदेक्ष्यन्ति, जातिं दुःखेत्य् उपदेक्ष्यन्ति, जातिम् अनात्मेत्य् उपदेक्ष्यन्ति, जातिम् अशुभेत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते जातिम् अनित्येति गवेषिष्यन्ते, जातिं दुःखेति गवेषिष्यन्ते, जातिम् अनात्मेति गवेषिष्यन्ते, जातिम् अशुभेति गवेषिष्यन्ते, ते जातिम् अनित्येति गवेषमाणाः, जातिं दुःखेति गवेषमाणाः, जातिम् अनात्मेति गवेषमाणाः जातिम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
जरामरणम् अनित्यम् इत्य् उपदेक्ष्यन्ति, जरामरणं दुःखम् इत्य् उपदेक्ष्यन्ति, जरामरणम् अनात्मेत्य् उपदेक्ष्यन्ति, जरामरणम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जरामरणम् अनित्यम् इति गवेषिष्यन्ते, जरामरणं दुःखम् इति गवेषिष्यन्ते, जरामरणम् अनात्मेति गवेषिष्यन्ते, जरामरणम् अशुभम् इति गवेषिष्यन्ते, ते जरामरणम् अनित्यम् इति गवेषमाणाः, जरामरणं दुःखम् इति गवेषमाणाः, जरामरणम् अनात्मेति गवेषमाणाः, जरामरणम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
[क्. 217अ21, न्. 446अ9, त्. 354अ3, प्. 23ब्8, छ्. 741च्22]
दानपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, दनपारमितां दुःखेत्य् उपदेक्ष्यन्ति, दानपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, दानपारमिताम् ( श्स्प्_इइ-4_199 ) अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, दानपारमिताम् अनित्येति गवेषिष्यन्ते, दानपारमितां दुःखेति गवेषिष्यन्ते, दानपारमिताम् अनात्मेति गवेषिष्यन्ते, दानपारमिताम् अशुभेति गवेषिष्यन्ते, दानपारमिताम् अनित्येति गवेषमाणाः, दानपारमितां दुःखेति गवेषमाणाः, दानपारमिताम् अनात्मेति गवेषमाणाः दानपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
शीलपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, शीलपारमितां दुःखेत्य् उपदेक्ष्यन्ति, शीलपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, शीलपारमिताम् अशुभेत्य् इ उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, शीलपारमिताम् अनित्येति गवेषिष्यन्ते, शीलपारमितां दुःखेति गवेषिष्यन्ते, शीलपारमिताम् अनात्मेति गवेषिष्यन्ते, शीलपारमिताम् अशुभेति गवेषिष्यन्ते, ते शीलपारमिताम् अनित्येति गवेषमाणाः, शीलपारमितां दुःखेति गवेषमाणाः, शीलपारमिताम् अनात्मेति गवेषमाणाः शीलपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
क्षान्तिपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, क्षान्तिपारमितां दुःखेत्य् उपदेक्ष्यन्ति, क्षान्तिपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, क्षान्तिपारमिताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, क्षान्तिपारमिताम् अनित्येति गवेषिष्यन्ते, क्षान्तिपारमितां दुःखेति गवेषिष्यन्ते, क्षान्तिपारमिताम् अनात्मेति गवेषिष्यन्ते, क्षान्तिपारमिताम् अशुभेति गवेषिष्यन्ते, ते क्षान्तिपारमिताम् अनित्येति गवेषमाणाः, क्षान्तिपारमितां दुःखेति गवेषमाणाः, क्षान्तिपारमिताम् अनात्मेति गवेषमाणाः क्षान्तिपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
वीर्यपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, वीर्यपारमितां दुःखेत्य् उपदेक्ष्यन्ति, वीर्यपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, वीर्यपारमिताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, वीर्यपारमिताम् अनित्येति गवेषिष्यन्ते, वीर्यपारमितां दुःखेति गवेषिष्यन्ते, वीर्यपारमिताम् अनात्मेति गवेषिष्यन्ते, वीर्यपारमिताम् अशुभेति गवेषिष्यन्ते, ते वीर्यपारमिताम् अनित्येति गवेषमाणाः, वीर्यपारमितां दुःखेति गवेषमाणाः, वीर्यपारमिताम् अनात्मेति गवेषमाणाः वीर्यपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतियर्णिकायां चरिष्यन्ति,
ध्यानपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, ध्यानपारमितां दुःखेत्य् उपदेक्ष्यन्ति, ध्यानपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, ध्यानपारमिताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ध्यानपारमिताम् अनित्येति गवेषिष्यन्ते, ध्यानपारमितां दुःखेति गवेषिष्यन्ते, ध्यानपारमिताम् अनात्मेति गवेषिष्यन्ते, ध्यानपारमिताम् अशुभेति गवेषिष्यन्ते, ते ध्यानपारमिताम् अनित्येति गवेषमाणाः, ध्यानपारमितां दुःखेति गवेषमाणाः, ध्यानपारमिताम् अनात्मेति गवेषमाणाः ध्यानपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
प्रज्ञापारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, प्रज्ञापारमितां दुःखेत्य् उपदेक्ष्यन्ति, प्रज्ञापारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, प्रज्ञापारमिताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, प्रज्ञापारमिताम् अनित्येति गवेषिष्यन्ते, प्रज्ञापारमितां दुःखेति गवेषिष्यन्ते, प्रज्ञापारमिताम् अनात्मेति गवेषिष्यन्ते, प्रज्ञापारमिताम् अशुभेति गवेषिष्यन्ते, ते प्रज्ञापारमिताम् अनित्येति गवेषमाणाः, प्रज्ञापारमितां दुःखेति गवेषमाणाः, प्रज्ञापारमिताम् अनात्मेति गवेषमाणाः प्रज्ञापारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
[क्. 217ब्19, न्. 446ब्3, त्. 354ब्9, प्. 25ब्4, छ्. 742अ22]
अध्यात्मशून्यताम् अनित्येति गवेषिष्यते, अध्यात्मशून्यतां दुःखेति गवेषिष्यते, अध्यात्मशून्यताम् अनात्मेति गवेषिष्यते, अध्यात्मशून्यताम् अशुभेति गवेषिष्यते. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अध्यात्मशून्यताम् अनित्येति गवेषिष्यन्ते, अध्यात्मशून्यतां दुःखेति गवेषिष्यन्ते, अध्यात्मशून्यताम् अनात्मेति गवेषिष्यन्ते, अध्यात्मशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽध्यात्मशून्यताम् अनित्येति गवेषमाणाः, अध्यात्मशून्यतां दुःखेति गवेषमाणाः, अध्यात्मशून्यताम् अनात्मेति गवेषमाणाः अध्यात्मशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
बहिर्धाशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, बहिर्धाशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, बहिर्धाशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, बहिर्धाशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषं चोपदेक्ष्यन्ति, बहिर्धाशून्यताम् अनित्येति गवेषिष्यन्ते, बहिर्धाशून्यतां दुःखेति गवेषिष्यन्ते, बहिर्धाशून्यताम् अनात्मेति गवेषिष्यन्ते, बहिर्धाशून्यताम् अशुभेति गवेषिष्यन्ते, ते ( श्स्प्_इइ-4_201 ) बहिर्धाशून्यताम् अनित्येति गवेषमाणाः, बहिर्धाशून्यतां दुःखेति गवेषमाणाः, बहिर्धाशून्यताम् अनात्मेति गवेषमाणाः बहिर्धाशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अध्यात्मबहिर्धाशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अध्यात्मबहिर्धाशून्यतां दुःखेत्य् उपदेक्ष्यन्ति. अध्यात्मबहिर्धाशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अध्यात्मबहिर्धाशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अध्यात्मबहिर्धाशून्यताम् अनित्येति गवेषिष्यन्ते, अध्यात्मबहिर्धाशून्यतां दुःखेति गवेषिष्यन्ते, अध्यात्मबहिर्धाशून्यताम् अनात्मेति गवेषिष्यन्ते, अध्यात्मबहिर्धाशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽध्यात्मबहिर्धाशून्यताम् अनित्येति गवेषमाणाः, अध्यात्मबहिर्धाशून्यतां दुःखेति गवेषमाणाः, अध्यात्मबहिर्धाशून्यताम् अनात्मेति गवेषमाणाः अध्यात्मबहिर्धाशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
शून्यताशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, शून्यताशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, शून्यताशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, शून्यताशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, शून्यताशून्यताम् अनित्येति गवेषिष्यन्ते, शून्यताशून्यतां दुःखेति गवेषिष्यन्ते, शून्यताशून्यताम् अनात्मेति गवेषिष्यन्ते, शून्यताशून्यताम् अशुभेति गवेषिष्यन्ते, ते शून्यताशून्यताम् अनित्येति गवेषमाणाः, शून्यताशून्यतां दुःखेति गवेषमाणाः, शून्यताशून्यताम् अनात्मेति गवेषमाणाः शून्यताशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
महाशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, महाशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, महाशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, महाशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, महाशून्यताम् अनित्येति गवेषिष्यन्ते, महाशून्यतां दुःखेति गवेषिष्यन्ते, महाशून्यताम् अनात्मेति गवेषिष्यन्ते, महाशून्यताम् अशुभेति गवेषिष्यन्ते, ते महाशून्यताम् अनित्येति गवेषमाणाः, महाशून्यतां दुःखेति गवेषमाणाः, महाशून्यताम् अनात्मेति गवेषमाणाः महाशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
परमार्थशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, परमार्थशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, परमार्थशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, परमार्थशून्यताम् ( श्स्प्_इइ-4_202 ) अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, परमार्थशून्यताम् अनित्येति गवेषिष्यन्ते, परमार्थशून्यतां दुःखेति गवेषिष्यन्ते, परमार्थशून्यताम् अनात्मेति गवेषिष्यन्ते, परमार्थशून्यताम् अशुभेति गवेषिष्यन्ते, ते परमार्थशून्यताम् अनित्येति गवेषमाणाः, परमार्थशून्यतां दुःखेति गवेषमाणाः, परमार्थशून्यताम् अनात्मेति गवेषमाणाः परमार्थशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
संस्कृतशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, संस्कृतशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, संस्कृतशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, संस्कृतशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, संस्कृतशून्यताम् अनित्येति गवेषिष्यन्ते, संस्कृतशून्यतां दुःखेति गवेषिष्यन्ते, संस्कृतशून्यताम् अनात्मेति गवेषिष्यन्ते, संस्कृतशून्यताम् अशुभेति गवेषिष्यन्ते, ते संस्कृतशून्यताम् अनित्येति गवेषमाणाः, संस्कृतशून्यतां दुःखेति गवेषमाणाः, संकृतशून्यताम् अनात्मेति गवेषमाणाः संस्कृतशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
असंस्कृतशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, असंस्कृतशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, असंस्कृतशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, असंस्कृतशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति, येषां चोपदेक्ष्यन्ति, असंस्कृतशून्यताम् अनित्येति गवेषिष्यन्ते, असंस्कृतशून्यतां दुःखेति गवेषिष्यन्ते, असंस्कृतशून्यताम् अनात्मेति गवेषिष्यन्ते, असंस्कृतशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽसंस्कृतशून्यताम् अनित्येति गवेषमाणाः, असंस्कृतशून्यतां दुःखेति गवेषमाणाः, असंस्कृतशून्यताम् अनात्मेति गवेषमाणाः असंस्कृतशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अत्यन्तशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अत्यन्तशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अत्यन्तशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अत्यन्तशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अत्यन्तशून्यताम् अनित्येति गवेषिष्यन्ते, अत्यन्तशून्यतां दुःखेति गवेषिष्यन्ते, अत्यन्तशून्यताम् अनात्मेति गवेषिष्यन्ते, अत्यन्तशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽत्यन्तशून्यताम् अनित्येति गवेषमाणाः, अत्यन्तशून्यतां दुःखेति गवेषमाणाः, ( श्स्प्_इइ-4_203 ) अत्यन्तशून्यताम् अनात्मेति गवेषमाणाः अत्यन्तशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अनवराग्रशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अनवराग्रशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अनवराग्रशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अनवराग्रशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अनवराग्रशून्यताम् अनित्येति गवेषिष्यन्ते, अनवराग्रशून्यतां दुःखेति गवेषिष्यन्ते, अनवराग्रशून्यताम् अनात्मेति गवेषिष्यन्ते, अनवराग्रशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽनवराग्रशून्यताम् अनित्येति गवेषमाणाः, अनवराग्रशून्यतां दुःखेति गवेषमाणाः, अनवराग्रशून्यताम् अनात्मेति गवेषमाणाः अनवराग्रशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अनवकारशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अनवकारशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अनवकारशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अनवकारशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अनवकारशून्यताम् अनित्येति गवेषिष्यन्ते, अनवकारशून्यतां दुःखेति गवेषिष्यन्ते, अनवकारशून्यताम् अनात्मेति गवेषिष्यन्ते, अनवकारशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽनवकारशून्यताम् अनित्येति गवेषमाणाः, अनवकारशून्यतां दुःखेति गवेषमाणाः, अनवकारशून्यताम् अनात्मेति गवेषमाणाः अनवकारशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
प्रकृतिशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, प्रकृतिशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, प्रकृतिशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, प्रकृतिशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, प्रकृतिशून्यताम् अनित्येति गवेषिष्यन्ते, प्रकृतिशून्यतां दुःखेति गवेषिष्यन्ते, प्रकृतिशून्यताम् अनात्मेति गवेषिष्यन्ते, प्रकृतिशून्यताम् अशुभेति गवेषिष्यन्ते, ते प्रकृतिशून्यताम् अनित्येति गवेषमाणाः, प्रकृतिशून्यतां दुःखेति गवेषमाणाः, प्रकृतिशून्यताम् अनात्मेति गवेषमाणाः प्रकृतिशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
सर्वधर्मशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, सर्वधर्मशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, सर्वधर्मशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, सर्वधर्मशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं ( श्स्प्_इइ-4_204 ) चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, सर्वधर्मशून्यताम् अनित्येति गवेषिष्यन्ते, सर्वधर्मशून्यतां दुःखेति गवेषिष्यन्ते, सर्वधर्मशून्यताम् अनात्मेति गवेषिष्यन्ते, सर्वधर्मशून्यताम् अशुभेति गवेषिष्यन्ते, ते सर्वधर्मशून्यताम् अनित्येति गवेषमाणाः, सर्वधर्मशून्यतां दुःखेति गवेषमाणाः, सर्वधर्मशून्यतां अनात्मेति गवेषमाणाः सर्वधर्मशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
स्वलक्षणशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, स्वलक्षणशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, स्वलक्षणशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, स्वलक्षणशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति, येषां चोपदेक्ष्यन्ति, स्वलक्षणशून्यताम् अनित्येति गवेषिष्यन्ते, स्वलक्षणशून्यतां दुःखेति गवेषिष्यन्ते, स्वलक्षणशून्यताम् अनात्मेति गवेषिष्यन्ते, स्वलक्षणशून्यताम् अशुभेति गवेषिष्यन्ते, ते स्वलक्षणशून्यताम् अनित्येति गवेषमाणाः, स्वलक्षणशून्यतां दुःखेति गवेषमाणाः, स्वलक्षणशून्यताम् अनात्मेति गवेषमाणाः स्वलक्षणशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अनुपलम्भशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अनुपलम्भशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अनुपलम्भशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अनुपलम्भशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अनुपलम्भशून्यताम् अनित्येति गवेषिष्यन्ते, अनुपलम्भशून्यतां दुःखेति गवेषिष्यन्ते, अनुपलम्भसून्यताम् अनात्मेति गवेषिष्यन्ते, अनुपलम्भशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽनुपलम्भशून्यताम् अनित्येति गवेषमाणाः, अनुपलम्भशून्यतां दुःखेति गवेषमाणाः, अनुपलम्भशून्यताम् अनात्मेति गवेषमाणाः अनुपलम्भसून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अभावशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अभावशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अभावशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अभावशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अभावशून्यताम् अनित्येति गवेषिष्यन्ते, अभावशून्यतां दुःखेति गवेषिष्यन्ते, अभावशून्यताम् अनात्मेति गवेषिष्यन्ते, अभावशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽभवशून्यताम् अनित्येति गवेषमाणाः, अभावशून्यतां दुःखेति गवेषमाणाः, ( श्स्प्_इइ-4_205 ) अभावशून्यताम् अनात्मेति गवेषमाणाः अभावशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
स्वभावशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, स्वभावशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, स्वभावशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, स्वभावशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, स्वभावशून्यताम् अनित्येति गवेषिष्यन्ते, स्वभावशून्यतां दुःखेति गवेषिष्यन्ते, स्वभावशून्यताम् अनात्मेति गवेषिष्यन्ते, स्वभावशून्यताम् अशुभेति गवेषिष्यन्ते, ते स्वभावशून्यताम् अनित्येति गवेषमाणाः, स्वभावशून्यतां दुःखेति गवेषमाणाः, स्वभावशून्यताम् अनात्मेति गवेषमाणाः स्वभावशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अभावस्वभावशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अभावस्वभावशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अभावस्वभावशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अभावस्वभावशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अभावस्वभावशून्यताम् अनित्येति गवेषिष्यन्ते, अभावस्वभावशून्यतां दुःखेति गवेषिष्यन्ते, अभावस्वभावशून्यताम् अनात्मेति गवेषिष्यन्ते, अभावस्वभावशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽभावस्वभावशून्यताम् अनित्येति गवेषमाणाः, अभावस्वभावशून्यतां दुःखेति गवेषमाणाः, अभावस्वभावशून्यताम् अनात्मेति गवेषमाणाः अभावस्वभावशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति.
[क्. 219अ12, न्. 446ब्6, त्. 357अ5, प्. 30अ8, छ्. 743च्20]
स्मृत्युपस्थानान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, स्मृत्युपस्थानानि दुःखानीत्य् उपदेक्ष्यन्ति, स्मृत्युपस्थानान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, स्मृत्युपस्थानान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते स्मृत्युपस्थानान्य् अनित्यानीति गवेषिष्यन्ते, स्मृत्युपस्थानानि दुःखानीति गवेषिष्यन्ते, स्मृत्युपस्थानान्य् अनात्मानीति गवेषिष्यन्ते, स्मृत्युपस्थानान्य् अशुभानीति गवेषिष्यन्ते, ते स्मृत्युपस्थानान्य् अनित्यानीति गवेषमाणाः, स्मृत्युपस्थानानि दुःखानीति गवेषमाणाः, स्मृत्युपस्थानान्य् अनात्मनीति गवेषमाणाः, स्मृत्युपस्थानान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
सम्यक्प्रहाणान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, सम्यक्प्रहाणानि दुःखानीत्य् ( श्स्प्_इइ-4_206 ) उपदेक्ष्यन्ति, सम्यक्प्रहाणान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, सम्यक्प्रहाणान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते सम्यक्प्रहाणान्य् अनित्यानीति गवेषिष्यन्ते, सम्यक्प्रहाणानि दुःखानीति गवेषिष्यन्ते, सम्यक्प्रहाणान्य् अनात्मानीति गवेषिष्यन्ते, सम्यक्प्रहाणान्य् अशुभानीति गवेषिष्यन्ते, ते सम्यक्प्रहाणान्य् अनित्यानीति गवेषमाणाः, सम्यक्प्रहाणानि दुःखानीति गवेषमाणाः, सम्यक्प्रहाणान्य् अनात्मानीति गवेषमाणाः, सम्यक्प्रहाणान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
ऋद्धिपादान् अनित्या इत्य् उपदेक्ष्यन्ति, ऋद्धिपादान् दुःखा इत्य् उपदेक्ष्यन्ति, ऋद्धिपादान् अनात्मान इत्य् उपदेक्ष्यन्ति, ऋद्धिपादान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते ऋद्धिपादान् अनित्या इति गवेषिष्यन्ते, ऋद्धिपादाः दुःखा इति गवेषिष्यन्ते, ऋद्धिपादान् अनात्मान इति गवेषिष्यन्ते, रृद्धिपादान् अशुभा इति गवेषिष्यन्ते, ते ऋद्धिपादान् अनित्या इति गवेषमाणाः, ऋद्धिपादान् दुःखा इति गवेषमाणाः, ऋद्धिपादान् अनात्मान इति गवेषमाणाः, ऋद्धिपादान् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
इन्द्रियाण्य् अनित्यानीत्य् उपदेक्ष्यन्ति, इन्द्रियाणि दुःखानीत्य् उपदेक्ष्यन्ति, इन्द्रियाण्य् अनात्मानीत्य् उपदेक्ष्यन्ति, इन्द्रियाण्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते इन्द्रियाण्य् अनित्यानीति गवेषिष्यन्ते, इन्द्रियाणि दुःखानीति गवेषिष्यन्ते, इन्द्रियाण्य् अनात्मानीति गवेषिष्यन्ते, इन्द्रियाण्य् अशुभानीति गवेषिष्यन्ते, ते इन्द्रियाण्य् अनित्यानीति गवेषमाणाः, इन्द्रियाणि दुःखानीति गवेषमाणाः, इन्द्रियाण्य् अनात्मानीति गवेषमाणाः, इन्द्रियाण्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
बलान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, बलानि दुःखानीत्य् उपदेक्ष्यन्ति, बलान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, बलान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते बलान्य् अनित्यानीति गवेषिष्यन्ते, बलानि दुःखानीति गवेषिष्यन्ते, बलान्य् अनात्मानीति गवेषिष्यन्ते, बलान्य् अशुभानीति गवेषिष्यन्ते, ते बलान्य् अनित्यानीति गवेषमाणाः, बलानि दुःखानीति गवेषमाणाः, बलान्य् अनात्मानीति गवेषमाणाः, बलान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
बोध्यङ्गान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, बोध्यङ्गानि दुःखानित्य् उपदेक्ष्यन्ति, बोध्यङ्गान्य् अनात्मानीत्य्, उपदेक्ष्यन्ति, सम्यक्प्रहाणान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते बोध्यङ्गान्य् अनित्यानीति गवेषिष्यन्ते, बोध्यङ्गानि दुःखानीति गवेषिष्यन्ते, बोध्यङ्गान्य् अनात्मानीति गवेषिष्यन्ते, बोध्यङ्गान्य् अशुभानीति गवेषिष्यन्ते, ते बोध्यङ्गान्य् अनित्यानीति गवेषमाणाः, बोध्यङ्गानि दुःखानीति गवेषमाणाः, बोध्यङ्गान्य् अनात्मानीति गवेषमाणाः, बोध्यङ्गान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
आर्याष्टाङ्गमार्गम् अनित्य इत्य् उपदेक्ष्यन्ति, आर्याष्टाङ्गमार्गं दुःख इत्य् उपदेक्ष्यन्ति, आर्याष्टाङ्गमार्गम् अनात्मेत्य् उपदेक्ष्यन्ति, आर्याष्टाङ्गमार्गम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते आर्याष्टाङ्गमार्गम् अनित्य इति गवेषिष्यन्ते, आर्याष्टाङ्गमार्गं दुःख इति गवेषिष्यन्ते, आर्याष्टाङ्गमार्गम् अनात्मेति गवेषिष्यन्ते, आर्याष्टाङ्गमार्गम् अशुभ इति गवेषिष्यन्ते, ते आर्याष्टाङ्गमार्गम् अनित्य इति गवेषमाणाः, आर्याष्टाङ्गमार्गं दुःख इति गवेषमाणाः, आर्याष्टाङ्गमार्गम् अनात्मेति गवेषमाणाः, आर्याष्टाङ्गमार्गम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
आर्यसत्यान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, आर्यसत्यानि दुःखानीत्य् उपदेक्ष्यन्ति, आर्यसत्यान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, आर्यसत्यान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते आर्यसत्यान्य् अनित्यानीति गवेषिष्यन्ते, आर्यसत्यानि दुःखानीति गवेषिष्यन्ते, आर्यसत्यान्य् अनात्मनीति गवेषिष्यन्ते, आर्यसत्यान्य् अशुभानीति गवेषिष्यन्ते, ते आर्यसत्यान्य् अनित्यानीति गवेषमाणाः, आर्यसत्यानि दुःखानीति गवेषमाणाः, आर्यसत्यान्य् अनात्मानीति गवेषमाणाः, आर्यसत्यान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
ध्यानान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, ध्यानानि दुःखानीत्य् उपदेक्ष्यन्ति, ध्यानान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, ध्यानान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते ध्यानान्य् अनित्यानीति गवेषिष्यन्ते, ध्यानानि दुःखानीति गवेषिष्यन्ते, ध्यानान्य् अनात्मानीति गवेषिष्यन्ते, ध्यानान्य् अशुभानीति गवेषिष्यन्ते, ते ध्यानान्य् अनित्यानीति गवेषमाणाः, ध्यानानि दुःखानीति ( श्स्प्_इइ-4_208 ) गवेषमाणाः, ध्यानान्य् अनात्मानीति गवेषमाणाः, ध्यानान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अप्रमाणान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, अप्रमाणानि दुःखानीत्य् उपदेक्ष्यन्ति, अप्रमाणान्य् अनात्मानित्य् उपदेक्ष्यन्ति, अप्रमाणान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते ऽप्रमाणान्य् अनित्यानीति गवेषिष्यन्ते, अप्रमाणानि दुःखानीति गवेषिष्यन्ते, अप्रमाणान्य् अनात्मानीति गवेषिष्यन्ते, आर्यसत्यान्य् अशुभानीति गवेषिष्यन्ते, ते अप्रमाणान्य् अनित्यानीति गवेषमाणाः, अप्रमाणान्य् दुःखानीति गवेषमाणाः, अप्रमाणान्य् अनात्मानीति गवेषमाणाः, अप्रमाणान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
आरूप्यसमापत्तीर् अनित्या इत्य् उपदेक्ष्यन्ति, आरूप्यसमापत्तीर् दुःखा इत्य् उपदेक्ष्यन्ति, आरूप्यसमापत्तीर् अनात्मान इत्य् उपदेक्ष्यन्ति, आरुप्यसमापत्तीर् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, त आरूप्यसमापत्तीर् अनित्य इति गवेषिष्यन्ते, आरूप्यसमापत्तीर् दुःखा इति गवेषिष्यन्ते, आरूप्यसमापत्तीर् अनात्मान इति गवेषिष्यन्ते, आरूप्यसमापत्तीर् अशुभा इति गवेषिष्यन्ते, ते आरुप्यसमापत्तीर् अनित्य इति गवेषमाणाः, आरूप्यसमापत्तीर् दुःखा इति गवेषमाणाः, आरूप्यसमापत्तीर् अनात्मान इति गवेषमाणाः, आरूप्यसमापत्तीर् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
विमोक्षान् अनित्या इत्य् उपदेक्ष्यन्ति, विमोक्षान् दुःखा इत्य् उपदेक्ष्यन्ति, विमोक्षान् अनात्मान इत्य् उपदेक्ष्यन्ति, विमोक्षान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते विमोक्षान् अनित्य इति गवेषिष्यन्ते, विमोक्षान् दुःखा इति गवेषिष्यन्ते, विमोक्षान् अनात्मान इति गवेषिष्यन्ते, विमोक्षान् अशुभा इति गवेषिष्यन्ते, ते विमोक्षान् अनित्य इति गवेषमाणाः, विमोक्षान् दुःखा इति गवेषमाणाः, विमोक्षान् अनात्मान इति गवेषमाणाः, विमोक्षान् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अनुपूर्वविहारसमापत्तीर् अनित्य इत्य् उपदेक्ष्यन्ति, अनुपूर्वविहारसमापत्तीर् दुःखा इत्य् उपदेक्ष्यन्ति, अनुपूर्वविहारसमापत्तीर् अनात्मान इत्य् उपदेक्ष्यन्ति, अनुपूर्वविहारसमापत्तीर् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अनुपूर्वविहारसमापत्तीर् अनित्य इति गवेषिष्यन्ते, अनुपूर्वविहारसमापत्तीर् दुःखा इति गवेषिष्यन्ते, अनुपूर्वविहारसमापत्तीर् ( श्स्प्_इइ-4_209 ) अनात्मान इति गवेषिष्यन्ते, अनुपूर्वविहारसमापत्तीर् अशुभा इति गवेषिष्यन्ते, ते अनुपूर्वविहारसमापत्तीर् अनित्य इति गवेषमाणाः, अनुपूर्वविहारसमापत्तीर् दुःखा इति गवेषमाणाः, अनुपूर्वविहारसमापत्तीर् अनात्मान इति गवेषमाणाः, अनुपूर्वविहारसमापत्तिर् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि दुःखानीत्य् उपदेक्ष्यन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशुभनित्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानीति गवेषिष्यन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि दुःखानीति गवेषिष्यन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मानीति गवेषिष्यन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशुभानीति गवेषिष्यन्ते, ते शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानीति गवेषमाणाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् दुःखानीति गवेषमाणाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मानीति गवेषमाणाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अभिज्ञा अनित्या इत्य् उपदेक्ष्यन्ति, अभिज्ञा दुःखा इत्य् उपदेक्ष्यन्ति, अभिज्ञा अनात्मान इत्य् उपदेक्ष्यन्ति, अभिज्ञा अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अभिज्ञा अनित्य इति गवेषिष्यन्ते, अभिज्ञा दुःखा इति गवेषिष्यन्ते, अभिज्ञा अनात्मान इति गवेषिष्यन्ते, अभिज्ञा अशुभा इति गवेषिष्यन्ते, ते अभिज्ञा अनित्य इति गवेषमाणाः, अभिज्ञा दुःखा इति गवेषमाणाः, अभिज्ञा अनात्मान इति गवेषमाणाः, अभिज्ञा अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
समाधीन् अनित्या इत्य् उपदेक्ष्यन्ति, समाधीन् दुःखा इत्य् उपदेक्ष्यन्ति, समाधीन् अनात्मान इत्य् उपदेक्ष्यन्ति, समाधीन् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते समाधीन् अनित्य इति गवेषिष्यन्ते, समाधीन् दुःखा इति गवेषिष्यन्ते, समाधीन् अनात्मान इति गवेषिष्यन्ते, समाधीन् अशुभा इति गवेषिष्यन्ते, ते समाधीन् अनित्य इति गवेषमाणाः, समाधीन् दुःखा इति गवेषमाणाः, समाधीन् अनात्मान इति गवेषमाणाः, समाधीन् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
धारणीमुखान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, धारणीमुखानि दुःखानीत्य् उपदेक्ष्यन्ति, धारणीमुखान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, धारणीमुखान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते धारणीमुखान्य् अनित्यानीति गवेषिष्यन्ते, धारणीमुखानि दुःखानीति गवेषिष्यन्ते, धारणीमुखान्य् अनात्मानीति गवेषिष्यन्ते, धारणीमुखान्य् अशुभानीति गवेषिष्यन्ते, ते धारणीमुखान्य् अनित्यानीति गवेषमाणाः, धारणीमुखानि दुःखानीति गवेषमाणाह्, धारणीमुखान्य् अनात्मानीति गवेषमाणाः, धारणीमुखान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
तथागतबलान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, तथागतबलानि दुःखानीत्य् उपदेक्ष्यन्ति, तथागतबलान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, तथागतबलान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते तथागतबलान्य् अनित्यानीति गवेषिष्यन्ते, तथागतबलानि दुःखानीति गवेषिष्यन्ते, तथागतबलान्य् अनात्मानीति गवेषिष्यन्ते, तथागतबलान्य् अशुभानीति गवेषिष्यन्ते, ते तथागतबलान्य् अनित्यानीति गवेषमाणाः, तथागतबलानि दुःखानीति गवेषमाणाः, तथागतबलान्य् अनात्मानीति गवेषमाणाः, तथागतबलान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
वैशारद्यान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, वैशारद्यानि दुःखानीत्य् उपदेक्ष्यन्ति, वैशारद्यान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, वैशारद्यान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते वैशारद्यान्य् अनित्यानीति गवेषिष्यन्ते, वैशारद्यानि दुःखानीति गवेषिष्यन्ते, वैशारद्यान्य् अनात्मानीति गवेषिष्यन्ते, वैशारद्यान्य् अशुभानीति गवेषिष्यन्ते, ते वैशारद्यान्य् अनित्यानीति गवेषमाणाः, वैशारद्यानि दुःखानीति गवेषमाणाः, वैशारद्यान्य् अनात्मानीति गवेषमाणाः, वैशारद्यान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
प्रतिसंविदो ऽनित्या इत्य् उपदेक्ष्यन्ति, प्रतिसंविदो दुःखा इत्य् उपदेक्ष्यन्ति, प्रतिसंविदो ऽनात्मान इत्य् उपदेक्ष्यन्ति, प्रतिसंविदो ऽशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते प्रतिसंविदो ऽनित्या इति गवेषिष्यन्ते, प्रतिसंविदो दुःखा इति गवेषिष्यन्ते, प्रतिसंविदो ऽनात्मान इति गवेषिष्यन्ते, प्रतिसंविदो ऽशुब्बा इति गवेषिष्यन्ते, ते प्रतिसंविदो ऽनित्या इति गवेषमाणाः, प्रतिसंविदो दुःखा इति गवेषमाणाः, प्रतिसंविदो ऽनात्मान इति गवेषमाणाः, प्रतिसंविदो ( श्स्प्_इइ-4_211 ) ऽशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
महाकरुणाम् अनित्येत्य् उपदेक्ष्यन्ति, महाकरुणां दुःखेत्य् उपदेक्ष्यन्ति, महाकरुणाम् अनात्मेत्य् उपदेक्ष्यन्ति, महाकरुणाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते महाकरुणाम् अनित्येति गवेषिष्यन्ते, महाकरुणां दुःखेति गवेषिष्यन्ते, महाकरुणाम् अनात्मेति गवेषिष्यन्ते, महाकरुणाम् अशुभेति गवेषिष्यन्ते, ते महाकरुणाम् अनित्येति गवेषमाणाः, महाकरुणां दुःखेति गवेषमाणाः, महाकरुणाम् अनात्मेति गवेषमाणाः, महाकरुणाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
आवेणिकबुद्धधर्मान् अनित्या इत्य् उपदेक्ष्यन्ति, आवेणिकबुद्धधर्मान् दुःखा इत्य् उपदेक्ष्यन्ति, आवेणिकबुद्धधर्मान् अनात्मान इत्य् उपदेक्ष्यन्ति, आवेणिकबुद्धधर्मान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते आवेणिकबुद्धधर्मान् अनित्य इति गवेषिष्यन्ते, आवेणिकबुद्धधर्मान् दुःखा इति गवेषिष्यन्ते, आवेणिकबुद्धधर्मान् अनात्मान इति गवेषिष्यन्ते, आवेणिकबुद्धधर्मान् अशुभ इति गवेषिष्यन्ते, ते आवेणिकबुद्धधर्मान् अनित्य इति गवेषमाणाः, आवेणिकबुद्धधर्मान् दुःखा इति गवेषमाणाः, आवेणिकबुद्धधर्मान् अनात्मान इति गवेषमाणाः, आवेणिकबुद्धधर्मान् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
स्रोतआपत्तिफलम् अनित्यम् इत्य् उपदेक्ष्यन्ति, स्रोतआपत्तिफलं दुःखम् इत्य् उपदेक्ष्यन्ति, स्रोतआपत्तिफलम् अनात्मेत्य् उपदेक्ष्यन्ति, स्रोतआपत्तिफलम् अशुभम् इत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते स्रोतआपत्तिफलम् अनित्यम् इति गवेषिष्यन्ते, स्रोतआपत्तिफलं दुःखम् इति गवेषिष्यन्ते, स्रोतआपत्तिफलम् अनात्मेति गवेषिष्यन्ते, स्रोतआपत्तिफलम् अशुभम् इति गवेषिष्यन्ते, ते स्रोतआपत्तिफलम् अनित्यम् इति गवेषमाणाः, स्रोतआपत्तिफलं दुःखम् इति गवेषमाणाः, स्रोतआपत्तिफलम् अनात्मेति गवेषमाणाः, स्रोतआपत्तिफलम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
सकृदागामिफलम् अनित्यम् इत्य् उपदेक्ष्यन्ति, सकृदागामिफलं दुःखम् इत्य् उपदेक्ष्यन्ति, सकृदागामिफलम् अनात्मेत्य् उपदेक्ष्यन्ति, सकृदागामिफलम् अशुभम् इत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति ( श्स्प्_इइ-4_212 ) स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते सकृदागामिफलम् अनित्यम् इति गवेषिष्यन्ते, सकृदागामिफलं दुःखम् इति गवेषिष्यन्ते, सकृदागामिफलम् अनात्मेति गवेषिष्यन्ते, सकृदागामिफलम् अशुभम् इति गवेषिष्यन्ते, ते सकृदागामिफलम् अनित्यम् इति गवेषमाणाः, सकृदागामिफलं दुःखम् इति गवेषमाणाः, सकृदागामिफलम् अनात्मेति गवेषमाणाः, सकृदागामिफलम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अनागामिफलम् अनित्यम् इत्य् उपदेक्ष्यन्ति, अनागामिफलं दुःखम् इत्य् उपदेक्ष्यन्ति, अनागामिफलम् अनात्मेत्य् उपदेक्ष्यन्ति, अनागामिफलम् अशुभम् इत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अनागामिफलम् अनित्यम् इति गवेषिष्यन्ते, अनागामिफलं दुःखम् इति गवेषिष्यन्ते, अनागामिफलम् अनात्मेति गवेषिष्यन्ते, अनागामिफलम् अशुभम् इति गवेषिष्यन्ते, ते अनागामिफलम् अनित्यम् इति गवेषमाणाः, अनागामिफलं दुःखम् इति गवेषमाणाः, अनागामिफलम् अनात्मेति गवेषमाणाः, अनागामिफलम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
अर्हत्त्वम् अनित्यम् इत्य् उपदेक्ष्यन्ति, अर्हत्त्वं दुःखम् इत्य् उपदेक्ष्यन्ति, अर्हत्त्वम् अनात्मेत्य् उपदेक्ष्यन्ति, अर्हत्त्वम् अशुभम् इत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अर्हत्त्वम् अनित्यम् इति गवेषिष्यन्ते, अर्हत्त्वं दुःखम् इति गवेषिष्यन्ते, अर्हत्त्वम् अनात्मेति गवेषिष्यन्ते, अर्हत्त्वम् अशुभम् इति गवेषिष्यन्ते, ते अर्हत्त्वम् अनित्यम् इति गवेषमाणाः, अर्हत्त्वं दुःखम् इति गवेषमाणाः, अर्हत्त्वम् अनात्मेति गवेषमाणाः, अर्हत्त्वम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
प्रत्येकबोधिम् अनित्येत्य् उपदेक्ष्यन्ति, प्रत्येकबोधिं दुःखेत्य् उपदेक्ष्यन्ति, प्रत्येकबोधिम् अनात्मेत्य् उपदेक्ष्यन्ति, प्रत्येकबोधिम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते प्रत्येकबोधिम् अनित्येति गवेषिष्यन्ते, प्रत्येकबोधिं दुःखेति गवेषिष्यन्ते, प्रत्येकबोधिम् अनात्मेति गवेषिष्यन्ते, प्रत्येकबोधिम् अशुभेति गवेषिष्यन्ते, ते प्रत्येकबोधिम् अनित्येति गवेषमाणाः, प्रत्येकबोधिं दुःखेति गवेषमाणाः, प्रत्येकबोधिम् अनात्मेति गवेषमाणाः प्रत्येकबोधिम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
मार्गाकारज्ञताम् अनित्येत्य् उपदेक्ष्यन्ति, मार्गाकारज्ञतां दुःखेत्य् उपदेक्ष्यन्ति, मार्गाकारज्ञताम् अनात्मेत्य् उपदेक्ष्यन्ति, मार्गाकारज्ञताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते मार्गाकारज्ञताम् अनित्येति गवेषिष्यन्ते, मार्गाकारज्ञतां दुःखेति गवेषिष्यन्ते, मार्गाकारज्ञताम् अनात्मेति गवेषिष्यन्ते, मार्गाकारज्ञतां अशुभेति गवेषिष्यन्ते, ते मार्गाकारज्ञताम् अनित्येति गवेषमाणाः, मार्गाकारज्ञतां दुःखेति गवेषमाणाः, मार्गाकारज्ञताम् अनात्मेति गवेषमाणाः मार्गाकारज्ञताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति,
सर्वाकारज्ञताम् अनित्येत्य्, उपदेक्ष्यन्ति, सर्वाकारज्ञतां दुःखेत्य् उपदेक्ष्यन्ति, सर्वाकारज्ञताम् अनात्मेत्य् उपदेक्ष्यन्ति, सर्वाकारज्ञताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते सर्वाकारज्ञताम् अनित्येति गवेषिष्यन्ते, सर्वाकारज्ञतां दुःखेति गवेषिस्यन्ते, सर्वाकारज्ञताम् अनात्मेति गवेषिष्यन्ते, सर्वाकारज्ञताम् अशुभेति गवेषिष्यन्ते, ते सर्वाकारज्ञताम् अनित्येति गवेषमाणाः, सर्वाकारज्ञतां दुःखेति गवेषमाणाः, सर्वाकारज्ञताम् अनात्मेति गवेषमाणाः सर्वाकारज्ञताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति. इयं कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
[क्. 221ब्3, न्. 447अ4, त्. 361अ1, प्. 38ब्1, छ्. 787च्4]
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् चैवं प्रज्ञापारमिताम् उपविशन्ति उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र ध्यानपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र वीर्यपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र क्षान्तिपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ ( श्स्प्_इइ-4_214 ) षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र शीलपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र दानपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि. तश् च निमित्तयोगेनोपलम्भयोगेन, स कालसंज्ञया प्रज्ञापारमितां भावयिष्यति. इयं कौशिक प्रज्ञापारमिताप्रतिवर्णिका.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय सत्त्वं कुलपुत्र प्रज्ञाईपारमितां भावयन् श्रावकभूमिं समतिक्रमिष्यसि प्रत्येकबुद्धभूमिं समतिक्रमिष्यसि. इयं कौशिक सा प्रज्ञापारमिता प्रतिवर्णिका.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा प्रज्ञापारमिताम् उपदिशन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय सत्त्वं प्रज्ञापारमितां भावयन् बोधिसत्त्वन्यामम् अवक्रमिष्याम्य् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलप्स्यसे, सत्त्वम् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलभ्य बोधिसत्त्वाभिज्ञासु स्थित्वा बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यसि तां तथागतार्हतः सम्यक्संबुद्धान् सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् नैवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरश् च प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा एवम् उपदेक्ष्यन्ति, यः कुलपुत्र प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सो ऽप्रमेयम् असंख्येयम् अपरिमाणं पुण्यस्कन्धं प्रसविष्यति. एवम् उपदिशन्तस् तेषां कुलपुत्राणां कुलदुहितॄणां वा प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा एवम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्रातीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां ( श्स्प्_इइ-4_215 ) सम्यक्संबुद्धानां यत् कुशलमूलं तत् प्रथमचित्तोत्पादम् उपादायः, यावद् अनुपाधिशेषां निर्वाणधातौ परिनिर्वृतां तत् सर्वम् अभिसंक्षिप्यानुमोद्यानुत्तरायां सम्यक्संबोधौ परिणामय एवम् उपदिशन्तस् ते कुलपुत्राः कुलदुहितरश् च प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
[क्. 222अ2, न्. 448अ5, त्. 361ब्6, प्. 39ब्7, छ्. 788च्17]
शक्र आह: कथम् उपदिशन्तो भगवंस् ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति?
भगवान् आह: इह कौशिक कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च रूपम् अनित्यम् इति समनुपश्यः. तत् कस्य हेतोः? रूपं स्वभावशून्यं यो रूपस्य स्वभावः सो ऽभूवः सा प्रज्ञापारमिताया प्रज्ञापारमिता न तत्र रूपं नित्य इति वा अनित्यम् इति चोपलभ्यते, रूपम् एव न संविद्यते नोपलभते. कुतः पुनर् नित्यं वा अनित्यं वा ब्बविष्यन्ति, एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? वेदनास्वभावेन शून्याया वेदनायाः स्वभाव सो ऽभावो यो भावः सा प्रज्ञापारमिता तत्र न वेदना नित्येति चोपलभ्यते. वेदनैव तत्र न सम्विद्यते नोपलभ्यते कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च संज्ञाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? संज्ञास्वभावेन शून्यायाः संज्ञायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमितायाः प्रज्ञापारमिता न तत्र संज्ञा नित्येति वा अनित्येति वोपलभ्यते. संज्ञैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वाभविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च संस्कारान् अनित्या इति समनुपश्य. तत् कस्य हेतोः? संस्काराः स्वभावेन शून्याः यः संस्काराणां स्वभावः सो ऽभावा यो ऽभावः सा प्रज्ञापारमितायाः प्रज्ञापारमिता तत्र न संस्कारा नित्या इति वा अनित्या इति वोपलभ्यते. संस्कारा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं. कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च विज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? विज्ञानं स्वभावेन शून्यः यो विज्ञानस्य स्वभावः सो भावो यो ऽभावः सा प्रज्ञापारमितायाः प्रज्ञापारमिता तत्र न विज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. विज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च चक्षुर् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? चक्षुः स्वभावेन शून्यो यश् चक्षुषः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता तत्र न चक्षुर् नित्यम् इति वा अनित्यम् इति वोपलभ्यते. चक्षुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च श्रोत्रम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? श्रोत्रं स्वभावेन शून्यो यश् श्रोत्रस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता तत्र न श्रोत्रं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. श्रोत्रम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः ( श्स्प्_इइ-4_217 ) कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च घ्राणम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? घ्राणस्वभावेन शुन्या यो घ्राणस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता तत्र न घ्राणं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. घ्राणम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जिह्वाम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? जिह्वा स्वभावेन शून्या यो जिह्वायाः स्वभावः सो ऽब्बावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न जिह्वा नित्येति वा अनित्येति वोपलभ्यते. जिह्वैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कायम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? कायः स्वभावेन शून्यो यः कायस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न काये नित्य इति वा अनित्य इति वोपलभ्यते. काय एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मनो ऽनित्यम् इति समनुपश्य. तत् कस्य हेतोः? मनः स्वभावेन शून्यं यो मनसः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न मनो नित्यम् इति वा अनित्यम् इति वोपलभ्यते. मन एव ( श्स्प्_इइ-4_218 ) तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च रूपम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? रूपं स्वभावेन शून्यं या रूपस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न रूपं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. रूपम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च शब्दम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? शब्दः स्वभावेन शून्यः यः शब्दस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न शब्दो नित्य इति वा अनित्य इति वोपलभ्यते. शब्द एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च गन्धम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? गन्धः स्वभावेन शून्यो यो गन्धस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न गन्धो नित्य इति वा अनित्य इति वोपलभ्यते. गन्ध एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च रसम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? रसः स्वभावेन शून्यो यो ( श्स्प्_इइ-4_219 ) रसस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न रसो नित्य इति वा अनित्य इति वोपलभ्यते. रस एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्पर्शम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? स्पर्शः स्वभावेन शून्यो यो स्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारामिता, तत्र न स्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. स्पर्श एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च धर्मान् अनित्या इति समनुपश्य. तत् कस्य हेतोः? धर्माः स्वभावेन शून्यो यो धर्माणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न धर्मा नित्या इति वा अनित्या इति वोपलभ्यते. धर्मा एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च चक्षुर्विज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? चक्षुर्विज्ञानं स्वभावेन शून्यं यश् चक्षुर्विज्ञानस्य स्वभावः सो ऽभावो यो ऽभवः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न चक्षुर्विज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. चक्षुर्विज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापरमिताम् ( श्स्प्_इइ-4_220 ) उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च श्रोत्रविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? श्रोत्रविज्ञानं स्वभावेन शून्यं यः श्रोत्रविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता, तत्र न श्रोत्रविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. श्रोत्रविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च घ्राणविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? घ्राणविज्ञानं स्वभावेन शून्यं यो घ्राणविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न घ्राणविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. घ्राणविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जिह्वाविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? जिह्वाविज्ञानं स्वभावेन शून्यं यो जिह्वाविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न जिह्वाविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. जिह्वाविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कायविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? कायविज्ञानं स्वभावेन शून्यं यः कायविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न कायविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. कायविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मनोविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? मनोविज्ञानं स्वभावेन शून्यं यो मनोविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न मनोविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. मनोविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय भावय मा च चक्षुःसंस्पर्शम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? चक्षुःसंस्पर्शः स्वभावेन शून्यः यश् चक्षुःसंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न चक्षुःसंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. चक्षुःसंस्पर्श एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च श्रोत्रसंस्पर्शम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? श्रोत्रसंस्पर्शः स्वभावेन शून्यं यः श्रोत्रसंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न श्रोत्रसंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. श्रोत्रसंस्पर्शम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्रणां कुलदुहितॄणं चैवं प्रज्ञापरमितम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च घ्रणसंस्पर्शम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? घ्राणसंस्पर्शः स्वभावेन शून्यः यो घ्राणसंस्पर्शस्य स्वभावः सो ऽभावो यो भवः सा प्रज्ञापारमिता, या प्रज्ञापारमिता, तत्र न घ्राणसंस्पर्शो नित्य इति ( श्स्प्_इइ-4_222 ) वा अनित्य इति वोपलभ्यते. घ्राणसंस्पर्श एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जिह्वासंस्पर्शम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? जिह्वासंस्पर्शः स्वभावेन शून्यं यो जिह्वासंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न जिह्वासंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. जिह्वासंस्पर्शम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कायसंस्पर्शम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? कायसंस्पर्शः स्वभावेन शून्यः यः कायसंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न कायसंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. कायसंस्पर्श एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मनःसंस्पर्शम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? मनःसंस्पर्शः स्वभावेन शून्यं यो मनःसंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न मनःसंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. मनःसंस्पर्शम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च चक्षुःसंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? चक्षुःसंस्पर्शप्रत्ययवेदना ( श्स्प्_इइ-4_223 ) स्वभावेन शून्या यश् चक्षुःसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न चक्षुःसंस्पर्शप्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. चक्षुःसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च श्रोत्रसंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? श्रोत्रसंस्पर्शप्रत्ययवेदना स्वभावेन शून्या यः श्रोत्रसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न श्रोत्रसंस्पर्शप्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. श्रोत्रसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो या भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च घ्राणसंस्पर्शप्रत्ययवेदनाम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? घ्राणसंस्पर्शप्रत्ययवेदना स्वभावेन शून्या यो घ्रणसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न घ्राणसंस्पर्श्प्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. घ्राणसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्रणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जिह्वासंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? जिह्वासंस्पर्शप्रत्ययवेदना स्वभावेन शुन्या यो जिह्वासंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न जिह्वासंस्पर्श्प्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. जिह्वासंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः ( श्स्प्_इइ-4_224 ) पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कायसंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? कायसंस्पर्शप्रत्ययवेदना स्वभावेन शून्या यः कायसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न कायसंस्पर्श्प्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. कायसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति, एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मनःसंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? मनःसंस्पर्शप्रत्ययवेदना स्वभावेन शून्या यो मनःसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न मनःसंस्पर्श्प्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. मनःसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
[क्. 224ब्18, न्. 454ब्2, त्. 366ब्8, प्. 49अ3, छ्. 794च्24]
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च पृथिवीधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? पृथिवीधातुः स्वभावेन शून्यो यः पृथिवीधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न पृथिवीधातुः नित्य इति वा अनित्य इति वोपलभ्यते. पृथिवीधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् ( श्स्प्_इइ-4_225 ) उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाब्धातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? अब्धातुः स्वभावेन शून्यो यो ऽब्धातोः स्वभावः सो ऽभावो यो ऽभवः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र नाब्धातुर् नित्य इति वा अनित्य इति वोपलभ्यते. अब्धातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च तेजोधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? तेजोधातुः स्वभावेन शून्यो यस् तेजोधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न तेजोधातुः नित्य इति वा अनित्य इति वोपलभ्यते. तेजोधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्रणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वायुधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? वायुधातुः स्वभावेन शून्यो यो वायुधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न वायुधातुर् नित्य इति वा अनित्य इति वोपलभ्यते. वायुधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाकाशधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? आकाशधातुः स्वभावेन शून्यो य आकाशधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र नाकाशधातुर् नित्य इति वा अनित्य इति वोपलभ्यते. आकाशधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च विज्ञानधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? विज्ञानधातुः स्वभावेन शून्यो यो विज्ञानधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न विज्ञानधातुर् नित्य इति वा अनित्य इति वोपलभ्यते. विज्ञानधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
[क्. 225अ16, न्. 455ब्4, त्. 367अ13, प्. 50ब्3, छ्. 794ए11]
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाविद्याम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अविद्या स्वभावेन शून्या यो विद्यायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाविद्या नित्येति वा अनित्येति वोपलभ्यते. अविद्यैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च संस्कारान् अनित्य इति समनुपश्य. तत् कस्य हेतोः? संस्काराः स्वभावेन शून्याः यः संस्काराणां स्वभावः सो ऽभवा यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न संस्कारानित्या इति वा अनित्याइति वोपलभ्यते. संस्कारा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च विज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? विज्ञानं स्वभावेन शून्यं यो विज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न विज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. विज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा ( श्स्प्_इइ-4_227 ) भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च नामरूपम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? नामरूपं स्वभावेन शून्यं यो नामरूपस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न नामरूपं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. नामरूपम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च षडायतनम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? षडायतनं स्वभावेन शून्यं यः षडायतनस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न षडायतनं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. षडायतनम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्पर्शम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? स्पर्शस्वभावेन शून्यो यः स्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न स्पर्शं नित्य इति वा अनित्यम् इति वोपलभ्यते. स्पर्शम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्रणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? वेदना स्वभावेन शून्या या वेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता ( श्स्प्_इइ-4_228 ) तत्र न वेदना नित्येति वा अनित्येति वोपलभ्यते. वेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च तृष्णाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? तृष्णास्वभावेन शून्या यस् तृष्णायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न तृष्णा नित्येति वा अनित्येति वोपलभ्यते. तृष्णैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चोपादानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? उपादानं स्वभावेन शून्यो य उपादानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता तत्र नोपादनं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. उपादानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवं उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च भवम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? भवः स्वभावेन शून्यो यो भवस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता, तत्र न भवो नित्य इति वा अनित्य इति वोपलभ्यते. भव एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जातिम् अनित्येति समनुपश्य. तत् कस्य हेतोः? जातिः स्वभावेन शून्या या जात्याः ( श्स्प्_इइ-4_229 ) स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न जातिर् नित्येति वा अनित्येति वोपलभ्यते. जातिर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जरामरणम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? जरामरण स्वभावेन शून्यो यो जरामरणस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता तत्र न जरामरणं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. जरामरणम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
[क्. 226अ14, न्. 457ब्5, त्. 368ब्7, प्. 53ब्3, छ्. 795ब्7]
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च दानपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? दानपारमिता स्वभावेन शून्या यो दानपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न दाणपारमिता नित्येति वा अनित्येति वोपलभ्यते. दानपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च शीलपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? शीलपारमिता स्वभावेन शून्या यः शीलपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न शीलपारमिता नित्येति वा अनित्येति वोपलभ्यते. शीलपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् ( श्स्प्_इइ-4_230 ) उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च क्षान्तिपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? क्षान्तिपारमिता स्वभावेन शून्या यः क्षान्तिपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न क्षान्तिपारमिता नित्येति वा अनित्येति वोपलभ्यते. क्षान्तिपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वीर्यपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? वीर्यपारमिता स्वभावेन शून्या यो वीर्यपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न वीर्यपारमिता नित्येति वा अनित्येति वोपलभ्यते. वीर्यपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय म च ध्यनपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? ध्यानपारमिता स्वभावेन शून्या यो ध्यानपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न ध्यानपारमिता नित्येति वा अनित्येति वोपलभ्यते. ध्यानपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च प्रज्ञापारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? प्रज्ञापारमिता स्वभावेन शून्या यः प्रज्ञापारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता तत्र न प्रज्ञापारमिता नित्येति वा अनित्येति वोपलभ्यते. प्रज्ञापारमितैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
[क्. 226ब्13, न्. 457ब्8, त्. 369अ12, प्. 55अ5, छ्. 796अ6]
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाध्यात्मशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अध्यात्मशून्यता स्वभावेन शून्या यो ऽध्यात्मशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाध्यात्मशून्यता नित्येति वा अनित्येति वोपलभ्यते. अध्यात्मशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च बहिर्धाशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? बहिर्धाशून्यता स्वभावेन शून्या यो बहिर्धाशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमित या प्रज्ञापारमिता तत्र न बहिर्धाशून्यता नित्येति वा अनित्येति वोपलभ्यते. बहिर्धाशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाध्यात्मबहिर्धाशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अध्यात्मबहिर्धशून्यता स्वभावेन शून्या यो ऽध्यात्मबहिर्धाशून्यतयः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाध्यात्मबहिर्धाशून्यता नित्येति वा अनित्येति वोपलभ्यते. अध्यात्मबहिर्धाशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च शून्यताशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? शून्यताशून्यता स्वभावेन शून्या यः शून्यताशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता ( श्स्प्_इइ-4_232 ) या प्रज्ञापारमिता तत्र न शून्यताशून्यता नित्येति वा अनित्येति वोपलभ्यते. शून्यताशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च महाशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? महाशून्यता स्वभावेन शून्या यः महाशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न महाशून्यता नित्येति वा अनित्येति वोपलभ्यते. महाशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च परमार्थशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? परमार्थशून्यता स्वभावेन शून्या यश् च परमार्थशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न परमार्थशून्यता नित्येति वा अनित्येति वोपलभ्यते. परमार्थशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च संस्कृतशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? संस्कृतशून्यता स्वभावेन शून्या यश् च संस्कृतशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न संस्कृतशून्यता नित्येति वा अनित्येति वोपलभ्यते. संस्कृतशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चासंस्कृतशून्यताम् ( श्स्प्_इइ-4_233 ) अनित्येति समनुपश्य. तत् कस्य हेतोः? असंस्कृतशून्यता स्वभावेन शून्या यश् चासंस्कृतशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नासंस्कृतशून्यता नित्येति वा अनित्येति वोपलभ्यते. असंस्कृतशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चात्यन्तशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अत्यन्तशून्यता स्वभावेन शून्या यश् चात्यन्तशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नात्यन्तशून्यता नित्येति वा अनित्येति वोपलभ्यते. अत्यन्तशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमिताइन् भावय मा चानवराग्रशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अनवराग्रशून्यता स्वभावेन शून्य यश् चानवराग्रशून्यतायाः स्वभायः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नानवराग्रशून्यता नित्येति वा अनित्येति वोपलभ्यते. अनवराग्रशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चानवकारशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अनवकारशून्यता स्वभावेन शून्या यश् चानवकारशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नानवकारशून्यता नित्येति वा अनित्येति वोपलभ्यते. अनवकारशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां ( श्स्प्_इइ-4_234 ) कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च प्रकृतिशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? प्रकृतिशून्यता स्वभावेन शून्या यश् च प्रकृतिशून्यतायाः स्वभवः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न प्रकृतिशून्यता नित्येति वा अनित्येति वोपलभ्यते. प्रकृतिशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च सर्वधर्मशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? सर्वधर्मशून्यता स्वभावेन शून्या यश् च सर्वधर्मशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न सर्वधर्मशून्यता नित्येति वा अनित्येति वोपलभ्यते. सर्वधर्मशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्वलक्षणशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? स्वलक्षणशून्यता स्वभावेन शून्या यश् च स्वलक्षणशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न स्वलक्षणशून्यता नित्येति वा अनित्येति वोपलभ्यते. स्वलक्षणशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चानुपलम्भशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अनुपलम्भशून्यता स्वभावेन शून्या यश् चानुपलम्भशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नानुपलम्भशून्यता ( श्स्प्_इइ-4_235 ) नित्येति वा अनित्येति वोपलभ्यते. अनुपलम्भशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाभावशून्यतम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अभावशून्यता स्वभावेन शून्या यश् चाभावशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाभावशून्यता नित्येति वा अनित्येति वोपलभ्यते. अभावशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्वभावशूह्यताम् अनित्येति समनुपश्य, तत् कस्य हेतोः? स्वभावशून्यता स्वभावेन शून्या यश् च स्वभावशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमित तत्र न स्वभावशून्यता नित्येति वा अनित्येति वोपलभ्यते. स्वभावशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाभावस्वभावशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अभावस्वभावशून्यता स्वभावेन शुन्या यश् चाभावस्वभावशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाभावस्वभावशून्यता नित्येति वा अनित्येति वोपलभ्यते. अभावस्वभावशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
[क्. 228अ15, न्. 461अ5, त्. 371अ13, प्. 60अ6, छ्. 799अ29]
पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां ( श्स्प्_इइ-4_236 ) कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमितामुपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्मृत्युपस्थानान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? स्मृत्युपस्थानानि स्वभावेन शून्यानि यः स्मृत्युपस्थानानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न स्मृत्युपस्थानानि नित्यानीति वा अनित्यानीति वोपलभ्यते. स्मृत्युपस्थानान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च सम्यक्प्रहाणान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? सम्यक्प्रहाणानि स्वभावेन शून्यानि यः सम्यक्प्रहाणानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न सम्यक्प्रहाणानि नित्यानीति वा अनित्यानीति वोपलभ्यते. सम्यक्प्रहाणान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिअअन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च ऋद्धिपादा अनित्या इति समनुपश्य. तत् कस्य हेतोः? ऋद्धिपादाः स्वभावेन शून्या य ऋद्धिपादानां स्वभावः सो ऽभावो यो ऽभावः स प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न र्द्धिपादा नित्या इति वा अनित्या इति वोपलभ्यते. ऋद्धिपादा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चेन्द्रियाण्य् अनित्यानीति समनुपश्य, तत् कस्य हेतोः? इन्द्रियाणि स्वभावेन शून्यानि य इन्द्रियाणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नेन्द्रियणि नित्यानीति वा अनित्यानीति वोपलभ्यते. इन्द्रियाण्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् ( श्स्प्_इइ-4_237 ) उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च बलान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? बलानि स्वभावेन शून्यानि यो बलानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न बलानि नित्यानीति वा अनित्यानीति वोपलभ्यते. बलान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितांभावय मा च बोध्यङ्गान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? बोध्यङ्गानि स्वभावेन शून्यानि यो बोध्यङ्गानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न बोध्यङ्गानि नित्यानीति वा अनित्यानीति वोपलभ्यते. बोध्यङ्गान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चार्याष्टाङ्गमार्गम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? आर्याष्टाङ्गो मार्गः स्वभावेन शून्या य आर्याष्टाङ्गस्य मार्गस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नार्याष्टाङ्गो मार्गो नित्य इति वा अनित्य इति वोपलभ्यते. आर्याष्टाङ्गमार्ग एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चार्यसत्यान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? आर्यसत्यानि स्वभावेन शुन्यानि य आर्यसत्यानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता ( श्स्प्_इइ-4_238 ) या प्रज्ञापारमिता तत्र नार्यसत्यानि नित्यानीति वा अनित्यानीति वोपलभ्यते. आर्यसत्यान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च ध्यान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? ध्यानानि स्वभावेन शून्यानि यो ध्यानानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न ध्यानानि नित्यानीति वा अनित्यानीति वोपलभ्यते. ध्यानान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाप्रमाणान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? अप्रमाणानि स्वभावेन शून्यानि यो ऽप्रमाणानां स्वभावः सो ऽभावो यो ऽभवः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाप्रमाणानि नित्यानीति वा अनित्यानीति वोपलभ्यते. अप्रमाणान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकनां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चरूप्यसमापत्तीर् अनित्या इति समनुपश्य. तत् कस्य हेतोः? आरूप्यसमापत्तयः स्वभावेन शून्या य आरूप्यसमापत्तीनां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नारुप्यसमापत्तयो नित्या इति वा अनित्या इति वोपलभ्यते. आरुप्यसमापत्तय एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय म च विमोक्षान् ( श्स्प्_इइ-4_239 ) अनित्या इति समनुपश्य. तत् कस्य हेतोः? विमोक्षा स्वभावेन शून्या यो विमोक्षाणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न विमोक्षा नित्या इति वा अनित्या इति वोपलभ्यते. विमोक्षा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चानुपूर्वविहारसमापत्तीर् अनित्या इति समनुपश्य. तत् कस्य हेतोः? चानुपूर्वविहारसमापत्तयः स्वभावेन शून्या यो ऽनुपूर्वविहारसमापत्तीनां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नानुपूर्वविहारसमापत्तयो नित्या इति वा अनित्या इति वोपलभ्यते. अनुपूर्वविहारसमापत्तय एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च शून्यतानिमित्ताप्रनिहितविमोक्षमुखान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि स्वभावेन शून्यानि यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां स्वभावः सो ऽभायो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नित्यानीति वा अनित्यानीति वोपलभ्यते. शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाभिज्ञा अनित्या इति समनुपश्य. तत् कस्य हेतोः? अभिज्ञाः स्वभावेन शून्या यो ऽभिज्ञानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाभिज्ञा नित्या इति वा अनित्या इति वोपलभ्यते. अभिज्ञा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् ( श्स्प्_इइ-4_240 ) उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च समाधीन् अनित्या इति समनुपश्य. तत् कस्य हेतोः? समाधयः स्वभावेन शून्या यः समाधीनां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न समाधयो नित्या इति वा अनित्या इति वोपलभ्यते. समाधय एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च धारणीमुखान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? धारणीमुखानि स्वभावेन शून्यानि यः धारणीमुखानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न धारणीमुखानि नित्यानीति वा अनित्यानीति वोपलभ्यते. धारणीमुखान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च तथागतबलान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? तथागतबलानि स्वभावेन शून्यानि यस् तथागतबलानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न तथागतबलानि नित्यानीति वा अनित्यानीति वोपलभ्यते. तथागतबलान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वैशारद्यान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? वैशारद्यानि ( श्स्प्_इइ-4_241 ) स्वभावेन शून्यानि यो वैशारद्यानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न वैशारद्यानि नित्यानीति वा अनित्यानीति वोपलभ्यते. वैशारद्यान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च प्रतिसंविदो ऽनित्या इति समनुपश्य. तत् कस्य हेतोः? प्रतिसंविदः स्वभावेन शून्या यः प्रतिसंविदाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न प्रतिसंविदो नित्या इति वा अनित्या इति वोपलभ्यते. प्रतिसंविद एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च महाकरुणाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? महाकरुणा स्वभावेन शून्या यो महाकरुणायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न महाकरुणा नित्येति वा अनित्येति वोपलभ्यते. महाकरुणैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिइसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चावेणिकबुद्धधर्मान् अनित्या इति समनुपश्य. तत् कस्य हेतोः? आवेणिकबुद्धधर्माः स्वभावेन शून्या य आवेणिकबुद्ध्हधर्माणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नावेणिकबुद्धधर्मा नित्या इति वा अनित्या इति वोपलभ्यते. आवेणिकबुद्धधर्मा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां ( श्स्प्_इइ-4_242 ) कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमितामुपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्रोतआपत्तिफलम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? स्रोतआपत्तिफलं स्वभावेन शून्यं यः स्रोतआपत्तिफलस्य स्वभावः सो ऽभावो यो ऽभवः सा प्रज्ञापारमित या प्रज्ञापारमिता तत्र न स्रोतआपत्तिफलं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. स्रोतआपत्तिफलम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च सकृदागामिफलम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? सकृदागामिफलं स्वभावेन शून्यं यः सकृदागामिफलस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमित या प्रज्ञापारमिता तत्र न सकृदागामिफलं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. सकृदागामिफलम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चानगामिफलम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? अनागामिफलं स्वभावेन शून्यं यो ऽनागामिफलस्य स्वभवः सो ऽभावो यो ऽभवः सा प्रज्ञापारमित या प्रज्ञापारमिता तत्र नानागामिफलं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. अनागामिफलम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चार्हत्त्वम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? अर्हत्त्वं स्वभावेन शून्यं यो ऽर्हत्त्वस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नार्हत्त्वं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. ( श्स्प्_इइ-4_243 ) अनागामिफलम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति, एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च प्रत्येकबोधिम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? प्रत्येकबोधिः स्वभावेन शून्या यः प्रत्येकबोधेः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न प्रत्येकबोधिर् नित्येति वा अनित्येति वोपलभ्यते. प्रत्येकबोधिर् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकनां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मार्गाकारज्ञताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? मार्गाकारज्ञता स्वभावेन शून्या यो मार्गाकारज्ञतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न मार्गाकारज्ञता नित्येति वा अनित्येति वोपलभ्यते. मार्गाकारज्ञता एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च सर्वाकारज्ञताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? सर्वाकारज्ञता स्वभावेन शुन्या यः सर्वाकारज्ञतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न सर्वाकारज्ञता नित्येति वा अनित्येति वोपलभ्यते. सर्वाकारज्ञता एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति.
पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कं चिद् धर्मं समतिक्रमिष्यसि सा क्वचिद् धर्मे प्रतिष्ठास्यति. तत् कस्य ( श्स्प्_इइ-4_244 ) हेतोह्? तथा हि प्रज्ञापारमितायां सद्धर्मो न संविद्यते यो धर्मः समतिक्रमितव्यो यत्र वा प्रतिष्ठातव्यम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वधर्माः स्वभावो न शून्या यश् च सर्वधर्माणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न कश्चिद् धर्म आयूहितव्यो वा निर्यूहितव्यो वा उत्पादयितव्यो वा निरोधयितव्यो वा, एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा एवं प्रज्ञापारमिताया अर्थम् उपदेष्टव्यो एवम् उपदिशन्तः कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यस्कन्धं प्रसविष्यति, न त्व् एव ते पौर्वकाः कुलपुत्राः कुलदुहितरश् च.
[क् 230ब्18, न्. 466ब्3, त्. 375अ5, प्. 68ब्8, छ्. 888च्3]
पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक जाम्बूद्विपकाः सत्त्वा यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं वदेत्. एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां ( श्स्प्_इइ-4_245 ) प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापिताः. यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यत् संप्रकाशयेद् एवं च वदेत्. एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापिताः. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापिताः. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापिताः. यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
अह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेत्. एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते.
[क्. 231ब्2, न्. 468अ1, त्. 376अ2, प्. 73अ8, छ्. 889च्27]
पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वाः सकृदागामिफले प्रतिष्ठापिताः, यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्ग्रहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वाः सकृदागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वाः सकृदागामिफले प्रतिष्ठापिताह्. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुन्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो ( श्स्प्_इइ-4_248 ) विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः सकृदागामिफले प्रतिषिहापिताः. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेत्. एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासहस्रे लोकधातौ सत्त्वाः सकृदागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायां सकृदागामिनः प्रभाव्यन्ते.
[क्. 232अ8, न्. 469ब्1, त्. 376ब्11, प्. 73अ8, छ्. 891अ22]
पुनर् अपरं कौशिक यावन्तो जाम्बूद्विपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं ( श्स्प्_इइ-4_249 ) मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः चातुर्द्वीपके सत्त्वाः अनागामिफले प्रतिष्ठापिताः, यावन्तः कौशिक जाम्बूद्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां स व्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेत् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्ग्रहण पर्यवाप्नुहि धारय वाचय योंशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमिता प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधारौ सत्त्वा अनागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् र्कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थांस व्यञ्जनां परेभ्यो विस्तरेणचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायं ( श्स्प्_इइ-4_250 ) प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अनागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अनागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अनागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तन् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेद्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते.
[क्. 232ब्3, न्. 470ब्8, त्. 377ब्6, प्. 75ब्2, छ्. 892ब्26]
पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अर्हत्त्वे प्रतिष्ठापिता यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टयां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वा अर्हत्त्वे प्रतिष्ठापिता यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् ( श्स्प्_इइ-4_252 ) एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अर्हत्त्वे प्रतिष्ठापिताः. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अर्हत्त्वे प्रतिष्ठापिताह्. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमं प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण ( श्स्प्_इइ-4_253 ) पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अर्हत्त्वे प्रतिष्ठापिताह्. यावन्तः कौशिक दशसु दिक्षु एकैकस्यां दिशे गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यन्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानिकुइयात् संप्रकाशयेत्. एवं च वदेद्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते. _
[क्. 233अ4, न्. 472अ5, त्. 378अ13, प्. 78अ2, छ्. 893च्25]
पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिताः यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं ( श्स्प्_इइ-4_254 ) पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिता यावान्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिताः. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक ( श्स्प्_इइ-4_255 ) प्रज्ञापरमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिताः. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमिताम् सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिता यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितार सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेद्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते.
[क्. 233ब्7, न्. 473ब्2, त्. 379अ8, प्. 80अ8, छ्. 895अ21]
पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कश्चिड् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं ( श्स्प्_इइ-4_256 ) पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, तदा त्वं प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः.
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अनुत्तरां सम्यक्संबोधौ समादापिताः, यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा ( श्स्प्_इइ-4_257 ) महासत्त्वाः.
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समदापिताः यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत,
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं प्ंर्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, तदा ते प्रज्ञापारमिता भावना भूयस्या मात्रया भावना परिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावना परिपूरिं गमिष्यति, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः.
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिताः यावन्तः कौशिक साहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत् तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदनं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता या बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायं प्रतिपद्यस्व. यदा त्वं कुलपुत्र प्रज्ञापारमिता प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायं शिक्षिष्यसे, ( श्स्प्_इइ-4_258 ) यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति. तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिताः, यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे. तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापारिपूरिं गमिष्यति, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिताः, यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेद्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वधर्मान् प्रतिलप्स्यसे, तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपुरिं गमिष्यति तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः.
[क्. 234ब्4, न्. 475ब्5, त्. 380ब्2, प्. 84अ6, छ्. 897अ16]
पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि. यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति. तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वनां महासत्त्वानाम् अवैवर्त्यभूमिः.
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अवैवर्त्यभूमौ प्रतिष्ठापिता यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थं सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्. एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायं प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिलप्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि. यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वानां महासत्त्वानाम् अवैवर्त्यभूमिः.
तीष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अवैवर्त्यभूमौ प्रतिष्ठापिता यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदनं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां सिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् ( श्स्प्_इइ-4_261 ) अभिसंभोत्स्यसे. तत् कस्य हेतोह्? प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वानां महासत्त्वानाम् अवैवर्त्यभूमिः.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ स अवैवर्त्यभूमौ प्रतिष्ठापिताः, यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुपुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमिता प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वानां महासत्त्वानाम् अवैवर्त्यभूमिः.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिताः, यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अवैवर्त्यभूमौ प्रतिष्ठापितः, यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां ( श्स्प्_इइ-4_262 ) प्रज्ञापारमितां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वानां महासत्त्वानाम् अवैवर्त्यभूमिः.
[क्. 235अ19, न्. 477ब्3, त्. 381ब्6, प्. 87अ7, छ्. 899अ4]
पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अनुत्तरायै सम्यक्सम्बोधये संप्रस्थिता कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि. यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वा अनुत्तरायै सम्यक्संबोधये ( श्स्प्_इइ-4_263 ) संप्रस्थितायै यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च यदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व, यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वधर्माणां लाभी भविष्यसि. यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अनुत्तरायै सम्यक्संबोधये संप्रस्थिता यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुह्हिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो यिस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अनुत्तरायै सम्यक्संबोधये संप्रस्थिता यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय ( श्स्प्_इइ-4_264 ) वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञतधर्माणं लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्षंबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अनुत्तरायै सम्यक्संबोधये संप्रस्थिता, यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः, कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमितां उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि. तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
[क्. 236अ6, न्. 479अ5, त्. 382ब्4, प्. 89ब्6, छ्. 900ब्8]
पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यश् च बोधिसत्त्वेभ्यो महासत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, तेभ्यश् चान्यतरो बोधिसत्त्वो महासत्त्व एवं वदेद् अहं क्षिप्रं अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्येयम् इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अनुत्तरायां सम्यक्संबोधौ यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायं सम्यक्संबोधौ तेभ्यो बोधिसत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिसेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत् तेभ्यश् चान्यतरो बोधिसत्त्वो महासत्त्व एवं वदेद् एहि त्वं क्षिप्रं अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेनोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वा अवैवर्तिका अनुत्तरायां सम्यक्संबोधौ यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यश् च बोधिसत्त्वेभ्यो महासत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं चान्यतरो बोधिसत्त्वो महासत्त्व एवं वदेद् एहि त्वं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अवैवर्तिका अनुत्तरायां सम्यक्संबोधौ यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यश् च बोधिसत्त्वेभ्यो महासत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुह्हिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. तेभ्यश् चान्यतरो बोधिसत्त्वो महासत्त्व एवं वदेद् अहं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यम् इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अवैवर्तिका अनुत्तरायां सम्यक्संबोधौ यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यो महासत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारामितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. तेभ्यश् चान्यतरो बोधिसत्त्वो महासत्त्व एवं च वदेद् एहि क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अवैवर्तिका अनुत्तरायां सम्यक्संबोधौ, यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यो बोधिसत्त्वेभ्यो महासत्त्वेभ्यः, कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा बहुतरं पुन्यं प्रसवेत्. तत् कस्य हेतोः? अवैवर्तिकेभ्यो हि बोधिसत्त्वेभ्यो नान्यार्थं धर्मम् उपदेष्टव्यो नियता हि ते संबोधि परायणानते भुयो विवर्तित्तिते अनुत्तराया सम्यक्संबोधेर् अयम् अभू कश्चिच् चितः संसारात् महाकरुणासंपीडितश् च.
[क्. 236ब्8, न्. 480अ8, त्. 383अ4, प्. 91ब्5, छ्. 904ब्7]
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: यथा यथा भगवन् बोधिसत्त्वो महासत्त्वो ऽभ्यासी भवत्य् अनुत्तारायाः सम्यक्संबोधेस् तथा तथा बोधिसत्त्वो महासत्त्वो दानपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा शीलपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा क्षान्तिपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा वीर्यपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा ध्यानपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा प्रज्ञापारमितायाम् अववदितव्यो ऽनुशासितव्यः.
यथा यथा बोधिसत्त्वो महासत्त्वो ऽभ्यासी भवत्य् अनुत्तरायाः सम्यक्संबोधेस् तथा तथा अध्यात्मशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा बहिर्धाशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अध्यात्मबहिर्धाशून्यतयाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा शून्यताशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा महाशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा परमार्थशून्यतायाम् ( श्स्प्_इइ-4_267 ) अववदितव्यो ऽनुशासितव्यः, तथा तथा संस्कृतशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा असंस्कृतशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अत्यन्तशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अनवराग्रशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अनवकारशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा प्रकृतिशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा सर्वधर्मशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा स्वलक्षणशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अनुपलम्भशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अभावशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा स्वभावशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अभावस्वभावशून्यतायाम् अववदितव्यो ऽनुशासितव्यः.
यथा यथा बोधिसत्त्वो महासत्त्वो ऽभ्यासी भवत्य् अनुत्तरायाः सम्यक्संबोधेस् तथा तथा स्मृत्युपस्थानेष्व् अववदितव्यो ऽनुशासितव्यः, सम्यक्प्रहाणेष्व् अववदितव्यो ऽनुशासितव्यः, ऋद्धिपादेष्व् अववदितव्यो ऽनुशासितव्यः, इन्द्रियेष्व् अववदितव्यो ऽनुशासितव्यः, बलेष्व् अववदितव्यो ऽनुशासितव्यः, बोध्यङ्गेष्व् अप्रमाणेष्व् अववदितव्यो ऽनुशासितव्यः, आर्याष्टाङ्गे मर्गे ऽववदितव्यो ऽनुशासितव्यः, आर्यसत्येष्व् अववदितव्यो ऽनुशासितव्यः, ध्यानेष्व् अववदितव्यो ऽनुशासितव्यः, अप्रमाणेष्व् अववदितव्यो ऽनुशासितव्यः, आरूप्यसमापत्तिष्व् अववदितव्यो ऽनुशासितव्यः, विमोक्षास्व् अववदितव्यो ऽनुशासितव्यः, नवस्व् अनुपूर्वविहारसमापत्तिष्व् अववदितव्यो ऽनुशासितव्यः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेष्व् अववदितव्यो ऽनुशासितव्यः, अभिज्ञास्व् अववदितव्यो ऽनुशसितव्यः, समाधिष्व् अववदितव्यो ऽनुशासितव्यः, धारणीमुखेष्व् अववदितव्यो ऽनुशासितय्यः, तथागतबलेष्व् अववदितव्यो ऽनुशासितव्यः, वैशारद्येष्व् अववदितव्यो ऽनुशासितव्यः, प्रतिसंवित्स्व् अववदितव्यो ऽनुशासितव्यः, महामैत्र्याम् अववदितव्यो ऽनुशासितव्यः, महाकरुणायाम् अववदितव्यो ऽनुशासितव्यः, अष्टादशावेणिकेषु बुद्धधर्मेष्व् अववदितव्यो ऽनुशासितव्यः, चीवरपीण्ड्पात्रसयनसनग्लानप्रत्ययभैषज्यपरिष्कारैश् चानुगृहीतव्यः.
ते खलु पुनर् बोधिसत्त्वं महासत्त्वं धर्मसंग्रहश् चामिषसंग्रहेणं चानुश् चानुगृहून्तो बहुतरं ते कुलपुत्र कुलदुहितरश् च पुण्यं प्रसविष्यन्ति. न त्व् एव ते पौर्वकाः कुलपुत्रा कुलदुहितरश् च. तत् कस्य हेतोः? एवं त्वेन तद् भगवन् भवति, यो बोधिसत्त्वो महासत्त्वो दानपारमितायाम् अववद्यते ऽनुशासिष्यते, शीलपारमितायाम् अववद्यते ऽनुशासिष्यते, क्षान्तिपारमितायाम् अववद्यते ऽनुशासिष्यते, वीर्यपारमितायाम् ( श्स्प्_इइ-4_268 ) अववद्यते ऽनुशासिष्यते, ध्यानपारमितायाम् अववद्यते ऽनुशासिष्यते, प्रज्ञापारमितायाम् अववद्यते ऽनुशासिष्यते.
अध्यात्मशून्यतायाम् अववद्यते ऽनुशासिष्यते, बहिर्धाशून्यतायाम् अववद्यते ऽनुशासिष्यते, अध्यात्मबहिर्धाशून्ययाम् अववद्यते ऽनुशासिष्यते, शून्यताशून्यतायाम् अववद्यते ऽनुशासिष्यते, महाशून्यतायाम् अववद्यते ऽनुशासिष्यते, परमार्थशून्यतायाम् अववद्यते ऽनुशासिष्यते. संस्कृतशून्यतायाम् अववद्यते ऽनुशासिष्यते, असंस्कृतशून्यतायाम् अववद्यते ऽनुशासिष्यते, अत्यन्तशून्यतायाम् अववद्यते ऽनुशासिष्यते, अनवराग्रशून्यतायाम् अववद्यते ऽनुशासिष्यते, अनवकारशून्यतायाम् अववद्यते ऽनुशासिष्यते, प्रकृतिशून्यतायाम् अववद्यते ऽनुशासिष्यते. सर्वधर्मशून्यतायाम् अववद्यते ऽनुशासिष्यते, स्वलक्षणशून्यतायाम् अववद्यते ऽनुशासिष्यते, अनुपलम्भशून्यतायाम् अववद्यते ऽनुशासिष्यते, अभावशून्यतायाम् अववद्यते ऽनुशासिष्यते, स्वभावशून्यतायाम् अववद्यतेऽनुशासिष्यते, अभावस्वभावशून्यतायाम् अववद्यते ऽनुशासिष्यते.
स्मृत्युपस्थानेष्व् अववद्यते ऽनुशासिष्यते, सम्यक्प्रहाणेष्व् अववद्यते ऽनुशासिष्यते, ऋद्धिपादेष्व् अववद्यते ऽनुशासिष्यते, इन्द्रियेष्व् अववद्यते ऽनुशासिष्यते, बलेष्व् अववद्यते ऽनुशासिष्यते, अप्रमाणेष्व् अववद्यते ऽनुशासिष्यते, बोध्यङ्गेष्व् अववद्यते ऽनुशासिष्यते, मार्गेष्व् अववद्यते ऽनुशासिष्यते, आर्यसत्येष्व् अववद्यते ऽनुशासिष्यते, ध्यानेष्व् अववद्यते ऽनुशासिष्यते, अप्रमाणेष्व् अववद्यते ऽनुशासिष्यते, आरूप्यसमापत्तिष्व् अववद्यते ऽनुशासिष्यते, अष्टासु विमोक्षेष्व् अववद्यते ऽनुशासिष्यते, नवस्व् अनुपूर्वविहारसमापत्तिष्व् अववद्यते ऽनुशासिष्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेष्व् अववद्यते ऽनुशासिष्यते, अभिज्ञास्व् अववद्यते ऽनुशासिष्यते, समाधिष्व् अववद्यते ऽनुशासिष्यते, धारणीमुखेष्व् अववद्यते ऽनुशासिष्यते, दशतथागतबलेष्व् अववद्यते ऽनुशासिष्यते, चतुर्षु वैशारद्येष्व् अववद्यते ऽनुशासिष्यते, चतस्प्सु प्रतिसंवित्स्व् अववद्यते ऽनुशासिष्यते, महामैत्र्याम् अवद्यते ऽनुशासिष्यते, महाकरुणायाम् अववद्यते ऽनुशासिष्यते, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेष्व् अववद्यते ऽनुशासिष्यते.
[क्. 237अ17, न्. 482अ1, त्. 384अ7, प्. 94अ2, छ्. 905ब्28]
अथायुष्मान् सुभूतिः शक्रं देवानाम् इन्द्रम् आमन्त्रयते: साधु साधु कौशिक यस् त्वं बोधिसत्त्वेभ्या उत्साहं ददासि बोधिसत्त्वानाम् उगृहीष्वे अनुपारयसि, एवम् एष त्वया कौशिक करणीयं य आर्यश्रावकः सत्त्वानाम् अनुग्रहं कर्तुकामः स बोधिसत्त्वानां महासत्त्वानाम् ( श्स्प्_इइ-4_269 ) अनुत्तरायां सम्यक्संबोधाव् उत्साहं दधातु धर्माम् इषानुग्रहेण च बोधिसत्त्वान् अनुगृहात्व् अनुपरिपारयतु. तत् कस्य हेतोह्? अतः प्रसबोहि कौशिक भगवतः श्रावकसंघाः यद् उत बोधिसत्त्वेभ्यो महासत्त्वेभ्यः यदि च बोधिसत्त्वो महासत्त्वो ऽनुत्तरायै सम्यक्संबोधये चित्तन् नोत्पादयन् न बोधिसत्त्वो महासत्त्वः शिक्षेत षट्सु पारमितासु दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम्.
अध्यात्मशून्यतायां, बहिर्धाशून्यतायां, अध्यात्मबहिर्धाशून्यतायां, शून्यताशून्यतायां, महाशून्यतायां, परमार्थशून्यतायां, संस्कृतशून्यतायां, असंस्कृतशून्यतायां, अत्यन्तशून्यतायां, अनवराग्रशून्यतायां, अनवकारशून्यतायां, प्रकृतिशून्यतायां, सर्वधर्मशून्यतायां, स्वलक्षणशून्यतायां, अनुपलम्भशून्यतायां, अभावशून्यतायां, स्वभावशून्यतायां, अभावस्वभावशून्यतायाम्.
स्मृत्युपस्थानेषु, सम्यक्प्रहाणेषु, ऋद्धिपादेषु, इन्द्रियेषु, बलेषु, बोध्यङ्गेषु, आर्याष्टाङ्गे मर्गे, आर्यसत्येषु, ध्यानेषु, अप्रमाणेषु, आरूप्यसमापत्तिषु, अष्टासु विमोक्षेषु, नवस्व् अनुपूर्वविहारसमापत्तिषु, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु, अभिज्ञासु, समाधिषु, धारणीमुखेषु, तथागतबलेषु, वैशारद्येषु, प्रतिसंवित्सु, महामैत्र्यां, महाकरुणायां, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु, नानुत्तरां सम्यक्संबोधिं न प्रत्येकबुद्धा प्रज्ञापरन् न श्रावकाः, यस्मात् तर्हि कौशिक बोधिसत्त्वो महासत्त्वः शिक्षते षट्सु पारमितासु दनपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम्.
अध्यात्मशून्यतायां, बहिर्धाशून्यतायां, अध्यात्मबहिर्धाशून्यतायां, शून्यताशून्यतायां, महाशून्यतायां, परमार्थशून्यतायां, संस्कृतशून्यतायां, असंस्कृतशून्यतायां, अत्यन्तशून्यतायां, अनवराग्रशून्यतायां, अनवकारशून्यतायां, प्रकृतिशून्यतायां, सर्वधर्मशून्यतायां, स्वलक्सणशून्यतायां, अनुपलम्भशून्यतायां, अभावशून्यतायां, स्वभावशून्यतायां, अभावस्वभावसुन्यतायाम्.
स्मृत्युपस्थानेषु, सम्यक्प्रहाणेषु, ऋद्धिपादेषु, इन्द्रियेषु, बलेषु, बोध्यङ्गेषु, आर्याष्टाङ्गे मर्गे, आर्यसत्येषु, ध्यानेषु, अप्रमाणेषु, आरूप्यसमापत्तिषु, अष्टासु विमोक्षेषु, नवस्व् अनुपूर्वविहारसमापत्तिषु, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु, अभिज्ञासु, समाधिषु, धारणीमुखेषु, तथागतबलेषु, वैशारद्येषु, प्रतिसंवित्सु, महामैत्र्यां, महाकरुणायां, ( श्स्प्_इइ-4_270 ) अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु.
तस्माद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसम्बुध्यते, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धैः सर्वलोकधातुषु नरक उच्छिद्यन्ते तिर्यग्योनि उच्छिद्यन्ते यमलोक उच्छिद्यन्ते, आसुराश् च काया परिहीयन्ते दिव्यांस् च काया अभिवर्तन्ते, क्षत्रियमहाशालकुलानां लोके प्रादुर्भावो भवति, ब्राह्मणमहाशालकुलानां लोके प्रादुर्भावो भवति, गृहपतिमहाशालकुलानां लोके प्रादुर्भावो भवति.
चातुर्महाराजकायिकानां देवानां लोके प्रादुर्भावो भवति, त्रायस्त्रिंशानां देवानां लोके प्रादुर्भावो भवति, यामानां देवानां लोके प्रादुर्भावो भवति, तुषितानां देवानां लोके प्रादुर्भावो भवति, निर्माणरतीनां देवानां लोके प्रादुर्भावो भवति, परनिर्मितवशवर्तिनां देवानं लोके प्रादुर्भावो भवति, ब्रह्मकायिकानां देवानां लोके प्रादुर्भावो भवति, ब्रह्मपुरोहितानां देवानं लोके प्रादुर्भावो भवति, ब्रह्मपार्षद्यानं देवानां लोके प्रादुर्भावो भवति, महाब्रह्माणां देवानां लोके प्रादुर्भावो भवति, आभानां देवानां लोके प्रादुर्भावो भवति, परीत्तभानां देवानां लोके प्रादुर्भावो भवति, अप्रमाणाभानां देवानां लोके प्रादुर्भावो भवति, आभास्वराणां देवानां लोके प्रादुर्भावो भवति, शुभानं देवानां लोके प्रादुर्भावो भवति, परीत्तशुभानां देवानां लोके प्रादुर्भावो भवति, अप्रमाणशुभानां देवानां लोके प्रादुर्भावो भवति, शुभकृत्स्नानां देवानां लोके प्रादुर्भावो भवति, बृहाणां देवानां लोके प्रादुर्भावो भवति, परीत्तबृहाणां देवानां लोके प्रादुर्भावो भवति, अप्रमाणबृहाणां देवानां लोके प्रादुर्भावो भवति, बृहत्फलानां देवानां लोके प्रादुर्भावो भवति, अतपानां देवानां लोके प्रादुर्भावो भवति, सुदृशानां देवानां लोके प्रादुर्भावो भवति, सुदर्शनानां देवानां लोके प्रादुर्भावो भवति, अकनिष्ठानां देवानां लोके प्रादुर्भावो भवति, आकाशानन्त्यायतनानां देवानां लोके प्रादुर्भावो भवति, विज्ञानानन्त्यायतनानां देवानां लोके प्रादुर्भावो भवति, आकिञ्चन्यायतनानां देवानां लोके प्रादुर्भावो भवति, नैवसंज्ञनासंज्ञायतनानां देवानां लोके प्रादुर्भावो भवति.
दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमितया लोके प्रादुर्भावो भवति.
अध्यात्मशून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महासुन्यताया लोके प्रादुर्भावो भवति, परमार्थसुन्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया लोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यतया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यतया लोके प्रादुर्भावो भवति.
स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, ऋद्धिपादानां लोके प्रादुर्भावो भवति, इन्द्रियाणां देवानां लोके प्रादुर्भावो भवति, बलानां देवानां लोके प्रादुर्भावो भवति, बोध्यङ्गानां लोके प्रादुर्भावो भवति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, आर्यसत्यानां लोके प्रादुर्भावो भवति, ध्यानानां लोके प्रादुर्भावो भवति, अप्रमाणानां लोके प्रादुर्भावो भवति, आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके प्रादुर्भावो भवति, नवानुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लोके प्रादुर्भावो भवति, अभिज्ञानां लोके प्रादुर्भावो भवति, समाधीनां लोके प्रादुर्भावो भवति, धारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानाम् आवेणिकानां बुद्धधर्मानां लोके प्रादुर्भावो भवति, श्रावकयानस्य लोके प्रादुर्भावो भवति, प्रत्येकबुद्धस्य लोके प्रादुर्भावो भवति, महायानस्य लोके प्रादुर्भावो भवति.
शतसाहस्र्यां प्रज्ञापारमितायां शक्रपरिवर्तो नामस् त्रयोविंशतितमः
मूल पाठ: Śatasāhasrikā Prajñāpāramitā-2 · Edition: Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0