भाषा

ENहिગુ
ग्रंथ पाठ

शतसाहस्रिका प्रज्ञापारमिता · भाग 6180

न विज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि विज्ञानं विज्ञानस्वभावे न संविद्यते नोपलभ्यते,
न नामरूपस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि नामरूपं नामरूपस्वभावे न संविद्यते नोपलभ्यते,
न षडायतनस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि षडायतनं षडायतनस्वभावे न संविद्यते नोपलभ्यते,
न स्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि स्पर्शः स्पर्शस्वभावे न संविद्यते नोपलभ्यते,
न वेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि वेदना वेदनास्वभावे न संविद्यते नोपलभ्यते,
न तृष्णाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि तृष्णा तृष्णास्वभावे न संविद्यते नोपलभ्यते,
नोपादानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् उपादानम् उपादानस्वभावे न संविद्यते नोपलभ्यते,
न भवस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति ( श्स्प्_इइ-3_117 ) नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि भवो भवस्वभावे न संविद्यते नोपलभ्यते,
न जातेर् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि जातिर् जातिस्वभावे न संविद्यते नोपलभ्यते,
न जरामरणस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि जरामरणं जरामरणस्वभावे न संविद्यते नोपलभ्यते.
न दानपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि दानपारमिता दानपारमितास्वभावे न संविद्यते नोपलभ्यते,
न शीलपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि शीलपारमिता शीलपारमितास्वभावे न संविद्यते नोपलभ्यते,
न क्षान्तिपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि क्षन्तिपारमिता क्षान्तिपारमितास्वभावे न संविद्यते नोपलभ्यते,
न वीर्यपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि वीर्यपारमिता वीर्यपारमितास्वभावे न संविद्यते नोपलभ्यते,
न ध्यानपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति ( श्स्प्_इइ-3_118 ) नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि ध्यानपारमिता ध्यानपारमितास्वभावे न संविद्यते नोपलभ्यते,
न प्रज्ञापारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता प्रज्ञापारमितास्वभावे न संविद्यते नोपलभ्यते.
नाध्यात्मशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अध्यात्मशून्यताध्यात्मशून्यतास्वभावे न संविद्यते नोपलभ्यते,
न बहिर्धाशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि बहिर्धाशून्यता बहिर्धाशून्यतास्वभावे न संविद्यते नोपलभ्यते,
नाध्यात्मबहिर्धाशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतास्वभावे न संविद्यते नोपलभ्यते,
न शून्यताशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि शून्यताशून्यता शून्यताशून्यतास्वभावे न संविद्यते नोपलभ्यते,

न महाशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि महाशून्यता महाशून्यतास्वभावे न संविद्यते नोपलभ्यते,
न परमार्थशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं ( श्स्प्_इइ-3_119 ) पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि परमार्थशून्यता परमार्थशून्यतास्वभावे न संविद्यते नोपलभ्यते,
न संस्कृतशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि संस्कृतशून्यता संस्कृतशून्यतास्वभावे न संविद्यते नोपलभ्यते,
नासंस्कृतशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् असंस्कृतशून्यतासंस्कृतशून्यतास्वभावे न संविद्यते नोपलभ्यते,
नात्यन्तशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अत्यन्तशून्यतात्यन्तशून्यतास्वभावे न संविद्यते नोपलभ्यते,
नानवराग्रशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदांअं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अनवराग्रशून्यतानवराग्रशून्यतास्वभावे न संविद्यते नोपलभ्यते,
नानवकारशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अनवकारशून्यतानवकारशून्यतास्वभावे न संविद्यते नोपलभ्यते,
न प्रकृतिसून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि प्रकृतिशून्यता प्रकृतिशून्यतास्वभावे न संविद्यते नोपलभ्यते,
न सर्वधर्मशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि सर्वधर्मशून्यता सर्वधर्मशून्यतास्वभावे न संविद्यते नोपलभ्यते,
न स्वलक्षणशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि स्वलक्षणशून्यता स्वलक्षणशून्यतास्वभावे न संविद्यते नोपलभ्यते,
नानुपलम्भशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अनुपलम्भशून्यतानुपलम्भशून्यतास्वभावे न संविद्यते नोपलभ्यते,
नाभावशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अभावशून्यताभावशून्यतास्वभावे न संविद्यते नोपलभ्यते,
न स्वभावशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि स्वभावशून्यता स्वभावशून्यतास्वभावे न संविद्यते नोपलभ्यते,
नाभावस्वभावशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावशून्यताभावस्वभावशून्यतास्वभावे न संविद्यते नोपलभ्यते.
न स्मृत्युपस्थानानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि स्मृत्युपस्थानानि स्मृत्युपस्थानस्वभावे ( श्स्प्_इइ-3_121 ) न संविद्यते नोपलभ्यते,
न सम्यक्प्रहाणानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि सम्यक्प्रहाणानि सम्यक्प्रहाणस्वभावे न संविद्यते नोपलभ्यते,
नर्द्धिपादानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् ऋद्धिपादा ऋद्धिपादस्वभावे न संविद्यते नोपलभ्यते,
नेन्द्रियाणाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् इन्द्रियानीन्द्रियस्वभावे न संविद्यते नोपलभ्यते,
न बलानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि बलानि बलस्वभावे न संविद्यते नोपलभ्यते,
न बोध्यङ्गानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि बोध्यङ्गानि बोध्यङ्गस्वभावे न संविद्यते नोपलभ्यते,

न आर्याष्टाङ्गमार्गस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति पाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि मार्गो मार्गस्वभावे न संविद्यते नोपलभ्यते,
नार्यसत्यानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् आर्यसत्यान्य् आर्यसत्यस्वभावे न संविद्यते नोपलभ्यते,
न ध्यानानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि ध्यानानि ध्यानस्वभावे न संविद्यते नोपलभ्यते,
नाप्रमाणानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अप्रमाणान्य् अप्रमाणस्वभावे न संविद्यते नोपलभ्यते,
नारूप्यसमापत्तीनाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् आरूप्यसमापत्तय आरूप्यसमापत्तिस्वभावे न संविद्यते नोपलभ्यते,
नाष्टानां विमोक्षाणाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि विमोक्षा विमोक्षस्वभावे न संविद्यते नोपलभ्यते,
नानुपूर्वविहारसमापत्तीनाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अनुपूर्वविहारसमापत्तय अनुपूर्वविहारसमापत्तिस्वभावे न संविद्यते नोपलभ्यते,
न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखस्वभावे न संविद्यते नोपलभ्यते,
नाभिज्ञानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् ( श्स्प्_इइ-3_123 ) कस्य हेतोः? तथा ह्य् अभिज्ञा अभिज्ञास्वभावे न संविद्यते नोपलभ्यते,
न समाधीनाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि समाधयः समाधिस्वभावे न संविद्यते नोपलभ्यते,
न धारणीमुखानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि धारणीमुखानि धारणीमुखस्वभावे न संविद्यते नोपलभ्यते,
न तथागतबलानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि तथागतबलानि तथागतबलस्वभावे न संविद्यते नोपलभ्यते,
न वैशारद्यानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि वैशारद्यानि वैशारद्यस्वभावे न संविद्यते नोपलभ्यते,
न प्रतिसंविदाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि प्रतिसंविदः प्रतिसंवित्स्वभावे न संविद्यते नोपलभ्यते,
न महामैत्र्या उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि महामैत्री महामैत्रीस्वभावे न संविद्यते नोपलभ्यते,
न महाकरुणाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं ( श्स्प्_इइ-3_124 ) पश्यति. तत् कस्य हेतोः? तथा हि महाकरुणा महाकरुणास्वभावे न संविद्यते नोपलभ्यते,
नावेणिकबुद्धधर्माणाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मस्वभावे न संविद्यते नोपलभ्यते,
न सर्वज्ञताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि सर्वज्ञता सर्वज्ञतास्वभावे न संविद्यते नोपलभ्यते,
न मार्गाकारज्ञताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि मार्गाकारज्ञता मार्गाकारज्ञतास्वभावे न संविद्यते नोपलभ्यते,
न सर्वाकारज्ञताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि सर्वाकारज्ञता सर्वाकारज्ञतास्वभावे न संविद्यते नोपलभ्यते.

एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्माणाम् अनुत्पादायानिरोधायानाग्रहायानुत्सर्गायासंक्लेशायाव्यवदानायानाचयायानापचयायाहानये अवृद्धये प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यत्य् अशिक्षा अनिर्यानयोगेन.
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं छारद्वतीपुत्रम् एतद् अवोचत्: प्रज्ञापारमिता भदन्त शारद्वतीपुत्र बोधिसत्त्वानां महासत्त्वानां कुतो गवेषितव्या?
शारद्वतीपुत्र आह: प्रज्ञापारमिता देवानाम् इन्द्र बोधिसत्त्वानां महासत्त्वानां सुभूतिपरिवर्ता गवेषितव्या.
अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तवैष भदन्त सुभूते ऽनुभावंस् तवैतद् अधिष्ठानं यद् आर्य ( श्स्प्_इइ-3_125 ) शारद्वतीपुत्र एवम् आह, सुभूतिपरिवर्ता बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता गवेषितव्या.
सुभूतिर् आह: न ममैष कौशिकानुहावो न ममैतद् अधिष्ठानम्.
शक्र अह: तत् कस्यैष भदन्त सुभूते ऽनुभावः कस्यैतद् अधिष्ठानम्.
सुभूतिर् आह: तथागतस्यैष कौशिकानुभावस् तथागतस्यैतद् अधिष्ठानम्.
शक्र आह: निरधिष्ठाणेषु भदन्त सुभूते सर्वधर्मेषु कथम् एवं वदसि? तथागतस्यैषानुभावस् तथागतस्यैतद् अधिष्ठानं, न चात्र निरधिष्ठानधर्मतायास् तथागत उपलभ्यते, न चात्र तथागतायास् तथागत उपलभ्यते.
सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्, नान्यत्र निरधिष्ठानधर्मतायास् तथागत उपलभ्यते, नान्यत्र तथातायास् तथागत उपलभ्यते, न च निरधिष्ठानधर्मतायां तथागत उपलभ्यते, न तथागते निरधिष्ठानधर्मतोपलभ्यते, न च तथतायां तथागत उपलभ्यते, न तथागते तथतोपलभ्यते,
न रूपतथतायां तथागत उपलभ्यते, न तथागते रूपतथतोपलभ्यते, न रूपधर्मतायां तथागत उपलभ्यते, न तथागते रूपधर्मतोपलभ्यते, न वेदनातथतायां तथागत उपलभ्यते, न तथागते वेदनातथतोपलभ्यते, न वेदनाधर्मतायां तथागत उपलभ्यते, न तथागते वेदनाधर्मतोपलभ्यते, न संज्ञातथतायां तथागत उपलभ्यते, न तथागते संज्ञातथतोपलभ्यते, न संज्ञाधर्मतायां तथागत उपलभ्यते, न तथागते संज्ञाधर्मतोपलभ्यते, न संस्कारतथतायां तथागत उपलभ्यते, न तथागते संस्कारतथतोपलभ्यते, न संस्कारधर्मतायां तथागत उपलभ्यते, न तथागते संस्कारधर्मतोपलभ्यते, न विज्ञानतथतायां तथागत उपलभ्यते, न तथागते विज्ञानतथतोपलभ्यते, न विज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते विज्ञानधर्मतोपलभ्यते.
न चक्षुस्तथतायां तथागत उपलभ्यते, न तथागते चक्षुस्तथतोपलभ्यते, न चक्षुर्धर्मतायां तथागत उपलभ्यते, न तथागते चक्षुर्धर्मतोपलभ्यते, न श्रोत्रतथतायां तथागत उपलभ्यते, न तथागते श्रोत्रतथतोपलभ्यते, न श्रोत्रधर्मतायां ( श्स्प्_इइ-3_126 ) तथागत उपलभ्यते, न तथागते श्रोत्रधर्मतोपलभ्यते, न घ्राणतथतायां तथागत उपलभ्यते, न तथागते घ्राणतथतोपलभ्यते, न घ्राणधर्मतायां तथागत उपलभ्यते, न तथागते घ्राणधर्मतोपलभ्यते, न जिह्वातथतायां तथागत उपलभ्यते, न तथागते जिह्वातथतोपलभ्यते, न जिह्वाधर्मतायां तथागत उपलभ्यते, न तथागते जिह्वाधर्मतोपलभ्यते, न कायतथतायां तथागत उपलभ्यते, न तथागते कायतथतोपलभ्यते, न कायधर्मतायां तथागत उपलभ्यते, न तथागते कायधर्मतोपलभ्यते, न मनस्तथतायां तथागत उपलभ्यते, न तथागते मनस्तथतोपलभ्यते, न मनोधर्मतायां तथागत उपलभ्यते, न तथागते मनोधर्मतोपलभ्यते.
न रूपतथतायां तथागत उपलभ्यते, न तथागते रूपतथतोपलभ्यते, न रूपधर्मतायां तथागत उपलभ्यते, न तथागते रूपधर्मतोपलभ्यते, न शब्दतथतायां तथागत उपलभ्यते, न तथागते शब्दतथतोपलभ्यते, न शब्दधर्मतायां तथागत उपलभ्यते, न तथागते शब्दधर्मतोपलभ्यते, न गन्धतथतायां तथागत उपलभ्यते, न तथागते गन्धतथतोपलभ्यते, न गन्धधर्मतायां तथागत उपलभ्यते, न तथागते गन्धधर्मतोपलभ्यते, न रसतथतायां तथागत उपलभ्यते, न तथागते रसतथतोपलभ्यते, न रसधर्मतायां तथागत उपलभ्यते, न तथागते रसधर्मतोपलभ्यते, न स्पर्शतथतायां तथागत उपलभ्यते, न तथागते स्पर्शतथतोपलभ्यते, न स्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते स्पर्शधर्मतोपलभ्यते, न धर्मतथतायां तथागत उपलभ्यते, न तथागते धर्मतथतोपलभ्यते, न धर्मधर्मतायां तथागत उपलभ्यते, न तथागते धर्मधर्मतोपलभ्यते.
न चक्षुर्विज्ञानतथतायां तथागत उपलभ्यते, न तथागते चक्षुर्विज्ञानतथतोपलभ्यते, न चक्षुर्विज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते चक्षुर्विज्ञानधर्मतोपलभ्यते, न श्रोत्रविज्ञानतथतायां तथागत उपलभ्यते, न तथागते श्रोत्रविज्ञानतथतोपलभ्यते, न श्रोत्रविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते श्रोत्रविज्ञानधर्मतोपलभ्यते, न घ्राणविज्ञानतथतायां तथागत उपलभ्यते, न तथागते घ्राणविज्ञानतथतोपलभ्यते, न घ्राणविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते घ्राणविज्ञानधर्मतोपलभ्यते, ( श्स्प्_इइ-3_127 ) न जिह्वाविज्ञानतथतायां तथागत उपलभ्यते, न तथागते जिह्वाविज्ञानतथतोपलभ्यते, न जिह्वाविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते जिह्वाविज्ञानधर्मतोपलभ्यते, न कायविज्ञानतथतायां तथागत उपलभ्यते, न तथागते कायविज्ञानतथतोपलभ्यते, न कायविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते कायविज्ञानधर्मतोपलभ्यते, न मनोविज्ञानतथतायां तथागत उपलभ्यते, न तथागते मनोविज्ञानतथतोपलभ्यते, न मनोविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते मनोविज्ञानधर्मतोपलभ्यते.

न चक्षुःसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते चक्षुःसंस्पर्शतथतोपलभ्यते, न चक्षुःसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते चक्षुःसंस्पर्शधर्मतोपलभ्यते, न श्रोत्रसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते श्रोत्रसंस्पर्शतथतोपलभ्यते, न श्रोत्रसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते श्रोत्रसंस्पर्शधर्मतोपलभ्यते, न घ्राणसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते घ्राणसंस्पर्शतथतोपलभ्यते, न घ्राणसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते घ्राणसंस्पर्शधर्मतोपलभ्यते, न जिह्वासंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते जिह्वासंस्पर्शतथतोपलभ्यते, न जिह्वासंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते जिह्वासंस्पर्शधर्मतोपलभ्यते, न कायसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते कायसंस्पर्शतथतोपलभ्यते, न कायसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते कायसंस्पर्शधर्मतोपलभ्यते, न मनःसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते मनःसंस्पर्शतथतोपलभ्यते, न मनःसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते मनःसंस्पर्शधर्मतोपलभ्यते.
न चक्षुःसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते चक्षुःसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, न श्रोत्रसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते श्रोत्रसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, ( श्स्प्_इइ-3_128 ) न घ्राणसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते घ्राणसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, न जिह्वासंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते जिह्वासंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, न कायसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते कायसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न कायसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते कायसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, न मनःसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते मनःसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न मनःसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते मनःसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते.
न पृथिवीधातुतथतायां तथागत उपलभ्यते, न तथागते पृथिवीधातुतथतोपलभ्यते, न पृथिवीधातुधर्मतायां तथागत उपलभ्यते, न तथागते पृथिवीधातुधर्मतोपलभ्यते, नाब्धातुतथतायां तथागत उपलभ्यते, न तथागते ऽब्धातुतथतोपलभ्यते, नाब्धातुधर्मतायां तथागत उपलभ्यते, न तथागते ऽब्धातुधर्मतोपलभ्यते, न तेजोधातुतथतायां तथागत उपलभ्यते, न तथागते तेजोधातुतथतोपलभ्यते, न तेजोधातुधर्मतायां तथागत उपलभ्यते, न तथागते तेजोधातुधर्मतोपलभ्यते, न वायुधातुतथतायां तथागत उपलभ्यते, न तथागते वायुधातुतथतोपलभ्यते, न वायुधातुधर्मतायां तथागत उपलभ्यते, न तथागते वायुधातुधर्मतोपलभ्यते, नाकाशधातुतथतायां तथागत उपलभ्यते, न तथागत आकाशधातुतथतोपलभ्यते, नाकाशधातुधर्मतायां तथागत उपलभ्यते, न तथागत आकाशधातुधर्मतोपलभ्यते, न विज्ञानधातुतथतायां तथागत उपलभ्यते, न तथागते विज्ञानधातुतथतोपलभ्यते, न विज्ञानधातुधर्मतायां तथागत उपलभ्यते, न तथागते विज्ञानधातुधर्मतोपलभ्यते.
नाविद्यातथतायां तथागत उपलभ्यते, न तथागते ऽविद्यातथतोपलभ्यते, नाविद्याधर्मतायां तथागत उपलभ्यते, न तथागते ( श्स्प्_इइ-3_129 ) ऽविद्याधर्मतोपलभ्यते, न संस्कारतथतायां तथागत उपलभ्यते, न तथागते संस्कारतथतोपलभ्यते, न संस्कारधर्मतायां तथागत उपलभ्यते, न तथागते संस्कारधर्मतोपलभ्यते, न विज्ञानतथतायां तथागत उपलभ्यते, न तथागते विज्ञानतथतोपलभ्यते, न विज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते विज्ञानधर्मतोपलभ्यते, न नामरूपतथतायां तथागत उपलभ्यते, न तथागते नामरूपतथतोपलभ्यते, न नामरूपधर्मतायां तथागत उपलभ्यते, न तथागते नामरूपधर्मतोपलभ्यते, न षडायतनतथतायां तथागत उपलभ्यते, न तथागते षडायतनतथतोपलभ्यते, न षडायतनधर्मतायां तथागत उपलभ्यते, न तथागते षडायतनधर्मतोपलभ्यते, न स्पर्शतथतायां तथागत उपलभ्यते, न तथागते स्पर्शतथतोपलभ्यते, न स्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते स्पर्शधर्मतोपलभ्यते, न वेदनातथतायां तथागत उपलभ्यते, न तथागते वेदनातथतोपलभ्यते, न वेदनाधर्मतायां तथागत उपलभ्यते, न तथागते वेदनाधर्मतोपलभ्यते, न तृष्णातथतायां तथागत उपलभ्यते, न तथागते तृष्णातथतोपलभ्यते, न तृष्णाधर्मतायां तथागत उपलभ्यते, न तथागते तृष्णाधर्मतोपलभ्यते, नोपादानतथतायां तथागत उपलभ्यते, न तथागत उपादानतथतोपलभ्यते, नोपादानधर्मतायां तथागत उपलभ्यते, न तथागत उपादानधर्मतोपलभ्यते, न भवतथतायां तथागत उपलभ्यते, न तथागते भवतथतोपलभ्यते, न भवधर्मतायां तथागत उपलभ्यते, न तथागते भवधर्मतोपलभ्यते, न जातितथतायां तथागत उपलभ्यते, न तथागते जातितथतोपलभ्यते, न जातिधर्मतायां तथागत उपलभ्यते, न तथागते जातिधर्मतोपलभ्यते, न जरामरणतथतायां तथागत उपलभ्यते, न तथागते जरामरणतथतोपलभ्यते, न जरामरणधर्मतायां तथागत उपलभ्यते, न तथागते जरामरणधर्मतोपलभ्यते.

न दानपारमितातथतायां तथागत उपलभ्यते, न तथागते दानपारमितातथतोपलभ्यते, न दानपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते दानपारमिताधर्मतोपलभ्यते, न शीलपारमितातथतायां तथागत उपलभ्यते, न तथागते शीलपारमितातथतोपलभ्यते, न शीलपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते शीलपारमिताधर्मतोपलभ्यते, न क्षान्तिपारमितातथतायां ( श्स्प्_इइ-3_130 ) तथागत उपलभ्यते, न तथागते क्षान्तिपारमितातथतोपलभ्यते, न क्षान्तिपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते क्षान्तिपारमिताधर्मतोपलभ्यते, न वीर्यपारमितातथतायां तथागत उपलभ्यते, न तथागते वीर्यपारमितातथतोपलभ्यते, न वीर्यपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते वीर्यपारमिताधर्मतोपलभ्यते, न ध्यानपारमितातथतायां तथागत उपलभ्यते, न तथागते ध्यानपारमितातथतोपलभ्यते, न ध्यानपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते ध्यानपारमिताधर्मतोपलभ्यते, न प्रज्ञापारमितातथतायां तथागत उपलभ्यते, न तथागते प्रज्ञापारमितातथतोपलभ्यते, न प्रज्ञापारमिताधर्मतायां तथागत उपलभ्यते, न तथागते प्रज्ञापारमिताधर्मतोपलभ्यते.
नाध्यात्मशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽध्यात्मशून्यतातथतोपलभ्यते, नाध्यात्मशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽध्यात्मशून्यताधर्मतोपलभ्यते, न बहिर्धशून्यतातथतायां तथागत उपलभ्यते, न तथागते बहिर्धाशून्यतातथतोपलभ्यते, न बहिर्धाशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते बहिर्धाशून्यताधर्मतोपलभ्यते, नाध्यात्मबहिर्धाशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽध्यात्मबहिर्धाशून्यतातथतोपलभ्यते, नाध्यात्मबहिर्धाशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽध्यात्मबहिर्धाशून्यताधर्मतोपलभ्यते, न शून्यताशून्यतातथतायां तथागत उपलभ्यते, न तथागते शून्यताशून्यतातथतोपलभ्यते, न शून्यताशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते शून्यताशून्यताधर्मतोपलभ्यते, न महाशून्यतातथतायां तथागत उपलभ्यते, न तथागते महाशून्यतातथतोपलभ्यते, न महाशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते महाशून्यताधर्मतोपलभ्यते, न परमार्थशून्यतातथतायां तथागत उपलभ्यते, न तथागते परमार्थशून्यतातथतोपलभ्यते, न परमर्थशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते परमार्थशून्यताधर्मतोपलभ्यते, न संस्कृतशून्यतातथतायां तथागत उपलभ्यते, न तथागते संस्कृतशून्यतातथतोपलभ्यते, न संस्कृतशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते संस्कृतशून्यताधर्मतोपलभ्यते, नासंस्कृतशून्यतातथतायां तथागत उपलभ्यते, ( श्स्प्_इइ-3_131 ) न तथागते ऽसंस्कृतशून्यतातथतोपलभ्यते, नासंस्कृतशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽसंस्कृतशून्यताधर्मतोपलभ्यते, नात्यन्तशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽत्यन्तशून्यतातथतोपलभ्यते, नात्यन्तशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽत्यन्तशून्यताधर्मतोपलभ्यते, नानवराग्रशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽनवराग्रशून्यतातथतोपलभ्यते, नानवराग्रशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽनवराग्रशून्यताधर्मतोपलभ्यते, नानवकारशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽनवकारशून्यतातथतोपलभ्यते, नानवकारशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽनवकारशून्यताधर्मतोपलभ्यते, न प्रकृतिशून्यतातथतायां तथागत उपलभ्यते, न तथागते प्रकृतिशून्यतातथतोपलभ्यते, न प्रकृतिशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते प्रकृतिशून्यताधर्मतोपलभ्यते, न सर्वधर्मशून्यतातथतायां तथागत उपलभ्यते, न तथागते सर्वधर्मशून्यतातथतोपलभ्यते, न सर्वधर्मशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते सर्वधर्मशून्यताधर्मतोपलभ्यते, न स्वलक्षणशून्यतातथतायां तथागत उपलभ्यते, न तथागते स्वलक्षणशून्यतातथतोपलभ्यते, न स्वलक्षणशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते स्वलक्षणशून्यताधर्मतोपलभ्यते, नाउपलम्भशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽनुपलम्भशून्यतातथतोपलभ्यते, नानुपलम्भशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽनुपलम्भशून्यताधर्मतोपलभ्यते, नाभावशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽभावशून्यतातथतोपलभ्यते, नाभावशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽभावशून्यताधर्मतोपलभ्यते, न स्वभावशून्यतातथतायां तथागत उपलभ्यते, न तथागते स्वभावशून्यतातथतोपलभ्यते, न स्वभावशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते स्वभावशून्यताधर्मतोपलभ्यते, नाभावस्वभावशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽभावस्वभावशून्यतातथतोपलभ्यते, नाभावस्वभावशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽभावस्वभावशून्यताधर्मतोपलभ्यते.

न स्मृत्युपस्थानतथतायां तथागत उपलभ्यते, न तथागते स्मृत्युपस्थानतथतोपलभ्यते, न स्मृत्युपस्थानधर्मतायां तथागत उपलभ्यते, न तथागते स्मृत्युपस्थानधर्मतोपलभ्यते, न ( श्स्प्_इइ-3_132 ) सम्यक्प्रहाणतथतायां तथागत उपलभ्यते, न तथागते सम्यक्प्रहाणतथतोपलभ्यते, न सम्यक्प्रहाणधर्मतायां तथागत उपलभ्यते, न तथागते सम्यक्प्रहाणधर्मतोपलभ्यते, नर्द्धिपादतथतायां तथागत उपलभ्यते, न तथागत ऋद्धिपादतथतोपलभ्यते, नर्द्धिपादधर्मतायां तथागत उपलभ्यते, न तथागत ऋद्धिपादधर्मतोपलभ्यते, नेन्द्रियतथतायां तथागत उपलभ्यते, न तथागत इन्द्रियतथतोपलभ्यते, नेन्द्रियधर्मतायां तथागत उपलभ्यते, न तथागत इन्द्रियधर्मतोपलभ्यते, न बलतथतायां तथागत उपलभ्यते, न तथागते बलतथतोपलभ्यते, न बल धर्मतायां तथागत उपलभ्यते, न तथागते बलधर्मतोपलभ्यते, न बोध्यङ्गतथतायां तथागत उपलभ्यते, न तथागते बोध्यङ्गतथतोपलभ्यते, न बोध्यङ्गधर्मतायां तथागत उपलभ्यते, न तथागते बोध्यङ्गधर्मतोपलभ्यते, नार्याष्टाङ्गमार्गतथतायां तथागत उपलभ्यते, न तथागत आर्याष्टाङ्गमार्गतथतोपलभ्यते, नार्याष्टाङ्गमार्गधर्मतायां तथागत उपलभ्यते, न तथागत आर्याष्टाङ्गमार्गधर्मतोपलभ्यते, नार्यसत्यतथतायां तथागत उपलभ्यते, न तथागत आर्यसत्यतथतोपलभ्यते, नार्यसत्यधर्मतायां तथागत उपलभ्यते, न तथागत आर्यसत्यधर्मतोपलभ्यते, न ध्यानतथतायां तथागत उपलभ्यते, न तथागते ध्यानतथतोपलभ्यते, न ध्यानधर्मतायां तथागत उपलभ्यते, न तथागते ध्यानधर्मतोपलभ्यते, नाप्रमाणतथतायां तथागत उपलभ्यते, न तथागते ऽप्रमाणतथतोपलभ्यते, नाप्रमाणधर्म तायां तथागत उपलभ्यते, न तथागते ऽप्रमाणधर्मतोपलभ्यते, नारूप्यसमापत्तितथतायां तथागत उपलभ्यते, न तथागत आरूप्यसमापत्तितथतोपलभ्यते, नारूप्यसमापत्तिधर्मतायां तथागत उपलभ्यते, न तथागत आरूप्यसमापत्तिधर्मतोपलभ्यते, न विमोक्षतथतायां तथागत उपलभ्यते, न तथागते विमोक्षतथतोपलभ्यते, न विमोक्षधर्मतायां तथागत उपलभ्यते, न तथागते विमोक्षधर्मतोपलभ्यते, नानुपूर्वविहारसमापत्तितथतायां तथागत उपलभ्यते, न तथागते ऽनुपूर्वविहारसमापत्तितथतोपलभ्यते, नानुपूर्वविहारसमापत्तिधर्मतायां तथागत उपलभ्यते, न तथागते ऽनुपूर्वविहारसमापत्तिधर्मतोपलभ्यते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायां तथागत उपलभ्यते, न तथागते शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतोपलभ्यते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायां ( श्स्प्_इइ-3_133 ) तथागत उपलभ्यते, न तथागते शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतोपलभ्यते, नाभिज्ञातथतायां तथागत उपलभ्यते, न तथागते ऽभिज्ञातथतोपलभ्यते, नाभिज्ञाधर्मतायां तथागत उपलभ्यते, न तथागते ऽभिज्ञाधर्मतोपलभ्यते, न समाधितथतायां तथागत उपलभ्यते, न तथागते समाधितथतोपलभ्यते, न समाधिधर्मतायां तथागत उपलभ्यते, न तथागते समाधिधर्मतोपलभ्यते, न धारणीमुखतथतायां तथागत उपलभ्यते, न तथागते धारणीमुखतथतोपलभ्यते, न धारणीमुखधर्मतायां तथागत उपलभ्यते, न तथागते धारणीमुखधर्मतोपलभ्यते, न तथागतबलतथतायां तथागत उपलभ्यते, न तथागते तथागतबलतथतोपलभ्यते, न तथागतबलधर्मतायां तथागत उपलभ्यते, न तथागते तथागतबलधर्मतोपलभ्यते, न वैशारद्यतथतायां तथागत उपलभ्यते, न तथागते वैशारद्यतथतोपलभ्यते, न वैशारद्यधर्म तायां तथागत उपलभ्यते, न तथागते वैशारद्यधर्मतोपलभ्यते, न प्रतिसंवित्तथतायां तथागत उपलभ्यते, न तथागते प्रतिसंवित्तथतोपलभ्यते, न प्रतिसंविद्धर्मतायां तथागत उपलभ्यते, न तथागते प्रतिसंविद्धर्मतोपलभ्यते, न महामैत्रीतथतायां तथागत उपलभ्यते, न तथागते महामैत्रीतथतोपलभ्यते, न महामैत्री धर्मतायां तथागत उपलभ्यते, न तथागते महामैत्रीधर्मतोपलभ्यते, न महाकरुणातथतायां तथागत उपलभ्यते, न तथागते महाकरुणातथतोपलभ्यते, न महाकरुणाधर्मतायां तथागत उपलभ्यते, न तथागते महाकरुणाधर्मतोपलभ्यते, नावेणिकबुद्धधर्मतथतायां तथागत उपलभ्यते, न तथागत आवेणिकबुद्धधर्मतथतोपलभ्यते, नावेणिकबुद्धधर्मधर्मतायां तथागत उपलभ्यते, न तथागत आवेणिकबुद्धधर्मधर्मतोपलभ्यते, न सर्वज्ञतातथतायां तथागत उपलभ्यते, न तथागते सर्वज्ञतातथतोपलभ्यते, न सर्वज्ञताधर्मतायां तथागत उपलभ्यते, न तथागते सर्वज्ञताधर्मतोपलभ्यते, न मार्गाकारज्ञतातथतायां तथागत उपलभ्यते, न तथागते मार्गाकारज्ञतातथतोपलभ्यते, न मार्गाकारज्ञताधर्मतायां तथागत उपलभ्यते, न तथागते मार्गाकारज्ञताधर्मतोपलभ्यते, न सर्वाकारज्ञतातथतायां तथागत उपलभ्यते, न तथागते सर्वाकारज्ञतातथतोपलभ्यते, न सर्वाकारज्ञताधर्मतायां तथागत उपलभ्यते, ( श्स्प्_इइ-3_134 ) न तथागते सर्वाकारज्ञताधर्मतोपलभ्यते.

यः कौशिक तथागतः स न रूपतथायां संयुक्तो न विसंयुक्तः, न रूपधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र रूपतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र रूपधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न वेदनातथायां संयुक्तो न विसंयुक्तः, न वेदनातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र वेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न संज्ञातथायां संयुक्तो न विसंयुक्तः, न संज्ञाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र संज्ञातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र संज्ञाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न संस्कारतथायां संयुक्तो न विसंयुक्तः, न संस्कारधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कारतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र संस्कारधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न विज्ञानतथायां संयुक्तो न विसंयुक्तः, न विज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः.
यः कौशिक तथागतः स न चक्षुस्तथायां संयुक्तो न विसंयुक्तः, न चक्षुर्धर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुस्तथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुर्धर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न श्रोत्रतथायां संयुक्तो न विसंयुक्तः, न श्रोत्रतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न घ्राणतथायां संयुक्तो न विसंयुक्तः, न घ्राणधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जिह्वातथायां संयुक्तो न विसंयुक्तः, न जिह्वाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न कायतथायां संयुक्तो न विसंयुक्तः, न कायधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र कायतथतायाः संयुक्तो ( श्स्प्_इइ-3_135 ) न विसंयुक्तः, नान्यत्र कायधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मनस्तथायां संयुक्तो न विसंयुक्तः, न मनोधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मनस्तथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र मनोधर्मतायाः संयुक्तो न विसंयुक्तः.
यः कौशिक तथागतः स न रूपतथायां संयुक्तो न विसंयुक्तः, न रूपधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र रूपतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र रूपधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शब्दतथायां संयुक्तो न विसंयुक्तः, न शब्दतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र शब्दधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शब्दधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न गन्धतथायां संयुक्तो न विसंयुक्तः, न गन्धधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र गन्धतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र गन्धधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न रसतथायां संयुक्तो न विसंयुक्तः, न रसधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र रसतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र रसधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न स्पर्शतथायां संयुक्तो न विसंयुक्तः, न स्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र स्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र स्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न धर्मतथायां संयुक्तो न विसंयुक्तः, न धर्मधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र धर्मतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र धर्मधर्मतायाः संयुक्तो न विसंयुक्तः.
यः कौशिक तथागतः स न चक्षुर्विज्ञानतथायां संयुक्तो न विसंयुक्तः, न चक्षुर्विज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुर्विज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुर्विज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न श्रोत्रविज्ञानतथायां संयुक्तो न विसंयुक्तः, न श्रोत्रविज्ञानतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न घ्राणविज्ञानतथायां संयुक्तो न विसंयुक्तः, न घ्राणविज्ञानधर्मतायां ( श्स्प्_इइ-3_136 ) संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणविज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जिह्वाविज्ञानतथायां संयुक्तो न विसंयुक्तः, न जिह्वाविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वाविज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वाविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न कायविज्ञानतथायां संयुक्तो न विसंयुक्तः, न कायविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र कायविज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र कायविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मनोविज्ञानतथायां संयुक्तो न विसंयुक्तः, न मनोविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मनोविज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र मनोविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः.

यः कौशिक तथागतः स न चक्षुःसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न चक्षुःसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुःसंस्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुःसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न श्रोत्रसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न श्रोत्रसंस्पर्शतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न घ्राणसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न घ्राणसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणसंस्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जिह्वासंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न जिह्वासंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वासंस्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वासंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न कायसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न कायसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र कायसंस्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र कायसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मनःसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न मनःसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मनःसंस्पर्शतथतायाः ( श्स्प्_इइ-3_137 ) संयुक्तो न विसंयुक्तः, नान्यत्र मनःसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः.
यः कौशिक तथागतः स न चक्षुःसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न चक्षुतअंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न श्रोत्रसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न श्रोत्रसंस्पर्शप्रत्ययवेदनातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न घ्राणसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जिह्वासंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न कायसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न कायसंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र कायसंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र कायसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मनःसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न मनःसंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मनःसंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र मनःसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः.
यः कौशिक तथागतः स न पृथिवीधातुतथायां संयुक्तो न विसंयुक्तः, न पृथिवीधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र पृथिवीधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र पृथिवीधातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः ( श्स्प्_इइ-3_138 ) स नाब्धातुतथायां संयुक्तो न विसंयुक्तः, नाब्धातुतथतायां संयुक्तो न विसंयुक्तः, नान्यत्राब्धातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राब्धातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न तेजोधातुतथायां संयुक्तो न विसंयुक्तः, न तेजोधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र तेजोधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र तेजोधातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न वायुधातुतथायां संयुक्तो न विसंयुक्तः, न वायुधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वायुधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वायुधातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाकाशधातुतथायां संयुक्तो न विसंयुक्तः, नाकाशधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राकाशधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राकाशधातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न विज्ञानधातुतथायां संयुक्तो न विसंयुक्तः, न विज्ञानधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानधातुधर्मतायाः संयुक्तो न विसंयुक्तः.

यः कौशिक तथागतः स नाविद्यातथायां संयुक्तो न विसंयुक्तः, नाविद्याधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राविद्यातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राविद्याधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न संस्कारतथायां संयुक्तो न विसंयुक्तः, न संस्कारतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कारधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कारधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न विज्ञानतथायां संयुक्तो न विसंयुक्तः, न विज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न नामरूपतथायां संयुक्तो न विसंयुक्तः, न नामरूपधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र नामरूपतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र नामरूपधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न षडायतनतथायां संयुक्तो न विसंयुक्तः, न षडायतनधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र षडायतनतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र षडायतनधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक ( श्स्प्_इइ-3_139 ) तथागतः स न स्पर्शतथायां संयुक्तो न विसंयुक्तः, न स्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र स्पर्शतथतायाण् संयुक्तो न विसंयुक्तः, नान्यत्र स्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः. यः कौशिक तथागतः स न वेदनातथायां संयुक्तो न विसंयुक्तः, न वेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न तृष्णातथायां संयुक्तो न विसंयुक्तः, न तृष्णातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र तृष्णाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र तृष्णाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नोपादानतथायां संयुक्तो न विसंयुक्तः, नोपादानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रोपादानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रोपादानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न भवतथायां संयुक्तो न विसंयुक्तः, न भवधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र भवतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र भवधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जातितथायां संयुक्तो न विसंयुक्तः, न जातिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जातितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जातिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जरामरणतथायां संयुक्तो न विसंयुक्तः, न जरामरणधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जरामरणतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जरामरणधर्मतायाः संयुक्तो न विसंयुक्तः.
यः कौशिक तथागतः स न दानपारमितातथायां संयुक्तो न विसंयुक्तः, न दानपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र दानपारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र दानपारमिताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शीलपारमितातथायां संयुक्तो न विसंयुक्तः, न शीलपारमितातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र शीलपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शीलपारमिताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न क्षान्तिपारमितातथायां संयुक्तो न विसंयुक्तः, न क्षान्तिपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र न क्षान्तिपारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र न क्षान्तिपारमिताधर्मतायाः संयुक्तो न ( श्स्प्_इइ-3_140 ) विसंयुक्तः, यः कौशिक तथागतः स न वीर्यपारमितातथायां संयुक्तो न विसंयुक्तः, न वीर्यपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वीर्यपारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वीर्यपारमिताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न ध्यानपारमितातथायां संयुक्तो न विसंयुक्तः, न ध्यानपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र ध्यानपारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र ध्यानपारमिताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न प्रज्ञापारमितातथायां संयुक्तो न विसंयुक्तः, न प्रज्ञापारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र प्रज्ञापारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र प्रज्ञापारमिताधर्मतायाः संयुक्तो न विसंयुक्तः.

यः कौशिक तथागतः स नाध्यात्मशून्यतातथायां संयुक्तो न विसंयुक्तः, नाध्यात्मशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राध्यात्मशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राध्यात्मशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न बहिर्धाशून्यतातथायां संयुक्तो न विसंयुक्तः, न बहिर्धाशून्यतातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र बहिर्धाशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र बहिर्धाशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाध्यात्मबहिर्धाशून्यतातथायां संयुक्तो न विसंयुक्तः, नाध्यात्मबहिर्धाशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र नाध्यात्मबहिर्धाशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र नाध्यात्मबहिर्धाशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शून्यताशून्यतातथायां संयुक्तो न विसंयुक्तः, न शून्यताशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शून्यताशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र शून्यताशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न महाशून्यतातथायां संयुक्तो न विसंयुक्तः, न महाशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र महाशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र महाशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न परमार्थशून्यतातथायां संयुक्तो न विसंयुक्तः, न परमार्थशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र परमार्थशून्यतातथतायाः संयुक्तो ( श्स्प्_इइ-3_141 ) न विसंयुक्तः, नान्यत्र परमार्थशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न संस्कृतशून्यतातथायां संयुक्तो न विसंयुक्तः, न संस्कृतशून्यतातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कृतशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कृतशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नासंस्कृतशून्यतातथायां संयुक्तो न विसंयुक्तः, नासंस्कृतशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र नासंस्कृतशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र नासंस्कृतशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नात्यन्तशून्यतातथायां संयुक्तो न विसंयुक्तः, नात्यन्तशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रात्यन्तशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रात्यन्तशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानवराग्रशून्यतातथायां संयुक्तो न विसंयुक्तः, नानवराग्रशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानवराग्रशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रानवराग्रशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानवकारशून्यतातथायां संयुक्तो न विसंयुक्तः, नानवकारशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानवकारशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रानवकारशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न प्रकृतिशून्यतातथायां संयुक्तो न विसंयुक्तः, न प्रकृतिशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र प्रकृतिशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र प्रकृतिशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न सर्वधर्मशून्यतातथायां संयुक्तो न विसंयुक्तः, न सर्वधर्मशून्यतातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र सर्वधर्मशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र सर्वधर्मशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न स्वलक्षणशून्यतातथायां संयुक्तो न विसंयुक्तः, न स्वलक्षणशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र न स्वलक्षणशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र न स्वलक्षणशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानुपलम्भशून्यतातथायां संयुक्तो न विसंयुक्तः, नानुपलम्भशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानुपलम्भशून्यतातथतायाः ( श्स्प्_इइ-3_142 ) संयुक्तो न विसंयुक्तः, नान्यत्रानुपलम्भशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाभावशून्यतातथायां संयुक्तो न विसंयुक्तः, नाभावशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राभावशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राभावशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न स्वभावशून्यतातथायां संयुक्तो न विसंयुक्तः, न स्वभावशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र स्वभावशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र स्वभावशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाभावस्वभावशून्यतातथायां संयुक्तो न विसंयुक्तः, नाभावस्वभावशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राभावस्वभावशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राभावस्वभावशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः.

यः कौशिक तथागतः स न स्मृत्युपस्थानानतथतायां संयुक्तो न विसंयुक्तः, न स्मृत्युपस्थानानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र स्मृत्युपस्थानानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र स्मृत्युपस्थाननधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न सम्यक्प्रहाणतथतायां संयुक्तो न विसंयुक्तः, न सम्यक्प्रहाणधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र सम्यक्प्रहाणतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र सम्यक्प्रहाणधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न ऋद्धिपादतथतायां संयुक्तो न विसंयुक्तः, न ऋद्धिपादधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र ऋद्धिपादतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र ऋद्धिपादधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नेन्द्रियतथतायां संयुक्तो न विसंयुक्तः, नेन्द्रियधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रेन्द्रियतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रेन्द्रियधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न बलतथतायां संयुक्तो न विसंयुक्तः, न बलधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र बलतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र बलधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न बोध्यङ्गतथतायां संयुक्तो न विसंयुक्तः, न बोध्यङ्गधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र बोध्यङ्गतथतायाः संयुक्तो न विसंयुक्तः, ( श्स्प्_इइ-3_143 ) नान्यत्र बोध्यङ्गधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नार्याष्टाङ्गमार्गतथतायां संयुक्तो न विसंयुक्तः, नार्याष्टाङ्गमार्गधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रार्याष्टाङ्गमार्गतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रार्याष्टाङ्गमार्गधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नार्यसत्यतथतायां संयुक्तो न विसंयुक्तः, नार्यसत्यधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रार्यसत्यतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रार्यसत्यधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न ध्यानतथतायां संयुक्तो न विसंयुक्तः, न ध्यानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र ध्यानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र ध्यानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाप्रमाणतथतायां संयुक्तो न विसंयुक्तः, नाप्रमाणधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राप्रमाणतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राप्रमाणधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नारूप्यसमापत्तितथतायां संयुक्तो न विसंयुक्तः, नारूप्यसमापत्तिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रारूप्यसमापत्तितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रारूप्यसमापत्तिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न विमोक्षतथतायां संयुक्तो न विसंयुक्तः, न विमोक्षधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र विमोक्षतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र विमोक्षधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानुपूर्वविहारसमापत्तितथतायां संयुक्तो न विसंयुक्तः, नानुपूर्वविहारसमापत्तिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानुपूर्वविहारसमापत्तितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रानुपूर्वविहारसमापत्तिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायां संयुक्तो न विसंयुक्तः, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाभिज्ञातथतायां संयुक्तो न विसंयुक्तः, नाभिज्ञाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राभिज्ञातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राभिज्ञाधर्मतायाः ( श्स्प्_इइ-3_144 ) संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न समाधितथतायां संयुक्तो न विसंयुक्तः, न समाधिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र समाधितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र समाधिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न धारणीमुखतथतायां संयुक्तो न विसंयुक्तः, न धारणीमुखधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र धारणीमुखतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र धारणीमुखधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न तथागतबलतथतायां संयुक्तो न विसंयुक्तः, न तथागतबलधर्मतायां संयुक्तो न विसंयुक्तः, न तथागतबलतथतायाः संयुक्तो न विसंयुक्तः, न तथागतबलधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न वैशारद्यतथतायां संयुक्तो न विसंयुक्तः, न वैशारद्यधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वैशारद्यतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वैशारद्यधर्मतायाः संयुक्तो न विसंयुक्तः,

यः कौशिक तथागतः स न प्रतिसंवित्तथतायां संयुक्तो न विसंयुक्तः, न प्रतिसंविद्धर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र प्रतिसंवित्तथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र प्रतिसंविद्धर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानुपूर्वविहारसमापत्तितथतायां संयुक्तो न विसंयुक्तः, नानुपूर्वविहारसमापत्तिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानुपूर्वविहारसमापत्तितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रानुपूर्वविहारसमापत्तिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायां संयुक्तो न विसंयुक्तः, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाभिज्ञातथतायां संयुक्तो न विसंयुक्तः, नाभिज्ञाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राभिज्ञातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राभिज्ञाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न समाधितथतायां संयुक्तो न विसंयुक्तः, न समाधिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र समाधितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र समाधिधर्मतायाः ( श्स्प्_इइ-3_145 ) संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न धारणीमुखतथतायां संयुक्तो न विसंयुक्तः, न धारणीमुखधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र धारणीमुखतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र धारणीमुखधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न तथागतबलतथतायां संयुक्तो न विसंयुक्तः, न तथागतबलधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र तथागतबलतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र तथागतबलधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न वैशारद्यतथतायां संयुक्तो न विसंयुक्तः, न वैशारद्यधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वैशारद्यतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वैशारद्यधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न प्रतिसंवित्तथतायां संयुक्तो न विसंयुक्तः, न प्रतिसंविद्धर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र प्रतिसंवित्तथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र प्रतिसंविद्धर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न महामैत्रीतथतायां संयुक्तो न विसंयुक्तः, न महामैत्रीधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र महामैत्रीतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र महामैत्रीधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न महाकरुणातथतायां संयुक्तो न विसंयुक्तः, न महाकरुणाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र महाकरुणातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र महाकरुणाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नावेणिकबुद्धधर्मतथतायां संयुक्तो न विसंयुक्तः, नावेणिकबुद्धधर्मधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रावेणिकबुद्धधर्मतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रावेणिकबुद्धधर्मधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न सर्वज्ञतातथतायां संयुक्तो न विसंयुक्तः, न सर्वज्ञताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र सर्वज्ञतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र सर्वज्ञताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मार्गाकारज्ञतातथतायां संयुक्तो न विसंयुक्तः, न मार्गाकारज्ञताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मार्गाकारज्ञतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र मार्गाकारज्ञताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न सर्वाकारज्ञतातथतायां ( श्स्प्_इइ-3_146 ) संयुक्तो न विसंयुक्तः, न सर्वाकारज्ञताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र सर्वाकारज्ञतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र सर्वाकारज्ञताधर्मतायाः संयुक्तो न विसंयुक्तः.
यः कौशिक तथागत एभिः सर्वधर्मैर् न संयुक्तो न विसंयुक्तः, तस्यैषो ऽनुभावस् तस्यैतद् अधिष्ठानम् अनधिष्ठानयोगेन.
यत् पुनः कौशिकैवं वदसि, कुतो बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता गवेषितव्येति?
न कौशिक रूपतो गवेषितव्या नान्यत्र रूपतो गवेषितव्या, न वेदनातो गवेषितव्या नान्यत्र वेदनातो गवेषितव्या, न संज्ञातो गवेषितव्या नान्यत्र संज्ञातो गवेषितव्या, न संस्कारेभ्यो गवेषितव्या नान्यत्र संस्कारेभ्यो गवेषितव्या, न विज्ञानतो गवेषितव्या नान्यत्र विज्ञानतो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यच् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं, यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च महाकरुणा या च गवेषणा सर्वम् एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न चक्षुषो गवेषितव्या नान्यत्र चक्षुषो गवेषितव्या, न श्रोत्राद् गवेषितव्या नान्यत्र श्रोत्राद् गवेषितव्या, न घ्राणाद् गवेषितव्या नान्यत्र घ्राणाद् गवेषितव्या, न जिह्वाया गवेषितव्या नान्यत्र जिह्वाया गवेषितव्या, न कायाद् गवेषितव्या नान्यत्र कायाद् गवेषितव्या, न मनसो गवेषितव्या नान्यत्र मनसो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यच् च चक्षुर् यच् च श्रोत्रं यच् च घ्राणं या च जिह्वा यश् च कायो यच् च मनो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न रूपाद् गवेषितव्या नान्यत्र रूपाद् गवेषितव्या, न शब्दाद् गवेषितव्या नान्यत्र शब्दाद् गवेषितव्या, न गन्धाद् गवेषितव्या नान्यत्र गन्धाद् गवेषितव्या, न रसाद् गवेषितव्या नान्यत्र रसाद् गवेषितव्या, न स्पर्शाद् गवेषितव्या नान्यत्र स्पर्शाद् गवेषितव्या, न धर्मेभ्यो गवेषितव्या ( श्स्प्_इइ-3_147 ) नान्यत्र धर्मेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यच् च रूपं यश् च शब्दो यश् च गन्धो यश् च रसो यश् च स्पर्शो ये च धर्मा यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाह्.

पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न चक्षुर्विज्ञानाद् गवेषितव्या नान्यत्र चक्षुर्विज्ञानाद् गवेषितव्या, न श्रोत्रविज्ञानाद् गवेषितव्या नान्यत्र श्रोत्रविज्ञानाद् गवेषितव्या, न घ्राणविज्ञानाद् गवेषितव्या नान्यत्र घ्राणविज्ञानाद् गवेषितव्या, न जिह्वाविज्ञानाद् गवेषितव्या नान्यत्र जिह्वाविज्ञानाद् गवेषितव्या, न कायविज्ञानाद् गवेषितव्या नान्यत्र कायविज्ञानाद् गवेषितव्या, न मनोविज्ञानाद् गवेषितव्या नान्यत्र मनोविज्ञानाद् गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यच् च चक्षुर्विज्ञानं यच् च श्रोत्रविज्ञानं यच् च घ्राणविज्ञानं यच् च जिह्वाविज्ञानं यच् च कायविज्ञानं यच् च मनोविज्ञानं यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न चक्षुःसंस्पर्शाद् गवेषितव्या नान्यत्र चक्षुःसंस्पर्शाद् गवेषितव्या, न श्रोत्रसंस्पर्शाद् गवेषितव्या नान्यत्र श्रोत्रसंस्पर्शाद् गवेषितव्या, न घ्राणसंस्पर्शाद् गवेषितव्या नान्यत्र घ्राणसंस्पर्शाद् गवेषितव्या, न जिह्वासंस्पर्शाद् गवेषितव्या नान्यत्र जिह्वासंस्पर्शाद् गवेषितव्या, न कायसंस्पर्शाद् गवेषितव्या नान्यत्र कायसंस्पर्शाद् गवेषितव्या, न मनःसंस्पर्शाद् गवेषितव्या नान्यत्र मनःसंस्पर्शाद् गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यश् च चक्षुःसंस्पर्शो यश् च श्रोत्रसंस्पर्शो यश् च घ्राणसंस्पर्शो यश् च जिह्वासंस्पर्शो यश् च कायसंस्पर्शो यश् च मनःसंस्पर्शो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न चक्षुःसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनाया गवेषितव्या, न श्रोत्रसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाया गवेषितव्या, न घ्राणसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनाया ( श्स्प्_इइ-3_148 ) गवेषितव्या, न जिह्वासंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनाया गवेषितव्या, न कायसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र कायसंस्पर्शप्रत्ययवेदनाया गवेषितव्या, न मनःसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र मनःसंस्पर्शप्रत्ययवेदनाया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च चक्षुःसंस्पर्शप्रत्ययवेदना या च श्रोत्रसंस्पर्शप्रत्ययवेदना या च घ्राणसंस्पर्शप्रत्ययवेदना या च जिह्वासंस्पर्शप्रत्ययवेदना या च कायसंस्पर्शप्रत्ययवेदना या च मनःसंस्पर्शप्रत्ययवेदना यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न पृथिवीधातोर् गवेषितव्या नान्यत्र पृथिवीधातोर् गवेषितव्या, नाब्धातोर् गवेषितव्या नान्यत्राब्धातोर् गवेषितव्या, न तेजोधातोर् गवेषितव्या नान्यत्र तेजोधातोर् गवेषितव्या, न वायुधातोर् गवेषितव्या नान्यत्र वायुधातोर् गवेषितव्या, नाकाशधातोर् गवेषितव्या नान्यत्राकाशधातोर् गवेषितव्या, न विज्ञानधातोर् गवेषितव्या नान्यत्र विज्ञानधातोर् गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यश् च पृथिवीधातुर् यश् चाब्धातुर् यश् च तेजोधातुर् यश् च वायुधातुर् यश् चाकाशधातुर् यश् च विज्ञानधातुर् यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नाविद्याया गवेषितव्या नान्यत्राविद्याया गवेषितव्या, न संस्कारेभ्यो गवेषितव्या नान्यत्र संस्कारेभ्यो गवेषितव्या, न विज्ञानाद् गवेषितव्या नान्यत्र विज्ञानाद् गवेषितव्या, न नामरूपाद् गवेषितव्या नान्यत्र नामरूपाद् गवेषितव्या, न षडायतनाद् गवेषितव्या नान्यत्र षडायतनाद् गवेषितव्या, न स्पर्शाद् गवेषितव्या नान्यत्र स्पर्शाद् गवेषितव्या, न वेदनाया गवेषितव्या नान्यत्र वेदनाया गवेषितव्या, न तृष्णाया गवेषितव्या नान्यत्र तृष्णाया गवेषितव्या, नोपादानाद् गवेषितव्या नान्यत्रोपादानाद् गवेषितव्या, न भवाद् गवेषितव्या नान्यत्र भवाद् गवेषितव्या, न जातेर् गवेषितव्या नान्यत्र जातेर् गवेषितव्या, न जरामरणाद् गवेषितव्या नान्यत्र जरामरणाद् गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या चाविद्या ये च संस्कारा यच् च विज्ञानं यच् च नामरूपं यच् च षडायतनं यश् ( श्स्प्_इइ-3_149 ) च स्पर्शो या च वेदना या च तृष्णा यच् चोपादानं यश् च भवो या च जातिर् यच् च जरामरणं यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न दानपारमिताया गवेषितव्या नान्यत्र दानपारमिताया गवेषितव्या, न शीलपारमिताया गवेषितव्या नान्यत्र शीलपारमिताया गवेषितव्या, न क्षान्तिपारमिताया गवेषितव्या नान्यत्र क्षान्तिपारमिताया गवेषितव्या, न वीर्यपारमिताया गवेषितव्या नान्यत्र वीर्यपारमिताया गवेषितव्या, न ध्यानपारमिताया गवेषितव्या नान्यत्र ध्यानपारमिताया गवेषितव्या, न प्रज्ञापारमिताया गवेषितव्या नान्यत्र प्रज्ञापारमिताया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च दानपारमिता या च शीलपारमिता या च क्षान्तिपारमिता या च वीर्यपारमिता या च ध्यानपारमिता या च प्रज्ञापारमिता यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.

पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नाध्यात्मशून्यताया गवेषितव्या नान्यत्राध्यात्मशून्यताया गवेषितव्या, न बहिर्धाशून्यताया गवेषितव्या नान्यत्र बहिर्धाशून्यताया गवेषितव्या, नाध्यात्मबहिर्धाशून्यताया गवेषितव्या नान्यत्राध्यात्मबहिर्धाशून्यताया गवेषितव्या, न शून्यताशून्यताया गवेषितव्या नान्यत्र शून्यताशून्यताया गवेषितव्या, न महाशून्यताया गवेषितव्या नान्यत्र महाशून्यताया गवेषितव्या, न परमार्थशून्यताया गवेषितव्या नान्यत्र परमार्थशून्यताया गवेषितव्या, न संस्कृतशून्यताया गवेषितव्या नान्यत्र संस्कृतशून्यताया गवेषितव्या, नासंस्कृतशून्यताया गवेषितव्या नान्यत्रासंस्कृतशून्यताया गवेषितव्या, नात्यन्तशून्यताया गवेषितव्या नान्यत्रात्यन्तशून्यताया गवेषितव्या, नानवराग्रशून्यताया गवेषितव्या नान्यत्रानवराग्रशून्यताया गवेषितव्या, नानवकारशून्यताया गवेषितव्या नान्यत्रानवकारशून्यताया गवेषितव्या, न प्रकृतिशून्यताया गवेषितव्या नान्यत्र प्रकृतिशून्यताया गवेषितव्या, न सर्वधर्मशून्यताया गवेषितव्या नान्यत्र सर्वधर्मशून्यताया गवेषितव्या, न स्वलक्षणशून्यताया गवेषितव्या नान्यत्र स्वलक्षणशून्यताया गवेषितव्या, नानुपलम्भशून्यताया गवेषितव्या नन्यत्रानुपलम्भशून्यताया गवेषितव्या, नाभावशून्यताया गवेषितव्या नान्यत्राभावशून्यताया गवेषितव्या, न ( श्स्प्_इइ-3_150 ) स्वभावशून्यताया गवेषितव्या नान्यत्र स्वभावशून्यताया गवेषितव्या, नाभावस्वभावशून्यताया गवेषितव्या नान्यत्राभावस्वभावशून्यताया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च शून्यताशून्यता या च महाशून्यता या च परमार्थशून्यता या च संस्कृतशून्यता या चासंस्कृतशून्यता या चात्यन्तशून्यता या चानवराग्रशून्यता या चानवकारशून्यता या च प्रकृतिशून्यता या च सर्वधर्मशून्यता या च स्वलक्षणशून्यता या चानुपलम्भशून्यता या चाभावशून्यता या च स्वभावशून्यता या चाभावस्वभावशून्यता यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न स्मृत्युपस्थानेभ्यो गवेषितव्या नान्यत्र स्मृत्युपस्थानेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च स्मृत्युपस्थानानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न सम्यक्प्रहाणानेभ्यो गवेषितव्या नान्यत्र सम्यक्प्रहाणानेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च सम्यक्प्रहाणानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नर्द्धिपादेभ्यो गवेषितव्या नान्यत्रर्द्धिपादेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक ये चर्द्धिपादाः यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नेन्द्रियेभ्यो गवेषितव्या नान्यत्रेन्द्रियेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि चेन्द्रियानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता ( श्स्प्_इइ-3_151 ) न बलेभ्यो गवेषितव्या नान्यत्र बलेभ्यो गवेसितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च बलानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न बोध्यङ्गेभ्यो गवेषितव्या नान्यत्र बोध्यङ्गेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च बोध्यङ्गानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नार्याष्टाङ्गमार्गाद् गवेषितव्या नान्यत्रार्याष्टाङ्गमार्गाद् गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यश् चार्याष्टाङ्गमार्गो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नार्यसत्येभ्यो गवेषितव्या नान्यत्रार्यसत्येभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि चार्यसत्यानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न ध्यानेभ्यो गवेषितव्या नान्यत्र ध्यानेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च ध्यानानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नाप्रमाणेभ्यो गवेषितव्या नान्यत्राप्रमाणेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि चाप्रमाणानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नारूप्यसमापत्तिभ्यो गवेषितव्या नारूप्यसमापत्तिभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक याश् चारूप्यसमापत्तयो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.

पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न विमोक्षेभ्यो गवेषितव्या न विमोक्षेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक ये च विमोक्षा यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नानुपूर्वविहारसमापत्तिभ्यो गवेषितव्या नान्यत्रानुपूर्वविहारसमापत्तिभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक याश् चानुपूर्वविहारसमापत्तयो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यो गवेषितव्या नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नाभिज्ञाया गवेषितव्या नान्यत्राभिज्ञाया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक याश् चाभिज्ञा यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न समाधिभ्यो गवेषितव्या नान्यत्र समाधिभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक याश् च समाधयो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.

पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न धारणीमुखेभ्यो गवेषितव्या नान्यत्र धारणीमुखेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च धारणीमुखानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न तथागतबलेभ्यो गवेषितव्या नान्यत्र तथागतबलेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च तथागतबलानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न वैशारद्येभ्यो गवेषितव्या नान्यत्र वैशारद्येभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च वैशारद्यानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न प्रतिसंविद्भ्यो गवेषितव्या न प्रतिसंविद्भ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक याश् च प्रतिसंविदो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न महामैत्र्या गवेषितव्या नान्यत्र महामैत्र्या गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च महामैत्री यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न महाकरुणाया गवेषितव्या नान्यत्र महाकरुणाया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च महाकरुणा यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नावेणिकबुद्धधर्मेभ्यो गवेषितव्या नान्यत्रावेणिकबुद्धधर्मेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक ये चावेणिकबुद्धधर्मा यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न सर्वज्ञताया गवेषितव्या नान्यत्र सर्वज्ञताया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च सर्वज्ञता यश् च बोधिसत्त्वो या च ( श्स्प्_इइ-3_154 ) प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न मार्गाकारज्ञताया गवेषितव्या नान्यत्र मार्गाकारज्ञताया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च मार्गाकारज्ञता यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न सर्वाकारज्ञताया गवेषितव्या नान्यत्र सर्वाकारज्ञताया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च सर्वाकारज्ञता यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः.
तत् कस्य हेतोः? तथा हि न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता, न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता, न वेदना प्रज्ञापारमिता नान्यत्र वेदनाया प्रज्ञापारमिता, न वेदनातथता प्रज्ञापारमिता नान्यत्र वेदनातथतायाः प्रज्ञापारमिता, न वेदनाधर्मता प्रज्ञापारमिता नान्यत्र वेदनाधर्मतायाः प्रज्ञापारमिता, न संज्ञा प्रज्ञापारमिता नान्यत्र संज्ञाया प्रज्ञापारमिता, न संज्ञातथता प्रज्ञापारमिता नान्यत्र संज्ञातथतायाः प्रज्ञापारमिता, न संज्ञाधर्मता प्रज्ञापारमिता नान्यत्र संज्ञाधर्मतायाः प्रज्ञापारमिता, न संस्काराः प्रज्ञापारमिता नान्यत्र संस्कारेभ्यः प्रज्ञापारमिता, न संस्कारतथता प्रज्ञापारमिता नान्यत्र संस्कारतथतायाः प्रज्ञापारमिता, न संस्कारधर्मता प्रज्ञापारमिता नान्यत्र संस्कारधर्मतायाः प्रज्ञापारमिता, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात् प्रज्ञापारमिता, न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता, न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता.
न चक्षुः प्रज्ञापारमिता नान्यत्र चक्षुषः प्रज्ञापारमिता, न चक्षुस्तथता प्रज्ञापारमिता नान्यत्र चक्षुस्तथतायाः प्रज्ञापारमिता, न चक्षुर्धर्मता प्रज्ञापारमिता नान्यत्र चक्षुर्धर्मतायाः प्रज्ञापारमिता, न श्रोत्रं प्रज्ञापारमिता नान्यत्र श्रोत्रात् प्रज्ञापारमिता, न ( श्स्प्_इइ-3_155 ) श्रोत्रतथता प्रज्ञापारमिता नान्यत्र श्रोत्रतथतायाः प्रज्ञापारमिता, न श्रोत्रधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रधर्मतायाः प्रज्ञापारमिता, न घ्राणं प्रज्ञापारमिता नान्यत्र घ्राणात् प्रज्ञापारमिता, न घ्राणतथता प्रज्ञापारमिता नान्यत्र घ्राणतथतायाः प्रज्ञापारमिता, न घ्राणधर्मता प्रज्ञापारमिता नान्यत्र घ्राणधर्मतायाः प्रज्ञापारमिता, न जिह्वा प्रज्ञापारमिता नान्यत्र जिह्वायाः प्रज्ञापारमिता, न जिह्वातथता प्रज्ञापारमिता नान्यत्र जिह्वातथतायाः प्रज्ञापारमिता, न जिह्वाधर्मता प्रज्ञापारमिता नान्यत्र जिह्वाधर्मतायाः प्रज्ञापारमिता, न कायः प्रज्ञापारमिता नान्यत्र कायात् प्रज्ञापारमिता, न कायतथता प्रज्ञापारमिता नान्यत्र कायतथतायाः प्रज्ञापारमिता, न कायधर्मता प्रज्ञापारमिता नान्यत्र कायधर्मतायाः प्रज्ञापारमिता, न मनः प्रज्ञापारमिता नान्यत्र मनसः प्रज्ञापारमिता, न मनस्तथता प्रज्ञापारमिता नान्यत्र मनस्तथतायाः प्रज्ञापारमिता, न मनोधर्मता प्रज्ञापारमिता नान्यत्र मनोधर्मतायाः प्रज्ञापारमिता.

न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता, न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता, न शब्दः प्रज्ञापारमिता नान्यत्र शब्दात् प्रज्ञापारमिता, न शब्दतथता प्रज्ञापारमिता नान्यत्र शब्दतथतायाः प्रज्ञापारमिता, न शब्दधर्मता प्रज्ञापारमिता नान्यत्र शब्दधर्मतायाः प्रज्ञापारमिता, न गन्धः प्रज्ञापारमिता नान्यत्र गन्धात् प्रज्ञापारमिता, न गन्धतथता प्रज्ञापारमिता नान्यत्र गन्धतथतायाः प्रज्ञापारमिता, न गन्धधर्मता प्रज्ञापारमिता नान्यत्र गन्धधर्मतायाः प्रज्ञापारमिता, न रसः प्रज्ञापारमिता नान्यत्र रसात् प्रज्ञापारमिता, न रसतथता प्रज्ञापारमिता नान्यत्र रसतथतायाः प्रज्ञापारमिता, न रसधर्मता प्रज्ञापारमिता नान्यत्र रसधर्मतायाः प्रज्ञापारमिता, न स्पर्शः प्रज्ञापारमिता नान्यत्र स्पर्शात् प्रज्ञापारमिता, न स्पर्शतथता प्रज्ञापारमिता नान्यत्र स्पर्शतथतायाः प्रज्ञापारमिता, न स्पर्शधर्मता प्रज्ञापारमिता नान्यत्र स्पर्शधर्मतायाः प्रज्ञापारमिता, न धर्माः प्रज्ञापारमिता नान्यत्र धर्मेभ्यः प्रज्ञापारमिता, न धर्मतथता प्रज्ञापारमिता नान्यत्र धर्मतथतायः प्रज्ञापारमिता, न धर्मधर्मता प्रज्ञापारमिता नान्यत्र धर्मधर्मतायाः प्रज्ञापारमिता.
न चक्षुर्विज्ञानं प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानात् प्रज्ञापारमिता, न चक्षुर्विज्ञानतथता प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानतथतायाः ( श्स्प्_इइ-3_156 ) प्रज्ञापारमिता, न चक्षुर्विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानधर्मतायाः प्रज्ञापारमिता, न श्रोत्रविज्ञानं प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानात् प्रज्ञापारमिता, न श्रोत्रविज्ञानतथता प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानतथतायाः प्रज्ञापारमिता, न श्रोत्रविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानधर्मतायाः प्रज्ञापारमिता, न घ्राणविज्ञानं प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानात् प्रज्ञापारमिता, न घ्राणविज्ञानतथता प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानतथतायाः प्रज्ञापारमिता, न घ्राणविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानधर्मतायाः प्रज्ञापारमिता, न जिह्वाविज्ञानं प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानात् प्रज्ञापारमिता, न जिह्वाविज्ञानतथता प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानतथतायाः प्रज्ञापारमिता, न जिह्वाविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानधर्मतायाः प्रज्ञापारमिता, न कायविज्ञानं प्रज्ञापारमिता नान्यत्र कायविज्ञानात् प्रज्ञापारमिता, न कायविज्ञानतथता प्रज्ञापारमिता नान्यत्र कायविज्ञानतथतायाः प्रज्ञापारमिता, न कायविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र कायविज्ञानधर्मतायाः प्रज्ञापारमिता, न मनोविज्ञानं प्रज्ञापारमिता नान्यत्र मनोविज्ञानात् प्रज्ञापारमिता, न मनोविज्ञानतथता प्रज्ञापारमिता नान्यत्र मनोविज्ञानतथतायाः प्रज्ञापारमिता, न मनोविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र मनोविज्ञानधर्मतायाः प्रज्ञापारमिता.
न चक्षुःसंस्पर्शः प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शात् प्रज्ञापारमिता, न चक्षुःसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शतथतायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शः प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शात् प्रज्ञापारमिता, न श्रोत्रसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शतथतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शः प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शात् प्रज्ञापारमिता, न घ्राणसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शतथतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शः प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शात् प्रज्ञापारमिता, न जिह्वासंस्पर्शतथता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शतथतायाः प्रज्ञापारमिता ( श्स्प्_इइ-3_157 ) न जिह्वासंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शधर्मतायाः प्रज्ञापारमिता, न कायसंस्पर्शः प्रज्ञापारमिता नान्यत्र कायसंस्पर्शात् प्रज्ञापारमिता, न कायसंस्पर्शतथता प्रज्ञापारमिता नन्यत्र कायसंस्पर्शतथतायाः प्रज्ञापारमिता, न कायसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न मनःसंस्पर्शः प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शात् प्रज्ञापारमिता, न मनःसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शतथतायाः प्रज्ञापारमिता, न मनःसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शधर्मतायाः प्रज्ञापारमिता.

न चक्षुःसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदनाधर्मता ( श्स्प्_इइ-3_158 ) प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता.
न पृथिवीधातुः प्रज्ञापारमिता नान्यत्र पृथिवीधातोः प्रज्ञापारमिता, न पृथिवीधातुतथता प्रज्ञापारमिता नान्यत्र पृथिवीधातुतथतायाः प्रज्ञापारमिता, न पृथिवीधातुधर्मता प्रज्ञापारमिता नान्यत्र पृथिवीधातुधर्मतायाः प्रज्ञापारमिता, नाब्धातुः प्रज्ञापारमिता नान्यत्राब्धातोः प्रज्ञापारमिता, नाब्धातुतथता प्रज्ञापारमिता नान्यत्राब्धातुतथतायाः प्रज्ञापारमिता, नाब्धातुधर्मता प्रज्ञापारमिता नान्यत्राब्धातुधर्मतायाः प्रज्ञापारमिता, न तेजोधातुः प्रज्ञापारमिता नन्यत्र तेजोधातोः प्रज्ञापारमिता, न तेजोधातुतथता प्रज्ञापारमिता नान्यत्र तेजोधातुतथतायाः प्रज्ञापारमिता, न तेजोधातुधर्मता प्रज्ञापारमिता नान्यत्र तेजोधातुधर्मतायाः प्रज्ञापारमिता, न वारुधातुः प्रज्ञापारमिता नान्यत्र वायुधातोः प्रज्ञापारमिता, न वायुधातुतथता प्रज्ञापारमिता नान्यत्र वायुधातुतथतायाः प्रज्ञापारमिता, न वायुधातुधर्मता प्रज्ञापारमिता नान्यत्र पृथिवीधातुधर्मतायाः प्रज्ञापारमिता, नाकाशधातुः प्रज्ञापारमिता नान्यत्राकाशधातोः प्रज्ञापारमिता, नाकाशधातुतथता प्रज्ञापारमिता नान्यत्राकाशधातुतथतायाः प्रज्ञापारमिता, नाकाशधातुधर्मता प्रज्ञापारमिता नान्यत्राकाशवीधातुधर्मतायाः प्रज्ञापारमिता, न विज्ञानधातुः प्रज्ञापारमिता नान्यत्र विज्ञानधातोः प्रज्ञापारमिता, न विज्ञानधातुतथता प्रज्ञापारमिता नान्यत्र विज्ञानधातुतथतायाः प्रज्ञापारमिता, न विज्ञानधातुधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधातुधर्मतायाः प्रज्ञापारमिता.

नाविद्या प्रज्ञापारमिता नान्यत्राविद्यायाः प्रज्ञापारमिता, नाविद्यातथता प्रज्ञापारमिता नान्यत्राविद्यातथतायाः प्रज्ञापारमिता, नाविद्याधर्मता प्रज्ञापारमिता नान्यत्राविद्याधर्मतायाः प्रज्ञापारमिता, न संस्काराः प्रज्ञापारमिता नान्यत्र संस्कारेभ्यः प्रज्ञापारमिता, न संस्कारतथता प्रज्ञापारमिता नान्यत्र संस्कारतथतायाः प्रज्ञापारमिता, ( श्स्प्_इइ-3_159 ) न संस्कारधर्मता प्रज्ञापारमिता नान्यत्र संस्कारधर्मतायाः प्रज्ञापारमिता, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात् प्रज्ञापारमिता, न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता, न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता, न नामरूपं प्रज्ञापारमिता नान्यत्र नामरूपात् प्रज्ञापारमिता, न नामरूपतथता प्रज्ञापारमिता नान्यत्र नामरूपतथतायाः प्रज्ञापारमिता, न नामरूपधर्मता प्रज्ञापारमिता नान्यत्र नामरूपधर्मतायाः प्रज्ञापारमिता, न षडायतनं प्रज्ञापारमिता नान्यत्र षडायतनात् प्रज्ञापारमिता, न षडायतनतथता प्रज्ञापारमिता नान्यत्र षडायतनतथतायाः प्रज्ञापारमिता, न षडायतनधर्मता प्रज्ञापारमिता नान्यत्र षडायतनधर्मतायाः प्रज्ञापारमिता, न स्पर्शः प्रज्ञापारमिता नान्यत्र स्पर्शात् प्रज्ञापारमिता, न स्पर्शतथता प्रज्ञापारमिता नान्यत्र स्पर्शतथतायाः प्रज्ञापारमिता, न स्पर्शधर्मता प्रज्ञापारमिता नान्यत्र स्पर्शधर्मतायाः प्रज्ञापारमिता, न वेदना प्रज्ञापारमिता नान्यत्र वेदनायाः प्रज्ञापारमिता, न वेदनातथता प्रज्ञापारमिता नान्यत्र वेदनातथतायाः प्रज्ञापारमिता, न वेदनाधर्मता प्रज्ञापारमिता नान्यत्र वेदनाधर्मतायाण् प्रज्ञापारमिता, न तृष्णा प्रज्ञापारमिता नान्यत्र तृष्णायाः प्रज्ञापारमिता, न तृष्णातथता प्रज्ञापारमिता नान्यत्र तृष्णातथतायाः प्रज्ञापारमिता, न तृष्णाधर्मता प्रज्ञापारमिता नान्यत्र तृष्णाधर्मतायाः प्रज्ञापारमिता, नोपादानं प्रज्ञापारमिता नान्यत्र ओपादानात् प्रज्ञापारमिता, नोपादानतथता प्रज्ञापारमिता नान्यत्रोपादानतथतायाः प्रज्ञापारमिता, नोपादानधर्मता प्रज्ञापारमिता नान्यत्रोपादानधर्मतायाः प्रज्ञापारमिता, न भवः प्रज्ञापारमिता नान्यत्र भवात् प्रज्ञापारमिता, न भवतथता प्रज्ञापारमिता नान्यत्र भवतथतायाः प्रज्ञापारमिता, न भवधर्मता प्रज्ञापारमिता नान्यत्र भवधर्मतायाण् प्रज्ञापारमिता, न जातिः प्रज्ञापारमिता नान्यत्र जातेः प्रज्ञापारमिता, न जातितथता प्रज्ञापारमिता नान्यत्र जातितथतायाः प्रज्ञापारमिता, न जातिधर्मता प्रज्ञापारमिता नान्यत्र जातिधर्मतायाः प्रज्ञापारमिता, न जरामरणं प्रज्ञापारमिता नान्यत्र जरामरणात् प्रज्ञापारमिता, न जरामरणतथता प्रज्ञापारमिता नान्यत्र जरामरणतथतायाः प्रज्ञापारमिता, न जरामरणधर्मता प्रज्ञापारमिता नान्यत्र जरामरणधर्मतायाः प्रज्ञापारमिता.
न दानपारमिता प्रज्ञापारमिता नान्यत्र दानपारमितायाः प्रज्ञापारमिता, ( श्स्प्_इइ-3_160 ) न दानपारमितातथता प्रज्ञापारमिता नान्यत्र दानपारमितातथतायाः प्रज्ञापारमिता, न दानपारमिताधर्मता प्रज्ञापारमिता नान्यत्र दानपारमिताधर्मतायाः प्रज्ञापारमिता, न शीलपारमिता प्रज्ञापारमिता नान्यत्र शीलपारमितायाः प्रज्ञापारमिता, न शीलपारमितातथता प्रज्ञापारमिता नान्यत्र शीलपारमितातथतायाः प्रज्ञापारमिता, न शीलपारमिताधर्मता प्रज्ञापारमिता नान्यत्र शीलपारमिताधर्मतायाः प्रज्ञापारमिता, न क्षान्तिपारमिता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमितायाः प्रज्ञापारमिता, न क्षान्तिपारमितातथता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमितातथतायाः प्रज्ञापारमिता, न क्षान्तिपारमिताधर्मता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमिताधर्मतायाः प्रज्ञापारमिता, न वीर्यपारमिता प्रज्ञापारमिता नान्यत्र वीर्यपारमितायाः प्रज्ञापारमिता, न वीर्यपारमितातथता प्रज्ञापारमिता नान्यत्र वीर्यपारमितातथतायाः प्रज्ञापारमिता, न वीर्यपारमिताधर्मता प्रज्ञापारमिता नान्यत्र वीर्यपारमिताधर्मतायाः प्रज्ञापारमिता, न ध्यानपारमिता प्रज्ञापारमिता नान्यत्र ध्यानपारमितायाः प्रज्ञापारमिता, न ध्यानपारमितातथता प्रज्ञापारमिता नान्यत्र ध्यानपारमितातथतायाः प्रज्ञापारमिता, न ध्यानपारमिताधर्मता प्रज्ञापारमिता नान्यत्र ध्यानपारमिताधर्मतायाः प्रज्ञापारमिता, न प्रज्ञापारमिता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमितायाः प्रज्ञापारमिता, न प्रज्ञापारमितातथता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमितातथतायाः प्रज्ञापारमिता, न प्रज्ञापारमिताधर्मता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमिताधर्मतायाः प्रज्ञापारमिता.
नाध्यात्मशून्यता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यतायाः प्रज्ञापारमिता, नाध्यात्मशून्यतातथता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यतातथतायाः प्रज्ञापारमिता, नाध्यात्मशून्यताधर्मता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यताधर्मतायाः प्रज्ञापारमिता,
न बहिर्धाशून्यता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यतायाः प्रज्ञापारमिता, न बहिर्धाशून्यतातथता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यतातथतायाः प्रज्ञापारमिता, न बहिर्धाशून्यताधर्मता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यताधर्मतायाः प्रज्ञापारमिता,
नाध्यात्मबहिर्धाशून्यता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यतातथता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यतातथतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यताधर्मता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यताधर्मतायाः ( श्स्प्_इइ-3_161 ) प्रज्ञापारमिता,
न शून्यतासून्यता प्रज्ञापारमिता नान्यत्र शून्यताशून्यतायाः प्रज्ञापारमिता, न शून्यताशून्यतातथता प्रज्ञापारमिता नान्यत्र शून्यताशून्यतातथतायाः प्रज्ञापारमिता, न शून्यताशून्यताधर्मता प्रज्ञापारमिता नान्यत्र शून्यताशून्यताधर्मतायाः प्रज्ञापारमिता,
न महाशून्यता प्रज्ञापारमिता नान्यत्र महाशून्यतायाः प्रज्ञापारमिता, न महाशून्यतातथता प्रज्ञापारमिता नान्यत्र महाशून्यतातथतायाः प्रज्ञापारमिता, न महाशून्यताधर्मता प्रज्ञापारमिता नान्यत्र महाशून्यताधर्मतायाः प्रज्ञापारमिता,
न परमार्थशून्यता प्रज्ञापारमिता नान्यत्र परमार्थशून्यतायाः प्रज्ञापारमिता, न परमार्थशून्यतातथता प्रज्ञापारमिता नान्यत्र परमार्थशून्यतातथतायाः प्रज्ञापारमिता, न परमार्थशून्यताधर्मता प्रज्ञापारमिता नान्यत्र परमार्थशून्यताधर्मतायाः प्रज्ञापारमिता,
न संस्कृतशून्यता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यतायाः प्रज्ञापारमिता, न संस्कृतशून्यतातथता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यतातथतायाः प्रज्ञापारमिता, न संस्कृतशून्यताधर्मता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यताधर्मतायाः प्रज्ञापारमिता,

नासंस्कृतशून्यता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यतायाः प्रज्ञापारमिता, नासंस्कृतशून्यतातथता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यतातथतायाः प्रज्ञापारमिता, नासंस्कृतशून्यताधर्मता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यताधर्मतायाः प्रज्ञापारमिता,
नात्यन्तशून्यता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यतायाः प्रज्ञापारमिता, नात्यन्तशून्यतातथता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यतातथतायाः प्रज्ञापारमिता, नात्यन्तशून्यताधर्मता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यताधर्मतायाः प्रज्ञापारमिता,
नानवराग्रशून्यता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यतायाः प्रज्ञापारमिता, नानवराग्रशून्यतातथता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यतातथतायाः प्रज्ञापारमिता, नानवराग्रशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यताधर्मतायाः प्रज्ञापारमिता,
नानवकारशून्यता प्रज्ञापारमिता नान्यत्रानवकारशून्यतायाः प्रज्ञापारमिता, नानवकारशून्यतातथता प्रज्ञापारमिता नान्यत्रानवकारशून्यतातथतायाः प्रज्ञापारमिता, नानवकारशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानवकारशून्यताधर्मतायाः प्रज्ञापारमिता, न प्रकृतिशून्यता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यतायाः प्रज्ञापारमिता,
न प्रकृतिशून्यतातथता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यतातथतायाः प्रज्ञापारमिता, न प्रकृतिशून्यताधर्मता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यताधर्मतायाः प्रज्ञापारमिता,
न सर्वधर्मशून्यता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यतातथता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतातथतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यताधर्मता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यताधर्मतायाः प्रज्ञापारमिता,
न स्वलक्षणशून्यता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतातथतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यताधर्मतायाः प्रज्ञापारमिता,
नानुपलम्भशून्यता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतायाः प्रज्ञापारमिता, नानुपलम्भशून्यतातथता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतातथतायाः प्रज्ञापारमिता, नानुपलम्भशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यताधर्मतायाः प्रज्ञापारमिता,
नाभावशून्यता प्रज्ञापारमिता नान्यत्राभावशून्यतायाः प्रज्ञापारमिता, नाभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावशून्यताधर्मतायाः प्रज्ञापारमिता,
न स्वभावशून्यता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतायाः प्रज्ञापारमिता, न स्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतातथतायाः प्रज्ञापारमिता, न स्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वभावशून्यताधर्मतायाः प्रज्ञापारमिता,
नाभावस्वभावशून्यता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यताधर्मतायाः प्रज्ञापारमिता.
न स्मृत्युपस्थानानि प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानेभ्यः प्रज्ञापारमिता, न स्मृत्युपस्थानतथता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानतथतायाः ( श्स्प्_इइ-3_163 ) प्रज्ञापारमिता, न स्मृत्युपस्थानधर्मता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानधर्मतायाः प्रज्ञापारमिता,
न सम्यक्प्रहाणानि प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणेभ्यः प्रज्ञापारमिता, न सम्यक्प्रहाणतथता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणतथतायाः प्रज्ञापारमिता, न सम्यक्प्रहाणधर्मता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणधर्मतायाः प्रज्ञापारमिता,
नर्द्धिपादाः प्रज्ञापारमिता नान्यत्रर्द्धिपादेभ्यः प्रज्ञापारमिता, नर्द्धिपादतथता प्रज्ञापारमिता नान्यत्रर्द्धिपादतथतायाः प्रज्ञापारमिता, नर्द्धिपादधर्मता प्रज्ञापारमिता नान्यत्रर्द्धिपादहर्मतायाः प्रज्ञापारमिता,

नेन्द्रियाणि प्रज्ञापारमिता नान्यत्रेन्द्रियेभ्यः प्रज्ञापारमिता, नेन्द्रियतथता प्रज्ञापारमिता नान्यत्रेन्द्रियतथतायाः प्रज्ञापारमिता, नेन्द्रियधर्मता प्रज्ञापारमिता नान्यत्रेन्द्रियधर्मतायाः प्रज्ञापारमिता,
न बलानि प्रज्ञापारमिता नान्यत्र बलेभ्यः प्रज्ञापारमिता, न बलतथता प्रज्ञापारमिता नान्यत्र बलतथतायाः प्रज्ञापारमिता, न बलधर्मता प्रज्ञापारमिता नान्यत्र बलधर्मतायाः प्रज्ञापारमिता,
न बोध्यङ्गानि प्रज्ञापारमिता नान्यत्र बोध्यङ्गेभ्यः प्रज्ञापारमिता, न बोध्यङ्गतथता प्रज्ञापारमिता नान्यत्र बोध्यङ्गतथतायाः प्रज्ञापारमिता, न बोध्यङ्गधर्मता प्रज्ञापारमिता नान्यत्र बोध्यङ्गधर्मतायाः प्रज्ञापारमिता,
नार्याष्टाङ्गमार्गः प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गात् प्रज्ञापारमिता, नार्याष्टाङ्गमार्गतथता प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गतथतायाः प्रज्ञापारमिता, नार्याष्टाङ्गमार्गधर्मता प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गधर्मतायाः प्रज्ञापारमिता,
नार्यसत्यानि प्रज्ञापारमिता नान्यत्रार्यसत्येभ्यः प्रज्ञापारमिता, नार्यसत्यतथता प्रज्ञापारमिता नान्यत्रार्यसत्यतथतायाः प्रज्ञापारमिता, नार्यसत्यधर्मता प्रज्ञापारमिता नान्यत्रार्यसत्यधर्मतायाः प्रज्ञापारमिता,
न ध्यानानि प्रज्ञापारमिता नान्यत्र ध्यानेभ्यः प्रज्ञापारमिता, न ध्यानतथता प्रज्ञापारमिता नान्यत्र ध्यानतथतायाः प्रज्ञापारमिता, न ध्यानधर्मता प्रज्ञापारमिता नान्यत्र ध्यानधर्मतायाः प्रज्ञापारमिता,
नाप्रमाणानि प्रज्ञापारमिता नान्यत्राप्रमाणेभ्यः प्रज्ञापारमिता, ( श्स्प्_इइ-3_164 ) नाप्रमाणतथता प्रज्ञापारमिता नान्यत्राप्रमाणतथतायाः प्रज्ञापारमिता, नाप्रमाणधर्मता प्रज्ञापारमिता नान्यत्राप्रमाणधर्मतायाः प्रज्ञापारमिता,
नारूप्यसमापत्तयः प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिभ्यः प्रज्ञापारमिता, नारूप्यसमापत्तितथता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तितथतायाः प्रज्ञापारमिता, नारूप्यसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिधर्मतायाः प्रज्ञापारमिता,
न विमोक्षाः प्रज्ञापारमिता नान्यत्र विमोक्षेभ्यः प्रज्ञापारमिता, न विमोक्षतथता प्रज्ञापारमिता नान्यत्र विमोक्षतथतायाः प्रज्ञापारमिता, न विमोक्षधर्मता प्रज्ञापारमिता नान्यत्र विमोक्षधर्मतायाः प्रज्ञापारमिता,
नानुपूर्वविहारसमापत्तयः प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिभ्यः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तितथता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तितथतायाः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिधर्मतायाः प्रज्ञापारमिता,
न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायाः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायाः प्रज्ञापारमिता,
नाभिज्ञाः प्रज्ञापारमिता नान्यत्राभिज्ञायाः प्रज्ञापारमिता, नाभिज्ञातथता प्रज्ञापारमिता नान्यत्राभिज्ञातथतायाः प्रज्ञापारमिता, नाभिज्ञाधर्मता प्रज्ञापारमिता नान्यत्राभिज्ञाधर्मतायाः प्रज्ञापाइअमिता,
न समाधयः प्रज्ञापारमिता नान्यत्र समाधिभ्यः प्रज्ञापारमिता, न समाधितथता प्रज्ञापारमिता नान्यत्र समाधितथतायाः प्रज्ञापारमिता, न समाधिधर्मता प्रज्ञापारमिता नान्यत्र समाधिधर्मतायाः प्रज्ञापारमिता,
न धारणीमुखानि प्रज्ञापारमिता नान्यत्र धारणीमुखेभ्यः प्रज्ञापारमिता, न धारणीमुखतथता प्रज्ञापारमिता नान्यत्र धारणीमुखतथतायाः प्रज्ञापारमिता, न धारणीमुखधर्मता प्रज्ञापारमिता नान्यत्र धारणीमुखधर्मतायाः प्रज्ञापारमिता,
न तथागतबलानि प्रज्ञापारमिता नान्यत्र तथागतबलेभ्यः प्रज्ञापारमिता, न तथागतबलतथता प्रज्ञापारमिता नान्यत्र तथागतबलतथतायाः प्रज्ञापारमिता, न तथागतबलधर्मता प्रज्ञापारमिता नान्यत्र तथागतबलधर्मतायाः प्रज्ञापारमिता,
न वैशारद्यानि प्रज्ञापारमिता नान्यत्र वैशारद्येभ्यः प्रज्ञापारमिता, न वैशारद्यतथता प्रज्ञापारमिता नान्यत्र वैशारद्यतथतायाः प्रज्ञापारमिता, न वैशारद्यधर्मता प्रज्ञापारमिता नान्यत्र वैशारद्यधर्मतायाः प्रज्ञापारमिता,
न प्रतिसंविदः प्रज्ञापारमिता नान्यत्र प्रतिसंविद्भ्यः प्रज्ञापारमिता, न प्रतिसंवित्तथता प्रज्ञापारमिता नान्यत्र प्रतिसंवित्तथतायाः प्रज्ञापारमिता, न प्रतिसंविद्धर्मता प्रज्ञापारमिता नान्यत्र प्रतिसंविद्धर्मतायाः प्रज्ञापारमिता,
न महामैत्री प्रज्ञापारमिता नान्यत्र महामैत्र्याः प्रज्ञापारमिता, न महामैत्रीतथता प्रज्ञापारमिता नान्यत्र महामैत्रीतथतायाः प्रज्ञापारमिता, न महामैत्रीधर्मता प्रज्ञापारमिता नान्यत्र महामैत्रीधर्मतायाः प्रज्ञापारमिता,
न महाकरुणा प्रज्ञापारमिता नान्यत्र महाकरुणायाः प्रज्ञापारमिता, न महाकरुणातथता प्रज्ञापारमिता नान्यत्र महाकरुणातथतायाः प्रज्ञापारमिता, न महाकरुणाधर्मता प्रज्ञापारमिता नान्यत्र महाकरुणाधर्मतायाः प्रज्ञापारमिता,
नावेणिकबुद्धधर्माः प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मेभ्यः प्रज्ञापारमिता, नावेणिकबुद्धधर्मतथता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मतथतायाः प्रज्ञापारमिता, नावेणिकबुद्धधर्मधर्मता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मधर्मतायाः प्रज्ञापारमिता,
न सर्वज्ञता प्रज्ञापारमिता नान्यत्र सर्वज्ञतायाः प्रज्ञापारमिता, न सर्वज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वज्ञतातथतायाः प्रज्ञापारमिता, न सर्वज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वज्ञताधर्मतायाः प्रज्ञापारमिता,
न मार्गाकारज्ञता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतायाः प्रज्ञापारमिता, न मार्गाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतातथतायाः प्रज्ञापारमिता, न मार्गाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञताधर्मतायाः प्रज्ञापारमिता,
न सर्वाकारज्ञता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतायाः प्रज्ञापारमिता, ( श्स्प्_इइ-3_166 ) न सर्वाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतातथतायाः प्रज्ञापारमिता, न सर्वाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञताधर्मतायाः प्रज्ञापारमिता.
तत् कस्य हेतोः? तथा हि कौशिक सर्व एते धर्मा न संविद्यन्ते नोपलभ्यन्ते.

एवं सर्वधर्मेष्व् असंविद्यमानेष्व् अनुपलम्भमानेषु न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता, न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता, न वेदना प्रज्ञापारमिता नान्यत्र वेदनाया प्रज्ञापारमिता, न वेदनातथता प्रज्ञापारमिता नान्यत्र वेदनातथतायाः प्रज्ञापारमिता, न वेदनाधर्मता प्रज्ञापारमिता नान्यत्र वेदनाधर्मतायाः प्रज्ञापारमिता, न संज्ञा प्रज्ञापारमिता नान्यत्र संज्ञाया प्रज्ञापारमिता, न संज्ञातथता प्रज्ञापारमिता नान्यत्र संज्ञातथतायाः प्रज्ञापारमिता, न संज्ञाधर्मता प्रज्ञापारमिता नान्यत्र संज्ञाधर्मतायाः प्रज्ञापारमिता, न संस्काराः प्रज्ञापारमिता नान्यत्र संस्कारेभ्यः प्रज्ञापारमिता, न संस्कारतथता प्रज्ञापारमिता नान्यत्र संस्कारतथतायाः प्रज्ञापारमिता, न संस्कारधर्मता प्रज्ञापारमिता नान्यत्र संस्कारधर्मतायाः प्रज्ञापारमिता, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात् प्रज्ञापारमिता, न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता, न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता.
न चक्षुः प्रज्ञापारमिता नान्यत्र चक्षुषः प्रज्ञापारमिता, न चक्षुस्तथता प्रज्ञापारमिता नान्यत्र चक्षुस्तथतायाः प्रज्ञापारमिता, न चक्षुर्धर्मता प्रज्ञापारमिता नान्यत्र चक्षुर्धर्मतायाः प्रज्ञापारमिता, न श्रोत्रं प्रज्ञापारमिता नान्यत्र श्रोत्रात् प्रज्ञापारमिता, न श्रोत्रतथता प्रज्ञापारमिता नान्यत्र श्रोत्रतथतायाः प्रज्ञापारमिता, न श्रोत्रधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रधर्मतायाः प्रज्ञापारमिता, न घ्राणं प्रज्ञापारमिता नान्यत्र घ्राणात् प्रज्ञापारमिता, न घ्राणतथता प्रज्ञापारमिता नान्यत्र घ्राणतथतायाः प्रज्ञापारमिता, न घ्राणधर्मता प्रज्ञापारमिता नान्यत्र घ्राणधर्मतायाः प्रज्ञापारमिता, न जिह्वा प्रज्ञापारमिता नान्यत्र जिह्वायाः प्रज्ञापारमिता, न जिह्वातथता प्रज्ञापारमिता नान्यत्र जिह्वातथतायाः प्रज्ञापारमिता, ( श्स्प्_इइ-3_167 ) न जिह्वाधर्मता प्रज्ञापारमिता नान्यत्र जिह्वाधर्मतायाः प्रज्ञापारमिता, न कायः प्रज्ञापारमिता नान्यत्र कायात् प्रज्ञापारमिता, न कायतथता प्रज्ञापारमिता नान्यत्र कायतथतायाः प्रज्ञापारमिता, न कायधर्मता प्रज्ञापारमिता नान्यत्र कायधर्मतायाः प्रज्ञापारमिता, न मनः प्रज्ञापारमिता नान्यत्र मनसः प्रज्ञापारमिता, न मनस्तथता प्रज्ञापारमिता नान्यत्र मनस्तथतायाः प्रज्ञापारमिता, न मनोधर्मता प्रज्ञापारमिता नान्यत्र मनोधर्मतायाः प्रज्ञापारमिता.
न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता, न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता, न शब्दः प्रज्ञापारमिता नान्यत्र शब्दात् प्रज्ञापारमिता, न शब्दतथता प्रज्ञापारमिता नान्यत्र शब्दतथतायाः प्रज्ञापारमिता, न शब्दधर्मता प्रज्ञापारमिता नान्यत्र शब्दधर्मतायाः प्रज्ञापारमिता, न गन्धः प्रज्ञापारमिता नान्यत्र गन्धात् प्रज्ञापारमिता, न गन्धतथता प्रज्ञापारमिता नान्यत्र गन्धतथतायाः प्रज्ञापारमिता, न गन्धधर्मता प्रज्ञापारमिता नान्यत्र गन्धधर्मतायाः प्रज्ञापारमिता, न रसः प्रज्ञापारमिता नान्यत्र रसात् प्रज्ञापारमिता, न रसतथता प्रज्ञापारमिता नान्यत्र रसतथतायाः प्रज्ञापारमिता, न रसधर्मता प्रज्ञापारमिता नान्यत्र रसधर्मतायाः प्रज्ञापारमिता, न स्पर्शः प्रज्ञापारमिता नान्यत्र स्पर्शात् प्रज्ञापारमिता, न स्पर्शतथता प्रज्ञापारमिता नान्यत्र स्पर्शतथतायाः प्रज्ञापारमिता, न स्पर्शधर्मता प्रज्ञापारमिता नान्यत्र स्पर्शधर्मतायाः प्रज्ञापारमिता, न धर्माः प्रज्ञापारमिता नान्यत्र धर्मेभ्यः प्रज्ञापारमिता, न धर्मतथता प्रज्ञापारमिता नान्यत्र धर्मतथतायाः प्रज्ञापारमिता, न धर्मधर्मता प्रज्ञापारमिता नान्यत्र धर्मधर्मतायाः प्रज्ञापारमिता.
न चक्षुर्विज्ञानं प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानात् प्रज्ञापारमिता, न चक्षुर्विज्ञानतथता प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानतथतायाः प्रज्ञापारमिता, न चक्षुर्विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानधर्मतायः प्रज्ञापारमिता, न श्रोत्रविज्ञानं प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानात् प्रज्ञापारमिता, न श्रोत्रविज्ञानतथता प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानतथतायाः प्रज्ञापारमिता, न श्रोत्रविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानधर्मतायाः प्रज्ञापारमिता, न घ्राणविज्ञानं प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानात् प्रज्ञापारमिता, न घ्राणविज्ञानतथता प्रज्ञापारमिता नान्यत्र ( श्स्प्_इइ-3_168 ) घ्राणविज्ञानतथतायाः प्रज्ञापारमिता, न घ्राणविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानधर्मतायाः प्रज्ञापारमिता, न जिह्वाविज्ञानं प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानात् प्रज्ञापारमिता, न जिह्वाविज्ञानतथता प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानतथतायाः प्रज्ञापारमिता, न जिह्वाविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानधर्मतायाः प्रज्ञापारमिता, न कायविज्ञानं प्रज्ञापारमिता नान्यत्र कायविज्ञानात् प्रज्ञापारमिता, न कायविज्ञानतथता प्रज्ञापारमिता नान्यत्र कायविज्ञानतथतायाः प्रज्ञापारमिता, न कायविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र कायविज्ञानधर्मतायाः प्रज्ञापारमिता, न मनोविज्ञानं प्रज्ञापारमिता नान्यत्र मनोविज्ञानात् प्रज्ञापारमिता, न मनोविज्ञानतथता प्रज्ञापारमिता नान्यत्र मनोविज्ञानतथतायाः प्रज्ञापारमिता, न मनोविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र मनोविज्ञानधर्मतायाः प्रज्ञापारमिता.

न चक्षुःसंस्पर्शः प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शात् प्रज्ञापारमिता, न चक्षुःसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शतथतायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शः प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शात् प्रज्ञापारमिता, न श्रोत्रसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शतथतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शः प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शात् प्रज्ञापारमिता, न घ्राणसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शतथतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शः प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शात् प्रज्ञापारमिता, न जिह्वासंस्पर्शतथता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शतथतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शधर्मतायाः प्रज्ञापारमिता, न कायसंस्पर्शः प्रज्ञापारमिता नान्यत्र कायसंस्पर्शात् प्रज्ञापारमिता, न कायसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शतथतायाः प्रज्ञापारमिता, न कायसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न मनःसंस्पर्शः प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शात् प्रज्ञापारमिता, न मनःसंस्पर्शतथता प्रज्ञापारमिता ( श्स्प्_इइ-3_169 ) नान्यत्र मनःसंस्पर्शतथतायाः प्रज्ञापारमिता, न मनःसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शधर्मतायाः प्रज्ञापारमिता.
न चक्षुःसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता.
न पृथिवीधातुः प्रज्ञापारमिता नान्यत्र पृथिवीधातोः प्रज्ञापारमिता, न पृथिवीधातुतथता प्रज्ञापारमिता नान्यत्र पृथिवीधातुतथतायाः प्रज्ञापारमिता, न पृथिवीधातुधर्मता प्रज्ञापारमिता नान्यत्र पृथिवीधातुधर्मतायाः प्रज्ञापारमिता, नाब्धातुः प्रज्ञापारमिता नान्यत्राब्धातोः प्रज्ञापारमिता, नाब्धातुतथता प्रज्ञापारमिता नान्यत्राब्धातुतथतायाः प्रज्ञापारमिता, नाब्धातुधर्मता प्रज्ञापारमिता नान्यत्राब्धातुधर्मतायाः प्रज्ञापारमिता, न तेजोधातुः प्रज्ञापारमिता नान्यत्र तेजोधातोः प्रज्ञापारमिता, न तेजोधातुतथता प्रज्ञापारमिता नान्यत्र तेजोधातुतथतायाः प्रज्ञापारमिता, न तेजोधातुधर्मता प्रज्ञापारमिता नान्यत्र तेजोधातुधर्मतायाः प्रज्ञापारमिता, न वायुधातुः प्रज्ञापारमिता नान्यत्र वायुधातोः प्रज्ञापारमिता, न वायुधातुतथता प्रज्ञापारमिता नान्यत्र वायुधातुतथतायाः प्रज्ञापारमिता, न वायुधातुधर्मता प्रज्ञापारमिता नान्यत्र वायुधातुधर्मतायाः प्रज्ञापारमिता, नाकाशधातुः प्रज्ञापारमिता नान्यत्राकाशधातोः प्रज्ञापारमिता, नाकाशधातुतथता प्रज्ञापारमिता नान्यत्राकाशधातुतथतायाः प्रज्ञापारमिता, नाकाशधातुधर्मता प्रज्ञापारमिता नान्यत्राकाशवीधातुधर्मतायाः प्रज्ञापारमिता, न विज्ञानधातुः प्रज्ञापारमिता नान्यत्र विज्ञानधातोः प्रज्ञापारमिता, न विज्ञानधातुतथता प्रज्ञापारमिता नान्यत्र विज्ञानधातुतथतायाः प्रज्ञापारमिता, न विज्ञानधातुधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधातुधर्मतायाः प्रज्ञापारमिता.

नाविद्या प्रज्ञापारमिता नान्यत्राविद्यायाः प्रज्ञापारमिता, नाविद्यातथता प्रज्ञापारमिता नान्यत्राविद्यातथतायाः प्रज्ञापारमिता, नाविद्याधर्मता प्रज्ञापारमिता नान्यत्राविद्याधर्मतायाः प्रज्ञापारमिता, न संस्काराः प्रज्ञापारमिता नान्यत्र संस्कारेभ्यः प्रज्ञापारमिता, न संस्कारतथता प्रज्ञापारमिता नान्यत्र संस्कारतथतायाः प्रज्ञापारमिता, न संस्कारधर्मता प्रज्ञापारमिता नान्यत्र संस्कारधर्मतायाः प्रज्ञापारमिता, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात् प्रज्ञापारमिता, न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता, न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता, न नामरूपं प्रज्ञापारमिता नान्यत्र नामरूपात् प्रज्ञापारमिता, न नामरूपतथता प्रज्ञापारमिता नान्यत्र नामरूपतथतायाः प्रज्ञापारमिता, न नामरूपधर्मता ( श्स्प्_इइ-3_171 ) प्रज्ञापारमिता नान्यत्र नामरूपधर्मतायाः प्रज्ञापारमिता, न षडायतनं प्रज्ञापारमिता नान्यत्र षडायतनात् प्रज्ञापारमिता, न षडायतनतथता प्रज्ञापारमिता नान्यत्र षडायतनतथतायाः प्रज्ञापारमिता, न षडायतनधर्मता प्रज्ञापारमिता नान्यत्र षडायतनधर्मतायाः प्रज्ञापारमिता, न स्पर्शः प्रज्ञापारमिता नान्यत्र स्पर्शात् प्रज्ञापारमिता, न स्पर्शतथता प्रज्ञापारमिता नान्यत्र स्पर्शतथतायाः प्रज्ञापारमिता, न स्पर्शधर्मता प्रज्ञापारमिता नान्यत्र स्पर्शधर्मतायाः प्रज्ञापारमिता, न वेदना प्रज्ञापारमिता नान्यत्र वेदनायाः प्रज्ञापारमिता, न वेदनातथता प्रज्ञापारमिता नान्यत्र वेदनातथतायाः प्रज्ञापारमिता, न वेदनाधर्मता प्रज्ञापारमिता नान्यत्र वेदनाधर्मतायाः प्रज्ञापारमिता, न तृष्णा प्रज्ञापारमिता नान्यत्र तृष्णायाः प्रज्ञापारमिता, न तृष्णातथता प्रज्ञापारमिता नान्यत्र तृष्णातथतायाः प्रज्ञापारमिता, न तृष्णाधर्मता प्रज्ञापारमिता नान्यत्र तृष्णाधर्मतायाः प्रज्ञापारमिता, नोपादानं प्रज्ञापारमिता नान्यत्रोपादानात् प्रज्ञापारमिता, नोपादानतथता प्रज्ञापारमिता नान्यत्रोपादानतथतायाः प्रज्ञापारमिता, नोपादानधर्मता प्रज्ञापारमिता नान्यत्रोपादानधर्मतायाः प्रज्ञापारमिता, न भवः प्रज्ञापारमिता नान्यत्र भवात् प्रज्ञापारमिता, न भवतथता प्रज्ञापारमिता नान्यत्र भवतथतायाः प्रज्ञापारमिता, न भवधर्मता प्रज्ञापारमिता नान्यत्र भवधर्मतायाः प्रज्ञापारमिता, न जातिः प्रज्ञापारमिता नान्यत्र जातेः प्रज्ञापारमिता, न जातितथता प्रज्ञापारमिता नान्यत्र जातितथतायाः प्रज्ञापारमिता, न जातिधर्मता प्रज्ञापारमिता नान्यत्र जातिधर्मतायाः प्रज्ञापारमिता, न जरामरणं प्रज्ञापारमिता नान्यत्र जरामरणात् प्रज्ञापारमिता, न जरामरणतथता प्रज्ञापारमिता नान्यत्र जरामरणतथतायाः प्रज्ञापारमिता, न जरामरणधर्मता प्रज्ञापारमिता नान्यत्र जरामरणधर्मतायाः प्रज्ञापारमिता.
न दानपारमिता प्रज्ञापारमिता नान्यत्र दानपारमितायाः प्रज्ञापारमिता, न दानपारमितातथता प्रज्ञापारमिता नान्यत्र दानपारमितातथतायाः प्रज्ञापारमिता, न दानपारमिताधर्मता प्रज्ञापारमिता नान्यत्र दानपारमिताधर्मतायाः प्रज्ञापारमिता, न शीलपारमिता प्रज्ञापारमिता नान्यत्र शीलपारमितायाः प्रज्ञापारमिता, न शीलपारमितातथता प्रज्ञापारमिता नान्यत्र शीलपारमितातथतायाः प्रज्ञापारमिता, न शीलपारमिताधर्मता प्रज्ञापारमिता नान्यत्र शीलपारमिताधर्मतायाः प्रज्ञापारमिता, न क्षान्तिपारमिता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमितायाः ( श्स्प्_इइ-3_172 ) पारमिता, न क्षान्तिपारमितातथता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमितातथतायाः प्रज्ञापारमिता, न क्षान्तिपारमिताधर्मता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमिताधर्मतायाः प्रज्ञापारमिता, न वीर्यपारमिता प्रज्ञापारमिता नान्यत्र वीर्यपारमितायाः प्रज्ञापारमिता, न वीर्यपारमितातथता प्रज्ञापारमिता नान्यत्र वीर्यपारमितातथतायाः प्रज्ञापारमिता, न वीर्यपारमिताधर्मता प्रज्ञापारमिता नान्यत्र वीर्यपारमिताधर्मतायाः प्रज्ञापारमिता, न ध्यानपारमिता प्रज्ञापारमिता नान्यत्र ध्यानपारमितायाः प्रज्ञापारमिता, न ध्यानपारमितातथता प्रज्ञापारमिता नान्यत्र ध्यानपारमितातथतायाः प्रज्ञापारमिता, न ध्यानपारमिताधर्मता प्रज्ञापारमिता नान्यत्र ध्यानपारमिताधर्मतायाः प्रज्ञापारमिता, न प्रज्ञापारमिता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमितायाः प्रज्ञापारमिता, न प्रज्ञापारमितातथता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमितातथतायाः प्रज्ञापारमिता, न प्रज्ञापारमिताधर्मता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमिताधर्मतायाः प्रज्ञापारमिता.
नाध्यात्मशून्यता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यतायाः प्रज्ञापारमिता, नाध्यात्मशून्यतातथता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यतातथतायाः प्रज्ञापारमिता, नाध्यात्मशून्यताधर्मता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यताधर्मतायाः प्रज्ञापारमिता,
न बहिर्धाशून्यता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यतायाः प्रज्ञापारमिता, न बहिर्धाशून्यतातथता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यतातथतायाः प्रज्ञापारमिता, न बहिर्धाशून्यताधर्मता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यताधर्मतायाः प्रज्ञापारमिता,
नाध्यात्मबहिर्धाशून्यता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यतातथता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यतातथतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यताधर्मता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यताधर्मतायाः प्रज्ञापारमिता,
न शून्यताशून्यता प्रज्ञापारमिता नान्यत्र शून्यताशून्यतायाः प्रज्ञापारमिता, न शून्यताशून्यतातथता प्रज्ञापारमिता नान्यत्र शून्यताशून्यतातथतायाः प्रज्ञापारमिता, न शून्यताशून्यताधर्मता प्रज्ञापारमिता नान्यत्र शून्यताशून्यताधर्मतायाः प्रज्ञापारमिता,
न महाशून्यता प्रज्ञापारमिता नान्यत्र महाशून्यतायाः प्रज्ञापारमिता, न महाशून्यतातथता प्रज्ञापारमिता नान्यत्र महाशून्यतातथतायाः ( श्स्प्_इइ-3_173 ) प्रज्ञापारमिता, न महाशून्यताधर्मता प्रज्ञापारमिता नान्यत्र महाशून्यताधर्मतायाः प्रज्ञापारमिता,
न परमार्थशून्यता प्रज्ञापारमिता नान्यत्र परमार्थशून्यतायाः प्रज्ञापारमिता, न परमार्थशून्यतातथता प्रज्ञापारमिता नान्यत्र परमार्थशून्यतातथतायाः प्रज्ञापारमिता, न परमार्थशून्यताधर्मता प्रज्ञापारमिता नान्यत्र परमार्थशून्यताधर्मतायाः प्रज्ञापारमिता,
न संस्कृतशून्यता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यतायाः प्रज्ञापारमिता, न संस्कृतशून्यतातथता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यतातथतायाः प्रज्ञापारमिता, न संस्कृतशून्यताधर्मता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यताधर्मतायाः प्रज्ञापारमिता,

नासंस्कृतशून्यता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यतायाः प्रज्ञापारमिता, नासंस्कृतशून्यतातथता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यतातथतायाः प्रज्ञापारमिता, नासंस्कृतशून्यताधर्मता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यताधर्मतायाः प्रज्ञापारमिता,
नात्यन्तशून्यता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यतायाः प्रज्ञापारमिता, नात्यन्तशून्यतातथता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यतातथतायाः प्रज्ञापारमिता, नात्यन्तशून्यताधर्मता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यताधर्मतायाः प्रज्ञापारमिता,
नानवराग्रशून्यता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यतायाः प्रज्ञापारमिता, नानवराग्रशून्यतातथता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यतातथतायाः प्रज्ञापारमिता, नानवराग्रशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यताधर्मतायाः प्रज्ञापारमिता,
नानवकारशून्यता प्रज्ञापारमिता नान्यत्रानवकारशून्यतायाः प्रज्ञापारमिता, नानवकारशून्यतातथता प्रज्ञापारमिता नान्यत्रानवकारशून्यतातथतायाः प्रज्ञापारमिता, नानवकारशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानवकारशून्यताधर्मतायाः प्रज्ञापारमिता,
न प्रकृतिशून्यता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यतायाः प्रज्ञापारमिता, न प्रकृतिशून्यतातथता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यतातथतायाः प्रज्ञापारमिता, न प्रकृतिशून्यताधर्मता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यताधर्मतायाः प्रज्ञापारमिता,
न सर्वधर्मशून्यता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यतातथता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतातथतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यताधर्मता ( श्स्प्_इइ-3_174 ) प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यताधर्मतायाः प्रज्ञापारमिता,
न स्वलक्षणशून्यता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतातथतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यताधर्मतायाः प्रज्ञापारमिता,
नानुपलम्भशून्यता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतायाः प्रज्ञापारमिता, नानुपलम्भशून्यतातथता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतातथतायाः प्रज्ञापारमिता, नानुपलम्भशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यताधर्मतायाः प्रज्ञापारमिता,
नाभावशून्यता प्रज्ञापारमिता नान्यत्राभावशून्यतायाः प्रज्ञापारमिता, नाभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावशून्यताधर्मतायाः प्रज्ञापारमिता,
न स्वभावशून्यता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतायाः प्रज्ञापारमिता, न स्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतातथतायाः प्रज्ञापारमिता, न स्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वभावशून्यताधर्मतायाः प्रज्ञापारमिता,
नाभावस्वभावशून्यता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यताधर्मतायाः प्रज्ञापारमिता.
न स्मृत्युपस्थानानि प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानेभ्यः प्रज्ञापारमिता, न स्मृत्युपस्थानतथता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानतथतायाः प्रज्ञापारमिता, न स्मृत्युपस्थानधर्मता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानधर्मतायाः प्रज्ञापारमिता,
न सम्यक्प्रहाणानि प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणेभ्यः प्रज्ञापारमिता, न सम्यक्प्रहाणतथता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणतथतायाः प्रज्ञापारमिता, न सम्यक्प्रहाणधर्मता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणधर्मतायाः प्रज्ञापारमिता,
नर्द्धिपादाः प्रज्ञापारमिता नान्यत्रर्द्धिपादेभ्यः प्रज्ञापारमिता, ( श्स्प्_इइ-3_175 ) नर्द्धिपादतथता प्रज्ञापारमिता नान्यत्रर्द्धिपादतथतायाः प्रज्ञापारमिता, नर्द्धिपादधर्मता प्रज्ञापारमिता नान्यत्रर्द्धिपादधर्मतायाः प्रज्ञापारमिता,
नेन्द्रियाणि प्रज्ञापारमिता नान्यत्रेन्द्रियेभ्यः प्रज्ञापारमिता, नेन्द्रियतथता प्रज्ञापारमिता नान्यत्रेन्द्रियतथतायाः प्रज्ञापारमिता, नेन्द्रियधर्मता प्रज्ञापारमिता नान्यत्रेन्द्रियधर्मतायाः प्रज्ञापारमिता,
न बलानि प्रज्ञापारमिता नान्यत्र बलेभ्यः प्रज्ञापारमिता, न बलतथता प्रज्ञापारमिता नान्यत्र बलतथतायाः प्रज्ञापारमिता, न बलधर्मता प्रज्ञापारमिता नान्यत्र बलधर्मतायाः प्रज्ञापारमिता,
न बोध्यङ्गानि प्रज्ञापारमिता नान्यत्र बोध्यङ्गेभ्यः प्रज्ञापारमिता, न बोध्यङ्गतथता प्रज्ञापारमिता नान्यत्र बोध्यङ्गतथतायाः प्रज्ञापारमिता, न बोध्यङ्गधर्मता प्रज्ञापारमिता नान्यत्र बोध्यङ्गधर्मतायाः प्रज्ञापारमिता,
नार्याष्टाङ्गमार्गः प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गात् प्रज्ञापारमिता, नार्याष्टाङ्गमार्गतथता प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गतथतायाः प्रज्ञापारमिता, नार्याष्टाङ्गमार्गधर्मता प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गधर्मतायाः प्रज्ञापारमिता,
नार्यसत्यानि प्रज्ञापारमिता नान्यत्रार्यसत्येभ्यः प्रज्ञापारमिता, नार्यसत्यतथता प्रज्ञापारमिता नान्यत्रार्यसत्यतथतायाः प्रज्ञापारमिता, नार्यसत्यधर्मता प्रज्ञापारमिता नान्यत्रार्यसत्यधर्मतायाः प्रज्ञापारमिता,
न ध्यानानि प्रज्ञापारमिता नान्यत्र ध्यानेभ्यः प्रज्ञापारमिता, न ध्यानतथता प्रज्ञापारमिता नान्यत्र ध्यानतथतायाः प्रज्ञापारमिता, न ध्यानधर्मता प्रज्ञापारमिता नान्यत्र ध्यानधर्मतायाः प्रज्ञापारमिता,
नाप्रमाणानि प्रज्ञापारमिता नान्यत्राप्रमाणेभ्यः प्रज्ञापारमिता, नाप्रमाणतथता प्रज्ञापारमिता नान्यत्राप्रमाणतथतायाः प्रज्ञापारमिता, नाप्रमाणधर्मता प्रज्ञापारमिता नान्यत्राप्रमाणधर्मतायाः प्रज्ञापारमिता,
नारूप्यसमापत्तयः प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिभ्यः प्रज्ञापारमिता, नारूप्यसमापत्तितथता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तितथतायाः प्रज्ञापारमिता, नारूप्यसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिधर्मतायाः प्रज्ञापारमिता,
नाष्टौ विमोक्षाः प्रज्ञापारमिता नान्यत्र विमोक्षेभ्यः प्रज्ञापारमिता, न विमोक्षतथता प्रज्ञापारमिता नान्यत्र विमोक्षतथतायाः प्रज्ञापारमिता, न विमोक्षधर्मता प्रज्ञापारमिता नान्यत्र विमोक्षधर्मतायाः प्रज्ञापारमिता,

नानुपूर्वविहारसमापत्तयः प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिभ्यः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तितथता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तितथतायाः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिधर्मतायाः प्रज्ञापारमिता,
न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायाः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायाः प्रज्ञापारमिता,
नाभिज्ञाः प्रज्ञापारमिता नान्यत्राभिज्ञायाः प्रज्ञापारमिता, नाभिज्ञातथता प्रज्ञापारमिता नान्यत्राभिज्ञातथतायाः प्रज्ञापारमिता, नाभिज्ञाधर्मता प्रज्ञापारमिता नान्यत्राभिज्ञाधर्मतायाः प्रज्ञापारमिता,
न समाधयः प्रज्ञापारमिता नान्यत्र समाधिभ्यः प्रज्ञापारमिता, न समाधितथता प्रज्ञापारमिता नान्यत्र समाधितथतायाः प्रज्ञापारमिता, न समाधिधर्मता प्रज्ञापारमिता नान्यत्र समाधिधर्मतायाः प्रज्ञापारमिता,
न धारणीमुखानि प्रज्ञापारमिता नान्यत्र धारणीमुखेभ्यः प्रज्ञापारमिता, न धारणीमुखतथता प्रज्ञापारमिता नान्यत्र धारणीमुखतथतायाः प्रज्ञापारमिता, न धारणीमुखधर्मता प्रज्ञापारमिता नान्यत्र धारणीमुखधर्मतायाः प्रज्ञापारमिता,
न तथागतबलानि प्रज्ञापारमिता नान्यत्र तथागतबलेभ्यः प्रज्ञापारमिता, न तथागतबलतथता प्रज्ञापारमिता नान्यत्र तथागतबलतथतायाः प्रज्ञापारमिता, न तथागतबलधर्मता प्रज्ञापारमिता नान्यत्र तथागतबलधर्मतायाः प्रज्ञापारमिता,
न वैशारद्यानि प्रज्ञापारमिता नान्यत्र वैशारद्येभ्यः प्रज्ञापारमिता, न वैशारद्यतथता प्रज्ञापारमिता नान्यत्र वैशारद्यतथतायाः प्रज्ञापारमिता, न वैशारद्यधर्मता प्रज्ञापारमिता नान्यत्र वैशारद्यधर्मतायाः प्रज्ञापारमिता,
न प्रतिसंविदः प्रज्ञापारमिता नान्यत्र प्रतिसंविद्भ्यः प्रज्ञापारमिता, न प्रतिसंवित्तथता प्रज्ञापारमिता नान्यत्र प्रतिसंवित्तथतायाः प्रज्ञापारमिता, न प्रतिसंविद्धर्मता प्रज्ञापारमिता नान्यत्र प्रतिसंविद्धर्मतायाः प्रज्ञापारमिता,
न महामैत्री प्रज्ञापारमिता नान्यत्र महामैत्र्याः प्रज्ञापारमिता, न महामैत्रीतथता प्रज्ञापारमिता नान्यत्र महामैत्रीतथतायाः प्रज्ञापारमिता, न महामैत्रीधर्मता प्रज्ञापारमिता नान्यत्र महामैत्रीधर्मतायाः प्रज्ञापारमिता,
न महाकरुणा प्रज्ञापारमिता नान्यत्र महाकरुणायाः प्रज्ञापारमिता, न महाकरुणातथता प्रज्ञापारमिता नान्यत्र महाकरुणातथतायाः प्रज्ञापारमिता, न महाकरुणाधर्मता प्रज्ञापारमिता नान्यत्र महाकरुणाधर्मतायाः प्रज्ञापारमिता,
नावेणिकबुद्धधर्माः प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मेभ्यः प्रज्ञापारमिता, नावेणिकबुद्धधर्मतथता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मतथतायाः प्रज्ञापारमिता, नावेणिकबुद्धधर्मधर्मता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मधर्मतायाः प्रज्ञापारमिता,
न सर्वज्ञता प्रज्ञापारमिता नान्यत्र सर्वज्ञतायाः प्रज्ञापारमिता, न सर्वज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वज्ञतातथतायाः प्रज्ञापारमिता, न सर्वज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वज्ञताधर्मतायाः प्रज्ञापारमिता,
न मार्गाकारज्ञता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतायाः प्रज्ञापारमिता, न मार्गाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतातथतायाः प्रज्ञापारमिता, न मार्गाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञताधर्मतायाः प्रज्ञापारमिता,
न सर्वाकारज्ञता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतायाः प्रज्ञापारमिता, न सर्वाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतातथतायः प्रज्ञापारमिता, न सर्वाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञताधर्मतायाः प्रज्ञापारमिता.
अथ खलु शक्रो देवानाम् इन्द्रः स्थविरं सुभूतिम् एतद् अवोचत्: महापारमितेयं भदन्त सुभूते बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अप्रमाणपारमितेयं भदन्त सुभूते बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अनन्तपारमितेयं भदन्त ( श्स्प्_इइ-3_178 ) सुभूते बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, यत्र शिक्षमाणैः, स्रोतआपन्नैः स्रोतआपत्तिफलं प्राप्तं प्राप्यते प्राप्स्यते च, सकृदागामिभिः सकृदागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अनागामिभिर् अनागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अर्हद्भिर् अर्हत्त्वं प्राप्तं प्राप्यते प्राप्स्यते च, प्रत्येकबुद्धैः प्रत्येकबोधिर् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च, यत्र शिक्षमाणो बोधिसत्त्वैर् महासत्त्वैः सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिसोध्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यते च.
सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्, महापारमितेयं कौशिक बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अप्रमाणपारमितेयं कौशिक बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अनन्तपारमितेयं कौशिक बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, यत्र शिक्षमाणैः स्रोतआपन्नैः स्रोतआपत्तिफलं प्राप्तं प्राप्यते प्राप्स्यते च, सकृदागामिभिः सकृदागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अनागामिभिर् अनागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अर्हद्भिर् अर्हत्त्वं प्राप्तं प्राप्यते प्राप्स्यते च, प्रत्येकबुद्धैः प्रत्येकबोधिर् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च, यत्र शिक्षमाणैर् बोधिसत्त्वैर् महासत्त्वैः सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिसोध्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यते च.

रूपमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, संज्ञामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संज्ञाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, संस्कारमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य ( श्स्प्_इइ-3_179 ) न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.

चक्षुर्महद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुषो न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, श्रोत्रमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, घ्राणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जिह्वामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, कायमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, मनोमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनसो न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
रूपमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, शब्दमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शब्दस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, गन्धमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक गन्धस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, रसमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रसस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, स्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, धर्ममहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धर्माणां न पूर्वान्त उपलभ्यते, ( श्स्प्_इइ-3_180 ) नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
चक्षुर्विज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुर्विज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, श्रोत्रविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, घ्राणविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जिह्वाविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वाविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, कायविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, मनोविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनोविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
चक्षुःसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, श्रोत्रसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, घ्राणसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जिह्वासंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, कायसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त ( श्स्प्_इइ-3_181 ) उपलभ्यते न मध्यम् उपलभ्यते, मनःसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.

चक्षुःसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, श्रोत्रसर्न्स्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, घ्राणसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जिह्वासंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, कायसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, मनःसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
पृथिवीधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक पृथिवीधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अब्धातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाब्धातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, तेजोधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तेजोधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वायुधातुमहद्गततया कौशिक महापारमितेयं ( श्स्प्_इइ-3_182 ) बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वायुधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आकाशधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाकाशधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विज्ञानधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
अविद्यामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकविद्याया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, संस्कारमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, नामरूपमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक नामरूपस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, षडायतनमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक षडायतनस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, स्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, तृष्णामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तृष्णाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, उपादानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकोपादानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, भवमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. ( श्स्प्_इइ-3_183 ) तत् कस्य हेतोः? तथा हि कौशिक भ्वस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जातिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जातेर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जरामरणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जरामरणस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.

दानपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक दानपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, शीलपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शीलपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, क्षान्तिपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक क्षान्तिपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वीर्यपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वीर्यपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, ध्यानपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, प्रज्ञापारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
अध्यात्मशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, बहिर्धाशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बहिर्धाशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अध्यात्मबहिर्धाशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मबहिर्धाशून्यताया ( श्स्प्_इइ-3_184 ) न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, शून्यताशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यताशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, महाशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, परमार्थशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक परमार्थशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, संस्कृतशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्कृतशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, असंस्कृतशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकासंस्कृतशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अत्यन्तशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकात्यन्तशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनवराग्रशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवराग्रशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनवकारशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवकारशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, प्रकृतिशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रकृतिशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, सर्वधर्मशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वधर्मशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, स्वलक्षणशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वलक्षणशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते ( श्स्प्_इइ-3_185 ) न मध्यम् उपलभ्यते, अनुपलम्भशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपलम्भशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभावशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, स्वभावशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वभावशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभावस्वभावशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावस्वभावशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.

स्मृत्युपस्थानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्मृत्युपस्थानानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, सम्यक्प्रहाणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सम्यक्प्रहाणानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, ऋद्धिपादमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकर्द्धिपादानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, इन्द्रियमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकेन्द्रियाणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, बलमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बलानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, बोध्यङ्गमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बोध्यङ्गानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आर्याष्टाङ्गमार्गमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्याष्टाङ्गमार्गस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आर्यसत्यमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां ( श्स्प्_इइ-3_186 ) महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्यसत्यानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, ध्यानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अप्रमाणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाप्रमाणानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आरूप्यसमापत्तिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकारूप्यसमापत्तीनां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विमोक्षमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विमोक्षाणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनुपूर्वविहारसमापत्तिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपूर्वविहारसमापत्तीनां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभिज्ञामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभिज्ञानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, समाधिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक समाधीनां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, धारणीमुखमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धारणीमुखानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, तथागतबलमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तथागतबलानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वैशारद्यमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ( श्स्प्_इइ-3_187 ) वैशारद्यानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, प्रतिसंविद्महद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रतिसंविदां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, महामैत्रीमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानम्. तत् कस्य हेतोः? तथा हि कौशिक महामैत्र्या न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, महाकरुणामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाकरुणाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आवेणिकबुद्धधर्ममहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकावेणिकबुद्धधर्माणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, सर्वज्ञतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वज्ञताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, मार्गाकारज्ञतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मार्गाकारज्ञताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, सर्वाकारज्ञतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वाकारज्ञताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.
अनेन कौशिक पर्यायेण महापारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.

रूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक रूपस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया रूपापरिमाणता रूपापरिमाणतया प्रज्ञापारमितापरिमाणता, वेदनापरिमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वेदनापरिमाणता ( श्स्प्_इइ-3_188 ) वेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, संज्ञापरिमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संज्ञायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक संज्ञायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संज्ञापरिमाणता संज्ञापरिमाणतया प्रज्ञापारमितापरिमाणता, संस्काराप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक संस्काराणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संस्कारापरिमाणता संस्कारापरिमाणतया प्रज्ञापारमितापरिमाणता, विज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विज्ञानापरिमाणता विज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता.
चक्षुरप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुषः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुषः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुरपरिमाणता चक्षुरपरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्राप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक श्रोत्रस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रापरिमाणता श्रोत्रापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक घ्राणस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणापरिमाणता घ्राणापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जिह्वायाः ( श्स्प्_इइ-3_189 ) प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वापरिमाणता जिह्वापरिमाणतया प्रज्ञापारमितापरिमाणता, कायाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक कायस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायापरिमाणता कायापरिमाणतया प्रज्ञापारमितापरिमाणता, मनोप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनसः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मनसः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मनोपरिमाणता मनोपरिमाणतया प्रज्ञापारमितापरिमाणता,
रूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक रूपस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया रूपापरिमाणता रूपापरिमाणतया प्रज्ञापारमितापरिमाणता, शब्दाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शब्दस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक शब्दस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शब्दापरिमाणता शब्दापरिमाणतया प्रज्ञापारमितापरिमाणता, गन्धाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक गन्धस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक गन्धस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया गन्धापरिमाणता गन्धापरिमाणतया प्रज्ञापारमितापरिमाणता, रसाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रसस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक रसस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया रसापरिमाणता रसापरिमाणतया प्रज्ञापारमितापरिमाणता, स्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं ( श्स्प्_इइ-3_190 ) नोपलभ्यते, एवम् एव कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्पर्शापरिमाणता स्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, धर्माप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धर्माणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक धर्माणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया धर्मापरिमाणता धर्मापरिमाणतया प्रज्ञापारमितापरिमाणता.

चक्षुर्विज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुर्विज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुर्विज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुर्विज्ञानापरिमाणता चक्षुर्विज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्रविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक श्रोत्रविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रविज्ञानापरिमाणता श्रोत्रविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक घ्राणविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणविज्ञानापरिमाणता घ्राणविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वाविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वाविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जिह्वाविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वाविज्ञानापरिमाणता जिह्वाविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, कायविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक कायविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायविज्ञानापरिमाणता ( श्स्प्_इइ-3_191 ) कायविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, मनोविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनोविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मनोविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मनोविज्ञानापरिमाणता मनोविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता.
चक्षुःसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुःसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुःसंस्पर्शापरिमाणता चक्षुःसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्रसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक श्रोत्रसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रसंस्पर्शापरिमाणता श्रोत्रसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक घ्राणसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणसंस्पर्शापरिमाणता घ्राणसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वासंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जिह्वासंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वासंस्पर्शापरिमाणता जिह्वासंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, कायसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक कायसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायसंस्पर्शापरिमाणता कायसंस्पर्शापरिमाणतया ( श्स्प्_इइ-3_192 ) प्रज्ञापारमितापरिमाणता, मनःसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मनःसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मनःसंस्पर्शापरिमाणता मनःसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता.

चक्षुःसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणता चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्रसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रसंस्पर्शप्रत्ययवेदनापरिमाणता श्रोत्रसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणसंस्पर्शप्रत्ययवेदनापरिमाणता घ्राणसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वासंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वासंस्पर्शप्रत्ययवेदनापरिमाणता जिह्वासंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, कायसंस्पर्शप्रत्ययवेदनाप्रमाणतया ( श्स्प्_इइ-3_193 ) कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक कायसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायसंस्पर्शप्रत्ययवेदनापरिमाणता कायसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, मनःसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणता चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता.
पृथिवीधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक पृथिवीधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक पृथिवीधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया पृथिवीधात्वपरिमाणता पृथिवीधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, अब्धात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाब्धातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाब्धातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अब्धात्वपरिमाणता अब्धात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, तेजोधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तेजोधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक तेजोधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया तेजोधात्वपरिमाणता तेजोधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, वायुधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वायुधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वायुधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वायुधात्वपरिमाणता वायुधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, आकाशधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं ( श्स्प्_इइ-3_194 ) बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक आकाशधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाकाशधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आकाशधात्वपरिमाणता आकाशधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, विज्ञानधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक विज्ञानधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विज्ञानधात्वपरिमाणता विज्ञानधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता.
अविद्याप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाविद्यायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाविद्यायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अविद्यापरिमाणता अविद्यापरिमाणतया प्रज्ञापारमितापरिमाणता,
संस्काराप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक संस्काराणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संस्कारापरिमाणता संस्कारापरिमाणतया प्रज्ञापारमितापरिमाणता,
विज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विज्ञानापरिमाणता विज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता,

नामरूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानम्. तत् कस्य हेतोः? तथा हि कौशिक नामरूपस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक नामरूपस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया नामरूपापरिमाणता नामरूपापरिमाणतया प्रज्ञापारमितापरिमाणता,
षडायतनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक षडायतनस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक षडायतनस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया ( श्स्प्_इइ-3_195 ) षडायतनापरिमाणता षडायतनापरिमाणतया प्रज्ञापारमितापरिमाणता,
स्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्पर्शापरिमाणता स्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता,
वेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वेदनापरिमाणता वेदनापरिमाणतया प्रज्ञापारमितापरिमाणता,
तृष्णाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तृष्णायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक तृष्णायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया तृष्णापरिमाणता तृष्णापरिमाणतया प्रज्ञापारमितापरिमाणता,
उपादानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकोपादानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकोपादानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया उपादानापरिमाणता उपादानापरिमाणतया प्रज्ञापारमितापरिमाणता,
भवाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक भवस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक भवस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया भवापरिमाणता भवापरिमाणतया प्रज्ञापारमितापरिमाणता,
जात्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जातेः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जातेः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जात्यपरिमाणता जात्यपरिमाणतया प्रज्ञापारमितापरिमाणता,
जरामरणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोह्? तथा हि कौशिक जरामरनस्य प्रमाणं ( श्स्प्_इइ-3_196 ) नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जरामरणस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जरामरणापरिमाणता जरामरणापरिमाणतया प्रज्ञापारमितापरिमाणता.
दानपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक दानपारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक दानपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया दानपारमितापरिमाणता दानपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता,
शीलपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शीलपारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक शीलपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शीलपारमितापरिमाणता शीलपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता,
क्षान्तिपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक क्षान्तिपारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक क्षान्तिपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया क्षान्तिपारमितापरिमाणता क्षान्तिपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता,
वीर्यपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वीर्यपारमितायः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वीर्यपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वीर्यपारमितापरिमाणता वीर्यपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता,
ध्यानपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानपारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक ध्यानपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया ध्यानपारमितापरिमाणता ध्यानपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता,
प्रज्ञापारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक प्रज्ञापारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया प्रज्ञापारमितापरिमाणता प्रज्ञापारमितापरिमाणतया प्रज्ञापारमितापरिमाणता.
अध्यात्मशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाध्यात्मशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अध्यात्मशून्यतापरिमाणता अध्यात्मशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
बहिर्धाशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक बहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया बहिर्धाशून्यतापरिमाणता बहिर्धाशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

अध्यात्मबहिर्धाशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मबहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाध्यात्मबहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अध्यात्मबहिर्धाशून्यतापरिमाणता अध्यात्मबहिर्धाशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
शून्यताशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यताशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक शून्यताशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शून्यताशून्यतापरिमाणता शून्यताशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

महाशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं ( श्स्प्_इइ-3_198 ) नोपलभ्यते, एवम् एव कौशिक महाशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया महाशून्यतापरिमाणता महाशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
परमार्थशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक परमार्थशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक परमार्थशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया परमार्थशून्यतापरिमाणता परमार्थशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
संस्कृतशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक संस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संस्कृतशून्यतापरिमाणता संस्कृतशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
असंस्कृतशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकासंस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकासंस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया असंस्कृतशून्यतापरिमाणता असंस्कृतशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
अत्यन्तशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकात्यन्तशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकात्यन्तशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमणतया अत्यन्तशून्यतापरिमाणता अत्यन्तशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
अनवराग्रशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवराग्रशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकानवराग्रशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनवराग्रशून्यतापरिमाणता अनवराग्रशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
अनवकारशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवकारशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकानवकारशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनवकारशून्यतापरिमाणता अनवकारशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
प्रकृतिशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रकृतिशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक प्रकृतिशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया प्रकृतिशून्यतापरिमाणता प्रकृतिशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
सर्वधर्मशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वधर्मशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सर्वधर्मशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सर्वधर्मशून्यतापरिमाणता सर्वधर्मशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
स्वलक्षणशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वलक्षणशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक स्वलक्षणशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्वलक्षणशून्यतापरिमाणता स्वलक्षणशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
अनुपलम्भशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपलम्भशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकानुपलम्भशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनुपलम्भशून्यतापरिमाणता अनुपलम्भशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
अभावशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाअभावशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाभावशून्यतायाः प्रमाणं नोपलभ्यते, ( श्स्प्_इइ-3_200 ) आकाशापरिमाणतया अभावशून्यतापरिमाणता अभावशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
स्वभावशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वभावशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक स्वभावशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्वभावशून्यतापरिमाणता स्वभावशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,
अभावस्वभावशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावस्वभावशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाभावस्वभावशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अभावस्वभावशून्यतापरिमाणता अध्यात्मशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता.
स्मृत्युपस्थानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्मृत्युपस्थानानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक स्मृत्युपस्थानानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्मृत्युपस्थानापरिमाणता स्मृत्युपस्थानापरिमाणतया प्रज्ञापारमितापरिमाणता,
सम्यक्प्रहाणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सम्यक्प्रहाणानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सम्यक्प्रहाणानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सम्यक्प्रहाणापरिमाणता सम्यक्प्रहाणापरिमाणतया प्रज्ञापारमितापरिमाणता,

ऋद्धिपादाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ऋद्धिपादां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक ऋद्धिपादानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया ऋद्धिपादापरिमाणता ऋद्धिपादापरिमाणतया प्रज्ञापारमितापरिमाणता,
इन्द्रियाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां ( श्स्प्_इइ-3_201 ) महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकेन्द्रियाणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकेन्द्रियाणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया इन्द्रियापरिमाणता इन्द्रियापरिमाणतया प्रज्ञापारमितापरिमाणता,
बलाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बलानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक बलानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया बलापरिमाणता बलापरिमाणतया प्रज्ञापारमितापरिमाणता,
बोध्यङ्गाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बोध्यङ्गानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक बोध्यङ्गानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया बोध्यङ्गापरिमाणता बोध्यङ्गापरिमाणतया प्रज्ञापारमितापरिमाणता,
आर्याष्टाङ्गमार्गाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्याष्टाङ्गमार्गस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकार्याष्टाङ्गस्य मार्गस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आर्याष्टाङ्गमार्गापरिमाणता आर्याष्टाङ्गमार्गापरिमाणतया प्रज्ञापारमितापरिमाणता,
आर्यसत्याप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्यसत्यानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकार्यसत्यानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आर्यसत्यापरिमाणता आर्यसत्यापरिमाणतया प्रज्ञापारमितापरिमाणता,
ध्यानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक ध्यानानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया ध्यानापरिमाणता ध्यानापरिमाणतया प्रज्ञापारमितापरिमाणता,
अप्रमाणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाप्रमाणानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, ( श्स्प्_इइ-3_202 ) एवम् एव कौशिकाप्रमाणानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अप्रमाणापरिमाणता अप्रमाणापरिमाणतया प्रज्ञापारमितापरिमाणता,
आरूप्यसमापत्त्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकारूप्यसमापत्तीनां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकारूप्यसमापत्तीनां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आरूप्यसमापत्त्यापरिमाणता आरूप्यसमापत्त्यपरिमाणतया प्रज्ञापारमितापरिमाणता,
अष्टविमोक्षाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाष्टविमोक्षाणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाष्टविमोक्षाणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विमोक्षापरिमाणता विमोक्षापरिमाणतया प्रज्ञापारमितापरिमाणता,
अनुपूर्वविहारसमापत्त्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपूर्वविहारसमापत्तीनां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकानुपूर्वविहारसमापत्तीनां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनुपूर्वविहारसमापत्त्यापरिमाणता अनुपूर्वविहारसमापत्त्यपरिमाणतया प्रज्ञापारमितापरिमाणता,
शून्यतानिमित्ताप्रणिहितविमोक्षमुखाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शून्यतानिमित्ताप्रणिहितविमोक्षमुखापरिमाणता शून्यतानिमित्ताप्रणिहितविमोक्षमुखापरिमाणतया प्रज्ञापारमितापरिमाणता,
अभिज्ञाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभिज्ञानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाभिज्ञानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अभिज्ञापरिमाणता अभिज्ञापरिमाणतया प्रज्ञापारमितापरिमाणता,
समाध्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक समाधीनां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक समाधीनां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया समाध्यपरिमाणता समाध्यापरिमाणतया प्रज्ञापारमितापरिमाणता,
धारणीमुखाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धारणीमुखानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक धारणीमुखानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया धारणीमुखापरिमाणता धारणीमुखापरिमाणतया प्रज्ञापारमितापरिमाणता,
तथागतबलाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तथागतबलानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक तथागतबलानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया तथागतबलापरिमाणता तथागतबलापरिमाणतया प्रज्ञापारमितापरिमाणता,

वैशारद्याप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वैशारद्यानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वैशारद्यानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वैशारद्यापरिमाणता वैशारद्यापरिमाणतया प्रज्ञापारमितापरिमाणता,
प्रतिसंविदप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रतिसंविदां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक प्रतिसंविदां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया प्रतिसंविदपरिमाणता प्रतिसंविदपरिमाणतया प्रज्ञापारमितापरिमाणता,
महामैत्र्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महामैत्र्याः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक महामैत्र्याः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया महामैत्र्यपरिमाणता महामैत्र्यपरिमाणतया ( श्स्प्_इइ-3_204 ) प्रज्ञापारमितापरिमाणता,
महाकरुणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाकरुणायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक महाकरुणायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया महाकरुणापरिमाणता महाकरुणापरिमाणतया प्रज्ञापारमितापरिमाणता,
मुदिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मुदितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मुदितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मुदितापरिमाणता मुदितापरिमाणतया प्रज्ञापारमितापरिमाणता,
उपेक्षाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक उपेक्षायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक उपेक्षायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया उपेक्षापरिमाणता उपेक्षापरिमाणतया प्रज्ञापारमितापरिमाणता,
आवेणिकबुद्धधर्माप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकावेणिकबुद्धधर्माणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकावेणिकबुद्धधर्माणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आवेणिकबुद्धधर्मापरिमाणता आवेणिकबुद्धधर्मापरिमाणतया प्रज्ञापारमितापरिमाणता,
सर्वज्ञताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वज्ञतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सर्वज्ञतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सर्वज्ञतापरिमाणता सर्वज्ञतापरिमाणतया प्रज्ञापारमितापरिमाणता,

मार्गाकारज्ञताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मार्गाकारज्ञतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मार्गाकारज्ञतायाः प्रमाणं ( श्स्प्_इइ-3_205 ) नोपलभ्यते, आकाशापरिमाणतया मार्गाकारज्ञतापरिमाणता मार्गाकारज्ञतापरिमाणतया प्रज्ञापारमितापरिमाणता,
सर्वाकारज्ञताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्, तत् कस्य हेतोः? तथा हि कौशिक सर्वाकारज्ञतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सर्वाकारज्ञतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सर्वाकारज्ञतापरिमाणता सर्वाकारज्ञतापरिमाणतया प्रज्ञापारमितापरिमाणता.
अनेन कौशिक पर्यायेणापरिमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
रूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य नान्तो न मध्यम् उपलभ्यते, वेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनाया नान्तो न मध्यम् उपलभ्यते, संज्ञापरिमाणतया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संज्ञाया नान्तो न मध्यम् उपलभ्यते, संस्कारानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां नान्तो न मध्यम् उपलभ्यते, विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य नान्तो न मध्यम् उपलभ्यते.
चक्षुरनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुषो नान्तो न मध्यम् उपलभ्यते, श्रोत्रानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रस्य नान्तो न मध्यम् उपलभ्यते, घ्राणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य नान्तो न मध्यम् उपलभ्यते, जिह्वानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य नान्तो न मध्यम् उपलभ्यते, कायानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायस्य नान्तो न मध्यम् उपलभ्यते, मनोऽनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनसः ( श्स्प्_इइ-3_206 ) नान्तो न मध्यम् उपलभ्यते.
रूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य नान्तो न मध्यम् उपलभ्यते, शब्दानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शब्दस्य नान्तो न मध्यम् उपलभ्यते, गन्धानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक गन्धस्य नान्तो न मध्यम् उपलभ्यते, रसानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रसस्य नान्तो न मध्यम् उपलभ्यते, स्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य नान्तो न मध्यम् उपलभ्यते, धर्मानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धर्माणां नान्तो न मध्यम् उपलभ्यते.
चक्षुर्विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुर्विज्ञानस्य नान्तो न मध्यम् उपलभ्यते, श्रोत्रविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रविज्ञानस्य नान्तो न मध्यम् उपलभ्यते, घ्राणविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणविज्ञानस्य नान्तो न मध्यम् उपलभ्यते, जिह्वाविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वाविज्ञानस्य नान्तो न मध्यम् उपलभ्यते, कायविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायविज्ञानस्य नान्तो न मध्यम् उपलभ्यते, मनोविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनोविज्ञानस्य नान्तो न मध्यम् उपलभ्यते.
चक्षुःसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, श्रोत्रसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, घ्राणसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. ( श्स्प्_इइ-3_207 ) तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, जिह्वासंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, कायसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, मनःसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते.

चक्षुःसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, श्रोत्रसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, घ्राणसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, जिह्वासंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, कायसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, मनःसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते.
पृथिवीधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक पृथिवीधातोर् नान्तं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य नान्तो न मध्यम् उपलभ्यते, अब्धात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाब्धातोर् नान्तं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य नान्तो न मध्यम् उपलभ्यते, तेजोधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तेजोधातोर् नान्तो न मध्यम् ( श्स्प्_इइ-3_208 ) उपलभ्यते, वायुधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वायुधातोर् नान्तो न मध्यम् उपलभ्यते, आकाशधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक आकाशधातोर् नान्तो न मध्यम् उपलभ्यते, विज्ञानधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानधातोर् नान्तो न मध्यम् उपलभ्यते.
अविद्यानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाविद्याया नान्तो न मध्यम् उपलभ्यते, संस्कारानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां नान्तो न मध्यम् उपलभ्यते, विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य नान्तो न मध्यम् उपलभ्यते, नामरूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक नामरूपस्य नान्तो न मध्यम् उपलभ्यते, षडायतनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक षडायतनस्य नान्तो न मध्यम् उपलभ्यते, स्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य नान्तो न मध्यम् उपलभ्यते, वेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनाया नान्तो न मध्यम् उपलभ्यते, तृष्णानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तृष्णाया नान्तो न मध्यम् उपलभ्यते, उपादानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकोपादानस्य नान्तो न मध्यम् उपलभ्यते, भवानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक भवस्य नान्तो न मध्यम् उपलभ्यते, जात्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जातेर् नान्तो न मध्यम् उपलभ्यते, जरामरणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जरामरणस्य नान्तो न मध्यम् उपलभ्यते.
दानपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां ( श्स्प्_इइ-3_209 ) महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक दानपारमिताया नान्तो न मध्यम् उपलभ्यते, शीलपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शीलपारमिताया नान्तो न मध्यम् उपलभ्यते, क्षान्तिपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक क्षान्तिपारमिताया नान्तो न मध्यम् उपलभ्यते, वीर्यपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विर्यपारमिताया नान्तो न मध्यम् उपलभ्यते, ध्यानपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानपारमिताया नान्तो न मध्यम् उपलभ्यते, प्रज्ञापारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमिताया नान्तो न मध्यम् उपलभ्यते.

अध्यात्मशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मशून्यताया नान्तो न मध्यम् उपलभ्यते, बहिर्धाशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बहिर्धाशून्यताया नान्तो न मध्यम् उपलभ्यते, अध्यात्मबहिर्धाशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मबहिर्धाशून्यताया नान्तो न मध्यम् उपलभ्यते, शून्यताशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यताशून्यताया नान्तो न मध्यम् उपलभ्यते, महाशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाशून्यताया नान्तो न मध्यम् उपलभ्यते, परमार्थशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक परमार्थशून्यताया नान्तो न मध्यम् उपलभ्यते, संस्कृतशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्कृतशून्यताया नान्तो न मध्यम् उपलभ्यते, असंस्कृतशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकासंस्कृतशून्यताया नान्तो न मध्यम् उपलभ्यते, अत्यन्तशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकात्यन्तशून्यताया ( श्स्प्_इइ-3_210 ) नान्तो न मध्यम् उपलभ्यते, अनवराग्रशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवराग्रशून्यताया नान्तो न मध्यम् उपलभ्यते, अनवकारशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवकारशून्यताया नान्तो न मध्यम् उपलभ्यते, प्रकृतिशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रकृतिशून्यताया नान्तो न मध्यम् उपलभ्यते, सर्वधर्मशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वधर्मशून्यताया नान्तो न मध्यम् उपलभ्यते, स्वलक्षणशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वलक्षणशून्यताया नान्तो न मध्यम् उपलभ्यते, अनुपलम्भशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपलम्भशून्यताया नान्तो न मध्यम् उपलभ्यते, अभावशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावशून्यताया नान्तो न मध्यम् उपलभ्यते, स्वभावशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वभावशून्यताया नान्तो न मध्यम् उपलभ्यते, अभावस्वभावशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वनां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावस्वभावशून्यताया नान्तो न मध्यम् उपलभ्यते.

स्मृत्युपस्थानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्मृत्युपस्थानानां नान्तो न मध्यम् उपलभ्यते, सम्यक्प्रहाणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सम्यक्प्रहाणानां नान्तो न मध्यम् उपलभ्यते, ऋद्धिपादानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ऋद्धिपादां नान्तो न मध्यम् उपलभ्यते, इन्द्रियानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकेन्द्रियाणां नान्तो न मध्यम् उपलभ्यते, बलानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानानि महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बलानां नान्तो न ( श्स्प्_इइ-3_211 ) मध्यम् उपलभ्यते, बोध्यङ्गानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बोध्यङ्गानां नान्तो न मध्यम् उपलभ्यते, आर्याष्टाङ्गमार्गानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्याष्टाङ्गमार्गस्य नान्तो न मध्यम् उपलभ्यते, आर्यसत्यानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्यसत्यानां नान्तो न मध्यम् उपलभ्यते, ध्यानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानानां नान्तो न मध्यम् उपलभ्यते, अप्रमाणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाप्रमाणानां नान्तो न मध्यम् उपलभ्यते, आरूप्यसमापत्त्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकारूप्यसमापत्तीनां नान्तो न मध्यम् उपलभ्यते, अष्टविमोक्षानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाष्टविमोक्षाणां नान्तो न मध्यम् उपलभ्यते, अनुपूर्वविहारसमापत्त्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपूर्वविहारसमापत्तीनां नान्तो न मध्यम् उपलभ्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानन्ततया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां नान्तो न मध्यम् उपलभ्यते, अभिज्ञानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभिज्ञानां नान्तं नोपलभ्यते, तद् यथापि नम कौशिकाकाशस्य नान्तो न मध्यम् उपलभ्यते, समाध्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक समाधीनां नान्तो न मध्यम् उपलभ्यते, धारणीमुखानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धारणीमुखानां नान्तो न मध्यम् उपलभ्यते, तथागतबलानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तथागतबलानां नान्तो न मध्यम् उपलभ्यते, वैशारद्यानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वैशारद्यानां नान्तो न मध्यम् उपलभ्यते, प्रतिसंविदनन्ततया ( श्स्प्_इइ-3_212 ) कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रतिसंविदां नान्तो न मध्यम् उपलभ्यते, महामैत्र्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महामैत्र्याः नान्तो न मध्यम् उपलभ्यते, महाकरुणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाकरुणाया नान्तो न मध्यम् उपलभ्यते, आवेणिकबुद्धधर्मानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकावेणिकबुद्धधर्माणां नान्तो न मध्यम् उपलभ्यते, सर्वज्ञतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वज्ञताया नान्तो न मध्यम् उपलभ्यते, मार्गाकारज्ञतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मार्गाकारज्ञताया नान्तो न मध्यम् उपलभ्यते, सर्वाकारज्ञतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वाकारज्ञताया नान्तो न मध्यम् उपलभ्यते.
अनेन कौशिक पर्यायेणानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
रूपानन्तताम् उपादाय, वेदनानन्तताम् उपादाय, संज्ञानन्तताम् उपादाय, संस्कारानन्तताम् उपादाय, विज्ञानानन्तताम् उपादाय.
चक्षुरनन्तताम् उपादाय, श्रोत्रानन्तताम् उपादाय, घ्राणानन्तताम् उपादाय, जिह्वानन्तताम् उपादाय, कायानन्तताम् उपादाय, मनोनन्तताम् उपादाय.
रूपानन्तताम् उपादाय, शब्दानन्तताम् उपादाय, गन्धानन्तताम् उपादाय, रसानन्तताम् उपादाय, स्पर्शानन्तताम् उपादाय, धर्मानन्तताम् उपादाय.
चक्षुर्विज्ञानानन्तताम् उपादाय, श्रोत्रविज्ञानानन्तताम् उपादाय, घ्राणविज्ञानानन्तताम् उपादाय, जिह्वाविज्ञानानन्तताम् उपादाय, कायविज्ञानानन्तताम् उपादाय, मनोविज्ञानानन्तताम् उपादाय.
चक्षुःसंस्पर्शानन्तताम् उपादाय, श्रोत्रसंस्पर्शानन्तताम् उपादाय, घ्राणसंस्पर्शानन्तताम् उपादाय, जिह्वासंस्पर्शानन्तताम् उपादाय, कायसंस्पर्शानन्तताम् उपादाय, मनःसंस्पर्शानन्तताम् उपादाय.
चक्षुःसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, श्रोत्रसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, घ्राणसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, जिह्वासंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, कायसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, मनःसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय.
पृथिवीधात्वनन्तताम् उपादाय, अब्धात्वनन्तताम् उपादाय, तेजोधात्वनन्तताम् उपादाय, वायुधात्वनन्तताम् उपादाय, आकाशधात्वनन्तताम् उपादाय, विज्ञानधात्वनन्तताम् उपादाय, अविद्यानन्तताम् उपादाय, संस्कारानन्तताम् उपादाय, विज्ञानानन्तताम् उपादाय, नामरूपानन्तताम् उपादाय, षडायतनानन्तताम् उपादाय, स्पर्शानन्तताम् उपादाय, वेदनानन्तताम् उपादाय, तृष्णानन्तताम् उपादाय, उपादानानन्तताम् उपादाय, भवानन्तताम् उपादाय, जात्यनन्तताम् उपादाय, जरामरणानन्तताम् उपादाय.
दानपारमितानन्तताम् उपादाय, शीलपारमितानन्तताम् उपादाय, क्षान्तिपारमितानन्तताम् उपादाय, वीर्यपारमितानन्तताम् उपादाय, ध्यानपारमितानन्तताम् उपादाय, प्रज्ञापारमितानन्तताम् उपादाय.

अध्यात्मशून्यतानन्तताम् उपादाय, बहिर्धाशून्यतानन्तताम् उपादाय, अध्यात्मबहिर्धाशून्यतानन्तताम् उपादाय, शून्यताशून्यतानन्तताम् उपादाय, महाशून्यतानन्तताम् उपादाय, परमार्थशून्यतानन्तताम् उपादाय, संस्कृतशून्यतानन्तताम् उपादाय, असंस्कृतशून्यतानन्तताम् उपादाय, अत्यन्तशून्यतानन्तताम् उपादाय, अनवराग्रशून्यतानन्तताम् उपादाय, अनवकारशून्यतानन्तताम् उपादाय, प्रकृतिशून्यतानन्तताम् उपादाय, सर्वधर्मशून्यतानन्तताम् उपादाय, स्वलक्षणशून्यतानन्तताम् उपादाय, अनुपलम्भशून्यतानन्तताम् उपादाय, अभावशून्यतानन्तताम् उपादाय, स्वभावशून्यतानन्तताम् उपादाय, अभावस्वभावशून्यतानन्तताम् उपादाय.
स्मृत्युपस्थानानन्तताम् उपादाय, सम्यक्प्रहाणानन्तताम् उपादाय, ऋद्धिपादानन्तताम् उपादाय, इन्द्रियानन्तताम् उपादाय, बलानन्तताम् उपादाय, बोध्यङ्गानन्तताम् उपादाय, आर्याष्टाङ्गमार्गानन्तताम् उपादाय, आर्यसत्यानन्तताम् उपादाय, ध्यानानन्तताम् उपादाय, अप्रमाणानन्तताम् उपादाय, आरूप्यसमापत्त्यनन्तताम् उपादाय, अष्टौ विमोक्षानन्तताम् उपादाय, नवानुपूर्वविहारसमापत्त्यनन्तताम् उपादाय, शून्यतासमाध्यनन्तताम् उपादाय, आनिमित्तसमाध्यनन्तताम् उपादाय, अप्रणिहितसमाध्यनन्तताम् उपादाय, अभिज्ञानन्तताम् उपादाय, समाध्यनन्तताम् ( श्स्प्_इइ-3_214 ) उपादाय, धारणीमुखानन्तताम् उपादाय, दशतथागतबलानन्तताम् उपादाय, चतुर्वैशारद्यानन्तताम् उपादाय, चतुःप्रतिसंविदनन्तताम् उपादाय, महामैत्र्यनन्तताम् उपादाय, महाकरुणानन्तताम् उपादाय, अष्टादशावेणिकबुद्धधर्मानन्तताम् उपादाय, स्रोतआपत्तिफलानन्तताम् उपादाय, सकृदागामिफलानन्तताम् उपादाय, अनागामिफलानन्तताम् उपादाय, अर्हत्त्वानन्तताम् उपादाय, प्रत्येकबोध्यनन्तताम् उपादाय, मार्गाकारज्ञतानन्तताम् उपादाय, सर्वाकारज्ञतानन्तताम् उपादाय.
पुनर् अपरं कौशिकालम्बनानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
शक्र आह: यथा कथं पुनर् भदन्त सुभूते आलम्बनानन्ततयानन्ततपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
सुभूतिर् आह: सर्वाकारज्ञतालम्बनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
पुनर् अपरं कौशिक धर्मालम्बनानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
शक्र आह: यथा कथं पुनर् भदन्त सुभूते धर्मालम्बनानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
सुभूतिर् आह: धर्मधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
पुनर् अपरं कौशिक तथतालम्बनानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
शक्र आह: यथा कथं पुनर् भदन्त सुभूते तथतालम्बनानन्ततया अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
सुभूतिर् आह: कौशिक तथतालम्बनानन्ततया आलम्बनानन्तता आलम्बनानन्ततया तथतानन्तता तथतालम्बनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.
पुनर् अपरं कौशिक सत्त्वानन्ततया अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्.
शक्र आह: यथा कथं पुनर् भदनत सुभूते सत्त्वानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?
सुभूतिर् आह: तत् किं मन्यसे? कौशिक कतमस्यैतद् धर्मस्याधिवचनं ( श्स्प्_इइ-3_215 ) यद् उत सत्त्वः सत्त्व इति.
शक्र आह: नेदं भदन्त सुभूते धर्माधिवचनं नाधर्माधिवचनम् आगन्तुकम् एतन् नामधेयं प्रक्षिप्तम् अवस्तुकम् एतन् नामधेयं प्रक्षिप्तम् अनारम्बणम् एतन् नामधेयं प्रक्षिप्तं यद् उत सत्त्वः सत्त्व इति.
सुभूतिर् आह: तत् किं मन्यसे? कौशिक काचिद् इह प्रज्ञापारमितायां सत्त्वपरिदीपना कृता.
शक्र अह: नो हीदं भदन्त सुभूते.

सुभूतिर् आह: यत्र कौशिक न सत्त्वपरिदीपना कृता काचित् तत्र सत्त्वानन्तता सचेत् कौशिक तथागतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् कल्पान् तिष्ठ च सत्त्वः सत्त्व इति वाचं भाषेत, तत् किं मन्यसे? कौशिकापि नु तत्र कश्चित् सत्त्व उत्पद्यते वा निरुद्ध्यते वा.
शक्र आह: नो हीदं भदन्त सुभूते. तत् कस्य हेतोः? आदि विशुद्धत्वा सत्त्वस्य.
सुभूतिर् आह: तद् अनेन ते कौशिक पर्यायेण सत्त्वानन्तत्या प्रज्ञापारमितानन्तता वेदितव्या.
अथ सेन्द्रका देवाः सब्रह्मका देवाः सप्रज्ञापतिका देवाः सनारीनरगणास् त्रिस्कृत्वा उदानम् उदानयति स्म, अहो स्वाख्यातो धर्मः अहो स्वाख्यातो धर्मा अहो स्वाख्यातो धर्मस्य धर्मता येयं सुभूतिना स्थविरेण भाष्यते यद् उत तथागतप्रादुर्भावो य तथागतस्याधिष्ठानेन तथागतस्यानुभावेन सूच्यते देश्यते प्रकास्यते.
अपि नु तथागतम् एव वयं भगवन् बोधिसत्त्वं महासत्त्वं धारयिष्यामः. यो न या प्रज्ञापारमितया अविरहिता भविष्यति, न च नाम कश्चिद् धर्म उपलभ्यते.
रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा.
चक्षुर् वा श्रोत्रं वा घ्राणं वा जिह्वा वा कायो वा मनो वा.
रूपं वा शब्दो वा गन्धो वा रसो वा स्पर्शो वा धर्मा वा.
चक्षुर्विज्ञानं वा, श्रोत्रविज्ञानं वा, घ्राणविज्ञानं वा, जिह्वाविज्ञानं वा, कायविज्ञानं वा, मनोविज्ञानं वा.
चक्षुःसंस्पर्शो वा श्रोत्रसंस्पर्शो वा घ्राणसंस्पर्शो वा जिह्वासंस्पर्शो वा कायसंस्पर्शो वा मनःसंस्पर्शो वा. चक्षुःसंस्पर्शप्रत्ययवेदना वा श्रोत्रसंस्पर्शप्रत्ययवेदना वा घ्राणसंस्पर्शप्रत्ययवेदना वा जिह्वासंस्पर्शप्रत्ययवेदना वा कायसंस्पर्शप्रत्ययवेदना वा मनःसंस्पर्शप्रत्ययवेदना वा.
पृथिवीधातुर् वा अब्धातुर् वा तेजोधातुर् वा वायुधातुर् वा आकाशधातुर् वा विज्ञानधातुर् वा.
अविद्या वा संस्कारा वा विज्ञानं वा नामरूपं वा षडायतनं वा स्पर्शो वा वेदना वा तृष्णा वा उपादानं वा भवो वा जातिर् वा जरामरणं वा.
दानपारमिता वा शीलपारमिता वा क्षान्तिपारमिता वा वीर्यपारमिता वा ध्यानपारमिता वा प्रज्ञापारमिता वा.
अध्यात्मसून्यता वा बहिर्धाशून्यता वा अध्यात्मबहिर्धाशून्यता वा शून्यताशून्यता वा महाशून्यता वा परमार्थशून्यता वा संस्कृतशून्यता वा असंस्कृतशून्यता वा अत्यन्तशून्यता वा अनवराग्रशून्यता वा अनवकारशून्यता वा प्रकृतिशून्यता वा सर्वधर्मशून्यता वा स्वलक्षणशून्यता वा अनुपलम्भशून्यता वा अभावशून्यता वा स्वभावशून्यता वा अभावस्वभावशून्यता वा.
स्मृत्युपस्थानानि वा सम्यक्प्रहाणानि वा ऋद्धिपादा वा इन्द्रियाणि वा बलानि वा बोध्यङ्गानि वा आर्याष्टाङ्गो मार्गो वा आर्यसत्यानि वा ध्यानानि वा अप्रमाणानि वा आरूप्यसमापत्तयो वा अष्टौ विमोक्षा वा अनुपूर्वविहारसमापत्तयो वा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि वा अभिज्ञा वा समाधयो वा धारणीमुखानि वा तथागतबलानि वा वैशारद्यानि वा प्रतिसंविदो वा महामैत्री वा महाकरुणा वा आवेणिकबुद्धधर्मा वा स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिर् वा मार्गाकारज्ञता वा सर्वाकारज्ञता वा. त्रयाणां च यानानां व्यवस्थानं प्रज्ञायते. कतमेषां त्रयाणां? यद् उत श्रावकयानस्य प्रत्येकबुद्धयानस्य सम्यक्संबुद्धयानस्य.
अथ भगवांस् तान् सेन्द्रकान् देवपुत्रान् आमन्त्रयते, एवम् एतत् तथा यथा वाचं भाषध्वे न च नाम कश्चिद् धर्म उपलभ्यते.
रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा.
चक्षुर् वा श्रोत्रं वा घ्राणं वा जिह्वा वा कायो वा मनो वा.
रूपं वा शब्दो वा गन्धो वा रसो वा स्पर्शो वा धर्मा वा.
चक्षुर्विज्ञानं वा, श्रोत्रविज्ञानं वा, घ्राणविज्ञानं वा, जिह्वाविज्ञानं वा, कायविज्ञानं वा, मनोविज्ञानं वा.
चक्षुःसंस्पर्शो वा श्रोत्रसंस्पर्शो वा घ्राणसंस्पर्शो वा जिह्वासंस्पर्शो ( श्स्प्_इइ-3_217 ) वा कायसंस्पर्शो वा मनःसंस्पर्शो वा.
चक्षुःसंस्पर्शप्रत्ययवेदना वा श्रोत्रसंस्पर्शप्रत्ययवेदना वा घ्राणसंस्पर्शप्रत्ययवेदना वा जिह्वासंस्पर्शप्रत्ययवेदना वा कायसंस्पर्शप्रत्ययवेदना वा मनःसंस्पर्शप्रत्ययवेदना वा.
पृथिवीधातुर् वा अब्धातुर् वा तेजोधातुर् वा वायुधातुर् वा आकाशधातुर् वा विज्ञानधातुर् वा.
अविद्या वा संस्कारा वा विज्ञानं वा नामरूपं वा षडायतनं वा स्पर्शो वा वेदना वा तृष्णा वा उपादानं वा भवो वा जातिर् वा जरामरणं वा.
दानपारमिता वा शीलपारमिता वा क्षान्तिपारमिता वा वीर्यपारमिता वा ध्यानपारमिता वा प्रज्ञापारमिता वा.
अध्यात्मशून्यता वा बहिर्धाशून्यता वा अध्यात्मबहिर्धाशून्यता वा शून्यताशून्यता वा महाशून्यता वा परमार्थशून्यता वा संस्कृतशून्यता वा असंस्कृतशून्यता वा अत्यन्तशून्यता वा अनवराग्रशून्यता वा अनवकारशून्यता वा प्रकृतिशून्यता वा सर्वधर्मशून्यता वा स्वलक्षणशून्यता वा अनुपलम्भशून्यता वा अभावशून्यता वा स्वभावशून्यता वा अभावस्वभावशून्यता वा.
स्मृत्युपस्थानानि वा सम्यक्प्रहाणानि वा ऋद्धिपादा वा इन्द्रियाणि वा बलानि वा बोध्यङ्गानि वा आर्याष्टाङ्गो मार्गो वा आर्यसत्यानि वा ध्यानानि वा अप्रमाणानि वा आरूप्यसमापत्तयो वा अष्टौ विमोक्षा वा अनुपूर्वविहारसमापत्तयो वा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि वा अभिज्ञा वा समाधयो वा धारणीमुखानि वा तथागतबलानि वा वैशारद्यानि वा प्रतिसंविदो वा महामैत्री वा महाकरुणा वा आवेणिकबुद्धधर्मा वा स्रोतआपत्तिफलं वा सकृदगामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिर् वा मार्गाकारज्ञता वा सर्वाकारज्ञता वा.
त्रयाणां च यानानां व्यवस्थानं प्रज्ञायते. कतमेषं त्रयाणाम्? यद् उत श्रावकयानस्य प्रत्येकबुद्धयानस्य सम्यक्संबुद्धयानस्य.
तथागत एव सदेवपुत्रा बोधिसत्त्वो महासत्त्वो धारयितव्यः.
यो ऽनया प्रज्ञापारमितया अविरहितो भविष्यत्य् अनुपलम्भयोगेन. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि. कतमाणि त्रीणि? यद् उत श्रावकयानं प्रत्येकबुद्धयानं सम्यक्संबुद्धयानं,
न चान्यत्र दानपारमितयास् तथागत उपलभ्यते, न चान्यत्र शीलपारमितायास् तथागत उपलभ्यते, न चान्यत्र क्षान्तिपारमितायास् ( श्स्प्_इइ-3_218 ) तथागत उपलभ्यते, न चान्यत्र वीर्यपारमितायास् तथागत उपलभ्यते, न चान्यत्र ध्यानपारमितायास् तथागत उपलभ्यते, न चान्यत्र प्रज्ञापारमितायास् तथागत उपलभ्यते.

न चान्यत्राध्यात्मशून्यतायास् तथागत उपलभ्यते, न चान्यत्र बहिर्धाशून्यतायास् तथागत उपलभ्यते, न चान्यत्राध्यात्मबहिर्धाशून्यतायास् तथागत उपलभ्यते, न चान्यत्र शून्यताशून्यतायास् तथागत उपलभ्यते, न चान्यत्र महाशून्यतायास् तथागत उपलभ्यते, न चान्यत्र परमार्थशून्यतायास् तथागत उपलभ्यते, न चान्यत्र संस्कृतशून्यतायास् तथागत उपलभ्यते, न चान्यत्रासंस्कृतशून्यतायास् तथागत उपलभ्यते, न चान्यत्रात्यन्तशून्यतायास् तथागत उपलभ्यते, न चान्यत्रानवराग्रशून्यतायास् तथागत उपलभ्यते, न चान्यत्रानवकारशून्यतायास् तथागत उपलभ्यते, न चान्यत्र प्रकृतिशून्यतायास् तथागत उपलभ्यते, न चान्यत्र सर्वधर्मशून्यतायास् तथागत उपलभ्यते, न चान्यत्र स्वलक्षणशून्यतायास् तथागत उपलभ्यते, न चान्यत्रानुपलम्भशून्यतायास् तथागत उपलभ्यते, न चान्यत्राभावशून्यतायास् तथागत उपलभ्यते, न चान्यत्र स्वभावशून्यतायास् तथागत उपलभ्यते, न चान्यत्राभावस्वभावशून्यतायास् तथागत उपलभ्यते.
न चान्यत्र स्मृत्युपस्थानेभ्यस् तथागत उपलभ्यते, न चान्यत्र सम्यक्प्रहाणेभ्यस् तथागत उपलभ्यते, न चान्यत्र ऋद्धिपादेभ्यस् तथागत उपलभ्यते, न चान्यत्रेन्द्रियेभ्यस् तथागत उपलभ्यते, न चान्यत्र बलेभ्यस् तथागत उपलभ्यते, न चान्यत्र बोध्यङ्गेभ्यस् तथागत उपलभ्यते, न चान्यत्रार्याष्टाङ्गमार्गेभ्यस् तथागत उपलभ्यते, न चान्यत्र आर्यसत्येभ्यस् तथागत उपलभ्यते, न चान्यत्र ध्यानेभ्यस् तथागत उपलभ्यते, न चान्यत्राप्रमाणेभ्यस् तथागत उपलभ्यते, न चान्यत्रारूप्यसमापत्तिभ्यस् तथागत उपलभ्यते, न चान्यत्र विमोक्षेभ्यस् तथागत उपलभ्यते, न चान्यत्रानुपूर्वविहारसमापत्तिभ्यस् तथागत उपलभ्यते, न चान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यस् तथागत उपलभ्यते, न चान्यत्राभिज्ञाभ्यस् तथागत उपलभ्यते, न चान्यत्र समाधिभ्यस् तथागत उपलभ्यते, न चान्यत्र धारणीमुखेभ्यस् तथागत उपलभ्यते, न चान्यत्र तथागतबलेभ्यस् तथागत उपलभ्यते, न चान्यत्र वैशारद्येभ्यस् तथागत उपलभ्यते, न चान्यत्र प्रतिसंविद्भ्यस् तथागत उपलभ्यते, न चान्यत्र महामैत्र्यास् तथागत उपलभ्यते, न चान्यत्र महाकरुणायास् ( श्स्प्_इइ-3_219 ) तथागत उपलभ्यते, न चान्यत्रावेणिकबुद्धधर्मेभ्यस् तथागत उपलभ्यते, न चान्यत्र सर्वज्ञतायास् तथागत उपलभ्यते, न चान्यत्र मार्गाकारज्ञतायास् तथागत उपलभ्यते, न चान्यत्र सर्वाकारज्ञतायस् तथागत उपलभ्यते.
बोधिसत्त्वाश् च देवपुत्रा महासत्त्वाः सर्वत्रात्र धर्मेषु शिक्षते, दानपारमितायां शिक्षते, शीलपारमितायां शिक्षते, क्षान्तिपारमितायां शिक्षते, वीर्यपारमितायां शिक्षते, ध्यानपारमितायां शिक्षते, प्रज्ञापारमितायां शिक्षते.
अध्यात्मशून्यतायां शिक्षते, बहिर्धाशून्यतायां शिक्षते, अध्यात्मबहिर्धाशून्यतायां शिक्षते, शून्यताशून्यतायां शिक्षते, महाशून्यतायां शिक्षते, परमार्थशून्यतायां शिक्षते, संस्कृतशून्यतायां शिक्षते, असंस्कृतशून्यतायां शिक्षते, अत्यन्तशून्यतायां शिक्षते, अनवराग्रशून्यतायां शिक्षते, अनवकारशून्यतायां शिक्षते, प्रकृतिशून्यतायां शिक्षते, सर्वधर्मशून्यतायां शिक्षते, स्वलक्षणशून्यतायां शिक्षते, अनुपलम्भशून्यतायां शिक्षते, अभावशून्यतायां शिक्षते, स्वभावशून्यतायां शिक्षते, अभावस्वभावशून्यतायां शिक्षते.
स्मृत्युपस्थानेषु शिक्षते, सम्यक्प्रहाणेषु शिक्षते, ऋद्धिपादेषु शिक्षते, इन्द्रियेषु शिक्षते, बलेषु शिक्षते, बोध्यङ्गेषु शिक्षते, आर्याष्टाङ्गमार्गे शिक्षते, आर्यसत्येषु शिक्षते, ध्यानेषु शिक्षते, अप्रमाणेषु शिक्षते, आरूप्यसमापत्तिषु शिक्षते, अष्टौ विमोक्षेषु शिक्षते, नवानुपूर्वविहारसमापत्तिषु शिक्षते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षते, अभिज्ञासु शिक्षते, समाधिषु शिक्षते, धारणीमुखेषु शिक्षते, तथागतबलेषु शिक्षते, वैशारद्येषु शिक्षते, प्रतिसंवित्सु शिक्षते, महामैत्र्यां शिक्षते, महाकरुणायां शिक्षते, आवेणिकबुद्धधर्मेषु शिक्षते, स्रोतआपत्तिफले शिक्षते, सकृदागामिफले शिक्षते, अनागामिफले शिक्षते, अर्हत्त्वे शिक्षते, प्रत्येकबोधौ शिक्षते, मार्गाकारज्ञतायां शिक्षते, सर्वाकारज्ञतायां शिक्षते.
तस्मात् तर्हि देवपुत्रास् तथागत एव बोधिसत्त्वो महासत्त्वो वक्तव्यः, यो ऽनया प्रज्ञापारमितया अविरहितश् च भविष्यति.
यदाहं देवपुत्रा दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यानिके पद्मावत्यां राजधान्याम् अन्तरापणमध्यगतो दानपारमितया अविरहितो ऽभूवन्, शीलपारमितया अविरहितो ऽभूवन्, क्षान्तिपारमितया अविरहितो ऽभूवन्, वीर्यपारमितया अविरहितो ऽभूवन्, ( श्स्प्_इइ-3_220 ) ध्यानपारमितया अविरहितो ऽभूवन्, प्रज्ञापारमितया अविरहितो ऽभूवन्.
अध्यात्मशून्यतया अविरहितो ऽभूवन्, बहिर्धाशून्यतया अविरहितो ऽभूवन्, अध्यात्मबहिर्धाशून्यतया अविरहितो ऽभूवन्, शून्यताशून्यतया अविरहितो ऽभूवन्, महाशून्यतया अविरहितो ऽभूवन्, परमार्थशून्यतया अविरहितो ऽभूवन्, संस्कृतशून्यतया अविरहितो ऽभूवन्, असंस्कृतशून्यतया अविरहितो ऽभूवन्, अत्यन्तशून्यतया अविरहितो ऽभूवन्, अनवराग्रशून्यतया अविरहितो ऽभूवन्, अनवकारशून्यतया अविरहितो ऽभूवन्, प्रकृतिशून्यतया अविरहितो ऽभूवन्, सर्वधर्मशून्यतया अविरहितो ऽभूवन्, स्वलक्षणशून्यतया अविरहितो ऽभूवन्, अनुपलम्भशून्यतया अविरहितो ऽभूवन्, अभावशून्यतया अविरहितो ऽभूवन्, स्वभावशून्यतया अविरहितो ऽभूवन्, अभावस्वभावशून्यतया अविरहितो ऽभूवन्.
स्मृत्युपस्थानैर् अविरहितो ऽभूवन्, सम्यक्प्रहाणैर् अविरहितो ऽभूवन्, ऋद्धिपादैर् अविरहितो ऽभूवन्, इन्द्रियैर् अविरहितो ऽभूवन्, बलैर् अविरहितो ऽभूवन्, बोध्यङ्गैर् अविरहितो ऽभूवन्, आर्याष्टाङ्गेन मार्गेणाविरहितो ऽभूवन्, आर्यसत्यैर् अविरहितो ऽभूवन्, ध्यानैर् अविरहितो ऽभूवन्, अप्रमाणैर् अविरहितो ऽभूवन्, आरूप्यसमापतिभिर् अविरहितो ऽभूवन्, अष्टौ विमोक्षैर् अविरहितो ऽभूवन्, नवानुपूर्वविहारसमापत्तिभिर् अविरहितो ऽभूवन्, शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् अविरहितो ऽभूवन्, अभिज्ञाभिर् अविरहितो ऽभूवन्, समाधिभिर् अविरहितो ऽभूवन्, धारणीमुखैर् अविरहितो ऽभूवन्, तथागतबलैर् अविरहितो ऽभूवन्, वैशारद्यैर् अविरहितो ऽभूवन्, चतस्रः प्रतिसंविद्भिर् अविरहितो ऽभूवन्, महामैत्र्याविरहितो ऽभूवन्, महाकरुणाया अविरहितो ऽभूवन्, आवेणिकबुद्धधर्मैर् अविरहितो ऽभूवन्.

अन्यैर् अन्यैश् चापरिमाणैर् बुद्धधर्मैर् अविरहितो ऽभूवन् तच् चानुपलम्भयोगेन. तदाहं देवपुत्रास् तेन दीपंकरेण तथागतेनार्हता सम्यक्संबुद्धेन व्याकृतानुत्तरां सम्यक्संबोधौ भविष्यसि त्वं मानवानागते ऽध्वनि भद्रकल्पे, अस्मिन्न् एव लोकधाताव् असंख्येयैः कल्पैः शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः सास्ता देवानां च मणुष्याणां बुद्धो बुद्धो भगवान्.
अथ देवपुत्रा भगवन्तम् एतद् अवोचन्: आश्चर्य भगवन् यावद् इयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां सर्वाकारज्ञताया अनुपरिग्राहिका,
रूपस्यापरिग्रहानुत्सर्गयोगेन, वेदनाया अपरिग्रहानुत्सर्गयोगेन, संज्ञाया अपरिग्रहानुत्सर्गयोगेन, संस्काराणाम् अपरिग्रहानुत्सर्गयोगेन, विज्ञानस्यापरिग्रहनुत्सर्गयोगेन.
चक्षुषो ऽपरिग्रहानुत्सर्गयोगेन, श्रोत्रस्यापरिग्रहानुत्सर्गयोगेन, घ्राणस्यापरिग्रहानुत्सर्गयोगेन, जिह्वाया अपरिग्रहानुत्सर्गयोगेन, कायस्यापरिग्रहानुत्सर्गयोगेन, मनसो ऽपरिग्रहानुत्सर्गयोगेन.
रूपस्यापरिग्रहानुत्सर्गयोगेन, शब्दस्यापरिग्रहानुत्सर्गयोगेन, गन्धस्यापरिग्रहानुत्सर्गयोगेन, रसस्यापरिग्रहानुत्सर्गयोगेन, स्पर्शस्यापरिग्रहानुत्सर्गयोगेन, धर्माणाम् अपरिग्रहानुत्सर्गयोगेन.
चक्षुर्विज्ञानस्यापरिग्रहानुत्सर्गयोगेन, श्रोत्रविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, घ्राणविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, जिह्वाविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, कायविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, मनोविज्ञानस्यापरिग्रहानुत्सर्गयोगेन.
चक्षुःसंस्पर्शस्यापरिग्रहारिउत्सर्गयोगेन, श्रोत्रसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, घ्राणसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, जिह्वासंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, कायसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, मनःसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन.
चक्षुःसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, घ्राणसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, जिह्वासंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, कायसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, मनःसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन.
पृथिवीधातोर् अपरिग्रहानुत्सर्गयोगेन, अब्धातोर् अपरिग्रहानुत्सर्गयोगेन, तेजोधातोर् अपरिग्रहानुत्सर्गयोगेन, वायुधातोर् अपरिग्रहानुत्सर्गयोगेन, आकाशधातोर् अपरिग्रहानुत्सर्गयोगेन, विज्ञानधातोर् अपरिग्रहानुत्सर्गयोगेन,
अविद्याया अपरिग्रहानुत्सर्गयोगेन, संस्काराणाम् अपरिग्रहानुत्सर्गयोगेन, विज्ञानस्यापरिग्रहानुत्सर्गयोगेन, नामरूपस्यापरिग्रहानुत्सर्गयोगेन, षडायतनस्यापरिग्रहानुत्सर्गयोगेन, स्पर्शस्यापरिग्रहानुत्सर्गयोगेन, वेदनाया अपरिग्रहानुत्सर्गयोगेन, तृष्णाया अपरिग्रहानुत्सर्गयोगेन, उपादानस्यापरिग्रहानुत्सर्गयोगेन, भवस्यापरिग्रहानुत्सर्गयोगेन, जातेर् अपरिग्रहानुत्सर्गयोगेन, जरामरणस्यापरिग्रहानुत्सर्गयोगेन.
दानपारमिताया अपरिग्रहानुत्सर्गयोगेन, शीलपारमिताया अपरिग्रहानुत्सर्गयोगेन, क्षान्तिपारमिताया अपरिग्रहानुत्सर्गयोगेन, वीर्यपारमिताया अपरिग्रहानुत्सर्गयोगेन, ध्यानपारमिताया अपरिग्रहानुत्सर्गयोगेन, प्रज्ञापारमिताया अपरिग्रहानुत्सर्गयोगेन.
अध्यात्मशून्यताया अपरिग्रहानुत्सर्गयोगेन, बहिर्धाशून्यताया अपरिग्रहानुत्सर्गयोगेन, अध्यात्मबहिर्धाशून्यताया अपरिग्रहानुत्सर्गयोगेन, सून्यताशून्यताया अपरिग्रहानुत्सर्गयोगेन, महाशून्यताया अपरिग्रहानुत्सर्गयोगेन, परमार्थशून्यताया अपरिग्रहानुत्सर्गयोगेन, संस्कृतशून्यताया अपरिग्रहानुत्सर्गयोगेन, असंस्कृतशून्यताया अपरिग्रहानुत्सर्गयोगेन, अत्यन्तशून्यताया अपरिग्रहानुत्सर्गयोगेन, अनवराग्रशून्यताया अपरिग्रहानुत्सर्गयोगेन, अनवकारशून्यताया अपरिग्रहानुत्सर्गयोगेन, प्रकृतिशून्यताया अपरिग्रहानुत्सर्गयोगेन, सर्वधर्मशून्यताया अपरिग्रहानुत्सर्गयोगेन, स्वलक्षणशून्यताया अपरिग्रहानुत्सर्गयोगेन, अनुपलम्भशून्यताया अपरिग्रहानुत्सर्गयोगेन, अभावशून्यताया अपरिग्रहानुत्सर्गयोगेन, स्वभावशून्यताया अपरिग्रहानुत्सर्गयोगेन, अभावस्वभावशून्यताया अपरिग्रहानुत्सर्गयोगेन.
स्मृत्युपस्थानानाम् अपरिग्रहानुत्सर्गयोगेन, सम्यक्प्रहाणानाम् अपरिग्रहानुत्सर्गयोगेन, ऋद्धिपादानाम् अपरिग्रहानुत्सर्गयोगेन, इन्द्रियाणाम् अपरिग्रहानुत्सर्गयोगेन, बलानाम् अपरिग्रहानुत्सर्गयोगेन, बोध्यङ्गानाम् अपरिग्रहानुत्सर्गयोगेन, आर्याष्टाङ्गस्य मार्गस्यापरिग्रहानुत्सर्गयोगेन, आर्यसत्यानाम् अपरिग्रहानुत्सर्गयोगेन, ध्यानानाम् अपरिग्रहानुत्सर्गयोगेन, अप्रमाणानाम् अपरिग्रहानुत्सर्गयोगेन, आरूप्यसमापत्तीनाम् अपरिग्रहानुत्सर्गयोगेन, अष्टौ विमोक्षाणाम् अपरिग्रहानुत्सर्गयोगेन, नवानुपूर्वविहारसमापत्तीनाम् अपरिग्रहानुत्सर्गयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अपरिग्रहानुत्सर्गयोगेन, अभिज्ञानाम् अपरिग्रहानुत्सर्गयोगेन, समाधीनाम् अपरिग्रहानुत्सर्गयोगेन, धारणीमुखानाम् अपरिग्रहानुत्सर्गयोगेन, तथागतबलानाम् अपरिग्रहानुत्सर्गयोगेन, वैशारद्यानाम् अपरिग्रहानुत्सर्गयोगेन, प्रतिसंविदाम् अपरिग्रहानुत्सर्गयोगेन, महामैत्र्या अपरिग्रहानुत्सर्गयोगेन, महाकरुणानाम् अपरिग्रहानुत्सर्गयोगेन, अष्टादशावेणिकबुद्धधर्माणाम् अपरिग्रहानुत्सर्गयोगेन, सर्वज्ञतानाम् अपरिग्रहानुत्सर्गयोगेन, मार्गाकारज्ञतानाम् अपरिग्रहानुत्सर्गयोगेन, सर्वाकारज्ञतानाम् अपरिग्रहानुत्सर्गयोगेन.
अथ भगवांश् चतस्रः पर्षदो भिक्षुभिक्षुण्युपासकोपासिकान् बोधिसत्त्वान् महासत्त्वांश् चातुर्महाराजकायिकांश् च देवपुत्रां त्रायस्त्रिंशांश् च देवपुत्रान् उपमांश् च देवपुत्रांस् तुषितांश् च देवपुत्रान् निर्माणरतिश् च देवपुत्राश् च देवपुत्रान् परनिर्मितवशवर्तिश् च देवपुत्रा ब्रह्मकायिकाश् च देवपुत्रा ब्रह्मपुरोहितांश् च देवपुत्रान् ब्रह्मपार्षद्याश् च देवपुत्रान् महाब्रह्माणश् च देवपुत्रान् आभाश् च देवपुत्रान् परीत्ताभांश् च देवपुत्रान् अप्रमाणाभांश् च देवान् आभास्वरांश् च देवान् शुभांश् च देवान् परीत्तशुभांश् च देवान् प्रमाणशुभांश् च देवान् शुभकृत्ष्णांश् च देवान् बृहाश् च देवान् परीत्तबृहाश् च देवान् प्रमाणबृहांश् च देवान् बृहत्फलांश् च देवान् अवृहाश् च देवान् अतपांश् च देवान् सदृशाश् च देवान् सुदर्शनांश् च देवान् अकनिष्ठांश् च देवान् संनिपतितां संनिषण्णां विदित्वा तान् सर्वां साक्षिणं कृत्वा शक्रदेवानाम् इन्द्रम् आमन्त्रयते स्म.

ये केचित् कौशिक बोधिसत्त्वा महासत्त्वाः भिक्षुभिक्षुण्युपासकोपसिकाः कुलपुत्राः कुलदुहितरो वा देवपुत्रा देवकन्या वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति पर्यवाप्स्यन्ति भावयिष्यन्ति परेभ्यश् च विस्तरेण संप्रकाशयिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यन्ति. न तेषां मारपापीयां मारकायिका देवता अवतारं लप्स्यते.
तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च रूपशून्यतैव स्वधिष्ठिता भविष्यति, वेदनाशून्यतैव स्वधिष्ठिता भविष्यति, संज्ञाशून्यतैव स्वधिष्ठिता भविष्यति, संस्काराशून्यतैव स्वधिष्ठिता भविष्यति, विज्ञानशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा चक्षुःशून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वाशून्यतैव स्वधिष्ठिता भविष्यति, कायशून्यतैव स्वधिष्ठिता भविष्यति, मनःशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा रूपशून्यतैव स्वधिष्ठिता ( श्स्प्_इइ-3_224 ) भविष्यति, शब्दशून्यतैव स्वधिष्ठिता भविष्यति, गन्धशून्यतैव स्वधिष्ठिता भविष्यति, रससून्यतैव स्वधिष्ठिता भविष्यति, स्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, धर्मशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा चक्षुर्विज्ञानसून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वाविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, कायविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, मनोविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न सून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा चक्षुःसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वाविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, कायसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, मनःसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वासंस्पर्शप्रत्ययवेदना सून्यतैव स्वधिष्ठिता भविष्यति, कायसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, मनःसंस्पर्शप्रत्ययवेदनासून्यतैव स्वधिष्ठिता भविष्यति, तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा पृथिवीधातुशून्यतैव स्वधिष्ठिता भविष्यति, अब्धातुशून्यतैव स्वधिष्ठिता भविष्यति, तेजोधातुशून्यतैव स्वधिष्ठिता भविष्यति, वायुधातुशून्यतैव स्वधिष्ठिता भविष्यति, आकाशधातुशून्यतैव स्वधिष्ठिता भविष्यति, विज्ञानधातुशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता ( श्स्प्_इइ-3_225 ) शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वाविद्याशून्यतैव स्वधिष्ठिता भविष्यति, संस्काराशून्यतैव स्वधिष्ठिता भविष्यति, विज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, नामरूपशून्यतैव स्वधिष्ठिता भविष्यति, षडायतनशून्यतैव स्वधिष्ठिता भविष्यति, स्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, वेदनाशून्यतैव स्वधिष्ठिता भविष्यति, तृष्णाशून्यतैव स्वधिष्ठिता भविष्यति, उपादानशून्यतैव स्वधिष्ठिता भविष्यति, भवशून्यतैव स्वधिष्ठिता भविष्यति, जातिशून्यतैव स्वधिष्ठिता भविष्यति, जरामरणशून्यतैव स्वधिष्ठिता भविष्यति, तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा दानपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, शीलपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, क्षान्तिपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, वीर्यपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, ध्यानपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, प्रज्ञापारमिताशून्यतैव स्वधिष्ठिता भविष्यति, तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.

तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा अध्यात्मशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, बहिर्धाशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अध्यात्मबहिर्धाशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, शून्यताशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, महाशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, परमार्थशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, संस्कृतशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, असंस्कृतशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अत्यन्तशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अनवराग्रशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अनवकारशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, प्रकृतिशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, सर्वधर्मशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, स्वलक्षणशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अनुपलम्भशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अभावशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, स्वभावशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अभावस्वभावशून्यताशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं ( श्स्प्_इइ-3_226 ) लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा स्मृत्युपस्थानशून्यतैव स्वधिष्ठिता भविष्यति, सम्यक्प्रहाणशून्यतैव स्वधिष्ठिता भविष्यति, ऋद्धिपादशून्यतैव स्वधिष्ठिता भविष्यति, इन्द्रियशून्यतैव स्वधिष्ठिता भविष्यति, बलशून्यतैव स्वधिष्ठिता भविष्यति, बोध्यङ्गशून्यतैव स्वधिष्ठिता भविष्यति, आर्याष्टाङ्गमार्गशून्यतैव स्वधिष्ठिता भविष्यति, तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वार्यसत्यशून्यतैव स्वधिष्ठिता भविष्यति, ध्यानशून्यतैव स्वधिष्ठिता भविष्यति, अप्रमाणशून्यतैव स्वधिष्ठिता भविष्यति, आरूप्यसमापत्तिशून्यतैव स्वधिष्ठिता भविष्यति, विमोक्षशून्यतैव स्वधिष्ठिता भविष्यति, अनुपूर्वविहारसमापत्तिशून्यतैव स्वधिष्ठिता भविष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतैव स्वधिष्ठिता भविष्यति, अभिज्ञाशून्यतैव स्वधिष्ठिता भविष्यति, समाधिशून्यतैव स्वधिष्ठिता भविष्यति, धारणीमुखशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा तथागतबलशून्यतैव स्वधिष्ठिता भविष्यति, वैशारद्यशून्यतैव स्वधिष्ठिता भविष्यति, प्रतिसंविच्छून्यतैव स्वधिष्ठिता भविष्यति, महामैत्रीशून्यतैव स्वधिष्ठिता भविष्यति, महाकरुणाशून्यतैव स्वधिष्ठिता भविष्यति, आवेणिकबुद्धधर्मशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.
तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा सर्वज्ञताशून्यतैव स्वधिष्ठिता भविष्यति, मार्गाकारज्ञताशून्यतैव स्वधिष्ठिता भविष्यति, सर्वाकारज्ञताशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि तेषां स्वभावो न संविद्यते, येन चावतारं लभे चरन्, यत्र चावतारं लभेरम्, यस्य चावतारं लभेरन्.
न खलु पुनः कौशिक तेषां कुलपुत्राणां कुलदुहितॄणां मनुस्या वामनुष्या वावतारं प्रेक्षावतारगवेष्य् अवतारं लप्स्यते. तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा सर्वसत्त्वानाम् अन्तिके ( श्स्प्_इइ-3_227 ) मैत्रीकरुणामुदितोपेक्षासु भाविता तच् चानुपलम्भयोगेन. न च स कुलपुत्रो वा कुलदुहितरो वा विषमा परिहारेण कालं भविष्यति.
तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैर् वा कुलदुहितृभिर् वा दानपारमितायां चरद्भिः सर्वसत्त्वा सम्यक्परिहारेण नोपस्थिता यो वा कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ, चातुर्महाराजकायिका देवाः त्रायस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवाः ब्रह्मकायिका देवा ब्रह्मपार्षद्या देवा ब्रह्मपुरोहिता देवा महाब्रह्मा देवा आभास्वरा देवाः शुभकृत्स्ना देवा बृहत्फला देवा अनुत्तरायै सम्यक्संबोधये संप्रस्थिताः, यैश् च देवपुत्रैर् इयं प्रज्ञापारमिता न स्रुता नोद्गृहीता न धारिता पर्यवाप्ता तैर् देवपुत्रैर् इयं प्रज्ञापारमिता श्रोतव्योद्गृहीतव्या धारयितव्या पर्यवाप्तव्या योनिसो मनसिकर्तव्या सर्वाकारज्ञताचित्तेन चाविरहितेन भवितव्यम्.
पुनर् अपरं कौशिक ये कुलपुत्राः कुलदुहितरश् चेमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति पर्यवाप्स्यन्ति योनिसश् च मनसिकरिष्यन्ति सर्वाकारज्ञताचित्तेन चाविरहितो भविष्यन्ति.
न खलु पुनस् तेषां कुलपुत्राणां कुलदुहितॄणां च शून्यागारगतानां वाभ्यवकाशगतानां चोत्पथगतानां वा भयं वा स्तम्भितत्वं वा भविष्यन्ति. तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् चाध्यात्मशून्यतासु भाविता तच् चानुपलम्भयोगेन, बहिर्धाशून्यतासु भाविता तच् चानुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतासु भाविता तच् चानुपलम्भयोगेन, शून्यताशून्यतासु भाविता तच् चानुपलम्भयोगेन, महाशून्यतासु भाविता तच् चानुपलम्भयोगेन, परमार्थशून्यतासु भाविता तच् चानुपलम्भयोगेन, संस्कृतशून्यतासु भाविता तच् चानुपलम्भयोगेन, असंस्कृतशून्यतासु भाविता तच् चानुपलम्भयोगेन, अत्यन्तशून्यतासु भाविता तच् चानुपलम्भयोगेन, अनवराग्रशून्यतासु भाविता तच् चानुपलम्भयोगेन, अनवकारशून्यतासु भाविता तच् चानुपलम्भयोगेन, प्रकृतिशून्यतासु भाविता तच् चानुपलम्भयोगेन, सर्वधर्मशून्यतासु भाविता तच् चानुपलम्भयोगेन, स्वलक्षणशून्यतासु भाविता तच् चानुपलम्भयोगेन, अनुपलम्भशून्यतासु भाविता तच् चानुपलम्भयोगेन, अभावशून्यतासु भाविता तच् चानुपलम्भयोगेन, स्वभावशून्यतासु भाविता तच् चानुपलम्भयोगेन, अभावस्वभावशून्यतासु भाविता तच् चानुपलम्भयोगेन.

अथ खलु तस्यां वेलायां यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवा त्रायस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा आभास्वरा देवाः शुभकृत्स्ना देवा बृहत्फला देवाः शुद्धावासकायिका देवास् ते सर्वे भगवन्तम् एतद् अवोचन्: वयं भगवन् तेषां कुलपुत्राणां कुलदुहितॄणां च सततसमितं रक्षावरणगुप्तिं संविधास्यामो य इमां गंभीरां प्रज्ञापारमिताम् अधिमोक्षन्ते उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिसश् च मनसिकरिष्यन्ति, परेभ्यश् च विस्तरेण संप्रकाशयिष्यन्ति, अविरहितश् च भविष्यन्ति सर्वाकारज्ञता मनसिकारेण. तत् कस्य हेतोः? बोधिसत्त्वं हि भगवन् महासत्त्वम् आगम्य नरका उच्छिद्यन्ते, यमलोक उच्छिद्यन्ते देवदारिद्यम् उच्छिद्यन्ते मनुष्यदारिद्यम् उच्छिद्यन्ते, इत्युपद्रवोपसर्गा सर्व उच्छिद्यन्ते विनस्यन्ति, न भवन्ति दुर्भिक्षकान्ताराः सर्व उच्छिद्यन्ते बोधिसत्त्वं महासत्त्वम् आगम्य दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके पुरादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति.
दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमिताया लोके प्रादुर्भावो भवति.
अध्यात्मशून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महाशून्यताया लोके प्रादुर्भावो भवति, परमार्थशून्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया लोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यताया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति, प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यताया लोके प्रादुर्भावो भवति.
चतुर्णां स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, चतुर्णां सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, चतुर्णाम् ऋद्धिपादानां लोके प्रादुर्भावो भवति, पञ्चानाम् इन्द्रियानां लोके प्रादुर्भावो भवति, पञ्चानां बलानां लोके प्रादुर्भावो भवति, सप्तानां बोध्यङ्गानां लोके प्रादुर्भावो भवति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, चतुर्णाम् आर्यसत्यानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतुर्णाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके प्रादुर्भावो भवति, नवानाम् अनुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, त्रयाणां विमोक्षमुखानां लोके प्रादुर्भावो भवति, पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति, सर्वसमाधीनां लोके प्रादुर्भावो भवति, सर्वधारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानाम् आवेणिकबुद्धधर्माणां लोके प्रादुर्भावो भवति, सर्वज्ञताया लोके प्रादुर्भावो भवति, मार्गाकारज्ञताया लोके प्रादुर्भावो भवति, सर्वाकारज्ञताया लोके प्रादुर्भावो भवति.
बोधिसत्त्वं महासत्त्वम् आगम्य क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, राजानश् चक्रवर्तिनः प्रज्ञायन्ते, चातुर्महारजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभास्वर देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, ( श्स्प्_इइ-3_230 ) अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते,
बोधिसत्त्वं महासत्त्वम् आगम्य स्रोतआपत्तिफलं प्रज्ञायते, स्रोतआपन्नो प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, सकृदागामी प्रज्ञायते, अनागामिफलं प्रज्ञायते, अनागामी प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, अर्हन् प्रज्ञायते, प्रत्येकबोधिः प्रज्ञायते, प्रत्येकबुद्धः प्रज्ञायते,
बोधिसत्त्वं महासत्त्वम् आगम्य सत्त्वः परिपाकः प्रज्ञायते, बुद्धक्षेत्रपरिशुद्धिं प्रज्ञायते, तथागता अर्हत सम्यक्संबुद्धा लोके प्रज्ञायन्ते, धर्मचक्रप्रवर्तं प्रज्ञायते, बुद्धरत्नं प्रज्ञायते, धर्मरत्नं प्रज्ञायते, संघरत्नं प्रज्ञायते.

अनेन च भगवन् पर्यायेण बोधिसत्त्वस्य महासत्त्वस्य सदेवमानुषासुरेण लोकेन रक्षावरणगुप्तिः संविध्यतव्या.
एवम् उक्ते भगवांच् छक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतद् कौशिक एवम् एतद्, बोधिसत्त्वं महासत्त्वम् आगम्य दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति.
दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमिताया लोके प्रादुर्भावो भवति.
अध्यात्मसून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महाशून्यताया लोके प्रादुर्भावो भवति, परमार्थशून्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया लोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यताया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति, प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यताया ( श्स्प्_इइ-3_231 ) लोके प्रादुर्भावो भवति.
चतुर्णां स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, चतुर्णां सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, चतुर्णाम् ऋद्धिपादानां लोके प्रादुर्भावो भवति, पञ्चानाम् इन्द्रियानां लोके प्रादुर्भावो भवति, पञ्चानां बलानां लोके प्रादुर्भावो भवति, सप्तानां बोध्यङ्गानां लोके प्रादुर्भावो भवति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, चतुर्णाम् आर्यसत्यानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके प्रादुर्भावो भवति, नवानाम् अनुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, त्रयाणां विमोक्षमुखानां लोके प्रादुर्भावो भवति, पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति, सर्वसमाधीनां लोके प्रादुर्भावो भवति, सर्वधारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानाम् आवेणिकबुद्धधर्माणां लोके प्रादुर्भावो भवति, सर्वज्ञताया लोके प्रादुर्भावो भवति, मार्गाकारज्ञताया लोके प्रादुर्भावो भवति, सर्वाकारज्ञताया लोके प्रादुर्भावो भवति.
बोधिसत्त्वं महासत्त्वम् आगम्य क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, राजानश् चक्रवर्तिनः प्रज्ञायन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, परीताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीतशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीतबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः ( श्स्प्_इइ-3_232 ) प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते.
बोधिसत्त्वं महासत्त्वम् आगम्य स्रोतआपत्तिफलं प्रज्ञायते, स्रोतआपन्नः प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, सकृदागामी प्रज्ञायते, अनागामिफलं प्रज्ञायते, अनागामी प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, अर्हन् प्रज्ञायते, प्रत्येकबोधिः प्रज्ञायते, प्रत्येकबुद्धः प्रज्ञायते.
बोधिसत्त्वं महासत्त्वम् आगम्य सत्त्वः परिपाकः प्रज्ञायते, बुद्धक्षेत्रपरिशुद्धिः प्रज्ञायते, तथागता अर्हन्त सम्यक्संबुद्धा लोके प्रज्ञायन्ते, धर्मचक्रप्रवर्तनं प्रज्ञायते, बुद्धरत्नं प्रज्ञायते, धर्मरत्नं प्रज्ञायते, संघरत्नं प्रज्ञायते.
तस्माद् बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन सत्कर्तव्या गुरुकर्तव्या मानयितव्याः पूजयितव्याः, सततसमितं चास्य रक्षावरणगुप्तिः संविधातव्या, मान्स कौशिक सत्कर्तव्यं गुरुकर्तव्यं मानयितव्यं मन्यते, बोधिसत्त्वं महासत्त्वं सत्कर्तव्यं गुरुकर्तव्यं मानयितव्यं पूजयितव्यं मन्येत्.
तस्माद् बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरेण लोकेन सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयीतव्यः सततसमितं चास्य रक्षावरणगुप्तिः संविधातव्या, यच् च कौशिकायं त्रिसाहस्रमहासाहस्रो
लोकधातुः परिपूर्णे भवेच् छ्रावकप्रत्येकबुद्धैस् तद् यथा पि नाम नडवनं वा इक्ष्वनं वा शरवनं वा शारवनं वा शारिवनं वा तिलवनं वा तन् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यवज्जीवं सत्कुर्यात् मानयेत् पूजयेत् सर्वोपकरणैर् यश् चैकं बोधिसत्त्वं महासत्त्वं प्रथमचित्तोत्पादिकं षड्भिः पारमिताभिर् अविरहितं सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेद् अयम् अयम् एव ततो बहुततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? न खलु पुनः कौशिक तांच् छ्रावकप्रत्येकबुद्धान् आगम्य बोधिसत्त्वो महासत्त्वो लोके प्रज्ञायते, न तथागतो ऽर्हन् सम्यक्संबुद्धो लोके प्रज्ञायते.
बोधिसत्त्वं पुनः कौशिक महासत्त्वम् आगम्य सर्वश्रावकप्रत्येकबुद्धो लोके प्रज्ञायते, तथागता अर्हन्तः सम्यक्संबुद्धा लोके प्रज्ञायते. तस्मात् तर्हि कौशिक सदेवमानुषासुरेण लोकेन बोधिसत्त्वो महासत्त्वः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः सततसमितं चास्या रक्षावरणगुप्तिः संविधातव्या.
शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तः षोडशमः
शतसाहस्रिका प्रज्ञापारमिता इइ-4
[क्. 171अ1, न्. 326ब्5, त्. 266अ1, प्. अ-156अ6, छ्. 557ब्13]

अथ खलु शक्रो देवाणाम् इन्द्रो भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावच् चेयं बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमिताम् उद्गृह्णन्तो धारयन्तो वाचयन्तः पर्यवाप्नुवन्तो योनिशश् च मनसिकुर्वन्त इह धार्मिकान् गुणान् परिगृह्णन्ति सत्त्वांश् च परिपाचयन्ति, बुद्धक्षेत्रं परिशोधयन्ति बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामन्ति, बुद्धान् भगवतः पर्युपासीनाः यैश् च कुशलमूलैर् आकाङ्क्षन्ति तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तान् येषां कुशलमूलानि समृध्यन्ति यच् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृण्वति स तावन् न विप्रमुष्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा भवन्ति, कुलसंपदं च परिगृह्णन्ति, जननीसंपदं च परिगृह्णन्ति, जन्मसंपदं च परिगृह्णन्ति परिवारसंपदं च परिगृह्णन्ति लक्षणसंपदं च परिगृह्णन्ति, प्रभासंपदं परिगृह्णन्ति, चक्षुःसंपदं च परिगृह्णन्ति स्वरसंपदं च परिगृह्णन्ति समाधिसंपदं च परिगृह्णन्ति धारणीसंपदं च परिगृह्णन्ति उपायकौशल्येन चात्मानं बुद्धविग्रहम् अभिनिर्माय लोकधातोर् लोकधातुं संक्रामन्ति, यत्र बुद्धानां भगवताम् अनुत्पादः प्रादुर्भावो नास्ति, ते तत्र गत्वा दानपारमिताया वर्णं भाषन्ते, शीलपारमिताया वर्णं भाषन्ते, क्षान्तिपारमिताया वर्णं भाषन्ते, वीर्यपारमिताया वर्णं भाषन्ते, ध्यानपारमिताया वर्णं भाषन्ते, प्रज्ञापारमिताया वर्णं भाषन्ते.
अध्यात्मशून्यताया वर्णं भाषन्ते, बहिर्धाशून्यताया वर्णं भाषन्ते, अध्यात्मबहिर्धाशून्यताया वर्णं भाषन्ते, शून्यताशून्यताया वर्णं भाषन्ते, महाशून्यताया वर्णं भाषन्ते, परमार्थशून्यताया वर्णं भाषन्ते, संस्कृतशून्यताया वर्णं भाषन्ते, असंस्कृतशून्यताया वर्णं भाषन्ते, अत्यन्तशून्यताया वर्णं भाषन्ते, अनवराग्रशून्यताया वर्णं भाषन्ते, अनवकारशून्यताया वर्णं भाषन्ते, प्रकृतिशून्यताया वर्णं भाषन्ते, सर्वधर्मशून्यताया वर्णं भाषन्ते, स्वलक्षणशून्यताया ( श्स्प्_इइ-4_2 ) वर्णं भाषन्ते, अनुपलम्भशून्यताया वर्णं भाषन्ते, अभावशून्यताया वर्णं भासन्ते, स्वभावशून्यताया वर्णं भाषन्ते, अभावस्वभावशून्यताया वर्णं भाषन्ते.
चतुर्णां ध्यानानां वर्णं भाषन्ते, चतुर्णाम् अप्रमाणानां वर्णं भाषन्ते, चतसृणाम् आरूप्यसमापत्तीनां वर्णं भाषन्ते, पञ्चानाम् अभिज्ञानां वर्णं भाषन्ते, चतुर्णां स्मृत्युपस्थानानां वर्णं भाषन्ते, चतुर्णां सम्यक्प्रहाणानां वर्णं भाषन्ते, चतुर्णाम् ऋद्धिपादानां वर्णं भाषन्ते, पञ्चानाम् इन्द्रियाणां वर्णं भाषन्ते, पञ्चानां बलानां वर्णं भाषन्ते, सप्तानां बोध्यङ्गानां वर्णं भाषन्ते, आर्याष्टाङ्गस्य मार्गस्य वर्णं भाषन्ते, चतुर्णाम् आर्यसत्यानां वर्णं भाषन्ते, अष्टानां विमोक्षाणां वर्णं भाषन्ते, नवानुपूर्वविहारसमापत्तीनां वर्णं भाषन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां वर्णं भाषन्ते, समाधीनं वर्णं भाषन्ते, धारणीमुखानां वर्णं भाषन्ते, दशानां तथागतबलानां वर्णं भाषन्ते, चतुर्णां वैशारद्यानां वर्णं भाषन्ते, चतसृणां प्रतिसंविदां वर्णं भासन्ते, महामैत्र्या वर्णं भाषन्ते, महाकरुणाया वर्णं भाषन्ते, अष्टादशानाम् आवेणिकबुद्धधर्माणां वर्णं भाषन्ते. उपायकौशल्येन च सत्त्वेभ्यो धर्मं देशयन्ति त्रिषु च यानेषु सत्त्वान् विनयन्ति, श्रावकयाने प्रत्येकबुद्धयाने महायाने.
अथ शक्रो देवानाम् इन्द्रः पुनर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावच् चेदं प्रज्ञापारमितया परिगृहीतया सर्वाः षट् पारमिताः परिगृहीता भवन्ति.
अध्यात्मशून्यताः परिगृहीता भवन्ति, बहिर्धाशून्यताः परिगृहीता भवन्ति, अध्यात्मबहिर्धाशून्यताः परिगृहीता भवन्ति, शून्यताशून्यताः परिगृहीता भवन्ति, महाशून्यताः परिगृहीता भवन्ति, परमार्थशून्यताः परिगृहीता भवन्ति, संस्कृतशून्यताः परिगृहीता भवन्ति, असंस्कृतशून्यताः परिगृहीता भवन्ति, अत्यन्तशून्यताः परिगृहीता भवन्ति, अनवराग्रशून्यताः परिगृहीता भवन्ति, अनवकारशून्यताः परिगृहिता भवन्ति, प्रकृतिशून्यताः परिगृहीता भवन्ति, सर्वधर्मशून्यताः परिगृहीता भवन्ति, स्वलक्षणशून्यताः परिगृहीता भवन्ति, अनुपलम्भशून्यताः परिगृहीता भवन्ति, अभावशून्यताः परिगृहीता भवन्ति, स्वभावशून्यताः परिगृहीता भवन्ति, अभावस्वभावशून्यताः परिगृहीता भवन्ति.
स्मृत्युपस्थानानि परिगृहीतानि भवन्ति, सम्यक्प्रहाणानि परिगृहीतानि ( श्स्प्_इइ-4_3 ) भवन्ति, ऋद्धिपादाः परिगृहीता भवन्ति, इन्द्रियाणि परिगृहीतानि भवन्ति, बलानि परिगृहीतानि भवन्ति, बोध्यङ्गानि परिगृहीतानि भवन्ति, आर्याष्टाङ्गो मार्गः परिगृहीतो भवति, आर्यसत्यानि परिगृहीतानि भवन्ति, ध्यानानि परिगृहीतानि भवन्ति, अप्रमाणानि परिगृहीतानि भवन्ति, आरूप्यसमापत्तयः परिगृहीता भवन्ति, विमोक्षाः परिगृहीता भवन्ति, अनुपूर्वविहारसमापत्तयः परिगृहीता भवन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिगृहीतानि भवन्ति, अभिज्ञाः परिगृहीता भवन्ति, समाधयः परिगृहीता भवन्ति, धारणीमुखानि परिगृहीतानि भवन्ति, तथागतबलानि परिगृहीतानि भवन्ति, वैशारद्यानि परिगृहीतनि भवन्ति, प्रतिसंविदः परिगृहीता भवन्ति, महामैत्री परिगृहीता भवति, महाकरुणा परिगृहीता भवन्ति, आवेणिकबुद्धधर्माः परिगृहीता भवन्ति, स्रोत्रआपत्तिफलं परिगृहीतं भवति, सकृदागामिफलं परिगृहीतं भवति, अनागामिफलं परिगृहीतं भवति, अर्हत्त्वं परिगृहीतं भवति, प्रत्येकबोधिः परिगृहीता भवति, मार्गाकारज्ञता परिगृहीता भवति, सर्वाकारज्ञता परिगृहीता भवति.
एवम् उक्ते भगवाञ् छक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, प्रज्ञापारमितया कौशिक परिगृहीतया सर्वाः षट् पारमिताः परिगृहीता भवन्ति.
अध्यात्मशून्यता परिगृहीता भवति, बहिर्धाशून्यता परिगृहीता भवति, अध्यात्मबहिर्धाशून्यता परिगृहीता भवति, शून्यताशून्यता परिगृहीता भवति, महाशून्यता परिगृहीता भवति, परमार्थशून्यता परिगृहीता भवति, संस्कृतशून्यता परिगृहीता भवति, असंस्कृतशून्यता परिगृहीता भवति, अत्यन्तशून्यता परिगृहीता भवति, अनवराग्रशून्यता परिगृहिता भवति, अनवकारशून्यता परिगृहीता भवति, प्रकृतिशून्यता परिगृहीता भवति, सर्वधर्मशून्यता परिगृहीता भवति, स्वलक्षणशून्यता परिगृहीता भवति, अनुपलम्भशून्यता परिगृहीता भवति, अभावशून्यता परिगृहीता भवति, स्वभावशून्यता परिगृहीता भवति, अभावस्वभावशून्यता परिगृहीता भवति.

स्मृत्युपस्थानानि परिगृहीतानि भवन्ति, सम्यक्प्रहाणानि परिगृहीतानि भवन्ति, ऋद्धिपादाः परिगृहीता भवन्ति, इन्द्रियाणि परिगृहीतानि भवन्ति, बलानि परिगृहीतानि भवन्ति, बोध्यङ्गानि परिगृहीतानि भवन्ति, आर्याष्टाङ्गो मार्गः परिगृहीतो भवन्ति, आर्यसत्यानि परिगृहीतानि भवन्ति, ध्यानानि परिगृहीतानि भवन्ति, अप्रमाणानि परिगृहीतानि भवन्ति, आरूप्यसमापत्तयः परिगृहीता भवन्ति, विमोक्षाः परिगृहीता भवन्ति, अनुपूर्वविहारसमापत्तयः ( श्स्प्_इइ-4_4 ) परिगृहीता भवन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिगृहीतानि भवन्ति, अभिज्ञाः परिगृहीता भवन्ति, समाधयः परिगृहीता भवन्ति, धारणीमुखानि परिगृहीतानि भवन्ति, तथागतबलानि परिगृहीतानि भवन्ति, वैशारद्यानि परिगृहीतानि भवन्ति, प्रतिसंविदः परिगृहीता भवन्ति, महामैत्री परिगृहीता भवति, महाकरुणा परिगृहीता भवति, आवेणिकबुद्धधर्माः परिगृहीता भवन्ति, स्रोतआपत्तिफलं परिगृहीतं भवति, सकृदागामिफलं परिगृहीतं भवति, अनागामिफलं परिगृहीतं भवति, अर्हत्त्वं परिगृहीतं भवति, प्रत्येकबोधिः परिगृहीता भवति, मार्गाकारज्ञता परिगृहीता भवति, सर्वाकारज्ञता परिगृहीता भवति.
[क्. 171ब्14, न्. 328ब्2, त्. 267अ12, प्. 160अ1, छ्. 559च्16]
पुनर् अपरं कौशिक प्रज्ञापारमितया परिगृहीतया धारयितया वाचितया पर्यवाप्तया योनिशश् च मनसिकृतया याङ् गुणान् स कुलपुत्रो वा कुलदुहिता वा दृष्टिधार्मिकान् परिगृह्णाति, तांच् छृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहं, एवं भगवन्न् इति शक्रो देवानाम् इन्द्रो भगवतः प्रत्यश्रोषीत्, भगवांस् तम् एतद् अवोचत्: यो हि कश्चित् कौशिक अन्यतीर्थिकचरकपरिव्राजको मारो वा मारकायिका वा देवता अधिमानिका वा पुद्गला इमां प्रज्ञापारमितां विग्रहीतुकामा भविष्यन्ति विवेचयितुकमा भविष्यन्ति विवदितुकामा भविष्यन्ति विरोधयितुकामा भविष्यन्ति तेषां विग्रहीतुकामानां विवेचयितुकमानां विवदितुकामानां विरोधयितुकामानाम् उत्पन्नोत्पन्ना विग्रहविवेचनविवादविरोधाः क्षिप्रम् एव पुनर् एवान्तर्धानात् प्रलयं यास्यन्ति, तेषां विग्रहीतुकामानां विवेचयितुकामानां विवदितुकामानां विरोधयितुकामानां ते ऽभिप्राया न परिपूरयिष्यन्ति. तत् कस्य हेतोः? तथा हि कौशिक बोधिसत्त्वेन महासत्त्वेन दीर्घरात्रं दानपारमितायां चरता शीलपारमितायां चरता क्षान्तिपारमितायां चरता वीर्यपारमितायां चरता ध्यानपारमितायां चरता प्रज्ञापारमितायां चरता, येषां कृतशः सत्त्वा दीर्घरात्रं कलहभण्डनविग्रहविवादान् आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्वा दानपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं दौःशील्यम् आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्वाः शीलपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं क्रोधव्यापादविहिंसा आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् ( श्स्प्_इइ-4_5 ) धर्मान् परित्यज्यते सत्त्वाः क्षान्तिपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं कौसीद्यम् आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्वा वीर्यपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं विक्षेपम् आपद्यते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्त्वा ध्यानपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं दौष्प्रज्ञाम् आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्त्वाः प्रज्ञानपारमितायां प्रतिष्ठापिताः, येषां कृते कौशिक सत्त्वाः संसारे संसारन्ति यद् उतानुशयपर्युत्थाने न तान् बोधिसत्त्वेन महासत्त्वेनोपायकौशलेन, तेषां सत्त्वानाम् अनुशयपर्युत्थानं विगृह्यते सत्त्वाश् चतुर्षु ध्यानेषु प्रतिष्ठापिताश् चतुर्ष्व् अप्रमाणेषु समादापिताश् चतसृष्व् आरूप्यसमापत्तिषु समादापिता पञ्चस्व् अभिज्ञासु समादापिताः चतुर्षु स्मृत्युपस्थानेषु अमादापिताश् चतुर्षु सम्यक्प्रहाणेषु समादापिताः चतुर्ष्व् ऋद्धिपादेषु समापिताः पञ्चस्व् इन्द्रियेषु समादापिताः पञ्चसु बलेषु समादापिताः सप्तसु बोध्यङ्गेषु समादापिताः आर्याष्टाङ्गे मार्गे समादापिताश् चतुर्ष्व् आर्यसत्येषु समादापिताः, नवस्व् अनुपूर्वविहारसमापत्तिषु प्रतिष्ठापिताः सर्वसमाधिषु समादापिताः सर्वधारणीमुखेषु समादापिताः, दशसु तथागतबलेषु समादापिताः चतुर्षु वैशारद्येषु प्रतिष्ठापिताः, चतसृषु प्रतिसंवित्सु प्रतिष्ठापिताः, महामैत्र्यां प्रतिष्ठापिताः, महाकरुणायां प्रतिष्ठापिताः, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु समादापिताः, स्रोतआपत्तिफले प्रतिष्ठापिताः, सकृदागामिफले प्रतिष्ठापिताः, अनागामिफले प्रतिष्ठापिताः, अर्हत्त्वे प्रतिष्ठापिताः प्रत्येकबोधौ प्रतिष्ठापिताः, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापिताः.
इमे ते कौशिक बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचारिकां चरता दृष्टधार्मिका न गुणानुशंसा भविष्यन्ति, संपराये चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रं प्रवर्त्य सत्त्वान्यथाप्रतिष्ठाने प्रतिष्ठाप्यानुपधिशेषे निर्वाणधातौ परिनिर्वास्यति.
इमे कौशिक बोधिसत्त्वस्य महासत्त्वस्य सांपरायिका गुणानुशंसा भविष्यन्ति.
[क्. 172अल्0, न्. 329ब्3, त्. 268अ5, प्. 161ब्5, छ्. 560ब्ल्7]
पुनर् अपरं कौशिक कुलपुत्रो वा कुलदुहिता वा यस्मिन् पृथिवीप्रदेशे इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति ( श्स्प्_इइ-4_6 ) योनिशश् च मनसिकरिष्यति, न तत्र पृथिवीप्रदेशे मारो वा मारकायिका वा देवता अन्यतीर्थिका वा परिव्राजका आधिमानिक वा पुद्गलाः शक्ष्यन्त्य् अस्याः प्रज्ञापारमिताया विग्रहाय वा विवादाय वा विरोधाय वान्तर्धानाय वा पराक्रमितुम् उत्तरे च तेषां गुणानुशंसा भविष्यन्ति. यदास्याः प्रज्ञापारमितायाः श्रवणग्रहणभावनाभिर् अनुपूर्वेण त्रिभिर् यानैर् निर्याय दुःखस्यान्तं करिष्यन्ति, तद् यथापि नाम कौशिक मघिनाम् औषधीः सर्वविषप्रशमणी तत्राशीविषेण वा जन्तुना वा क्षुधाभिभूतेनाहारान्वेषिणा किंचिद् एव प्राणिजातं दृष्टं भवेत्. स तत् प्राणकजातं खादितुकामतयानुगच्छेत्. अथ तत् प्राणकजातं मरणभयभीतं येन सा मघी नाम्ऽ औषधिस् तेनोपसंक्रामन् ततः स आशीविषस् तस्या औषध्या गन्धेनैव प्रत्युदावर्तितव्यं मन्येत. तत् कस्य हेतोः? तथा हि तस्या औषध्या भैषज्यगुणो यं तस्याशीविषस्य तद् विषम् अभिभवत्य् एव बलवती हि कौशिक सा मघी औषधिः.

एवम् एव कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यन्ति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, तत्र कौशिक य उत्पन्नोत्पन्ना विग्रहविवादविरोधा भविष्यन्ति, ते प्रज्ञापारमितायास् तेजसा प्रज्ञापारमिताया बलेन क्षिप्रम् एवान्तर्धास्यन्ति, उपशमिष्यन्ति, यतो यत एवोत्पत्स्यन्ते तत्र तत्रैवान्तर्धास्यन्ति, न विवर्धयिष्यन्ते. तत् कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमिता सर्वेषां पापकानां धर्माणाम् उपशमयित्री न विवर्धिका यद् उत रागद्वेषमोहाणाम् उपशमयित्री न विवर्धिका.
अविद्याया उपशमयित्री न विवर्धिका, संस्काराणाम् उपशमयित्री न विवर्धिका, विज्ञानस्योपशमयित्री न विवर्धिका, नामरूपस्योपशमयित्री न विवर्धिका, षडायतनस्योपशमयित्री न विवर्धिका, स्पर्शस्योपशमयित्री न विवर्धिका, वेदनाया उपसमयीत्रि न विवर्धिका, तृष्णाया उपशमयित्री न विवर्धिका, उपादानस्योपशमयित्री न विवर्धिका, भवस्योपशमयित्री न विवर्धिका, जातेर् उपशमयित्री न विवर्धिका, जरामरणस्योपशमयित्री न विवर्धिका.
स्वकपरिदेवदुःखदौर्मणस्योपायासानाम् उपशमयित्री न विवर्धिका, यावत् केवलस्य महतो दुःखस्कन्धस्योपशमयित्रि न विवर्धिका, नीवरणानाम् उपशमयित्री न विवर्धिका, आवरणानाम् उपसमयित्रि न विवर्धिका, अनुशयानाम् उपशमयित्री न विवर्धिका, पर्युत्थानानाम् उपशमयित्री न विवर्धिका, अनात्मदृष्टेर् उपशमयित्री ( श्स्प्_इइ-4_7 ) न विवर्धिका, सत्त्वदृष्टेर् उपशमयित्री न विवर्धिका, जीवदृष्टेर् उपशमयित्री न विवर्धिका, जन्तुदृष्टेर् उपशमयित्री न विवर्धिका, पोषदृष्टेर् उपशमयित्री न विवर्धिका, पुरुषदृष्टेर् उपशमयित्री न विवर्धिका, पुद्गलदृष्टेर् उपशमयित्री न विवर्धिका, मनुजदृष्टेर् उपशमयित्रि न विवर्धिका, मानवदृष्टेर् उपशमयित्रीन विवर्धिका, कारकदृष्टेर् उपशमयित्री न विवर्धिका, वेदकदृष्टेर् उपशमयित्री न विवर्धिका, जानकदृष्टेर् उपशमयित्री न विवर्धिका, पश्यकदृष्टेर् उपशमयित्री न विवर्धिका, उच्छेदकदृष्टेर् उपशमयित्री न विवर्धिका, शाश्वतदृष्टेर् उपशमयित्री न विवर्धिका, अस्तिदृष्टेर् उपशमयित्री न विवर्धिका, नास्तिदृष्टेर् उपशमयित्री न विवर्धिका, सर्वदृष्टिगतानाम् उपशमयित्री न विवर्धिका, मात्सर्यस्योपशमयित्री न विवर्धिका, दौशील्यस्योपशमयित्री न विवर्धिका, व्यापादस्योपशमयित्री न विवर्धिका, कौशीद्यस्योपशमयित्री न विवर्धिका, विक्षेपस्योपशमयित्री न विवर्धिका, दौष्प्रज्ञस्योपशमयित्री न विवर्धिका, नित्यसंज्ञाया उपशमयित्री न विवर्धिका, सुखसंज्ञाया उपशमयित्रि न विवर्धिका, आत्मसंज्ञाया उपशमयित्री न विवर्धिका, शुभसंज्ञाया उपशमयित्री न विवर्धिका, तृष्णाविचरिताम् उपशमयित्री न विवर्धिका, रूपग्राहस्योपशमयित्री न विवर्धिका, वेदनाग्राहस्योपशमयित्री न विवर्धिका, संज्ञाग्राहस्योपशमयित्री न विवर्धिका, संस्कारग्राहस्योपशमयित्री न विवर्धिका, विज्ञानग्राहस्योपशमयित्री न विवर्धिका.
दानपारमिताग्राहस्योपशमयित्री न विवर्धिका, शीलपारमिताग्राहस्योपशमयित्री न विवर्धिका, क्षान्तिपारमिताग्राहस्योपशमयित्री न विवर्धिका, वीर्यपारमिताग्राहस्योपशमयित्री न विवर्धिका, ध्यानपारमिताग्राहस्योपशमयित्री न विवर्धिका, प्रज्ञापारमिताग्राहस्योपशमयित्री न विवर्धिका,
अध्यात्मशून्यताग्राहस्योपशमयित्री न विवर्धिका, बहिर्धाशून्यताग्राहस्योपशमयित्री न विवर्धिका, अध्यात्मबहिर्धाशून्यताग्राहस्योपशमयित्री न विवर्धिका, शून्यताशून्यताग्राहस्योपशमयित्री न विवर्धिका, महाशून्यताग्राहस्योपशमयित्री न विवर्धिका, परमार्थशून्यताग्राहस्योपशमयित्री न विवर्धिका, संस्कृतशून्यताग्राहस्योपशमयित्री न विवर्धिका, असंस्कृतशून्यताग्राहस्योपशमयित्री न विवर्धिका, अत्यन्तशून्यताग्राहस्योपशमयित्री न विवर्धिका, अनवराग्रशून्यताग्राहस्योपशमयित्री न विवर्धिका, अनवकारशून्यताग्राहस्योपशमयित्री न विवर्धिका, प्रकृतिशून्यताग्राहस्योपशमयित्री न विवर्धिका, सर्वधर्मशून्यताग्राहस्योपशमयित्री ( श्स्प्_इइ-4_8 ) न विवर्धिका, स्वलक्षणशून्यताग्राहस्योपशमयित्री न विवर्धिका, अनुपलम्भशून्यताग्राहस्योपय्शमयित्री न विवर्धिका, अभावशून्यताग्राहस्योपशमयित्री न विवर्धिका, स्वभावशून्यताग्राहस्योपशमयित्री न विवर्धिका, अभावस्वभावशून्यताग्राहस्योपशमयित्री न विवर्धिका.
स्मृत्युपस्थानग्राहस्योपशमयित्री न विवर्धिका, सम्यक्प्रहाणग्राहस्योपशमयित्री न विवर्धिका, ऋद्धिपादग्राहस्योपशमयित्री न विवर्धिका, इन्द्रियग्राहस्योपशमयित्री न विवर्धिका, बलग्राहस्योपशमयित्री न विवर्धिका, बोध्यङ्गग्राहस्योपशमयित्री न विवर्धिका, आर्याष्टाङ्गमार्गग्राहस्योपशमयित्री न विवर्धिका, आर्यसत्यग्राहस्योपशमयित्री न विवर्धिका, ध्यानग्राहस्योपशमयित्री न विवर्धिका, अप्रमाणग्राहस्योपशमयित्री न विवर्धिका, आरूप्यसमापत्तिग्राहयोपशमयित्री न विवर्धिका, विमोक्षग्राहस्योपशमयित्री न विवर्धिका, अनुपूर्वविहारसमापत्तिग्राहस्योपशमयित्री न विवर्धिका, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अभिज्ञाग्राहस्योपशमयित्री न विवर्धिका, समाधिग्राहस्योपशमयित्री न विवर्धिका, धारणीमुखग्राहस्योपशमयित्री न विवर्धिका, तथागतबलग्राहस्योपशमयित्री न विवर्धिका, वैशारद्यग्राहस्योपसमयित्री न विवर्धिका, प्रतिसंविद्ग्राहस्योपशमयित्री न विवर्धिका, महामैत्रीग्राहस्योपशमयित्री न विवर्धिका, महाकरुणाग्राहस्योपशमयित्री न विवर्धिका, आवेणिकबुद्धधर्मग्राहस्योपशमयित्री न विवर्धिका, सर्वज्ञताग्राहस्योपशमयित्री न विवर्धिका, मार्गाकारज्ञताग्राहस्योपशमयित्री न विवर्धिका, सर्वाकारज्ञताग्राहस्योपशमयित्री न विवर्धिका, निर्वाणग्राहस्योपशमयित्री न विवर्धिका.
[क्. 172ब्20, न्. 331ब्1, त्. 269ब्4, प्. 165अ3, छ्. 561च्7]
एतेषां कौशिक सर्वेसां मारकायिकानां धर्माणाम् इयं प्रज्ञापारमितोपशमयित्री न विवर्धिका, यावन्त कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ चत्वारो महाराजानः शक्रश् च देवानाम् इन्द्रो ब्रह्मानश् च सहापतिः आभास्वरा देवाः शुभकृत्स्ना देवा बृहत्फला देवाः शुद्धावासो देवाः, ते सर्वे तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यन्ति, यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, योनिशश् च मनसिकरिष्यन्ति.

स पुनर् अकुशलेभयश् च धर्मेभ्यः परिहास्यते, कुशलैर् धर्मैर् ( श्स्प्_इइ-4_9 ) विवर्धिष्यते, यद् उत दानपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, शीलपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, क्षान्तिपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, वीर्यपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, ध्यानपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, प्रज्ञापारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन.
अध्यात्मशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, बहिर्धाशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, शून्यताशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, महाशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, परमार्थशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, संस्कृतशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, असंस्कृतशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अत्यन्तशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अनवराग्रशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अनवकारशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, प्रकृतिशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, सर्वधर्मशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, स्वलक्षणशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अनुपलम्भशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अभावशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, स्वभावशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अभावस्वभावशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन.

स्मृत्युपस्थानैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, सम्यक्प्रहाणैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, ऋद्धिपादैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, इन्द्रियैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, बलैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, बोध्यङ्गैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, आर्याष्टाङ्गेन मार्गेन विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, आर्यसत्यैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, ध्यानैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अप्रमाणैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, आरूप्यसमापत्तिभिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, विमोक्षैर् विवर्धिष्यते ( श्स्प्_इइ-4_10 ) न परिहास्यते ऽनुपलम्भयोगेन, अनुपूर्वविहारसमापत्तिभिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अभिज्ञाभिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, समाधिभिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, धारणीमुखैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, तथागतबलैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, वैशारद्यैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, प्रतिसंविद्भिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, महामैत्र्या विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, महाकरुणया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, आवेणिकबुद्धधर्मैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, सर्वज्ञतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, मार्गाकारज्ञतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, सर्वाकारज्ञतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन.
[क्. 173अ17, न्. 332ब्3, त्, 27ओअ12, प्. 167अ7, छ्. 562अ21]
स आदेयवचनश् च भविष्यति मितवचनस् च भविष्यति न च विकीर्णवचनो भविष्यति न क्रोधाभिभूतो भविष्यति, न मानाभिभूतो भविष्यति, न मत्सरो भविष्यति, नेर्ष्यालुको भविष्यति,
आत्मना च प्रणातिपातात् प्रतिविरतो भविष्यति, परांश् च प्राणातिपातवैरमण्यां समादापयति, प्राणातिपातवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये प्राणातिपातात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चादत्तादानात् प्रतिविरतो भविष्यति, परांश् चादत्तादानवैरमण्यां समादापयिष्यति. अदत्तादानवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये ऽदत्तादानात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च काममिथ्याचारात् प्रतिविरतो भविष्यति. परांश् च काममिथ्याचारवैरमण्यां समादापयिष्यति काममिथ्याचारविरमण्याश् च वर्णं भाषिष्यते, ये चान्ये काममिथ्याचारात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च मृषावादात् प्रतिविरतो भविष्यति. परांश् च मृषावादवैरमण्यां समादापयिष्यति मृषावादवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये मृषावादात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च पैशुन्यात् प्रतिविरतो भविष्यति, परांश् च पैशुन्यवैरमण्यां समादापयिष्यति, पैशुन्यवैरमण्याश् च वर्णं भाषिष्यति, ये चान्ये ( श्स्प्_इइ-4_11 ) पैशून्यात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च पारुष्यात् प्रतिविरतो भविष्यति, परांश् च पारुष्यवैरमण्यां समादायति, पारूष्यवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये पारुष्यात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च संभिन्नप्रलापात् प्रतिविरतो भविष्यति, परांश् च संभिन्नप्रलापवैरमण्यां समादापयिष्यति, संभिन्नप्रलापवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये संविन्नप्रलापात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाभिध्यायाः प्रतिविरतो भविष्यति, परांश् चाभिध्यावैरमण्यां समादापयिष्यति, अभिध्यावैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये ऽभिध्यायाः प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च व्यापादात् प्रतिविरतो भविष्यति, परांश् च व्यापादवैरमण्यां समादापयति, व्यापादवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये व्यापादात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च मिथ्यादृष्टेः प्रतिविरतो भविष्यति, परांश् च मिथ्यादृष्टिवैरमण्यां समादापयति, मिथ्यादृष्टिवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये मिथ्यादृष्टेः प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च दानपारमितायां वर्तिष्यते, परांश् च दानपारमितायां समादापयिष्यति, दानपारमितायाश् च वर्णं भाषिष्यते, ये चान्ये दानपारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च शीलपारमितायां वर्तिष्यते, परांश् च शीलपारमितायां समादापयिष्यति, शीलपारमितयाश् च वर्णं भाषिष्यते, ये चान्ये शीलपारमितायां वर्तिष्यन्ते , तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च क्षान्तिपारमितायां वर्तिष्यते, परांश् च क्षान्तिपारमितायां समादापयिष्यति, क्षान्तिपारमितायाश् च वर्णं भाषिष्यते, ये चान्ये क्षान्तिपारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च वीर्यपारमितायां वर्तिष्यते, परांश् च वीर्यपारमितायां समादापयिष्यति, वीर्यपारमितायाश् च वर्णं भाषिष्यते, ये चान्ये वीर्यपारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च ध्यानपारमितायां वर्तिष्यते, परांश् च ध्यानपारमितायां समादापयिष्यति, ध्यानपारमितायाश् च वर्णं भाषिष्यते, ये चान्ये ध्यानपारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, अत्मना च प्रज्ञापारमितायां वर्तिष्यते, परांश् च प्रैञापारमितायां ( श्स्प्_इइ-4_12 ) समादापयिष्यति, प्रज्ञापारमितायाश् च वर्णं भाषिष्यते, ये चान्ये प्रज्ञापारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः.

आत्मना चाध्यात्मशून्यतां भावयिष्यति, परांश् चाध्यात्मशून्यतायां समादापयिष्यति, अध्यात्मशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽध्यात्मशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च बहिर्धाशून्यतां भावयिष्यति, परांश् च बहिर्धाशून्यतायां समादापयिष्यति, बहिर्धाशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये बहिर्धाशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाध्यात्मबहिर्धाशून्यतां भावयिष्यति, परांश् चाध्यात्मबहिर्धाशून्यतायां समादापयिष्यति, अध्यात्मबहिर्धाशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽध्यात्मबहिर्धाशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च शून्यताशून्यतां भावयिष्यति, परांश् च शून्यताशून्यतायां समादापयिष्यति, शून्यताशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये शून्यताशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च महाशून्यतां भावयिष्यति, परांश् च महाशून्यतायां समादापयिष्यति, महाशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये महाशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च परमार्थशून्यतां भावयिष्यति, परांश् च परमार्थशून्यतायां समादापयिष्यति, परमार्थशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये परमार्थशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च संस्कृतशून्यतां भावयिष्यति, परांश् च संस्कृतशून्यतायां समादापयिष्यति, संस्कृतशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये संस्कृतशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चासंस्कृतशून्यतां भावयिष्यति, परांश् चासंस्कृतशून्यतायां समादापयिष्यति, असंस्कृतशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽसंस्कृतशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चात्यन्तशून्यतां भावयिष्यति, परांश् चात्यन्तशून्यतायां समादापयिष्यति, अत्यन्तशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽत्यन्तशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चानवराग्रशून्यतां भावयिष्यति, परांश् चानवराग्रशून्यतायां समादापयिष्यति, अनवराग्रशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽनवराग्रशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चानवकारशून्यतां भावयिष्यति, परांश् ( श्स्प्_इइ-4_13 ) चानवकारशून्यतायां समादापयिष्यति, अनवकारशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽनवकारशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः, आत्मना च प्रकृतिशून्यतां भावयिष्यति, परांश् च प्रकृतिशून्यतायां समादापयिष्यति, प्रकृतिशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये प्रकृतिशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सर्वधर्मशून्यतां भावयिष्यति, परांश् च सर्वधर्मशून्यतायां समादापयिष्यति, सर्वधर्मशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये सर्वधर्मशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च स्वलक्षणशून्यतां भावयिष्यति, परांश् च स्वलक्षणशून्यतायां समादापयिष्यति, स्वलक्षणशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये स्वलक्षणशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः, आत्मना चानुपलम्भशून्यतां भावयिष्यति, परांश् चानुपलम्भशून्यतायां समादापयिष्यति, अनुपलम्भशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽनुपलम्भशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाभावशून्यतां भावयिष्यति, परांश् चाभावशून्यतायां समादापयिष्यति, अभावशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽभावशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च स्वभावशून्यतां भावयिष्यति, परांश् च स्वभावशून्यतायां समादापयिष्यति, स्वभावशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये स्वभावशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाभावस्वभावशून्यतां भावयिष्यति, परांश् चाभावस्वभावशून्यतायां समादापयिष्यति, अभावस्वभावशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽभावस्वभावशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
[क्. 174अ11, न्. 334ब्7, त्. 272अ5, प्. 170ब्1, छ्. 564अ17]
आत्मना च सर्वसमाधीन् समापत्स्यते परांश् च सर्वसमाधिसमापत्तौ समादापयिष्यति, सर्वसमाधिसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये सर्वसमाधीन् समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च धारणीप्रतिलब्धो भाविष्यति, परांश् च धारणीप्रतिलम्भाय समादापयिष्यति, धारणीप्रतिलम्भस्य च वर्णं भाषिष्यते, ये चान्ये धारणीप्रतिलम्भा भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च प्रथमं ध्यानं समापत्स्यते, परांश् च प्रथमे ( श्स्प्_इइ-4_14 ) ध्याने समादापयिष्यति, प्रथमध्यानस्य च वर्णं भाषिष्यते, ये चान्ये प्रथमं ध्यानं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च द्वितीयं ध्यानं समापत्स्यते, परांश् च द्वितीये ध्याने समादापयिष्यति, द्वितीयध्यानस्य च वर्णं भाषिष्यते, ये चान्ये द्वितीयं ध्यानं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च तृतीयं ध्यानं समापत्स्यते, परांश् च तृतीये ध्याने समादापयिष्यति, तृतीयध्यानस्य च वर्णं भाषिष्यते, ये चान्ये तृतीयं ध्यानं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च चतुर्थं ध्यानं समापत्स्यते, परांश् च चतुर्थे ध्याने समादापयिष्यति, चतुर्थध्यानस्य च वर्णं भाषिष्यते, ये चान्ये चतुर्थं ध्यानं समापत्स्यते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च मैत्री समापत्स्यते, परांश् च मैत्रीसमापत्तौ समादापयिष्यति, मैत्रीसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये महामैत्री समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च करुणा समापत्स्यते, परांश् च करुणायां समादापयिष्यति, करुणासमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये करुणा समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च मुदितां समापत्स्यते, परांश् च मुदितासमापत्तौ समादापयिष्यति, मुदितासमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये मुदितां समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चोपेक्षां समापत्स्यते, परांश् चोपेक्षासमापत्तौ समादापयिष्यति, उपेक्षासमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये उपेक्षां समापत्स्यते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.

आत्मना चाकाशानन्त्यायतनसमापत्तिं समापत्स्यते, परांश् चाकाशानन्त्यायतनसमापत्तौ समादापयिष्यति, आकाशानन्त्यायतनसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये आकाशानन्त्यायतनं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च विज्ञानानन्त्यायतनसमापत्तिं समापत्स्यते, परांश् च विज्ञानानन्त्यायतनसमापत्तौ समादापयिष्यति, विज्ञानानन्त्यायतनसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये विज्ञानानन्त्यायतनं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाकिञ्चन्यायतनसमापत्तिं समापत्स्यते, परांश् चाकिञ्चन्यायतनसमापत्तौ समादापयिष्यति, आकिञ्चन्यायतनसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये आकिञ्चन्यायतनसमापत्तिं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति ( श्स्प्_इइ-4_15 ) समनुज्ञः, आत्मना च नैवसंज्ञानासंज्ञायतनसमापत्तिं समापत्स्यते, परांश् च नैवसंज्ञानासंज्ञायतनसमापत्तौ समादापयिष्यति, नैवसंज्ञानासंज्ञायतनसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये नैवसंज्ञानासंज्ञायतनसमापत्तिं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
आत्मना च चत्वारि स्मृत्युपस्थानानि भावयिष्यति, परांश् च स्मृत्युपस्थानभावनतायां समादापयिष्यति, स्मृत्युपस्थानभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये स्मृत्युपस्थानानि भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सम्यक्प्रहाणानि भावयिष्यति, परांश् च सम्यक्प्रहाणभावनतायां समादापयिष्यति, सम्यक्प्रहाणभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये सम्यक्प्रहाणानि भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च चतुर ऋद्धिपादान् भावयिष्यति, परांश् च ऋद्धिपादभावनतायां समादापयिष्यति, ऋद्धिपादभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये ऋद्धिपादान् भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च पञ्चेन्द्रियाणि भावयिष्यति, परांश् च पञ्चेन्द्रियभावनतायां समादापयिष्यति, पञ्चेन्द्रियभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये पञ्चेन्द्रियाणि भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च पञ्चबलानि भावयिष्यति, परांश् च बलभावनतायां समादापयिष्यति, बलभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये बलानि भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सप्तबोध्यङ्गानि भावयिष्यति, परांश् च सप्तबोध्यङ्गभावनतायां समादापयिष्यति, बोध्यङ्गभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये सप्तबोध्यङ्गानि भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चार्याष्टङ्गमार्गं भावयिष्यति, परांश् चार्याष्टाङ्गमार्गभावनायां समादापयिष्यति, आर्याष्टाङ्गमार्गभावनायाश् च वर्णं भाषिष्यते, ये चान्ये आर्याष्टाङ्गमार्गं भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च शून्यतानिमित्ताप्रणिहितान् समाधीन् भावयिष्यति, परांश् च शून्यतानिमित्ताप्रणिहितेषु समादापयिष्यति, शून्यतानिमित्ताप्रणिहितसमाधीनां वर्णं भाषिष्यते, ये चान्ये शून्यतानिमित्ताप्रणिहितसमाधीन् भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाष्टौ विमोक्षान् अनुलोमप्रतिलोमं ( श्स्प्_इइ-4_16 ) समापत्स्यते, परांश् चाष्टविमोक्षेषु समादापयिष्यति, चाष्टानां विमोक्षाणां वर्णं भाषिष्यते, ये चान्ये ऽष्टौ विमोक्षान् अनुलोमप्रतिलोमं समापत्स्यते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च नवानुपूर्वविहारसमापत्तीः समापत्स्यन्ते, परांश् च नवानुपूर्वविहारसमापत्तिषु समादापयिष्यति, अनुपूर्वविहारसमापत्तिनां वर्णं भाषिष्यते, ये चान्ये ऽनुपूर्वविहारसमापत्तीः समापत्स्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च दशतथागतबलानि समापत्स्यते, परांश् च दशतथागतबलेषु समादापयिष्यति, दशानां तथागतबलानां वर्णं भाषिष्यते, ये चान्ये दशतथागतबलानि समापत्स्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च चत्वारि वैशारद्यानि भावयिष्यति, परांश् च वैशारद्येषु समादापयिष्यति, वैशारद्यानां वर्णं भाषिष्यते, ये चान्ये वैशारद्यानि भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च चतस्रः प्रतिसंविदो भावयिष्यति, परांश् च प्रतिसंविद्भावनायां समादापयिष्यति, प्रतिसंविद्भावनायाश् च वर्णं भाषिष्यते, ये चान्ये प्रतिसंविदो भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च महामैत्रीं समापत्स्यते, परांश् च महामैत्रीसमापत्तौ समादापयिष्यति, महामैत्रीसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये महामैत्रीं भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च महाकरुणां भावयिष्यति, परांश् च महाकरुणायां समादापयिष्यति, महाकरुणायाश् च वर्णं भाषिष्यते, ये चान्ये महाकरुणां भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चावेणिकबुद्धधर्मान् निष्पादयिष्यति, परांश् चावेणिकबुद्धधर्मनिष्पत्तौ समादापयिष्यति, आवेणिकबुद्धधर्मनिष्पत्तेश् च वर्णं भाषिष्यते, ये चान्ये आवेणिकबुद्धधर्मान् निष्पादयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चासंप्रमोषधर्मा भविष्यति, परांश् चासंप्रमोषधर्मतायां समादापयिष्यति, असंप्रमोषधर्मतायाश् च वर्णं भाषिष्यते, ये चान्ये असंप्रमोषधर्माणो भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सदोपेक्षाविहारी भविष्यति, परांश् च सदोपेक्षाविहारितायां समादापयिष्यति, सदोपेक्षाविहारितायाश् च वर्णं भाषिष्यते, ये चान्ये सदोपेक्षाविहारिणो भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च मार्गाकारज्ञतां परिपूरयिष्यति, परांश् च
मार्गाकारज्ञतापरिपूर्यां समादापयिष्यति, मार्गाकारज्ञतापरिपूर्याश् च वर्णं भाषिष्यते, ये चान्ये मार्गाकारज्ञतां ( श्स्प्_इइ-4_17 ) परिपूरयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सर्वाकारज्ञतां प्रतिलप्स्यते, परांश् च सर्वाकारज्ञता प्रतिलम्भाय समादापयिष्यति, सर्वाकारज्ञताप्रतिलम्भस्य च वर्णं भाषिष्यते, ये चान्ये सर्वाकारज्ञतां प्रतिलप्स्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.
[क्. 175अ5, न्. 336ब्9, त्. 273ब्8, प्. 174अ1, छ्. 564अ26]

स षट्सु पारमितासु चरन् यद् दानं दास्यति तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यच् छीलं रक्षिष्यति तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यां क्षान्तिं भावयिष्यति तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यद् वीर्यं आरप्स्यते तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यद् ध्यानं समापद्यते तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यां प्रज्ञां भावयिष्यति तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन.
एवं चरतः कुलपुत्रस्य वा कुलदुहितुर् वा षट्सु पारमितासु स्मृतिर् उत्पत्स्यते, सचेद् दानं न दास्यामि दुर्गतेषु कुलेषूपपत्स्य न च मे सत्त्वपरिपाको भविष्यति न बुद्धक्षेत्रपरिशोधनं न सर्वाकारज्ञतां प्रतिलप्स्ये, सचेत् छीलं न रक्षिष्यामि तिसृषु मे दुर्गतीषूपपत्तिर् भविष्यति, न च मे मनुष्यप्रतिलम्भो भविष्यति, न सत्त्वपरिपाको न बुद्धक्षेत्रपरिशोधनं न सर्वाकारज्ञतां प्रतिलप्स्ये, सचेन् न क्षान्तिं भावयिष्यामि, इन्द्रियाणि मे परिभेत्स्यते मुखमण्डलं मे ध्यामीभविष्यति, न च रूपसंपदं प्रतिलप्स्ये, यया रूपसंपदया बोधिसत्त्वचारिकाः चरतः सत्त्वसहदर्शने नैव नियता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ न च रूपसंपदा सत्त्वान् परिपाचयिष्यामि न बुद्धक्षेत्रं परिशोधयिष्यामि न मार्गाकारज्ञतां प्रतिलप्स्ये, सचेत् कुसीदो भविष्यति नेमं शक्ष्यामि बोधिमार्गम् अनुप्राप्तं न च मे सत्त्वपरिपाको भविष्यति, न बुद्धक्षेत्रं परिशोधनं न सर्वाकारज्ञतं प्रतिलप्स्ये, सचेद् विक्षिप्तचित्तो भविष्यामि नेदं शक्स्यामि समाधिम् उत्पादयितुं येन समाधिना सत्त्वान् परिपाचयिष्यामि न मे बुद्धक्षेत्रपरिशोधनं भविष्यामि न सर्वाकारज्ञताम् अनुप्राप्स्ये, सचेद् ( श्स्प्_इइ-4_18 ) दुष्प्रज्ञो भविष्यामि न शक्ष्यामि प्रज्ञोपायकौशलेन श्रावकभूमिप्रत्येकबुद्धभूमिं चातिक्रम्य सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य सर्वाकारज्ञताम् अनुप्राप्तुं, स एवं प्रतिसंशिक्षिष्यते, अयुक्तम् एतद् भवेद् यो मां मात्सर्यवशेन दानपारमितां न परिपूरयेयं दौःशील्यवशेन शीलपारमितां न परिपूरयेयं व्यापदवशेन क्षान्तिपारमितां न परिपूरयेयं कौशीद्यवशेन वीर्यपारमितां न परिपूरयेयं विक्षेपवशेन ध्यानपारमितां न परिपूरयेयं दौष्प्रज्ञावशेन प्रज्ञापारमितां न परिपूरयेयं, अपरिपूरयन् दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां न निर्यास्यामि सर्वाकारज्ञतायाम्.
एवं खलु कौशिक स कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकांश् च सांपरायिकांश् च गुणानुशंसान् प्रतिलप्स्यते, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च भविष्यति सर्वाकारज्ञताचित्तेन.
[क्. 175अ18, न्. 337ब्6, त्. 274अ11, प्. 175अ8, छ्. 564च्23]
शक्र आह: आश्चर्यं भगवन् यावद् इयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता.
भगवान् आह: यथा पुनः कौशिक बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितापरिदमनार्थायानुन्नमार्थाय च प्रत्युपस्थिता.
शक्र आह: इह भगवन् बोधिसत्त्वो महासत्त्वो लौकिक्यां दानपारमितायां चरन् बुद्धेभ्यो भगवद्भ्यः प्रत्येकबुद्धेभ्यः श्रावकेभ्यश् च दानं ददाति, तस्यैवं भवत्य् अहं दानं ददामि बुद्धेभ्यो भगवद्भ्यः प्रत्येकबुद्धेभ्यः श्रावकेभ्यश् च स कृपणवनीयकार्थेन याचनकेभ्यश् च स तेन दानेनानुपायकौशलेनोन्नामं गच्छति, लौकिक्यां शीलपारमितायां चरतः, एवं भवत्य् अहं शीलपारमितायां चराम्य् अहं शीलपारमितां परिपूरयामि स तेनोन्नामं गच्छति, लौकिक्यां क्षान्तिपारमितायां चरतः, एवं भवत्य् अहं क्षान्तिपारमितायां चराम्य् अहं क्षान्तिपारमितां परिपूरयामि स तेनोन्नामं गच्छति, लौकिक्यां वीर्यपारमितायां चरतः, एवं भवत्य् अहं वीर्यपारमितायां चराम्य् अहं वीर्यपारमितां परिपूरयामि स तेनोन्नामं गच्छति, लौकिक्यां ध्यानपारमितायां चरतः. एवं भवत्य् अहं ध्यानपारमितायां चराम्य् अहं ध्यानपारमितां परिपूरयामि स तेनोन्नामं गच्छति, लौकिक्यां प्रज्ञापारमितायां ( श्स्प्_इइ-4_19 ) चरतः, एवं भवत्य् अहं प्रज्ञापारमितायां चराम्य् अहं प्रज्ञापारमितां परिपूरयामि अहं प्रज्ञापारमितां भावयामि, सो ऽनया प्रज्ञापारमितयानुपायकौशलेनोन्नामं गच्छति.
स्मृत्युपस्थानानि भावयेत्, एवं भवत्य् अहं स्मृत्युपस्थानानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, सम्यक्प्रहाणानि भावयेत्, एवं भवत्य् अहं सम्यक्प्रहाणानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, ऋद्धिपादान् भावयेत्, एवं भवत्य् अहम् ऋद्धिपादान् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, इन्द्रियाणि भावयेत्, एवं भवत्य् अहम् इन्द्रियाणि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, बलानि भावयेत्, एवं भवत्य् अहं बलानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, बोध्यङ्गानि भावयेत्, एवं भवत्य् अहं बोध्यङ्गानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, आर्याष्टाङ्गमार्गं भावयेत्, एवं भवत्य् अहम् आर्याष्टाङ्गमार्गं भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, आर्यसत्यानि भावयेत्, एवं भवत्य् अहम् आर्यसत्यां भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, ध्यानानि भावयेत्, एवं भवत्य् अहं ध्यानानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, अप्रमाणानि भावयेत्, एवं भवत्य् अहम् अप्रमाणानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, आरूप्यसमापत्तीर् भावयेत्, एवं भवत्य् अहम् आरूप्यसमापत्तिर् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, विमोक्षान् भावयेत्, एवं भवत्य् अहम् आरूप्यसमापत्तीर् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, अनुपूर्वविहारसमापत्तीर् भावयेत्, एवं भवत्य् अहम् अनुपूर्वविहारसमापत्तीर् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयेत्, एवं भवत्य् अहं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, अभिज्ञां भावयेत्, एवं भवत्य् अहम् अभिज्ञां भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, समाधीन् भावयेत्, एवं भवत्य् अहं समाधीन् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति.

तस्यैवं भवत्य् अहं सर्वधारणीः प्रतिलप्स्ये स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं दशतथागतबलानि भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं ( श्स्प्_इइ-4_20 ) भवत्य् अहं चत्वारि वैशारद्यानि भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं चतस्रः प्रतिसंविदा भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं महाकरुणां भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहम् अष्टादशावेणिकबुद्धधर्मान् भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं सत्त्वान् परिपाचयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं बुद्धक्षेत्रं परिशोधयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं सर्वाकारज्ञताम् अनुप्राप्स्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति.
एवं खलु भगवन् बोधिसत्त्वो महासत्त्वो लौकिकेषु धर्मेषु चरन् उन्नामं गच्छत्य् अहंकाराभिनिवेशेन तस्य प्रज्ञापारमिता परिदमनार्थाय नानुन्नामार्थाय प्रत्युपस्थिता भवति.
[क्. 175ब्16, न्. 338ब्8, त्. 275अ6, प्. 177ब्4, छ्. 566ब्9]
इह पुनर् भगवन् बोधिसत्त्वो महासत्त्वो लोकोत्तरायां दानपारमितायां चरन् प्रज्ञापारमितासुभावितत्वान् न दायकम् उपलभते न दानम् उपलभते न प्रतिग्राहकम् उपलभते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां चरतः प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्ह्तिता भवति,
स लोकोत्तरायां शीलपारमितायां चरन् प्रज्ञापारमितासुभावितत्वाच् छीलं नोपलभ्यते शीलं नोपलभ्यते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति,
स लोकोत्तरायां क्षान्तिपारमितायां चरन् प्रज्ञापारमितासुभावितत्वात् क्षान्तिं नोपलभ्यते क्षान्तिं नोपलभ्यते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतः प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति,
स लोकोत्तरायां वीर्यपारमितायां चरन् प्रज्ञापारमितासुभावितत्वाद् वीर्यं नोपलभ्यते वीर्यवं तं नोपलभते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः प्रज्ञापारमितापरिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति,
स लोकोत्तरायां ध्यानपारमितायां चरन् प्रज्ञापारमिता सुभावितत्वाद् ध्यानं नोपलभते ध्यानं नोपलभते. एवं खलु भगवन् ( श्स्प्_इइ-4_21 ) बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतः प्रज्ञापारमितापरिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति,
स लोकोत्तरायां प्रज्ञापारमितायां चरन् प्रज्ञापारमितासुभावितत्वात् प्रज्ञां नोपलभते प्रज्ञां नोपलभते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति.
स स्मृत्युपस्थानानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स सम्यक्प्रहाणानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स ऋद्धिपादान् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स इन्द्रियाणि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स बलानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स बोध्यङ्गानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स आर्याष्टाङ्गमार्गं भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति. स आर्यसत्यानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स ध्यानानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, सो ऽप्रमाणानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स आरूप्यसमापत्तीर् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स विमोक्षा भावयति न चोपलभते प्रज्ञापारमितासु भावितत्वात्, सो ऽनुपूर्वविहारसमापत्तीर् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, सो ऽभिज्ञां भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स समाधीन् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स धारणीमुखानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति.
स तथागतबलानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स वैशारद्यानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स प्रतिसंविदो भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स महामैत्रीं भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स महाकरुणा भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स आवेणिकबुद्धधर्मान् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्. ( श्स्प्_इइ-4_22 ) एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्या प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति.
स सर्वज्ञता भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स मार्गाकारज्ञता भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स सर्वाकारज्ञता भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति.
शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तः सप्तदशमः
[क्. 176अ17, न्. 339ब्2, त्. 275ब्13, प्. 179ब्6, छ्. 568अ18]

अथ खलु भगवाञ् छक्रो देवानाम् इन्द्रम् एतद् अवोचत्: यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति स्वाध्यापयिष्यति, योनिशश् च मनसिकरिष्यति, अभिरूढो संग्राममध्ये वर्तमाने महति संग्रामशीर्षव्यारूढः, तत्र सचेत् कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां स्वाध्यायन्न् अवतरेत्, तत्रावतीर्य तिष्ठेत नासौ कुलपुत्रो वा कुलदुहिता या पराजयं यास्यति, जय एवास्य भविष्यत्य् अक्षतश् चानुपहतश् च तं संग्रामम् उत्तरिष्यति, अस्थानं कौशिकानवकाशो यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायंस् तत्र संग्रामे समभिरूढो जीवितान्तरायं निगच्छेन् नेदं स्थानं विद्यते, सचेत् पुनर् अस्य कश्चिद् एव शस्त्रं वा काण्डं वा शरीरे क्षिपेत् न तस्य शरीरे पतिष्यति. तत् कस्य हेतोः? तथा हि तेन कुलपुत्रेण वा कुलदुहिता वा दीर्घरात्रं षट्सु पारमितासु चरता, आत्मनश् च रागशस्त्राणि रागकाण्डानि निर्जितानि परेषां रागशस्त्राणि रागकाण्डाणि निर्जितानि, आत्मनश् च द्वेषशस्त्राणि द्वेषकाण्डाणि निर्जितानि परेषां द्वेषशस्त्राणि द्वेषकाण्डानि निर्जितानि, आत्मनश् च मोहशस्त्राणि मोहकाण्डाणि निर्जितानि परेषां मोहशस्त्राणि मोहकाण्डानि निर्जितानि, आत्मनश् च दृष्टिकृतशस्त्राणि दृष्टिकृतकाण्डाणि निर्जितानि परेषां च दृष्टिकृतशस्त्राणि दृष्टिकृतकाण्डानि निर्जितानि, आत्मनश् च पर्युत्थानशस्त्राणि पर्युत्थानकाण्डाणि निर्जितानि परेषां च पर्युत्थानशस्त्राणि पर्युत्थानकाण्डानि निर्जितानि, आत्मनश् चानुशयशस्त्राण्य् अनुशयकाण्डाणि निर्जितानि परेषां चानुशयशस्त्राण्य् अनुशयकाण्डानि निर्जितानि, इमाम् एव प्रज्ञापारमिताम् आगम्य तां च प्रज्ञापारमितां भावयतां, अनेन कौशिक पर्यायेण तस्य कुलपुत्रस्य वा कुलदुहितुर् वा संग्राममध्यगतस्य शस्त्राणि वा काण्डानि वा क्षिप्तानि शरीरे न निपतिष्यति.
पुनर् अपरं कौशिक सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, सर्वज्ञताचित्तेन चाविरहितो भविष्यति. तस्य कश्चिद् अभैषज्यम् अवकिरेत् काखोर्दं वा कुर्याद् अग्निखदा चोपनामयेत्, शस्त्रेण वा दद्याद् विषं वा दद्याद् उदके चैनं छोरयेत् सर्वं तत् तस्य न क्रमिष्यति. तत् कस्य हेतोः? महाविद्येयं कौशिक विद्या यद् उत प्रज्ञापारमिता अनुत्तरेयं कौशिक विद्या यद् उत प्रज्ञापारमिता, ( श्स्प्_इइ-4_24 ) निरुत्तरेयं कौशिक विद्या यद् उत प्रज्ञापारमिता, अत्र च विद्यायां शिक्षमाणेः कुलपुत्रो वा कुलदुहिता वा नात्मव्याबाधाय चेतयते न परव्याबाधाय चेतयते नोभयव्याबाधाय चेतयते. तत् कस्य हेतोः? तथा हि सो ऽत्र शिक्षमाणो नात्मानम् उपलभते न सत्त्वम् उपलभते न जीवम् उपलभते न जन्तुम् उपलभते न पोषम् उपलभते न पुरुषम् उपलभते न पुद्गलम् उपलभते न मनुजम् उपलभते न मानवम् उपलभते न कारकम् उपलभते न वेदकं उपलभते न जानकम् उपलभते न पश्यकम् उपलभते.
न रूपम् उपलभते, न वेदनाम् उपलभते, न संज्ञाम् उपलभते, न संस्कारान् उपलभते, न विज्ञानम् उपलभते.
न चक्षुर् उपलभते, न श्रोत्रम् उपलभते, न घ्राणम् उपलभते, न जिह्वाम् उपलभते, न कायम् उपलभते, न मन उपलभते.

न रूपम् उपलभते, न शब्दम् उपलभते, न गन्धम् उपलभते, न रसम् उपलभते, न स्पर्शम् उपलभते, न धर्मान् उपलभते.
न चक्षुर्विज्ञानम् उपलभते, न श्रोत्रविज्ञानम् उपलभते, न घ्राणविज्ञानम् उपलभते, न जिह्वाविज्ञानम् उपलभते, न कायविज्ञानम् उपलभते, न मनोविज्ञानम् उपलभते.
न चक्षुःसंस्पर्शम् उपलभते, न श्रोत्रसंस्पर्शम् उपलभते, न घ्राणसंस्पर्शम् उपलभते, न जिह्वासंस्पर्शम् उपलभते, न कायसंस्पर्शम् उपलभते, न मनःसंस्पर्शम् उपलभते.
न चक्षुःसंस्पर्शजां वेदनाम् उपलभते, न श्रोत्रसंस्पर्शजां वेदनाम् उपलभते, न घ्राणसंस्पर्शजां वेदनाम् उपलभते, न जिह्वासंस्पर्शजां वेदनाम् उपलभते, न कायसंस्पर्शजां वेदनाम् उपलभते, न मनःसंस्पर्शजां वेदनाम् उपलभते.
न पृथिवीधातुम् उपलभते, नाब्धातुम् उपलभते, न तेजोधातुम् उपलभते, न वायुधातुम् उपलभते, नाकाशधातुम् उपलभते, न विज्ञानधातुम् उपलभते.
नाविद्याम् उपलभते, न संस्कारान् उपलभते, न विज्ञानम् उपलभते, न नामरूपम् उपलभते, न षडायतनम् उपलभते, न स्पर्शम् उपलभते, न वेदनाम् उपलभते, न तृष्णाम् उपलभते, नोपादानम् उपलभते, न भवम् उपलभते, न जातिम् उपलभते, न जरामरणम् उपलभते.
न दानपारमिताम् उपलभते, न शीलपारमिताम् उपलभते, न क्षान्तिपारमिताम् उपलभते, न वीर्यपारमिताम् उपलभते, न ध्यानपारमिताम् ( श्स्प्_इइ-4_25 ) उपलभते, न प्रज्ञापारमिताम् उपलभते.
नाध्यात्मशून्यताम् उपलभते, न बहिर्धाशून्यताम् उपलभते, नाध्यात्मबहिर्धाशून्यताम् उपलभते, न शून्यताशून्यताम् उपलभते, न महाशून्यताम् उपलभते, न परमार्थशून्यताम् उपलभते, न संस्कृतशून्यताम् उपलभते, नासंस्कृतशून्यताम् उपलभते, नात्यन्तशून्यताम् उपलभते, नानवराग्रशून्यताम् उपलभते, नानवकारशून्यताम् उपलभते, न प्रकृतिशून्यताम् उपलभते, न सर्वधर्मशून्यताम् उपलभते, न स्वलक्षणशून्यताम् उपलभते, नानुपलम्भशून्यताम् उपलभते, नाभावशून्यताम् उपलभते. न स्वभावशून्यताम् उपलभते, नाभावस्वभावशून्यताम् उपलभते.
न स्मृत्युपस्थानान्य् उपलभते, न सम्यक्प्रहाणान्य् उपलभते, न ऋद्धिपादान् उपलभते, नेन्द्रियाण्य् उपलभते, न बलान्य् उपलभते, न बोध्यङ्गान्य् उपलभते, नार्याष्टाङ्गमार्गम् उपलभते, नार्यसत्यान्य् उपलभते, न ध्यानान्य् उपलभते, नाप्रमाणान्य् उपलभते, न आरूप्यसमापत्तीर् उपलभते, न विमोक्षान् उपलभते, नानुपूर्वविहारसमापत्तीर् उपलभते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् उपलभते, नाभिज्ञा उपलभते, न समाधीन् उपलभते, न धारणीमुखान्य् उपलभते, न तथागतबलान्य् उपलभते, न वैशारद्यान्य् उपलभते, न प्रतिसंविद उपलभते, न महामैत्रीम् उपलभते, न महाकरुणाम् उपलभते, नावेणिकबुद्धधर्मान् उपलभते.
न स्रोतआपत्तिफलम् उपलभते, न सकृदागामिफलम् उपलभते, नानागामिफलम् उपलभते, नार्हत्त्वम् उपलभते, न प्रत्येकबोधिम् उपलभते, न मार्गाकारज्ञताम् उपलभते, न सर्वाकारज्ञताम् उपलभते.
अनुपलम्भमानो नात्मव्याबाधाय चेतयते न परव्याबाधाय चेतयते नोभयव्याबाधाय चेतयते, अनुत्तरां सम्यक्संबोधिं प्रतिलभते, सर्वसत्त्वानां चित्तानि व्यवलोकयति. तत् कस्य हेतोः? अत्र विद्यायां शिक्षमाणैर् अतीतैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरां सम्यक्संबोधिर् अभिसंबुद्धा, ये ऽपि ते भविष्यत्य् अनागते ऽध्वनि तथागतार्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्र विद्यायां शिक्षमाणा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, ये ऽपि ते एतर्हि प्रत्युत्पन्ने ऽध्वनि दशसु दिक्ष्व् अप्रमेयासंख्येयास् तथागता अर्हन्तः सम्यक्संबुद्धाः, ते ऽप्य् अत्रैव विद्यायां शिक्षमाणा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.
[क्. 177अ6, न्. 341अ8, त्. 277अ4, प्. 182ब्1, छ्. 570अ21]

पुनर् अपरं कौशिक यत्रेमां प्रज्ञापारमितां लिखित्वा धारयिष्यते उद्गृहीष्यति न स्वाध्यापयिष्यति न वाचयिष्यति न पर्यवाप्स्यते न योनिशो मनसिकरिष्यति, न पुनर् तत्र गृहे वा ग्रामे वा नगरे वा मनुष्यो वा अमनुष्यो वावतारप्रेक्षावतारं लप्स्यते. तत् कस्य हेतोः? तथा ह्य् अस्या एव प्रज्ञापारमितायाः पूजार्थाय ये त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा देवपुत्रा यामा देवपुत्राः तुषिता देवपुत्रा निर्माणरतयो देवपुत्राः परनिर्मितवसवर्तिनो देवपुत्रा ब्रह्मकायिका देवपुत्रा ब्रह्मपुरोहिता देवपुत्रा ब्रह्मपार्षद्या देवपुत्रा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवाः अप्रमाणाभा देवा आभास्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवा ये ऽप्य् अप्रमेयासंख्येयेषु लोकधातुषु चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा देवपुत्राः यामा देवपुत्रास् तुषिता देवपुत्रा निर्माणरतयो देवपुत्राः परनिर्मितवशवर्तिनो देवपुत्रा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवास् तेषां कुलपुत्राणां कुलदुहितॄणां च सततसमितं रक्षावरणगुप्तिं संविधास्यन्ति, ये इमां प्रज्ञापारमितां लिखित्वा धारयिष्यति, ते च देवपुत्रा आगत्यैनां प्रज्ञापारमितां सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा गमिष्यन्ति, यः कश्चित् कौशिक इमां प्रज्ञापारमितां लिखित्वा धारयिष्यति तस्येमे दृष्टधार्मिका गुणानुशंसा भविष्यन्ति. तद् यथापि नाम कौशिक ये केचिद् बोधिमण्डे गता बोधिमण्डस्य च परिसामन्तगते न बोधिमण्डस्य चाभ्यन्तरे तिर्यग्योनिगताः प्राणिना मनुष्यभूता वा न ते शक्यन्ते मनुष्येण वा अमनुष्येण वा विहेठयितुं वा विहिंसयितुं वा. तत् कस्य हेतोः? अत्र हि निषद्य तैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा. ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्रैव निषद्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, ये ऽपि ते एतर्हि दशसु दिक्षु ( श्स्प्_इइ-4_27 ) लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ते ऽप्य् अत्रैव निषद्यानुत्तरां सम्यक्संबोधिर् अभिसंबुद्धाः. तैः सर्वतथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सर्वसत्त्वानाम् अभयायावैरायासपन्नाय प्रतिपद्याप्रमेयासंख्येयाः सत्त्वा देवमानुषीषु संपत्तिषु प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, स्रोतआपत्तिफले प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, सकृदागामिफले प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, अनागामिफले प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, अर्हत्त्वे प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, प्रत्येकबोधौ प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च. तत् कस्य हेतोः? अनयैव कौशिक प्रज्ञापारमितया स पृथिवीप्रदेशे सर्वसत्त्वानां चैत्यभूतः कृतो वन्दनीयो नमस्करणीयो माननीयः पूजनीयः सत्करणीयो गुरुकरणीयः पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः.
[क्. 177ब्1, न्. 342अ6, त्. 277ब्5, प्. 184अ1, छ्. 570च्16]
शक्र आह: यो हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा, इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा धारय तां च पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद्, यश् च तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सप्तरत्नमयस्तूपे तथागतशरीरानि प्रतिष्ठापयेत् परिहरेद् वा सप्तरत्नमये समुद्गते कृत्वा तानि च सत्कुर्याद् गुरुकुराद् मानयेत् पूजयेत् पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः, कतरस् तयोर् बहुतरं पुण्यस्कन्धं प्रसवेत्?
भगवान् आह: तेन हि कौशिक त्वाम् एवात्र परिप्रक्ष्यामि, यथा ते क्षमते तथा व्याकुरु. तत् किं मन्यसे? कौशिक येयं तथागतेनार्हता सम्यक्संबुद्धेन सर्वाकारज्ञता अनुप्राप्ता यश् चायम् आत्मभावो ऽभिनिवर्तितः. कतमस्यां प्रतिपति शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेन सर्वाकारज्ञतानुप्राप्ता अयं चात्मभावो ऽभिनिवर्तितः.
शक्र आह: इहैव भगवन् प्रज्ञापारमितायां शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेन सर्वाकारज्ञता अनुप्राप्ता अयं चात्मभावो ऽभिनिवर्तितः.

भगवान् आह: एवम् एतत् कौशिक एवम् एतत्, अत्र मया प्रज्ञापारमितायां ( श्स्प्_इइ-4_28 ) शिक्षमाणेन सर्वाकारज्ञता अनुप्राप्ता अयं चात्मभावो ऽभिनिवर्तितः, नानेन कौशिकात्मभावशरीरप्रतिलभेन, तथागतस् तथागत इति संख्यागच्छति. सर्वाकारज्ञताप्रतिलम्भेन तु तथागतस् तथागत इति. संख्यां गच्छति, येयं कौशिक सर्वाकारज्ञता सा प्रज्ञापारमिता निर्याता, एवम् अयं कौशिकात्मभावस् तस्य सर्वाकरज्ञताज्ञानस्याश्रयभूत इमं चाश्रयं निश्रित्य तथागतेनार्हता सम्यक्संबुद्धेन सर्वाकारज्ञता अनुप्राप्ता एवं तस्य सर्वाकारज्ञताज्ञानस्यायम् आत्मभाव आश्रयभूतसर्वसत्त्वानां चैत्यभूतो वन्दनीयो माननीयो पूजनीयः सत्करणीयो गुरुकरणीयः संवृतः परिनिवृतस्यापि च कौशिक शरीरान्य् एवं शरीरपूजा भविष्यति, न त्व् अन्यथधर्मपूजाः यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः सर्वाकारज्ञताज्ञानस्य तेन पूजाकृतो भविष्यति. तस्मात् तर्हि कौशिक श्राद्धेन कुलपुत्रेण वा कुलदुहित्रा वा तथागतं पूजयितुकामेन इयम् एव प्रज्ञापारमिता लिखित्वोद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्या, सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्याः पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः यश् च कौशिक तथागतस्य परिनिर्वृतस्य सप्तरत्नमयस्तूपैः शरीरं प्रतिष्ठापयेत्, सप्तरत्नमये वा समुगते कृत्वा परिहरेत् ततश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः यश् चेमां प्रज्ञापारमितां लिखित्वोद्ग्रहीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् योनिशश् च मनसिकुर्यात् तां च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः. अयम् एव ततो बहुतरं पुण्यस्कन्धं प्रसवेत्. तत् कस्य हेतोः? अतो निर्याता हि कौशिक पञ्चपारमिता,
अतो निर्याता अध्यात्मशून्यता, अतो निर्याता बहिर्धाशून्यता, अतो निर्याता अध्यात्मबहिर्धाशून्यता, अतो निर्याता शून्यताशून्यता, अतो निर्याता महाशून्यता, अतो निर्याता परमार्थशून्यता, अतो निर्याता संस्कृतशून्यता, अतो निर्याता असंस्कृतशून्यता, अतो निर्याता अत्यन्तशून्यता, अतो निर्याता अनवराग्रशून्यता, अतो निर्याता अनवकारशून्यता, अतो निर्याता प्रकृतिशून्यता, ( श्स्प्_इइ-4_29 ) अतो निर्याता सर्वधर्मशून्यता, अतो निर्याता स्वलक्षणशून्यता, अतो निर्याता अनुपलम्भशून्यता, अतो निर्याता अभावशून्यता, अतो निर्याता स्वभावशून्यता, अतो निर्याता अभावस्वभावशून्यता.
अतो निर्यातानि चत्वारि स्मृत्युपस्थानानि, अतो निर्यातानि चत्वारि सम्यक्प्रहाणानि, अतो निर्याताश् चत्वार्य् ऋद्धिपादाः, अतो निर्यातानि पञ्चेन्द्रियाणि, अतो निर्यातानि पञ्चबलानि, अतो निर्यातानि सप्तबोध्यङ्गानि, अतो निर्यात आर्याष्टाङ्गो मार्गः, अतो निर्यातानि चत्वार्य् आर्यसत्यानि, अतो निर्यातानि चत्वारि ध्यानानि, अतो निर्यातानि चत्वार्य् अप्रमाणानि, अतो निर्याता चत्वारि आरूप्यसमापत्तयः, अतो निर्याता अष्टौ विमोक्षाः, अतो निर्याता नवानुपूर्वविहारसमापत्तयः, अतो निर्यातानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अतो निर्यातानि पञ्चाभिज्ञाः, अतो निर्याताः सर्वसमाधयः, अतो निर्यातानि सर्वधारणीमुखानि, अतो निर्यातानि दशतथागतबलानि, अतो निर्यातानि चत्वारि वैशारद्यानि, अतो निर्याताश् चतस्रः प्रतिसंविदः, अतो निर्याता महाकरुणा, अतो निर्याता अष्टादशावेणिका बुद्धधर्मा, अतो निर्यातः सत्त्वपरिपाकः, अतो निर्याता बुद्धक्षेत्रसंपत्, अतो निर्याता बोधिसत्त्वस्य महासत्त्वस्य कुलसंपत्, अतो निर्याता रूपसंपत्, अतो निर्याता लाभसंपत्, अतो निर्याता परिवारसंपत्, अतो निर्याता महामैत्री, अतो निर्याता महाकरुणा, अतो निर्यातानि क्षत्रियमहाशालकुलानि, अतो निर्यातानि ब्राह्मणमहाशालकुलानि, अतो निर्यातानि गृहपतिमहाशालकुलानि.
अतो निर्याताश् चातुर्महाराजकायिका देवपुत्रा, अतो निर्यातास् त्रायस्त्रिंशा देवपुत्रा, अतो निर्याता यामा देवपुत्रा, अतो निर्यातास् तुषिता देवपुत्रा, अतो निर्याता निर्माणरतयो देवपुत्रा, अतो निर्याताः परनिर्मितवशवर्तिनो देवपुत्रा, अतो निर्याता ब्रह्मकायिका देवपुत्रा, अतो निर्याता ब्रह्मपुरोहिता देवपुत्रा, अतो निर्याता ब्रह्मपार्षद्या देवपुत्रा, अतो निर्याता महाब्रह्माणो देवपुत्रा, अतो निर्याता आभा देवा, अतो निर्याता परीत्तभा देवा, अतो निर्याता अप्रमाणाभा देवा, अतो निर्याता आभास्वरा देवा, अतो निर्याताः सुभा देवा, अतो निर्याताः परीत्तशुभा देवा, अतो निर्याता अप्रमाणाशुभा देवा, अतो निर्याताः शुभकृत्स्ना देवा, अतो निर्याता बृहा देवा, अतो निर्याताः परीत्तबृहा देवा, अतो निर्याता अप्रमाणबृहा देवा, अतो निर्याता बृहत्फला देवा, अतो निर्याता अबृहा देवा, अतो निर्याता अतपा देवा, अतो निर्याताः सुदृशा देवा, अतो निर्याताः सुदर्शना देवा, अतो निर्याता अकनिष्ठा देवाः.
अतो निर्याताः स्रोतआपन्ना, अतो निर्याताः सकृदागामिनः, अतो निर्याता अनागामिनः, अतो निर्याता अर्हन्तः, अतो निर्याताः प्रत्येकबुद्धाह्, अतो ( श्स्प्_इइ-4_30 ) निर्याता बोधिसत्त्वाः, अतो निर्यातास् तथागता अर्हन्तः सम्यक्संबुद्धाः, अतो निर्यातास् तथागतानाम् अर्हतां सम्यक्संबुद्धानां सर्वाकारज्ञता.
[क्. 178अ10, न्. 344अ1, त्. 278ब्9, प्. 187अ1, छ्. 572अ11]
शक्र आह: इमे भगवन् जाम्बूद्वीपका मनुष्या इमां प्रज्ञापारमितां न सत्कुर्वन्ति न गुरुकुर्वन्ति न मानयन्ति न पूजयन्ति तत् किं ते जाम्बूद्वीपका मनुष्या न जानन्त्य् एव महार्धिका प्रज्ञापारमितायाः पूजाकृता भवति?
भगवान् आह. तत् किं मन्यसे? कौशिकायं जाम्बूद्वीपका मनुष्या ये बुद्धे अभेद्यप्रसादेन समन्वागता ये धर्म अभेद्यप्रसादेन समन्वागता ये संघे अभेद्यप्रसादेन समन्वागता, ये बुद्धे निष्काङ्क्षा धर्मे निष्काङ्क्षा संघे निष्काङ्क्षाः, ये बुद्धे निष्ठाङ्गता धर्मे निष्ठाङ्गताः संघे निष्ठाङ्गताः.
शक्र आह: अल्पकास् ते भगवन् जाम्बूद्वीपका मनुष्या, ये बुद्धे अभेद्य प्रसादेन समन्वागता, ये धर्मे अभेद्यप्रसादेन समन्वागतो ये संघे अभेद्यप्रसादेन समन्वागता, ये बुद्धे निष्काङ्क्षा धर्मे निष्काङ्क्षाः संघे निष्काङ्क्साः, ये बुद्धे निष्ठाङ्गता धर्मे निष्ठाङ्गता संघे निष्ठाङ्गता.

भगवान् आह: तत् किं मन्यसे? कौशिक कियन्तस् ते जाम्बूद्वीपका मनुष्या ये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां विमोक्षमुखानां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये ऽष्टानां विमोक्षाणां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये नवानुपूर्वविहारसमापत्तीनां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये चतसृणां प्रतिसंविदां लाभिनः, कियन्तस् ते जम्बूद्वीपका मनुष्या ये षण्णाम् अभिज्ञानां लाभिनः, कियन्तस् ते जाम्बूद्विपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये रागद्वेषमोहतनुत्वात् सकृदागामिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये पञ्चानां मूर्धभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः.
शक्र आह: अल्पकास् ते भगवन् जाम्बूद्वीपकाः सत्त्वा ये सप्तत्रिंशतो बोधिपक्षाणां लाभिनः ततो ऽल्पका ये त्रयाणां विमोक्षमुखानां लाभिनस् ( श्स्प्_इइ-4_31 ) ततो ऽल्पका ये ऽष्टानां विमोक्षमुखानां लाभिनः ततो ऽल्पका ये न वानुपूर्वविहारसमापत्तीनां लाभिनः, ततो ऽल्पका ये चतसृणां प्रतिसंविदां लाभिनः, ततो ऽल्पका ये षण्णाम् अभिज्ञानां लाभिनः, ततो ऽल्पकास् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नास् ततो ऽल्पतरका ये रागद्वेषमोहतनुत्वात् सकृदागामिनस् ततो ऽल्पतरका ये पञ्चानाम् अचलभागीयाना संयोजनानां प्रहाणाद् अनागामिनः ततो ऽल्पतरका ये पञ्चानां मूर्धभागीयानां प्रहाणाद् अर्हतस् ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः.
भगवान् आह: एवम् एतत् कौशिकैवम् एतद् ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये बुद्धे अभेद्यप्रसादेन समन्वागता, ये धर्मे अभेद्यप्रसादेन समन्वागता, ये संघे अभेद्यप्रसादेन समन्वागताः.
ततो ऽल्पतरका ये बुद्धे निष्काङ्क्षा धर्मे निष्काङ्क्षाः संघे निष्काङ्क्षाः, ततो ऽल्पतरका ये बुद्धे निष्ठाङ्गता धर्मे निष्ठाङ्गताः संघे निष्ठाङ्गताः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनः, ततो ऽल्पतरका ये स्रोतआपन्नास् ततो ऽल्पतरका ये सकृदागामिनस् ततो ऽल्पतरका ये अनागामिनस् ततो ऽल्पतरका ये ऽर्हन्तः ततो ऽल्पतरका ये प्रत्येकबोधये संप्रस्थितास् ततो ऽल्पतरका ये ऽनुत्तरा सम्यक्संबोधये संप्रस्थितास् ततो ऽल्पतरका ये बोधये चरन्ति. तत् कस्य हेतोः? तथा हि पूर्वन्तैः संसारे संसरद्भिः न बुद्धादृष्टो न धर्मश्रन संघः पर्युपासितो न दानं दत्तं न शीलं रक्षितं न क्षान्तिं भाविता न वीर्यम् आलब्धं न ध्यानानि भावितानि न प्रज्ञा भाविता,
न दानपारमिता श्रुता न भाविता, न शीलपारमिता श्रुता न भाविता, न क्षान्तिपारमिता श्रुता न भाविता, न वीर्यपारमिता श्रुता न भाविता, न ध्यानपारमिता श्रुता न भाविता, न प्रज्ञापारमिता श्रुता न भाविता.
नाध्यात्मशून्यता श्रुता न भाविता, न बहिर्धाशून्यता श्रुता न भाविता, नाध्यात्मबहिर्धाशून्यता श्रुता न भाविता, न शून्यताशून्यता श्रुता न भाविता, न महाशून्यता श्रुता न भाविता, न परमार्थशून्यता श्रुता न भाविता, न संस्कृतशून्यता श्रुता न भाविता, नासंस्कृतशून्यता श्रुता न भाविता, नात्यन्तशून्यता श्रुता न भाविता, नानवराग्रशून्यता श्रुता न भाविता, नानवकारशून्यता श्रुता न भाविता, न प्रकृतिशून्यता श्रुता न भाविता, न सर्वधर्मशून्यता श्रुता न भाविता, न स्वलक्षणशून्यता ( श्स्प्_इइ-4_32 ) श्रुता न भाविता, नानुपलम्भशून्यता श्रुता न भाविता, नाभावशून्यताश्रुता न भाविता, न स्वभावशून्यता श्रुता न भाविता, नाभावस्वभावशून्यता श्रुता न भाविता.
न स्मृत्युपस्थानानि श्रुतानि न भावितानि, न सम्यक्प्रहाणानि श्रुतानि न भावितानि, न ऋद्धिपादाः श्रुता न भाविताः, नेन्द्रियाणि श्रुतानि न भावितानि, न बलानि श्रुतानि न भावितानि, न बोध्यङ्गानि श्रुतानि न भावितानि, नार्याष्टाङ्गो मार्गः श्रुतो न भावितः, नार्यसत्यानि श्रुतानि न भावितानि, न ध्यानानि श्रुतानि न भावितानि, नाप्रमाणानि श्रुतानि न भावितानि, नारूप्यसमापत्तयः श्रुता न भाविता, नाष्टौ विमोक्षाः श्रुता न भाविता, नानुपूर्वविहारसमापत्तयः श्रुता न भाविता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि श्रुतानि न भावितानि, नाभिज्ञाः श्रुता न भाविता, न समाधयः श्रुता न भाविता, न धारणीमुखानि श्रुतानि न भावितानि, न तथागतबलानि श्रुतानि न भावितानि, न वैशारद्यानि श्रुतानि न भावितानि, न प्रतिसंविदः श्रुता न भाविता, न महाकरुणा श्रुता न भाविता, नावेणिकबुद्धधर्माः श्रुता न भाविता, न सर्वज्ञता श्रुता न भाविता, न मार्गाकारज्ञता श्रुता न भाविता, न सर्वाकारज्ञता श्रुता न भाविता.
तद् अनेन ते कौशिक पर्यायेणैवं वेदितव्यं, अल्पकास् ते जाम्बूद्वीपका सत्त्वा ये बुद्धे अभेद्यप्रसादेन समन्वागता धर्मे अभेद्य्प्रसादेन समन्वागता संघे अभेद्यप्रसादेन समन्वागताः, ततो ऽल्पतरका ये त्रयाणां विमोक्षमुखानां लाभिनः, ततो ऽल्पतरका ये ऽष्टानां विमोक्षाणां लाभिनः, ततो ऽल्पतरका ये नवानुपूर्वविहारसमापत्तिनां लाभिनः, ततो ऽल्पतरका ये चतसृणां प्रतिसंविदां लाभिनः, ततो ऽल्पतरका ये षण्णाम् अभिज्ञानां लाभिनः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, ततो ऽल्पतरका ये रागद्वेसमोहतनुत्वात् सकृदागामिनः ततो ऽल्पतरका ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनः, ततो ऽल्पतरका ये पञ्चानां मूर्धभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, ततो ऽल्पतरका ये अनुत्तरां सम्यक्संबोधये संप्रस्थिताः, ततो ऽल्पतरका ये बोधये अथ्यासयेन चरन्ति निष्ठतु कौशिक मनुष्याः. तत् किं मन्यसे? कौशिक कियन्तो जाम्बूद्वीपे प्राणिनाये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनो ये त्रयाणां विमोक्षमुखानां लाभिनो ये ऽष्टानां विमोक्षमुखानां लाभिनो ये नवानाम् ( श्स्प्_इइ-4_33 ) अनुपूर्वविहारसमापत्तीर् लाभिनो ये चतसृणां प्रतिसंविदां लाभिनो ये षण्णाम् अभिज्ञानां लाभिनः.

कियन्तस् ते जाम्बूद्वीपकाः प्राणिनो ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्ना ये रागद्वेषमोहतनुत्वात् सकृदागामिनो ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनः, ये पञ्चानाम् ऊर्ध्वभागीयानां प्रहाणाद् अर्हन्तः, ये प्रत्येकबोधये संप्रस्थिताः कियन्त्स् ते जाम्बूद्वीपकाः प्राणिनो ये ऽनुत्तरायां सम्यक्संबोधौ निष्काङ्क्षा बुद्धे धर्मे संघे निष्काङ्क्षाः कियन्तस् ते जाम्बूद्वीपकाः प्राणिनो ये मातृज्ञाः ये पितृज्ञाः श्रामण्याः कुले ज्येष्टोपचायका दानानि ददति शीलं रक्षन्ति क्षान्तिपोषधम् उपवशन्ति, काष्टादीन च संज्ञिनो विहरन्ति, एवम् अनित्यसंज्ञिनः, अनात्मसंज्ञिनो ऽशुचिसंज्ञिनः सर्वलोकेष्व् अनभिरति संज्ञनः कियन्तस् ते जाम्बूद्वीपकाः प्राणिनो ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः.
[क्. 179अ5, न्. 346अ1, त्. 280अ7, प्. 190ब्3, छ्. 573ब्12]
शक्र आह: अल्पकास् ते भगवन् जाम्बूद्वीपकाः प्राणिनो ये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनः, ये त्रयाणां विमोक्षमुखां लाभिनः, ये ऽष्टानां विमोक्षाणां लाभिनः, ये नवानाम् अनुपूर्वविहारसमापत्तीनां लाभिनः, ये चतसृणां प्रतिसंविदां लाभिनः, ये षण्णाम् अभिज्ञानां लाभिनः, ये त्रयाणां संयोजनानां प्रहाणा स्रोतआपन्ना, ये रागद्वेषमोहतनुत्वात् सकृदागामिनः, ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनः, ये पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, ये प्रत्येकबोधये संप्रस्थिता अल्पकास् ते भगवन् जाम्बूद्वीपकाः प्राणिनो ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः.
भगवान् आह: एवम् एतत् कौशिक एवम् एतत्, तथा यथा वदसि, अल्पकास् ते कौशिक जाम्बूद्वीपकाः प्राणिनो ये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनः, ये त्रयाणां विमोक्षमुखां लाभिनः, ये ऽष्टानां विमोक्षाणां लाभिनः, ये नवानाम् अनुपूर्वविहारसमापत्तीनां लाभिनः ये चतसृणां प्रतिसंविदां लाभिनो ये षण्णाम् अभिज्ञानां लाभिनः, ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, ये रागद्वेषमोहतनुत्वात् सकृदागामिनः, ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनो ये पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, ये प्रत्येकबोधये संप्रस्थिताः, ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, अतो ऽल्पतरका ये ऽनुत्तरायां सम्यक्संबोधौ ( श्स्प्_इइ-4_34 ) चरन्ति, अतो ऽल्पतरका ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा,
इहाहं कौशिकानावरणेन बुद्धचक्षुषा पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.
इहाहं कौशिकानावरणेन बुद्धचक्षुषा दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधतुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्ठन्ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.

इहाहं कौशिकानावरणेन बुद्धचक्षुषा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.
इहाहं कौशिकानावरणेन बुद्धचक्षुषा उत्तरस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.
इहाहं कौशिकानावरणेन बुद्धचक्षुषा उत्तरपूर्वस्यां दिशि गङ्गानद्ल्वालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापरमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? ( श्स्प्_इइ-4_35 ) दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.
इहाहं कौशिकानावरणेन बुद्धचक्षुषा पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.
इहाहं कौशिकानावरणेन बुद्धचक्षुषा दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हिनाधिमुक्तिकैर् दुष्प्रज्ञैः.
इहाहं कौशिकानावरणेन बुद्धचक्षुषा पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.
इहाहं कौशिकानावरणेन बुद्धचक्षुषा अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.
इहाहं कौशिकानावरणेन बुद्धचक्षुषा उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरन्ति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्ठते यद् भूयस्त्वेन ( श्स्प्_इइ-4_36 ) श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनसत्त्वैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.
तस्मात् तर्हि कौशिक ये ते कुलपुत्राः कुलदुहितरश् चानुत्तरायै सम्यक्संबोधये संप्रस्थितास् तैः क्षिप्रं सुखं चानुत्तरां सम्यक्संबोधिम् अभिसंबोधुकमैर् इयं प्रज्ञापारमिताभीक्षणं स्रोतव्योद्गृहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्याः, योनिशश् च मनसिकर्तव्याः. तैर् इयं प्रज्ञापारमितोद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य योनिशश् च मनसिकृत्वा, सर्वबुद्धा धर्मा मनसिकर्तव्याः.
तद् यथा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गः चत्वार्य् आर्यसत्यानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः अष्टौ विमोक्षाः नवानुपूर्वविहारसमापत्तयः त्रीणि विमोक्षमुखानि पञ्चाभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः महामैत्रि महाकरुणा अष्टादशावेणिका बुद्धधर्माः.
अन्ये ऽप्य् अपरिमाणा बुद्धधर्मा यत्र प्रज्ञापारमितायाम् अन्तर्गता ते प्य् उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्याः. तत् कस्य हेतोः? तथा हि कौशिक ते कुलपुत्राः कुलदुहितरश् चैवं ज्ञास्यन्ति, अत्र हि तथागतः पूर्वं बोधिसत्त्वचारिकां शिक्षितो यद् उत प्रज्ञापारमितायां ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायाम्.
अध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां शून्यताशून्यतायां महाशून्यतायां परमार्थशून्यतायां संस्कृतशून्यतायाम् असंस्कृतशून्यतायाम् अत्यन्तशून्यतायाम् अनवराग्रशून्यतायाम् अनवकारशून्यतायां प्रकृतिशून्यतायां सर्वधर्मशून्यतायां स्वलक्षणशून्यतायाम् अनुपलम्भशून्यतायाम् अभावशून्यतायां ( श्स्प्_इइ-4_37 ) स्वभावशून्यतायाम् अभावस्वभावशून्यतायाम्.

चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चेष्व् इन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु आर्याष्टाङ्गे मार्गे चतुर्ष्व् आर्यसत्येषु चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु अष्टासु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु त्रिषु विमोक्षमुखेषु पञ्चस्व् अभिज्ञासु सर्वसमाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायां अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु, अन्येषु वा परिमाणेषु बुद्धधर्मेषु
अस्माभिर् अप्य् अनुशिक्षितव्यम् एषास्माकं शास्ता यद् उत प्रज्ञापारमिता, यावद् अन्ये ऽप्य् अपरिमाणा बुद्धधर्मा एतद् बुद्धानां भगवतां शासनं प्रत्येकबुद्धानाम् अर्हताम् अनागामिनां सकृदागामिनां स्रोतआपन्नानां यद् उत प्रज्ञापारमिता अत्र प्रज्ञापारमितायां शिक्षमाणा ध्यानपारमितायां शिक्षमाणा वीर्यपारमितायां शिक्षमाणा क्षान्तिपारमितायां शिक्षमाणा शीलपारमितायां शिक्षमाणा दानपारमितायां शिक्षमाणा.
अध्यात्मशून्यतायां शिक्षमाणा, बहिर्धाशून्यतायां शिक्षमाणा, अध्यात्मबहिर्धाशून्यतायां शिक्षमाणा, शून्यताशून्यतायां शिक्षमाणा, महाशून्यतायां शिक्षमाणा, परमार्थशून्यतायां शिक्षमाणा, संस्कृतशून्यतायां शिक्षमाणा, असंस्कृतशून्यतायां शिक्षमाणा, अत्यन्तशून्यतायां शिक्षमाणा, अनवराग्रशून्यतायां शिक्षमाणा, अनवकारशून्यतायां शिक्षमाणा, प्रकृतिशून्यतायां शिक्षमाणा, सर्वधर्मशून्यतायां शिक्षमाणा, स्वलक्षणशून्यतायां शिक्षमाणा, अनुपलम्भशून्यतायां शिक्षमाणा, अभावशून्यतायां शिक्षमाणा, स्वभावशून्यतायां शिक्षमाणा, अभावस्वभावशून्यतायां शिक्षमाणा.
स्मृत्युपस्थानेषु शिक्षमाणाः, सम्यक्प्रहाणेषु शिक्षमाणाः, ऋद्धिपादेषु शिक्षमाणाः, इन्द्रियेषु शिक्षमाणाः, बलेषु शिक्षमाणाः, बोध्यङ्गेषु शिक्षमाणाः, आर्याष्टाङ्गे मार्गे शिक्षमाणाः, आर्यसत्येषु शिक्षमाणाः, ध्यानेषु शिक्षमाणाः, अप्रमाणेषु शिक्षमाणाः, आरूप्यसमापत्तिषु शिक्षमाणाः, विमोक्षेषु शिक्षमाणाः, अनुपूर्वविहारसमापत्तिषु शिक्षमाणाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षमाणाः, अभिज्ञासु शिक्षमाणाः, समाधिषु शिक्षमाणाः, धारणीमुखेषु शिक्षमाणाः, तथागतबलेषु शिक्षमाणाः, वैशारद्येषु शिक्षमाणाः, प्रतिसंवित्सु शिक्षमाणाः, महामैत्र्यां शिक्षमाणाः, महाकरुणायां शिक्षमाणाः, आवेणिकबुद्धधर्मेषु शिक्षमाणाः, सर्वज्ञतायां शिक्षमाणाः, मार्गाकारज्ञतायां ( श्स्प्_इइ-4_38 ) शिक्षमाणाः, सर्वाकारज्ञतायां शिक्षमाणाः, बुद्धा भगवन्तः प्रत्येकबुद्धा अर्हन्तो ऽनागामिनः सकृदागामिनः स्रोतआपन्नाः पारङ्गता गच्छन्ति गमिष्यन्ति च.
[क्. 180अ13, न्. 349ब्5, त्. 282अ10, प्. 195ब्6, छ्. 575अ9]
तस्मात् तर्हि कौशिक कुलपुत्रैर् वा कुलदुहितृभिर् वा तिष्ठति तथागतपरिनिर्वृते वा तथागते, प्रज्ञापारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक प्रज्ञापारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, ध्यानपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक ध्यानपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, वीर्यपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक वीर्यपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, क्षान्तिपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक क्षान्तिपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरयाः प्रजायाः प्रतिशरणं, शीलपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक शीलपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, दानपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक दानपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिसरणम्.

अध्यात्मशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक प्रज्ञापारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, बहिर्धाशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक बहिर्धाशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं. अध्यात्मबहिर्धाशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकाध्यात्मबहिर्धाशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, शून्यताशून्यतैव तैः ( श्स्प्_इइ-4_39 ) प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक शून्यताशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, महाशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक महाशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, परमार्थशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक परमार्थशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, संस्कृतशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक संस्कृतशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, असंस्कृतशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकासंस्कृतशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अत्यन्तशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक अत्यन्तशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अनवराग्रशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक अनवराग्रशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अनवकारशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक अनवकारशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, प्रकृतिशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक प्रकृतिशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, सर्वधर्मशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक सर्वधर्मशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, स्वलक्षणशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक स्वलक्षणशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अनुपलम्भशून्यतैव ( श्स्प्_इइ-4_40 ) तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकानुपलम्भशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अभावशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकाभावशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणम्, स्वभावशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक स्वभावशून्यता सर्वश्रावकप्रत्येकबुद्धाणां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अभावस्वभावशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकाभावस्वभावशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणम्.

स्मृत्युपस्थानान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक स्मृत्युपस्थानानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, सम्यक्प्रहाणान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक सम्यक्प्रहाणानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, ऋद्धिपादा एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक ऋद्धिपादाः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, इन्द्रियाण्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिकेन्द्रियाणि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, बलान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक बलानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, बोध्यङ्गान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक बोध्यङ्गानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, आर्याष्टाङ्गमार्ग एव तैः प्रतिसत्कर्तव्यः. तत् कस्य हेतोः? एष एव कौशिकार्याष्टाङ्गमार्गः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं ( श्स्प्_इइ-4_41 ) यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, आर्यसत्यान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिकार्यसत्यानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरनं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, ध्यानान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक ध्यानानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अप्रमाणान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिकाप्रमाणानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, आरूप्यसमापत्तय एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक आरूप्यसमापत्तयः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, विमोक्षा एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक विमोक्षाः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अनुपूर्वविहारसमापत्तय एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एता एव कौशिकानुपूर्वविहारसमापत्तयः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाल्ः प्रजायाः प्रतिशरणं, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अभिज्ञा एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एता एव कौशिकाभिज्ञा सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, समाधय एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक समाधयः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, धारणीमुखान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक धारणीमुखानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, तथागतबलान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक ( श्स्प्_इइ-4_42 ) तथागतबलानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, वैशारद्यान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक वैशारद्यानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, प्रतिसंविद एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एता एव कौशिक प्रतिसंविदः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, महाकरुणा एव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक महाकरुणा सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, आवेणिकबुद्धधर्मा एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक आवेणिकबुद्धधर्माः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, सर्वज्ञतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एता एव कौशिक सर्वज्ञता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, मार्गाकारज्ञतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एता एव कौशिक मार्गाकारज्ञता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, सर्वाकारज्ञतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एता एव कौशिक सर्वाकारज्ञता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिसरणम्.
[क्. 181अ21, न्. 352अ4, त्. 284अ11, प्. 200अ7, छ्. 576अ6]
यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा तथागते परिनिर्वृते पूजायै सप्तरत्नमयं स्तूपं कारयेद् योजनमुच्चैत्वेनार्धयोजनं विस्तरेणायां यावज् जीवं दिव्यैश् पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैर् वाद्यैः सत्कुर्या गुरुकुर्याद् मानयेत् पूजयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.

भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं ( श्स्प्_इइ-4_43 ) पुण्यं प्रसवति य इमां प्रज्ञापारमितां लिखित्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति परेभ्यश् च विस्तरेण संप्रकाशयिष्यति, अविरहितश् च सर्वाकारज्ञताचित्तेन भविष्यत्य् उत्तरे च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः,
तिष्ठन्तु कौशिकैकः स्तूपः सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा तथागतपरिनिर्वृते, इमं जाम्बूद्वीपं सप्तरत्नमयैस् स्तूपैः परिपूरये योजनोच्छ्रितैर् अर्धयोजनविस्तातैस् तांश् च यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैर् वस्त्रैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां लिखित्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च सर्वाकारज्ञताचित्तेन भविष्यति, उत्तरे च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः,
तिष्ठन्तु कौशिकायं जाम्बूद्वीपस् तथागतस्तूपपरिपूर्णः, सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां चातुर्महाद्वीपकं लोकधातुं तथागते परिनिर्वृते पूजयैः सप्तरत्नमयैः स्तूपैः परिपूरयेद् योजनोच्छ्रितैर् अर्धयोजनविस्तारैस् तांश् च यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैर् पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैर् वस्त्रैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां पुस्तकगतां कृत्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, लिखित्वा नु सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् ( श्स्प्_इइ-4_44 ) गन्धैर् विलेपनैश् चुर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
तिष्ठन्तु कौशिक चातुर्महाद्वीपको लोकधातुस् तथागतस्तूपपरिपूर्णः. सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा इमं त्रिसाहस्रं चूडिकं लोकधातुं तथागते परिनिर्वृते पूजायै सप्तरत्नमयैस् स्तूपैः परिपूरयेद् योजनोच्छ्रितैर् अर्धयोजनविस्तारैस् तांश् च यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैर् पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैर् वस्त्रैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां पुस्तकगतां कृत्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
तिष्ठन्तु कौशिक साहस्रचूडिको लोकधातुस् तथागतस्तूपपरिपूर्णः. सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा इमं त्रिसाहस्रं मध्यमं लोकधातुं तथागते परिनिर्वृते पूजायै सप्तरत्नमयैः स्तूपैः परिपूरयेद् योजनोच्छ्रितैर् अर्धयोजनविस्तारैस् तांश् च यावत् क्षीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैर् वस्त्रैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
तिष्ठन्तु कौशिक द्विसाहस्रो मध्यमो लोकधातुस् तथागतस्तूपपरिपूर्णः. सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा तथागते परिनिर्वृते ( श्स्प्_इइ-4_45 ) पूजायै इमं त्रिसाहस्रं महासाहस्रं लोकधातुं तथागते परिनिर्वृते पूजायैर् सप्तरत्नमयैस् तथागतचैत्यैः परिपूजयेद् योजनोच्छ्रितैर् अर्धयोजनविस्तारैस् तांश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
[क्. 182अ5, न्. 353ब्4, त्. 285अ11, प्. 203अ2, छ्. 577अ27]

शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
तिष्ठन्तु कौशिक त्रिसाहस्रो महासाहस्रो लोकधातुस् तथागतस्तूपपरिपूर्णो ये केचित् कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेत् तां च यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च सर्वाकारज्ञताचित्तेन भविष्यति, तांश् च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् अयम् एव ततो बहुतरं पुण्यं प्रसवेत्.
शक्र आह: एवम् एतद् भगवन् एवम् एतत् सुगत प्रज्ञापारमिता भगवन् सत्कुर्वद्भिः गुरुकुर्वद्भिर् मानयद्भिः पूजयद्भिर् अतीतानगतप्रत्युत्पन्नास् तथागता अर्हन्तः सम्यक्संबुद्धाः सत्कृतो गुरुकृतो मानितो पूजितो भवन्ति,
यावन्तः पूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् ( श्स्प्_इइ-4_46 ) दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
यावन्तो दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
यावन्तः पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
यावन्त उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
यावन्त उत्तरपूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्चैस्त्वे नार्धयोजनं विस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
यावन्तः पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
यावन्तो दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
यावन्तः पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
यावन्तो ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,
यावन्त उपरिष्ठाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? भगवन् अपि नु स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेयुः.
भगवान् आह: बहु कौशिक.

शक्र आह: अतः स भगवन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, योनिशश् च मनसिकरिष्यति, तांश् च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. तत् ( श्स्प्_इइ-4_48 ) कस्य हेतोः? अत्र हि भगवन् प्रज्ञापारमितायाम् अन्तर्गताः सर्वे कुशला धर्मास् तद् यथा दश कुशलः कर्मपथाश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः.
दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता.
स्मृत्युपस्थानानि सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि आर्याष्टाङ्गो मार्गः, त्रीणि विमोक्षमुखानि शून्यतानिमित्ताप्रणिहिता चत्वार्य् आर्यसत्यानि दुःखं दुःखसमुदयं दुःखनिरोधा मार्गः षड् अभिज्ञा अष्टा विमोक्षा नवानुपूर्वविहारसमापत्तयः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणा अष्टादशावेणिका बुद्धधर्माः सर्वज्ञता मार्गाकारज्ञता सर्वाकारज्ञता इदं तद् बुद्धानां भगवतां शासनं यत्र सर्वश्राव्कप्रत्येकबुद्धानाम् अतितानागतप्रत्युत्पन्नानां बुद्धा भगवन्तः शिक्षित्वा सर्वधर्माणां पारङ्गता गच्छति गमिष्यति च.
शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तो नामाष्टादशमः
[क्. 182ब्18, न्. 355ब्6, त्. 286ब्9, प्. 207अ3, छ्. 578अ4]
अथ भगवाञ् छक्रं देवानां इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, बहु ते कुलपुत्राः कुलदुहितरो वा पुण्यं प्रसविष्यत्य् अप्रमेयम् असंख्येयम् अचिन्त्यम् अतुल्यम् अपरिमाणं ते कुलपुत्राः कुलदुहितरो वा पुण्यं प्रसविष्यति य इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, उत्तरे च सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि कौशिक तथागतानाम् अर्हतां सम्यक्संबुद्धानां सर्वज्ञता प्रज्ञापारमितानिर्याता ध्यानपारमिता प्रज्ञापारमितानिर्याता वीर्यपारमिता प्रज्ञापारमितानिर्याता क्षान्तिपारमिता प्रज्ञापारमितानिर्याता शीलपारमिता प्रज्ञापारमितानिर्याता दानपारमिता प्रज्ञापारमितानिर्याता.
अध्यात्मशून्यता प्रज्ञापारमितानिर्याता, बहिर्धाशून्यता प्रज्ञापारमितानिर्याता, अध्यात्मबहिर्धाशून्यता प्रज्ञापारमितानिर्याता, शून्यताशून्यता प्रज्ञापारमितानिर्याता, महाशून्यता प्रज्ञापारमितानिर्याता, परमार्थशून्यता प्रज्ञापारमितानिर्याता, संस्कृतशून्यता प्रज्ञापारमितानिर्याता, असंस्कृतशून्यता प्रज्ञापारमितानिर्याता, अत्यन्तशून्यता प्रज्ञापारमितानिर्याता, अनवराग्रशून्यता प्रज्ञापारमितानिर्याता, अनवकारशून्यता प्रज्ञापारमितानिर्याता, प्रकृतिशून्यता प्रज्ञापारमितानिर्याता, सर्वधर्मशून्यता प्रज्ञापारमितानिर्याता, स्वलक्षणशून्यता प्रज्ञापारमितानिर्याता, अनुपलम्भशून्यता प्रज्ञापारमितानिर्याता, अभावशून्यता प्रज्ञापारमितानिर्याता, स्वभावशून्यता प्रज्ञापारमितानिर्याता, अभावस्वभावशून्यता प्रज्ञापारमितानिर्याता.
स्मृत्युपस्थानानि प्रज्ञापारमितानिर्यातानि, सम्यक्प्रहाणानि प्रज्ञापारमितानिर्यातानि, ऋद्धिपादाः प्रज्ञापारमितानिर्याताः, इन्द्रियाणि प्रज्ञापारमितानिर्यातानि, बलानि प्रज्ञापारमितानिर्यातानि, बोध्यङ्गानि प्रज्ञापारमितानिर्यातानि, आर्याष्टाङ्गो मार्गः प्रज्ञापारमितानिर्यातः, आर्यसत्यानि प्रज्ञापारमितानिर्यातानि, ध्यानानि प्रज्ञापारमितानिर्यातानि, अप्रमाणानि प्रज्ञापारमितानिर्यातानि, आरूप्यसमापत्तयः प्रज्ञापारमितानिर्याताः, अष्टौ विमोक्षः प्रज्ञापारमितानिर्यातः, नवानुपूर्वविहारसमापत्तयः प्रज्ञापारमितानिर्याताः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञापारमितानिर्यातानि, अभिज्ञाः प्रज्ञापारमितानिर्याताः, समाधयः प्रज्ञापारमितानिर्याताः, ( श्स्प्_इइ-4_50 ) धारणीमुखानि प्रज्ञापारमितानिर्यातानि, दशतथागतबलानि प्रज्ञापारमितानिर्यातानि, चत्वारि वैशारद्यानि प्रज्ञापारमितानिर्यातानि, प्रतिसंविदः प्रज्ञापारमितानिर्याताः, महामैत्री प्रज्ञापारमितानिर्याता, महाकरुणा प्रज्ञापारमितानिर्याता, आवेणिकबुद्धधर्माः प्रज्ञापारमितानिर्याताः, पञ्च चक्षूंषि तथागतस्य प्रज्ञापारमितानिर्यतः, सत्त्वपरिपाको बुद्धक्षेत्रपरिशुद्धिः प्रज्ञापारमितानिर्याता, हि कौशिक सर्वज्ञता प्रज्ञापारमितानिर्याता, मार्गाकारज्ञता प्रज्ञापारमितानिर्याता, सर्वाकारज्ञता प्रज्ञापारमितानिर्याता, हि कौशिक श्रावकयानं प्रज्ञापारमितानिर्यातं, हि कौशिक प्रत्येकबुद्धयानं प्रज्ञापारमितानिर्यातं, हि कौशिक महायानं प्रज्ञापारमितानिर्यातम्, हि कौशिकानुत्तरा सम्यक्संबोधिः.
तस्मात् तर्हि कौशिक यो हि कश्चित् कुलपुत्रा वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वोद्ग्रहीष्यति धारयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् अस्य कौशिक पुण्याभिसंस्कारस्यासौ पूर्वकः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीसहस्रतमीम् अपि कोटीसहस्रतमीम् अपि कोटीनियुतशतसहस्रतमीम् अपि संख्यम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशम् अपि न क्षमते. तत् कस्य हेतोः? यावत् किलेयं कौशिक प्रज्ञापारमिता जांबूद्वीपे स्थास्यति. तावन् न बुद्धरत्नस्यान्तर्धानं भविष्यति न धर्मरत्नस्यान्तर्धानं भविष्यति न संघरत्नस्यान्तर्धानं भविष्यति, तावद् दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भविष्यति चतुर्णां ध्यानानां लोके प्रादुर्भावो भविष्यति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भविष्यति, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भविष्यति, पञ्चानाम् अभिज्ञानां प्रादुर्भावो भविष्यति.
दानपारमिताया लोके प्रादुर्भावो भविष्यति, शीलपारमिताया लोके प्रादुर्भावो भविष्यति, क्षान्तिपारमिताया लोके प्रादुर्भावो भविष्यति, वीर्यपारमिताया लोके प्रादुर्भावो भविष्यति, ध्यानपारमिताया लोके प्रादुर्भावो भविष्यति, प्रज्ञापारमिताया लोके प्रादुर्भावो भविष्यति.

अध्यात्मशून्यताया लोके प्रादुर्भावो भविष्यति, बहिर्धाशून्यताया लोके प्रादुर्भावो भविष्यति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भविष्यति, शून्यताशून्यताया लोके प्रादुर्भावो भविष्यति, महाशून्यताया ( श्स्प्_इइ-4_51 ) लोके प्रादुर्भावो भविष्यति, परमार्थशून्यताया लोके प्रादुर्भावो भविष्यति, संस्कृतशून्यताया लोके प्रादुर्भावो भविष्यति, असंस्कृतशून्यताया लोके प्रादुर्भावो भविष्यति, अत्यन्तशून्यताया लोके प्रादुर्भावो भविष्यति, अनवराग्रशून्यताया लोके प्रादुर्भावो भविष्यति, अनवकारशून्यताया लोके प्रादुर्भावो भविष्यति, प्रकृतिशून्यताया लोके प्रादुर्भावो भविष्यति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भविष्यति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भविष्यति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भविष्यति, अभावशून्यताया लोके प्रादुर्भावो भविष्यति, स्वभावशून्यताया लोके प्रादुर्भावो भविष्यति, अभावस्वभावशून्यताय लोके प्रादुर्भावो भविष्यति.
स्मृत्युपस्थानानां लोके प्रादुर्भावो भविष्यति, सम्यक्प्रहाणानां लोके प्रादुर्भावो भविष्यति, ऋद्धिपादानां लोके प्रादुर्भावो भविष्यति, इन्द्रियाणां लोके प्रादुर्भावो भविष्यति, बलानां लोके प्रादुर्भावो भविष्यति, बोध्यङ्गानां लोके प्रादुर्भावो भविष्यति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भविष्यति, आर्यसत्यानां लोके प्रादुर्भावो भविष्यति, ध्यानानां लोके प्रादुर्भावो भविष्यति, अप्रमाणानां लोके प्रादुर्भावो भविष्यति, आरूप्यसमापत्तीनां लोके प्रादुर्भावो भविष्यति, विमोक्षाणां लोके प्रादुर्भावो भविष्यति, नवानुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भविष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लोके प्रादुर्भावो भविष्यति, समाधीनां लोके प्रादुर्भावो भविष्यति, धारणीमुखानां लोके प्रादुर्भावो भविष्यति, तथागतबलानां लोके प्रादुर्भावो भविष्यति, वैशारद्यानां लोके प्रादुर्भावो भविष्यति, प्रतिसंविदां लोके प्रादुर्भावो भविष्यति, महामैत्र्या लोके प्रादुर्भावो भविष्यति, महाकरुणाया लोके प्रादुर्भावो भविष्यति, आवेणिकबुद्धधर्माणां लोके प्रादुर्भावो भविष्यति, सर्वज्ञताया लोके प्रादुर्भावो भविष्यति, मार्गाकारज्ञताया लोके प्रादुर्भावो भविष्यति, सर्वाकारज्ञताया लोके प्रादुर्भावो भविष्यति, यावन् महाशालकुलानां लोके प्रादुर्भावो भविष्यति, ब्राह्मणमहाशालकुलानां लोके प्रादुर्भावो भविष्यति, गृहपतिमहाशालकुलानां लोके प्रादुर्भावो भविष्यति.
चातुर्महाराजकायिकानां देवानां लोके प्रादुर्भावो भविष्यति, त्रायस्त्रिंशानां देवानां लोके प्रादुर्भावो भविष्यति, यामानां देवानां लोके प्रादुर्भावो भविष्यति, तुषितानां देवानां लोके प्रादुर्भावो भविष्यति, निर्माणरतीनां देवानां लोके प्रादुर्भावो भविष्यति, परनिर्मितवसवर्तीनां देवानां लोके प्रादुर्भावो भविष्यति, ब्रह्मकायिकानां ( श्स्प्_इइ-4_52 ) देवानां लोके प्रादुर्भावो भविष्यति, ब्रह्मपार्षद्यानां देवानां लोके प्रादुर्भावो भविष्यति, ब्रह्मपुरोहितानां देवानां लोके प्रादुर्भावो भविष्यति, महाब्रह्माणां देवानां लोके प्रादुर्भावो भविष्यति, आभानां देवानां लोके प्रादुर्भावो भविष्यति, परीत्तभानां देवानां लोके प्रादुर्भावो भविष्यति, अप्रमाणाभाणां देवानां लोके प्रादुर्भावो भविष्यति, आभास्वराणां देवानां लोके प्रादुर्भावो भविष्यति, शुभानां देवानां लोके प्रादुर्भावो भविष्यति, परीत्तशुभानां देवानां लोके प्रादुर्भावो भविष्यति, अप्रमाणशुभानां देवानां लोके प्रादुर्भावो भविष्यति, शुभकृत्स्नानां देवानां लोके प्रादुर्भावो भविष्यति, बृहाणां देवानां लोके प्रादुर्भावो भविष्यति, परीत्तबृहाणाउन् देवानां लोके प्रादुर्भावो भविष्यति, अप्रमाणबृहाणां देवानां लोके प्रादुर्भावो भविष्यति, बृहत्फलानां देवानां लोके प्रादुर्भावो भविष्यति, अबृहाणां देवानां लोके प्रादुर्भावो भविष्यति, अतपानां देवानां लोके प्रादुर्भावो भविष्यति, सुदृशानां देवानां लोके प्रादुर्भावो भविष्यति, सुदर्शनानां देवानां लोके प्रादुर्भावो भविष्यति, अकनिष्ठानां देवानां लोके प्रादुर्भावो भविष्यति.
स्रोतआपन्नानां लोके प्रादुर्भावो भविष्यति, सकृदागामीनां लोके प्रादुर्भावो भविष्यति, अनागामिनां लोके प्रादुर्भावो भविष्यति, अर्हतां लोके प्रादुर्भावो भविष्यति, प्रत्येकबुद्धानां लोके प्रादुर्भावो भविष्यति. बोधिसत्त्वानां च महासत्त्वानां समुदागः प्रज्ञास्यते, अनुत्तरं बुद्धज्ञानं प्रज्ञास्यते, धर्मचक्रप्रवर्तनं प्रज्ञास्यते, सत्त्वपरिपाकं प्रज्ञास्यते, बुद्धक्षेत्रपरिशुद्धिः प्रज्ञास्यते.
[क्. 183ब्18, न्. 358अ2, त्. 288अ11, प्. 210ब्3, छ्. 579ब्13]
अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवसवर्तिना ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्मणो आभाः परीत्तभा अप्रमाणाभा आभास्वराः शुभाः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना बृहाः परीत्तबृहा अप्रमाणबृहा बृहत्फला अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् तं शक्रं देवानाम् इन्द्रम् आमन्त्रयते : उद्गृहीतव्या मार्ष प्रज्ञापारमिता धारयितव्या मार्ष प्रज्ञापारमिता वाचयितव्या मार्ष प्रज्ञापारमिता पर्यवाप्तव्या मार्ष प्रज्ञापारमिता, योनिशश् च मनसिकर्तव्या मार्ष प्रज्ञापारमिता, एतया मार्ष प्रज्ञापारमितयोद्गृहीतया धारयितया वाचयितया पर्यवाप्तया योनिशश् च मनसिकृतया बुद्धनेत्र्या ( श्स्प्_इइ-4_53 ) वाचयितया पर्यवाप्तया योनिशश् च मनसिकृतया बुद्धनेत्र्या अव्यवच्छेदो भविष्यति, धर्मनेत्र्या अव्यवच्छेदो भविष्यति, संघनेत्र्या अव्यवच्छेदो भविष्यति बुद्धनेत्र्या मार्ष अव्यवच्छेदो ऽनुधर्मनेत्र्या अव्यवच्छेदो ऽनुसंघनेत्र्या अव्यवच्छेदः.
दानपारमिताया लोके प्रादुर्भावो भविष्यति, शीलपारमिताया लोके प्रादुर्भावो भविष्यति, क्षान्तिपारमिताया लोके प्रादुर्भावो भविष्यति, वीर्यपारमिताया लोके प्रादुर्भावो भविष्यति, ध्यानपारमिताया लोके प्रादुर्भावो भविष्यति, प्रज्ञापारमिताया लोके प्रादुर्भावो भविष्यति.

अध्यात्मशून्यताया लोके प्रादुर्भावो भविष्यति, बहिर्धाशून्यताया लोके प्रादुर्भावो भविष्यति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भविष्यति, शून्यताशून्यताया लोके प्रादुर्भावो भविष्यति, महाशून्यताया लोके प्रादुर्भावो भविष्यति, परमार्थशून्यताया लोके प्रादुर्भावो भविष्यति, संस्कृतशून्यताया लोके प्रादुर्भावो भविष्यति, असंस्कृतशून्यताया लोके प्रादुर्भावो भविष्यति, अत्यन्तशून्यताया लोके प्रादुर्भावो भविष्यति, अनवराग्रशून्यताया लोके प्रादुर्भावो भविष्यति, अनवकारशून्यताया लोके प्रादुर्भावो भविष्यति, प्रकृतिशून्यताया लोके प्रादुर्भावो भविष्यति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भविष्यति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भविष्यति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भविष्यति, अभावशून्यताया लोके प्रादुर्भावो भविष्यति, स्वभावशून्यताया लोके प्रादुर्भावो भविष्यति, अभावस्वभावशून्यताया लोके प्रादुर्भावो भविष्यति.
स्मृत्युपस्थानानां लोके प्रादुर्भावो भविष्यति, सम्यक्प्रहाणानां लोके प्रादुर्भावो भविष्यति, ऋद्धिपादानां लोके प्रादुर्भावो भविष्यति, इन्द्रियाणां लोके प्रादुर्भावो भविष्यति, बलानां लोके प्रादुर्भावो भविष्यति, बोध्यङ्गानां लोके प्रादुर्भावो भविष्यति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भविष्यति, आर्यसत्यानां लोके प्रादुर्भावो भविष्यति, ध्यानानां लोके प्रादुर्भावो भविष्यति, अप्रमाणानां लोके प्रादुर्भावो भविष्यति, आरूप्यसमापत्तीनां लोके प्रादुर्भावो भविष्यति, विमोक्षाणां लोके प्रादुर्भावो भविष्यति, अनुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भविष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लोके प्रादुर्भावो भविष्यति, अभिज्ञानां लोके प्रादुर्भावो भविस्वति, समाधीनां लोके प्रादुर्भावो भविष्यति, धारणीमुखानां लोके प्रादुर्भावो भविष्यति, तथागतबलानां लोके प्रादुर्भावो भविष्यति, वैशारद्यानां लोके प्रादुर्भावो भविष्यति, प्रतिसंविदां लोके प्रादुर्भावो ( श्स्प्_इइ-4_54 ) भविष्यति, महामैत्र्या लोके प्रादुर्भावो भविष्यति, महाकरुणाया लोके प्रादुर्भावो भविष्यति, आवेणिकबुद्धधर्माणां लोके प्रादुर्भावो भविष्यति, बोधिसत्त्वचर्याया लोके प्रादुर्भावो भविष्यति,
स्रोतआपत्तिफलस्य लोके प्रादुर्भावो भविष्यति, सकृदागामिफलस्य लोके प्रादुर्भावो भविष्यति, अनागामिफलस्य लोके प्रादुर्भावो भविष्यति, अर्हत्त्वस्य लोके प्रादुर्भावो भविष्यति, प्रत्येकबोधेर् लोके प्रादुर्भावो भविष्यति, अनुत्तरायाः सम्यक्संबोधेर् लोके प्रादुर्भावो भविष्यति.
[क्. 184अ14, न्. 359अ2, त्. 289अ2, प्. 212ब्2, छ्. 580अ24]
अथ भगवाञ् छक्रं देवानाम् इन्द्रम् आमन्त्रयते: उद्गृहाण त्वं कौशिकेमां प्रज्ञापारमितां धारय वाचय पर्यवाप्नुहि योनिशश् च मनसिकुरुष्वेमां प्रज्ञापारमिताम्. तत् कस्य हेतोः? यदा कौशिकासुराणाम् एवं समुदाचारा भविष्यति, देवांस् त्रायस्त्रिंशान् योधयिष्यामो देवैस् त्रायस्त्रिंशैः सार्धं संग्रामयिष्यामस् तदा त्वं कौशिकेमां प्रज्ञापारमितां समन्वाहृत्य मनसा स्वध्याय कुर्याः योनिशश् च मनसिकुर्या एवं तेषाम् असुराणां ते समुदाचाराः.
पुनर् एवान्तर्द्धास्यति न पुनस् ते चित्तोत्पादा विवर्धिष्यन्ति, येषां च देवपुत्राणां देवकन्यानां च्युतिकालः स्यां ते चात्मनः पापोपपत्तिं पश्येयुस् तेषां त्वं कौशिक पुरतः इमां प्रज्ञापारमितां स्वाध्यायं कुर्यास् ते तेन प्रज्ञापारमिता श्रवणकुशलमूलेन प्रज्ञापारनुता प्रसादेन च तत्रैव देवभवनेषूपपत्स्यते. तत् कस्य हेतोः? एवं महार्थिका हि कौशिक प्रज्ञापारमिता श्रवणं यस्य कस्यचित् कुलपुत्रस्य वा कुलदुहितुर् वा देवपुत्रस्य वा देवकन्याया वा इयं प्रज्ञापारमिता श्रोतावभासं गमिष्यन्ति सर्वे ते तेन कुशलमूलेनानुपूर्वेणानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. तत् कस्य हेतोः? तथा हि कौशिक ये ते ऽभूवन् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धाः स श्रावकसंघास् ते ऽपीहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, ये ऽपि त एतर्हि दशसु दिक्षु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धाः सश्रावकसंघास् तिष्ठन्ति ध्रियन्ते यापयन्ति, सर्वे ते इहैव प्रज्ञापारमितायाम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. तत् कस्य हेतोः? तथा हि कौशिकात्र प्रज्ञापारमितायां सर्वे बोधिपक्षा धर्मा अन्तर्गताः श्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा.
शक्र आह: महाविद्येयं भगवन् यद् उत प्रज्ञापारमिता अनुत्तरेयं भगवन् विद्या यद् उत प्रज्ञापारमिता असमसमेयं भगवन् विद्या यद् उत प्रज्ञापारमिता. तत् कस्य हेतोः? तथा हि भगवन् ( श्स्प्_इइ-4_55 ) प्रज्ञापारमिता सर्वेषां कुशलानां धर्माणां धारयित्री.

भगवान् आह: एवम् एतत् कौशिकैवम् एतत् महाविद्येयं कौशिक विद्या यद् उत प्रज्ञापारमिता अनुत्तरेयं विद्या यद् उत प्रज्ञापारमिता, असमसमेयं विद्या यद् उत प्रज्ञापारमिता. तत् कस्य हेतोः? तथा हि कौशिक ये ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् त एतां विद्याम् आगम्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् एताम् एव विद्याम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, ये ऽपि त एतर्हि दश दिग् लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ति यापयन्ति, ते ऽप्य् एताम् एव विद्याम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा. तत् कस्य हेतोः? तथा हि कौशिकेमां विद्याम् आगम्य दशकुशला कर्मपथाः लोके प्रज्ञायन्ते, चत्वारि ध्यानानि लोके प्रज्ञायन्ते, चत्वार्य् अप्रमाणानि लोके प्रज्ञायन्ते, चतस्र आरूप्यसमापत्तयः लोके प्रज्ञायन्ते, पञ्चाभिज्ञा लोके प्रज्ञायन्ते.
दानपारमिता लोके प्रज्ञायते, शीलपारमिता लोके प्रज्ञायते, क्षान्तिपारमिता लोके प्रज्ञायते, वीर्यपारमिता लोके प्रज्ञायते, ध्यानपारमिता लोके प्रज्ञायते, प्रज्ञापारमिता लोके प्रज्ञायते.
अध्यात्मशून्यता लोके प्रज्ञायते, बहिर्धाशून्यता लोके प्रज्ञायते, अध्यात्मबहिर्धाशून्यता लोके प्रज्ञायते, शून्यताशून्यता लोके प्रज्ञायते, महाशून्यता लोके प्रज्ञायते, परमार्थशून्यता लोके प्रज्ञायते, संस्कृतशून्यता लोके प्रज्ञायते, असंस्कृतशून्यता लोके प्रज्ञायते, अत्यन्तशून्यता लोके प्रज्ञायते, अनवराग्रशून्यता लोके प्रज्ञायते, अनवकारशून्यता लोके प्रज्ञायते, प्रकृतिशून्यता लोके प्रज्ञायते, सर्वधर्मशून्यता लोके प्रज्ञायते, स्वलक्षणशून्यता लोके प्रज्ञायते, अनुपलम्भशून्यता लोके प्रज्ञायते, अभावशून्यता लोके प्रज्ञायते, स्वभावशून्यता लोके प्रज्ञायते, अभावस्वभावशून्यता लोके प्रज्ञायते.
स्मृत्युपस्थानानि लोके प्रज्ञायन्ते, सम्यक्प्रहाणानि लोके प्रज्ञायन्ते, ऋद्धिपादा लोके प्रज्ञायन्ते, इन्द्रियाणि लोके प्रज्ञायन्ते, बलानि लोके प्रज्ञायन्ते, बोध्यङ्गानि लोके प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गो लोके प्रज्ञायन्ते, आर्यसत्यानि लोके प्रज्ञायन्ते, ध्यानानि लोके प्रज्ञायन्ते, अप्रमाणानि लोके प्रज्ञायन्ते, आरूप्यसमापत्तयो लोके प्रज्ञायन्ते, विमोक्षा लोके प्रज्ञायन्ते, अनुपूर्वविहारसमापत्तयो लोके प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखाणि लोके प्रज्ञायन्ते, अभिज्ञा लोके प्रज्ञायन्ते, समाधयो लोके प्रज्ञायन्ते, धारणीमुखानि लोके प्रज्ञायन्ते, तथागतबलानि ( श्स्प्_इइ-4_56 ) लोके प्रज्ञायन्ते, वैशारद्यानि लोके प्रज्ञायन्ते, प्रतिसंविदो लोके प्रज्ञायन्ते, महाकरुणा लोके प्रज्ञायते, आवेणिकबुद्धधर्मा लोके प्रज्ञायन्ते. धर्मधातुर् लोके प्रज्ञायते, भूतकोटिर् लोके प्रज्ञायते, तथता लोके प्रज्ञायते, अवितथता लोके प्रज्ञायते, अनन्यतथता लोके प्रज्ञायते, धर्मता लोके प्रज्ञायते, धर्मस्थितिता लोके प्रज्ञायते, धर्मनियामता लोके प्रज्ञायते, पञ्च चक्षूंसि लोके प्रज्ञायन्ते, स्रोतआपत्तिफलं लोके प्रज्ञायते, सकृदागामिफलं लोके प्रज्ञायते, अनागामिफलं लोके प्रज्ञायते, अर्हत्त्वं लोके प्रज्ञायते, प्रत्येकबोधिर् लोके प्रज्ञायते, सर्वज्ञता लोके प्रज्ञायते, मार्गाकारज्ञता लोके प्रज्ञायते, सर्वाकारज्ञता लोके प्रज्ञायते, बोधिसत्त्वम् अपि कौशिकागम्य दश कुशलाः कर्मपथाः प्रभाष्यन्ते. चत्वारि ध्यानानि प्रभाव्यन्ते, चतस्र अरूप्यसमापत्तयः प्रभाव्यन्ते, पञ्चाभिज्ञा प्रभाव्यन्ते,
दानपारमिता लोके प्रभाव्यते, शीलपारमिता लोके प्रभाव्यते, क्षान्तिपारमिता लोके प्रभाव्यते, वीर्यपारमिता लोके प्रभाव्यते, ध्यानपारमिता लोके प्रभाव्यते, प्रज्ञापारमिता लोके प्रभाव्यते.
अध्यात्मशून्यता लोके प्रभाव्यते, बहिर्धाशून्यता लोके प्रभाव्यते, अध्यात्मबहिर्धाशून्यता लोके प्रभाव्यते, शून्यताशून्यता लोके प्रभाव्यते, महाशून्यता लोके प्रभाव्यते, परमार्थशून्यता लोके प्रभाव्यते, संस्कृतशून्यता लोके प्रभाव्यते, असंस्कृतशून्यता लोके प्रभाव्यते, अत्यन्तशून्यता लोके प्रभाव्यते, अनवराग्रशून्यता लोके प्रभाव्यते, अनवकारशून्यता लोके प्रभाव्यते, प्रकृतिशून्यता लोके प्रभाव्यते, सर्वधर्मशून्यता लोके प्रभाव्यते, स्वलक्षणशून्यता लोके प्रभाव्यते, अनुपलम्भशून्यता लोके प्रभाव्यते, अभावशून्यता लोके प्रभाव्यते, स्वभावशून्यता लोके प्रभाव्यते, अभावस्वभावशून्यता लोके प्रभाव्यते.
स्मृत्युपस्थानानि लोके प्रभाव्यन्ते, सम्यक्प्रहाणानि लोके प्रभाव्यन्ते, ऋद्धिपादा लोके प्रभाव्यन्ते, इन्द्रियाणि लोके प्रभाव्यन्ते, बलानि लोके प्रभाव्यन्ते, बोध्यङ्गानि लोके प्रभाव्यन्ते, आर्याष्टाङ्गो मार्गो लोके प्रभाव्यते, आर्यसत्यानि लोके प्रभाव्यन्ते, ध्यानानि लोके प्रभाव्यन्ते, अप्रमाणानि लोके प्रभाव्यन्ते, आरूप्यसमापत्तयो लोके प्रभाव्यन्ते, विमोक्षा लोके प्रभाव्यन्ते, अनुपूर्वविहारसमापत्तयो लोके प्रभाव्यन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि लोके प्रभाव्यन्ते, अभिज्ञाः लोके प्रभाव्यन्ते, समाधयो लोके प्रभाव्यन्ते, धारणीमुखानि लोके प्रभाव्यन्ते, तथागतबलानि लोके प्रभाव्यन्ते, वैशारद्यानि लोके ( श्स्प्_इइ-4_57 ) प्रभाव्यन्ते, प्रतिसंविदो लोके प्रभाव्यन्ते, महाकरुणा लोके प्रभाव्यते, आवेणिकबुद्धधर्मा लोके प्रभाव्यन्ते, सर्वज्ञता लोके प्रभाव्यते, मार्गाकारज्ञता लोके प्रभाव्यते, सर्वाकारज्ञता लोके प्रभाव्यते, स्रोतआपन्नो लोके प्रभाव्यते, सकृदागामी लोके प्रभाव्यते, अनागामी लोके प्रभाव्यते, अर्हन् लोके प्रभाव्यते, प्रत्येकबुद्धो लोके प्रभाव्यते, तथागतो ऽर्हन् सम्यक्संबुद्धो लोके प्रभाव्यते.
तद् यथापि नाम कौशिक चन्द्रमण्डलम् आगम्य सर्वोषधितारानक्षत्राणि प्रभाव्यन्ते. एवम् एव कौशिक बोधिसत्त्वचन्द्रमण्डलम् आगम्य सर्वकुशलचर्यासम्यक्चर्यादशकुशलकर्मपथध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञापारमिताशून्यताबोधिपक्षधर्मशून्यतानिमित्ताप्रणिहितार्यसत्यविमोक्षानुपूर्वविहारसमापत्तिसमाधिधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माधयः प्रभाव्यन्ते. सर्वशैक्षाशैक्षश्रावकप्रत्येकबुद्धतारानक्षत्राणि च प्रभाव्यन्ते. तथागताश् चार्हन्तः सम्यक्संबुद्धा लोके प्रभाव्यन्ते.
यदापि बुद्धानां भगवतां लोके नोत्पादो भवति, तदापि बोधिसत्त्वा महासत्त्वाः सत्त्वेभ्यो लौकिकलोकोत्तरान् धर्मान् देशयन्ति. तत् कस्य हेतोः? बोधिसत्त्वनिर्याता हि श्रावकप्रत्येकबुद्धमहायानानि, तच् च बोधिसत्त्वस्य महासत्त्वस्योपायकौशलं प्रज्ञापारमितानिर्यातं वेदितव्यं, येनोपायकौशलेन समन्वागता बोधिसत्त्वो महासत्त्वो दानपारमितायां चरति, शीलपारमितायां चरति, क्षान्तिपारमितायां चरति, वीर्यपारमितायां चरति, ध्यानपारमितायां चरति, प्रज्ञापारमितायां चरति.

अध्यात्मशून्यतायां चरति, बहिर्धाशून्यतायां चरति, अध्यात्मबहिर्धाशून्यतायां चरति, शून्यताशून्यतायां चरति, महाशून्यतायां चरति, परमार्थशून्यतायां चरति, संस्कृतशून्यतायां चरति, असंस्कृतशून्यतायां चरति, अत्यन्तशून्यतायां चरति, अनवराग्रशून्यतायां चरति, अनवकारशून्यतायां चरति, प्रकृतिशून्यतायां चरति, सर्वधर्मशून्यतायां चरति, स्वलक्षणशून्यतायां चरति, अनुपलम्भशून्यतायां चरति, अभावशून्यतायां चरति, स्वभावशून्यतायां चरति, अभावस्वभावशून्यतायां चरति.
स्मृत्युपस्थानेषु चरति. सम्यक्प्रहाणेषु चरति, ऋद्धिपादेषु चरति, इन्द्रियेषु चरति, बलेषु चरति, बोध्यङ्गेषु चरति, आर्याष्टाङ्गे मर्गे चरति, आर्यसत्येषु चरति, ध्यानेषु चरति, अप्रमाणेषु चरति, आरूप्यसमापत्तिषु चरति, अष्टासु विमोक्षेषु चरति, नवस्व् अनुपूर्वविहारसमापत्तिषु ( श्स्प्_इइ-4_58 ) चरति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु चरति, अभिज्ञासु चरति, समाधिषु चरति, धारणीमुखेषु चरति, तथागतबलेषु चरति, वैशारद्येषु चरति, प्रतिसंवित्सु चरति, महाकरुणायां चरति, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरति. न च श्रावकभूमौ पतति न प्रत्येकबुद्धभूमिसाक्षात् करोति, सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति, आयुःसंपदञ् च परिगृह्णाति सत्त्वसंपदञ् च परिगृह्णाति बुद्धक्षेत्रसंपदञ् च परिगृह्णाति, बोधिसत्त्वसंपदं च परिगृह्णाति सर्वाकारज्ञतां चानुत्प्राप्नोति.
[क्. 185अ18, न्. 361ब्8, त्. 290ब्10, प्. 217ब्4, छ्. 582च्20]
पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, स एभिर् दृष्टधार्मिकैर् गुणैः समन्वागतो भविष्यति सांपरायिकैश् च गुणैः समन्वागतो भविष्यति.
शक्र आह: कतमैर् भगवन् दृष्टधार्मिकैर् गुणैः समन्वागतः स कुलपुत्रो वा कुलदुहिता वा भविष्यति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति.
भगवान् आह: यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, स न विषेण कालं करिष्यति, न शस्त्रेण कालं करिष्यति, नाग्निना कालं करिष्यति, नोदकेन कालं करिष्यति, यावन् नैकोत्तरेण रागशतेन कालं करिष्यति, स्थापयित्वा पूर्वकर्मविपाकं, ये च पुन राजकुलाद् उपद्रवा भविष्यन्ति, सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायन् राजकुलम् उपसंक्रमिष्यति, न तस्य ते ऽवतारप्रेक्षिणाम् अवतारं लप्स्यते, राजपुत्राश् च राजमहामात्राश् चालपितव्यं मंस्यन्ते, आभाषितव्यं मंस्यन्ते, प्रतिसंमोदितव्यं मंस्यन्ते. तत् कस्य हेतोः? यथापि तद् अस्या एव प्रज्ञापारमितायास् तेजोनुभावेन सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायन् राजकुलम् उपसंक्रमिष्यति, तम् एनं ते राजपुत्रा वा राजमहामात्रा वा प्रियवचनैर् आलपितव्यं मंस्यन्ते, आभाषितव्यं मंस्यते, प्रतिसंमोदितव्यं मंस्यते. तत् कस्य हेतोः? तथा हि कौशिक तेषां कुलपुत्राणां कुलदुहितॄणां वा सर्वसत्त्वानाम् अन्तिके मैत्रचित्तं प्रत्युपस्थितं करुणाचित्तं मुदिताचित्तम् उपेक्षाचित्तं प्रत्युपस्थितं, एभिः कौशिक दृष्टधार्मिकैर् गुणैः समन्वागतः स कुलपुत्रो वा ( श्स्प्_इइ-4_59 ) कुलदुहिता वा भविष्यति य इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति.
कतमैश् च कौशिक सांपरायिकैर् गुणैः समन्वागतो भवति, यद् उत न जातु दशभिः कर्मपथैर् अविरहिता भविष्यति, न चतुर्भिर् ध्यानैर् न चतुर्भिर् अप्रमाणैर् न चतसृभिर् आरूप्यसमापत्तिभिः, न षड्भिः पारमिताभिर् न स्मृत्युपस्थानैर् न सम्यक्प्रहाणैर् न ऋद्धिपादैर् नेन्द्रियैर् न बलैर् न बोध्यङ्गैर् न मार्गेण नार्यसत्यैर् न ध्यानैर् नाप्रमाणैर् नारूप्यसमापत्तिभिर् न विमोक्षैर् नानुपूर्वविहारसमापत्तिभिर् न शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् नाभिज्ञाभिर् न समाधिभिर् न धारणीमुखैर् न तथागतबलैर् न वैशारद्यैर् न प्रतिसंविद्भिर् नावेणिकबुद्धधर्मैर् विरहिता भविष्यन्ति, न कदाचिन् नरकेषूपपद्यते, न तिर्यग्योनौ न यमलोके, अन्यत्र प्रणिधानवशेन सत्त्वं परिपाकं करिष्यति, स न कदाचिद् अङ्गविहीनो भविष्यति, न कदाचिद् दरिद्रकुलेषु प्रत्याजनिष्यति, वेणुकरकुले वा पुष्कसकुले वा मौष्ठिकचण्डालौरानिकसौकारिककुलेषु वा शूद्रकुलेषु वा सततसमितं द्वात्रिंशन् महापुरुषलक्षणैः समन्वागतो भविष्यति, यत्र च लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रीयन्ते यापयन्ति तत्र लोकधातुषूपपत्स्यते, न जातु बोधिसत्त्वाभिज्ञाभिर् विरहितो भविष्यति. स आकाङ्क्षं बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यति, बुद्धानां भगवतां दर्शनाय वन्दनाय पर्युपासनाय स बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामन् सत्त्वांश् च परिपाचयिष्यति, बुद्धक्षेत्रं च परिशोधयिष्यति, तस्मात् तर्हि कौशिक कुलपुत्रैर् वा कुलदुहितृभिर् वा इमां गुणसंपदाम् आकाङ्क्षद्भिर् इयं प्रज्ञापारमितोद्गृहीतव्या धारयितवा वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्या, सर्वाकारज्ञताचित्तेन चाविरहितेन भवितव्यं, त एभिर् दृष्टधार्मिकैः सांपरायिकैश् च गुणैः समन्वागतो भविष्यन्ति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.
शतसाहस्र्यां प्रज्ञापारमितायाम् ऊनविंशतितमः परिवर्तः
[क्. 185ब्15, न्. 362ब्8, त्. 291ब्3, प्. 219अ5, छ्. 583च्19]
अथान्यतीर्थिकपरिव्राजकानां शतम् उपारम्भाभिप्रायाणां येन भगवांस् तेनोपसंक्रामं न्यासीत्.
अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभूद्, इदम् अन्यतीर्थिकानां शतम् उपारम्भाभिप्रायाणां येन भगवांस् तेनोपसंक्रामन्ति स्म, य न्व् अहं यावन् मया भगवतो ऽन्तिकात्, इतः प्रज्ञापारमिताया उद्गृहीतं तत् स्वाध्यायं कुर्यां, यदि मे ऽन्यतीर्थिकपरिव्राजकाम् उपसंक्रम्य भगवतो ऽन्तरायं च कुर्युः प्रज्ञापारमितायां भाष्यमाणायाम्.
अथ शक्रो देवानाम् इन्द्रो यावद् भगवतो ऽन्तिकात् प्रज्ञापारमितायाम् उद्गृहीतं तावत् स्वाध्यायं करोति स्म.
अथ ते ऽन्यतीर्थिकपरिव्राजका दूरेण दूरं भगवतं प्रदक्षिणीकृत्य, तेनैव मार्गेन तेनैव द्वारेण पुनर् एव प्रक्रान्ताः
अथ भगवान् आयुष्मतः शारद्वतीपुत्रस्यैतद् अभूत्, किम् अत्र कारणं येन मे ऽन्यतीर्थिकपरिव्राजका दूरेण दूरं भगवन्तं प्रदक्षिणीकृत्य तेनैव मार्गेन तेनैव द्वारेण पुनर् एव प्रक्रान्ताः

अथ भगवान् आयुष्मतश् छारद्वतीपुत्रस्य चेतसैव चेतः, परिवितर्कम् आजायायुष्मन्तं शारद्वतीपुत्रम् आमन्त्रयतः शक्रेण सारद्वतीपुत्र देवानाम् इन्द्रेणेयं प्रज्ञापारमिता समन्वाहृता तेनैते ऽन्यतीर्थिकचरकपरिव्राजका दूरेण दूरं तां प्रदक्षिणीकृत्य, तेनैव मार्गेन तेनैव द्वारेण पुनर् एव प्रक्रान्ताः, न हि शारद्वतीपुत्र एषाम् अन्यतीर्थिकचरकपरिव्राजकानाम् एकस्यापि शुक्लाङ्गं समनुपश्यामि, सर्व एते ऽन्यतीर्थिकपरिव्राजकाः प्रतिहतचित्ता उपारम्भाभिप्राया इमां पर्षदम् उपसंक्रमितव्यं मंयन्ते नाहं तं शारद्वतीपुत्र समनुपश्यामि, सदेवलोके समारके सब्रह्मके सश्रवणब्राह्मणिकायां प्रजायां यो ऽस्यां प्रज्ञापारमितायां प्रतिहतचित्तो वा उपारम्भाभिप्रायो वा उपसंक्रमेन् नेदं स्थानं विद्यते. तत् कस्य हेतोः? तथा हि शारद्वतीपुत्र य इह त्रिसाहस्रे महासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवपुत्रा ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्मण आभः परीत्ताभा अप्रमाणाभा आभास्वराः शुभाः परीत्तशुब्बा अप्रमाणशुभाः शुभकृत्स्ना बृहाः परीत्तबृहा अप्रमाणबृहा बृहत्फला अनभ्रका अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवाः, ये च श्रावका ये च प्रत्येकबुद्धा ये ऽपि ( श्स्प्_इइ-4_61 ) बोधिसत्त्वा महासत्त्वास् तैर् इयं प्रज्ञापारमितां उद्गृहीता. तत् कस्य हेतोः? तथा हि ते प्रज्ञापारमिता निर्याताः सर्वम्.
पुनर् अपरं शारद्वतीपुत्र ये ऽपि ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते दक्षिणस्यां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते पश्चिमायां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते उत्तरस्यां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते उत्तरपूर्वस्यां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते पूर्वदक्षिणस्यां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा ( श्स्प्_इइ-4_62 ) देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयम् प्रज्ञापारमितानुगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे.
[क्. 186अ19, न्. 364अ8, त्. 292ब्5, प्. 222अ1, छ्. 584अ23]
अथ खलु मारस्य पापीयस् एतद् अभूद्, इमास् तथागतस्यार्हतः सम्यक्संबुद्धस्य चतस्रः पर्षदः संमुखीभूता इमे च कामावचरा रूपावचराश् च देवाः संमुखीभूता निःसंशयम् अत्र बोधिसत्त्वा महासत्त्वा व्याकरिष्यन्ते, अनुत्तरायां सम्यक्संबोधौ य न्व् अहं येन भगवांस् तेनोपसंक्रमेयं विचक्षुष् करणीय.
अथ मार पापीयांश् चतुरङ्गबलकायम् अभिनिर्माय येन भगवांस् तेनोपसंक्रमितुकामो ऽभूत्.
अथ शक्रस्य देवानाम् इन्द्रस्यैतद् अभूत्, मारो बतायं पापीयां चतुरङ्गबलकायम् अभिनिर्माय येन भगवांस् तेनोपसंक्रमितुकामः, यश् चायं मारपापीयाञ् चतुरङ्गबलकायस्य व्यूहो नायं राज्ञो बिम्बिसारस्य चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहो न राज्ञः प्रसेनजितो न साक्यानां न लिच्छवीनां चतुरङ्गस्य बलकायस्यैवंरूपव्यूहः यो ऽयं चतुरङ्गो वरकायो मारेण पापियसा निर्मितः दीर्घरात्रं खलु पुनर् मारपापीयान् भगवतो ऽवतारसंप्रेक्ष्यावतारगवेषी सम्यक्प्रयुक्तानां च सत्त्वानां विहेठनाभिप्रायः, य न्व् अहम् इमां ( श्स्प्_इइ-4_63 ) प्रज्ञापारमितां समन्वाहरेयं स्मृत्या च स्वाध्यायं कुर्यात्.
अथ शक्रो देवानाम् इन्द्र इमां प्रज्ञापारमितां समन्वाहरति स्म, स्मृत्या च स्वाध्यायं करोति स्म, यथा यथा शक्रो देवानाम् इन्द्र इमां प्रज्ञापारमितां स्वाध्यायं करोति स्म, तथा तथा मारपापीयांस् तेनैव मार्गेण तेनैव द्वारेण पुनर् एव प्रत्युदावर्तते स्म.

अथ तत्र पर्षदि चातुर्महाराजकायिका देवपुत्रा यावद् अकनिष्ठा देवास् ते दिव्यानि पुष्पाणि वासांसि चाभिनिर्माय वैहायस्य् अन्तरिक्षे स्थित्वैव येन भगवांस् तेनाक्षिपन्ति स्म, येन भगवांस् तेनाभिप्रकिरन्ति स्म. एवं च वाचम् अभाषन्त, चिरं बतेयं जाम्बूद्वीपकानां मनुष्याणां प्रज्ञापारमिता भगवतां यावत् किलेयं जाम्बूद्वीपकान् मनुष्यान् प्रज्ञापारमितानुवर्तिष्यन्ते तावन् न तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तर्धानं भविष्यति सद्धर्मस्य च चिरस्थितिकतां भविष्यति, संघरत्नस्य च लोके प्रादुर्भावो भविष्यति, बोधिसत्त्वानां च महासत्त्वानां चर्याविशेषः प्रज्ञास्यते, यत्र च दिग्भागे इमां प्रज्ञापारमितां ते कुलपुत्रा कुलदुहितरो वा लिखिष्यन्ति धारयिष्यन्ति पुस्तकगताम् अपि कृत्वा आलोकजाता च सा दिक् प्रतिकाङ्क्षितव्या सनाथाविगतास् तमोन्धकारा च मे सा दिक् प्रतिकाङ्क्षितव्य.

[क्. 186ब्9, न्. 265अ1, त्. 293अ2, प्. 223अ2, छ्. 584च्1]
अथ भगवाञ् छक्रं देवानाम् इन्द्रकांश् चाकनिष्ठपर्यतो देवपुत्रान् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, एवम् एतद् देवपुत्रा एवम् एतत्, यावद् इमां प्रज्ञापारमितां जाम्बूद्वीपका मनुष्या अनुवर्तिष्यन्ते, तावत् तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तर्धानं भविष्यति सद्धर्मस्य च चिरस्थितिकता भविष्यति संघरत्नस्य च लोके प्रज्ञायते यावत् त्रिसाहस्रमहासाहस्रे लोकधातौ यावत् समन्तो दशसु दिक्षु लोकधातुषु तथागतस्यार्हन्तः सम्यक्संबुद्धस्यान्तर्धानं भविष्यति, सर्वधर्मस्य च चिरस्थितिकता भविष्यति, संघरत्नस्य च लोके प्रादुर्भावो भविष्यति, बोधिसत्त्वानां च महासत्त्वानां चर्याविशेषः प्रज्ञास्यते, यत्र च दिग्भागे इमां प्रज्ञापारमितां ते कुलपुत्रा कुलदुहितरो वा लिखिष्यन्ति धारयिष्यन्ति पुस्तकगताम् अपि कृत्वा आलोकजाता च सा दिक् प्रतिकाङ्क्षितव्या सनाथाविगतास् तमोन्धकारा च मे सा दिक् प्रतिभाति.
अथ ते देवपुत्रा पुनर् अपि दिव्यानि कुसुमानि अभिनिर्माय येन भगवांस् तेनाभिप्रकिरन्ति स्म, एवञ् च वाचम् अभाषन्त, यो हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति ( श्स्प्_इइ-4_64 ) धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशस् मनसिकरिश्यति. न तस्य मारो वा मारकायिका वा देवता अवतारप्रक्षिणो ऽवतारं लप्स्यन्ते, वयम् अपि भगवंस् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यामः. तत् कस्य हेतोः? शास्तारम् एव भगवंस् तम् अस्य महाशास्तारम् अन्यतरं वा यः कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, योनिशश् च मनसिकरिष्यति.
अथ शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: न ते भगवन् कुलपुत्रो वा कुलदुहितरो वा अवरकेन कुशलमूलेन समन्वागता भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, योनिशश् च मनसिकरिष्यति, सर्वजिनमनसिकारास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, बहुबुद्धपर्युपासिताश् च ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, कल्याणमित्रपरिगृहीताश् च ते भगवन् कुलपुत्रा वा कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. तत् कस्य हेतोः? अतो हि भगवन् सर्वाकारज्ञता गवेषितव्या यद् उत प्रज्ञापारमितायाः, अतश् च पुनर् भगवन् प्रज्ञापारमिता गवेषितव्या, यद् उत सर्वाकारज्ञतायाः. तत् कस्य हेतोः? तथा हि भगवन् नान्या प्रज्ञापारमितान्या सर्वाकारज्ञतान्या प्रज्ञापारमिता इति हि प्रज्ञापारमिता च सर्वाकारज्ञता नान्याद्वयम् एतद् अद्वैधीकारम्.
भगवान् आह: एवम् एतत् कौशिकैवम् एतत् प्रज्ञापारमितानिर्याता हि कौशिक तथागतानाम् अर्हतां सम्यक्संबुद्धानां सर्वाकारज्ञता, सर्वाकारज्ञातानिर्याता च प्रज्ञापारमिता. तत् कस्य हेतोः? तथा हि कौशिक नान्या प्रज्ञापारमितान्या सर्वाकारज्ञता नान्या सर्वाकारज्ञतान्या प्रज्ञापारमिता इति हि प्रज्ञापारमिता च सर्वाकारज्ञता चाद्वयम् एतद् अद्वैधीकारम्.
शतसाहस्र्यां प्रज्ञापारमितायां विंशतितमः परिवर्तः
[क्. 187अ3, न्. 365ब्8, त्. 293ब्6, प्. 224ब्2, छ्, 585अ15]
अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: न तथा भगवान् दानपारमिताया नामधेयं परिकीर्तयति, न तथा शीलपारमिताया नामधेयं परिकीर्तयति, न तथा क्षान्तिपारमिताया नामधेयं परिकीर्तयति, न तथा वीर्यपारमिताया नामधेयं परिकीर्तयति, न तथा ध्यानपारमिताया नामधेयं परिकीर्तयति, न तथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति.
न तथा भगवान् अध्यात्मशून्यताया नामधेयं परिकीर्तयति, न तथा बहिर्धाशून्यताया नामधेयं परिकीर्तयति, न तथाध्यात्मबहिर्धाशून्यताया नामधेयं परिकीर्तयति, न तथा शून्यताशून्यताया नामधेयं परिकीर्तयति, न तथा महाशून्यताया नामधेयं परिकीर्तयति, न तथा परमार्थशून्यताया नामधेयं परिकीर्तयति, न तथा संस्कृतशून्यताया नामधेयं परिकीर्तयति, न तथा संस्कृतशून्यताया नामधेयं परिकीर्तयति, न तथात्यन्तशून्यताया नामधेयं परिकीर्तयति, न तथानवराग्रशून्यताया नामधेयं परिकीर्तयति, न तथानवकारशून्यताया नामधेयं परिकीर्तयति, न तथा प्रकृतिशून्यताया नामधेयं परिकीर्तयति, न तथा सर्वधर्मशून्यताया नामधेयं परिकीर्तयति, न तथा स्वलक्षणशून्यताया नामधेयं परिकीर्तयति, न तथानुपलम्भशून्यताया नामधेयं परिकीर्तयति, न तथाभावशून्यताया नामधेयं परिकीर्तयति, न तथा स्वभावशून्यताया नामधेयं परिकीर्तयति, न तथाभावस्वभावशून्यताया नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति.
न तथा स्मृत्युपस्थानानां नामधेयं परिकीर्तयति, न तथा सम्यक्प्रहाणानां नामधेयं परिकीर्तयति, न तथा ऋद्धिपादानां नामधेयं परिकीर्तयति, न तथेन्द्रियाणां नामधेयं परिकीर्तयति, न तथा बलानां नामधेयं परिकीर्तयति, न तथा बोध्यङ्गानां नामधेयं परिकीर्तयति, न तथार्याष्टाङ्गस्य मार्गस्य नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति. न तथार्यसत्यानां नामधेयं परिकीर्तयति, न तथा ध्यानानां नामधेयं परिकीर्तयति, न तथारूप्यसमापत्तीनां नामधेयं प्ररिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति. न तथाष्टानां विमोक्षमुखानां नामधेयं परिकीर्तयति, न तथा नवानुपूर्वविहारसमापत्तीनां नामधेयं परिकीर्तयति, न तथा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां ( श्स्प्_इइ-4_66 ) नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामद्ःएयं परिकीर्तयति. न तथा समाधीनां नामधेयनि परिकीर्तयति, न तथा धारणीमुखानां नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति. न तथा दशानां तथागतबलानां नामधेयं परिकीर्तयति, न तथ चतुर्णां वैशारद्यानां नामधेयं परिकीर्तयति, न तथा चतसृणां प्रतिसंविदां नामधेयं परिकीर्तयति, न तथा महामैत्र्या नामधेयं परिकीर्तयति, न तथा महाकरुणाया नामधेयं परिकीर्तयति, न तथाष्टादशानाम् आवेणिकानां बुद्धधर्माणां नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति.

भगवान् आह: प्रज्ञापारमिता आनन्दः पूर्वाङ्गमा परिणायिका यद् उत पञ्चानां पारमितानां सर्वशून्यतानां सप्तत्रिंशानां बोधिपक्षाणां धर्माणां, आर्यसत्यानां चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनाम् अष्टाणां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अभिज्ञानां समाधीनां धारणीमुखानां दशतथागतबलानां चतुर्णां वैशारद्यानां प्रतिसंविदां महामैत्र्या महाकरुणाया अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम्. तत् किं मन्यसे? आनन्दापरिणामितं दानं सर्वाकारज्ञतायां दानपारमिता भवति.
आह: नो हीदं भगवन्.
भगवान् आह: तत् किम् अपरिणामितं शीलं सर्वाकारज्ञतायां शीलपारमिता भवति?
आह: नो हीदं भगवन्.
भगवान् आह: तत् किम् अपरिणामितं क्षान्तिं सर्वाकारज्ञतायां क्षान्तिपारमिता भवति?
आह: नो हीदं भगवन्.
भगवान् आह: तत् किम् अपरिणामितं वीर्यं सर्वाकारज्ञतायां वीर्यपारमिता भवति?
आह: नो हीदं भगवन्.
भगवान् आह: तत् किम् अपरिणामितं ध्यानं सर्वाकारज्ञतायां ध्यानपारमिता भवति?
आह: नो हीदं भगवन्.
भगवान् आह: तत् किम् अपरिणामितं प्रज्ञां सर्वाकारज्ञतायां प्रज्ञापारमिता भवति?
आह: नो हीदं भगवन्. अपि तु खलु पुनः कथं भगवन् दानपारमितां सर्वाकारज्ञतायां दानपारमिता भवति? कथं भगवन् शीलपारमितां सर्वाकारज्ञतायां शीलपारमिता भवति? कथं भगवन् क्षान्तिपारमितां सर्वाकारज्ञतायां क्षान्तिपारमिता भवति? कथं भगवन् वीर्यपारमितां सर्वाकारज्ञतायां वीर्यपारमिता भवति? कथं भगवन् ध्यानपारमितां सर्वाकारज्ञतायां ध्यानपारमिता भवति? कथं भगवन् प्रज्ञापारमितां सर्वाकारज्ञतायां प्रज्ञापारमिता भवति?
भगवान् आह: अद्वययोगेनानन्द परिणामितं सर्वाकारज्ञतायां दानपारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं सर्वाकारज्ञतायां दानपारमिता भवति, अद्वययोगेन परिणामितं शीलं सर्वाकारज्ञतायां शीलपारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं शीलं सर्वाकारज्ञतायां शीलपारमिता भवति, अद्वययोगेन परिणामितं क्षान्तिः सर्वाकारज्ञतायां क्षान्तिपारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामिता क्षान्तिः सर्वाकारज्ञतायां क्षान्तिपारमिता भवति, अद्वययोगेन परिणामितं वीर्यं सर्वाकारज्ञतायां वीर्यपारमिता भवति, अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं वीर्यं सर्वाकारज्ञतायां वीर्यपारमिता भवति, अद्वययोगेन परिणामितं ध्यानं सर्वाकारज्ञतायां ध्यानपारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं ध्यानं सर्वाकारज्ञतायां ध्यानपारमिता भवति, अद्वययोगेन परिणामिता प्रज्ञा सर्वाकारज्ञतायां प्रज्ञापारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामिता प्रज्ञा सर्वाकारज्ञतायां प्रज्ञापारमिता भवति.
आह: कथं भगवन्न् अद्वययोगेन परिणामितं दानं सर्वाकारज्ञतायां दानपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामितं शीलं सर्वाकारज्ञतायां शीलपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामितं क्षान्तिः सर्वाकारज्ञतायां क्षान्तिपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामितं वीर्यं सर्वाकारज्ञतायां वीर्यपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामितं ध्यानं सर्वाकारज्ञतायां ध्यानपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामिता प्रज्ञा सर्वाकारज्ञतायां ( श्स्प्_इइ-4_68 ) प्रज्ञापारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन?
भगवान् आह: रूपस्याद्वययोगेन, वेदनाया अद्वययोगेन, संज्ञाया अद्वययोगेन, संस्काराणाम् अद्वययोगेन, विज्ञानस्याद्वययोगेन.
चक्षुष अद्वययोगेन, श्रोत्रस्याद्वययोगेन, घ्राणस्याद्वययोगेन, जिह्वाया अद्वययोगेन, कायस्याद्वययोगेन, मनसो ऽद्वययोगेन.
रूपस्याद्वययोगेन, शब्दस्याद्वययोगेन, गन्धस्याद्वययोगेन, रसस्याद्वययोगेन, स्पर्शस्याद्वययोगेन, धर्माणाम् अद्वययोगेन.
चक्षुर्विज्ञानस्याद्वययोगेन, श्रोत्रविज्ञानस्याद्वययोगेन, घ्राणविज्ञानस्याद्वययोगेन, जिह्वाविज्ञानस्याद्वययोगेन, कायविज्ञानस्याद्वययोगेन, मनोविज्ञानस्याद्वययोगेन.
चक्षुःसंस्पर्शस्याद्वययोगेन, श्रोत्रसंस्पर्शस्याद्वययोगेन, घ्राणसंस्पर्शस्याद्वययोगेन, जिह्वासंस्पर्शस्याद्वययोगेन, कायसंस्पर्शस्याद्वययोगेन, मनःसंस्पर्शस्याद्वययोगेन.
चक्षुःसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, घ्राणसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, जिह्वासंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कायसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, मनःसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन.
पृथिवीधातोर् अद्वययोगेन, अब्धातोर् अद्वययोगेन, तेजोधातोर् अद्वययोगेन, वायुधातोर् अद्वययोगेन, आकाशधातोर् अद्वययोगेन, विज्ञानधातोर् अद्वययोगेन.
अविद्याया अद्वययोगेन, संस्काराणाम् अद्वययोगेन, विज्ञानस्याद्वययोगेन, नामरूपस्याद्वययोगेन, षडायतनस्याद्वययोगेन, स्पर्शस्याद्वययोगेन, वेदनाया अद्वययोगेन, तृष्णाया अद्वययोगेन, उपादानस्याद्वययोगेन, भवस्याद्वययोगेन, जातेर् अद्वययोगेन, जरामरणस्याद्वययोगेन.
दानपारमिताया अद्वययोगेन, शीलपारमिताया अद्वययोगेन, क्षान्तिपारमिताया अद्वययोगेन, वीर्यपारमिताया अद्वययोगेन, ध्यानपारमिताया अद्वययोगेन, प्रज्ञापारमिताया अद्वययोगेन.
अध्यात्मशून्यताया अद्वययोगेन, बहिर्धाशून्यताया अद्वययोगेन, अध्यात्मबहिर्धाशून्यता अद्वययोगेन, शून्यताशून्यताया अद्वययोगेन, महाशून्यताया अद्वययोगेन, परमार्थशून्यताया अद्वययोगेन, संस्कृतशून्यताया अद्वययोगेन, असंस्कृतशून्यताया अद्वययोगेन, अत्यन्तशून्यताया अद्वययोगेन, अनवराग्रशून्यताया अद्वययोगेन, ( श्स्प्_इइ-4_69 ) अनवकारशून्यताया अद्वययोगेन, प्रकृतिशून्यताया अद्वययोगेन, सर्वधर्मशून्यताया अद्वययोगेन, स्वलक्षणशून्यताया अद्वययोगेन, अनुपलम्भशून्यताया अद्वययोगेन, अभावशून्यताया अद्वययोगेन, स्वभावशून्यताया अद्वययोगेन, अभावस्वभावशून्यताया अद्वययोगेन.

स्मृत्युपस्थानानाम् अद्वययोगेन, सम्यक्प्रहाणानाम् अद्वययोगेन, ऋद्धिपादानाम् अद्वययोगेन, इन्द्रियाणाम् अद्वययोगेन, बलानाम् अद्वययोगेन, बोध्यङ्गानाम् अद्वययोगेन, आर्याष्टाङ्गस्य मार्गस्याद्वययोगेन, आर्यसत्यानाम् अद्वययोगेन, ध्यानानाम् अद्वययोगेन, अप्रमाणानाम् अद्वययोगेन, आरूप्यसमापत्तीनाम् अद्वययोगेन, विमोक्षाणाम् अद्वययोगेन, अनुपूर्वविहारसमापत्तीनाम् अद्वययोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अद्वययोगेन, अभिज्ञानाम् अद्वययोगेन, समाधीनाम् अद्वययोगेन, धारणीमुखानाम् अद्वययोगेन, दशानां तथागतबलानाम् अद्वययोगेन, चतुर्णां वैशारद्यानाम् अद्वययोगेन, चतसृणां प्रतिसंविदाम् अद्वययोगेन, महामैत्र्या अद्वययोगेन, महाकरुणाया अद्वययोगेन, अष्टादशानाम् आवेणिकबुद्धधर्माणाम् अद्वययोगेन, स्रोतआपत्तिफलस्याद्वययोगेन, सकृदागामिफलस्याद्वययोगेन, अनागामिफलस्याद्वययोगेन, अर्हत्त्वस्याद्वययोगेन, प्रत्येकबोधेर् अद्वययोगेन, अनुत्तरायाः सम्यक्संबोधेर् अद्वययोगेन.
[क्. 188अ12, न्. 368ब्4, त्. 295ब्6, प्. 229ब्1, छ्. 617अ8]
आह: कथं भगवन् रूपस्याद्वययोगेन, कथं वेदनाया अद्वययोगेन, कथं संज्ञाया अद्वययोगेन, कथं संस्काराणाम् अद्वययोगेन, कथं विज्ञानस्याद्वययोगेन?
कथं चक्षुषो ऽद्वययोगेन, कथं श्रोत्रस्याद्वययोगेन, कथं घ्राणस्याद्वययोगेन, कथं जिह्वाया अद्वययोगेन, कथं कायस्याद्वययोगेन, कथं मनसो ऽद्वययोगेन?
कथं रूपस्याद्वययोगेन, कथं शब्दस्याद्वययोगेन, कथं गन्धस्याद्वययोगेन, कथं रसस्याद्वययोगेन, कथं स्पर्शस्याद्वययोगेन, कथं धर्माणाम् अद्वययोगेन?
कथं चक्षुर्विज्ञानस्याद्वययोगेन, कथं श्रोत्रविज्ञानस्याद्वययोगेन, कथं घ्राणविज्ञानस्याद्वययोगेन, कथं जिह्वाविज्ञानस्याद्वययोगेन, कथं कायविज्ञानस्याद्वययोगेन, कथं मनोविज्ञानस्याद्वययोगेन?

कथं चक्षुःसंस्पर्शस्याद्वययोगेन, कथं श्रोत्रसंस्पर्शस्याद्वययोगेन, ( श्स्प्_इइ-4_70 ) कथं घ्राणसंस्पर्शस्याद्वययोगेन, कथं जिह्वासंस्पर्शस्याद्वययोगेन, कथं कायसंस्पर्शस्याद्वययोगेन, कथं मनःसंस्पर्शस्याद्वययोगेन?
कथं चक्षुःसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं श्रोत्रसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं घ्राणसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं जिह्वासंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं कायसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं मनःसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन?
कथं पृथिवीधातोर् अद्वययोगेन, कथम् अब्धातोर् अद्वययोगेन, कथं तेजोधातोर् अद्वययोगेन, कथं वायुधातोर् अद्वययोगेन, कथम् आकाशधातोर् अद्वययोगेन, कथं विज्ञानधातोर् अद्वययोगेन?
कथम् अविद्याया अद्वययोगेन, कथं संस्काराणाम् अद्वययोगेन, कथं विज्ञानस्याद्वययोगेन, कथं नामरूपस्याद्वययोगेन, कथं षडायतनस्याद्वययोगेन, कथं स्पर्शस्याद्वययोगेन, कथं वेदनाया अद्वययोगेन, कथं तृष्णाया अद्वययोगेन, कथम् उपादानस्याद्वययोगेन, कथं भवस्याद्वययोगेन, कथं जातेर् अद्वययोगेन, कथं जरामरणस्याद्वययोगेन?
कथं दानपारमिताया अद्वययोगेन, कथं शीलपारमिताया अद्वययोगेन, कथं क्षान्तिपारमिताया अद्वययोगेन, कथं वीर्यपारमिताया अद्वययोगेन, कथं ध्यानपारमिताया अद्वययोगेन, कथं प्रज्ञापारमिताया अद्वययोगेन?
कथम् अध्यात्मशून्यताया अद्वययोगेन, कथं बहिर्धाशून्यताया अद्वययोगेन, कथम् अध्यात्मबहिर्धाशून्यताया अद्वययोगेन, कथं शून्यताशून्यताया अद्वययोगेन, कथं महाशून्यताया अद्वययोगेन, कथं परमार्थशून्यताया अद्वययोगेन, कथं संस्कृतशून्यताया अद्वययोगेन, कथम् असंस्कृतशून्यताया अद्वययोगेन, कथम् अत्यन्तशून्यताया अद्वययोगेन, कथम् अनवराग्रशून्यताया अद्वययोगेन, कथम् अनवकारशून्यताया अद्वययोगेन, कथं प्रकृतिशून्यताया अद्वययोगेन, कथं सर्वधर्मशून्यताया अद्वययोगेन, कथं स्वलक्षणशून्यताया अद्वययोगेन, कथम् अनुपलम्भशून्यताया अद्वययोगेन, कथम् अभावशून्यताया अद्वययोगेन, कथं स्वभावशून्यताया अद्वययोगेन, कथम् अभावस्वभावशून्यताया अद्वययोगेन?
कथं स्मृत्युपस्थानानाम् अद्वययोगेन, कथं सम्यक्प्रहाणानाम् अद्वययोगेन, कथम् ऋद्धिपादानाम् अद्वययोगेन, कथम् इन्द्रियाणाम् ( श्स्प्_इइ-4_71 ) अद्वययोगेन, कथं बलानाम् अद्वययोगेन, कथं बोध्यङ्गानाम् अद्वययोगेन, कथम् आर्याष्टाङ्गस्य मार्गस्याद्वययोगेन, कथम् आर्यसत्यानाम् अद्वययोगेन, कथं ध्यानानाम् अद्वययोगेन, कथम् अप्रमाणानाम् अद्वययोगेन, कथम् आरूप्यसमापत्तीनाम् अद्वययोगेन, कथम् अष्टानां विमोक्षाम् अद्वययोगेन, कथम् अनुपूर्वविहारसमापत्तीनाम् अद्वययोगेन, कथं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अद्वययोगेन, कथम् अभिज्ञानाम् अद्वययोगेन, कथं समाधीनाम् अद्वययोगेन, कथं धारणीमुखानाम् अद्वययोगेन, कथं दशानां तथागतबलानाम् अद्वययोगेन, कथं चतुर्णां वैशारद्यानाम् अद्वययोगेन, कथं चतसृणां प्रतिसंविदाम् अद्वययोगेन, कथं महामैत्र्या अद्वययोगेन, कथं महाकरुणाया अद्वययोगेन, कथम् अष्टादशानाम् आवेणिकबुद्धधर्माणाम् अद्वययोगेन, कथं स्रोतआपत्तिफलस्याद्वययोगेन, कथं सकृदागामिफलस्याद्वययोगेन, कथम् अनागामिफलस्याद्वययोगेन, कथम् अर्हत्त्वस्याद्वययोगेन, कथं प्रत्येकबोधेर् अद्वययोगेन, कथं मार्गाकारज्ञताया अद्वययोगेन, कथं सर्वाकारज्ञताया अद्वययोगेन, कथम् अनुत्तरायाः सम्यक्संबोधेर् अद्वययोगेन?
तथा हि रूपं रूपेण शून्यम्. तत् कस्य हेतोः? तथा हि रूपं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, वेदना वेदनया शून्या. तत् कस्य हेतोः? तथा हि वेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, संज्ञा संज्ञया शून्या. तत् कस्य हेतोः? तथा हि संज्ञा च पारमिता चाद्वयम् एतद् अद्वैध्ल्कारं, संस्काराः संस्कारैः शून्याः. तत् कस्य हेतोः? तथा हि संस्कारा च पारमिता चाद्वयम् एतद् अद्वैधीकारं, विज्ञानं विज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि विज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
चक्षुश् चक्षुषा शून्यम्. तत् कस्य हेतोः? तथा हि चक्षुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, श्रोत्रं श्रोत्रेण शून्यम्. तत् कस्य हेतोः? तथा हि श्रोत्रं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, घ्राणं घ्राणेन शून्यम्. तत् कस्य हेतोः? तथा हि घ्राणं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जिह्वा जिह्वया शून्या. तत् कस्य हेतोः? तथा हि जिह्वा च पारमिता चाद्वयम् एतद् अद्वैधीकारं, कायः कायेण शून्यः. तत् कस्य हेतोः? तथा हि कायं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मनो मनसा शून्यम्. तत् कस्य हेतोः? तथा हि शून्यं च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
रूपं रूपेण शून्यम्. तत् कस्य हेतोः? तथा हि रूपं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, शब्दः शब्देन शून्यः तत् कस्य हेतोह्? तथा हि शब्दश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, गन्धः गन्धेन शून्यः. तत् कस्य हेतोः? तथा हि गन्धश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, रसो रसेन शून्यः. तत् कस्य हेतोः? तथा हि रसश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्पर्शः स्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि स्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मा धर्मैः शून्याः. तत् कस्य हेतोः? तथा हि धर्माश् च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि चक्षुर्विज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि श्रोत्रविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, घ्राणविज्ञानं घ्राणविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि घ्राणविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि जिह्वाविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, कायविज्ञानं कायविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि कायविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मनोविज्ञानं मनोविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि मनोविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.

चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि चक्षुःसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि श्रोत्रसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि घ्राणसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः, तत् कस्य हेतोः? तथा हि जिह्वासंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, कायसंस्पर्शः कायसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि कायसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि मनःसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
चक्षुःसंस्पर्शप्रत्ययवेदना चक्षुःसंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि चक्षुःसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, श्रोत्रसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदनया ( श्स्प्_इइ-4_73 ) शून्या. तत् कस्य हेतोः? तथा हि श्रोत्रसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, घ्राणसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि घ्राणसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जिह्वासंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि जिह्वासंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, कायसंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि कायसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मनःसंस्पर्शप्रत्ययवेदना मनःसंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि मनःसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
पृथिवीधातुः पृथिवीधातुना शून्यः. तत् कस्य हेतोः? तथा हि पृथिवीधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अब्धातुर् अब्धातुना शून्यः. तत् कस्य हेतोः? तथा ह्य् अब्धातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, तेजोधातुः तेजोधातुना शून्यः. तत् कस्य हेतोः? तथा हि तेजोधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, वायुधातुर् वायुधातुना शून्यः. तत् कस्य हेतोः? तथा हि वायुधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, आकाशधातुर् आकाशधातुना शून्यः. तत् कस्य हेतोः? तथा ह्य् आकाशधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, विज्ञानधातुर् विज्ञानधातुना शून्यः. तत् कस्य हेतोः? तथा हि विज्ञानधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
अविद्या अविद्यया शून्या. तत् कस्य हेतोः? तथा ह्य् अविद्या च पारमिता चाद्वयम् एतद् अद्वैधीकारं, संस्काराः संस्कारैः शून्याः. तत् कस्य हेतोः? तथा हि संस्काराश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, विज्ञानं विज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि विज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, नामरूपं नामरूपेण शून्यम्. तत् कस्य हेतोः? तथा हि नामरूपं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, षडायतनं षडायतनेन शून्यम्. तत् कस्य हेतोः? तथा हि षडायतनं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्पर्शः स्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि स्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, वेदना वेदनया शून्या. तत् कस्य हेतोः? तथा हि वेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, तृष्णा तृष्णया शून्या. तत् कस्य हेतोः? तथा हि तृष्णा च पारमिता चाद्वयम् एतद् अद्वैधीकारं, उपादानम् ( श्स्प्_इइ-4_74 ) उपादानेन शून्यम्. तत् कस्य हेतोः? तथा ह्य् उपादानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, भवो भवेन शून्यः. तत् कस्य हेतोह्? तथा हि भवश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं. जातिर् जत्या शून्या. तत् कस्य हेतोः? तथा हि जातिश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जरामरणं जरामरणेन शून्यम्. तत् कस्य हेतोः? तथा हि नामरूपं च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
अध्यात्मशून्यता अध्यात्मशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अध्यात्मशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या. तत् कस्य हेतोः? तथा हि बहिर्धाशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अध्यात्मबहिर्धाशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, शून्यताशून्यता शून्यताशून्यतया शून्या. तत् कस्य हेतोः? तथा हि शून्यताशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, महाशून्यता महाशून्यतया शून्या. तत् कस्य हेतोः? तथा हि महाशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, परमार्थशून्यता परमार्तशून्यतया शून्या. तत् कस्य हेतोः? तथा हि परमार्थशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, संस्कृतशून्यता संस्कृतशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् संस्कृतशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, असंस्कृतशून्यता असंस्कृअशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् असंस्कृतशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अत्यन्तशून्यता अत्यन्तशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अत्यन्तशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनवराग्रशून्यता अनवराग्रशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अनवराग्रशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनवकारशून्यता अनवकारशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अनवकारशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, प्रकृतिशून्यता प्रकृतिशून्यतया शून्या. तत् कस्य हेतोः? तथा हि प्रकृतिशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या. तत् कस्य हेतोः? तथा हि सर्वधर्मशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या. तत् कस्य हेतोः? तथा हि स्वलक्षणशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनुपलम्भशून्यता अनुपलम्भशून्यतया शून्या. तत् कस्य हेतोह्? तथा ह्य् अनुपलम्भशून्यता च पारमिता चाद्वयम् एतद्. अद्वैधीकारम्, अभावशून्यता ( श्स्प्_इइ-4_75 ) अभावशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अभावशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्वभावशून्यता स्वभावशून्यतया शून्या. तत् कस्य हेतोः? तथा हि स्वभावशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.

स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि. तत् कस्य हेतोः? तथा हि स्मृत्युपस्थानानि च पारमिता चाद्ययम् एतद् अद्वैधीकारं, सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि. तत् कस्य हेतोः? तथा हि सम्यक्प्रहाणानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, ऋद्धिपादा ऋद्धिपादैः शून्यानि. तत् कस्य हेतोः? तथा ह्य् ऋद्धिपादाश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, इन्द्रियाणीन्द्रियैः शून्यानि. तत् कस्य हेतोः? तथा हीन्द्रियानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, बलानि बलैः शून्यानि. तत् कस्य हेतोः? तथा हि बलानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, बोध्यङ्गानि बोध्यङ्गैः शून्यानि. तत् कस्य हेतोः? तथा हि बोध्यङ्गानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मार्गो मार्गेन शून्यः. तत् कस्य हेतोः? तथा हि मार्गश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, आर्यसत्यान्य् आर्यसत्यैः शून्यानि. तत् कस्य हेतोः? तथा ह्य् आर्यसत्यानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, ध्यानानि ध्यानैः शून्यानि. तत् कस्य हेतोः? तथा हि ध्यानानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अप्रमाणान्य् अप्रमाणैः शून्यानि. तत् कस्य हेतोः? तथा ह्य् अप्रमाणानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, आरूप्यसमापत्तय आरूप्यसमापत्तिभिः शून्याः. तत् कस्य हेतोः? तथा ह्य् आरूप्यसमापत्तयश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, विमोक्षा विमोक्षैः शून्याः. तत् कस्य हेतोः? तथा हि विमोक्षाश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिभिः शून्याः. तत् कस्य हेतोः? तथा ह्य् अनुपूर्वविहारसमापत्तयश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षसमुखैः शून्यानि. तत् कस्य हेतोः? तथा हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अभिज्ञा अभिज्ञाभिः शून्याः. तत् कस्य हेतोः? तथा ह्य् अभिज्ञाश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, समाधयः समाधिभिः शून्याः. तत् कस्य हेतोः? तथा हि समाधयश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, धारणीमुखानि धारणीमुखैः शून्यानि. तत् कस्य हेतोः? तथा हि ( श्स्प्_इइ-4_76 ) धारणीमुखानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, दशतथागतबलानि दशतथागतबलैः शून्यानि. तत् कस्य हेतोः? तथा हि दशतथागतबलानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, वैशारद्यानि वैशारद्यैः शून्यानि. तत् कस्य हेतोः? तथा हि वैशारद्यानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, प्रतिसंविदः प्रतिसंविद्भिः शून्याः. तत् कस्य हेतोह्? तथा हि प्रतिसंविदश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं महाकरुणा महाकरुणया शून्या. तत् कस्य हेतोः? तथा हि महाकरुणा च पारमिता चाद्वयम् एतद् अद्वैधीकारं, आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मैः शून्याः. तत् कस्य हेतोः? तथा ह्य् आवेणिकबुद्धधर्माश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्रोतआपत्तिफलं स्रोतआपत्तिफलेन शून्यम्. तत् कस्य हेतोः? तथा हि स्रोतआपत्तिफलं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, सकृदागामिफलं सकृदागामिफैएन शून्यम्. तत् कस्य हेतोः? तथा हि सकृदागामिफलं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनागामिफलम् अनागामिफलेन शून्यम्. तत् कस्य हेतोः? तथा ह्य् अनागामिफलं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अर्हत्त्वम् अर्हत्त्वेन शून्यम्. तत् कस्य हेतोः? तथा ह्य् अर्हत्त्वं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, प्रत्येकबोधिः प्रत्येकबोध्या शून्या. तत् कस्य हेतोः? तथा ह्य् प्रत्येकबोधिश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मार्गाकारज्ञता मार्गाकारज्ञतया शून्या. तत् कस्य हेतोः? तथा हि मार्गाकारज्ञता च पारमिता चाद्वयम् एतद् अद्वैधीकारम्. अनुत्तरा सम्यक्संबोधिः सम्यक्संबोध्या शून्या. तत् कस्य हेतोह्? तथा हि बोधिसत्त्वाश् च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
[क्. 190अ6, न्. 373अ2, त्. 298ब्8, प्. 237ब्2, छ्. 687ब्2]
तस्मात् तर्ह्य् आनन्द प्रज्ञापारमितैव पूर्वङ्गमा आसां पञ्चानां पारमितानां प्रज्ञापारमितैव पूर्वङ्गमा सर्वशून्यतानां प्रज्ञापारमितैव पूर्वङ्गमा सप्तत्रिंशतां बोधिपक्ष्याणां प्रज्ञापारमितैव पूर्वङ्गमा चतुर्णाम् आर्यसत्यानां प्रज्ञापारमितैव पूर्वङ्गमा चतुर्णां ध्यानानां प्रज्ञापारमितैव पूर्वङ्गमा चतुर्णाम् अप्रमाणानां प्रज्ञापारमितैव पूर्वङ्गमा चतसृणाम् आरूप्यसमापत्तीनां प्रज्ञापारमितैव पूर्वङ्गम अष्टानां विमोक्षाणां प्रज्ञापारमितैव पूर्वङ्गमा नवानाम् अनुपूर्वविहारसमापत्तीनां प्रज्ञापारमितैव पूर्वङ्गमा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां प्रज्ञापारमितैव पूर्वङ्गमा अभिज्ञानां प्रज्ञापारमितैव पूर्वङ्गमा समाधीनां प्रज्ञापारमितैव पूर्वङ्गमा सर्वधारणीमुखानां ( श्स्प्_इइ-4_77 ) प्रज्ञापारमितैव पूर्वङ्गमा, दशानां तथागतबलानां प्रज्ञापारमितैव पूर्वङ्गमा, चतुर्णां वैशारद्यानां प्रज्ञापारमितैव पूर्वङ्गमा, चतसृणां प्रतिसंविदां प्रज्ञापारमितैव पूर्वङ्गमा, महामैत्र्याः प्रज्ञापारमितैव पूर्वङ्गमा, महाकरुणायाः प्रज्ञापारमितैव पूर्वङ्गमा, अष्टादशानाम् आवेणिकबुद्धधर्माणां प्रज्ञापारमितैव पूर्यङ्गमा, सर्वज्ञतायाः प्रज्ञापारमितैव पूर्वङ्गमा, मार्गाकारज्ञतायाः प्रज्ञापारमितैव पूर्वङ्गमा, सर्वाकारज्ञतायाः प्रज्ञापारमितैव पूर्वङ्गमा.
तद् यथापि नामानन्द महापृथिव्यां बीजानि प्रकीर्णानि सामाग्री लभमानानि विरोहन्ति महापृथिव्यां च तेषां प्रतिष्ठानं महापृथिवी प्रतिष्ठितानि तानि बीजानि प्ररोहन्ति. एवम् एव प्रज्ञापारमिता प्रतिष्ठा इमा पञ्चपारमिता विरोहन्ति.
अध्यात्मशून्यता विरोहति, बहिर्धाशून्यता विरोहति, अध्यात्मबहिर्धाशून्यता विरोहति, शून्यताशून्यता विरोहति, महाशून्यता विरोहति, परमार्थशून्यता विरोहति, संस्कृतशून्यता विरोहति, असंस्कृतशून्यता विरोहति, अत्यन्तशून्यता विरोहति, अनवराग्रशून्यता विरोहति, अनवकारशून्यता विरोहति, प्रकृतिशून्यता विरोहति, सर्वधर्मशून्यता विरोहति, स्वलक्षणशून्यता विरोहति, अनुपलम्भशून्यता विरोहति, अभावशून्यता विरोहति, स्वभावशून्यता विरोहति, अभावस्वभावशून्यता विरोहति.

स्मृत्युपस्थानानि विरोहन्ति, सम्यक्प्रहाणानि विरोहन्ति, ऋद्धिपादा विरोहन्ति, इन्द्रियाणि विरोहन्ति, बलानि विरोहन्ति, बोध्यङ्गानि विरोहन्ति, आर्याष्टाङ्गो मार्गो विरोहति, आर्यसत्यानि विरोहन्ति, ध्यानानि विरोहन्ति, अप्रमाणानि विरोहन्ति, आरूप्यसमापत्तयो विरोहन्ति, अष्टौ विमोक्षा विरोहन्ति, नवानुपूर्वविहारसमापत्तयो विरोहन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विरोहन्ति, अभिज्ञा विरोहन्ति, समाधयो विरोहन्ति, धारणीमुखानि विरोहन्ति, दशतथागतबलानि विरोहन्ति, चत्वारि वैशारद्यानि विरोहन्ति, चतस्रः प्रतिसंविदो विरोहन्ति, महामैत्रि विरोहति, महाकरुणा विरोहति, अष्टादशावेणिका बुद्धधर्मा विरोहन्ति, सर्वज्ञता विरोहन्ति, मार्गाकारज्ञता विरोहन्ति, सर्वाकारज्ञता विरोहन्ति.
सर्वाकारज्ञताप्रतिष्ठिताः पुनर् आनन्द पञ्चपारमिता विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताः सर्वशून्यता विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वारि स्मृत्युपस्थानानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वारि सम्यक्प्रहाणानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताश् चत्वार ऋद्धिपादा विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि पञ्चेन्द्रियाणि विरोहन्ति, ( श्स्प्_इइ-4_78 ) सर्वाकारज्ञताप्रतिष्ठितानि पञ्चबलानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि सप्तबोध्यङ्गानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठित आर्याष्टाङ्गो मार्गो विरोहति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वार्य् आर्यसत्यानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वारि ध्यानानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वार्य् अप्रमाणानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताश् चतस्र आरूप्यसमापत्तयो विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताः सर्वसमाधयो विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि सर्वधारणीमुखानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि दशतथागतबलानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वारि वैशारद्यानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताश् चतस्रः प्रतिसंविदो विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिता महामैत्री विरोहति, सर्वाकरज्ञतप्रतिष्ठिता महाकरुणा विरोहति, सर्वाकारज्ञतप्रतिष्ठिता अष्टादशावेणिका बुद्धधर्मा विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिता सर्वज्ञता विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिता मार्गाकारज्ञता विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिता सर्वाकारज्ञता विरोहन्ति.
तस्मात् तर्ह्य् आनन्द प्रज्ञापारमितैवासां पञ्चानां पारमितानां परिणायिका, सर्वशून्यतानां परिणायिका, चतुर्णां स्मृत्युपस्थानानां परिणायिका, चतुर्णां सम्यक्प्रहाणानां परिणायिका, चतुर्णाम् ऋद्धिपादानां परिणायिका, पञ्चानाम् इन्द्रियाणां परिणायिका, पञ्चानां बलानां परिणायिका, सप्तानां बोध्यङ्गानां परिणायिका, आर्याष्टाङ्गस्य मार्गस्य परिणायिका, चतुर्णाम् आर्यसत्यानां परिणायिका, चतुर्णां ध्यानानां परिणायिका, चतुर्णाम् अप्रमाणानां परिणायिका, चतसृणाम् आरूप्यसमापत्तीनां परिणायिका, अष्टानां विमोक्षाणां परिणायिका, नवानुपूर्वविहारसमापत्तीनां परिणायिका, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिणायिका, अभिज्ञानां परिणायिका, समाधीनां परिणायिका, धारणीमुखानां परिणायिका, दशानां तथागतबलानां परिणायिका, चतुर्णां वैशारद्यानां परिणायिका, चतसृणां प्रतिसंविदानां परिणायिका, महामैत्र्याः परिणायिका, महाकरुणायाः परिणायिका, अष्टादशानाम् आवेणिकानां बुद्धधर्मानां परिणायिका, सर्वज्ञतायाः परिणायिका, मार्गाकारज्ञतायाः परिणायिका, सर्वाकारज्ञतायाः परिणायिका.
[क्. 190ब्11, न्. 374ब्2, त्. 299ब्11, प्. 240अ1, छ्. 690अ24]
अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: न मे भगवन् तथागतेनार्हता सम्यक्संबुद्धेन प्रज्ञापारमितायाः सर्वे ( श्स्प्_इइ-4_79 ) गुणाः परिकीर्तिता ये मया भगवतो ऽन्तिकाद् उद्गृहीता धारिता वाचितायान् गुणान् स कुलपुत्रो वा कुलदुहिता वा परिगृहीष्यतीमां प्रज्ञापारमिताम् उद्गृहन् धारयन् वाचयन् पर्यवाप्नुवन् योनिशश् च मनसिकुर्वन् ये मया भगवतो ऽन्तिकाद् अस्याः प्रज्ञापारमिताया गुणा उद्गृहीताः पर्यवाप्ता धारिता वाचिताः प्रवर्तिताः प्रज्ञापारमितया भगवन्न् उद्गृहीतया धारितया वाचितया पर्यवाप्तया प्रवर्तितया योनिशश् च मनसिकृतया दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति.
पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति.
दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमिताया लोके प्रादुर्भावो भवति.
अध्यात्मशून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महाशून्यताया लोके प्रादुर्भावो भवति, परमार्थशून्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया तोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यताया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति, प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यताया लोके प्रादुर्भावो भवति.

चतुर्णां स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, चतुर्णां सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, चतुर्णाम् ऋद्धिपादानां लोके प्रादुर्भावो भवति, पञ्चानाम् इन्द्रियाणां लोके प्रादुर्भावो भवति, पञ्चानां बलानां लोके प्रादुर्भावो भवति, सप्तानां बोध्यङ्गानां लोके प्रादुर्भावो भवति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, चतुर्णाम् आर्यसत्यानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां परिणायिका, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके ( श्स्प्_इइ-4_80 ) प्रादुर्भावो भवति, नवानुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लोके प्रादुर्भावो भवति, अभिज्ञानां लोके प्रादुर्भावो भवति, सर्वसमाधीनां लोके प्रादुर्भावो भवति, सर्वधारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदानां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानाम् आवेणिकानां बुद्धधर्मानां लोके प्रादुर्भावो भवति.
प्रज्ञापारमितया भगवन्न् उद्गृहीतया धारितया वाचितया पर्यवाप्तया प्रवर्तितया योनिशश् च मनसिकृतया क्षत्रियमहाशालकुलानां लोके प्रादुर्भावो भवति, ब्राह्मणमहाशालकुलानां लोके प्रादुर्भावो भवति, गृहपतिमहाशालकुलानां लोके प्रादुर्भावो भवति,
चातुर्महाराजकायिका देवा लोके प्रज्ञायन्ते, त्रायस्त्रिंशा देवा लोके प्रज्ञायन्ते, यामा देवा लोके प्रज्ञायन्ते, तुषिता देवा लोके प्रज्ञायन्ते, निर्माणरतयो देवा लोके प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवा लोके प्रज्ञायन्ते, ब्रह्मकायिका देवा लोके प्रज्ञायन्ते, ब्रह्मपुरोहिता देवा लोके प्रज्ञायन्ते, ब्रह्मपार्षद्या देवा लोके प्रज्ञायन्ते, महाब्रह्मणो देवा लोके प्रज्ञायन्ते, आभास्वरा देवा लोके प्रज्ञायन्ते. परीत्ताभा देवा लोके प्रज्ञायन्ते, अप्रमाणाभादेवा लोके प्रज्ञायन्ते, आभास्वरा देवा लोके प्रज्ञायन्ते, शुभा देवा लोके प्रज्ञायन्ते, परीत्तशुभा देवा लोके प्रज्ञायन्ते, अप्रमाणशुभा देवा लोके प्रज्ञायन्ते, शुभकृत्स्ना देवा लोके प्रज्ञायन्ते, बृहा देवा लोके प्रज्ञायन्ते, परीत्तबृहा देवा लोके प्रज्ञायन्ते, अप्रमाणबृहा देवा लोके प्रज्ञायन्ते, बृहत्फला देवा लोके प्रज्ञायन्ते, अबृहा देवा लोके प्रज्ञायन्ते, अतपा देवा लोके प्रज्ञायन्ते, सुदृशा देवा लोके प्रज्ञायन्ते, सुदर्शना देवा लोके प्रज्ञायन्ते, अकनिष्ठा देवा लोके प्रज्ञायन्ते.
प्रज्ञापारमितया भगवन्न् उद्गृहीतया धारितया वाचितया पर्यवाप्तया प्रवर्तितया योनिशश् च मनसिकृतया स्रोतआपन्ना लोके प्रज्ञायन्ते, सकृदागामिनो लोके प्रज्ञायन्ते, अनागामिनो लोके प्रज्ञायन्ते, अर्हन्तो लोके प्रज्ञायन्ते, प्रत्येकबुद्धा लोके प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वा लोके प्रज्ञायन्ते, प्रज्ञापारमितया भगवन्न् उद्गृहीतया धारितया वाचितया पर्यवाप्तया प्रवर्तितया योनिशश् च मनसिकृतया तथागतानाम् अर्हतां लोके प्रादुर्भावो भवति.
[क्. 191अ14, न्. 375ब्8, त्. 300ब्8, प्. 241ब्4, छ्. 691ब्7]
भगवान् आह: न पुनः कौशिक येन कुलपुत्रेण वा कुलदुहित्रा वा इयं प्रज्ञापारमिता उद्ग्रहीता भविष्यति धारिता भविष्यति वाचिता भविष्यति पर्यवाप्ता भविष्यति योनिशश् च मनसिकृता भविष्यति तस्येमाम् एव गुणान् वदामि. तत् कस्य हेतोः?
अप्रमाणेन ते कौशिक शीलस्कन्धेन समन्वागता, कुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीता भविष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति,
अप्रमाणेन समाधिस्कन्धेन समन्वागतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति,
अप्रमाणेन प्रज्ञास्कन्धेन समन्वागतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति,
अप्रमाणेन विमुक्तिस्कन्धेन समन्वागतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति,
अप्रमाणेन विमुक्तिज्ञानदर्शनस्कन्धेन समन्वागतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति.

तथागतप्रतिपन्नास् ते कौशिक कुलपुत्राः कुलदुहितरश् च वेदितव्या य इमां प्रज्ञापारमिताम् उद्गृहिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यन्ति.
यश् च कौशिक सर्वश्रावकप्रत्येकबुद्धानां शीलस्कन्धः प्रज्ञास्कन्धो विमुक्तस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धो यश् च तेषां कुलपुत्राणां वा कुलदुहितॄणां वा शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः. अस्य कौशिक शीलस्कन्धस्य समाधिस्कन्धस्य प्रज्ञास्कन्धस्य विमुक्तिस्कन्धस्य विमुक्तिज्ञानदर्शनस्कन्धस्य ( श्स्प्_इइ-4_82 ) पुरतः स सर्वश्रावकप्रत्येकबुद्धानां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः शततमीम् अपि कालां नोपैति, सहस्रतमीम् अपि कलां नोपैति, शतसहस्रतमीम् अपि कलां नोपैति, कोटीतमीम् अपि कलां नोपैति, कोटीशततमीम् अपि कलां नोपैति, कोटीसहस्रतमीम् अपि कलां नोपैति, कोटीशतसहस्रतमीम् अपि कलां नोपैति, कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति, गणनाम् अपि कलां नोपैति, उपमाम् अपि कलां नोपैति, उपनिशाम् अपि न क्षमते. तत् कस्य हेतोः? तथा हि तेषां कुलपुत्राणां कुलदुहितॄणां च श्रावकप्रत्येकबुद्धभूमेश् चित्तं विमुक्तं न च कश्चिद् धर्म आज्ञातः ये पुनः कौशिक कुलपुत्रो वा कुलदुहितरो वा इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, योनिशश् च मनसिकरिष्यन्ति तां च सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति. पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यस् तेषाम् अप्य् अहं कुलपुत्रणां कुलदुहितॄणां ततश् चेतद् एवेमां दृष्टधार्मिकान् सा परायिकांश् च गुणां वदामि.
शक्र आह: अहम् अपि भगवन् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यामि, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, अविरहितश् च भविष्यन्ति सर्वाकारज्ञताचित्तेन इमां च प्रज्ञापारमितां लिखित्वा सत्करिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
भगवान् आह: तस्य पुनः कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमितां स्वध्यायमानस्य, बहूनि देवपुत्रसहस्राणि मनसिधर्मश्रवणायोपसंक्रमिष्यन्ति. तस्य खलु पुनः कुलपुत्रस्य वा कुलदुहितुर् वा प्रज्ञापारमिता प्रतिसंयुक्तं धर्मं देशयतस् ते देवपुत्राः प्रतिभानम् उपसंहर्तव्यं मंस्यते, यद् अपि ते धर्मभानकानम् अत्रापि तु कामा भवन्ति, तत् तेनैव धर्मगौरवेन देवपुत्राः प्रतिभानम् उपसंहर्तव्यं मंस्यन्ते, इमम् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकगुणं परिग्रहीष्यति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यत्य् एनां च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ( श्स्प्_इइ-4_83 ) ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
पुनर् अपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमितां भाष्यमानस्य चतसृणां पर्षदां पुरतो ऽनाचलयता भविष्यति, कश्चित् माम् अनुयोक्ष्यति चोपलप्स्यते च. तत् कस्य हेतोः? तथा हि तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इयं प्रज्ञापारमिता रक्षावरणगुप्तिं संविधास्यति. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायां सर्वधर्मा अभिन्ना लौकिका लोकोत्तरश् च सास्रवाश् चानास्रवाश् च साधारणाश् च कुशलाश् चाकुसलाश् च संस्कृताश् चासंस्कृताश् च श्रावकधर्माश् च प्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च बुद्धधर्माश् च. तत् कस्य हेतोः? तथा ह्य् एषा सर्वं कुशलधर्माणां निधिः, स च कुलपुत्रो वा कुलदुहिता वा,
अध्यात्मशून्यतायां स्थितो बहिर्धाशून्यतायां स्थितो ऽध्यात्मबहिर्धाशून्यतायां स्थितः, शून्यताशून्यतायां स्थितो महाशून्यतायां स्थितः, परमार्थशून्यतायां स्थितः, संस्कृतशून्यतायां स्थितो ऽसंस्कृतशून्यतायां स्थितो ऽत्यन्तशून्यतायां स्थितो ऽनवराग्रशून्यतायां स्थितो ऽनवकारशून्यतायां स्थितः, प्रकृतिशून्यतायां स्थितः, सर्वधर्मशून्यतायां स्थितः, स्वलक्षणशून्यतायां स्थितो ऽनुपलम्भशून्यतायां स्थितो ऽभावशून्यतायां स्थितः, स्वभावशून्यतायां स्थितोऽभावस्वभावशून्यतायां स्थितः. स औपलभिके स्थितः प्रज्ञापारमितायां न समनुपश्यति, यो ऽप्य् उपालभते, तम् अपि प्रज्ञापारमितायां न समनुपश्यति, यो ऽप्य् उपालभते तम् अपि प्रज्ञापारमितायां न समनुपश्यति. एवं खलु तं कुलपुत्रं वा कुलदुहितरं वा प्रज्ञापारमितयोद्गृहीतया न कश्चिद् उपालप्स्यते.
पुनर् अपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमिताम् उद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतो योनिशश् च मनसिकुर्वतश् चित्तं नाचलेष्यते नोत्रसिष्यति न संत्रसिष्यति न संत्रासम् आपत्स्यते. तत् कस्य हेतोः? तथा हि स कुलपुत्रो वा कुलदुहिता वा वस्तु न समनुपश्यति, यो ऽवलीयेत वा संलीयेत वा उत्त्रस्येद् वा संत्रस्येद् वा संत्रासम् आपद्येद् वा, इमां कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृहीष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, ताञ् च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
[क्. 192अ4, न्. 377ब्5, त्. 3ओ2अ3, प्. 244अ4, छ्. 692ब्26]
पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, ताञ् च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति, पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. स प्रियो भविष्यति मातापितॄणां मित्रामात्यज्ञातिसालोहितानां राज्ञां राजमहामात्राणां श्रवणब्राह्मणानां ये ऽपि ते दशसु दिक्षु लोकधातुषु बुद्धा भगवन्तो बोधिसत्त्वाश् च महासत्त्वाः प्रत्येकबुद्धाश् चार्हन्तश् चानागामिनश् च सकृदागामिनश् च स्रोतआपन्नाश् च तेषाम् अपि स प्रियो भविष्यति, मनापश् च सदेवस्य लोकस्य सब्रह्मकस्य सश्रवणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः प्रियो भविष्यति, मनापश् च अनाच्छेद्य प्रतिभानश् च भविष्यति.

अनच्छेद्या दानपारमिता भविष्यति, अनाच्छेद्या शीलपारमिता भविष्यति, अनाच्छेद्या क्षान्तिपारमिता भविष्यति, अनाच्छेद्या वीर्यपारमिता भविष्यति, अनाच्छेद्या ध्यानपारमिता भविष्यति, अनाच्छेद्या प्रज्ञापारमिता भविष्यति.
अनाच्छेद्याध्यात्मशून्यताभावना भविष्यति, अनाच्छेद्या बहिर्धाशून्यताभावना भविष्यति, अनाच्छेद्याध्यात्मबहिर्धाशून्यताभावना भविष्यति, अनाच्छेद्या शून्यताशून्यता भावनाभविष्यति, अनाच्छेद्या महाशून्यता भावना भविष्यति, अनाच्छेद्या परमार्थशून्यताभावना भविष्यति, अनाच्छेद्या संस्कृतशून्यताभावना भविष्यति, अनाच्छेद्यासंस्कृतशून्यताभावना भविष्यति, अनाच्छेद्यात्यन्तशून्यताभावना भविष्यति, अनाच्छेद्यानवराग्रशून्यताभावना भविष्यति, अनाच्छेद्यानवकारशून्यताभावना भविष्यति, अनाच्छेद्या प्रकृतिशून्यताभावना भविष्यति, अनाच्छेद्या सर्वधर्मशून्यताभावना भविष्यति, अनाच्छेद्या स्वलक्षणशून्यताभावना भविष्यति, अनाच्छेद्यानुपलम्भशून्यताभावना भविष्यति, अनाच्छेद्याभावशून्यता भावनाभविष्यति, अनाच्छेद्या स्वभावशून्यताभावना भविष्यति, अनाच्छेद्याभावस्वभावशून्यताभावना भविष्यति.
अनाच्छेद्या चास्य चतुःस्मृत्युपस्थानभावना भविष्यति, आनाच्छेद्या चतुःसम्यक्प्रहाणभावना भविष्यति, अनाच्छेद्या चतू ऋद्धिपादभावना भविष्यति, अनाच्छेद्या पञ्चेन्द्रियभावना भविष्यति, अनाच्छेद्या पञ्चबलभावना भविष्यति, अनाच्छेद्या सप्तबोध्यङ्गभावना भविष्यति, अनाच्छेद्या आर्याष्ताङ्गमार्गभावना भविष्यति, अनाच्छेद्या चतुरार्यसत्यभावना ( श्स्प्_इइ-4_85 ) भविष्यति, अनाच्छेद्या चतुर्ध्यानभावना भविष्यति, अनाच्छेद्या चतुरप्रमाणभावना भविष्यति, अनाच्छेद्या चतुरारूप्यसमापत्तिभावना भविष्यति, अनाच्छेद्या अष्टविमोक्षभावना भविष्यति, अनाच्छेद्या नवानुपूर्वविहारसमापत्तिभावना भविष्यति, अनाच्छेद्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखभावना भविष्यति, अनाच्छेद्या अभिज्ञाभावना भविष्यति, अनाच्छेद्या समाधिभावना भविष्यति, अनाच्छेद्या धारणीमुखभावना भविष्यति, अनाच्छेद्या दशतथागतबलभावना भविष्यति, अनाच्छेद्या चतुर्वैशारद्यभावना भविष्यति, अनाच्छेद्या चतुःप्रतिसंविद्भावना भविष्यति, अनाच्छेद्या महामैत्रीभावना भविष्यति, अनाच्छेद्या महाकरुणाभावना भविष्यति, अनाच्छेद्या अष्टादशावेणिकबुद्धधर्म भावना भविष्यति.
अनाच्छेद्या चास्य सत्त्वपरिपाको भविष्यत्य् अनाच्छेद्या बुद्धक्षेत्रपरिशुद्धिर् भविष्यत्य् अनाच्छेद्या चास्य सर्वाकारज्ञता भविष्यति प्रतिबलश् च भविष्यति पुरतः उत्पन्नोत्पन्नानां प्रत्यनुयोगानां सहधर्मेण निःशरणे इमान् अपि स कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृहिष्यति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् मनसिकरिष्यत्य् अविरहितश् च भविष्यति सर्वाकारज्ञताचित्तेन तांश् च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकगतां कृत्वा धारयिष्यति, तत्र कौशिक ये त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रा अनुत्तरायै सम्यक्संबोधये संप्रस्थितास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या महाब्रह्माण आभाः परीत्ताभा अप्रमाणाभा आभास्वराः शुभाः परीत्तशुभा अप्रमाणशुब्बाः शुभकृत्स्नाः, बृहाः परीत्तबृहा अप्रमाणबृहा बृहत्फला अनुत्तरायै सम्यक्संबोधये संप्रस्थिताः, ते तत्रागत्येमां प्रज्ञापारमितां वाचित्वोद्गृह्य पर्यवाप्य वन्दित्वा नमस्कृत्य पुनर् अपि प्रक्रमितव्यं मंस्यन्ते, ये ऽपि ते शुद्धावासकायिका देवा अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाः, ते ऽपि तत्रागम्येमां प्रज्ञापारमितां वाचित्वोद्गृह्य पर्यवाप्य वन्दित्वा नमस्कृत्य पुनर् अपि प्रक्रमितव्यं मंस्यन्ते.
तत्र कौशिक ये दशसु दिक्षु लोकधातुषु चातुर्महाराजकायिका देवपुत्रा अनुत्तरायै सम्यक्संबोधये संप्रस्थितास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका देवा ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्माण अभाः परीत्ताभा अप्रमाणाभा आभास्वराः शुभाः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना बृहाः परीत्तबृहा अप्रमाणबृहा बृहत्फला देवा अनुत्तरायै सम्यक्सम्बोधये संप्रस्थिताः, ये ऽपि शुद्धावासकायिका देवा अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा, ये ऽपि तदन्ये महौजस्का महौजस्का देवा नागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते तत्रागम्येमां प्रज्ञापारमितां वाचयित्वोद्गृह्य पर्यवाप्य वन्दित्वा नमस्कृत्य पुनर् अपि प्रक्रमितव्यं मंस्यन्ते.

तत्र कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा एवं चित्तम् उत्पादयितव्यं, ये ऽपि ते दशसु दिक्षु लोकधतुषु चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माण देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवाः, बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा, अनुत्तरायै सम्यक्संबोधये संप्रस्थिताः, येऽपि ते सुद्धावासकायिका देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवा, ये ऽपि तदन्ये महौजस्का महौजस्का देवा नागयक्षगन्धर्वासुरगरुडकिंनरमहोरगा इहागता इमां प्रज्ञापारमितां वाचयितुम् उद्गृहीतुं पर्यवाप्तुं वन्दितुं पूजयितुं तेभ्य इदं धर्मदानं दत्तं भवतु त इमां प्रज्ञापारमितां वाचित्वोद्गृह्य पर्यवाप्य पूजयित्वा वन्दित्वा नमस्कृत्य पुनर् अपि प्रक्रमन्ति तस्य पुनः कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा य इह त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः सुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवा, ये ऽपि दशसु दिक्षु लोकधातुषु चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा देवा ( श्स्प्_इइ-4_87 ) यामा देवास् तुषिता देवा निर्माणरतयो देवा परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवाः, बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा, अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना डेवा अकनिष्ठा देवास् ते धर्मवरेण गुप्तिं संविधास्यन्ति. नास्य कौशिकावतारप्रेक्ष्य् अवतारगवेष्य् अवतारं लप्स्यते स्थापयित्वा पूर्वकर्मविपाकं, इमम् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिग्रहीष्यति, ये ऽपि देवपुत्रा अनुत्तरायै सम्यक्संबोधये संप्रस्थितास् ते तत्रागन्तव्या मंस्यन्ते, अस्याः प्रज्ञापारमितायाः पूजाकर्मणे तस्य च कुलपुत्रस्य वा कुलदुहितुर् वा रक्षावरणगुप्तये. तत् कस्य हेतोः? तथा हि कौशिक ते कुलपुत्रा अनुत्तरायै सम्यक्संबोधये संप्रस्थिताः सर्वसत्त्वानां त्राणार्थाय सर्वसत्त्वानां हितसुखार्थाय प्रत्युपस्थिताः.
शक्र आह: कथम् भगवन् कुलपुत्रो वा कुलदुहिता वा संज्ञास्यते, इह चातुर्महाराजकायिका देवा आगच्छन्ति, इह त्रायस्त्रिंशा देवा आगच्छन्ति, इह यामा देवा आगच्छन्ति, इह तुषिता देवा आगच्छन्ति, इह निर्माणरतयो देवा आगच्छन्ति, इह परनिर्मितवशवर्तिनो देवा आगच्छन्ति, इह ब्रह्मकायिका देवा आगच्छन्ति, इह ब्रह्मपुरोहिता देवा आगच्छन्ति, इह ब्रह्मपार्षद्या देवा आगच्छन्ति, इह महाब्रह्मणो देवा आगच्छन्ति, इह आभा देवा आगच्छन्ति, इह परीत्ताभा देवा आगच्छन्ति, इह अप्रमाणाभा देवा आगच्छन्ति, इह आभास्वरा देवा आगच्छन्ती, इह शुभा देवा आगच्छन्ति, इह परीत्तशुभा देवा आगच्छन्ति, इह अप्रमाणशुभा देवा आगच्छन्ति, इह शुभकृत्स्ना देवा आगच्छन्ति, इह बृहा देवा आगच्छन्ति, इह परीत्तबृहा देवा आगच्छन्ति, इह अप्रमाणबृहा देवा आगच्छन्ति, इह बृहत्फला देवा आगच्छन्ति, इह अबृहा देवा आगच्छन्ति, इह अतपा देवा आगच्छन्ति, इह सुदृशा देवा आगच्छन्ति, इह सुदर्शना देवा आगच्छन्ति, इह अकनिष्ठा देवा आगच्छन्ति. समन्ताद् दश दिग् लोकधातुभ्य इमां प्रज्ञापारमितां वाचयितुम् उद्ग्रहीतुं पर्यवाप्तुं वन्दितुं नमस्कर्तुं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुम्.
भगवान् आह: सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा उदारम् अवभासं संज्ञास्यते यत्रेयं प्रज्ञापारमिता स्थापिता भविष्यति निष्ठा ( श्स्प्_इइ-4_88 ) तेन कुलपुत्रेण वा कुलदुहित्रा वा गन्तव्या महेशाख्यमाहेशाख्या महर्द्धिका महानुभावा महौजस्का इह देवता आगता इमां प्रज्ञापारमितां वाचयितुम् उद्ग्रहीतुं पर्यवाप्तुं वन्दितुं नमस्कर्तुं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुम्.
[क्. 193अ9, न्. 380अ4, त्. 303ब्13, प्. 248अ2, छ्. 694अ22]
पुनर् अपरं कौशिक सचेत् कुलपुत्रो वा कुलदुहिता वा चौक्षसमाचारो भवति तस्य तया चौक्षसमाचारतया देवता आगम्येमां प्रज्ञापारमितां वाचयित्वोद्गृह्य पर्यवाप्य सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा आत्तमनस्का भविष्यति, याश् च तत्र प्रदेशो अल्पशाख्यदेवता अध्युषिता भविष्यन्ति तास् तत्रोपसंक्रमितव्यं मंस्यते. तासां महेशाख्यानां देवातानां तेजश् च श्रियं च गौरवं चासहमाना, यथा यथा महेशाख्यमहेशाख्या महर्द्धिका महानुभावा देवता उपसंक्रमितव्या मंस्यते, तथा तथा स कुलपुत्रो वा कुलदुहिता वा उदाराधिमुक्तिको भविष्यति. तस्य च स्थानस्य समन्ताद् अचौक्षसमुदाचारता न प्रचारयितव्या, तेन कुलपुत्रेण वा कुलदुहित्रा वा अस्याः प्रज्ञापारमितायाः पूजाकर्मणे गन्धोदकावसिक्तः स पृथिवीप्रदेशः कर्तव्यः पुष्पगन्धावकीर्णगन्धघटिकानिधूपितः, अवसक्तपट्टदामाचैलवितानविततो नेत्रप्रचारं च तत् स पृथिवीप्रदेशो ऽलंकर्तव्यः.
न पुनः कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा कायक्लमथो भविष्यति कायसुखतां च कुलपुत्रो वा कुलदुहिता वा संज्ञास्यते. कायलघुतां च कायकथनीयतं च चित्तसुखतां च स कुलपुत्रो वा कुलदुहिता वा संज्ञास्यते चित्तलघुतां च चित्तकम् अथनीयतां च ततः स रात्रौ शय्यां कल्पयन्तीमाम् एव प्रज्ञापारमिताम् अशयेणाधिमुञ्चन् न पापकान् स्वप्नान् द्रक्षति स पश्यंस् तथागतम् एवार्हन्तन् सम्यक्संबुद्धं द्रक्ष्यति द्वात्रिंशन्महापुरुषलक्षणैः समन्वगतम् अशीत्यनुव्यञ्जनैः समलंकृतसुवर्णवर्णेन कायेन भिक्षुसंघपरिवृतं बोधिसत्त्वगणपुरस्कृतं धर्मं देशयतं तस्य च तथागतस्यान्तिकाद् धर्मं श्रोष्यति, यद् उत दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमिताम्.
अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां शून्यताशून्यतां महाशून्यतां परमार्थशून्यतां संस्कृतशून्यताम् असंस्कृतशून्यताम् अत्यन्तशून्यताम् अनवराग्रशून्यताम् अनवकारशून्यतां प्रकृतिशून्यतां सर्वधर्मशून्यतां स्वलक्षणशून्यताम् ( श्स्प्_इइ-4_89 ) अनुपलम्भशून्यताम् अभावशून्यतां स्वभावशून्यताम् अभावस्वभावशून्यताम्.

स्मृत्युपस्थानानि सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि आर्याष्टाङ्गो मार्ग आर्यसत्यानि ध्यानानि अप्रमाणानि आरूप्यसमापत्तयो अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तीः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अभिज्ञा समाधीन् धारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महाकरुणाम् अष्टादशावेणिका बुद्धधर्माश् च.
तस्याश् च दानपारमिताया अर्थं विभज्यमानं श्रोष्यन्ति, तस्याश् च शीलपारमिताया अर्थं विभज्यमानं श्रोस्यति, तस्याश् च वीर्यपारमिताया अर्थं विभज्यमानं श्रोष्यति, तस्याश् च क्षान्तिपारमिताया अर्थं विभज्यमानं श्रोष्यति, तस्याश् च ध्यानपारमिताया अर्थं विभज्यमानं श्रोष्यति, तस्याश् च प्रज्ञापारमिताया अर्थं विभज्यमानं श्रोष्यति.
तस्याश् चाध्यात्मशून्यताया अर्थं विभज्यमानं श्रोष्यन्ति, तस्याश् च बहिर्धाशून्यताया अर्थं विभज्यमानं श्रोष्यति, तस्यास् चाध्यात्मबहिर्धाशून्यताया अर्थं विभज्यमानं श्रोष्यति, एवं हि शून्यताशून्यताया महाशून्यतायाः परमार्थशून्यतायाः संस्कृतशून्यताया असंस्कृतशून्यताया अत्यन्तशून्यताया अनवराग्रशून्यताया अनवकारशून्यतायाः प्रकृतिशून्यतायाः सर्वधर्मशून्यतायाः स्वलक्षणशून्यताया अनुपलम्भशून्यताया अभावशून्यतायाः स्वभावशून्यताया अभावस्वभावशून्यताया अर्थं विभज्यमानं श्रोष्यति.
तेषां च चतुर्णां स्मृत्युपस्थानानाम् अर्थं विभज्यमानं श्रोष्यति, तेषां च चतुर्णां सम्यक्प्रहाणानाम् अर्थं विभज्यमानं श्रोष्यति, तेषां च चतुर्णाम् ऋद्धिपादानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च पञ्चानाम् इन्द्रियानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च पञ्चानां बलानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च सप्तानां बोध्यङ्गानाम् अर्थं विभज्यमानं श्रोष्यति, तस्य चार्याष्टाङ्गस्य मार्गस्यार्थं विभज्यमानं श्रोस्यति, तेषाञ् चार्यसत्यानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च चतुर्णां ध्यानानाम् अर्थं विभज्यमानं श्रोःयति, तेषाञ् च चतुर्णाम् अप्रमाणानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च चतसृणाम् आरूप्यसमापत्तीनाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् चाष्टानां विमोक्षाणाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च नवाम् अनुपूर्वविहारसमापत्तीनाम् अर्थं विभज्यमानं श्रोह्यति, तेषाञ् च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अर्थं ( श्स्प्_इइ-4_90 ) विभज्यमानं श्रोष्यति, तासां चाभिज्ञानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च समाधीनाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च धारणीमुखानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च तथागतबलानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च चतुर्णां वैशारद्यानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च चतसृणां प्रतिसंविदानाम् अर्थं विभज्यमानं श्रोष्यति, तस्याश् च महाकरुणायाम् अर्थं विभज्यमानं श्रोष्यति, तस्याञ् चाष्टादशानाम् आवेणिकबुद्धधर्माणाम् अर्थं विभज्यमानं श्रोष्यति,
बोधिवृक्षं द्रक्षति बोधिसत्त्वं महासत्त्वं बोधिवृक्षमूलम् उपसंक्रामं तं द्रक्ष्यति, अनुत्तरायां सम्यक्संबोधिम् अभिसंबुध्यमानं द्रक्ष्यति तथाभिसंबुध्य धर्मचक्रं प्रवर्तयं तं द्रक्ष्यति, बहूनि च बोधिसत्त्वशतसहस्राणि द्रक्ष्यति धर्मसङ्गायन्ति. एवं सर्वाकारज्ञता परिगृहीतव्या. एवञ् च सत्त्वाः परिपाचयितव्या एवं बुद्धक्षेत्रं परिगृहीतव्यं, एवं मारस् स परिषद्कां निर्जतव्या बहुनाञ् च बुद्धकोटीनियुतशतसहस्रणां,
पूर्वस्यां दिशि शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्वकोटीनियुतशतसहस्रैः इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
दक्षिणस्यां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिः बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
पश्चिमायां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति.
उत्तरस्यां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
उत्तरपूर्वस्यां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः ( श्स्प्_इइ-4_91 ) श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
पूर्वदक्षिणस्यां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
दक्षिणपश्चिमायां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोध्हिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
पश्चिमोत्तरस्यां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
अधस्ताद् दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
उपरिष्टाद् दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति.
पूर्वस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,

दक्षिणस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,
पश्चिमायां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति ( श्स्प्_इइ-4_92 ) द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्रणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति,

मूल पाठ: Śatasāhasrikā Prajñāpāramitā-2 · Edition: Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc