शतकत्रय · अध्याय 3
इति शुभं भूयात् ।
वैराग्य-शतकम्
भर्तृहरेः
चूडोत्तंसित-चन्द्र-चारु-कलिका-चञ्चच्-छिखा-भास्वरो
लीला-दग्ध-विलोल-काम-शलभः श्रेयो-दशाग्रे स्फुरन् ।
अन्तः-स्फूर्जद्-अपार-मोह-तिमिर-प्राग्-भारम् उच्चाटयन्
श्वेतः-सद्मनि योगिनां विजयते ज्ञान-प्रदीपो हरः
भ्रान्तं देशम् अनेक-दुर्ग-विषमं प्राप्तं न किञ्चित् फलं
त्यक्त्वा जाति-कुलाभिमानम् उचितं सेवा कृता निष्फला ।
भुक्तं मान-विवर्जितं पर-गृहेष्व् आशङ्कया काकवत्
तृष्णे जृम्भसि पाप-कर्म-पिशुने नाद्यापि सन्तुष्यसि
उत्खातं निधि-शङ्कया क्षिति-तलं ध्माता गिरेर् धातवो
निस्तीर्णः सरितां पतिर् नृपतयो यत्नेन सन्तोषिताः ।
मन्त्राराधन-तत्-परेण मनसा नीताः श्मशाने निशाः
प्राप्तः काण-वराटको ऽपि न मया तृष्णे सकामा भव
खलालापाः सौढाः कथम् अपि तद्-आराधन-परैर्निगृह्यान्तर्-
बाष्पं हसितम् अपि शून्येन मनसा ।
कृतो वित्त-स्तम्भ-प्रतिहत-धियाम् अञ्जलिर् अपि
त्वम् आशे मोघाशे किम अपरम् अतो नर्तयसि माम्
अमीषां प्राणानां तुलित-विसिनी-पत्र-पयसां
कृते किं नास्माभिर् विगलित-विवेकैर् व्यवसितम् ।
यद्-आढ्यानाम् अग्रे द्रविण-मद-निःसंज्ञ-मनसां
कृतं माव-व्रीडैर् निज-गुण-कथा-पातकम् अपि
क्षान्तं न क्षमया गृहोचित-सुखं त्यक्तं न सन्तोषतः
सोढो दुःसह-शीत-ताप-पवन-क्लेशो न तप्तं तपः ।
ध्यातं वित्तम् अहर्-निशं नित्यमित-प्राणैर् न शम्भोः पदं
तत्-तत्-कर्म कृतं यद् एव मुनिभिस् तैस् तैः फलैर् वञ्चिताः
भोगा न भुक्ता वयम् एव भुक्तास्
तपो न तप्तं वयम् एव तप्ताः ।
कालो न यातो वयम् एव यातास्तृष्णा
न जीर्णा वयम् एव जीर्णाः
बलिभिर् मुखम् आक्रान्तं पलितेनाङ्कितं शिरः ।
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते
विवेक-व्याकोशे विदधति समे शाम्यति तृषा
परिष्वङ्गे तुङ्गे प्रसरतितरां सा परिणता ।
जराजीर्णैश्वर्य-ग्रसन-गहनाक्षेप-कृपणस्तृषापात्रं
यस्यां भवति मरुताम् अप्य् अधिपतिः ॥ भर्स्त्_3.8*1 ॥
निवृत्ता भोगेच्छा पुरुष-बहु-मानो ऽपि गलितः
समानाः स्वर्-याताः सपदि सुहृदो जीवित-समाः ।
शनैर् यष्ट्य् उत्थानं घन-तिमिर-रुद्धे च नयने
अहो मूढः कायस् तद् अपि मरणापाय-चकितः
आशा नाम नदी मनोरथ-जला तृष्णा-तरङ्गाकुला
राग-ग्राहवती वितर्क-विहगा धैर्य-द्रुम-ध्वंसिनी ।
मोहावर्त-सुदुस्तरातिगहना प्रोत्तुङ्ग-चिन्ता-तटी
तस्याः पर-गता विशुद्धम् अलसो नन्दन्ति योगीश्वराः
न संसारोत्पन्नं चरितम् अनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशतः ।
महद्भिः पुण्यौघैश् चिर-परिगृहीताश् च विषया
महान्तो जायन्ते व्यसनम् इव दातुं विषयिणाम्
अवश्यं यातारश् चिरतरम् उषित्वापि विषया
वियोगे को भेदस् त्यजति न जनो यत् स्वयम् अमून् ।
व्रजन्तः स्वातन्त्र्याद् अतुल-परितापाय मनसः
स्वयं त्यक्ता ह्य् एते शम-सुखम् अनन्तं विदधति
ब्रह्म-ज्ञान-विवेक-निर्मल-धियः कुर्वन्त्य् अहो दुष्करं
यन् मुञ्चन्त्य् उपभोग-भाञ्ज्य् अपि धनान्य् एकान्ततो निःस्पृहाः ।
सम्प्रातान् न पुरा न सम्प्रति न च प्राप्तौ दृढ-प्रत्ययान्
वाञ्छा-मात्र-परिग्रहान् अपि परं त्यक्तुं न शक्ता वयम्
धन्यानां गिरि-कन्दरेषु वसतां ज्योतिः परं ध्यायतामानन्दाश्रु-
जलं पिबन्ति शकुना निःशङ्कम् अङ्केशयाः ।
अस्माकं तु मनोरथोपरचित-प्रासाद-वापी-तटक्रीडा-
कानन-केलि-कौतुक-जुषाम् आयुः परं क्षीयते
भिक्षा-शतं तद् अपि नीरसम् एक-बारं
शय्या च भूः परिजनो निज-देह-मात्रम् ।
वस्त्रं विशीर्ण-शत-खण्ड-मयी च कन्था
हा हा तथापि विषया न परित्यजन्ति
स्तनौ मांस-ग्रन्थी कनक-कलशाव् इत्य् उपमिती
मुखं श्लेष्मागारं तद् अपि च शशाङ्केन तुलितम् ।
स्रवन्-मूत्र-क्लिन्नं करि-वर-शिर-स्पर्धि जघनं
मुहुर् निन्द्यं रूपं कवि-जन-विशेषैर् गुरु-कृतम्
एको रागिषु राजते प्रियतमा-देहार्ध-हारी हरो
नीरागेषु जनो विमुक्त-ललनासङ्गो न यस्मात् परः ।
दुर्वार-स्मर-बाण-पन्नग-विष-व्याबिद्ध-मुग्धो जनः
शेषः काम-विडम्बितान् न विषयान् भोक्तुं न मोक्तुं क्षमः
अजानन् दाहात्म्यं पततु शलभस् तीव्र-दहने
स मीनो ऽप्य् अज्ञानाद् बडिश-युतम् अश्नातु पिशितम् ।
विजानन्तो ऽप्य् एते वयम् इह वियज् जाल-जटिलान्
न मुञ्चामः कानाम् अहह गहनो मोह-महिमा
तृषा शुष्यत्य् आस्ये पिबति सलिलं शीत-मधुरं
क्षुधार्तः शाल्यन्नं कवलयति मांसादि-कलितम् ।
प्रदीप्ते कामाग्नौ सुदृढतरम् आलिङ्गति वधूं
प्रतीकारं व्याधः सुखम् इति विपर्यस्यति जनः
तुङ्गं वेश्म सुताः सताम् अभिमताः सङ्ख्यातिगाः सम्पदः
कल्याणी दयिता वयश् च नवम् इत्य् अज्ञान-मूढो जनः ।
मत्वा विश्वम् अनश्वरं निविशते संसार-कारा-गृहे
संदृश्य क्षण-भङ्गुरं तद् अखिलं धन्यस् तु सन्न्यस्यति
दीना दीन-मुखैः सदैव शिशुकैराकृष्ट-जीर्णाम्बरा
क्रोशद्भिः क्षुधितैर् निरन्न-विधुरा दृश्या न चेद् गेहिनी ।
याच्ञा-भङ्ग-भयेन गद्गद-गल-त्रुट्यद्-विलीनाक्षरं
को देहीति वदेत् स्व-दग्ध-जठरस्यार्थे मनस्वी पुमान्
अभिमत-महामान-ग्रन्थि-प्रभेद-पटीयसी
गुरुतर-गुण-ग्रामाभोज-स्फुटोज्ज्वल-चन्द्रिका ।
विपुल-विलल्-लज्जा-वल्ली-वितान-कुठारिका
जठर-पिठरी दुस्पुरेयं करोति विडम्बनम्
पुण्ये ग्रामे वने वा महति सित-पटच्-छन्न-पाली कपालिं
ह्य् आदाय न्याय-गर्भ-द्विज-हुत-हुत-भुग् धूम-धूम्रोपकण्ठे ।
द्वारं द्वारं प्रविष्टो वरम् उदर-दरी-पूरणाय क्षुधार्तो
मानी प्राणैः सनाथो न पुनर् अनुदिनं तुल्य-कुल्येसु दीनः
गङ्गा-तरङ्ग-कण-शीकर-शीतलानि
विद्याधराध्युषित-चारु-शिला-तलानि ।
स्थानानि किं हिमवतः प्रलयं गतानि
यत् सावमान-पर-पिण्ड-रता मनुष्याः
किं कन्दाः कन्दरेभ्यः प्रलयम् उपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः सरस-गल-भृतो वल्कलिन्यश् च शाखाः ।
वीक्ष्यन्ते यन् मुखानि प्रसभम् अपगत-प्रश्रयाणां खलानां
दुःखाप्त-स्वल्प-वित्त-स्मय-पवन-वशानर्तित-भ्रू-लतानि
पुण्यैर् मूल-फलैस् तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना
भू-शय्यां नव-पल्लवैर् अकृपणैर् उत्तिष्ठ यावो वनम् ।
क्षुद्राणाम् अविवेक-मूढ-मनसां यत्रेश्वराणां सदा
वित्त-व्याधि-विकार-विह्वल-गिरां नामापि न श्रूयते
फलं स्वेच्छा-लभ्यं प्रतिवनम् अखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिर-मधुरं पुण्य-सरिताम् ।
मृदु-स्पर्शा शय्या सुललित-लता-पल्लव-मयी
सहन्ते सन्तापं तद् अपि धनिनां द्वारि कृपणाः
ये वर्तन्ते धन-पति-पुरः प्रार्थना-दुःख-भाजो
ये चाल्पत्वं दधति विषयाक्षेप-पर्याप्त-बुद्धेः ।
तेषाम् अन्तः-स्फुरित-हसितं वासराणि स्मरेयं
ध्यान-च्छेदे शिखरि-कुहर-ग्राव-शय्या-निषण्णः
ये सन्तोष-निरन्तर-प्रमुदितस् तेषां न भिन्ना मुदो
ये त्व् अन्ये धन-लुब्ध-सङ्कल-धियस् तेसां न तृष्णाहता ।
इत्थं कस्य कृते कुतः स विधिना कीदृक्-पदं सम्पदां
स्वात्मन्य् एव समाप्त-हेम-महिमा मेरुर् न मे रोचते
भिक्षाहारम् अदैन्यम् अप्रतिसुखं भीतिच्छिदं सर्वतो
दुर्मात्सर्य-मदाभिमान-मथनं दुःखौघ-विध्वंसनम् ।
सर्वत्रान्वहम् अप्रयत्न-सुलभं साधु-प्रियं पावनं
शम्भोः सत्रम् अवायम् अक्षय-निधिं शंसन्ति योगीश्वराः
भोगे रोगमयं कुले च्युति-भयं वित्ते नृपालाद् भयं
माने धैन्य-भयं बले रिपु-भयं रूपे जराय भयम् ।
शास्त्रे वादिभयं गुणे खल-भयं काये कृतान्ताद् भयं
सर्वं वस्तु भयान्वितं भुवि नॄणां वैराग्यम् एवाभयम्
आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं
सन्तोषो धन-लिप्सया शम-मुखं प्रौढाङ्गना-विभ्रमैः ।
लोकैर् मत्सरिभिर् गुणा वन-भुवो व्यालैर् नृपा दुर्जनैर्
अस्थैर्येण विभूतयो ऽप्य् अपहता ग्रस्तं न किं केन वा
आधि-व्याधि-शतैर् जनस्य विविधैर् आरोग्यम् उन्मूल्यते
लक्ष्मीर् यत्र पतन्ति तत्र विवृत-द्वारा इव व्यापदः ।
जातं जातम् अवश्यम् आशु विवशं मृत्युः करोत्य् आत्मसात्
तत् किं तेन निरङ्कुशेन विधिना यन् निर्मितं सुस्थिरम्
भोगास् तुङ्गतरङ्ग-भङ्ग-तरलाः प्राणाः क्षण-ध्वंसिनः
स्तोकान्य् एव दिनानि यौवन-सुखं स्फूर्तिः प्रियासु स्थिता ।
तत्-संसारम् असारम् एव निखिलं बुद्ध्वा बुधा बोधका
लोकानुग्रह-पेशलेन मनसा यत्नः समाधीयताम्
भोगा मेघ-वितान-मध्य-विलसत्-सौदामिनी-चञ्चला
आयुर् वायु-विघट्टिताब्ज-पटली-लीनाम्बुवद् भङ्गुरम् ।
लीला यौवन-लालसास् तनुभृताम् इत्य् आकलय्य द्रुतं
योगे धैर्य-समाधि-सिद्धि-सुलभे बुद्धिं विदध्वं बुधाः
आयुः कल्लोल-लोलं कतिपय-दिवस-स्थायिनी यौवन-श्रीर्
अर्थाः सङ्कल्प-कल्पा घन-समय-तडिद्-विभ्रमा भोग-पूगाः ।
कण्ठाश्लेषोपगूढ तद् अपि च न चिरं यत् प्रियाभः प्रणीतं
ब्रह्मण्य् आसक्त-चित्ता भवत भवमयाम्भोधि-पारं तरीतुम्
कृच्छ्रेणामेध्य-मध्ये नियमित-तनुभिः स्थीयते गर्भ-वासे
कान्ता-विश्लेष-दुःख-व्यतिकर-विषमो यौवने चोपभोगः ।
वामाक्षीणाम् अवज्ञा-विहसित-वसतिर् वृद्ध-भावो ऽन्यसाधुः
संसारे रे मनुष्या वदत यदि सुखं स्वल्पम् अप्य् अस्ति किञ्चित्
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश् च शत्रव इव प्रहरन्ति देहम् ।
आयुः परिस्रवन्ति भिन्न-घटा-दिवाम्भो
लोकस् तथाप्य् अहितम् आचरतीति चित्रम्
भोगा भङ्गुर-वृत्तयो बहुविधास् तैर् एव चायं भवस्तत्
कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टतैः ।
आशा-पाश-शतापशान्ति-विशदं चेतः-समाधीयतां
कामोत्पत्ति-वशात् स्वधामनि यदि श्रद्देयम् अस्मद्-वचः
सखे धन्याः केचित् त्रुटित-भव-बन्ध-व्यतिकरा
वनान्ते चित्तान्तर्-विषम् अविषयाशीत्-विष-गताः ।
शरच्-चन्द्र-ज्योत्स्नाधवल-गगनाभोग-सुभगां
नयन्ते ये रात्रिं सुकृत-चय-चिन्तैक-शरणाः ॥ भर्स्त्_3.39*1 ॥
ब्रह्मेन्द्रादि-मरुद्-गणांस् तृण-कणान् यत्र स्थितो मन्यते
यत्-स्वादाद् विरसा भवन्ति विभवास् त्रैलोक्य-राज्यादयः ।
भोगः को ऽपि स एव एक परमो नित्योदितो जृम्भते
भोः साधो क्षण-भङ्गुरे तद् इतरे भोगे रतिं मा कृथाः
सा रम्या नगरी महान् स नृपतिः सामन्त-चक्रं च तत्
पार्श्वे तस्य च सा विदग्ध-परिषत् ताश् चन्द्र-बिम्बाननाः ।
उद्वृत्तः स राज-पुत्र-निवहस् ते वन्दिनस् ताः कथाः
सर्वं यस्य वशाद् अगात् स्मृति-पथं कालाय तस्मै नमः
यत्रानेकः क्वचिद् अपि गृहे तत्र तिष्ठत्य् अथैको
यत्राप्य् एकस् तद् अनु बहवस् तत्र नैको ऽपि चान्ते ।
इत्थं नयौ रजनि-दिवसौ लोलयन् द्वाव् इवाक्षौ
कालः कल्यो भुवन-फलके क्रडति प्राणि-शारैः
आदित्यस्य गतागतैर् अहरहः संक्षीयते जीवितं
व्यापारैर् बहु-कार्य-भार-गुरुभिः कालो ऽपि न ज्ञायते ।
दृष्ट्वा जन्म-जरा-विपत्ति-मरणं त्रासश् च नोत्पद्यते
पीत्वा मोहमयीं प्रमाद-मदिराम् उन्मत्त-भूतं जगत्
रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो
धावन्त्य् उद्यमिनस् तथैव निभृत-प्रारब्ध-तत्-तत्-क्रियाः ।
व्यापारैः पुनर्-उक्त-भूत-विषयैर् इत्थं विधेनामुना
संसारेण कदर्थिता वयम् अहो मोहान् न लज्जामहे
न ध्यानं पदम् ईश्वरस्य विधिवत् संसार-विच्छित्तये
स्वर्ग-द्वार-कपाट-पाटन-पटुर् धर्मो ऽपि नोपार्जितः ।
नारी-पीन-पयोधरोरु-युगलं स्वप्ने ऽपि नालिङ्गितं
मातुः केवलम् एव यौवन-वन-च्छेदे कुठारा वयम्
नाभ्यस्ता प्रतिवादि-वृन्द-दमनी विद्या विनीतोचिता
खड्गाग्रैः करि-कुम्भ-पीठ-दलनैर् नाकं न नीतं यशः ।
कान्ताकोमल-पल्लवाधर-रसः पीतो न चन्द्रोदये
तारुण्यं गतम् एव निष्फलम् अहो शून्यालये दीपवत्
विद्या नाधिगता कलङ्क-रहिता वित्तं च नोपार्जितं
शुश्रूषापि समाहितेन मनसा पित्रोर् न सम्पादिता ।
आलोलायत-लोचनाः प्रियतमाः स्वप्ने ऽपि नालिङ्गिताः
कालो ऽयं पर-पिण्ड-लोलुपतया काकैर् इव प्रेर्यते
वयं येभ्यो जाताश् चिर-परिगता एव खलु ते
समं यैः संवृद्धाः स्मृति-विषयतां ते ऽपि गमिताः ।
इदानीम् एते स्मः प्रतिदिवसम् आसन्न-पतना
गतास् तुल्यावस्थां सिकतिलनदी-तीर-तरुभिः
आयुर् वर्ष-शतं नॄणां परिमितं रात्रौ तद्-अर्धं गतं
तस्यार्धस्य परस्य चार्धम् अपरं बालत्व-वृद्धत्वयोः ।
शेषं व्याधि-वियोग-दुःख-सहितं सेवादिभिर् नीयते
जीवे वारित-रङ्ग-चञ्चलतरे सौख्यं कुतः प्राणिनाम्
क्षणं बालो भूत्वा क्षणम् पै युवा काम-रसिकः
क्षणं वित्तैर् हीनः क्षणम् अपि च सम्पूर्ण-विभवः ।
जरा-जीर्णैर् अङ्गैर् नट इव बली-मण्डित-तनूर्
नरः संसारान्ते विशति यमधानीय-वनिकाम्
त्वं राजा वयम् अप्य् उपासित-गुरु-प्रज्ञाभिमानोन्नताः
ख्यातस् त्वं विभवैर् यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।
इत्थं मान-धनाति-दूरम् उभयोर् अप्य् आवयोर् अन्तरं
यद्य् अस्मासु पराङ्मुखो ऽसि वयम् अप्य् एकान्ततो निःस्पृहा
अर्थानाम् ईशिषे त्वं वयम् अपि च गिराम् ईश्महे यावद् अर्थं
शूरस् त्वं वादि-दर्प-व्युपशमन-विधाव-क्षयं पाटवं नः ।
सेवन्ते त्वां धनाढ्या मतिमलहतयेमाम् अपि श्रोतु-कामामय्य्
अप्य् आस्था न ते चेत् त्वयि मम नितराम् एव राजन्न् अनास्था
वयम् इह परितुष्टा वल्कलैस् त्वं दुकूलैः
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे को ऽर्थवान् को दरिद्रः
फलम् अलम् अशनाय स्वादु पानाय तोयं
क्षितिर् अपि शयनार्थं वाससे वल्कलं च ।
नव-घन-मधुपान-भ्रान्त-सर्वेन्द्रियाणामविनयम्
अनुमन्तुं नोत्सहे दुर्जनानाम्
अश्नीमहि वयं भिक्षाम् आशावासो वसीमहि ।
शयीमहि मही-पृष्ठे कुर्वीमहि किम् ईश्वरैः
न नटा ना विटा न गायका न च सभ्येतर-वाद-चुञ्चवः ।
नृपम् ईक्षितुम् अत्र के वयं स्तन-भारान् अमिता न योषितः
विपुल-हृदयैर् ईशैर् एतज् जगज् जनितं पुरा
विधृतम् अपरैर् दत्तं चान्यैर् विजित्य तृणं यथा ।
इह हि भुवनान्य् अन्यैर् धीराश् चतुर्दश भुञ्जते
कतिपय-पुर-स्वाम्ये पुंसां क एष मद-ज्वरः
अभुक्तायां यस्यां क्षणम् अपि न यातं नृप-शतैर्
धुवस् तस्या लाभे क इव बहुमानः क्षिति-भृताम् ।
तद्-अंशस्याप्य् अंशे तद्-अवय-लेशे ऽपि पतयो
विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम्
मृत्-पिण्डो जल-रेखया बल-यतिः सर्वो ऽप्य् अयं नन्व् अणुः
स्वांशीकृत्य स एव सङ्गर-शतै राज्ञां गणा भुञ्जते ।
ये दद्युर् ददतो ऽथवा किम् अपरं क्षुद्रा दरिद्रं भृशं
धिग् धिक् तान् पुरुषाधमान् धनकणान् वाञ्छन्ति तेभ्यो ऽपि ये
स जातः को ऽप्य् आसीन् मदन-रिपुणा मूर्ध्नि धवलं
कपालं यस्योच्चैर् विनिहितम् अलङ्कार-विधये ।
नृभिः प्राण-त्राण-प्रवण-मतिभिः कैश्चिद् अधुना
नमद्भिः कः पुंसाम् अयम् अतुल-दर्प-ज्वर-भरः
परेषां चेतांसि प्रतिदिवसम् आराध्य बहुधा
प्रसादं किं नेतुं विशसि हृदय क्लेश-कलितम् ।
प्रसन्ने त्वय्य् अन्तः-सवयमुदित-चिन्तामणि-गणो
विविक्तः सङ्कल्पः किम् अभिलषितं पुष्यति न ते
सत्याम् एव त्रिलोकी-सरिति हर-शिरश् चुम्बिनीवच् छटायां
सद्-वृत्तिं कल्पयन्त्यां बट-विटप-भवैर् वल्कलैः सत्-फलैश् च ।
को ऽयं विद्वान् विपत्ति-ज्वर-जनित-रुजातीव-दुःखासिकानां
वक्त्रं वीक्षेत दुःस्थे यदि हि न विभृयात् स्वे कुटुम्बे ऽनुकम्पाम् ॥ भर्स्त्_3.61*1 ॥
परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां
स्वयं भवति यद् यथा भवति तत् तथा नान्यथा ।
अतीतम् अननुस्मरन्न् अपि च भाव्य-सङ्कल्पयन्नतर्कित-
समागमानुभवामि भोगनाहम्
एतस्माद् विरमेन्द्रियार्थ-गहनादायासकाद् आश्रयश्रेयो-
मार्गम् अशेष-दुःख-शमन-व्यापार-दक्षं क्षणात् ।
स्वात्मीभावम् उपैहि सन्त्यज निजां कल्लोल-लोलं गतिं
मा भूयो भज भङ्गुरां भव-रतिं चेतः प्रसीदाधुना
मोहं मार्जय ताम् उपार्जय रतिं चन्द्रार्ध-चूडामणौ
चेतः स्वर्ग-तरङ्गिणी-तट-भुवाम् आसङ्गम् अङ्गीकुरु ।
को वा वीचिषु बुद्बुदेषु च तडिल्-लेखासु च श्रीषु च
ज्वालाग्रेषु च पन्नगेषु सरिद्-वेगेषु च च-प्रत्ययः
चेतश् चिन्तय मा रमां सकृद् इमाम् अस्थायिनीम् आस्थया
भूपाल-भ्रुकुटी-कुटी-विहरण-व्यापार-पण्याङ्गनाम् ।
कन्था-कञ्चुकिनः प्रविश्य भवन-द्वाराणि वाराणसीरथ्या-
पङ्क्तिषु पाणि-पात्र-पतितां भिक्षाम् अपेक्षामहे
अग्रे गीतं सरस-कवयः पार्श्वयोर् दाक्षिणात्याः
पश्चाल् लीलावलय-रणितं चामर-ग्राहिणीनाम् ।
यद्य् अस्त्य् एवं कुरु भव-रसास्वादने लम्पटत्वं
नो चेच् चेतः प्रविश सहसा निर्विकल्पे समाधौ
प्राप्ताः श्रियः सकल-काम-दुधास् ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
सम्पादिताः प्रणयिनो विभवैस् ततः किं
कल्पं स्थितास् तनुभृतां तनवस् ततः किम्
भक्तिर् भवे मरण-जन्म-भयं हृदि-स्थं
स्नेहो न बन्धुषु न मन्मथजा विकाराः ।
संसर्ज दोष-रहिता विजया वनान्ता
वैराग्यम् अस्ति किम् इतः परमर्थनीयम्
तस्माद् अनन्तम् अजरं परमं विकासि
तद् ब्रह्म चिन्तय किम् एभिर् असद्-विकल्पैः ।
यस्यानुषङ्गिण इमे भुवनाधिपत्यभोगादयः
कृपण-लोक-मता भवन्ति
पातालम् आविशसि यासि नभो विलङ्घ्य
दिङ्-मण्डलं भ्रमसि मानस चापलेन ।
भ्रान्त्यापि जातु विमलं कथम् आत्मनीनं
न ब्रह्म संसरसि विर्वृतिम्म् एषि येन
किं वेदैः स्मृतिभिः पुराण-पठनैः शास्त्रैर् महा-विस्तरैः
स्वर्ग-ग्राम-कुटी-निवास-फलदैः कर्म-क्रिया-विभ्रमैः ।
मुक्त्वैकं भव-दुःख-भार-रचना-विध्वंस-कालानलं
स्वात्मानन्द-पद-प्रवेश-कलनं शेसैर् वाणिग्-वृत्तिभिः
नायं ते समयो रहस्यम् अधुना निद्राति नाथो यदि
स्थित्वा द्रक्ष्यति कुप्यति प्रभुर् इति द्वारेषु येषां वचः ।
चेतस् तान् अपहाय याहि भवनं देवस्य विश्वेशितुर्
निर्दौवारिक-निर्दयोक्त्य्-अपरुषं निःसोम-शर्म-प्रदम् ॥ भर्स्त्_3.71*1 ॥
यतो मेरुः श्रीमान् निपतति युगान्ताग्नि-वलितः
समुद्राः शुष्यन्ति प्रचुर-मकर-ग्राह-निलयाः ।
धरा गच्छत्य् अन्तं धरणि-धर-पादैर् अपि धृता
शरीरे का वार्ता करिकलभ-कर्णाग्र-चपले
गात्रं सङ्कुचितं गतिर् विगलिता भ्रष्टा च दन्तावलिर्
दृष्टिर् नक्ष्यति वर्धते वधिरता वक्त्रं च लालायते ।
वाक्यं नाद्रियते च बान्धव-जनो भार्या न शुश्रूषते
हा कष्टं पुरुषस्य जीर्ण-वयसः पुत्रो ऽप्य् अमित्रायते
वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां
स्थानं जरा-परिभवस्य तदा पुमांसम् ।
आरोपितांस्थि-शतकं परिहृत्य यान्ति
चण्डाल-कूपम् इव दूरतरं तरुण्यः
यावत् स्वस्थम् इदं शरीरम् अरुजं यावच् च दूरे जरा
यावच् चेन्द्रिय-शक्तिर् अप्रतिहता यावत् क्षयो नायुषः ।
आत्म-श्रेयसि तावद् एव विदुषा कार्यः प्रयत्नो महान्
सन्दीप्ते भवने तु कूप-खननं प्रत्युद्यमः कीदृशः
तपस्यन्तः सन्तः किम् अधिनिवसामः सुर-नदीं
गुणोदारान् दारान् उत परिचरामः सविनयम् ।
पिबामः शास्त्रौघानुत-विविध-काव्यामृत-रसान्
न विद्मः किं कुर्मः कतिपय-निमेषायुषि जने
दुराराध्याश् चामी तुरग-चल-चित्ताः क्षितिभुजो
वयं तु स्थूलेच्छाः सुमहति फले बद्ध-मनसः ।
जरा देहं मृत्युर् हरति दयितं जीवितम् इदं
सखे नान्यच् छ्रेयो जगति विदुषे ऽन्यत्र तपसः
माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयाते ऽर्थिनि
क्षीणे बन्धु-जने गते परिजने नष्टे शनैर् यौवने ।
युक्तं केवलम् एतद् एव सुधियां यज् जह्नु-कन्या-पयःपूताग्राव-
गिरीन्द्र-कन्दर-तटी-कुञ्जे निवासः क्वचित्
रम्याश् चन्द्र-मरीचयस् तृणवती रम्या वनान्त-स्थली
रम्यं साधु-समागमागत-सुखं काव्येषु रम्याः कथाः ।
कोपोपाहित-बाष्प-बिन्दु-तरलं रम्यं प्रियाया मुखं
सर्वं रम्यम् अनित्यताम् उपगते चित्ते न किञ्चित् पुनः
रम्यं हर्म्य-तलं न किं वसतये श्रव्यं न गेयादिकं
किं वा प्राण-समासमागम-सुखं नैवाधिक-प्रीतये ।
किन्तु भ्रान्त-पतङ्ग-क्षपवनव्यालोल-दीपाङ्कुरच्छाया-
चञ्चलम् आकलय्य सकलं सन्तो वनान्तं गताः
आ संसारात् त्रिभुवनम् इदं चिन्वतां तात् तादृङ्नैवास्माकं
नयन-पदवीं श्रोत्र-मार्गं गतो वा ।
यो ऽयं धत्ते विषय-करिणो गाढ-गूढाभिमानक्षीवस्यान्तः-
करण-करिणः संयमालान-लीलाम्
यद् एतत् स्वच्छन्दं विहरणम् अकार्पण्यम् अशनं
सहार्यैः संवासः श्रुतम् उपशमैक-व्रत-फलम् ।
मनो मन्द-स्पन्दं बहिर् अपि चिरस्यापि विमृशन्न
जाने कस्यैषा परिणतिर् उदारस्य तपसः
जीर्णा एव मनोरथाश् च हृदये यातं च तद् यौवनं
हन्ताङ्गेषु गुणाश् बन्ध्य-फलतां याता गुणज्ञैर् विना ।
किं युक्तं सहसाभ्युपैति बलवान् कालः कृतान्तो ऽक्षमी
हा ज्ञातं मदनान्तकाङ्घ्रि-युगलं मुक्त्वास्ति नान्यो गतिः
महेश्वरे वा जगताम् अधीश्वरे
जनार्दने वा जगद्-अन्तरात्मनि ।
न वस्तु-भेद-प्रतिपत्तिर् अस्ति मे
तथापि भक्तिस् तरुणेन्दु-शेखरे
स्फुरत्-स्फार-ज्योत्स्नाधवलित-तले क्वापि पुलिने
सुखासीनाः शान्त-ध्वन्तिसु रजनीषु द्यु-सरितः ।
भवाभोगोद्विग्नाः शिव शिव शिवेत्य् उच्चवचसः
कदा यास्यामो ऽतर्गत-बहुल-बाष्पाकुल-दशाम्
महादेवो देवः सरिद् अपि च सैषा सुर-सरिद्गुहा
एवागारं वसनम् अपि ता एव हरितः ।
सुहृदा कालो ऽयं व्रत्म् इदम् अदैन्य-व्रतम् इदं
कियद् वा वक्ष्यामो वट-विटप एवास्तु दयिता ॥ भर्स्त्_3.- ॥
वितीर्णे सर्वस्वे तरुण-करुणा-पूर्ण-हृदयाः
स्मरन्तः संसारे विगुण-परिणामां विधि-गतिम् ।
वयं पुण्यारण्ये परिणत-शरच्-चन्द्र-किरणास्
त्रियामा नेस्यामो हर-चरण-चिन्तैक-शरणाः
कदा वाराणस्याम् अमर-तटिनी-रोधसि वसन्
वसानः कौपीनं शिरसि निदधानो ऽञ्जलि-पुटम् ।
अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन
प्रसीदेत्याक्रोशन् निमिषम् इव नेष्यामि दिवसान्
उद्यानेषु विचित्र-भोजन-विधिस् तीव्रातितीव्रं तपः
कौपीनावरणं सुवस्त्रम् अमितं भिक्षाटनं मण्डनम् ।
आसन्नं मरणं च मङ्गल-समं यस्यां समुत्पद्यते
तां काशीं परिहृत्य हन्त विबुधैर् अन्यत्र किं स्थीयते ॥ भर्स्त्_3.- ॥
स्नात्वा गाङ्गैः पयोभिः शुचि-कुसुम-फलैर् अर्चयित्वा विभो त्वा
ध्येये ध्यानं निवेश्य क्षिति-धर-कुहर-ग्राव-पर्यङ्क-मूले ।
आत्मारामः फलाशी गुरु-वचन-रतस् त्वत्-प्रसादात् स्मरारे
दुःखं मोक्ष्ये कदाहं सम-कर-चरणे पुंसि सेवासमुत्थम्
एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।
कदा शम्भो भविष्यामि कर्म-निर्मूलन-क्षमः
पाणिं पात्रयतां निसर्ग-शुचिना भैक्षेण सन्तुष्यतां
यत्र क्वापि निषीदतां बहु-तृणं विश्वं मुहुः पश्यताम् ।
अत्यागे ऽपि तनोर् अखण्ड-परमानन्दावबोध-स्पृशा
मध्वा को ऽपि शिव-प्रसाद-सुलभः सम्पत्स्यते योगिनाम्
कौपीनं शत-खण्ड-जर्जरतरं कन्था पुनस् तादृशी
नैश्चिन्त्यं निरपेक्ष-भैक्ष्यम् अशनं निद्रा श्मशाने वने ।
स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा
स्थैर्यं योग-महोत्सवे ऽपि च यदि त्रैलोक्य-राज्येन किम्
ब्रह्माण्डं मण्डली-मात्रं किं लोभाय मनस्विनः ।
शफरी-स्फुर्तेनाब्धिः क्षुब्धो न खलु जायते
मातर् लक्ष्मि भजस्व कञ्चिद् अपरं मत्-काङ्क्षिणी मा स्म भूर्
भोगेषु स्पृहयालवस् तव वशे का निःस्पृहाणाम् असि ।
सद्यः स्यूत-पलाश-पत्र-पुटिका-पात्रैः पवित्री-कृतैर्
भिक्षा-वस्तुभिर् एव सम्प्रति वयं वृत्तिं समीहामहे
महा-शय्या पृथ्वी विपुलम् उपधानं भुज-लतां
वितानं चाकाशं व्यजनम् अनुकूलो ऽयम् अनिलः ।
शरच्-चन्द्रो दीपो विरति-वनिता-सङ्ग-मुदितः
सुखी शान्तः शेते मुनिर् अतनु-भूतिर् नृप इव
भिक्षासी जन-मध्य-सङ्ग-रहितः स्वायत्त-चेष्टः सदा
हाना-दान-विरक्त-मार्ग-निरतः कश्चित् तपस्वी स्थितः ।
रथ्याकीर्ण-विशीर्ण-जीर्ण-वसनः सम्प्राप्त-कन्थासनो
निर्मानो निरहङ्कृतिः शम-सुखाभोगैक-बद्ध-स्पृहः
चण्डालः किम् अयं द्विजातिर् अथवा शूद्रो ऽथ किं तापसः
किं वा तत्त्व-विवेक-पेशल-मतिर् योगीश्वरः को ऽपि किम् ।
इत्य् उत्पन्न-विकल्प-जल्प-मुखरैर् आभाष्यमाणा जनैर्
न क्रुद्धाः पथि नैव तुष्ट-मनसो यान्ति स्वयं योगिनः
हिंसा-शून्यम् अयत्न-लभ्यम् अशनं धात्रा मरुत्-कल्पितं
व्यालानं पशवस् तृणाङ्कुर-भुजस् तुष्टाः स्थली-शायिनः ।
संसारार्णव-लङ्घन-क्षम-धियां वृत्तिः कृता सा नृणां
ताम् अन्वेषयतां प्रयान्ति सततं सर्वं समाप्तिं गुणाः
गङ्गा-तीरे हिम-गिरि-शिला-बद्ध-पद्मासनस्य
ब्रह्म-ध्यानाभ्यसन-विधिना योग-निद्रां गतस्य ।
किं तैर् भाव्यं मम सुदिवसैर् यत्र ते निर्विशङ्काः
कण्डूयन्ते जरठ-हरिणाः स्वाङ्गम् अङ्गे मदीये
जीर्णाः कन्था ततः किं सितम् अमल-पटं पट्ट-सूत्रं ततः किं
एका भार्या ततः किं हय-करि-सुगणैर् आवृतो वा ततः किम् ।
भक्तं भुक्तं ततः किं कदशनम् अथवा वासरान्ते ततः किं
व्यक्त-ज्योतिर् न वान्तर्मथित-भव-भयं वैभवं वा ततः किम् ॥ भर्स्त्_3.- ॥
पाणिः पात्रं पवित्रं भ्रमण-परिगतं भैक्ष्यम् अक्षय्यम् अन्नं
विस्तीर्णं वस्त्रम् आशा-दशकम् अचपलं तल्पम् अस्वल्पम् उर्वीम् ।
येषां निःसङ्गताङ्गी-करण-परिणत-स्वान्त-सन्तोषिणस् ते
धन्याः संन्यस्त-दैन्य-व्यतिकर-निकराः कर्म निर्मूलयन्ति
त्रैलोक्याधिपतित्वम् एव विरसं यस्मिन् महाशासने
तल् लब्ध्वासन-वस्त्र-मान-घटने भोगे रतिं मा कृथाः ।
भोगः को ऽपि स एक एव परमो नित्योदिता जृम्भने
यत्-स्वादाद् विरसा भवन्ति विसयास् त्रैलोक्य-राज्यादयः ॥ भर्स्त्_3.99*1 ॥
मातर् मेदिनि तात मारुति सखे तेजः सुबन्धो जल
भ्रातर् व्योम निबद्ध एष भवताम् अन्त्यः प्रणामाञ्जलिः ।
युष्मत्-सङ्ग-वशोपजात-सुकृत-स्फार-स्फुरन्-निर्मलज्ञानापास्त-
समस्त-मोह-महिमा लीने पर-ब्रह्मणि
मूल पाठ: Śatakatraya (1. Nītiśataka, 2. Śṛṅgāraśataka, 3. Vairāgyaśataka) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0