भाषा

ENहिગુ
ग्रंथ पाठ

शतकत्रय · अध्याय 2

2.1

शृङ्गार-शतकम्
भर्तृहरेः
शम्भु-स्वयम्भु-हरयो हरिणेक्षणानां
येनाक्रियन्त सततं गृह-कुम्भ-दासाः ।
वाचाम् अगोचर-चरित्र-विचित्रिताय
तस्मै नमो भगवते मकर-ध्वजाय

2.2

स्मितेन भावेन च लज्जया भिया
पराण्मुखैर् अर्ध-कटाक्ष-वीक्षणैः ।
वचोभिर् ईर्ष्या-कलहेन लीलया
समस्त-भावैः खलु बन्धनं स्त्रियः

2.3

भ्रू-चातुर्यात् कुष्चिताक्षाः कटाक्षाः
स्निग्धा वाचो लज्जितान्ताश् च हासाः ।
लीला-मन्दं प्रस्थितं च स्थितं च
स्त्रीणाम् एतद् भूषणं चायुधं च

2.4

क्वचित् स-भ्रू-भङ्गैः क्वचिद् अपि च लज्जा-परिगतैः
क्वचिद् भूरि-त्रस्तैः क्वचिद् अपि च लीला-विललितैः ।
कुमारीणाम् एतैर् मदन-सुभगैर् नेत्र-वलितैः
स्फुरन्-नीलाब्जानां प्रकर-परिकीर्णा इव दिशः

2.5

वक्त्रं चन्द्र-विकासि पङ्कज-परीहास-क्षमे लोचने
वर्णः स्वर्णम् अपाकरिष्णुर् अलिनी-जिष्णुः कचानां चयः ।
बक्षोजाव् इभ-कुम्भ-विभ्रम-हरौ गुर्वी नितम्ब-स्थली
वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मण्डनम्

2.6

स्मित-किञ्चिन्-मुग्धं सरल-तरलो दृष्टि-विभवः
परिस्पन्दो वाचाम् अभिनव-विलासोक्ति-सरसः ।
गतानाम् आरम्भः किसलयित-लीला-परिकरः
स्पृशन्त्यास् तारुण्यं किम् इव न हि रम्यं मृगदृशः

2.7

द्रष्टव्येषु किम् उत्तमं मृगदृशः प्रेम-प्रसन्नं मुखं
घ्रातवेष्व् अपि किं तद्-आस्य-पवनः श्रव्येषु किं तद्-वचः ।
किं स्वाद्येषु तद्-ओष्ठ-पल्लव-रसः स्पृश्येषु किं तद्-वपुर्ध्येयं
किं नव-यौवने सहृदयैः सर्वत्र तद्-विभ्रमाः

2.8

एताश् चलद्-वलय-संहति-मेखलोत्थझङ्कार-
नूपुर-पराजित-राज-हंस्यः ।
कुर्वन्ति कस्य न मनो विवशं तरुण्यो
वित्रस्त-मुग्ध-हरिणी-सदृशैः कटाक्षैः

2.9

कुङ्कुम-पङ्क-कलङ्कित-देहा
गौर-पयोधर-कम्पित-हारा ।
नूपुर-हंस-रणत्-पद्मा
कं न वशीकुरुते भुवि रामा

2.10

नूनं हि ते कवि-वरा विपरीत-वाचो
ये नित्यम् आहुर् अबला इति कामिनीस् ताः ।
याभिर् विलोलितर-तारक-दृष्टि-पातैः
शक्रादयो ऽपि विजितास् त्व् अबलाः कथं ताः

2.11

नूनम् आज्ञा-करस् तस्याः सुभ्रुवो मकर-ध्वजः ।
यतस् तन्-नेत्र-सञ्चार-सूचितेषु प्रवर्तते

2.12

केशाः संयमिनः श्रुतेर् अपि परं पारं गते लोचने
अन्तर्-वक्त्रम् अपि स्वभाव-शुचि-भीः कीर्णं द्विजानां गणैः ।
मुक्तानां सतताधिवास-रुचिरौ वक्षोज-कुम्भाव् इमावित्थं
तन्वि वपुः प्रशान्तम् अपि तेरागं करोत्य् एव नः

2.13

मुग्धे धानुष्कता केयम् अपूर्वा त्वयि दृश्यते ।
यया विध्यसि चेतांसि गुणैर् एव न सायकैः

2.14

सति प्रदीपे सत्य् अग्नौ सत्सु तारारवीन्दुषु ।
विना मे मृग-शावाक्ष्या तमो-भूतम् इदं जगत्

2.15

उद्वृत्तः स्तन-भार एष तरले नेत्रे चले भ्रू-लते
रागाधिष्ठितम् ओष्ठ-पल्लवम् इदं कुर्वन्तु नाम व्यथाम् ।
सौभाग्याक्षर-मालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापम् अधिकं रोमावलिः केन सा

2.16

मुखेन चन्द्र-कान्तेन महानीलैः शिरोरुहैः ।
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा

2.17

गुरुणा स्तन-भारेण मुख-चन्द्रेण भास्वता ।
शनैश्-चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा

2.18

तस्याः स्तनौ यदि घनौ जघनं च हारि
वक्त्रं च चारु तव चित्त किम् आकुलत्वम् ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर् विना न हि भवन्ति समीहितार्थाः

2.19

इमे तारुण्य-श्री-नव-परिमलाः प्रौढ-सुरतप्रताप-
प्रारम्भाः स्मर-विजय-दान-प्रतिभुवः ।
चिरं चेतश् चोरा अभिनव-विकारैक-गुरवो
विलास-व्यापाराः किम् अपि विजयन्ते मृग-दृशाम्

2.20

प्रणय-मधुराः प्रेमोद्गारा रसाश्रयतां गताः
फणिति-मधुरा मुग्ध-प्रायाः प्रकाशित-सम्मदाः ।
प्रकृति-सुभगा विस्रम्भार्द्राः स्मरोदय-दायिनी
रहसि किम् अपि स्वैरालापा हरन्ति मृगीदृशाम्

2.21

विश्रम्य विश्रम्य वन-द्रुमाणां
छायासु तन्वी विचचार काचित् ।
स्तनोत्तरीयेण करोद्धृतेन
निवारयन्ती शशिनो मयूखान्

2.22

अदर्शने दर्शन-मात्र-कामा
दृष्ट्वा परिष्वङ्ग-सुखैक-लोला ।
आलिङ्गितायां पुनर् आयताक्ष्यामाशास्महे
विग्रहयोर् अभेदम्

2.23

मालती शिरसि जृम्भणं मुखे
चन्दनं वपुषि कुङ्कुमाविलम् ।
वक्षसि प्रियतमा मदालसा
स्वर्ग एष परिशिष्ट आगमः

2.24

प्राङ् माम् एति मनाग् अनागत-रसं जाताभिलाषां ततः
सव्रीडं तद् अनु श्लथोद्यमम् अथ प्रध्वस्त-धैर्यं पुनः ।
प्रेमार्द्रं स्पृहणीय-निर्भर-रहः क्रीडा-प्रगल्भं ततो
निःसङ्गाङ्ग-विकर्षणाधिक-सुख-रम्यं कुल-स्त्री-रतम्

2.25

उरसि निपतितानां स्रस्त-धम्मिल्लकानां
मुकुलित-नयनानां किञ्चिद्-उन्मीलितानाम् ।
उपरि सुरत-खेद-स्विन्न-गण्ड-स्थलानामधर-
मधु वधूनां भाग्यवन्तः पिबन्ति

2.26

आमीलित-नयनानां यः
सुरतरसो ऽनु संविदं भाति ।
मिथुरैर् मिथो ऽवधारितमवितथम्
इदम् एव काम-निर्बर्हणम्

2.27

इदम् अनुचितम् अक्रमश् च पुंसां
यद् इह जरास्व् अपि मन्मथा विकाराः ।
तद् अपि च न कृतं नितम्बिनीनां
स्तन-पतनावधि जीवितं रतं वा

2.28

राजस्-तृष्णाम्बुराशेर् न हि जगति गतः कश्चिद् एवावसानं
को वार्थो ऽर्थैः प्रभूतैः स्व-वपुषि गलिते यौवने सानुरागे ।
गच्छामः सद्म यावद् विकसित-नयनेन्दीवरालोकिनीनामाक्रम्याक्रम्य
रूपं झटिति न जरया लुप्यते प्रेयसीनाम्

2.29

रागस्यागारम् एकं नरक-शत-महा-दुःख-सम्प्राप्ति-हेतुर्मोहस्योत्पत्ति-
बीजं जलधर-पटलं ज्ञान-ताराधिपस्य ।
कन्दर्पस्यैक-मित्रं प्रकटित-विविध-स्पष्ट-दोष-प्रबन्धं
लोके ऽस्मिन् न ह्य् अर्थ-व्रज-कुल-भवन-यौवनाद् अन्यद् अस्ति

2.30

शृङ्गार-द्रुम-नीरदे प्रसृमर-क्रीडा-रस-स्रोतसि
प्रद्युम्न-प्रिय-बान्धवे चतुर-वाङ्-मुक्ता-फलोदन्वति ।
तन्वी-नेत्र-चकोर-पावन-विधौ सौभाग्य-लक्ष्मी-निधौ
धन्यः को ऽपि न विक्रियां कलयति प्राप्ते नवे यौवने

2.31

संसारे ऽस्मिन्न् असारे कुनृपति-भवन-द्वार-सेवा-कलङ्कव्यासङ्ग-
व्यस्त-धैर्यं कथम् अमल-धियो मानसं संविदध्युः ।
यद्य् एताः प्रोद्यद्-इन्दु-द्युति-निचय-भृतो न स्युर् अम्भोज-नेत्राः
प्रेङ्खत्-काञ्ची-कलापाः स्तन-भर-विनमन्-मध्य-भाजस् तरुण्यः

2.32

सिद्धाध्यासित-कन्दरे हर-वृष-स्कन्धावरुग्ण-द्रुमे
गङ्गा-धौत-शिला-तले हिमवतः स्थाने स्थिते श्रेयसि ।
कः कुर्वीत शिरः प्रणाम-मलिनं म्लानं मनस्वी जनो
यद्-वित्रस्त-कुरङ्ग-शाव-नयना न स्युः स्मरास्त्रं स्त्रियः

2.33

संसार तव पर्यन्त-पदवी न दवीयसी ।
अन्तरा दुस्तरा न स्युर् यदि ते मदिरेक्षणाम्

2.34

दिश वन-हरिणीभ्यो वंश-काण्ड-च्छवीनां
कवलम् उपल-कोटि-च्छिन्न-मूलं कुशानाम् ।
शक-युवति-कपोलापाण्डुताम्बूल-वल्लीदलम्
अरुण-नखाग्रैः पाटितं वा वधूभ्यः

2.35

असाराः सर्वे ते विरति-विरसाः पाप-विषया
जुगुप्स्यन्तां यद् वा ननु सकल-दोषास्पदम् इति ।
तथाप्य् एतद्-भूमौ नहि पर-हितात् पुण्यम् अधिकं
न चास्मिन् संसारे कुवलय-दृशो रम्यम् अपरम्

2.36

एतत्-काम-फलो लोके यद् द्वयोर् एक-चित्तता ।
अन्य-चित्त-कृते कामे शवयोर् इव सङ्गमः ॥ भर्स्त्_2.35*1 ॥
मात्सर्यम् उत्सार्य विचार्य कार्यमार्याः
समर्यादम् इदं वदन्तु ।
सेव्या नितम्बाः किम् उ भूधराणामत
स्मर-स्मेर-विलासिनीनाम्

2.37

संसारे स्वप्न-सारे परिणति-तरले द्वे गती पण्डितानां
तत्त्व-ज्ञानामृताम्भः-प्लव-ललित-धियां यातु कालः कथञ्चित् ।
नो चेन् मुग्धाङ्गनानां स्तन-जघन-घनाभोग-सम्भोगिनीनां
स्थूलोपस्थ-स्थलीषु स्थगित-करतल-स्पर्श-लीलोद्यमानाम्

2.38

आवासः क्रियतां गङ्गे पाप-हारिणि वारिणि ।
स्तन-द्वये तरुण्या वा मनोहारिणि हारिणि

2.39

किम् इह बहुभिर् उक्तैर् युक्ति-शून्यैः प्रलापैर्द्वयम्
इह पुरुषाणां सर्वदा सेवनीयम् ।
अभिनव-मद-लीला-लालसं सुन्दरीणां
स्तन-भर-परिखिन्नं यौवनं वा वनं वा

2.40

सत्यं जना वच्मि न पक्ष-पाताल्
लोकेषु सप्तस्व् अपि तथ्यम् एतत् ।
नान्यन् मनोहारि नितम्बिनीभ्यो
दुःखैक-हेतुर् न च कश्चिद् अन्यः

2.41

कान्तेत्य् उत्पल-लोचनेति विपुल-श्रोणी-भरेत्य् उन्नमत्पीनोत्तुङ्ग-
पयोधरेति समुखाम्भोजेति सुभ्रूर् इति ।
दृष्ट्वा माद्यति मोदते ऽभिरमते प्रस्तौति विद्वान् अपि
प्रत्यक्षाशुचि-भस्त्रिकां स्त्रियम् अहो मोहस्य दुश्चेष्टितम्

2.42

स्मृता भवति तापाय दृष्टा चोन्माद-कारिणी ।
स्पृष्टा भवति मोहाय सा नाम दयिता कथम्

2.43

तावद् एवामृतमयी यावल् लोचन-गोचरा ।
चक्षुष्-पथाद् अतीता तु विषाद् अप्य् अतिरिच्यते

2.44

नामृतं न विषं किञ्चिद् एतां मुक्त्वा नितम्बिनीम् ।
सैवामृत-लता रक्ता विरक्ता विष-वल्लरी

2.45

आवर्तः संशयानाम् अविनय-भुवनं पट्टणं साहसानां
दोषाणां सन्निधानं कपट-शत-मयं क्षेत्रम् अप्रत्ययानाम् ।
स्वर्ग-द्वारस्य विघ्नो नरक-पुर-मुख सर्वमायाकरण्डं
स्त्री-यन्त्रं केन सृष्टं विषम् अमृतमयं प्राणि-लोकस्य पाशः

2.46

नो सत्येन मृगाङ्क एष वदनी-भूतो न चेन्दीवरद्वन्द्वं
लोचनतां गत न कनकैर् अप्य् अङ्ग-यष्टिः कृता ।
किन्त्व् एवं कविभिः प्रतारित-मनास् तत्त्वं विजानन्न् अपि
त्वङ्-मांसास्थि-मयं वपुर् मृग-दृशां मन्दो जनः सेवते

2.47

लीलावतीनां सहजा विलासास्त
एव मूढस्य हृदि स्फुरन्ति ।
रागो नलिन्या हि निसर्ग-सिद्धस्तत्र
भ्रम्त्य् एव वृथा षड्-अङ्घ्रिः

2.48

संमोहयन्ति मदयन्ति विडम्बयन्ति
निर्भर्त्स्यन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सदयं हृदयं नराणां
किं नाम वाम-नयना न समाचरन्ति ॥ भर्स्त्_2.47*1 ॥
यद् एतत् पूर्णेन्दु-द्युति-हरम् उदाराकृति परं
मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधर-मधु ।
इदं तत् किं पाक-द्रुम-फलम् इदानीम् अतिरसव्यतीते ऽस्मिन्
काले विषम् इव भविष्य्त्य् असुखदम्

2.49

उन्मीलत्-त्रिवली-तरङ्ग-निलया प्रोत्तुङ्ग-पीन-स्तनद्वन्द्वेनोद्गत-
चक्रवाक-युगला वक्त्राम्बुजोद्भासिनी ।
कान्ताकार-धरा नदीयम् अभितः क्रूरात्र नापेक्षते
संसारार्णव-मज्जनं यदि तदा दूरेण सन्त्यज्यताम्

2.50

जल्पन्ति सार्धम् अन्येन पश्यन्त्य् अन्यं सविभ्रमाः ।
हृद्-गतं चिन्तयन्त्य् अन्यं प्रियः को नाम योषिताम्

2.51

मधु तिष्ठति वाचि योषितां हृदि हालाहलम् एव केवलम् ।
अतएव निपीयते ऽधरो हृदयं मुष्टिभिर् एव ताड्यते

2.52

अपसर सखे दूराद् अस्मात् कटाक्ष-विषानलात्
प्रकृति-विषमाद् योषित्-सर्पाद् विलास-फणाभृतः ।
इतर-फणिना दष्टः शक्यश् चिकित्सितुम् औषधैश्चतुर्-
वनिताभोगि-ग्रस्तं हि मन्त्रिणः

2.53

विस्तारितं मकर-केतन-धीवरेण
स्त्री-संज्ञितं बडिशम् अत्र भवाम्बु-राशौ ।
येनाचिरात् तद्-अधरामिष-लोल-मर्त्य-
मत्स्यान् विकृष्य विपचत्य् अनुराग-वह्नौ

2.54

कामिनी-काय-कान्तारे कुच-पर्वत-दुर्गमे ।
मा संचर मनः पान्थ तत्रास्ते स्मर-तस्करः

2.55

व्यादीर्घेण चलेन वक्त्र-गतिना तेजस्विना भोगिना
नीलाब्ज-द्युतिनाहिना परम् अहं दृष्टो न तच्-चक्षुषा ।
दृष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण दर्मार्थिनो
मुग्धाक्ष्क्षण-वीक्षितस्य न हि मे वैद्यो न चाप्य् औषधम्

2.56

इह हि मधुर-गीतं नृत्यम् एतद्-रसो ऽयं
स्फुरति परिमलो ऽसौ स्पर्श एष स्तनानाम् ।
इति हत-परमार्थैर् इन्द्रियैर् भ्राम्यमाणः
स्व-हित-करण-धूर्तैः पञ्चभिर् वञ्चितो ऽस्मि

2.57

न गम्यो मन्त्राणां न च भवति भैषज्य-विषयो
न चापि प्रध्वंसं व्रजति विविधैः शान्तिक-शतैः ।
भ्रमावेशाद् अङ्गे कम् अपि विदधद् भङ्गम् असकृत्
स्मरापस्मारो ऽयं भ्रमयति दृशं घूर्णयति च

2.58

जात्य्-अन्धाय च दुर्मुखाय च जराजीर्णा खिलाङ्गाय च
ग्रामीणाय च दुष्कुलाय च गलत्-कुष्ठाभिभूताय च ।
यच्छन्तीषु मनोहरं निज-वपु-लक्ष्मी-लव-श्रद्धया
पण्य-स्त्रीषु विवेक-कल्प-लतिकाश-स्त्रीषु राज्येत कः

2.59

वेश्यासौ मदन-ज्वाला
रूपे ऽन्धन-विवर्धिता ।
कामिभिर् यत्र हूयन्ते
यौवनानि धनानि च

2.60

कश् चुम्बति कुल-पुरुषो वेश्याधर-पल्लवं मनोज्ञम् अपि ।
चारभट-चोर-चेटक-नट-विट-निष्ठीवन-शरावम्

2.61

धन्यास् त एव धवलायत-लोचनानां
तारुण्य-दर्प-घन-पीन-पयोधराणाम् ।
क्षामोदरोपरि लसत्-त्रिवली-लतानां
दृष्ट्वाकृतिं विकृतिम् एति मनो न येषाम्

2.62

बाले लीला-मुकुलितम् अमी मन्थरा दृष्टि-पाताः
किं क्षिप्यन्ते विरम-विरम व्यर्थ एष श्रमस् ते ।
सम्प्रत्य् अन्ये वयम् उपरतं बाल्यम् आस्था वनान्ते
क्षीणो मोहस् तृणम् इव जगज्-जालम् आलोकयामः

2.63

इयं बाला मां प्रत्य् अनवरतम् इन्दीवर-दलप्रभा
चीरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया ।
गतो मोहो ऽस्माकं स्मर-शबर-बाण-व्यतिकरज्वर-
ज्वाला शान्ता तद् अपि न वराकी विरमति

2.64

किं कन्दर्प करं कदर्थयसि रे कोदण्ड-टङ्कारितं
रे रे कोकिल कोमलं कल-रवं किं वा वृथा जल्पसि ।
मुग्धे स्निग्ध-विदग्ध-चारु-मधुरैर् लोलैः कटाक्षैर् अलं
चेतश् चुम्बित-चन्द्र-चूड-चरण-ध्यानामृतं वर्तते

2.65

विरहे ऽपि सङ्गमः खलु
परस्परं सङ्गतं मनो येषाम् ।
हृदयम् अपि विघट्टितं चेत्
सङ्गी विरहं विशेषयति

2.66

किं गतेन यदि सा न जीवति
प्राणिति प्रियतमा तथापि किम् ।
इत्य् उदीक्ष्य नव-मेघ-मालिकां
न प्रयाति पथिकः स्व-मन्दिरम्

2.67

विरमत बुधा योषित्-सङ्गात् सुखात् क्षण-भङ्गुरात्
कुरुत करुणा-मैत्री-प्रज्ञा-वधू-जन-सङ्गमम् ।
न खलु नरके हाराक्रान्तं घन-स्तन-मण्डलं
शरणम् अथवा श्रोणी-बिम्बं रणन्-मणि-मेखलम्

2.68

यदा योगाभ्यास-व्यसन-कृशयोर् आत्म-मनसोरविच्छिन्ना
मैत्री स्फुरति कृतिनस् तस्य किम् उ तैः ।
प्रियाणाम् आलापैर् अधर-मधुभिर् वक्त्र-विधुभिः
सनिश्वासामोदैः सकुच-कलशाश्लेष-सुरतैः

2.69

यदासीद् अज्ञानं स्मर-तिमिर-सञ्चार-जनितं
तदा दृष्ट-नारी-मयम् इदम् अशेषं जगद् इति ।
इदानीम् अस्माकं पटुतर-विवेकाञ्जन-जुषां
समीभूता दृष्टिस् त्रिभुवनम् अपि ब्रह्म मनुते

2.70

तावद् एव कृतिनाम् अपि स्फुरत्येष
निर्मल-विवेक-दीपकः ।
यावद् एव न कुरङ्ग-चक्षुषां
ताड्यते चटुल-लोचनाञ्चलैः

2.71

वचसि भवति सङ्ग-त्यागम् उद्दिश्य वार्ता
श्रुति-मुखर-मुखानां केवलं पण्डितानाम् ।
जघनम् अरुण-रत्न-ग्रन्थि-काञ्ची-कलापं
कुवलय-नयनानां को विहातुं समर्थः

2.72

स्व-पर-प्रतारको ऽसौ
निन्दति यो ऽलीक-पण्डितो युवतीः ।
यस्मात् तपसो ऽपि फलं
स्वर्गः स्वर्गे ऽपि चाप्सरसः

2.73

मत्तेभ-कुम्भ-दलने भुवि सन्ति धीराः
केचित् प्रचण्ड-मृग-राज-वधे ऽपि दक्षाः ।
किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य
कन्दर्प-दर्प-दलने विरला मनुष्याः

2.74

सन्-मार्गे तावद् आस्ते प्रभवति च नरस् तावद् एवेन्द्रियाणां
लज्जां तावद् विधत्ते विनयम् अपि समालम्बते तावद् एव ।
भ्रू-चापाकृष्ट-मुक्ताः श्रवण-पथ-गता नील-पक्ष्माण एते
यावल् लीलावतीनां हृदि न धृतिमुषो दृष्टि-बाणाः पतन्ति

2.75

उन्मत्त-प्रेम-संरम्भाद्
आरभन्ते यद्-अङ्गनाः ।
तत्र प्रत्यूहम् आधातुं
ब्रह्मापि खलु कातरः

2.76

तावन् महत्त्वं पाण्डित्यं
कुलीनत्वं विवेकिता ।
यावज् ज्वलति नाङ्गेषु
हतः पञ्चेषु-पावकः

2.77

शास्त्रज्ञो ऽपि प्रगुणि-तनयो ऽत्यान्त-बाधापि बाढं
संसारे ऽस्मिन् भवति विरलो भाजनं सद्-गतीनाम् ।
येनैतस्मिन् निरय-नगर-द्वारम् उद्घाटयन्ती
वामाक्षीणां भवति कुटिला भ्रू-लता कुञ्चिकेव

2.78

कृशः काणः खञ्जः श्रवण-रहितः पुच्छ-विकलो
व्रणी पूय-क्लिन्नः कृमि-कुल-शतैर् आवृत-तनुः ।
क्षुधा क्षामो जीर्णः पिठरक-कपालार्पित-गलः
शुनीम् अन्वेति श्वा हतम् अपि च हन्त्य् एव मदनः

2.79

स्त्री-मुद्रां कुसुमायुधस्य जयिनीं सर्वार्थ-सम्पत्-करीं
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्या-फलान्वेषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचित् पञ्च-शिखी-कृताश् च जटिलाः कापालिकाश् चापरे

2.80

विश्वामित्र-पराशर-प्रभृतयो वाताम्बु-पर्णाशनास्ते ऽपि
स्त्री-मुख-पङ्कजं सुललितं दृष्ट्वैव मोहं गताः ।
शाल्यन्नं स-घृतं पयो-दधि-युतं ये भुञ्जते मानवास्तेषाम्
इन्द्रिय-निग्रहो यदि भवेद् विन्ध्यः प्लवेत् सागरे

2.81

परिमल-भृतो वाताः शाखा नवाङ्कुर-कोटयो
मधुर-विधुरोत्कण्ठा-भाजः प्रिया पिक-पक्षिणाम् ।
विरल-विरस-स्वेदोद्गारा वधू-वदनेन्दवः
प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः

2.82

मधुर् अयं मधुरैर् अपि कोकिला
कल-रवैर् मलयस्य च वायुभिः ।
विरहिणः प्रहिणस्ति शरीरिणो
विपदि हन्त सुधापि विषायते

2.83

आवासः किल-किञ्चितस्य दयिता-पार्श्वे विलासालसाः
कर्णे कोकिल-कामिनी-कल-रवः स्मेरो लता-मण्डपः ।
गोष्ठी सत्-कविभिः समं कतिपयैर् मुग्धाः सुधांशोः कराः
केषांचित् सुखयन्ति चात्र हृदयं चैत्रे विचित्राः क्षपाः

2.84

पान्थ स्त्री-विरहानलाहुति-कलाम् आतन्वती मञ्जरीमाकन्देषु
पिकाङ्गनाभिर् अधुना सोत्कण्ठम् आलोक्यते ।
अप्य् एते नव-पाटला-परिमल-प्राग्-भार-पाटच्-चरा
वान्ति-क्लान्ति-वितान-तानव-कृतः श्रीखण्ड-शैलानिलाः

2.85

प्रथितः प्रणयवतीनां
तावत् पदम् आतनोतु हृदि मानः ।
भवति न यावच् चन्दनतरु-
सुरभिर् मलय-पवमानः

2.86

सहकार-कुसुम-केसरनिकर-
भरामोद-मूर्च्छित-दिग्-अन्ते ।
मधुर-मधुर-विधुर-मधुपे
मधौ भवेत् कस्य नोत्कण्ठा

2.87

अच्छाच्छ-चन्दन-रसार्द्रतरा मृगाक्ष्यो
धारा-गृहाणि कुसुमानि च कौमुदी च ।
मन्दो मरुत् सुमनसः शुचि हर्म्य-पृष्ठं
ग्रीष्मे मदं च मदनं च विवर्धयन्ति

2.88

स्रजो हृद्य् आमोदा व्यजन-पवनश् चन्द्र-किरणाः
परागः कासारो मलयज-रजः शीधु विशदम् ।
शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कज-दृशो
निदाघ-र्ताव् एतद् विलसति लभन्ते सुकृतिनः

2.89

सुधा-शुभ्रं धाम स्फुरद्-अमल-रश्मिः शशधरः
प्रिया-वक्त्राम्भोजं मलयज-रजश् चातिसुरभिः ।
स्रजो हृद्यामोदास् तद् इदम् अखिलं रागिणि जने
करोत्य् अन्तः क्षोभं न तु विषय-संसर्ग-विमुखे

2.90

तरुणी-वेषोद्दीपित-कामा
विकसज्-जाती-पुष्प-सुगन्धिः ।
उन्नत-पीन-पयोधर-भारा
प्रावृट् तनुते कस्य न हर्षम्

2.91

वियद्-उपचित-मेघं भूमयः कन्दलिन्यो
नव-कुटज-कदम्बामोदिनो गन्धवाहाः ।
शिखि-कुल-कल-केकारावरम्या वनान्ताः
सुखिनम् असुखिनं वा सर्वम् उत्कण्ठयन्ति

2.92

उपरि घनं घन-पटलं
तिर्यग् गिरयो ऽपि नर्तित-मयूराः ।
क्षितिर् अपि कन्दल-धवला
दृष्टिं पथिकः क्व पातयति

2.93

इतो विद्युद्-वल्ली-विलसितम् इतः केतकि-तरोः
स्फुरन् गन्धः प्रोद्यज्-जलद-निनद-स्फूर्जितम् इतः ।
इतः केकि-क्रीडा-कल-कल-रवः पक्ष्मल-दृशां
कथं यास्यन्त्य् एते विरह-दिवसाः सम्भृत-रसाः

2.94

असूचि-सञ्चारे तमसि नभसि प्रौढ-जलदध्वनि-
प्राज्ञंमन्ये पतति पृषतानां च निचये ।
इदं सौदामिन्याः कनक-कमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथि स्वैर-सुदृशाम्

2.95

आसारेण न हर्म्यतः प्रियतमैर् यातुं बहिः शक्यते
शीतोत्कम्प-निमित्तम् आयत-दृशा गाढं समालिङ्ग्यते ।
जाताः शीकर-शीतलाश् च मरुतोर् अत्यन्त-खेद-च्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रिया-सङ्गमे

2.96

अर्धं सुप्त्वा निशायाः सरभस-सुरतायास-सन्न-श्लथाङ्गप्रोद्भूतासह्य-
तृष्णो मधु-मद-निरतो हर्म्य-पृष्ठे विविक्ते ।
सम्भोग-क्लान्त-कान्ता-शिथिल-भुज-लता-वर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छ-धारं पिबति न सलिलं शारदं मन्द-पुण्यः

2.97

हेमन्ते दधि-दुग्ध-सर्पिर् अशना माञ्जिष्ठ-वासो-भृतः
काश्मीर-द्रव-सान्द्र-दिग्ध-वपुषश् छिन्ना विचित्रै रतैः ।
वृत्तोरु-स्तन-कामिनोजन-कृताश्लेषा गृहाभ्यन्तरे
ताम्बूली-दल-पूग-पूरित-मुखा धन्याः सुखं शेरते

2.98

प्रदुयत्-प्रौढ-प्रियङ्गु-द्युति-भृति विकसत्-कुन्द-माद्यद्-द्विरेफे
काले प्रालेय-वात-प्रचल-विलसितोदार-मन्दार-धाम्नि ।
येषां नो कण्ठ-लग्ना क्षणम् अपि तुहिन-क्षोद-दक्षा मृगाक्षी
तेसाम् आयाम-यामा यम-सदन-समा यामिनी याति यूनाम्

2.99

चुम्बन्तो गण्ड-भित्तीर् अलकवति मुखे सीत्कृतान्य् आदधाना
वक्षः-सूत्कञ्चुकेषु स्तन-भर-पुलकोद्भेदम् आपादयन्तः ।
ऊरू-नाकम्पयन्तः पृथु-जघन-तटात् स्रंसयन्तो ऽंशुकानि
व्यक्तं कान्ता-जनानां विट-चरित-भृतः शैशिरा वान्ति वाताः

2.100

केशानाकुलयन् दृशो मुकुलयन् वासो बलाद् आक्षिपन्नातन्वन्
पुलकोद्गमं प्रकटयन्न् आवेग-कम्पं शनैः ।
बारं बारम् उदार-सीत्कृत-कृतो दन्त-च्छदान् पीडयन्
प्रायः शैशिर एष सम्प्रति मरुत् कान्तासु कान्तायते

2.101

यद्य् अस्य नास्ति रुचिरं तस्मिंस् तस्य स्पृहा मनोज्ञे ऽपि ।
रमणीये ऽपि सुधांशौ न मनः-कामः सरोजिन्याः

2.102

वैराग्ये संचरत्य् एको नीतौ भ्रमति चापरः ।
शृङ्गारे रमते कश्चिद् भुवि भेदाः परस्परम्

मूल पाठ: Śatakatraya (1. Nītiśataka, 2. Śṛṅgāraśataka, 3. Vairāgyaśataka) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc