शास्त्रवार्त्तासमुच्चय · अध्याय 9.1
अन्ये पुनर् वदन्त्य् एवं मोक्ष एव न विद्यते
उपायाभावतः किं वा न सदा सर्वदेहिनाम् ॥
कर्मादिपरिणत्यादि सापेक्षो यद्य् असौ ततः
अनादिमत्त्वात् कर्मादि परिणत्यादि किं तथा ॥
तस्यैव चित्ररूपत्वात् तत् तथेति न युज्यते
उत्कृष्टा या स्थितिस् तस्य यज् जातानेकशः किल ॥
अत्रापि वर्णयन्त्य् अन्ये विद्यते दर्शनादिकः
उपायो मोक्षतत्त्वस्य परः सर्वज्ञभाषितः ॥
दर्शनं मुक्तिबीजं च सम्यक्त्वं तत्त्ववेदनम्
दुःखान्तकृत् सुखारम्भः पर्यायास् तस्य कीर्तिताः ॥
अनादिभव्यभावस्य तत्स्वभावत्वयोगतः
उत्कृष्टाद्यास्वतीतासु तथा कर्मस्थितिष्व् अलम् ॥
तद् दर्शनम् अवाप्नोति कर्मग्रन्थिं सुदारुणम्
निर्भिद्य शुभभावेन कदाचित् कश्चिद् एव हि ॥
सति चास्मिन्न् असौ धन्यः सम्यग्दर्शनसंयुतः
तत्त्वश्रद्धानपूतात्मा रमते न भवोदधौ ॥
स पश्यत्य् अस्य यद् रूपं भावतो बुद्धिचक्षुषा
सम्यक्शास्त्रानुसारेण रूपं नष्टाक्षिरोगवत् ॥
तद् दृष्ट्वा चिन्तयत्य् एवं प्रशान्तेनान्तरात्मना
भावगर्भं यथाभावं परं संवेगम् आश्रितः ॥
जन्ममृत्युजराव्याधि रोगशोकाद्युपद्रुतः
क्लेशाय केवलं पुंसाम् अहो भीमो महोदधिः ॥
सुखाय तु परं मोक्षो जन्मादिक्लेशवर्जितः
भयशक्त्या विनिर्मुक्तो व्याबाधावर्जितः सदा ॥
हेतुर् भवस्य हिंसादिर् दुःखाद्यन्वयदर्शनात्
मुक्तेः पुनर् अहिंसादिर् व्याबाधाविनिवृत्तितः ॥
बुद्ध्वैवं भवनैर्गुण्यं मुक्तेश् च गुणरूपताम्
तद् अर्थं चेष्टते नित्यं विशुद्धात्मा यथागमम् ॥
दुष्करं क्षुद्रसत्त्वानाम् अनुष्ठानं करोत्य् असौ
मुक्तौ दृढानुरागत्वात् कामीव विनितान्तरे ॥
उपादेयविशेषस्य न यत् सम्यक् प्रसाधनम्
दुनोति चेतो ऽनुष्ठानं तद्भावप्रतिबन्धतः ॥
ततश् च दुष्करं तन् न सम्यग् आलोच्यते यदा
अतो ऽन्यद् दुष्करं न्यायाद् हेयवस्तुप्रसाधकम् ॥
व्याधिग्रस्तो यथारोग्य लेशम् आस्वादयन् बुद्धः
कष्टे ऽप्य् उपक्रमे धीरः सम्यक् प्रीत्या प्रवर्तते ॥
संसारव्याधिना ग्रस्तस् तद्वज् ज्ञेयो नरोत्तमः
शमारोग्यलवं प्राप्य भावतस् तदुपक्रमे ॥
प्रवर्तमान एवं च यथाशक्ति स्थिराशयः
शुद्धं चारित्रम् आसाद्य केवलं लभते क्रमात् ॥
ततः स सर्वविद् भूत्वा भवोपग्राहिकर्मणः
ज्ञानयोगात् क्षयं कृत्वा मोक्षम् आप्नोति शाश्वतम् ॥
ज्ञानयोगस् तपः शुद्धम् इत्य् आदि यद् उदीरितम्
ऐदम्पर्येण भावार्थस् तस्यायम् अभिधीयते ॥
ज्ञानयोगस्य योगीन्द्रैः परा काष्ठा प्रकीर्तिता
शैलेशीसंज्ञितं स्थैर्यं ततो मुक्तिर् असंशयम् ॥
धर्मस् तच् चात्मधर्मत्वान् मुक्तिदः शुद्धिसाधनात्
अक्षयो ऽप्रतिपातित्वात् सदा मुक्तौ तथा स्थितेः ॥
चारित्रपरिणामस्य निवृत्तिर् न च सर्वथा
सिद्ध उक्तो यतः शास्त्रे न चारित्री न चेतरः ॥
न चावस्थानिवृत्त्येह निवृत्तिस् तस्य युज्यते
समयातिक्रमे यद्वत् सिद्धभावश् च तत्र वै ॥
ज्ञानयोगाद् अतो मुक्तिर् इति सम्यग् व्यवस्थितम्
तन्त्रान्तरानुरोधेन गीतं चेत्थं न दोषकृत् ॥
मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0