भाषा

ENहिગુ
ग्रंथ पाठ

शास्त्रवार्त्तासमुच्चय · अध्याय 10.1

10.1.580

अत्राप्य् अभिदधत्य् अन्ये सर्वज्ञो नैव विद्यते
तद्ग्राहकप्रमाभावाद् इति न्यायानुसारिणः ॥

10.1.581

प्रत्यक्षेण प्रमाणेन सर्वज्ञो नैव गृह्यते
लिङ्गम् अप्य् अविनाभावि तेन किञ्चिन् न विद्यते ॥

10.1.582

न चागमेन यद् असौ विध्यादिप्रतिपादकः
अप्रत्यक्षत्वतो नैवो पमानेनापि गम्यते ॥

10.1.583

नार्थापत्त्यापि सर्वो ऽर्थस् तं विनाप्य् उपपद्यते
प्रमाणपञ्चकावृत्तेस् तत्राभावप्रमाणता ॥

10.1.584

धर्माधर्मव्यवस्था तु वेदाख्याद् आगमात् किल
अपौरुषेयो ऽसौ यस्माद् हेतुदोषविवर्जितः ॥

10.1.585

आह चालोकवद् वेदे सर्वसाधारणे सति
धर्माधर्मपरिज्ञाता किम् अर्थं कल्प्यते नरः ॥

10.1.586

ईष्टापूर्तादिभेदो ऽस्मात् सर्वलोकप्रतिष्ठितः
व्यवहारप्रसिद्धयैव यथैव दिवसादयः ॥

10.1.587

ऋत्विग्भिर् मन्त्रसंस्कारैर् ब्राह्मणानां समक्षतः
अन्तर्वेद्यां तु यद् दत्तम् इष्टं तद् अभिधीयते ॥

10.1.588

वापीकूपतङागानि देवतायतनानि च
अन्नप्रदानम् इत्य् एतत् पूर्त्तम् इत्य् अभिधीयते ॥

10.1.589

अतो ऽपि शुक्लं यद् वृत्तं निरीहस्य महात्मनः
ध्यानादि मोक्षफलदं श्रेयस् तद् अभिधीयते ॥

10.1.590

वर्णाश्रमव्यवस्थापि सर्वा तत्प्रभवैव हि
अतीन्द्रियार्थद्रष्टा तन् नास्ति किञ्चित् प्रयोजनम् ॥

10.1.591

अत्रापि ब्रुवते केचिद् इत्थं सर्वज्ञवादिनः
प्रमाणपञ्चकावृत्तिः कथं तत्रोपपद्यते ॥

10.1.592

सर्वार्थविषयं तच् चेत् प्रत्यक्षं तन् निषेधकृत्
अभावः कथम् एतस्य न चेद् अत्राप्य् अदः समम् ॥

10.1.593

धर्मादयो ऽपि चाध्यक्षाः ज्ञेयभावाद् घटादिवत्
कस्यचित् सर्व एवेति नानुमानं न विद्यते ॥

10.1.594

आगमाद् अपि तत्सिद्धिर् यद् असौ चोदनाफलम्
प्रामाण्यं च स्वतस् तस्य नित्यत्वम् च श्रुतेर् इव ॥

10.1.595

हृद्गताशेषसंशीति निर्णयात् तद्ग्रहे पुनः
उपमान्यग्रहे तत्र न चान्यत्रापि चान्यथा ॥

10.1.596

शास्त्राद् अतीन्द्रियगतेर् अर्थापत्त्यापि गम्यते
अन्यथा तत्र नाश्वासश् छद्मस्थस्योपजायते ॥

10.1.597

प्रमाणपञ्चकावृत्तिर् एवं तत्र न युज्यते
तथाप्य् अभावप्रामाण्यम् इति ध्यान्ध्यविजृम्भितम् ॥

10.1.598

वेदाद् धर्मादिसंस्थापि हन्तातीन्द्रियदर्शिनम्
विहाय गम्यते सम्यक् कुत एतद् विचिन्त्यताम् ॥

10.1.599

न वृद्धसम्प्रदायेन छिन्नमूलत्वयोगतः
न चार्वाग्दर्शिना तस्यात् -ईन्द्रियार्थो ऽवसीयते ॥

10.1.600

प्रामाण्यं रूपविषये संप्रदाये न युक्तिमत्
यथानादिमदन्धानां तथात्रापि निरूप्यताम् ॥

10.1.601

न लौकिकपदार्थेन तत्पदार्थस्य तुल्यता
निश्चेतुं पार्यते ऽन्यत्र तद्विपर्ययदर्शनात् ॥

10.1.602

नित्यत्वापौरुषेयत्वाद् यस्ति किञ्चिद् अलौकिकम्
तत्रान्यत्राप्य् अतः शङ्का विदुषो न निवर्तते ॥

10.1.603

तन्निवृत्तौ च नोपायो विनातीन्द्रियवेदिनम्
एवं च कृत्वा साध्व् एतत् कीर्तितं धर्मकीर्तिना ॥

10.1.604

स्वयं रागादिमान्नार्थं वेत्ति वेदस्य नान्यतः
न वेदयति वेदो ऽपि वेदार्थस्य गतिः कुतः ॥

10.1.605

तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ
खादेत् श्वमांसम् इत्य् एष नार्थ इत्य् अत्र का प्रमा ॥

10.1.606

प्रदीपादिवदिष्टश् चेत् तच्छब्दो ऽर्थप्रकाशकः
स्वत एव प्रमाणं न किञ्चिद् अत्रापि विद्यते ॥

10.1.607

विपरीतप्रकाशश् च ध्रुवम् आपद्यते क्वचित्
तथा हीन्दीवरे दीपः प्रकाशयति रक्तताम् ॥

10.1.608

तस्मान् न चाविशेषेण प्रतीतिर् उपजायते
सङ्केतसव्यपेक्षत्वे स्वत एवेत्ययुक्तिमत् ॥

10.1.609

साधुर् न वेति सङ्केतो न चाशङ्का निवर्तते
तद्वैचित्र्योपलब्धेश् च स्वाशयाभिनिवेशतः ॥

10.1.610

व्याख्याप्य् अपौरुषेय्यस्य मानाभावान् न सङ्गता
मिथो विरुद्धभावाच् च तत्साधुत्वाद्यनिश्चितेः ॥

10.1.611

नान्यप्रमाणसंवादात् तत्साधुत्वविनिश्चयः
सो ऽतीन्द्रिये न यन्न्याय्यस् तत्तद्भावविरोधतः ॥

10.1.612

तस्माद् व्याख्यानम् अस्येदं स्वाभिप्रायनिवेदनम्
जैमिन्यादेर् न तुल्यं किं वचनेनापरेण वः ॥

10.1.613

एष स्थाणुर् अयं मार्ग इति वक्तीह कश्चन
अन्यः स्वयं ब्रवीमीति तयोर् भेदः परीक्ष्यताम् ॥

10.1.614

न चाप्य् अपौरुषेयो ऽसौ घटते सूपपत्तितः
वक्तृव्यापारवैकल्ये तच्छब्दानुपलब्धितः ॥

10.1.615

वक्तृव्यापारभावेति तद्भावे लौकिकं न किम्
अपौरुषेयम् इष्टं वो वचो द्रव्यव्यपेक्षया ॥

10.1.616

दृश्यमाने ऽपि चाशङ्का -दृश्यकर्तृसमुद्भवा
नातीन्द्रियार्थद्रषारम् अन्तरेण निवर्तते ॥

10.1.617

पापाद् अत्रेदृशी बुद्धिर् न पुण्याद् इति न प्रमा
न लोको हि विगानत्वात् तद्बहुत्वाद्यनिश्चितेः ॥

10.1.618

बहूनाम् अपि संमोह भावान् मिथ्याप्रवर्तनात्
मानसंख्याविरोधाच् च कथम् इत्थम् इदं ननु ॥

10.1.619

अतीन्द्रियार्थद्रष्टा तु पुमान् कश्चिद् यदीष्यते
संभवद्विषयापि स्याद् एवंभूतार्थकल्पना ॥

10.1.620

अपौरुषेयताप्य् अस्य नान्यतो ह्य् अवगम्यते
कर्तुर् अस्मरणादीनां व्यभिचारादिदोषतः ॥

10.1.621

नाभ्यास एवम् आदीनाम् अपि कर्ताविगानतः
स्मर्यते च विगानेन हन्तेहाप्य् अष्टकादयः ॥

10.1.622

अभ्यासः कर्मणां सत्यम् उत्पादयति कौशलम्
स्वकृताध्ययनस्यापि तद्भावो न विरुध्यते
गौरवापादनार्थं च तथा स्याद् अनिवेदनम् ॥

10.1.623

मन्त्रादीनां च सामर्थ्यं शाबराणाम् अपि स्फुटम्
प्रतीतं सर्वलोके ऽपि न चाप्य् अव्यभिचारि तत् ॥

10.1.624

वेदे ऽपि पठ्यते ह्य् एष महात्मा तत्र तत्र यत्
स च मानमतो ऽप्य् अस्या -सत्त्वं वक्तुं न युज्यते ॥

10.1.625

न चाप्य् अतीन्द्रियार्थत्वाज् ज्यायो विषयकल्पनम्
असाक्षाद्दर्शिनस् तत्र रूपे ऽन्धस्य् एव सर्वथा ॥

10.1.626

सर्वज्ञेन ह्य् अभिव्यक्तात् सर्वार्थादागमात् परा
धर्माधर्मव्यवस्थेयं युज्यते नान्यतः क्वचित् ॥

मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc