भाषा

ENहिગુ
ग्रंथ पाठ

शास्त्रवार्त्तासमुच्चय · अध्याय 6.5

6.5.464

अन्ये त्व् अभिदधत्य् एवम् एतद् आस्थानिवृत्तये
क्षणिकं सर्वम् एवेति बुद्धेनोक्तं न तत्त्वतः ॥

6.5.465

विज्ञानमात्रम् अप्य् एवं बाह्यासंगनिवृत्तये
विनेयान् कांश्चिद् आश्रित्य यद् वा तद् देशनार्हतः ॥

6.5.466

न चैतद् अपि न न्याय्यं यतो बुद्धो महामुनिः
सुवैद्यवद् विना कार्यं द्रव्यासत्यं न भाषते ॥

मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc