शास्त्रवार्त्तासमुच्चय · अध्याय 6.4
अन्ते क्षयेक्षणं चाद्य क्षणक्षयप्रसाधनम्
तस्यैव तत्स्वभावत्वात् युज्यते न कदाचन ॥
आदौ क्षयस्वभावत्वे तत्रान्ते दर्शनं कथम्
तुल्यापरापरोत्पत्ति विप्रलम्भाद् यथोदितम् ॥
अन्ते क्षयेक्षणाद् आदौ क्षयो ऽदृष्टो ऽनुमीयते
सदृशेनावरुद्धत्वात् तद्ग्रहाद् हि तदग्रहः ॥
एतद् अप्य् असद् एवेति सदृशो भिन्न एव यत्
भेदाग्रहे कथं तस्य तत्स्वभावत्वतो ग्रहः ॥
तदर्थनियतो ऽसौ यद् भेदम् अन्याग्रहाद् हि तत्
न गृह्णातीति चेत् तुल्यः सो ऽपरेण कुतो गतिः ॥
तथागतेर् अभावे च वचस् तुच्छम् इदं ननु
सदृशेनावरुद्धत्वात् तद्ग्रहाद् हि तदग्रहः ॥
भावे चास्या बलाद् एकम् अनेकग्रहणात्मकम्
अन्वयि ज्ञानम् एष्टव्यं सर्वं तत् क्षणिकं कुतः ॥
ज्ञानेन गृह्यते चार्थो न चापि परदर्शने
तदभावे तु तद्भावात् कदाचिद् अपि तत्त्वतः ॥
ग्रहणे ऽपि यदा ज्ञानम् अपैत्य् उत्पत्त्यनन्तरम्
तदा तत् तस्य जानाति क्षणिकत्वं कथं ननु ॥
तस्यैव तत्स्वभावत्वात् स्वात्मनैव तदुद्भवात्
यथा नीलादि ताद्रूप्यान् नैतन् मिथ्यात्वसंशयात् ॥
न चापि स्वानुमानेन धर्मभेदस्य संभवात्
लिङ्गधर्मातिपाताच् च तत्स्वभावाद्ययोगतः ॥
नित्यस्यार्थक्रियायोगो ऽप्य् एवं युक्त्या न गम्यते
सर्वम् एवाविशेषेण विज्ञानं क्षणिकं यतः ॥
तथा चित्रस्वभावत्वान् न चार्थस्य न युज्यते
अर्थक्रिया ननु न्यायात् क्रमाक्रमविभाविनी ॥
मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0