भाषा

ENहिગુ
ग्रंथ पाठ

शास्त्रवार्त्तासमुच्चय · अध्याय 6.3

6.3.444

परिणामो ऽपि नो हेतुः क्षणिकत्वप्रसाधने
सर्वदैवान्यथात्वे ऽपि तथाभावोपलब्धितः ॥

6.3.445

नार्थान्तरगमो यस्मात् सर्वथैव न चागमः
परिणामः प्रमासिद्धः इष्टश् च खलु पण्डितैः ॥

6.3.446

यच् चेदम् उच्यते ब्रूमो ऽतादवस्थ्यमनित्यताम्
एतत् तद् एव न भवत्य् अतो ऽन्यत्वे ध्रुवो ऽन्वयः ॥

6.3.447

तद् एव न भवत्य् एतत् तच् च न भवतीति च
विरुद्धं हन्त किंचान्यद् आदिमत् तत् प्रसज्यते ॥

6.3.448

क्षीरनाशश् च दध्य् एव यद् दृष्टं गोरसान्वितम्
न तु तैलाद्यतः सिद्ध परिणमो ऽन्वयावहः ॥

6.3.449

नासत् सज्जायते जातु सच् चासत् सर्वथैव हि
शक्त्यभावाद् अतिव्याप्तेः सत्स्वभावत्वहानितः ॥

6.3.450

नित्येतरदतो न्यायात् तत् तथाभावतो हि तत्
प्रतीतिसचिवात् सम्यक् परिणामेन गम्यते ॥

मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc