शास्त्रवार्त्तासमुच्चय · अध्याय 6.2
अर्थक्रियासमर्थत्वं क्षणिके यच् च गीयते
उत्पत्त्यनन्तरं नाशाद् विज्ञेयं तदयुक्तिमत् ॥
अर्थक्रिया यतो ऽसौ वा तदन्या वा द्वयी गतिः
तत्त्वे न तत्र सामर्थ्यम् अन्यतस् तत्समुद्भवात् ॥
न स्वसंधारणे न्यायात् जन्मानन्तरनाशतः
न च नाशे ऽपि सद्युक्त्या तद्धेतोस् तत्समुद्भवात् ॥
अन्यत्वे ऽन्यस्य सामर्थ्यम् अन्यत्रेति न संगतम्
ततो ऽन्यभाव एवैतन् नासौ न्याय्यो दलं विना ॥
नासत् सत् जायते यस्माद् अन्यसत्त्वस्थिताव् अपि
तस्यैव तु तथाभावे नन्व् असिद्धो ऽन्वयः कथम् ॥
भूतिर् यैषां क्रिया सोक्ता न चासौ युज्यते क्वचित्
कर्तृभोक्तृस्वभावत्व विरोधाद् इति चिन्त्यताम् ॥
न चातीतस्य सामर्थ्यं तस्याम् इति निदर्शितम्
न चान्यो लौकिकः कश्चिच् छब्दार्थो ऽत्रेत्ययुक्तिमत् ॥
मूल पाठ: Śāstravārttāsamuccaya · Edition: K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) · Data entry Yasunori Harada · GRETIL (Göttingen) · CC BY-NC-SA 4.0